________________
बृहत्कल्प-छेदसूत्रम् - ३-४/११२
शोऽयमपीति भावः, एष आक्रोश उच्यते। तर्जना तु-'हुं हुं ज्ञातं भवदीयं सङ्घत्वम्' इत्यादिका ॥
अथ श्रुताशातनामाह
[भा. ४९७९]
१२४
काया वया य ते च्चिय, ते चेव पमायमप्पमादा य । मोक्खाहिकारियाणं, जोतिसविज्जासु किं च पुनो ॥
वृ-दशवैकालिकोत्तराध्ययनादौ यत् त एव, ट् कायास्तान्येव च व्रतानि तावेव प्रमादाऽप्रमादौ भूयोभूय उपवर्ण्यन्ते तद् अतीवायुक्तम् । मोक्षाधिकारिणां च साधूनां ज्योतिषविद्यासु पुनः किं नाम कार्यं येन श्रुते ताः प्रतिपाद्यन्ते ? ॥ अथाऽऽचार्याशातनामाह
[भा. ४९८० ]
इड्डि-रस- सातगुरुगा, परोवदेसुज्जया जहा मंखा । अत्तट्ठपोसणरया, पोसेंति दिया व अप्पाणं ।।
वृ- आचार्याः स्वभावादेव ऋद्धि-रस- सातगुरुकाः, तथा मजा इव परोपदेशोद्यताः, लोकावर्जनप्रसक्ता इति भावः, 'आत्मार्थपोषणरताः' स्वोदरभरणैकचेतसः । इदमेव व्याचष्टेद्विजा इवाऽऽत्मानममी पोषयन्ति ॥ अथ गणधराशातनामाह
[भा. ४९८१] अब्भुवज्जयं विहारं देसिंति परेसि सयमुदासीना । उवजीवंति य रिद्धिं, निस्संगा मो त्ति य भांति ॥
वृ- गणधरा गौतमादयो 'अभ्युद्यतं विहारं' जिनकल्पप्रभृतिकं परेषामुपदिशन्ति स्वयं पुनरुदासीनास्तं न प्रतिद्यन्ते, 'ऋद्धिं वा' अक्षीणमहानसिक-चारणादिकां लब्धिमुपजीवन्ति 'निस्सङ्गा वयम्' इति च भणन्ति ॥ अथ महर्द्धिकपदं व्याख्यानयति
[ भा. ४९८२ ] गणधर एव महिड्डी, महातवस्सी व वादिमादी वा । तित्थगरपढमसिस्सा, आदिग्गहणेन गहिता वा ॥
वृ- इह गणधर एव सर्वलब्धिसम्पन्नतया महर्द्धिक उच्यते, यद्वा महर्द्धिको महातपस्वी वा वादि-विद्या-सिद्धप्रभृतिको वा भण्यते, तस्य यद् अवर्णवादादिकरणं सा महर्द्धिकाशातना । गणधरास्तु तीर्थकरप्रथमशिष्या उच्यन्ते, आदिग्रहणेन वा ते गृहीता मन्तव्याः ॥ अथैतेषामाशातनायां प्रायश्चित्तमार्गणामाह
[भा.४९८३] पढम-बितिएसु चरिमं, सेसे एक्केक्क चउगुरू होंति । सव्वे आसादितो, पावति पारंचियं ठाणं ॥
वृ- " तित्थयर वयण सुयं" इति गाथाक्रमप्रमाण्यात् प्रथमः- तीर्थङ्करोद्वितीयः - सङ्घस्तयोर्देशतः सर्वतो वाऽऽशातनायां पाराञ्चिकम् । 'शेषेषु' श्रुतादिषु एकैकस्मिन् देशतः आशात्यमाने चतुर्गुरुकाः प्रायश्चित्तं भवन्ति । अथ सर्वतस्तान्याशातयति ततस्तेष्वपि पाराञ्चिकं स्थानं प्राप्नोति ॥ [भा. ४९८४] तित्थयरपढमसिस्सं, एक्कं पाऽऽसादयंतु पारंची । अत्थस्सेव जिणिंदो, पभवो सो जेन सुत्तस्स ॥
वृ- ‘तीर्थकरप्रथभशिष्यं' गणधरमेकमप्याशातयन् पाराञ्चिको भवति । कुतः ? इत्याह'जिनेन्द्रः' तीर्थकरः स केवलस्यैवार्थस्य 'प्रभवः' प्रथम उत्पत्तिहेतुः, सूत्रस्य पुनः स एव गणधरो येन कारणेन ‘प्रभवः' प्रथमतः प्रणेता, ततस्तमेकमप्याशातयतः पाराञ्चिकमुच्यते ॥
उक्त आशातनापाराञ्चिकः सम्प्रति प्रतिसेवनापाराञ्चिकमाह
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org