________________
२५६
बृहत्कल्प-छेदसूत्रम् - ३-४/१३७
तन्निमित्तं सञ्जातवैराग्यौ श्रावकेणानुशिष्टौ भक्तं प्रत्याख्याय कालगती नागकुमारेषूपपन्नौ ॥ ततस्ताभ्यां किं कृतम् ? इत्याह
[भा. ५६२८] वीरवरस्स भगवतो, नावारूढस्स कासि उवसग्गं । मिच्छद्दिट्ठि परद्धो, कंबल - सबलेहिं तारिओ भगवं ॥
वृ- वीरवरस्य भगवतो नावारूढस्य सुदाढो नागकुमार उपसर्गमकार्षीत् । तेन मिथ्यादृष्टिना प्रारब्धो जले बोलयितुं कम्बल-शबलाभ्यां मोचितो भगवान्। कथानकमावश्यकादवधारणीयम् । एवं नावारूढस्य साधोर्बोलनादिकं सम्भवतीति । अथ वाहनादिपदानि व्याचष्टे
[भा. ५६२९] सीसगता वि न दुक्खं, करेह मज्झं ति एवमवि वोत्तुं । जा छुमंतु समुद्दे, मुंचति नावं विलग्गेसु ॥
वृ- 'सिद्धार्थका इव शिरसि गता अपि मम दुःखं न कुरुथ' एवमप्युक्त्वा कश्चित् प्रत्यनीको यदा साधवो नावं विलग्नास्तदा । नावं नदीमुखेषु मुञ्चति येन समुद्रे प्रक्षिप्यन्ते, तत्र पतिताः क्लिश्यन्तां म्रियन्तां चेति कृत्वा ।। गतं वाहनम् । अथ सेचनं बोलनं चाह
[भा. ५६३०] सिंचति ते उवहिं वा, ते चेव जले छुभेज्ज उवधिं वा । मरणोवधिनिप्फन्नं, अनेसिग तणादि तरपन्नं ॥
वृ- नाविकोऽन्यो वा प्रत्यनीकस्तान् साधूनुपधिं वासिञ्चति, तानेव साधूनुपधिं वा जले प्रक्षिपेत्, बोलयेदित्यर्थः । तत्र चात्मविराधनायां मरणनिष्पन्नम्, उपधिनाशे उपधिनिष्पन्नम् । यच्चानेषणीयमुपधिं ग्रहीष्यन्ति तृणानि वा सेविष्यन्ते तन्निष्पन्नं सर्वमपि प्राप्नोति । तरपण्यं वा स मार्गयेत्, अदीयमाने चिरं निरुन्ध्यात्, दीयमानेऽधिकरणम् ॥
गताः प्रत्यनीकदोषाः । अथ 'बहवः प्रत्यपायाः' इति व्याचष्टे
[ भा. ५६३१] संघट्टणाऽऽयसिंचण, उवगरणे पडणं संजमे दोसा । सावत तेने तिण्हेगतर, विराधना संजमा - SSयाए ।
वृत्रसादीनां सङ्घट्टना, जलेन वा सेचनमुपकरणस्यात्मनो वा, पतनं वा, एते संयमे दोषाः । श्वापदकृता स्तेनकृता वा आत्मविराधना । “तिहेगयर" त्ति अनुकम्पा - प्रत्यनीकतातदुभयादिरूपाणां त्रयाणामेकतरस्मिन् संयमविराधनाऽऽत्मविराधना च भवति । एष सङ्ग्रहगाथासमासार्थः ।। अथैनामेव विवृणोति
[भा. ५६३२] तस - उदग-वणे घट्टण, सिंचण लोगे अ नावि सिंचणता । वुब्मण उवधाऽऽतुभये, मगरादि समुद्दतेना य ॥
वृ- जलोद्भवानां त्रसानाम् उदकस्य वा सेवालादिरूपस्य वनस्पतेर्वा सङ्घट्टनं भवेत् । लोकेन नाविकेन वा साधोरुपकरणस्य वा सेचनं क्रियेत । अतिसम्बाधे वा उपधेरात्मनस्तदुभयस्य वा स्ताधेऽस्ताधे वा जले “वुब्भणं” बोलनं भवति । मकरादयः श्वापदाः समुद्रस्तेनाश्च तत्र भवेयुः । इदमेव व्याचष्टे[भा. ५६३३]
-
ओहार-मगरादीया, घोरा तत्थ उ सावया ।
सरीरोवाहिमादीया, नावातेना य कत्थई ॥
वृ- ओहार-मकरादयः 'तत्र' नद्यां घोराः श्वापदा भवन्ति । ओहारः-मस्त्यविशेषः, स किल
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org