________________
२३७
उद्देशक : ४, मूलं-१३४, [भा. ५५३४] भवेत्, अतस्त्रयाणामपि रक्षणार्थं सर्वत्र समानि तृणानि कर्तव्यानि ।। [भा.५५३५] जत्थ य नत्थि तिणाई, चुन्नेहिं तत्थ केसरेहिं वा ।
कायव्योऽत्थ ककारो, हेट्ठ तकारं च बंधेजा। वृ-यत्र तृणानि न सन्ति तत्र चूर्णैर्वा नागरकेशरैर्वाऽव्यवच्छिन्नया धारया ककारः कर्तव्यः तस्याधस्तात् तकारं च बध्नीयात्, क्त इत्यर्थः । चूर्णानां केशराणां चाभावे प्रलेपकादिभिरपि क्रियते॥अथोपकरणद्वारमाह[भा.५५३६] चिंधट्ठा उवगरणं, दोसा तु भवे अचिंधकरणम्मि।
मिच्छत्त सोवराया, कुणति गामाण वहकरणं॥ वृ-परिष्ठाप्यमानेचिह्नार्थंयथाजातमुपकरणंपार्वेस्थापनीयम्। तद्यथा-रजोहरणंमुखपोतिका चोलपट्टकः । यदि एतद् न स्थापयन्तिततश्चतुर्गुरु ।आज्ञादयश्च दोषाः चिह्नस्याकरणे भवन्ति। 'स वा' कालगतो मिथ्यात्वं गच्छेत् । राजा वा जनपरम्परया तं ज्ञात्वा 'कश्चिद् मनुष्योऽमीभिरपद्रावितः' इति बुध्या कुपितः प्रत्यासन्नवर्तिनां द्विव्यादीनां ग्रामाणां वधं कुर्यात् ।।
अथैतदेव भावयति[भा.५५३७] उवगरणमहाजाते, अकरणे उज्जेनिभिक्खुदिटुंतो।
लिंगं अपेच्छमाणो, काले वइरंतु पाडेत्ति ॥ वृ-यथाजतमुपकरणंयदितस्यपाइँन कुर्वन्तिततोऽसौ देवलोकगतः प्रयुक्तावधि अहमनेन गृहलिङ्गेन परलिङ्गेन वा देवो जातः' इति मिथ्यात्वं गच्छेत् । उज्जयिनीभिक्षुदृष्टान्तश्चात्र भवति, सचावश्यकटीकातोमन्तव्यः । यस्य वा ग्रामस्य पार्वे परिष्ठापितः तत्र तत्पाबें लिङ्गमपश्यन लोको राजानं विज्ञपयेत्। सच 'केनाप्यपद्रावितोऽयम्' इति मत्वा कालेन प्रतिवैरंपातयति, वैरं निर्यातयतीति भावः ॥ कायोत्सर्गद्वारमाह[भा.५५३८] उट्ठाणाई दोसा, हवंति तत्थव काउसग्गम्मि।
आगम्मुवस्सयं गुरुसमीव अविहीय उस्सग्गो॥ वृ- 'तत्रैव' परिष्ठापनभूमिकायां कायोत्सर्गे क्रियमाणे उत्थानादयो दोषा भवन्ति, अत उपाश्रयमागम्य गुरुसमीपेऽविधिपरिष्ठापनिकायाः कायोत्सर्ग कर्तव्यः॥ प्रादक्षिण्यद्वारमाह[भा.५५३९] जो जहियं सो तत्तो, नियत्तइपयाहिणं न कायव्वं ।
उठाणादी दोसा, विराधना बाल-वुड्डाणं॥ वृ-शबं परिष्ठाप्य यो यत्र भवति स ततो निवर्तते, प्रादक्षिण्यं न कर्तव्यम् । यदि कुर्वन्ति तत उत्थानादयो दोषा बाल-वृद्धानां च विराधना भवति ॥अथाभ्युत्थानद्वारमाह[भा.५५४०] जइ पुन अनीनिओवा, नीनिजंतो विविंचिओ वा वि।
उडेज समाइट्ठो, तत्थ इमा मग्गणा होति॥ वृ-यदि पुनः स कालगतोऽनिष्काशितो वा निष्काश्यमानो वा 'विविक्तो वा' परिष्ठापितो व्यन्तरसमाविष्ट उत्तिष्ठेत् ततस्तत्रेयं मार्गणा भवति॥ [भा.५५४१] वसहि निवेसन साही, गाममज्झे य गामदारे य।
अंतर उज्जानंतर, निसीहिया उहितै वोच्छं।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org