SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ २२६ बृहत्कल्प-छेदसूत्रम् - ३-४/१३१ चोएइ चोयवेइ व, नेच्छंते सयं तु वट्टावे ॥ वृ- 'एकाहंनाम' दिने दिने गत्वा नोदयति, एकान्तरितं वा । तथा 'पञ्चाहं' पञ्चानां दिवसानामन्ते, एवं पक्षे चतुर्मासे वर्षान्ते वा 'यत्र वा' समवसरणादौ मिलति तत्र स्वयमेव नोदयति, अपरैर्वा स्वगच्छीय-परगच्छीयैर्नोदनां कारयति । यदि सर्वथाऽपि नेच्छति ततः स्वयमेव तं गणं वर्तापयति ।। [भा. ५४७७] उद्दिसइ व अन्नदिसं, पयावणट्ठा न संगहट्ठाए । जइ नाम गारवेण वि, मुएज निच्छे सयं ठाई ॥ वृ- अथवा स उभयव्यक्तः 'अन्यां दिशम्' अपरमाचार्यमुद्दिशति तच्च तस्यावसन्नाचार्यस्य 'प्रतापनार्थम्' उत्तेजनार्थं न पुनर्गणस्य सङ्ग्रहोपग्रहनिमित्तम् । स च तत्र गत्वा भणति - अहमन्यमाचार्यमुद्दिशामि यदि यूयमितः स्थानाद् नोपरमध्वे । ततः स चिन्तयेत् - अहो ! अमी मयि जीवत्यपि अपरमाचार्यं प्रतिपद्यन्ते, मुञ्चामि पार्श्वस्थताम् । यदि नामैवं गौरवेणापि पार्श्वस्थत्वं मुञ्चेत् ततः सुन्दरम्, अथ सर्वथा नेच्छत्युपरन्तुं ततः स्वयमेव गच्छाधिपत्ये तिष्ठति ।। गतः प्रथमो भङ्गः । अथ द्वितीयमाह [भा. ५४७८] सुअवत्तो वतवत्तो, भणइ गणं ते न सारितुं सत्तो । सारेहि सगणमेयं, अन्नं व वयामो आयरियं ॥ वृ- यः श्रुतेन व्यक्तो वयसा पुनरव्यक्तः स स्वयं गच्छं वर्तापयितुमसमर्थ तमाचार्यं भणतिअहमप्राप्तवयस्त्वेन त्वदीयंगणं सारयितुं न शक्तः, अतः सारय स्वगणमेनम्, अहं पुनरन्यस्यशिष्यो भविष्यामि, अथवा अहमेते वाऽन्यमाचार्यं व्रजामः, उद्दिसाम इत्यर्थः ॥ [भा. ५४७९] आयरिय-उवज्झायं, निच्छंते अप्पणा य असमत्थे । तिगवच्छरमद्धं, कुल गण संघे दिसाबंधो ॥ वृ- एवंभणित आचार्य उपाध्यायो वा यदि नेच्छति संयमे स्थातुम्, स चात्मना गणं वर्तापयितुमसमर्थः, ततः कुलसत्कमाचार्यमुपाध्यायं वा उद्दिशति । तत्र त्रीणि वर्षाणि तिष्ठति, तं चाचार्यं सारयति । ततः ‘त्रयाणां वर्षाणां परतः सचित्तादिकं कुलाचार्यो हरति' इति कृत्वा गणाचार्यमुद्दिशति ॥ तत्र संवत्सरं स्थित्वा सङ्घाचार्यस्य दिग्बन्धं प्रतिपद्य 'वर्षार्द्ध' षण्मासान् तत्र तिष्ठति ॥ कुलाद् गणं गणाच्च सङ्घ सङ्क्रामन्नाचार्यमिदं भणति [भा. ५४८०] सच्चित्तादि हरंती, कुलं पि नेच्छामो जं कुलं तुमं । वच्चामो अन्नगणं, संघ व तुमं जइ न ठासि ॥ वृ- यत् त्वदीयं कुलं तदीया आचार्या अस्माकं वर्षत्रयादूर्ध्वं सचित्तादिकं हरन्ति अतः कुलमपि नेच्छामः, यदि त्वमिदानीमपि न तिष्ठसि ततो वयं गणं सङ्घ वा व्रजामः ॥ [भा. ५४८१] Jain Education International एवं पि अठायंते, ताहे तू अद्धपंचमे वरिसे । सयमेव धरेइ गणं, अनुलोमेणं च सारेइ ॥ वृ- एवमर्द्धपञ्चमैर्वर्षै पूर्वाचार्यो नोदनाभि प्रतापितोऽपि यदि न तिष्ठति तत एतावता कालेन श्रुतव्यक्तो वयसाऽपि व्यक्तो जात इति कृत्वा स्वयमेव गणं धारयति । यत्र च पूर्वाचार्यं पश्यति तत्र अनुलोमवचनैस्तथैव सारयति ॥ [ भा. ५४८२ ] अहव जइ अस्थि थेरा, सत्ता परियट्टिऊण तं गच्छं । For Private & Personal Use Only www.jainelibrary.org
SR No.003324
Book TitleAgam Suttani Satikam Part 20 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy