________________
२४७
उद्देशकः४, मूलं-१३५, [भा. ५५८५] [भा.५५८५] संजयगणो तदधिवो, गिही तु गाम पुर देस रज्जे वा।
एतेसिं चिय अहिवा, एगतरजुतो उभयतो वा॥ वृ-'संयतगणः' प्रतीतः। तेषां-संयतानामधिपः तदधिपः, आचार्य इत्यर्थः । येतुगृहिणस्ते ग्राम-पुर-देश-राज्यवास्तव्याः एतेषामधिपतयो वा भवेयुः । तत्र ग्रामादिपति-भोगिकादिकः, पुराधिपति-श्रेष्ठी कोट्टपालोवा, देशाधिपति-देशारक्षिकोदेशव्यापृतकोवा, राज्याधिपति-महामन्त्री राजा वा । एतेषामेकतरेणोभयेन वा युक्तो व्रजति ॥ तत्रेयं प्रायश्चित्तमार्गणा[भा.५५८६] तहि वचंते गुरुगा, दोसुतु छलहुग गहणे छग्गुरुगा।
उग्गिणि पहरणे छेदो, मूलं जंजत्थ वापंथे । वृ-संयतगणेन तदधिपेन वा उभयेन वा सहाहं व्रजामि' इति सङ्कल्पे चतुर्लघु । पदभेदमादौ कृत्वा तत्रव्रजतश्चतुर्गुरु । प्रहरणस्यमार्गणे दर्शनेचद्वयोरपिषड्लघु ।प्रहरणस्य ग्रहणे षड्गुरु। उद्गीर्णे प्रहरणे छेदः । प्रहारे दत्ते मूलम् । 'यद् वा परितापनादिकं पृथिव्यादिविनाशनं 'यत्र' पथि ग्रामे वा करोति तन्निष्पन्नमपि मन्तव्यम् । तथा गृहस्थवर्गेऽपि 'ग्रामेण वा ग्रामाधिपतिना यावद् राज्येन वा राज्याधिपतिना वा उभयेन वा सह व्रजामि' इति सङ्कल्पे चतुर्गुरु । पथि गच्छतःप्रहरणंचगृह्णतः षड्लघु ।गृहीतेषड्गुरु शेषं प्राग्वत्। एवं भिक्षोः प्रायश्चित्तमुक्तम्॥ [भा.५५८७] एसेव गमो नयमा, गणि आयरिए य होति नायव्यो।
नवरं पुन नाणत्तं, अणवठ्ठप्पोय पारंची॥ वृ-एष एव गमो नियमाद् ‘गणिनः' उपाध्यायस्य आचार्यस्य चशब्दाद् गणावच्छेदिकस्य वा मन्तव्यः । नवरंपुनरत्र नानात्वम्-अधस्तादेकैकपदह्रासेन यत्र भिक्षोर्मूलंतत्रोपाध्यास्यानवस्थाप्यम्, आचार्यस्य पाराञ्चिकम् ॥तपोहँ च प्रायश्चित्तमित्थं शेषयितव्यम्[भा.५५८८] भिक्खुस्स दोहि लहुगा, गणवच्छे गुरुग एगमेगेणं।
उज्झाए आयरिए, दोहि विगुरुगंच नाणत्तं ॥ वृ-भिक्षोरेतानिप्रायश्चित्तानि द्वाभ्यामपि तपः-कालाभ्यांलघुकानि, गणावच्छेदिकस्यैकतरेण तपसा कालेन वा गुरुकाणि, उपाध्यायस्याचार्यस्य च 'द्वाभ्यामपि' तपः-कालाभ्यां गुरुकाणि। एतद् 'नानात्वं' विशेषः । [भा.५५८९] काऊण अकाऊण व, उवसंत उवट्ठियस्स पच्छित्तं।
सुत्तेण उ पट्ठवणा, असुत्ते रागो व दोसो वा ॥ वृ-गृहस्थस्य प्रहारादिकमपकारंकृत्वाऽकृत्वावायदि उपशान्तः-निवृत्तःप्रायश्चित्तप्रतिपत्यर्थं चालोचनाविधानपूर्वकमपुनः करणेनोपस्थितस्तदा प्रायश्चित्तं दातव्यम् । कथम्? इथ्यह-सूत्रेण प्रायश्चित्तं प्रस्थापनीयम् । असूत्रोपदेशेन तु प्रस्थापयतो रागोवा द्वेषो वा भवति, प्रभूतमापन्नस्य स्वल्पदाने रागः स्तोकमापन्नस्य प्रबूतदाने द्वेषः ।। एवं राग-द्वेषाभ्यां प्रायश्चित्तदाने दोषमाह[भा.५५९०] थोवंजति आवन्ने, अतिरेगं देति तस्सतं होति।
सुत्तेण उ पट्ठवणा, सुत्तमनिच्छंते निज्जुहणा॥ वृ-स्तोकं प्रायश्चित्तमापन्नस्य यदि अतिरिक्तं ददाति ततो यावताऽधिकं तावत् 'तस्य' प्रायश्चित्तदातुः प्रायश्चित्तम् आज्ञादयश्च दोषाः, अथोनं ददाति ततो यावता न पूर्यते तावद्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org