________________
२९०
बृहत्कल्प-छेदसूत्रम् -३-५/१५१ अभीक्ष्णग्रहणं पुनः पुनरासेवांप्रतीत्य द्वितीयं वारमेवंभुञानस्य मासगुरुकादारब्धं छेदे तिष्ठति। तृतीयंवारं चतुर्लघुकादारभ्यमूलंयावद्नेतव्यम्। एवंत्रिषुवारेषुमूलं यावत्प्रायश्चित्तंभिक्षोरुक्तम्। [भा.५८०४] एमेव गणा-ऽऽयरिए, अणवट्ठप्पो यहोति पारंची।
तम्मि विसो चेव गमो, भावे पडिलोम वोच्छामि॥ . वृ- एवमेव गणिनः-उपाध्यायस्याचार्यस्य च चारणिकागमः स एव कर्तव्यः । नवरम्उपाध्यायस्य प्रथमवारं मासगुरुकादारब्धं छेदे, द्वितीयवारं चतुर्लघुकारब्धं मूले, तृतीयवारं चतुर्गुरुकादारब्धं अनवस्थाप्ये तिष्ठति । एवमाचार्यस्यापि प्रथमवारं चतुर्लघुकादारब्धं मूले, द्वितीयवारं चतुर्गुरुकादारब्धमनवस्थाप्ये, तृतीयवारंषड्लघुकादारब्धं पाराञ्चिके पर्यवस्यति। गतं द्रव्यनिष्पन्नम्। अथ भावे प्रतिलोमंप्रायश्चित्तंवक्ष्यामि-पूर्वद्रव्यवृद्धौ प्रायश्चित्तवृद्धिरुक्ता, सम्प्रति यथा यथा द्रव्यपरिहाणिस्तथा तथा परिणामसंक्लेशवृद्धिभङ्गीकृत्य प्रायश्चित्तवृद्धिमभिधास्ये ॥ तामेवाह[भा.५८०५] पंचून तिभागऽद्धे, तिभाग सेसे य पंच मोत्तु संलेहं।
.. तम्मिवि सोचेव गमो, नायंपुन पंचहि गतेहिं।। वृ-'तत्रापि' भावप्रायश्चित्ते यो द्रव्यनिष्पन्ने चारणागम उक्तः स एव द्रष्टव्यः । नवरम्"पंचून"तिपञ्चभिः कवलैरूनायांत्रिंशतिशेषाः पञ्चविंशतिकवला भवन्ति, ततः पञ्चसुकवलेषु गतेषुयदिज्ञातम् ‘अनुदितोऽस्तमितो वारवि' एवं ज्ञात्वाशेषान्पञ्चविंशतिकवलान् भुञानस्य मासलघु । "तिभाग"त्ति त्रिंशत् त्रिभागेन हीना विंशतिकवलास्तान भुलानस्य मासगुरु । "अद्धि"त्ति 'अर्द्ध' पञ्चदश कवलास्तान् भुआनस्य चतुर्लघु । 'त्रिभागः' दश लम्बनास्तान् मुञानस्य चतुर्गुरु । त्रिंशतः पञ्च लम्बनान् मुक्त्वा शेषाः पञ्चविंशतिरज्ञाते भुक्ताः, ज्ञातेतु पञ्च शेषान् भुञानस्य षड्लघुकाः । संलेखनाशेषं भुआनस्य षड्गुरवः । इह प्रभूत-प्रभूततरकवले अधिका-ऽधिकतरायामितृप्तौ सञातायां शेषं स्तोकस्तोकतरमपिज्ञातेसति भुङ्क्तेतत्र परिणामः संक्लिष्टः संक्लिष्टतर इति कृत्वा बहु-बहुतरं प्रायश्चित्तम्॥ [भा.५८०६] एमेवऽभिक्खगहणे, भावे ततियम्मि भिक्खुणो मूलं ।
एमेव गणा-ऽऽयरिए, सपया सपदं हसति इक्कं ॥ वृ- एवमेवाभीक्ष्णग्रहणेऽपि भावनिष्पन्नं प्रायश्चित्तं भिक्षोर्द्रष्टव्यम् । नवरम्-द्वितीयवरा मासगुरुकादारब्धं छेदे तिष्ठति, तृतीयवारं चतुर्लघुकादारब्धं मूलं यावद् नेयम् । एवमेव गणिन
आचार्यस्य च द्रष्टव्यम्।नवरम्-स्वपदात् स्वपदमेकमुभयोरपि हसति।तत्रोपाध्यायस्यप्रथमवारं मासगुरुकादारब्धंतृतीयवारायामनवस्थाप्ये, आचार्यस्यप्रथमवारं चतुर्लघुकादारब्धंतृतयवारायां पाराधिकेतिष्ठति।इहपूर्वमुद्गतवृत्तिपदमनस्तमितसङ्कल्पपदंचव्याख्यातंन शेषाणिसंस्तृतादीनि अतस्तानि व्याचष्टे[भा.५८०७] संथिओ संथरेती, संतयभोजी व होइ नायव्यो ।
पज्जत्तं अलभंतो, असंथडी छिन्नभत्तो य॥ वृ-संस्तृतो नाम पर्याप्तं भक्त-पानं लभमानः संस्तरति, अथवा यः ‘सन्ततभोजी' दिने दिने पर्याप्तमपर्याप्तं वा भुङ्क्ते स संस्तृतो ज्ञातव्यः । यस्तु पर्याप्तं भक्त-पानं न लभते चतुर्थादिना
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org