________________
२४४
बृहत्कल्प-छेदसूत्रम् -३-४/१३५ गुरूणामालोचनीयम् । ततो गुरुभिरुपशमनार्थं वृषभास्तस्य गृहस्थस्य मूले प्रेषणीयाः । यदि न प्रेषयन्ति तदा चतुर्लुघु ॥ [भा.५५७०] आणादिणो य दोसा, बंधन निच्छुभण कडगमद्दो य ।
बुग्गाहण सत्येण व, अगनुवगरणं विसंवारे॥ वृ-आज्ञादयश्च दोषाः । स च गृहस्थो येन साधुना सहाधिकरणं जातं तस्य अनेकेषां वा साधूनांबन्धनं निष्काशनं वा कुर्यात् । 'कटकमर्दो नाम' सर्वानपिसाधून कोऽपिव्यपरोपयेत्। व्युद्ग्राहणंवालोकस्यकुर्यात्-नास्त्यमीषांदत्ते परलोकफलम्, यद्वाअमीसंज्ञांव्युत्सृज्य विकिरन्ति नचनिर्लेपयन्ति।खङ्गादिनावाशस्त्रण साधूनाहन्यत्, अग्निकायेन वाप्रतिश्रयंदहेत्, उपकरणं वा अपहरेत्, विष-गरादिकं वा दद्यात्, भिक्षां वा वारयेत्॥ तच्च वारणमेतेषु स्थानेषु कारयेत्[भा.५५७१] रज्जे देसे गामे, निवेसण गिहे निवारणं कुणति ।
जा तेन विना हानी, कुल गण संघे य पत्थारो ।। वृ-राज्ये सकलेऽपि निवारणं कारयेत्-एतेषां भक्तमुपधिं वसतिं वा मा दद्यात् । एवं देशे ग्रामे निवेशने गृहे वा निवारणं करोति । ततो या 'तेन' भक्तादिना विना परिहाणि तां वृषभान् अप्रेषयन् गुरु प्राप्नोति । अथवा यः प्रभवति स कुलस्य गणस्य सङ्घस्य वा 'प्रस्तारं' विस्तरेण विनाशं कुर्यात् ॥ [भा.५५७२] एयस्स नत्थि दोसो, अपरिक्खियदिक्खगस्स अह दोसो।
पभु कुज्जा पत्थारं, अपभुवा कारवे पभुणा॥ वृ-गृहस्थश्चिन्तयति-“एतस्य साधोस्ति दोषः किन्तु य एनमपरीक्ष्य दीक्षितवान् तस्यायं दोषः, अतस्तमेव घातयामि' इति विचिन्त्य प्रभुः स्वयमेव प्रस्तारं कुर्यात् । अप्रभुरपि द्रव्यं राजकुले दत्त्वा प्रभुणा कारापयेत् ॥ यत एते दोषाः[भा.५५७३] तम्हा खलु पट्ठवणं, पुव्वं वसभा समंच वसभेहिं।
अनुलोमण पेच्छामो, नेति अनिच्छं पितं वसभा॥ वृ-तस्माद् वृषभाणां तत्र प्रस्थापनं कर्तव्यम् । “पुव्वं" ति येन साधुनाऽधिकरणं कृतं तं तावद् न प्रेषयन्ति यावद् वृषभाः पूर्वं प्रज्ञापयन् । किं कारणम् ? उच्यते-स गृहस्थस्तं दृष्ट्वा कदाचिदाहन्यात् । अथ ज्ञायते 'नाहनिष्यति' ततो वृषभैः समं तमपि प्रेषयन्ति । तत्र गताश्चानुकूलवचोमि अनुलोमन' प्रगुणीकरणं तस्य कुर्वन्ति। अथासौ गृहस्थोब्रूयात्-आनयत तावत्तं कलहकारिणं येनैकवारं पश्यामः पश्चात् क्षमिष्ये नवा। ततो वृषभास्तदभिप्रायं ज्ञात्वा तं साधु गृहिणः समीपमानयन्ति । अथासौ साधुर्नेच्छति ततो बलादपिवृषभास्तं तत्र नयन्ति॥ तेच वृषभा ईशगुणयुक्ताः प्रस्थाप्यन्ते[भा.५५७४] तस्संबंधि सुही वा, पगता ओयस्सिणो गहियवक्का ।
तस्सेव सुहीसहिया, गमेंति वसभा तगंपुव्वं ।। वृ- तस्य-गृहिणः संयतस्य वा सम्बन्धिनः सुहृदो वा ते भवेयुः, 'प्रगताः' लोकप्रसिद्धाः 'ओजस्विनः' बलीयांसः 'गृहीतवाक्याः' आदेयवचसः, ईद्दशा वृषभाः 'तस्यैव' गृहिणः सुहृद्भिः सहिताः ‘तकं' गृहस्थं पूर्वं गमयन्ति' प्रज्ञापयन्ति ॥ कथम्? इत्याह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org