________________
२३६
बृहत्कल्प-छेदसूत्रम् -३-४/१३४ __ वृ-तत्र नीयमाने स्थण्डिलस्योदक-हरितादिभिव्या_तो भवेत्, अनाभोगेन वा स्थण्डिलमतिक्रान्तं भवेत्, ततः 'भ्रमित्वा' प्रदक्षिणामकुर्वाणा उपागच्छेयुः, तेनैव पथा न निवर्तेरन् ।। जइ तेनेव मग्गेण नियत्तंति तो असमायारी, कयाइ उडेजा, सो यजओ चेव उट्ठइ तओ चेव पहावइ, तत्थ जओ गामो ततो धाविजा तत एवं कर्त्तव्यम्[भा.५५२९] वाघायम्मि ठवेउं, पुव्वं व अपेहियम्म थंडिल्ले।
तह नेति जहा से कमा, नहोति गामस्स पडिहुत्ता॥ वृस्थण्डिलस्य व्याघाते पूर्व वा स्थण्डिलं न प्रत्युपेक्षितं ततस्तद् मृतकमेकान्ते स्थापयित्वा स्थण्डिलं च प्रत्युपेक्ष्य तथा भ्रमयित्वा नयति यथा तस्य 'क्रमौ' पादौ ग्राम प्रति अभिमुखौ न भवतः॥अथ मात्रकद्वारमाह[भा.५५३०] सुत्त-ऽत्थतदुभयविऊ, पुरतो घेत्तूण पानग कुसे य। .
गच्छति जइ सागरियं, परिट्ठवेऊण आयमनं ॥ वृ-सूत्रा-ऽर्थ-तदुभयवेदी मात्रकेऽसंसृषटपानकं 'कुशांश्च दर्भान् ‘समच्छेदान्' परस्परमसम्बद्धान् हस्तचतुरङ्गुलप्रमाणान् गृहीत्वापृष्ठतोऽनपेक्षमाणः पुरतः अग्रतःस्थण्डिलाभिमुखो गच्छति । दर्भाणामभावे चूर्णानि केशराणि वा गृह्यन्ते । यदि सागारिकं ततः शबं परिष्ठाप्य 'आचमनं' हस्त-पादशौचादिकंकर्तव्यम्। आचमनग्रहणेनेदंज्ञापयति-यथा यथा प्रवचनोड्डाहो न भवति तथा तथा अपरमपि विधेयम् ॥अथ शीर्षद्वारमाह[भा.५५३१] जत्तो दिसाए गामो, तत्तो सीसंतु होइ कायव्वं ।
उठेंतरखणहा, अमंगलं लोगगरिहाय॥ वृ-यस्यां दिशिग्रामस्ततःशीर्षशबस्य प्रतिश्रयाद् नीयमानस्यपरिष्ठाप्यमानस्य च कर्तव्यम्। किमर्थम् ? इत्याह-उत्तिष्ठतो रक्षणार्थम्, यदि नाम कथञ्चिदुत्तिष्ठते तथापि प्रतिश्रयाभिमुखं नागच्छतीति भावः । अपि च-यस्यां दिशि ग्रामस्तदभिमुखं पादयोः क्रियमाणयोरमङ्गलं भवति, लोकश्च गहाँ कुर्यात्-अहो! अमी श्रमणका एतदपिनजानन्ति यद्ग्रामाभिमुखं शबंन क्रियते।।
अथ तृणादिद्वारमाह[भा.५५३२] कुसमुट्ठिएण एक्केणं, अव्वोच्छिन्नाए तत्थ धाराए।
संथार संथरिजा, सव्वत्थ समो य कायव्वो॥ वृ-यदास्थण्डिलंप्रमार्जितंभवतितदा कुशमुष्टिनैकेनाव्यवच्छिन्नयाधारयासंस्तारकंसंस्तरेत, सच सर्वत्र समः कर्तव्यः॥विषमे एते दोषाः[भा.५५३३] वसमा जति होज्ज तणा, उवरिं मझे तहेव हेट्ठा य।
मरणं गेलनं वा, तिण्हं पि उ निद्दिसे तत्थ ।। वृ-'विषमाणि' तृणानि यदि तस्मिन् संस्तारके उपरि वा मध्ये वाऽधस्ताद्वा भवेयुः तदा त्रयाणामपि मरणं ग्लानत्वं वा निर्दिशेत् ॥ केषां त्रयाणाम् ? इत्याह[भा.५५३४] उवरिं आयरियाणं, मज्झे वसभाण हेडिभिक्खूणं ।
तिण्हं पि रक्खणट्ठा, सव्वत्थ समा य कायव्वा ।। वृ- उपरि विषमेषु तृणेषु आचार्याणां मध्ये वृषभाणामधस्ताद् भिक्षूणां मरणं ग्लानत्वं वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org