SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ २४६ बृहत्कल्प-छेदसूत्रम् -३-४/१३५ व्रजामः, त्वमपितं गृहस्थं क्षामय, अनुपशान्तस्येह परंत्र च बहवो दोषाः, समभावः सामायिकं तच्चैवं सकषायस्य भवतः 'न शुध्यति' न शुद्धं भवति । एवमेकान्ते भणित यदि नोपशाम्यति ततो गणमध्येऽप्येवमेव भणनीयः ।। ततोऽपि कश्चिन्नोपशाम्येत् प्रत्युत खचेतसि चिन्तयेत् 'तस्य गृहिणो निमित्तेनेहाप्यवकाशंन लभे' ततः[भा.५५८१] तमतिमिरपडलभूतो, पावं चिंतेइ दीहसंसारी। पावं ववसिउकामे, पच्छितेमग्गणा होति ।। -कृष्णचतुर्दशीरजन्यांभास्वरद्रव्याभावस्तमउच्यते, तस्यामवचरात्रौयदारजो-धूमधूमिका भवति तदा तमस्तिमिरं भण्यते, यदा पुनस्तस्यामेव रजन्यां रजःप्रभृतयो मेघदुर्दिनं च भवति तदा तमस्तिमिरपटलमभिधीयते। यथा तत्रैवान्धकारे पुरुषः किञ्चिदपिनपश्यति एवं यस्तीव्रतीव्रतर-तीव्रतमेन कषायोदयेनान्धीभूतःसतमस्तिमिरपटलभूतो भण्यते, भूतशब्दस्यहोपमार्थवाचकत्वात्। एवम्भूतश्चेह-परलोकहितमपश्यन्दीर्घसंसारीतस्य गृहस्थस्योपरि पापम् ‘ऐश्वर्याद् जीविताद्वाभ्रंशयिष्यामि' इति रूपं चिन्तयति । एवंच पापं कर्तुव्यवसिते तस्मिन्नियंप्रायश्चित्ते मार्गणा भवति॥ [भा.५५८२] वच्चामि वच्चमाणे, चउरो लहुगा यहोति गुरुगाय। . उग्गिनम्मिय छेदो, पहरणे मूलं च जंजत्य ।। वृ. 'व्रजामि, तं गृहस्थं व्यपरोपयामि' इति सङ्कल्पे चतुर्लघवः । पदमेदादारस्य पथि व्रजतश्चतुर्गुरवः । यष्टि-लोष्टादिकं प्रहरणं मार्गयतिषडलघवः प्रहरणेलब्धे गृहीते चषड्गुरवः। उद्गीर्णे प्रहारे छेदः । प्रहारे पतिते यदि न म्रियते ततश्छेद एव ।अथ मृतस्ततो मूलम् । यच्च तत्र परितापनादिकं सम्भवति तत् तत्र वक्तव्यम् ॥ एते चापरे दोषाः. [भा.५५८३] तंचेव निट्ठवेती, बंधन निछुब्मण कडगमद्दो य । आयरिए गच्छम्मिय, कुल गण संघे य पत्यारो॥ वृ-स गृहस्थः 'त' संयतं वधार्थमागतं दृष्ट्वा कदाचित् तत्रैव 'निष्ठापयति व्यापादयति, पाणैर्वा बन्धापयति ग्राम-नगरादेर्वा निर्धाटयति, कटकमर्दैन वा मृद्गाति, अथवा 'कटकमद एकस्य रुष्टः सर्वमपि गच्छं व्यापादयति, यथा पालकः स्कन्दकार्यगच्छम् । अथवा बन्धननिष्काशनादिकमाचार्यस्यापरगच्छस्य वा करोति।तथा कुलसमवायं कृत्वाकुलस्य बन्धनादिकं कुर्यात्, एवं गणस्य वा सङ्घस्य वा । एष प्रस्तारः । एवमेकाकिनो व्रजत आरोपणा दोषाश्च भणिताः। अथ सहायसहितस्यारोपणामाह. [भा.५५८४] संजतगणे गिहिगणे, गामे नगरे व देस रज्जे य। __अहिवति रायकुलम्मिय, जा जहि आरोवणा भणिया॥ वृ-बहवः संयता- संयतगणः तं सहायं गृह्णाति । एवं गृहिगणं वा सहायं गृह्णाति । स च गृहिगणो ग्रामं वा नगरं वा देशोवा राज्यं वा भवेत्, ग्रामदिवास्तव्यजनसमुदाय इत्यर्थः। एतेषां वा संयतादीनां येऽधिपतयस्तान् वा सहायत्वेन गृह्णाति, अन्यद्वा राजकुलं गहीत्वा गच्छति, यथा कालकाचार्येण शकराजवृन्दम् । अत्र चैकाकिनो या 'यत्र' सङ्कल्पादावारोपणा भणिता सैवेहापि द्रष्टव्या॥ एतदेव व्याचष्टे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003324
Book TitleAgam Suttani Satikam Part 20 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy