SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ उद्देशक ः ५, मूलं-१५१, [भा. ५७८९] २८७ उदित इति वा सङ्कल्पो भवेत् । एवमेवाऽस्तमितेऽपि 'एकतरः' अनस्तमितोऽस्तमितो वा निशङ्को मनःसङ्घल्पो भवति, उपलक्षणत्वाद् अनस्तमितेऽप्यस्तमितसङ्कल्पोऽनस्तमितसङ्कल्पोवाभवेत्। इहानुदितोदितविषयाऽनस्तमिता-ऽस्तमितविषया च प्रत्येकं षोडशभङ्गी भवति । तद्यथाअनुदितमनःसङ्कल्पो अनुदितगवेषी अनुदितग्राही अनुदितभोजी, एवं चतुर्भिः पदैः सप्रतिपक्षैभङ्गरचनालक्षणेन षोडश भङ्गा रचयितव्याः। रचितेषुच भङ्गेषु यत्र द्वयोर्मध्यपदयोः परस्परं विरोधो दृश्यते मध्यपदेषु वा द्वयोरेकस्मिन् वा उदितो दृष्टो अन्त्यपदेषु पुनरनुदितस्ते भङ्गा विरुध्यमानत्वेन वर्जनीयाः शेषाग्राह्याः। तथाअनस्तमितसङ्कल्पोऽनस्तमितगवेषीअनस्तमितग्राही अन्सतमितभोजी, एवमपि षोडश भङ्गाः कर्तव्याः । अत्रापि यत्रमध्यमपदेषु परस्परं विरोधो दृश्यते यत्र वा मध्यमपदेषु द्वयोरेकस्मन् वा अस्तमितो दृष्टोऽन्त्यपदे चानस्तमितस्ते भङ्गा अघटमानकत्वेन वर्जनीयाः शेषा ग्राह्याः । अनुदितोदिता-ऽस्तमिता-ऽनस्तमितेषु चतुर्वपि स्थानेषु यावन्तो भङ्गा घटमानकास्त प्रदर्शनार्थमाह[भा.५७९०] अनुदियमनसंकप्पे, गहण गवेसी य भुंजणे चेव । - उग्गयऽनत्थमिए या, अत्थंपत्ते वि चत्तारि॥ वृ- अनुदितमनःसङ्कल्पे गवेषण-ग्रहण-भोजनाख्यैस्त्रभि पदैर्येऽष्टौ भङ्गास्तेषु 'चत्वारः' प्रथमद्वितीय-चतुर्था-ऽष्टामभङ्गा घटन्ते, शेषाश्चत्वारोऽघटमानकाः । उद्गतमनःसङ्कल्पेऽप्येत एव चत्वारो घटन्ते न शेषाः। अनस्तमितसङ्कल्पे अस्तंप्राप्तसङ्कल्पेऽपि चैत एव चत्वारो ग्राह्याः, शेषास्तु तृतीय-पञ्चम-षष्ठ-सप्तमा असम्भवित्वाद् वर्जनीयाः॥ अथैतेषामेव गटमानकभङ्गानां विभागतः प्ररूपणामाह[भा.५७९१] अनुदितमनसंकप्पे, गवेस-गह-भोयणम्मि पढमलता। बितियाए तिसुअसुद्धो, उग्गयभोई उ अंतिमओ॥ वृ-अनुदितमनःसङ्कल्पोऽनुदितगवेषी अनुदितग्राही अनुदितभोजी १, एषा प्रथमा लता, प्रथमो भङ्ग इत्यर्थः। द्वितीयस्यांतुलतायां साधुस्त्रषुपदेषुअविशुद्धः, तद्यथा-अनुदितसङ्कल्पोऽनुदितगवेषी अनुदितग्राही उद्गतभोजी, इयं हि लता सङ्कल्प-गवेषण-ग्रहणपदैस्त्रिभिरशुद्धा उद्गतभोजित्वरूपेणान्त्यपदेन तु शुद्धा ।। [भा.५७९२] तइयाए दो असुद्धा, गहणे मोती य दोन्नि उ विसुद्धा । संकप्पम्मि असुद्धा, तिसु सुद्धा अंतिमलया उ॥ वृ-तृतीयस्यां लतायां 'द्वे' सङ्कल्प-गवेषणपदे अशुद्धे ग्रहण-भोजनपदे तु द्वे विशुद्धे । तद्यथाअनुदितसङ्कल्पोऽनुदितगवेषी उदितग्राही उदितभोजी चेति । 'अन्त्यलता नाम' अनुदितसङ्कल्पस्य चरमा लता चतुर्थीत्यर्थः, सा सङ्कल्पपदेऽविशुद्धा शेषैः त्रिभि पदैः शुद्धा ।तद्यथा-अनुदितसङ्कल्प उदितगवेषी उदितग्राही उदितभोजी ॥ एवमनुदितमनःसङ्कल्पस्य चतस्रो लता उक्ताः । अथोदितमनःसङ्कल्पस्य चतस्रो लता आह. [भा.५७९३] उग्गयमनसंकप्पे, अनुदिते गवेसी य गहण भोगी य। - एमेव य बितियलता, सुद्धा आदिम्मि अंते य ।। [मा.५७९४] ततियलताए गवेसी, होइ असुद्धो उ सेसगा सुद्धा। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003324
Book TitleAgam Suttani Satikam Part 20 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy