________________
१३
उद्देशकः ३, मूलं-९७, [भा. ४४५७] [भा.४४५७] चंकमणे पुन भइयं, मा पलिमंथो गुरूविदिन्नम्मि।
पणिवायवंदनं पुन, काऊण सई जहाजोगं । वृ- पुनःशब्दो विशेषणे, स चैतद् विशिनष्टि-प्रश्रवण-विचारभूम्यादेरागतस्य गुरोः कर्त्तव्यमेवाभ्युत्थानम्, चक्रमणे पुनः भक्तं' विकल्पितम् । कथम् ? इति अत आह-मा सूत्राऽर्थपरावर्तनयोः ‘परिमन्थः' व्याघातो भवत्विति कृत्वा यदि गुरवोऽनभ्युत्थानं वितरन्ति तदानाभ्युत्थातव्यम्, परमेवंगुरुभिर्वितीर्णेसति सकृद्' एकवारमभ्युत्थानंविधाय 'प्रणिपातवन्दनं' शिरःप्रणामलक्षमं कृत्वा ‘भगवन् ! अनुजानीध्वम्' इति भणित्वा 'यथायोगं' यथेप्सितं सूत्रार्थगुणनादिकंव्यापारं कुर्यात् । अथ गुरवोन वारयन्ति ततो नियमादभ्युत्थातव्यम्॥पुनरपि परः प्रेरयति-यदि चङ्क्रमणा-ऽभ्युत्थाने सूत्रार्थपरिमन्थदोषो भवति तत इदमस्माभिरुच्यते[भा.४४५८] अइमुद्धमिदं वुच्चइ, जं चंकमणे वि होइ उट्ठाणं ।
एवमकारिजंता, भद्दगभोई व मा कुजा। वृ- ‘अतिमुग्धम्' अतीवाप्रबुद्धजनोचितमिदं भवद्भिरुच्यते-यत् चङ्क्रमणेऽप्यभ्युत्थानं कर्त्तव्यं भवति । सूरिराह-एवं चङ्क्रमणविषयमभ्युत्थानमकार्यमाणा भद्रकभोजिकस्येवप्रसङ्गतो माशेषमप्यविनयंकापुरिति कृत्वा चङ्क्रमणेऽप्यभ्युत्थानं कार्यन्ते।अथकोऽयंभद्रकभोजिकः? इति उच्यते-जहा-एगो भोइतो। तस्स रन्ना तुटेणं गामंडलं पसाएण दिन्न । सो तत्थ गतो ताहे ते गामिल्लगातुट्ठा ‘भद्दओसामीलद्धोति, ऋजुरित्यर्थः। तओतेभोइयं विनवेति-अम्हेतवपुत्तानुपुत्तियं भिचा जाया तो अम्हे 'चिंतणिज्ज'त्ति काउं करं पुवपरिमाणाओ थोवतरं करेहि । भोइएण अब्भुवगयं । अन्नया जंजंते विन्नति तं तं सो भद्दतो भोइतो तेसिं गामिल्लयाणं अनुग्गहं करेइ। अइवीसत्थत्तणेण लद्धपसरा तेजहारिहं विनयं भंसिउमाढत्ता। ततो भोइएणरुटेण ते गामिल्लया दंडिया, केइ उद्दविया । एस दिटुंतो । अयमत्थोवणओ-चंकमणअणब्भुट्ठाणे सेसं पि विनयं परिहविजा ततो रुट्ठो आयरिओ पच्छित्तदंडेण दंडिज्जा ।जे यतत्थ अच्चंतावराहिणोते गच्छाओ निच्छुभिज्जा । विनयमकारिजंता य ते इहलोए परलोए य परिचत्ता भवंति । आयरिओ य सरणमुवगयाणंतेसिंन सारक्खणकारी भवइअओचंकमणे विते अब्भुट्ठाणं कारिजंति॥अपि [भा.४४५९] वसभाण होति लहुगा, असारणे सारणे अपच्छित्ता।
ते वियपुरिसा दुविहा, पंजरभग्गा अभिमुहा य॥ वृ-ये ते गुरुचङ्क्रमणादिषु नाभ्युत्तिष्ठन्ति तान् यदि वृषभाः 'न सारयन्ति' 'कस्मादार्या ! नाभ्युत्तिष्ठथ ?' ततो वृषभाणां चतुर्लघवः । अथ वृषभैः प्रतिनोदिताः परं ते न प्रतिशृण्वन्ति ततः सारणे कृते सति वृषभा अप्रायश्चित्ता इतरे प्रायश्चित्तमापद्यन्ते । अनभ्युत्थाने असारणायां चामी दोषा भवन्ति-ये प्रतीच्छका उपसम्प्रत्प्रतिपत्त्यर्थमायातास्ते द्विविधाः पुरुषा भवन्तिपञ्जरभग्नाः संयमाभिमुखाश्च । तत्र गच्छे वसतां यद् आचार्योपाध्याय-प्रवर्तक-स्थविरगणावच्छेदिकाख्यपदस्थपञ्चकस्य पारतन्त्रयं या परस्परंप्रतिनोदना एतत् पञ्जरमुच्यते, एतस्मात् पञ्जराद् भग्नाः-निर्विनाः पञ्जरभग्नाः । संयमाभिमुखास्तु-पार्श्वस्थाद्यवमग्नविहारिगच्छात् चारित्राभिलाषिणः संविग्नगच्छं प्रवेष्टुकामाः । तत्र ये पञ्जरभग्ना आगतास्ते तामनभ्युत्थानविषयामप्रतिनोदनां दृष्ट्वा चिन्तयन्तिJain Education International
For Private & Personal Use Only
www.jainelibrary.org