________________
१२
बृहत्कल्प-छेदसूत्रम् -३-३/९७ वृ-'वाचिकसमिति म' भाषासमिति सा द्वितीया वाग्गुप्तिमन्तव्या । यदा किल भाषासमितो भवति तदाथा भाषाया असमितिप्रत्ययं सा द्वितीया वाग्गुप्तिमन्तव्या । यदा किल भाषासमितो भवति तदा यथा भाषायाअसमितिप्रत्ययं कर्मबन्धं निरुणद्धि तथा वागगुप्तिप्रत्ययमपिकर्मबन्धं निरुणद्धि, एवं भाषासमिति-वाग्गुप्तयोरेकत्वम् । 'तृतीया पुनः' एषणाख्या समिति 'मानसी' मानसिकोपयोगनिष्पन्ना । किमुक्तं भवति ?-यदा साधुरेषणासमितो भवति तदा श्रोत्रादिभिरिन्द्रियैर्हस्त-मात्रकधावनादिसमुत्थेषु शब्दादिषूपयुज्यते, अत एवास्या मनोगुप्तेश्चैकत्वम्। 'शेषास्तुसमितयः' ईर्या-ऽऽदाननिक्षेपोच्चारादिपारिष्ठापनिकाख्याः 'कायिक्यः' कायचेष्टानिष्पन्ना, अत एवासां तिसृणामपि कायगुप्तया सहैकत्वम्। __ "मणो उसव्वासुअविरुद्धो"त्तिमानसिक उपयोगः सर्वासु पञ्चस्वपिसमितिषु 'अविरुद्धः' समितिपञ्चकेऽप्यस्तीति भावः । अत एव मनोगुप्तस्य सचेष्टस्य सर्वासां समितीनां मनोगुप्तया सहैकत्वं मन्तव्यम् ॥ आह-भिक्षार्थं गृहद्वारे स्थितस्य तत्राहारादीनि कल्पनीयानि मार्गयतः श्रोत्रादिभिरुपयुक्तस्य भाषासमिति-मनोगुप्तयेषणासमितीनां तिसृणामपि सम्भवो दृश्यते अतः किमासामेकत्वम् उतान्यत्वम् ? इत्याशङ्कयाह[भा.४४५४] वयसमितो चिय जायइ, आहारादीणि कप्पणिज्जाणि।
एसणउवओगे पुन, सोयाई माणसा न वई॥ .. वृ- 'शङ्कित-मक्षितादिदशदोषरहितं मया ग्राह्यम्' इत्येषणासमितिभावसंयुक्तो यदा साधुराहारादीनि कल्पनीयानि मार्गयति तदा वाक्समित एवासौ जायते, न पुनर्मनोगुप्त इत्येवकारार्थः। यदातुश्रोत्रादिभिरेषणायामुपयोगकरोतितदामानसी नाम गुप्तिर्भवेत्, मनोगुप्तिरित्यर्थः, नपुनः ‘वाग्' भाषासमिति । इदमत्र तात्पर्यम्-भाषासमितिमनोगुप्तिश्चेतिद्वे समिति-गुप्ती युगपत्र भवतः किन्तु भिन्नकालम्, यद्यपिच "मनोयसव्वत्थ अविरुद्धो" ति वचनाद्भाषासमितावपि मानसिकोपयोगः समस्ति तथापि गौणत्वादसौ सन्नपिन विवक्ष्यत इति ॥अपि च[भा.४५५] जा विय ठियस्स चेट्ठा, हत्थादीणंतु भंगियाईसु।
सावि य इरियासमिती, न केवलं चंकमंतस्स ॥ वृ-न केवलं चक्रमतः' चङ्क्रमणेकुर्वतएवईर्यासमिति किन्तु स्थितस्य गमना-ऽऽगमनक्रियामकुर्वतः ‘भङ्गिकादिषु' भङ्गबहुल-गमबहुलादिश्रुतेषु परावर्तयमानेषु भङ्गकादिरचनाय याऽपि हस्तादीनांचेष्टा साऽपि परिस्पन्दरूपत्वादीर्यासमिति प्रतिपत्तव्या॥यच्च परेण प्रागुक्तम् “चङ्क्रमणं निरर्थकम्" इत्यादि तत्परिहाराय चङ्क्रमणगुणानुपदर्शयति[भा.४४५६] वायाई सट्ठाणं, वयंति कुविया उ सन्निरोहेणं ।
लाघवमग्गिपडुत्तं, परिस्समजतो य चंकमतो॥ कृ-अनुयोगदानादिनिमित्तंयश्चिरमेकस्थानोपवेशनलक्षणःसन्निरोधस्तेन 'कुपिताः स्वस्थानात् चलितायेवातादयो धातवस्तेचक्रमतो भूयः स्वस्थानं व्रजन्ति। लाघवं शरीरेलधुभावउपजायते। 'अग्निपटुत्वं' जाठरानलपाटवं च भवति । यश्च व्याख्यानादिजनितः परिश्रमस्तस्य जयः कृतो भवति । एते चङ्क्रमतो गुणा भवन्ति अतोन निरर्थकं चङ्क्रमणम् ।।आह-यद्येवंतत किमवश्यं तत्राभ्युत्थानं कर्तव्यम् उतन? इति अत्रोच्यते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
ww