________________
बृहत्कल्प-छेदसूत्रम् -३-४/१३४
संस्तारकास्तान् सर्वानपि उज्झन्ति “अणन्नगेलन्न” त्ति यद्यन्यस्य ग्लानत्वं नास्ति, अथापरोऽपि ग्लानः कश्चिदस्ति ततस्तदर्थं तानि मात्रकादीनि ध्रियन्त इति भावः ॥
२४०
[ भा. ५५५२] अहिगरणं मा होहिति, करेइ संधारगं विकरणं तु । सव्वहि विगिंचंती, जो छेवइतस्स छित्तो वि ।।
वृ- "छेवइओ' अशिवगृहीतः स यदि मृतः तदा येन संस्तारकेण स नीतः तं विकरणं कुर्वन्ति, खण्डशः कृत्वा परिष्ठापयन्तीत्यर्थः । कुतः ? इत्याह- अधिकरणं गृहस्थेन गृहीते प्रान्तदेवतया वा पुनरप्यानीते भवत् तद् मा भूदिति कृत्वा विकरणीक्रियते । यश्च तदीय उपधिरपरो वा तेन स्ववपुषा छुप्तस्तं सर्वमपि परिष्ठापयन्ति ॥
[भा. ५५५३] असिवम्मि नत्थि खमणं, जोगविवड्डी य नेव उस्सग्गो । उवयोगद्धं तुलितुं नेव अहाजायकरणं तु ॥
वृ- अशिवे मृतस्य क्षपणं न कर्तव्यम्, योगवृद्धिस्तु क्रियते । नचाविधिपरिष्ठापनायाः कायोत्सर्गः क्रियते। उपयोगाद्धां चान्तर्मुहूर्त्तमानां तोलयित्वा यथाजातं तस्य नैव कर्तव्यम् । किमुतं भवति ? - अशिवमृतस्य समीपे यथाजातं न स्थाप्यते, अतो देवलोकं गतो यावदुपयुक्तो भवति तावत् तदीयं वपुः प्रतिश्रय एव प्रतीक्षाप्यते येन प्रतिश्रयस्थितं स्वं वपुर्धष्टवा 'संयतोऽहमभूवम्' इति जानीते ।। अथावलोकनद्वारमाह
[ भा. ५५५४] जं दिसि विगड्डितो खलु, देहेणं अक्खुएण संचिक्खे।
तं दिसि सिवं वदंती, सुत्त-ऽत्थविसारया धीरा ॥
वृ-यस्यां दिशि स शिवादिभिराकर्षितोऽक्षतेन देहेन सन्तिष्ठेत् तस्यां दिशि सूत्रा - ऽर्थविशारदा धीराः 'शिवं' सुभिक्षं सुखविहारं च वदन्ति ॥
[भा. ५५५६] जति दिवसे संचिक्खति, तति वरिसे धातगं च खेमं च । विवरीए विवरीतं, अकड्डिए सव्वहिं उदितं ।।
वृ- 'यति' यावतो दिवसान् यस्यां दिशि अक्षतदेहस्तिष्ठति 'तति' तावन्ति वर्षाणि तस्यां दिशि ध्रातं च क्षेमं च भवति । ध्रातं नाम-सुभिक्षम्, क्षेमं तु-परचक्राद्युपप्लवाभावः । अथ क्षतदेहः सञ्जातः ततः 'विपरीते' क्षतदेहे विपरीतं मन्तव्यम्, यस्यां दिशि क्षतदेहो नीतस्तस्यां दुर्भिक्षादिकं भवतीति भावः । अथ नान्यत्राकृष्टः किन्तु तत्रैवाक्षतस्तिष्ठति ततः सर्वत्र 'उदितं' सुभिक्षं सुखविहारं च द्रष्टव्यम् ॥ एतद् निमित्तं कस्य गृह्यते ? इत्याह
[ भा. ५५५७] खमगरसाऽऽयरियस्सा, दीहपरिन्नस्स वा निमित्तं तू । सेसे तधन्नधा वा, ववहारवसा इमा य गती ॥
वृ-क्षपकस्य आचार्यस्य वा ‘दीर्घपरिज्ञावतो वा' प्रभूतकालपालितानशनस्येदं निमित्तं ग्रहीतव्यम् । 'शेषे' एतद्व्यतिरिक्ते तथा वाऽन्यथा वा भवेत्, न कोऽपि नियमः । व्यवहारवशाच्चेयं गति प्रतिपत्तव्या ॥
[भा. ५५५८] थलकरणे वेमानितो, जोतिसिओ वाणमंतर समम्मि ।
गड्डा भवनवासी, एस गती से समासेणं ॥
वृ-यदि तस्य शरीरकं स्थले कृतं शिवादिभिरारोपितं तदा वैमानिकः सञ्जात इति मन्तव्यम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org