________________
बृहत्कल्प-छेदसूत्रम् - ३-५/१५१
वृ-ग्लानासंस्तृतस्याप्येवमेव प्रायश्चित्तम्। नवरम्-तत्र “भिन्त्रेणं" ति भिन्नमासात् प्रस्थापना कर्तव्या । प्रथमं वारं पञ्चमासलघुके, द्वितीयं षन्नासलघुके, तृतीयं छेदे, चतुर्थं वारं मूले तिष्ठति । अत एवाह- 'चतुर्भिर्ग्रहणैः' अभीक्ष्णसेवारूपै 'स्वपदं ' मूलं भिक्षु प्राप्नोति । उपाध्यायस्य लघुमासादारब्धं चतुर्विभ्राररैनवस्थाप्ये, आचार्यस्य द्विमासलघुकादारब्धं चतुर्भिवरैिः पाराञ्चिके पर्यवस्यति । शिष्यः पृच्छति कस्यैतत् प्रायश्चित्तम् ? सूरिराह-यद् उक्त यच्च वक्ष्यमाणम् एतत् सर्वमगीतार्थस्य सूत भवति, प्रस्तुतसूत्रोक्तं प्रायश्चित्तमित्यर्थः । स हि कार्यमकार्य वा यतनामयतनां वा न जानाति अतस्तस्य प्रायश्चित्तम् ॥ गतो ग्लानासंस्तृतः । अथाध्वासंस्तृतमाह[ भा. ५८२२] अद्धाणासंथडिए, पवेस मज्झे तहेव उत्तिन्ने । मज्झम्मि दसगवुड्डी, पवेस उत्तिन्नि पणएणं ॥
२९४
वृ- 'अध्वनि' मार्गे योऽसंस्तृतः स त्रिविधः । तद्यथा-अध्वनः प्रवेशे मध्ये उत्तारे च । तत्र प्रथमं मध्ये भाव्यते - भिक्षोः संलेखनादिषु षट्सु स्थानेषु दशरात्रिन्दिवमातौ कृत्वा प्रायश्चित्तवृद्धिः कर्तव्या, उपाध्यायस्य पञ्चदशरात्रिन्दिवादिकम्, आचार्यस्य विंशतिरात्रिन्दिवादिकं प्रायश्चित्तम् । भावे एतदेव प्रतिलोमं वक्तव्यम् । अथ प्रवेशे उत्तरणे च भण्यते "पवेस उत्तिन्न पणएणं" ति प्रवेशे तथा उत्तरणमुत्तीर्णं तत्र च पञ्चकेन स्थापना क्रियते, संलेखनादिषु षट्सु पदेषु पञ्चरात्रिन्दिवान्यादौ कृत्वा मासलघुकं यावद् नेतव्यमिति भावः । तथा उभयोरपि अष्टभिवरैिर्मूलं प्राप्नोति, उपाध्यायस्य दशरात्रिन्दिवादिकमष्टमवारायामनवस्थाप्यम्, आचार्यस्य पञ्चदशरात्रिन्दिदिकं पाराञ्चिकान्तम् । बावे एतदेव प्रतिलोमं प्रायश्चित्तम् । शिष्यः पृच्छति - अधावसंस्तृतो मध्ये क्षिप्रमेव स्वपदं प्रापितः प्रवेशे उत्तरणे च चिरेण तदेतत् कथम् ? अत्रोच्यते-अध्वनः प्रवेशे भयमुत्पद्यते ‘कथमध्वानं निस्तरिष्यामि ?' उत्तरणेऽपि बुभुक्षा तृषादिभिरत्यन्तं क्लान्तः, अत एवौ चिरेण स्वपदं प्रापितौ, अध्वमध्ये पुनर्जितभयो नातिक्लान्तश्च अतः शीघ्रं स्वपदं प्रापितः । अत्रैकैकस्मिन् पदे आज्ञादयो रात्रिभोजनदोषाश्च । अगीतार्थस्य चैतन्मन्तव्यम्, न गीतार्थस्य ॥ कुतः ? इति चेद् उच्यते
[ भा. ५८२३] उग्गयमनुग्गते वा, गीतत्यो कारणे नऽ तिक्कमति । दूताऽऽ हिंड विहारी, ते वि य होंती सपडिवक्खा ।।
वृ-गीतार्थ अध्वप्रवेशादौ कारणे उत्पन्ने उद्गतेऽनुद्गते सूर्ये यतनयाऽरक्तोऽष्टो भुञ्जानो भगवतामाज्ञा धर्म वा नातिक्रामति । ते चाध्वप्रतिपन्नास्त्रिविधाः-द्रवन्त आहिण्डका विहारिणश्च । तत्र द्रवन्तः- ग्रामानुग्रामं गच्छन्तः, आहिण्डकाः सततपरिभ्रमणशीलाः, विहारिणः - मासं मासेन विहरन्तः । तेऽपि प्रत्येकं सप्रतिपक्षाः । तद्यथा
[भा. ५८२४ ]
दूइजंता दुविधा, निक्कारणिगा तहेव कारणिगा ।
सिवादी कारणिता, चक्के थूभाईता इतरे ॥
- द्रवन्तो द्विविधाः - निष्कारणिकाः कारणिकाश्च । तत्राशिवाऽवमदर्य-राजद्विष्टादिभि कारणैः, उपधेर्पस्य वा निमित्तं, गच्छस्यवा बहुगुणतरमिति कृतवा, आचार्यादीनां वा आगाढे कारणे ये द्रवन्ति ते कारणिकाः । ये पुनरुत्तरापथे धर्मचक्रं मथुरायां देवनिर्मितस्तूप आदिशब्दात् कोशायां जीवन्तस्वामिप्रतिमा तीर्थकृतां वा जन्मादिभूमय एवमादिदर्शनार्थं द्रवन्तो निष्कारणिकाः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org