________________
१६०
अपरा द्वादशमुहूर्ता वेदनीयस्य ॥ १९ ॥ नामगोत्रयोरष्टौ ॥ २० ॥
9
शेषाणामन्तर्मुहूर्तम् ॥ २१ ॥
विपाकोऽनुभावः ॥ २२ ॥
स यथानाम ॥ २३ ॥
ततश्च निर्जरा ॥ २४ ॥
नामप्रत्ययाः सर्वतो योगविशेषात्सूक्ष्मैकक्षेत्रावगाढस्थिताः सर्वात्मप्रदेशेष्वनन्तानन्त प्रदेशाः ॥ २५ ॥
सद्वेद्यसम्यक्त्वहास्यरतिपुरुषवेदशुभायुर्नामगोत्राणि पुण्यम्
४
॥ २६ ॥
नवमोऽध्यायः
आस्रवनिरोधः संवरः ॥ १ ॥
स गुप्तिसमितिधर्मानुप्रेक्षापरीषहजयचारित्रैः ॥ २ ॥ तपसा निर्जरा च ॥ ३ ॥ सम्यग्योगनिग्रहो गुप्तिः ॥ ४ ॥ ईर्याभाषैषणादाननिक्षेपोत्सर्गाः समितयः ॥ ५ ॥
१ - मुहूर्ता स० रा० श्लो० ।
२ - नुभवः - स० रा० श्लो० ।
३ - वगाहस्थि० स० रा० श्लो० । ४ । गुजराती विवेचन पृ० ३४२ टि० १ ।
3
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org