________________
उद्देशक : ५, मूलं-१९४, [भा. ६०३५] [भा.६०३५]पाया व दंता व सिया उ धोया, वा-बुद्धिहेतुंव पनीयभत्तं ।
तंवातिगंवा मइ-सत्तहेउं, सभाजयट्ठा सिचयं व सुक्कं॥ वृ-पादौ वा दन्ता वा प्रवचनजुगुप्सापरिहारार्थं धौताः 'स्यु' भवेयुः । 'प्रणीतभक्तं वा घृतदुग्धादिकं “वा-बुद्धिहेतुंवत्तिवाग्घेतोर्बुद्धिहेतोश्च भुक्तंभवेत्, “घृतेन वर्धतेमेघा" इत्यादिवचनत्। 'वातिकं नाम'विकटं तद्वा मतिहेतोः सत्त्वहेतोर्वा सेवितं भवेत् । मतिर्नाम-परवाडुपन्यस्तस्य साधनस्यापूर्वप्रवदूषमोहात्मको ज्ञानविशेषः, सत्त्वं प्रभूत-प्रभूततरभाषणे प्रवर्द्धमान आन्तर उत्साहविशेषः । सभाजनार्थं वा सुक्लं 'सिचयं' वस्त्रं प्रावृतं भवेत्, “जिता वस्त्रवता सभा" इति वचनात् ॥ [भा.६०३६] थेरापुन जाणंती, आगमओ अहव अनओ सुच्चा।
परिसाए मज्झम्मिं, पट्ठवणा होइ पच्छित्ते॥ वृ-एवमादिकं तेन प्रतिसेवितं स्थविराः' सूरयः पुनरागमतो जानीयुः, अथवाअन्यतः श्रुत्वा, ततस्तस्य भूयः समागतस्य पर्षन्मध्ये प्रायश्चित्तस्य प्रस्थापना कर्तव्या भवति । इदमेव व्याचष्टे[भा.६०३७] नव-दस-चउदस-ओही-मननाणी केवली य आउमिउं ।
सोचेवऽन्नो उ भवे, तदनुचरो वा वि उवगोव॥ वृ- ये स्थविरा नवपूर्विणो दशपूर्विणश्चतुर्दशपूर्विणोऽवधिज्ञानिनो मनःपर्यायज्ञानिनः केवलज्ञानिनो वा ते 'आगम्य' अतिशयेन ज्ञात्वा प्रायश्चित्तं दधु । अन्यो नाम ‘स एव' परिहारिकस्तन्मुखादालोचनाद्वारेणश्रुत्वा, यद्वा ये तस्य-परिहारिकस्यानुचराः-सहायाःप्रेषितास्तैः कथितम्: 'उवको नाम' अन्यः कोऽपि तिर्यगापतितो मिलितः, तेषां गच्छसत्कोन भवतीत्यर्थः, तेन वा कथितम्, यथा-एतेनामुकंपादधावनादिकं प्रतिसेवितम् । ततः[भा.६०३८] तेसिं पच्चयहेउं, जे पेसविया सुयं वतं जेहिं ।
भयहेउ सेसगाण य, इमा उ आरोवणारयणा ॥ वृ-ये तेन सार्द्धं प्रेषिता यैर्वाऽप्रेषितैरपि प्रतिसेवनं श्रुतं 'तेषाम् उभयेषामप्यपरिणामकानां प्रत्ययहेतोः शेषाणांच' अतिपरिणामिकानां भयोत्पादनहेतोरियम् ‘आरोपणारचना' व्यवहारप्रस्थापना सूरिभिः कर्तव्या ।। [भा.६०३९] गुरुओ गुरुअतराओ, अहागुरूओ य होइ ववहारो।
लहुओ लहुयतराओ, अहालहू होइ ववहारो॥ [भा.६०४०] लहुसो लहुसतराओ, अहालहूसो अहोइ ववहारो।
एतेसिं पच्छित्तं, वुच्छामि अहानुपुव्वीए॥ वृ-व्यवहारस्त्रिविधः, तद्यथा-गुरुको लघुको लघुस्वकश्च ।तत्रयो गुरुकः स त्रिविधः, तद्यथागुरुको गुरुतरको यथागुरुकश्च । लघुकोऽपि त्रिविधः, तद्यथा-लघुर्लघुतरो यथालघुश्च । लघुस्वकोऽपि त्रिविधः, तद्यथा-लघुस्वको लघुस्वतरको यथालघुस्वकश्च । एतेषां व्यवहाराणां 'यथानुपूर्व्या' यथोक्तपरिपाट्या प्रायश्चित्तं वक्ष्यामि । किमुक्तं भवति ?-एतेषु व्यवहारेषु समुपस्थितेषु यथापरिपाट्या प्रायश्चित्तपरिमाणमभिधास्ये॥यथाप्रतिज्ञातमेव करोति[भा.६०४१] गुरुगो य होइ मासो, गुरुगतरागो भवे चउम्मासो।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org