________________
उद्देश : ४, मूलं - १४२, [ भा. ५६७७]
[भा. ५६७७]
२६७
हत्थो लंबइ हत्थं, भूमीओ सप्पो हत्थमुट्ठेति । सप्परस य हत्यरस य, जह हत्थो अंतरा होइ ॥
वृ- फलकादी संस्तारके सुप्तस्य 'हस्तः' हस्तमेकं अधो लम्बते, भूमितश्च सर्पो हस्तमुत्तिष्ठति, ततः सर्पस्य च हस्तस्य च यथा हस्तो अन्तरा भवति तथा कर्तव्यम् ।। तथा
[भा. ५६७८ ]
माला लंबति हत्यं, सप्पो संथारए निविट्ठस्स । सप्पस्सय सीसस्स य, जह हत्थो अंतरा होइ ॥
वृ- संस्तारके निविष्टस्य मालात् सर्पो हस्तं लम्बते, ततः सर्पस्य च शीर्षस्य च यता हस्तो अन्तरा भवति तथा विधेयम्, ईद्दक्प्रमाण उपाश्रयो ग्रहीतव्य इत्यर्थः ॥
[भा. ५६७९ ] काउस्सग्गं तु ठिए, मालो जइ हवइ दोसु रयणीसु । कप्पर वासावासो, इय तणुंजेसु सव्वेसु ॥
वृ- कायोत्सर्ग स्थितस्य मालो यदि द्वयो रत्नोरुपरि भवति तदा कल्पते तस्यां वसतौ वर्षावासः कर्तुम् । “इय” एवं सर्वेष्वपि तृणपुञ्जेषु विधिर्द्रष्टव्यः ॥
[ भा. ५६८० ] उप्पिं तु मुक्कमउडे, अहि ठंते चउलहुं च आणाई । मिच्छत्ते वालाई, बीयं आगाढ संविग्गो ॥
वृ- अत उपरिमुक्तमुकुटेप्रतिश्रये स्थातव्यम् । अथाधोमुक्तमुकुटे तिष्ठति ततश्चतुर्लघु आज्ञादयो मिथ्यात्वं व्यालादयश्च दोषाः पूर्वसूत्रोक्ता भवन्ति । द्वितीयपदमप्यागाढे कारणे तथैव मन्तव्यम् । तत्र च तिष्ठन् संविग्न एव भवति ॥ अत्रेयं यतना
[भा.५६८१] दीहाइमाईसु उ विजबंधं, कुव्वंति उल्लोय कडं च पोत्तिं । कप्पाऽसईए खलु सेसगाणं, मुत्तुं जहन्त्रेण गुरुस्स कुज्जा ॥
वृ-दीर्घजातीयादिषु वसतौ विद्यमानेषु तेषां विद्यया बन्धं कुर्वन्ति । विद्याया अभावे उपरिष्टादुल्लोचं कुर्वन्ति । उल्लोचाभावे कटम् । कटाभावे “पोत्तिं”ति चिलिमिलिकां सर्वसाधूनामुपरि कुर्वन्ति । अथ तावन्तः कल्पा न विद्यन्ते ततः शेषाणां मुक्त्वा जघन्येन गुरोरुपरिष्टादुल्लोचं कुर्यात् ॥ श्रीचूर्णिकारवदनानवचोमरन्दनिष्यन्दपारणकपीवरपेशलश्रीः ।
उद्देशके मम मतिभ्रमरी तुरीये, टीकामिषेण मुखरत्वमिदं वितेने ॥ उद्देशकः-४ समाप्तः मुनि दीपरत्नसागरेण संशोधिता सम्पादिता बृहत् कल्पसूत्रे चतुर्थोद्देशकस्य (भद्रबाहु स्वामि रचिता नियुक्ति युक्त) संघदासगणि विरचितं भाष्यं एवं मलयगिरि क्षेमकीर्ति आचार्याभ्यां विरचिताटीका परिसमाप्ता ।
उद्देशक:-५
व्याख्यातश्चतुर्थोद्देशकः । सम्प्रति पञ्चम आरभ्यते । तस्य चेदमादिसूत्रचतुष्टयम्मू. (१४३) देवे य इत्थिरूवं विउव्वित्ता निग्गंधं पडिगाहिज्जा, तं च निग्गंथे साइजेज्जा, मेहुणपडिसेवणप्पत्ते आवज्जइ चाउम्मासियं परिहारट्ठाणं अनुग्घाइयं ॥
मू. (१४४) देवी य इत्थिरूवं विउव्वित्ता निग्गंधं पडिगाहिज्जा, तं च निग्गंथे साइजेज्जा,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org