________________
२६०
बृहत्कल्प-छेदसूत्रम् - ३-४/१३८
[भा. ५६४७ ] उवलजलेण तु पुव्वं, अक्कंत-निरच्चएण गंतव्वं । तस्सऽसति अनक्कंते, निरञ्च्चएणं तु गंतव्वं ॥
वृ- उपलजले कर्दमो न भवति, स्थिरसंहननं च तद् द्भवति, अतः पूर्वं तेन ‘आक्रान्त-निरत्येन' क्षुन्न- निष्प्रत्यपायेन गन्तव्यम् । तस्याभावे अनाक्रान्त-निरत्ययेनापि गन्तव्यम् ॥ भा (५६४८ ] एमेव सेसएस वि, सिगतजलादीहि होंति संजोगा । पंक महुसित्य लत्तग, खुलऽद्धजंघा य जंघाय ॥
वृ- उपलाद् वालुका अल्पसंहनना, तत उपलजलाभावे वालुकाजलेन गन्तव्यम् । वालुकायाः शुद्धपृथिवी स्वल्पतरसंहनना, ततो वालुकाजलानन्तरं शुद्धोदकेन गम्यते । तेष्वपि सिकताजलादिषु शेषपदेषु 'एवमेव' प्राग्वद् आक्रान्ता ऽनाक्रान्तादयः संयोगा भवन्ति । पङ्कजलं बहुप्रत्यपायम्, अतः सर्वेषामुपलजलादीनामभावे तेन गम्यते । स च यः 'मधुसिक्थाकृति' क्रमतलयोरेव केवलं लगति यो वा अलक्तकमात्रस्तेन पूर्वं गम्यते, पश्चात् खुलकमात्रेण, पश्चादर्द्धजङ्घामात्रेण, ततो जङ्घामात्रेण जानुप्रमाणेनेत्यर्थः । यस्तु जानुप्रमाणादुपरि पङ्कस्तेन न गन्तव्यम्, यत आह[ भा. ५६४९ ] अड्ढोरुतमित्तातो, जो खलु उवरिं तु कद्दमो होति । कंटादिजढो वि य सो, अत्थाहजलं व सावायं ॥
वृ- 'अर्धोरुकमात्राद्' जानुप्रमाणादुपरि यः कर्दमो भवति स कण्टकाद्यपायवर्जितोऽप्यस्ताघजलमिव गन्तुमशक्यत्वात् सापायो मन्तव्यः । एष विधिः सर्वोऽपि सच्चित्तपृथिव्यामक्तः । अथाचित्तपृथिव्यां तमेवाह
[भा. ५६५० ] जत्थ अचित्ता पुढवी, तहियं आउ-तरुजीवसंजोगा । जोनिपरित्त - थिरेहि य, अक्कंत-निरच्चएहिं च ।
वृ-यत्र पृथिवी अचित्ता तत्राप्कायजीवानां तरुजीवानां च संयोगाः कर्तव्याः । तद्यथा- पृथिवी सर्वत्राप्यचित्ता किमप्कायेन गच्छतु ? किं वा वनस्पतिना ? उच्यते - अप्काये नियमाद् वनस्पतिरस्ति तस्मात् तेन मा गात्, वनस्पतिना गच्छतु, तत्रापि परीत्तयोनिकेन स्थिरसंहननेन आक्रान्तेन निरत्ययेन च निष्प्रत्यपायेन । अत्र षोडश भङ्गाः, तद्यथा - प्रत्येकयोनिकः स्थिर आक्रान्त M निप्रत्यपायः, एष प्रथमो भङ्गः, सप्रत्यपायेन द्वितीयः, अनाक्रान्तेऽप्येवमेव द्वौ विकल्पौ, एवं स्थिरे चत्वारो विकल्पाः लब्धाः, अस्थिरेऽप्येवं चत्वारः, एते प्रत्येकयोनिकेनाष्टौ भङ्गा लब्धाः, अनन्तयोनिकेऽप्येवमेवाष्टौ लभ्यन्ते, एवं सर्वसङ्ख्यया वनस्पतिकाये परीत्तादिभिः पदैः षोडश भङ्गा भवन्ति ॥ अथाप्कायस्य त्रसानां च संयोगानाह
[ मा. ५६५१] एमेव य संजोगा, उदगस्स चउव्विहेहि तु तसेहिं । अक्कंत-थिरसरीरे - चिरच्चएहि तु गंतव्वं ॥
वृ- चतुर्विधास्त्रसाः द्वीन्द्रियास्त्रन्द्रियाश्चतुरिन्द्रयाः पञ्चेन्द्रियाश्चेति । एतैश्चतुर्विधैरपि त्रसैराक्रान्तादिभिः पदैरेवमेव उदकेन सह संयोगाः कार्या, तद्यथा - आक्रान्ताः स्थिरा निप्रत्यपायाः १ आक्रान्ताः स्थिराः सप्रत्यपायाः २ एवं त्रिभिः पदैरष्टौ भङ्गा भवन्ति, एते च द्वीन्द्रियादिषु चतुर्ष्वपि प्रत्येकमष्टावष्टौ लभ्यन्ते, जाता भङ्गकानां द्वात्रिंशत् । अथ सान्तरनिरन्तरविकल्पविवक्षा क्रियते ततश्चतुःषष्टिः संयोगा उत्तिष्ठन्ते । अत्र चाक्रान्त-स्थिरशरीरनिरत्ययैः सान्तरैस्त्रसैर्गन्तव्यं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
-