________________
१७४
बृहत्कल्प-छेदसूत्रम् -३-४/११७ कृयोराजकुमारोमातृप्रतिसेवकः,यश्च वणिग्घटिकावोद्राख्यः,येच ते सेनापति-महतरसत्के द्वे अपि कुले, एते मूढा मन्तव्याः । यस्तु द्वीपजातः, यश्च पञ्चशैलसुवर्णकारः, ये चान्धाः यश्च 'भच्चकः' सुवर्णकारभागिनेयः, उपलक्षणत्वाद्येच भारतादिकुशास्त्रश्रुतिभाविताअज्ञानमूढाः, एते व्युद्ग्राहिता मन्तव्याः॥अथैषां मध्ये के प्रव्राजयितुं योग्याः? केवान? इत्याह[भा.५२३०] मोत्तूण वेदमूढं, अप्पडिसिद्धा उ सेसा मूढा ।
दुग्गाहिता य दुट्ठा, पडिसिद्धा कारणं मोत्तुं॥ वृ-वेदमूढं मुक्त्वा ये शेषाः' द्रव्य-क्षेत्रमूढादयस्तेऽप्रतिषिद्धाः, प्रव्राजयितुंकल्पन्त इत्यर्थः। ये तु व्युद्ग्राहिताः 'दुष्टाश्च' कषायदुष्टादयस्ते कारणं मुक्त्वा प्रतिषिद्धाः, कारणे तुकल्पन्त इति भावः॥किमर्थमेते प्रतिषिद्धाः? इत्याह[भा.५२३१] जंतेहि अभिग्गहियं, आमरणंताए तं न मुंचंति।
सम्मत्तं पिन लग्गति, तेसिं कत्तो चरित्तगुणा ।। वृ-यत् 'तैः' व्युद्ग्राहितादिभिः किमपि शाक्यादिदर्शनम् अन्यद्वा भारतादिकं मिथ्याश्रुतम् 'अभिगृहीतम्' आभिमुख्येनोपादेयतया स्वीकृतं तद् आमरणान्तं न मुञ्चन्ति । अत एवैतेषां सम्यक्त्वमपि न लगति, कुतश्चारित्रगुणाः? इति ॥
कथं पुनरमीषां सम्यक्त्वमपि न लगति? इत्याह[भा.५२३२] सोय-सुय-धोररणमुह-दारभरण-पेयकिञ्चमइएसु।
सग्गेसु देवपूयण-चिरजीवन-दानदिढेसु॥ कृ-इह भारतादौशौच-सुत-घोररणमुख-दारभरण-प्रेतकृत्यमयेषुदेवपूजन-चिरजीवन-दानहटेषु च स्वर्गेषु ये भाविता भवन्ति, यथा-शौचविधानात् पुत्रोत्पादनाद् घोरसमरशिरःप्रवेशाद् धर्मपत्नीपोषणात् पिण्डप्रदानादिप्रेत्यकर्मविधानाद् वैश्वानरादिदेवपूजनात् चन्द्रसहस्रादिरूपचिरकालजीवनाधेनु धरित्र्यादिदानात् स्वर्गा अवाप्यन्ते॥ [भा.५२३३] इच्चेवमाइलोइयकुस्सुइवुग्गाहणाकुहियकन्ना।
फुडमवि दाइज्जतं, गिण्हंति न कारणं केई॥ वृ-इत्येवमादिलौकिककुश्रुतिव्युद्ग्राहणाकुथितकर्णासन्तस्तस्याः कुश्रुतेरघटनायांस्फुटमपि दर्यमानं कारणम्' उपपत्तिं 'केचिद् गुरुकर्माणोनप्रतिपद्यन्ते अतस्तेदुःसंज्ञाप्या मन्तव्याः॥
मू. (११८) तओ सुसनप्पा पनत्ता, तंजहा-अदुढे अमूढे अवुग्गाहिए।
वृ-त्रयः 'सुसंज्ञाप्याः' सुखप्रज्ञापनीयाः प्रज्ञप्ताः। तद्यथा-अदुष्टोऽमूढोऽव्युद्ग्राहितश्चेति॥ आह-पूर्वसूत्रेणैवार्थापत्या इदमवसीयते-यदेतद्विपरीता अदुष्टादयः सुसंज्ञाप्यः ततः किमर्थमिदमारब्धम् ? उच्यते[भा.५२३४] कामं विपक्खसिद्धी, अत्थावत्तीइ होतऽवुत्ता वि।
तह विविवक्खोवुच्चति, कालियसुयधम्मता एसा॥ वृ-'कामम्' अनुमतमिदम्-विपक्षस्य प्रतिपक्षार्थस्य सिद्धिरनुक्ताऽप्यर्थापत्या भवति तथापि विपक्षः साक्षादुच्यते । कुतः ? इत्याह-कालिकश्रुतस्य 'धर्मता' स्वभावः शैली एषा-यदर्थापत्तिलब्धोऽप्यर्थः साक्षादभिधीयते । तथा च तल्लक्षणान्येव दर्शयति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org