________________
उद्देश : ६, मूलं - २१५, [भा. ६४६७ ]
वृ- 'ततश्च' पूर्वोक्तकारमाद् 'ऊनके ' एक-द्व्यादिभि साधूभिरपूर्णे कल्पे यस्तत्रोपसम्पद्यते तत्रायं विधि-‘यावद्भिः' एकादिसङ्ख्याकैः स गण ऊनः 'तावतः' तावत्सङ्ख्याकानेव साधून् 'तत्र' गणे 'प्रक्षिपेत्' प्रवेशयेत् ॥
[भा. ६४६८ ]
तत्तो अनूनए कप्पे, उवसंपजति जो तहिं । उवसंपजमाणं तु तप्पमाणं गणं करे ॥
वृ- अथ कोऽप्युपद्रवैर्न कालगतस्तत एवमन्यूनके कल्पे ये तत्रोपसम्पद्यन्ते ते यदि नव जनाः पूर्णास्ततः पृथग् गणो भवति । अथापूर्णास्ततः प्रतीक्षाप्यन्ते यावदन्ये उपसम्पदर्थमागच्छन्ति । ततस्तमुपसम्पद्यमानं साधुजनं मीलयित्वा 'तत्प्रमाणं' नवपुरुषमानं गणं 'कुर्यात्' स्थापयेत् ॥ [भा. ६४६९ ] पमाणं कप्पट्ठितो तत्थ, ववहारं ववहरित्तए । अनुपरिहारियाणं पि, पमाणं होति से विऊ ।।
वृतेषां पारिहारिकाणां 'तंत्र' कल्पे कचित् स्खलितादावापत्रे 'व्यवहारं' प्रायश्चित्तं 'व्यवहर्तुं' दातुं कल्पस्थितः प्रमाणम्, यदसौ प्रायश्चित्तं ददाति तत् तैर्वोढव्यमिति भावः । एवमनुपारिहारिकाणामप्यपराधपदमापन्नानां स एव 'विद्वान्' गीतार्थ प्रायश्चित्तदाने प्रमाणम् ॥ [भा. ६४७० ] आलोयण कप्पठिते, तवमुज्जाणोवमं परिवहंते । अनुपरिहारिए गोवालए, व निच्च उज्जुत्तमाउत्ते ॥
वृ- ते परिहारिका - ऽनुपरिहारिका आलोचनम् उपलक्षणत्वात् वन्दनकं प्रत्याख्यानं च कल्पस्थितस्य पुरतः कुर्वन्ति । "तवमुज्जाणोवमं परिवहंते "त्ति यथा किल कश्चिदुद्यानिकां गत एकान्तरतिप्रसक्तः स्वच्छन्दसुखं विहरमाण आस्ते एवं तेऽपि पारिहारिका एकान्तसमाधिसिन्धुनिमग्नमनसस्तत् तपः 'उद्यानोपमम्' उद्यानिकासदृशं परिवहन्ति, कुर्वन्तीत्यर्थः । अनुपारिहारिकाश्च चत्वारोऽपि चतुर्णां परिहारिकाणां भिक्षादौ पर्यटतां पृष्ठतः स्थिता नित्यम् 'उद्युक्ताः' प्रयत्नवन्त 'आयुक्ताश्च' उफयुक्ता हिण्डन्ते, यथा गोपालको गवां पृष्ठतः स्थित उद्युक्त आयुक्तश्च हिण्डते ॥ [भा. ६४७१]
४२५
पडिपुच्छं वायणं चेव, मोत्तूणं नत्थि संकहा । आलावो अत्तनिद्देसो, परिहारिस्स कारणे ॥
Jain Education International
वृ- तेषां च पारिहारिकादीनां नवानामपि जनानां सूत्रार्थयोः प्रतिपृच्छां वाचनां च मुक्त्वा नास्त्यन्या परस्परं सङ्कथा । पारिहारिकस्य च 'कारणे' उत्थान-निषदनाद्यशक्तिरूपे आलाप आत्मनिर्देशरूपो भवति, यथा- उत्थास्यामि, उपवेक्ष्यामि, बिक्षां हिण्डिष्ये, मात्रकं प्रेक्षिष्ये इत्यादि ।
[ भा. ६४७२] बारस दसऽट्ठ दस अट्ठ छ च्च अद्वेव छ च्च चउरो य । उक्स - मज्झिम- जहन्नगा उ वासा सिसिर गिम्हे ॥
वृ- परिहारिकाणां वर्षा - शिशिर-ग्रीष्मरूपे त्रिविधे काले उत्कृष्ट-मध्यम- जघन्यानि तपांसि भवन्त । तत्र वर्षारात्रे उत्कृष्टं तपो द्वादशम्, शिशिरे दशममुत्कृष्टम्, ग्रीष्यमे उत्कृष्टमष्टमम्; वर्षारात्रे मध्यमं दशमम्, शिशिरेऽष्टमम्, ग्रीष्मे षष्ठम्: वर्षारात्रे जघन्यमष्टमम्, शिशिरे षष्ठम्, ग्रीष्मे चत्वारि भक्तानि, चतुर्थमित्यर्थः ॥
[ भा. ६४७३ ] आयंबिल बारसमं, पत्तेयं परिहारिगा परिहरति । अभिगहितएसणाए, पंचण्ह वि एगसंभोगो ॥
For Private & Personal Use Only
www.jainelibrary.org