________________
उद्देशकः ४, मूलं-१३४, [भा. ५५५८]
२४१ समभूभागे नीतस्य ज्योतिष्केषु व्यन्तरेषु वा उपपातो ज्ञेयः । गर्तायां नीते भवनवासिषुगत इति अवमन्तव्यम् । एषा गति समासेन तस्याभिहिता॥ व्याख्यातस्तिस्रोऽपि द्वारगाथाः । अथात्रैव प्रायश्चित्तमाह[भा.५५५९] एकेक्कम्मि उ ठाणे, हुंति विवच्चासकारणे गुरुगा।
आणाइणो य दोसा, विराधना संजमा-ऽऽयाए॥ वृ-एषां प्रत्युपेक्षणादीनामेकैकस्मिन् स्थाने विपर्यासं कुर्वता चत्वारो गुरुकाः, आज्ञादयश्च दोषाः, संयमा-ऽऽत्मविराधना च द्रष्टव्या॥ [भा.५५६०] एतेन सुत्त न गतं, सुत्तनिवातो तु दव्व सागारे।
उट्ठवणम्मि विलहुगा, छड्डणे लहुगा अतियणे य॥ वृ-यद् एतद् द्वारकदम्बकमनन्तरं व्याखातम् एतेन सूत्रं न गतं किन्तु सामाचारीज्ञापनार्थं सर्वमेतदुक्तम् । किं पुनस्तत्रि सूत्रे प्रकृतम् ? इत्याह-सूत्रनिपातः पुनः सागारिकसत्के वहनकाष्ठलक्षणे द्रव्ये भवति। रात्रौ कालगते यदि वहनकाष्ठानुज्ञापनाय सागारिकमुत्थापयन्ति तदा चतुर्लघु अरहट्टयोजनादयश्च दोषाः तस्मानोत्थापनीयः किन्तु यदि एकोऽपि कश्चिद् वैयावृत्यकरः समर्थस्तद्वोढुं ततः काष्ठं नगृह्यते।अथासमर्थस्ततो यावन्तः सक्नुवन्ति तावन्तः तेन काष्ठेन वहन्ति । अथ वहनकाष्ठं तत्रैव परिष्ठाप्यागच्छन्ति तदापि चतुर्लघु, अपरेण च गृहीतेऽधिकरणम्, सागारिको वा तद् अपश्यन् ‘एतैः शबवहनार्थं नीत्वा तत्रैव परित्यक्तम्' इतिमत्वाप्रद्विष्ट व्यवच्छेद-कटकमर्यादिकं कुर्यात्, तस्मादानेतव्यम्।यदिपुनरानीयतेनगृहीतेनैव अतिगमनं-प्रवेशं कुर्वन्ति तदाऽपिचतुर्लघु ॥ एते च दोषाः[भा.५५६१] मिच्छत्तऽदिन्नदानं, समलावन्नो दुगुंछितं चेव ।
दिय रातो आसितावण, वोच्छेओ होति वसहीए। . वृ-सागारिकस्तत्काष्ठं प्रवेश्यमानंदृष्टवा मिथ्यात्वंगच्छेत्, एतेभणन्ति-अस्माकमदत्तस्यादानं न कल्पते; यथैतदलीकं तथा अन्यदप्यलीकमेव । अथवा ब्रूयात्-समला अमी, अस्थिसरजस्कानामप्युपरिवर्तिनः; एवमवर्णो भूयात् । ‘जुगुप्सितं वा जुगुप्सां स कुर्यात्-मृतकमूढवा मम गृहमानयन्ति।ततो दिवा रात्रौवासाधूनां “आसियावणं"निष्काशनं कुर्यात्, वसतेश्वव्यवच्छेदं 'नातः परं ददामि' इत्येकस्यानेकेषां वा कुर्यात् ।। यत एते दोषाअतोऽयं विधिः[भा.५५६२] अइगमनं एगेणं, अनाए पतिद्वति तत्थेव।
नाए अनुलोमण तस्स वयण बितियं उट्ठाण असिवे वा। वृ-एकेन साधुना प्रथमम् 'अतिगमनं' प्रवेशनं कार्यम्, यदि सागारिको नाद्याप्युत्तिष्ठते त एवमज्ञाते काष्ठमानीय ततो गृहीतं तत्रैव प्रतिष्ठापयन्ति । अथ सागारिक उत्थितस्ततस्तस्याग्रे निवेद्यते-यूयं प्रसुप्ता इति कृत्वा नास्माभिरुत्थापिताः, रात्रौ साधुः कालगतः युष्मदीयकाष्ठेन निष्काशितः, साम्प्रतं तदानीयताउत परिष्ठाप्यताम्? । एवमुक्ते यद् असौभणति तत्प्रमाणम्। अथ तैः पूर्वमज्ञायमानैः स्थापितं सागारिकेण च पश्चात् कथमपि ज्ञातं ततः कुपितस्यानुलोमनं विधेयम्।अथ प्रज्ञाप्यमानस्यापि तस्य वक्ष्यमाणं वचनं भवति तदा गुरुभिस साधुनिष्काशनीय 2016/
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org