________________
उद्देशकः ४, मूलं-१३८, [भा. ५६४२]
२५९ द्विधा-एकतः सालम्बो द्विधा सालम्बश्च । पूर्व द्विधा सालम्बेन, तत एकतः सालम्बेनापि तथा निर्भयेनगन्तव्यंनसभयेन।अतएवाह-“पडिपखेसुयगमणं"ति अनेकाङ्गिक-चल-परिशाटिनिरालम्ब-समयाख्यानां पञ्चानां पदानां ये एकाङ्गिकादयः प्रतिपक्षास्तेषु गमनं कर्तव्यम् । अत्र पञ्चभि पदैर्वात्रिंशद् भङ्गाः-एकाङ्गिकः स्थिरोऽपरिशाटी सालम्बो निर्भय इत्यादि । एषु प्रथमो भङ्गःशुद्धःशेषा अशुद्धाः,तेष्वपिबहुगुणरेषुगमनंयतनाच कर्तव्या।सण्डेवकाअपिसङ्क्रमभेद एव, अत आह-तज्जातकाः 'इतरे वा' अथजातकाः सण्डेवका भवेयुः । तत्रैव जातास्तज्जाताः शिलादयः, अन्यतः स्थानादानीय स्थापिता अतज्जाताः इट्टालकादयः । तेष्वपि चा-ऽचलाऽऽक्रान्ता-ऽना-क्रान्तादयो भेदाः कर्तव्याः ।। उक्तः सङ्क्रमः । अथ स्थलमाह[भा.५६४३] निदकोप्पर वरणेण व, थलमुदयं नोथलं तुतं चउहा।
उवलजल वालुगजलं, सुद्धमही पंकमुदगंच॥ -नद्याआकुण्टितकूर्पराकारंवलनंनदीकूपरमुच्यते।जलोपरिकपाटानिमुक्त्वापालिबन्धः क्रियते स वरण उच्यते । एताभ्यां यदुदकंपरिहत्य गम्यते तत् स्थलं द्रष्टव्यम् । अथ नोस्थलं तत् चतुर्विधम्-'उपलजलम्' अधः पाषाणा उपरि जलं १ वालुकाजलम्' अधो वालुका उपरि पानीयं २ 'शुद्धोदकं' अधः शुद्धा मही उपरिजलं ३ 'पदोदकं अधः कर्दम उपरिजलम् ४॥
पोदकस्य चामूनि विधानानि[भा.५६४४] लत्तगपहे य खुलए, तहऽद्धजंघाए जानुउवरिंच।
लेवेय लेवउवरिं, अक्तादी उसंजोगा। ह-यावन्मात्रमलक्तकेन पादोरज्यतेतावन्मात्रोयत्रपथिकर्दमः सलत्तकपथः।खुलकमात्रःपादघुण्टकप्रमाणः। अर्द्धजजामात्रः-जवाड़यावद्भवति । 'जानूपरि जानुमात्रंयावद्भवति। 'लेपः' नाभिप्रमाणः । तत ऊर्ध्व सर्वोऽपि लेपोपरि । एते सर्वेऽपि कर्दमप्रकाराः। चतुर्विधे नोस्थले कर्दमे चाक्रान्ता-ऽनाक्रान्त-सभय-निर्भयादयः संयोगा यथासम्भवं वक्तव्याः । अमुना दोषेण युक्तः पन्थाः परिहर्तव्यः ।। [भा.५६४५] जो विय होतऽक्कतो, हरियादि-एतेहि चेव परिहीनो।
तेन वितुन गंतव्वं, जत्थ अवाया इमे होति॥ वृ-योऽपि च पन्थाः ‘आक्रान्तः' दरमलितो हरितादिमिस्त्रसैश्च परिहीणो भवति तेनापि न गन्तव्यम् । यत्र अमी अपाया भवन्ति॥ [भा.५६४६] गिरिनदि पुत्रा वाला-ऽहि-कंटगा दूरपारमावत्ता।
चिखल्ल कल्लुगाणि य, गारा सेवाल उवला य॥ वृ-यत्र पथि गिरिनदी पूर्णा' तीव्रवेगा वहति, मकरादयो व्याला अहयो वा यत्र जलमध्ये भवनत्, कण्टका वा पूरेणानीताः, दूरपारम् आवर्तबहुलं वा जलं भवेत्, चिक्खल्लो वा नदीषु ताशोयत्रपादोनिमज्जति, कल्लुकाः' गाथायांनपुंसकत्वंप्राकृतत्वात्पाषाणेषुद्वीन्द्रियजातिविशेषा . भवन्ति ते पादौ छेदयन्ति, 'गाराः' पाषाणभृङ्गिकाः, “सेवालः' प्रसिद्धः ‘उपलाः' छित्रपाषाणाः एभिरपायैर्वर्जितेन पूर्वंस्थलेन गन्तव्यम्, तदभावे सङ्क्रमेण, तदभावे नोस्थलेनापि ।।
तत्र चतुर्विधे नोस्थले पूर्वममुना गन्तव्यम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org