________________
उद्देशक : ३, मूलं- १००, [भा. ४५९१]
४५
वाहितायां प्रायश्चित्तं यच्च दोषजालं तद् आपद्यते । तथा महाव्रतपञ्चकविषया दोषा भवन्ति, तथाहि प्राणवधमापद्येत प्राणवधे वा शङ्कयेत, एवं यावत् परिग्रहमापद्येत परिग्रहे वा शङ्कयेत ॥ तथाहि
[ भा. ४५९२ ] पाणवहम्मि गुरुव्विणि, कप्पट्ठोद्दाणए य संका उ । भणिओ न ठाइ कोयी, मोसम्म य संकणा साणे ॥
वृ- गृहे उपविश्य साधुर्धर्मं कथयति, गुर्विणी च तस्यान्तिके उपविष्टा शृणोति, यावच्चासौ तत्र तिष्ठति तावत् तदीयगर्भस्य आहारव्यवच्छेदेन विपत्तिर्भवति, एवं प्राणवधे लगति । तथा धर्मं कथयतः काचिदविरतिका शृण्वत्येवापान्तराले कायिकाभूमिं गच्छेत्, तस्याः पुत्रस्तत्रैवास्ते, ततः सपत्नी च्छिद्रं लब्ध्वा तमुत्क्षेपणभिषेण साधोरग्रतो निपात्यापद्रावयति, एवं प्राणातिपातविषया शङ्का भवेत् । तथा 'यत् तीर्थकरैः प्रतिषिद्धं तद् मया न कर्त्तव्यम्' इति प्रतिज्ञाय तैः प्रतिषिद्धां निषद्यां वाहयतो मृषावादो भवति । यद्वा स्वमुखेनैव गृहनिषद्यांनिषिध्य पश्चादात्मनैव तां परिभुञ्जानो मृषावादमापद्यते । अथवा स दिने दिने तस्या अविरतिकाया अग्रे धर्मं कथयति ततो गृहस्वामिना भणितः मा मम गृहमायासीरिति साधुना भणितम् आगमिष्यन्ति ते गृहं पाणशुनकाः; एवमुक्त्वाऽपि जिह्वालोलतादोषेण तदेव गृहं व्रजन् 'भणितोऽपि ' तेन गृहस्थेन वारितोऽपि कश्चिद् न तिष्ठति, एवं मृषावादमाप्नोति; स च गृहस्थो ब्रूयात् किं पाणशुनकः संवृत्तोऽसि ? इति । यद्वा गृहस्थो भोजन कुवंन धर्मं शृण्वतीमगारीं किमप्युत्कृष्टं द्वितीयाङ्ग याचेत, सा ब्रूयात्शुना भक्षितम्; अगारो ब्रूयात्-जानाम्यहं तं श्वानं येन भक्षितमिति; एवं मृषावादविषया शङ्का भवेत् ॥ अथास्या एव पूर्वार्धं व्याचष्टे
[ भा. ४५९३]
खुहिया पिपासिया वा, मंदक्खेणं न तस्स उट्ठेइ । गभस्स अंतरायं, बाधिज्जइ सन्निरोधेणं ॥
वृ-गुर्विणी धर्मकथां शृण्वती क्षुधिता वा पिपासिता वा भवेत्, सा च तस्य साधोः सम्बन्धिना 'मन्दाक्षेण' लज्जया नोत्तिष्ठति, ततो गर्भस्यान्तरायं भवति । तेन चाऽऽहारव्यवच्छेदलक्षणेन सन्निरोधेन स गर्भो बाध्यते, ततो विपत्तिमप्यसौ प्राप्नुयादिति प्राणवधमापद्यते ।।
अथ प्राणिवधविषयां शङ्कां दर्शयति
[भा. ४५९४] उक्खिवितो सो हत्था, चुतो त्ति तस्सऽग्गतो निवाडित्ता । सोतार वियारगते, हा ह त्ति सवित्तिणी कुणती ।।
'वृ- अविरतिकाया अग्रे स धर्मं कथयति सा चापान्तराले कायिक्यर्थं निर्गता, ततस्तस्यां 'श्रोत्र्यां' श्राविकायां विचारभूमौ गतायां सपत्नी तदीयं पुत्रं तस्य साधोरग्रत उत्क्षिप्य भूमौ सहसैव निपातयति, निपात्य च 'अहो ! अनेन श्रमणेनायं पुत्र उत्क्षिप्तः सन्नेतदीयहस्ताच्युतो विपन्नः' इति महता शब्देन 'हा हा !' इति पूत्कारं करोति, ततो भूयांल्लोको मिलितस्तं साधुं तत्र स्थितं दृष्टवा शङ्कां कुर्यात् किं मन्ये सत्यमेवेदम् ? इति । मृषावाददोषः प्राक् सप्रपञ्चमुक्तं इति इति न भूयो भाव्यते ।। अथादत्तादान-मैथुनयोर्दोषानाह
[ भा. ४५९५ ]
सयमेव कोइ लुद्धो, अवहरती तं पडुच्च कम्मकरी । वाणिगिणी मेहुन्ने, बहुसो य चिरं च संकाय ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org