SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ ७७ उद्देशकः ३, मूलं-१०५, [भा. ४७४८] वृ-स्तेनकादयो वस्त्रादिकं हातुं वाजरीतुंव अचयन्तः' अशक्नुवन्तः साधूनांप्रतिश्रयसन्निधौ परित्यजेयुः। उपलक्षणमिदम्, तेनान्यतीर्थिकादयः प्रत्यनीकतया हिरण्य-सुवर्णादिकमपहृत्य तत्रनिक्षिपेयुः ततोयदि वृषभास्त्रिसन्ध्यं वसतिन प्रत्युपेक्षन्तेतदालोकोब्रूयात्-एतैरेवैतदपत्यमाण्डं जनितम्, सुवर्णादिकंवाअपहृतम् । एतत्रजनध्टेसति ‘दोषाः' ग्रहणा-ऽऽकर्षणादयो भवेयुः।। [भा.४७४९] अहवा छुभेज्ज कोयी, उब्भामग वेरियं व हंतूणं । वेहानस इत्थी वा, परीसहपराजितो वा वि॥ वृ-अथवा कश्चिद् ‘उद्भ्रामकं पारदारिकं वैरिणं वा हत्वा प्रत्यनीकतया तत्र प्रक्षिपेत्, स्त्री वा काचिदत्यन्तदुःस्थिता वैहायसमरणमुपाश्रयसमीपे कुर्यात्, परीषहपराजितो वा संयत एव कोऽपिरतद्वन्धनेन म्रियेत, 'वरं प्रवेष्टुंज्वलितंहुताशनं, नचापि भग्नं चिरसञ्चितं व्रतम्।' इति कृत्वा॥ - [भा.४७५०] दवियट्ठऽसंखडे वा, पुरिसित्थी मेहुणे विसेसो वि। एमेव य समणम्मि वि, संकाए गिण्हणादीणि ।। वृ-कोऽपिकश्चित् पुरुषं 'द्रव्यार्थम्' अर्थजातनिमित्तं यद्वा असङ्खडं-कलहो वैरमित्यर्थः तेन वा कञ्चिद् व्यपरोप्य संयतोपाश्रयसमीपे परित्यजेत् । एवं स्त्रयमपि कश्चिद् विनाश्य प्रक्षिपेत्, नवरं मैथुने विशेषः । किमुक्तं भवति ?-सपत् काचिदपरां सपली चतुर्थसेवाविघ्नकारिणी मत्वा व्यपरोप्य च तत्र व्युत्सृजेत्, 'अमीषामपयशो भूयात्' इति कृत्वा । एवमेव श्रमणेऽपि मन्तव्यम्, तमपि कश्चिदुपकरण-द्रव्यार्थं वैरेण वा मारयेदित्यर्थः, तत्र साधवः शङ्कयेरन्, ततो ग्रहणा-ऽऽकर्षणादीनि पदानि प्राप्नुवन्ति ॥यत एवमतः[भा.४७५१] कालम्मि पहुप्पंते, चच्चरमादी ठवित्तु पडियरणं । रक्खंति साणमादी छन्ने जा दिट्ठमन्नेहिं ।। वृ-त्रिसन्ध्यं वृषभैः समन्ततो वसति प्रत्युपेक्षणीया, प्रत्युपेक्षितायां च यदि किञ्चित् कल्पस्थकादिकं पश्यन्ति कालश्च पूर्यते ततश्चत्वरादिषु स्थापयित्वा प्रतिचरणं कुर्वाणाः प्रच्छन्नावकाशे स्थिताः श्वान-मार्जारादिना विनाश्यमानं तावद् रक्षन्ति यावत् कल्पस्थकादिकमन्यैईष्टमिति॥ [भा.४७५२] बोलं पभायकाले, करिति जनजाननट्ठया वसमा। पडियरणा पुन देहे, परोग्गहे नेव उज्झंति॥ वृ-यत् तत्र हिरणय-सुवर्णादि केनचित् परित्यक्तंभवति तत्प्रभातकाले एव प्रत्युपेक्षमाणाः सम्यगनिरीक्ष्य वृषभा जनज्ञापनार्थबोलं कुर्वन्ति, यथा-केनचित्पापेनेदं हिरण्यादिकमस्मदपयशः प्रदानार्थमंत्रप्रक्षिप्तमिति।यस्तु देहः-द्रव्या-ऽर्थ-वैरादिकारणव्यपरोपितस्यपुरुषादेः शरीरमित्यर्थः तत्रप्रतिचरणा कर्तव्या, सम्यक्प्रतिचर्य यदि कोऽपि न पश्यति तदा परिष्ठापनीयमिति हृदयम्। तच्च 'परावग्रहे' परकीयनिवेशनादौ नैव ‘उज्झन्ति' परित्यजन्ति, किन्तु परैरपरिगृहीते भूभागे इति॥ [भा.४७५३] अप्पडिचर-पडिचरणे, दोसाय गुणा य वन्निया एए। एतेन सुत्त न कतं, सुत्तनिवातो इमो तत्थ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003324
Book TitleAgam Suttani Satikam Part 20 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy