________________
२६६
-
बृहत्कल्प-छेदसूत्रम् -३-४/१४२ नीरोग इत्यर्थः ॥अथ बीजादियुक्तेषु तिष्ठतां प्रायश्चित्तमाह[मा.५६७२] बिय-मट्टियासु लहुगा, हरिए लहुगाव होति गुरुगावा।
पानुत्तिंग-दएसुं, लहुगा पनए गुरूचउरो॥ वृ-बीज-मृत्तिकायुक्तेषुतृणादिषुतिष्ठतां चतुर्लघुकाः । हरितेषु प्रत्येकेषु चतुर्लघु, अनन्तेषु चतुर्गुरु । प्राणेषु-द्वीन्द्रियादिषु अत्तिगोदकयोश्चतुर्लघु । पनके चतुर्गुरवः॥
उक्तः सूत्रार्थः। अथ नियुक्तिविस्तरः[भा.५६७३] सवणपमाणा वसही, अधिठंते चउलहुंच आणादी।
मिच्छत्त अवाउड पडिलेह वाय साणेय वाले य॥ वृ-श्रवणप्रमाणा वसतिः कर्णयोरधस्तात् तृणादियुक्ताय भवति तस्यामधःश्रवणमात्रायां तिष्ठतश्चतुर्लघु, आज्ञादयश्च दोषा मिथ्यात्वं च बवति । कथम् ? इति चेद् इत्याह-येषांसाधूनां सागारिकमपावृतं वैक्रियंवा तान्प्रविशतो दृष्ट्वालोको ब्रूयात्-अहो! हीप्रच्छादनमपितीर्थकरेण नानुज्ञातम्, लज्जामयश्चपुरुष-स्त्रियोरलङ्कारः, तद्नूनमसर्वज्ञ एवासी; एवं मिथ्यात्वगमनं भवेत्। "पडिलेह"त्ति उपर्यप्रत्युपेक्षिते शीर्षमास्फिटति, तत्र प्राणविराधनानिष्पन्नम्। अवनतानां च प्रविशतां निर्गच्छतांच कटी पृष्ठं वा वातेन गृह्यते । अवनतस्य च प्रविशतः सागारिकं लम्बमानं पृष्ठतः श्वानो मार्जारो वा त्रोटयेत् । “वाले य" त्ति उपरि सीर्षे आस्फिटिते सर्पो वृश्चिको वा दशेत् । यत एते दोषा अतोऽधःश्रवणमात्रायां वसतौ न स्थातव्यम् । द्वितीयपदे तिष्ठेयुरपि ।। [भा.५६७४] सवणपमाणा वसही, खेते ठायंते बाहि वोसग्गो।
पाणादिमादिएसुं, वित्थिन्नाऽऽगाढ जतनाए। वृ-परेषुक्षेत्रेष्वशिवादीनि भवेयुः ततः क्षेत्राभावेऽधःश्रवणमात्रायामप्यल्पप्राणादियुक्तायां तिष्ठतामियं यतना-वसतेर्बहिरावश्यकं कुर्वन्ति । अन्योऽपि य-'व्युत्सर्ग' कायोत्सर्गः स बहिः क्रियते । द्वितीयपदे सप्राणेषु आदिसब्दाद् बीजादिष्वपि वसतौ विद्यानेषु तिष्ठेयुः तत्र यतनया विस्तीर्णायां तिष्ठन्ति।सायेष्ववकाशेषुसंसक्ता तान् क्षारेण लक्षयन्ति, कुटमुखेन वा हरितादिकं स्थगयन्ति,दकमृत्तिका-बीजादीन्येकान्तेवृषभाःस्थापयन्ति। एवमागाढेकारणेस्थितानांयतनाविज्ञेया॥ - [भा.५६७५] वेउव्व-ऽवाउडाणं, वुत्ता जयणा निसिज कप्पो वा।
उवओग नितऽइंते, हुछिंदना नामना वा वि॥ वृ-येविकुर्विता-ऽपावृतसागारिकास्तेषांप्रथमोद्देशकोक्ता यतनाऽवधारणीया।प्रविशन्तो निर्गच्छन्तश्च पृष्ठतो निषद्यां कल्पं वा कुर्वन्ति । श्वानादीनामुपयोगं ददाना नित्यं निर्गच्छन्ति प्रविशन्ति च । यान्युपरितृणान्यवलम्बन्ते तेषां प्रमाM च्छेदनं नामनं वा कुर्वन्ति ॥व्याख्यातं ऋतुबद्धसूत्रद्वयम् । अथ वर्षावाससूत्रद्वयं विवृणोति[भा.५६७६] अंजलिमलिकयाओ, दोत्रिविबाहा समूसिया मउडो।
हेट्ठा उवरिं च भवे, मुक्कंतु तओ पमाणाओ। अञ्जलिमुकुलीकृतौ द्वावपि बाहू समुच्छ्रितौ मुकुट उच्यते।मुक्तमुकुटं पुनः 'ततः प्रमाणात् तावप्रमाणमङ्गीकृत्य संस्तारकनिविष्टस्थ उपरि च यत्रान्तरालं प्राप्यते ईश्यामुपरिरलिमुक्तमुकुटायां वसतौ वर्षाकाले स्थातव्यम् । कुतः ? इति चेद् उच्यते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org