________________
उद्देश : ४, मूलं - १११, [भा. ४९२५]
११३
यदि नृपस्यान्तिके साधूनाकर्षति तदा करणे गत्वा कारणिकादीनां व्यवहारो दीयते । तत्र च श्रीगृहोदाहरणं कर्तव्यम् । यथा-यदि राज्ञः श्रीगृहे रत्नापहारं कुर्वन् कश्चिच्चौरः प्राप्यते ततस्तस्य कं दण्डं प्रयच्छथ ? । कारणिकाः प्राहुः शिरस्तदीयं गृह्यते । साधवो भणन्ति - अस्माकमप्येषा रत्नापहारिणी अव्यापादिता मुधैव मुक्ता । ते प्राहुः कानि युष्माकं रत्नानि ? | साधवो भणन्तिज्ञानादीनि । कथं तेषामपहारः ? । अनाचारप्रतिसेवनादपध्यानगमनादिनेति ॥
अथ सस्त्रीकः पुरुषः समागच्छेत् सोऽपि वारणीयः । तथा चाह[भा. ४९२६] अहिकारो वारणम्मिं, जत्तिय अप्फुन्न तत्तिया वसही । अतिरग दोस भगिनी, रत्तिं आरद्धे निच्छुभणं ।।
वृ- यत्र केवला पुरुषमिश्रिता वा स्त्री समागच्छति तत्र सर्वत्रापि वारणायामधिकारः, सा कर्तव्योति भावः । अत एव चोत्सर्गतो घङ्खशालायां न वस्तव्यं किन्तु यावद्भिः साधुभिः सा "अप्फुन्न "त्ति व्याप्ता भवति 'तावती' तावत्प्रमाणा वसतिरन्वेषणीया । अथातिरिक्तायां वसतौ वसन्ति ततः 'दोषाः' पूर्वोक्ता भवन्ति । कारणतस्तस्यामपि स्थितानां कश्चित् पुरुषः स्त्रीसहितः समागच्छति स चानुकूलैर्वचोभिर्वारणीयः, वार्यमाणश्च ब्रूयात्- 'एषा मे भगिनी संरक्षणीया, साधूनां समीपे चाशङ्कनीया' इति च्छद्मना भणित्वा स्थितऽसौ, रात्रौ च प्रारब्धस्तां प्रतिसेवितुं ततः साधुभिर्वक्तव्यः - अरे निर्लज्ज ! किमस्मानत्र स्थितान् न पश्यसि यदेवमकार्यं करोषि ? ; एवमुक्त्वा निष्काशनं तस्य कर्तव्यम् ॥ [ भा. ४९२७]
आवरितो कम्मेहिं, सत्तू विव उट्ठितो थरथरंतो । मुंचति य भेंडितातो, एक्केकं भे निवादेमि ॥
वृ- अथासौ निष्काश्यमानो रुष्येद् रुष्टश्च 'कर्मभि' कषायमोहनीयादिभि 'आवृतः' आच्छादितः साधूनामुपरि शत्रुरिव रोषेण "थरथरंतो "त्ति भृशं कम्पमानः प्रहारं दातुमुत्थितः वाग्योगेन च 'भिण्डिकाः' त्राडीर्महता शब्देन मुञ्चति, यथा- “भे" युष्माकमेकैकं निपातयामि ।।
[ भा. ४९२८ ] निग्गमनं तह चेवा, निद्दोस सदोसऽ निग्गमे जतणा । सज्झाए झाणे वा, आवरणे सद्दकरणे वा ॥
वृ- एवं तस्मिन् विरुद्धे सञ्जाते तस्या वसतेः सञ्जाते तस्या वसतेः साधुभिर्निर्गमनं 'तथैव' कर्तव्यं यथा पूर्वं वेश्यास्त्रियामुक्तं यदि बहिर्निर्दोषम् । अथ सदोषं ततः 'अनिर्गमे' अनिर्गच्छतामियं यतना- स्वाध्यायो महता शब्देन क्रियते ध्यानं वा ध्यायते । यस्य स्वाध्याये ध्याने वा लब्धिर्न भवति सः 'आवरण' कर्णयोः स्थगनं विदधाति ' शब्दकरणं वा' महता शब्देन बोलो विधीयते ॥ एवमपि यतमानस्य कस्यापि तत् प्रतिसेवनं दृष्ट्वा कर्मोदयो भवेत् । कथम् ? इति चेद् उच्यते[भा.४९२९] वडपादव उम्मूलण, तिक्खम्मि व विज्जलम्मि वच्च॑तो । कुमाणो विपत्तं, अवसो जह पावती पडणं ।
[भा. ४९३०] तह समणसुविहिताणं, सव्वपयत्तेण वी जतंताणं । कम्मोदयपइया, विराधना कासति हवेजा ।
वृ-यथा वटपादपस्यानेकमूलप्रतिबद्धस्यापि गिरिनदीसलिलवेगेनोन्मूलनं भवति, “तिक्खम्मि
20 8
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org