SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ ३४० बृहत्कल्प-छेदसूत्रम् -३-५/१९४ अहगुरुगो छम्मासो, गुरुगे पक्खम्मि पडिवत्ती॥ वृ-गुरुको नाम व्यवहारः ‘मासः' मासपरिमाणः, गुरुके व्यवहारे समापतिते मास एकः प्रायश्चित्तंदातव्यइति भावः । एवं गुरुतरको भवति 'चतुर्मासः' चतुर्मासपरिमाणः । यथागुरुकः 'षण्मासः षण्मासपरिमाणः । एषा 'गुरुकपक्षे गुरुकव्यवहारेत्रिविधेयथाक्रमंप्रायश्चित्तप्रतिपत्ति। सम्प्रति लघुक-लघुस्वकव्यवहारविषयं प्रायश्चित्तपरिमाणमाह[भा.६०४२] तीसा य पन्नवीसा, वीसा विय होइ लहुयपक्खम्मि। पन्नरस दस य पंच य, अहालहुसगम्मि सुद्धो वा ॥ वृ-लघुको व्यवहारस्त्रिशदिवसपरिमाणः,एवं लघुतरकः पञ्चविंशतिदिनमानः, यथालघुको विंशतिदिनमानः, एषा लघुकव्यवहारे त्रिविधेयथाक्रमंप्रायश्चित्तप्रतिपत्ति।लघुस्वको व्यवहारः पञ्चदशदिवसप्रायश्चित्तपरिमाणः, एवं लघुस्वतरकोदशदिवसमानः, यथालघुस्वकः पञ्चदिवसानि' पञ्चदिवसप्रायश्चित्तपरिमाणः । यद्वा यथालघुस्वके व्यवहारे 'शुद्धः' न प्रायश्चित्तभाक् ॥ अथ कं व्यवहारं केन तपसा पूरयति? इति प्रतिपादनार्थमाह[मा.६०४३] गुरुगं च अट्ठमं खलु, गुरुगतरागंच होइ दसमंतु। अहगुरुग दुवालसमं, गुरुगे पक्खम्मि पडिवत्ती॥ वृ-गुरुकं व्यवहारं मासपरिमाणमष्टमं कुर्वन् पूरयति । किमुक्तं भवति ?-गुरुकं व्यवहारं मासपरिमाणमष्टमेन वहति । तथा गुरुकतरकं चतुर्मासप्रमाणं व्यवहारं दशमं कुर्वन् पूरयति, दशमेन वहतीत्यर्थः । यथागुरुकं षण्मासप्रमाणं 'द्वादशं कुर्वन्' द्वादशेन वन् पूरयति । एषा 'गुरुकपक्षे गुरुव्यवहारपूरणविषये तपःप्रतिपत्ति ॥ [भा.६०४४] छटुंच चउत्थं वा, आयंबिल एगठाण पुरिम९।। निव्वीयं दायव्वं, अहालहुसगम्मि सुद्धो वा ॥ वृ-लघुकं व्यवहारं त्रिंशद्दिनपरिमाणंषष्ठं कुर्वन् पूरयति, लघुतरकंपञ्चविंशतिदिवसपरिमाणं व्यवहारं चतुर्थं कुर्वन्, यथालघुकं व्यवहारं विंशतिदिवसमानमाचाम्लं कुर्वन् पूरयति । एषा लघुकत्रिविधव्यवहारपूरणे तपःप्रतिपत्ति । तथा लघुस्वकव्यवहारं पञ्चदशदिवसपरिमाणमेकस्थानकंकुर्वन् पूरयति, लघुस्वतरकंव्यवहारंदशदिवसपरिमाणंपूर्वार्द्धकुर्वन्, यथालघुस्वकव्यवहारं पञ्चदिनप्रमाणं निर्विकृतिकं कुर्वन् पूरयति । एतेषु गुरुतरादिषु व्यवहारेष्वनेनैव क्रमेण तपो दातव्यम् । यदि वा यथालखुस्वके व्यवहारे प्रस्थापितव्ये स प्रतिपन्नपरिहारतपः- प्रायश्चित्त एवमेवालोचनाप्रदानमात्रतः शुद्धः, क्रियते, कारणे यतनया प्रतिसेवनात् ॥ एवं प्रस्तारं रचयित्वा सूरयो भणन्ति[भा.६०४५] जंइत्थं तुह रोयइ, इमे व गिण्हाहि अंतिमे पंच। हत्थं व भमाडेउं, जं अक्कमते तगं वहइ॥ वृ- यद् ‘अत्र' अमीषां प्रायश्चित्तानां मध्ये तव रोचते तद् गृहाण, अमूनि वाऽन्तिमानि पञ्चरात्रिन्दिवानिगृहाण एवमुक्तेस यथालघुस्वकंप्रायश्चित्तंगृह्णाति । अथवा हस्तंभ्रामयित्वा यात् प्रायश्चित्तं गुरव आक्रामन्ति तकद् गृह्णाति ॥ सूरयश्चेदं तं प्रति भणन्ति [भा.६०४६] उब्मावियंपवयणं, तोवं ते तेन मा पुनो कासि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003324
Book TitleAgam Suttani Satikam Part 20 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy