________________
उद्देशक
: ४, मूलं- १३५, [भा. ५५७५ ]
[भा. ५५७५ ] सो निच्छुब्भति साहू, आयरिए तं च जुज्जसि गमेतुं । नाऊण वत्थुभावं, तस्स जती निंति गिहिसहिया ।।
२४५
वृ- येन साधुना त्वया सह कलहितं स साधुराचार्यै साम्प्रतं निष्काश्यते, अस्मदीयं च वचो गुरवो न सुष्ठु शृण्वन्ति, अत आचार्यान् गमयितुं त्वं 'युज्यसे' युक्तो भवसि । एवमुक्ते यद्याचार्यं गमयति क्षामयति च ततो लष्टम् । अथ ब्रूते-पश्यामस्तावत् तं कलहकारिणम्; ततो ज्ञात्वा वस्तुनः- गृहस्थस्य भावं - "किमयं हन्तुकामस्तमानाययति ? उत क्षामयितुकामः ? ' एवमभिप्रायं ज्ञात्वा तस्य ये सुहृदस्तैर्गृहिभिः सहिता यतयस्तं साधुं तत्र नयन्ति ॥ अथासौ गृही तीव्रकषायतय नोपशाम्यति ततस्तस्य सादोर्गच्छस्य च रक्षणार्थमयं विधिः
[भा. ५५७६ ] वीसुं उवस्सए वा, ठवेंति पेसंति फड्डुपतिणो वा । देति सहाते सव्वे, व नेति गिहिते अनुवसंते ॥
वृ- 'विष्वग्' अन्यस्मिन्नुपाश्रये तं साधुं स्थापयन्ति, अन्यग्रामे वा यः स्पर्द्धकपतिस्तस्यान्तिके प्रेषयन्ति । निर्गच्छतश्चतस्य सहायान् ददति । अथ मासकल्पः पूर्णस्ततः सर्वेऽपि 'निर्यन्ति' निर्गच्छन्ति ॥ एष गृहस्थेऽनुपशान्ते विधिः । अथ गृहस्थ उपशाम्यति न साधुस्तदा तस्येद प्रायश्चित्तम्[भा.५५७७] अविओसियम्मि लहुगा, भिक्ख वियारे य वसहि गामे य ।
गणसंकमणेभन्नति, इहं पि तत्थेव वच्चाहि ॥
वृ- अधिकरणेऽव्यवशमिते यदि भिक्षां हिण्डते, विचारभूमिं विहारभूमिं वा गच्छति, वसतेर्निर्गत्यापरसाधुवसतिं गच्छति, ग्रामानुग्राम विहरति; एतेषु सर्वेषु चतुर्लघु । अथापरं गणं सङ्क्रामति ततस्तैरन्यगणसाधुभिर्भण्यते इहापि गृहिणः क्रोधनाः सन्ति ततस्तत्रैव व्रज ॥
इदमेव सुव्यक्तमाह
[भा. ५५७८] इह वि गिही अविसहणा, न य वोच्छिन्ना इहं तुह कसाया । अन्नेसिं पाऽऽयासं, जनइस्ससि वच्च तत्थेव ॥
वृ- 'इहापि' ग्रामे गृहिणः 'अविषहणाः' क्रोधनाः सन्ति, न चेह समागतस्य तव कषाया व्यवच्छिन्नाः, अतः 'अन्येषामपि' अस्मदादीनामायासं जनयिष्यसि तस्मात तत्रैव व्रज ॥
[भा. ५५७९ ] सिट्ठम्मिन संगिण्हति, संकंतम्मि उ अपेसणे लघुगा । गुरुगा अजयणकहणे, एगतरपतोसतो जंच ॥
वृ- अनुपशान्ते साधौ गणान्तरं सङ्क्रान्ते मूलाचार्येण साधुसङ्घाटकस्तत्र प्रेषणीयः । तेन च सङ्घाटकेन 'शिष्टे' कथिते सति द्वितीयाचार्यो न सगृह्णीयात् । अथ मूलाचार्यः सङ्घाटकं न प्रेषयति तदा चतुर्लघु । सङ्घाटको यद्ययतनया कथयति ततश्चतुर्गुरु । अयतनाकथनं नामबहुजनमध्ये गत्वा भणति - एष निर्धर्मा गृहिभिः सममधिकरणं कृत्वा समायातः, सकलेनापि गच्छेन भणितो नोपशान्तः । एवमयतनया कथिते स साधुरेकतरस्य गृहिणः साधुसङ्घा मूलाचार्यस्य वा प्रद्वेषतो यत् करिष्यति तन्निष्पन्नं प्रायश्चित्तम् । तस्मादयं विधि
[भा. ५५८० ] उवसामितो गिहत्थो, तुमं पि खामेहि एहि वच्चाहि ।
दोसा हु अनुवसंते, न य सुज्झति तुज्झ सामइगं ॥
वृ- पूर्वं गुरूणामेकान्ते कथयित्वा ततः स्वयमेकान्ते स भण्यते-उपशामितः स गृहस्थः, एहि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org