________________
३८८
बृहत्कल्प-छेदसूत्रम् -३-६/२०९ वृ-विद्यादिभिः 'अभियोगः' अभियुज्यमानता । एष पुनः द्विविधः' द्विप्रकारः, तद्यथामानुषिको दैवश्च । तत्र मनुष्येण कृतो मानुषिकः । देवस्यायं तेन कृतत्वा दैवः । तत्र देवकृतो मनुष्यकृतो वा विद्यादिभिरभियोग एष एव यत् तस्मिन् दूरस्थितेऽपि तप्रभावात् सा तथारूपा उन्मत्ता जायते । अथ तं' विद्याद्याभियोगं दैवं मानुषिकं वा कतं जानन्ति? । सूरिराह-तयोर्देवमानुषयोर्मध्ये यस्य नाम साऽभियोजिता गृह्णाति तत्कृतः स विद्याद्यभियोगो ज्ञेयः॥
साम्प्रतं “अनुसासणा लिहावण" इत्येतद् व्याख्यानयति[भा.६२७२] अनुसासियम्मिअठिए, विद्देसंदेंति तह विय अठंते।
जक्खीए कोवीणं, तीसे पुरओ लिहावेंति॥ वृ- येन पुरुषेण विद्यादि अभियोजितं तस्यानुशासना क्रियते । अनुशासितेऽप्यस्थिते विद्याप्रयोगतस्तां विवक्षितां साध्वी प्रति तस्य विद्याद्यभियोक्तुर्विद्वेथषं ददति' उत्पादयन्ति वृषभाः। तथापि च तस्मिन् अतिष्ठति ‘यक्ष्या' शुन्या तदीयं कौपीनं तस्याः पुरतो विद्याप्रयोगतो लेहयन्तियेन सा तद् दृष्ट्वा तस्येदं सागारिकमितिजानाना विरज्यते॥सम्प्रति प्रतिविद्याप्रयोगे हेढादरताख्यापनार्थमाह[भा.६२७३] विसस्स विसमेवेह, ओसहं अग्गिमग्गिणो।
मंतस्स पडिमंतो उ, दुञ्जनस्स विवजणं॥ वृ-विषस्यौषधं विषमेव, अन्यथा विषानिवृत्तेः । एवमग्नेर्भूतादिप्रयुक्तस्यौषधमग्नि।मन्त्रस्य प्रतिमन्त्रः । दुर्जनस्यौषधं विवर्जन' ग्राम-नगरपरित्यागेन परित्यागः । ततो विद्याद्यभियोगे साधु-साध्वीरक्षणाथ प्रतिविद्यादि प्रयोक्तव्यमिति॥ [भा.६२७४] जइ पुहोज गिलाणी, निरुब्ममाणी उतो से तेइच्छं।
संवरियमसंवरिया, उवालभंते निसिं वसभा॥ वृ-यदि पुनर्विद्याधभियोजिता तदभिमुखं गच्छन्ती निरुध्यमाना ग्लाना भवति ततः "से" 'तस्याः' साध्व्याश्चिकित्सां 'संवृताः' केनाप्यलक्ष्यमाणाः कुर्वन्ति । तथा 'असंवृताः' येन विद्याधभियोजितं तस्य प्रत्यक्षीभूता वृषभाः 'निशि' रात्रौ तं उपालभन्ते भेषयन्ति पिट्टयन्ति च तावद् यावद् असौ तां मुञ्चतीति ।। "खमए महुर"त्ति अस्य व्याख्यानमाह[भा.६२७५] थूभमह सड्डिसमणी, बोहिय हरणंतु निवसुताऽऽतावे।
मझेण य अकंदे, कयम्मि जुद्धेण मोएति॥ वृ-महुरानयरीएथूभो देवनिम्मितो।तस्स महिमानिमित्तं सहीतो समणीहिं समं निग्गयातो। रायपुत्तोय तत्थ अदूरे आयावंतो चिट्ठइ । ताओ सड्डी-समणीओ बोहिएहिं गहियाओ तेनं-तेनं आनियाओ।ताहिं तं साहुंदणं अक्कंदो कओ।तओरायपुत्तेण साहुणा जुद्धं दाऊणमोइयाओ। अक्षरगमनिका त्वियम्-स्तूपस्य महे महोत्सवे श्राद्धिकाः श्रमणीभिसह निर्गताः। तासां बोधिकैः' चौरैर्हरणम् । नृपसुतश्च तत्रादूरे आतापयति । बौधिकैश्च तास्तस्य मध्येन नीयन्ते । ताभिश्च तं दृष्टवाऽऽक्रन्दे कृतेस युद्धेन तेभ्यस्ता मोचयति।उक्तो मानुषिक उपसर्ग ।सम्प्रति तैरश्चमाह[भा.६२७६] गामेनाऽऽरण्णे व, अभिभूतं संजतिं तु तिरिगेणं ।
____थद्धं पकंपियं वा, रक्खेज अरक्खणे गुरुगा। वृ-ग्राम्येणाऽऽरण्येन वा तिरश्चाऽभिभूतां संयतीं यदि वा 'स्तब्धां' तद्भयात् स्तम्भीभूतां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org