SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ २४३ उद्देशकः ४, मूलं-१३५, [भा. ५५६६] पानाय वा निष्क्रमितुं वा प्रवेष्टुं वा, बहिर्विचारभूमौ वा विहारभूमौ वा निष्क्रमितुं वा प्रवेष्टुं वा, ग्रामानुग्रामंवा 'द्रोतुं' विहर्तुम्, गणाद्वागणं सङ्क्रमितुम्, वर्षावासंवा वस्तुम् । किन्तु तत्रैवात्मन आचार्योपाध्यायं पश्येत् कथम्भूतम्? 'बहुश्रुतं' छेदग्रन्थादिकुशलं 'बागमम्' अर्थतःप्रभूतागमम्; तत्र तस्यान्तिके आलोचयेत्' स्वापराधं वचसा प्रकटयेत्, 'प्रतिक्रामेत्' मिथ्यादुष्कृतं तद्विषये दद्यात्, 'निन्द्याद्' आत्मसाक्षिकंजुगुप्सेत, 'गहेत' गुरुसाक्षिकं निन्द्यात् । इह च निन्दनं गर्हणंवा तात्त्विकं तदा भवति तदा तत्करणतः प्रतिनिवर्तते तत आह-'व्यावर्तेत' तस्मादपराधपदाद् निवर्तेत । व्यावृत्तावपि कृतात् पापात् तदा मुच्यते यदाऽऽत्मनो विशोधिर्भवति तत आहआत्मानं 'विशोधयेत् पापमलस्फेटनतो निर्मलीकुर्यात्।विशुद्धिःपुनरपुनः करणतायामुपपद्यते ततस्तामेवाह-अकरणता-अकरणीयतातयाअभ्युत्तिछेत्। पुनरकरणतयाअभ्युत्थानेऽपिविशोधिः प्रायश्चित्तप्रतिपत्त्या भवति तत आह-'यथार्ह' यथायोग्यं तपःकर्म प्रायश्चित्तं प्रतिपद्येत । तच्च' प्रायश्चित्तमाचार्येण 'श्रुतेन' श्रुतानुसारेण यदि प्रस्थापितं' प्रदत्तं तदा 'आदातव्यं ग्राह्यं स्याद्' भवेत्, अथश्रुतेननप्रस्थापितंतदानादातव्यं स्यात्, 'सच' आलोचकोयदिश्रुतेनप्रस्थाप्यमानमपि तत् प्रायश्चित्तं 'नाददाति' न प्रतिपद्यते ततः सः 'निर्वृहितव्यः' 'अन्यत्र सोधिं कुरुष्व' इति निषेधनीयः स्यादिति सूत्रार्थः ।। अथ भाष्यविस्तरः[भा.५५६७] अचियत्तकुलपवेसे, अतिभूमि अनेसणिज्जपडिसेहे। अवहारऽमंगलुत्तर, सभावअचियत्त मिच्छत्ते॥ वृ-कथमधिकरणमुत्पन्नम् ? इत्यस्यां जिज्ञासायामभिधीयते-कस्मिंश्चित् कुले साधवः प्रविशन्तोऽप्रीतिकराः तत्राजानतामनाभोगाद्वा प्रवेशे स गृहपतिराक्रोशेद्वा हन्याद्वा, साधुरप्यसहमानः प्रत्याक्रोशेत्ततोऽधिकरणमुत्पद्यते। एवमतिभूमिं प्रविष्टे, अनेषणीयभिक्षाया वा प्रतिषेधे, शैक्षस्य वा संज्ञातकस्यापहारे, यात्राप्रस्थितस्य वा गृहिणः साधुं दृष्ट्वाऽमङ्गलमिति प्रतिपत्तौ, समयविचारेण वा प्रत्युत्तरंदातुमसमर्थे गृहस्थे, स्वभावेन क्वाऽपि साधौ ‘अचियत्ते' अनिष्टे ईष्टे, अभिग्रहमिथ्याटेर्वा सामान्यतः साधौ अवलोकिते अधिकरणमुत्पद्येत॥ [भा.५५६८] पडिसेधे पडिसेधो, भिक्ख वियारे विहार गामेवा। दोसा मा होज बहू, तम्हा आलोयणा सोधी॥ वृ-भगवद्भिः प्रतिषिद्धम्-नवर्तते साधूनामधिकरणकर्तुम् ।एवंविधेप्रतिषेधे भूयःप्रतिषेधः क्रियते-कदाचित् तद् अधिकरणंगृहिणा समं कृतं भवेत्, कृत्वा च तस्मिन् अनुशमिते भिक्षायां न हिण्डनीयम्, विचारभूमौ विहारभूमौ वा न गन्तव्यम्, ग्रामानुग्रामवान विहर्तव्यम् । कुतः? इत्याह-मा बहवः' बन्धन-कटकमदयोदोषा भवेयुः । तस्मात्तंगृहस्थमुपशमय्यगुरूणामन्तिके आलोचना दातव्या। ततः शोधिः प्रतीच्छनीया। इदमेव भावयति[भा.५५६९] अहिगरण गिहत्येहि, ओसार विकणा य आगमनं । आलोयण पत्थवणं, अपेसणे होति चउलहुगा॥ . वृ-गृहस्थैः सममधिकरणे उत्पन्ने द्वितीयेन साधुना तस्य साधोरपसारणं कर्तव्यम् । अथ नापसरति ततः "विकडणा य"त्ति बाहौ गृहीत्वाऽऽकर्षणीयः, इदं च वक्तव्यम्-न वर्तते मम त्वया साधिकरणेन समंभिक्षामटितुम् अतः प्रतिश्रयोपरि निस्तावहे। एवमुक्त्वा प्रतिश्रयमागम्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003324
Book TitleAgam Suttani Satikam Part 20 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy