________________
२८६
बृहत्कल्प-छेदसूत्रम् -३-५/१५१
-
परिहारस्थानमनुद्धातिकम् । एष सूत्रचतुष्टयार्थः ॥अथ नियुक्तिविस्तरः[भा.५७८५] संथडमसंथडे या, निव्वितिगिच्छे तहेव वितिगिच्छे।
काले दव्वे भावे, पच्छित्ते मग्गणा होइ॥ वृ-प्रथमं सूत्रं संस्तृते निर्विचिकित्से, द्वितीयं संस्तृते विचिकित्सासमापने, तृतीयसंस्तुते निर्विचिकित्से, चतुर्थमसंस्तृते विचिकित्सासमापने मन्तव्यम् । तत्र प्रथमसूत्रे तावत् त्रिधा प्रायश्चित्तमार्गणा भवति-कालतो द्रव्यतो भावतश्च ॥ तत्र कालतस्तावदाह[भा.५७८६] अनुग्गय मणसंकप्पे, गवेसणे गहण भुंजणे गुरुगा।
अह संकियम्मि जति, दोहि वि लहु उग्गते सुद्धो॥ वृ-अनुद्गतः-नाद्यायुद्गतो रविरित्येवं निशङ्कितेन मनःसङ्कल्पेन यो भक्त-पानस्य गवेषणं ग्रहणं भोजनं च करोति तस्य चतुर्गुरवः 'द्वाभ्यामपि तपः-कालाभ्यां गुरुकाः । अ शङ्कितेन मनःसङ्कल्पेन भुङ्क्ते ततस्त एव चतुर्गुरुका द्वाभ्यामपि लघवः । उद्गतः सूर्य इति निसन्धिग्धे मनःसङ्कल्पे भुलानः शुद्धः॥ [भा.५७८७] अत्थंगयसंकप्पे, गवेसणे गहणे भुंजणे गुरुगा।
अह संकियम्मि भुजइ, दोहि विलहऽनत्यमिए सुद्धो॥ वृ-'अस्तङ्गतोरवि' इत्येवंविधेन सङ्कल्पेन गवेषणे ग्रहणे भोजने च चतुर्गुरुकाः तपसा कालेन च गुरवः । अथ 'अस्तङ्गतोऽनस्तङ्गतो वा' इति शङ्किते भुङ्क्ते ततश्चतुर्गुरुकाः 'द्वाभ्यामपि' तपः-कालाभ्यां लघवः । यः पुनरनस्तमितो रविरित्येवं निसन्दिग्धेनचेतसा भुङ्क्ते स शुद्धः॥
अथ "उग्गयवित्ती" इत्यादिपदव्याख्यानमाह[भा.५७८८] उग्गयवित्ती मुत्ती, मनसंकप्पे य होति आएसा ।
एमेव अनत्थमिए, धाए पुन संखडी पुरतो॥ वृ-उद्गते रवौ वृत्ति-वर्तनं यस्य स उद्गतवृत्ति। पाठान्तरेण 'उद्गतमूर्ति' इति वा, उद्गते सूर्ये मूर्ति-शरीरं वृत्तिनिमित्तं बहिः सप्रचारं यस्य स उद्गतमूर्ति । मनःसङ्कल्पे चामी आदेशा भवन्ति-अनुदितमप्यादित्यं यो मनःसङ्कल्पेन उदितं मन्यते स भुजानोऽपि न दोषभाग भवति, यः पुनरुदितेऽपिरवौ 'नाद्याप्युदितः' इतिचेतसामन्यमानोभुङ्क्तेससदोषः। एवमेवानस्तमितेऽपि मन्तव्यम् । किमुक्तं भवति?-अस्तमितेऽपि रवौ 'नाद्याप्यस्तङ्गतः' इतिबुध्या भुआनोऽपिन प्रायश्चित्ती, अनस्तमितेऽपिच 'अस्तङ्गतः' इत्यभिप्रायेण मुआनः सदोषः। अथवा-"मनसंकप्पे अहोति आदेस"त्तिअनुदितमनःसङ्कल्पा-ऽस्तमितमनःसङ्कल्पयोः कतरो गुरुतरोलघुतरो वेति चिन्तायांद्वावादेशौ भवतः, तौचोत्तरत्राभिध्यास्येते।अनुदितेऽस्तमितेवा कथं ग्रहणं सम्भवति? इत्याह-“घातेपुन संखडी पुरतो' त्ति ध्रातंसुभिक्षमिति चैकोऽर्थः, तत्र सङ्खडी सम्भवति।साच द्विधा-पुरःसङ्घडी पश्चात्सङ्खडी च । तत्र पूर्वाह्ने या क्रियते सा पुरःसङ्खडी, अपराह्ने तु क्रियमाणा पश्चात्सङ्खडी । इह पुनरनुदिते रवौ पुरःसङ्खडी, पुनःशब्दग्रहणाद् अस्तमिते पश्चात्सङ्खडीति॥ [भा.५७८९] सूरे अनुग्गतम्मिं, अनुदित उदिओ व होति संकप्पो।
एवं अत्यमियम्मि वि, एगतरे होति निस्संको॥ वृ-सूर्येऽनुद्गतेऽनुदितसङ्कल्प उदितसङ्कल्पो वा भवेत्, उपलक्षणं चैतत्, उदितेऽप्यनुदित
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org