________________
- २८९
उद्देशकः ५, मूलं-१५१, [भा. ५७९९] भावस्याविशुद्धतया चत्वारोऽनुद्धाता मासाः॥ [भा.५८००] पंचम छ स्सत्तमिया, अट्ठमिया तेर चोद्दसमिया य ।
पन्नरस सोलसा विय, लतातो एया विसुद्धाओ॥ वृ-पञ्चमी षष्ठी सप्तमी अष्टमी त्रयोदशी चतुर्दशी पञ्चदशी षोडशी चेत्यष्टौ लता विशुद्धाः प्रतिपत्तव्याः, सर्वत्रापि भावस्य विशुद्धत्वात् ॥अत्र शिष्यः पृच्छति[भा.५८०१] दोण्ह विकतरो गुरुओ, अनुग्गतऽत्थमिय/जमाणाणं ।
आदेस दोनिकाउं, अनुग्गए लहुगुरू इयरे॥ वृ-अनुद्गता-ऽस्तमितभुञानयोर्द्वयोर्मध्ये कतरो गुरुतरः-महादोषः? ।सूरिराह-आदेशद्वयं कर्तव्यम् । एके आचार्या ब्रुवते-अनुद्गतभोजिनोऽस्तमितभोजी गुरुतरः । कुतः ? इति चेद् उच्यते स संक्लिष्ट परिणामः, दिवसतो भुक्त्वा भूयो रजन्याः प्रमुख एव भुङ्क्ते, तदानीं चाविशुध्यमानः कालः; अनुदितभोजीपुनःसकलांरजनीमधिसह्य क्लान्तोभुङ्क्ते, विशुध्यमानश्च तदानीं कालः, अतोऽसौ लघुतरः । अपरो भणन्ति-अस्तमितभोजिनोऽनुदितभोजी गुरुतरः, यस्मादसौसर्वां रात्रिमधिसह्य स्तोकंकालंनप्रतीक्षतेततःसंक्लिष्टपरिणामः इतरस्तुचिन्तयतिभूयान् मया कालः सोढव्य अतो भुङ्क्ते, एवमसौ लघुतरः । एवमादेशद्वयं कृत्वा स्थितपक्ष उच्यते-अनुद्गते सूर्य प्रतिसमयं विशुध्यमानः कालो भवतीति कृत्वाऽनुदितभोजी लघुतरः 'इतरः पुनः' अस्तमितभोजीसतदानीं प्रतिसमयमविशुध्यमानःकालो भवतीति कृत्वागुरुतरः।। उक्तं कालनिष्पन्नं प्रायश्चित्तम् । अथ द्रव्य-भावनिष्पन्नमभिधित्सुराह[भा.५८०२] गेण्हण गहिए आलोयण, नमोक्कारे भुंजणे यसलेहे।
___ सुद्धो विगिंचमाणो, अविगिंचण सोहि दव्व भावे य॥ वृ-अनुदितो वाऽस्तमितो वा रविरेतेषु स्थानेषु ज्ञातो भवेत्-"गेण्हण" त्ति कृते उपयोगे पदमेदे कृते ज्ञातम्, यथा-नाद्याप्युद्गतोऽस्तमितो वा; तदा तत एव निवर्तमानः शुद्धः । अथ ग्रहणं-गवेषणं कुर्वता ज्ञातं तदापि निवर्तमानः शुद्धः । अथ गृहीते ज्ञातं ततो यद् गृहीतं तत् परिष्ठापयन् शुद्धः । अथालोचयता ज्ञातं तदापि विविञ्चन् शुद्धः । अथ भोक्तुकामेन नमस्कार भणता ज्ञातं ततोऽपि विविञ्चन् शुद्धः । भुञानेन ज्ञातं शेषं परित्यजन् शुद्धः । अथ सर्वस्मिन् भुक्ते संलेखनाकल्पं कुर्वता ज्ञातं तथापि विविञ्चन् 'शुद्धः' न प्रायश्चित्ती । अथ न विविनक्ति ततो द्रव्यतो भावतश्च 'शोधि' प्रायश्चित्तं भवति ॥ तत्र द्रव्यनिष्पन्नं तावदाह[भा.५८०३] संलेह पण तिभाए, अवड दोभाए पंच मोत्तु भिक्खुस्स।
____ मास चउ छच्च लहु-गुरु, अभिक्खगहणे तिसू मूलं ॥ - वृ-'संलेखः' कवलत्रयप्रमाणः तमवशेषमनुद्गतेऽस्तमिते वा ज्ञातेऽपि भुङ्क्ते मासलघु । पञ्चकवलानवशिष्यमाणान्भुङ्क्ते मासगुरु। त्रिभागः' दशकवलास्तान्शेषान् भुङ्क्ते चतुर्लघु। 'अपार्थः' पञ्चदशकवलास्तानवशेषान् भुञानस्य चतुर्गुरु । “दोभाग" त्ति द्वौ त्रिभागौ विंशति कवलास्तान्भुञानस्यषड्लघु । "पंचमोत्तुं"तित्रिंशतोमध्यात्पञ्च मुक्त्वायेशेषाः पञ्चाविंशति कवलास्तान्यदिभुङ्क्ते तदा षड्गुरु।एवं यथा यथा द्रव्यवृद्धिस्तथा तथा प्रायश्चित्तमपि वर्धते। 2019
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org