________________
उद्देशकः ६, मूलं-२१३, [भा. ६३०३]
३९५ ततस्तस्यांबहुजनविज्ञातायांपूर्वोक्तंनवक्तव्यं किन्तु स्थापत्यापुत्राद्यहरणंप्रतिबोधनाय कथनीयम् । “आहरममाई" इत्यत्रादिशब्दव्याख्यानार्थमाह[भा.६३०४] सरभेद वन्नभेदं, अंतद्धाणं विरेयणं वा वि।
वरधनुग पुस्सभूती, गुलिया सुहुमे य झाणम्मि ।। वृ-गुटिकाप्रयोगतस्तस्याः स्वरभेदं वर्णभेदं वा कुर्यात् । यद्वा अन्तर्धानं ग्रामान्तरप्रेषणेन वा व्यवधानम् । विरेचनं वा ग्लानतोपदर्शनाय कारयितव्या येन 'कृच्छ्रेणैषा जीवति' इति ज्ञात्वा विसर्जयति । यदि वा वरधनुरिव गुटिकाप्रयोगतः गुटिकाप्रयोगतः पुष्यभूतिराचार्य इव वा सूक्ष्मध्यानवशतो निश्चला निरुच्छ्वासा तथा स्याद् यथा मृतेति ज्ञात्वा परित्यज्यते । विद्यामन्त्र-प्रयोगा वा तस्य प्रयोक्तव्या येन तैरभियोजितो मुत्कलयति। एतेषां प्रयोगाणामभावे राजा निमित्तेन धर्मकथया वाऽऽवय॑ते, ततस्तस्य प्रभावेण स प्रेर्यते ।।
अस्याऽपि प्रकारस्याभावे को विधिः? इत्याह[भा.६३०५] पासंडे व सहाए, गिण्हति तुझं पि एरिसं अस्थि ।
होहामो य सहाया, तुम विजो वा गणो बलितो॥ व-पाषण्डान वा सहायान गृह्णाति। अथ ते सहाया न भवन्ति तत इदंतान प्रति वक्तव्यम्युष्माकमपीशंप्रयोजनं भवे भविष्यति तदा युष्माकमपि वयं सहाया भविष्यामः । एवंतान् सहायान् कृत्वा तद्बलतः सप्रेरणीयः। यदि वायोमल्ल सारस्वतादिकोगणोबलीयान्तंसहायंपरिगृह्णीयात्॥ [भा.६३०६] एएसिं असतीए, संता व जता न होंति उ सहाया।
ठवणा दूराभोगण, लिंगेण व एसिउं देति॥ वृ-'एतेषां पाषण्डानां गणानां वा 'असति' अभावे यदि वा सन्तोऽपि ते सहाया न भवन्ति तदा “ठवण"त्ति निष्कामता यद् द्रव्यं स्थापितं तेन सा मोचयितव्या । यदि वा 'दूराभोगनेन' प्रागुक्तप्रकारेणैवअथवा यद्यत्र लिङ्गमर्चितंतेनधनम् एषयित्वा' उत्पाद्यददति तस्मैवरवृषभाः। गतमापत्राद्वारम् । अथ ऋणातादिद्वाराण्याह[भा.६३०७] एमेव अणत्ताए, तवतुलण नवरि तत्थ नाणत्तं ।
बोहिय-तेनेहि हिते, ठवणादि गवेसणे जाव ॥ वृ- 'एवमेव' अनेनैव दासत्वापन्नागतेन प्रकारेण 'ऋणााया अपि' प्रभूतं ऋणं धारयन्त्या अन्यदेशे दीक्षिताया मोक्षणे यतना द्रष्टव्या। नवरम्-अत्र धनदानचिन्तायां नानात्वम्। किंतत्? इत्याह-तपस्तुलना कर्तव्या।तथा बोधिकाः स्तेनाश्च-प्रागुक्तस्वरूपास्तैर्हतायाआर्यिकाया गवेषणं नियमेन कर्तव्यम् । तत्र च कर्तव्येऽनुशासनादिकं तदेव मन्तव्यं यावद् अर्थजातस्य स्थापना तया आदिशब्दाद् निधानस्य दूराभोगनादिप्रयोगेणापि सा मोचयितव्या । अथ ऋणार्तायां या तपस्तुलनोक्तासाभाव्यते-स द्रव्यमार्गयन्वक्तव्यः-साधवस्तपोधनाअहिरण्य-सुवर्णा-, लोकेऽपि यद् यस्य भाण्डं भवति स तत् तस्मै उत्तमय ददाति, अस्माकं च पार्श्वे धर्मस्तस्मात् त्वमपि धर्मं गृहाण ॥ एवमुक्ते स प्राह[भा.६३०८] जो नाते कतो धम्म, तंदेउ न एत्तियं समं तुलइ।
हानी जावेगाहं, तावतियं विजथंभणता॥ वृ-योऽनया कृतो धर्मस्तं सर्वं मह्यं ददातु । एवमुक्ते साधुभिर्वक्तव्यम्-नैतावद् दद्मः, यतो Jain Education International
For Private & Personal Use Only
www.jainelibrary.org