________________
२३८
बृहत्कल्प - छेदसूत्रम् - ३-४/१३४
वृ- वसतौ वा स उत्तिष्ठेत्, 'निवेशने वा' पाटके 'साहिकायां वा' गृहपङ्क्तेिरूपायां ग्राममध्ये वा ग्रामद्वारे वा ग्रामोद्यानयोरन्तरा वा उद्याने वा उद्यान - नैषेधिक्योरन्तरा वा 'नैषेधिक्यां वा' शबपरिष्ठापनभूम्याम्, एतेषु उत्थिते यो विधिस्तं वक्ष्यामि ।। प्रतिज्ञातमेव करोति
[ भा. ५५४२ ] उवस्सय निवेसन साही, गामद्धे दारे गामो मोत्तव्वो । मंडल कंड से, निसीहियाए य रज्जं तु ॥
वृ- तत् कडेवरं नीयमानं यदि वसतावुत्तिष्ठति तत उपाश्रयो मोक्तव्यः । अथ निवेशने उत्तिष्ठति ततो निवेशनं मोक्तव्यम् । साहिकायामुत्थिते साहिका मोक्तव्या । ग्राममध्ये उत्थिते ग्रामार्द्ध मोक्तव्यम् । ग्रामद्वारे उत्थिते ग्रामो मोक्तव्यः । ग्रामस्य चोद्यानस्य चान्तरा यदि उत्तिष्ठति तदा विषयमण्डलं मोक्तव्यम् । उद्याने उत्थिते 'कण्डं' देशखण्डं मण्डलाद् बृहत्तरं परित्यक्तव्यम् । उद्यानस्य नैषेधिक्याश्चान्तराले उत्तिष्ठति देशः परिहर्तव्यः । नैषेधिक्यामुत्थिते राज्यं परिहरणीयम् ।। एवं तावन्नीयमानस्योत्थाने विधिरुक्तः । परिष्ठापिते च तस्मिन् गीतार्था एकस्मिन् पार्श्वे मुहूर्त प्रतीक्षन्ते, कदाचित् परिष्ठापितोऽप्युत्तिष्ठेत् तत्र चायं विधिः
[भा. ५५४३] वच्चंते जो उ कमो, कलेवरपवेसणम्मि वोच्चत्थो । नवरं पुन नाणत्तं, गामद्दारम्मि बोद्धव्वं ॥
वृ- 'व्रजतां' निर्गच्छतां कडेवरस्योत्थाने यः क्रमो भणितः स एव विपर्यस्तः कडेवरस्य परिष्ठापितस्य भूयः प्रवेशने विज्ञेयः । नवरं पुनरत्र नानात्वं ग्रामद्वारे बोद्धव्यम्, तत्र वैपरीत्यं न भवति किन्तु तुल्यतैवेति भावः । तथा चात्र वृद्धसम्प्रदायः- निसीहियाए परिट्ठविओ जइ उट्ठेत्ता तत्थेव पडिज्जा ताहे उवस्सओ मोत्तव्वो । निसीहियाए उज्जानस्स य अंतरा पडइ निवेसनं मोत्तव्वं । उज्जाने पडइ साही मोत्तव्वा । उज्जानस्स य गामस्स य अंतरा पडइ गामद्धं मोत्तव्वं । गामद्दारे पडइ गाम मोत्तव्वो । गाममझे पडइ मंडलं मोत्तव्वं । साहीए पडइ देसखंड मोत्तव्वं । निवेसने पडइ देसी मोत्तव्वो । वसही पडइ रज्जं मोत्तव्वं ॥ अत्र निर्गमने प्रवेशने च ग्रामद्वारोत्थाने ग्रामत्याग एवोक्त इति ग्रामद्वारे तुल्यतैव न वैपरीत्यम् ॥
अथ परिष्ठापितो द्व्यादिवारान् वसतिं प्रविशति ततोऽयं विधिः
[भा. ५५४४] बिइयं वसहिमतिंते, तगं च अन्नं च मुञ्चते रज्जं । तिप्पभितिं तिन्नेव उ, मुयंति रज्जाई पविसंते ॥
वृ-निर्यूढो यदि द्वितीयं वारं वसतिं प्रविशति तदा च्चान्यच्च राज्यं मुच्यते, राज्यद्वयमित्यर्थः । अथ 'त्रिप्रभृतीन् ' त्रीन् चतुरो बहुशो वा वारान् वसतिं प्रविशति तदा त्रीण्येव राज्यानि मुञ्चति ॥ [भा. ५५४५] असिवाई बहिया कारणेहिं, तत्थेव वसंति जस्स जो उ तवो। अभिगहिया ऽनभिगहितो, सा तस्स उ जोगपरिवुट्टी ॥
वृ- यदि बहिरशिवादिभिः कारणैर्न निर्गच्छन्ति ततस्तत्रैव वसतां यस्य यत् तपोऽभिगृहीतमनभिगृहीतं वा तेन तस्य वृद्धिः कर्तव्या, सा च योगपरिवृद्धिरभिधीयते । किमुक्तं भवति ? - येन नमस्कारप्रत्याख्यायिनस्ते पौरुषीं कुर्वन्ति, पौरुषीप्रत्याख्यायिनः पूर्वार्द्धं कृत्वा शक्ती सत्यामाचाम्लं पारयन्ति, शक्तेरभावे निर्विकृतिकमेकासनकं यावद् द्व्यासनकमपि । यदाह चूर्णिकृत् सइ सामत्थे आयंबिलं पारिंति, असइ निव्वीयं एक्कासनयं, असमत्था सबीइयं पि त्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org