________________
१०
बृहत्कल्प-छेदसूत्रम् -३-३/९७ श्रावकास्तैः सममायातमनुत्तिष्ठतश्चतुर्गुरु । असंज्ञिभिः सममायातस्यानभ्युत्थाने षड्लघु । संज्ञिनीभिरसंज्ञिनीभिश्च स्त्रीभिः सममायान्तमनभ्युत्तिष्ठतः षड्गुरु । वादिना सार्धमायातेऽनभ्युत्थिते छेदः ।अमात्येन सार्धमागते मूलम् । सङ्घन सार्धमायातेऽनुत्थितेऽनवस्थाप्यम्। राज्ञा सहितं सूरिमागतमनुत्तिष्ठतः पाराञ्चिकम् ।। अथ किमर्थं स्त्रीभिः सममायाते पाराश्चिकम् ॥ अथ किमर्थं स्त्रीभिः सममायाते गुरुतरं प्रायश्चित्तम् ? उच्यते[भा.४४४५] पूएंति पूइयं इत्थियाउ पाएण ताओ लहुसत्ता।
एएण कारणेणं, पुरिसेसुंइत्थिया पच्छा॥ वृ-इहस्त्रियःप्रायेण 'पूजितं पूजयन्ति' यमेवाचार्यादिकंसाधु-श्रावकादिभिरभ्युत्थानादिना पूज्यमानं पश्यन्ति तस्यैव पूजां विदधति, ताश्च स्त्रियः प्रायेण ‘लघुसत्त्वाः' तुच्छाशया भवन्ति, ततःसाधुभिरनभ्युत्थीयमानमाचार्यं गाढतरं परिभवबुध्यापश्यन्ति-नकिमप्येषआचार्योजानाति, नचायं विशिष्टगुणवान् सम्भाव्यते, अन्यथा किमेते साधवो नाभ्युत्तिष्ठन्ति? । एवमेतेन कारणेन 'पुरुषेषु साधु-श्रावकादिषुपूर्वंलघुतरप्रायश्चित्तमुक्त्वा पश्चास्त्रियोऽधिकृत्य गुरुतरमुक्तम्। अथ राज्ञा सार्धं समागतस्यानभ्युत्थाने किं कारणं पाराञ्चिकम् ? इत्याह[भा.४४६]पाएणिद्धा एंति महानेन समंतू, फातिं दोसो गच्छइ एएसुतनू वि।
गझं वक्कं होज कहं वा परिभूतो, वेडुज्जं वा कुच्छियवेसम्मि मनूसे ।। वृ-'ऋद्धा-' राजादय ऋद्धिमन्तः 'प्रायेण' बाहुल्येन 'महाजनेन' सामन्त-मन्त्रि-महत्तमादीनां महतासमवायेन समं समागच्छन्ति, तत एतेषु 'तनुरपि' स्वल्पोऽप्यनभ्युत्थानमात्रलक्षणो दोषः स्फातिं गच्छति, सर्वत्र विस्तरतीति भावः । अप च-साधुभिरनभ्युत्थीयमान आचार्य परिभूतो भवति, परिभवपदमुपगच्छतीत्यर्थः ।परिभूतस्य च 'वाक्यं वचनं कथं नाम राजादीनां 'ग्राह्यम्' उपादेयं भवेत् ? । वैडर्यमिव रलं 'कुत्सितवेषे' कार्पटिकवेषधारिणि मनुष्ये वर्तमानम्; यथा तदीयेहस्तेस्थितंसद्अनर्थ्यमपितद्न जनस्योपादेयम्, एवंगुरूणामपिधर्मकथावाक्यं गाम्भीर्यमाधुर्यादिगुणैरनध्रयमपि परिभूततया न राजादीनामुपादेयं भवति । तदनुपादेयतायां च तेषां सम्यग्दर्शनादिप्रतिपत्तिरपि न भवति । अतो राज्ञा सार्धं समायातेऽनभ्युत्थीयमाने पाराञ्चिकम् । परः प्राह-युक्तं प्रश्रवणभूम्यादेरागतस्याभ्युत्थानम्, यतुचक्रमणंकुर्वतोऽभ्युत्थानंतद्नास्माकं युक्तिक्षमं प्रतिभाति, यतः[भा.४४४७] अवस्सकिरियाजोगे, वर्सेतो साहु पुज्जया।
परिफग्गुंतु पासामो, चंकम्मंते वि उट्ठणं॥ वृ-विचार-विहारादिको योऽवश्यं कर्त्तव्यः क्रियायोगस्तत्र वर्तमानो यदा समागच्छति तदा 'साध्वी' श्रेयसीतस्य पूज्यता। यदातुचङ्कमणंकरोति तदा निरर्थके योगेवर्तते अतश्रचङ्कमत्यपि गुरौ यद् उत्थानं तत् 'परिफल्गु' निष्फलमेवपश्यामः । यत उक्तं भगवत्याम्-जावंचनं से जीवे सयासमियं एयइ० तावं च नं से जीवे आरंभे वट्टइ संरंभे वट्टइ० । जावं च नं से जीवे आरंभे वट्टइ० तावं च नं तसस जीवस्स अंतकिरिया न भवइ ।। अत्र सूरिः प्रतिविधानमाह[भा.४४४८] कामंतु एअमाणो, आरंभाईसु वट्टई जीवो।
सो उ अणट्ठा नेट्ठो, अविबाहूणं पि उक्खेवो।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org