Book Title: Agam Suttani Satikam Part 19 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
Catalog link: https://jainqq.org/explore/003323/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ आगमसुवाणि (सटीकं) भागः - १९ राजुल नमो नमो निम्मल दंसणस्स संशोधक सम्पादकश्च : मुनि दीपरत्नसागर Page #2 -------------------------------------------------------------------------- ________________ बालब्रह्मचारी श्री नेमिनाथाय नमः नमो नमो निम्मल सणस्स श्री आनंद-क्षमा ललित सुशील सुधर्मसागर गुरूभ्योनमः आगम सुत्ताणि (सटीक) भागः-१९ बृहत्कल्पछेदसूत्रम्-२| उद्देशकः१ मूलं-८..५०, उद्देशकः २, उद्देशकः३ मू. ९६ पर्यन्तः -: संशोधकः सम्पादकश्चः :मुनि दीपरत्नसागर eanine m E ता. १४/४/२००० रविवार २०५६ चैत्र सुद ११ HAREKHA - ४५- आगम सुत्ताणि-सटीकं मूल्य रू.११०००/ + आगम श्रुत प्रकाशन . --: संपर्क स्थल :-- "आगम आराधना केन्द्र" शीतलनाथ सोसायटी विभाग-१, फ्लेट नं-१३, ४-थी मंझिल, व्हायसेन्टर, खानपुर, अहमदाबाद (गुजरात) FAr: Page #3 -------------------------------------------------------------------------- ________________ बृहत्कल्प-छेदसूत्रस्य बृहत्कल्पछेदसूत्रस्य विषयानुक्रमः पृष्टाः ३४७ ३८७ १० ५० ५६ ३७० १५८ मूलाङ्कः | विषयः पृष्ठाङ्कः मूलाङ्कः विषयः | ८-५० | उद्देशकः-१ ३ /८१-९६ उद्देशकः-३ (अपूर्ण) ८-९ निर्ग्रन्थी-मासकल्प, ३/८१-८२ उपाश्रयप्रवेशप्रकृतः -११ वगडा प्रकृतम् -निर्ग्रन्थ्युपाश्रवप्रवेश | -१३ रथ्यामुखापणगृहादि -द्वाराणि-गम्यते कारणजाते, -१९ / घटोमात्रकादि प्राघुणक, गणधर, महर्द्धिक, -२९ सागारिकनिश्राप्रकृत्तम प्रच्छादना, जसहिष्णोश्चतुष्क -३१ प्रतिबद्धशव्या १०९. भजना, -३४ | गाथापतिकुलमध्यवास . | ११९ - निर्ग्रन्थोपाश्रयाश्रय-३६ चारप्रकृत्तम १४४|०-८६ चर्मप्रकृतसूत्र -३७ वैराज्य प्रकृत्तम् १५१ निर्ग्रन्थी विषयकसलोमचर्म -४१ | अवग्रहप्रकृतम् निर्ग्रन्थ-निर्ग्रन्थी विषयक -४३ रात्रिभक्तप्रकृतम् १६८ कृत्स्नचर्म निर्ग्रन्थ-निर्ग्रन्थी -४६ | रात्रिवस्त्रग्रहणम्... इत्यादि । १९९ विषयक अकृत्स्नचर्म -४७ सङ्खडीप्रकृत्तम् २३३) -८७ कृत्स्नाकृत्स्नवस्त्रप्रकृत -५० विचारभूमिआदि २४६/ -८९ / भिन्नाभिन्नवस्त्र प्रकृत ५१-८० उद्देशकः-२ २६६ - निर्ग्रन्थ निर्ग्रन्थीविषयक ५१-६२/ उपाश्रयप्रकृतसूत्र | २६६ अभिन्नवस्त्रसूत्र - उपाश्रय पदस्य निक्षेपः, -द्वाराणि-तीव्रमन्द, ज्ञानाज्ञान, |- उपाश्रये वसनविषये कल्प्य भाव, अधिकरण, वीर्य, | अकल्प्यस्थिति विषयक वर्णनम -वस्त्रस्य प्रमाण निरुपण -६८ | सागारिक पारिहारिक पात्रविषयक विधिः -७२ आहतिका-निहतिका अवग्रहानन्तकावग्रहपट्टकः -७४ | अंशिकाप्रकृत ३३८ -९२ | निश्राप्रकृत -१ -७८ पूज्यभक्तोपकरण | ३४० -९४ विकृत्स्नप्रकृत -७९ उपधिप्रकृत ३४२] -९५ समवसरण प्रकृत . -८० | रजोहरणप्रकृत ३४५] -९६ यथारत्नाधिकवस्त्रादि ३८४ ३९१ ३११ ३३२) ४३० ४५५ ४७३ ४८४ Page #4 -------------------------------------------------------------------------- ________________ આર્થિક અનુદાતા - પ.પૂ. માલવભુષણ તપસ્વી આચાર્યદેવ શ્રી નવરત્નસાગર સૂરીશ્વરજી મ.સા.ની પ્રેરણાથી શ્રી લાલભાઈ દેવચંદ શાહ તરફથી - નકલ એક. -પ.પૂ. સરળ સ્વભાવી-શ્રીમદ્ ભગવતીસૂત્ર વ્યાખ્યાન પટુ આચાર્યદેવ શ્રી નરદેવસાગરસૂરીશ્વરજી મ.સા. તથા પૂજ્યશ્રીના શિષ્યરત્ન તપસ્વી ગણિવર્યશ્રી ચંદ્રકીર્તિસાગરજી મ.સા.ની પ્રેરણાથી શ્રી પુરુષાદાનીય પાર્શ્વનાથ જે. મૂર્તિ. જૈન સંઘ, દેવકીનંદન સોસાયટી, અમદાવાદ તરફથી નકલ એક. -પ.પૂ. શાસન પ્રભાવક-ક્રિયારાગી આચાર્યદેવશ્રી વિજય ચકચંદ્ર સૂરીશ્વરજી મ.સા.ની પ્રેરણાથી એક સગૃહસ્થ તરફથી નકલ એક. -પ.પૂ સાહિત્યપ્રેમી મુનિરાજ શ્રી સર્વોદય સાગરજી મ.સા.ની પ્રેરણાથી-“અચલગચ્છાધિપતિ પ.પૂ.આ.ભ. શ્રી ગુણસાગરસૂરીશ્વરજી મ. સા.ના શિષ્યરત્ન પ.પૂ. મુનિરાજ શ્રી ચારિત્રરત્નસાગરજી મ. ની ૧ભી અટ્ટાઇ નિમિત્તે-શ્રી ચારિત્રરત્ન ફા.ચે. ટ્રસ્ટ તરફથી નકલ એક. -પ.પૂ. વૈચાવૃત્યકારિકા સાધ્વી શ્રી મલયાશ્રીજી મ.સા.ના શિષ્યા વ્યવહાર વિચક્ષણા પૂ. સાધ્વી શ્રી હિતજ્ઞાશ્રીજી મ.ની પ્રેરણાથી જૈન આરાધના મંદિર-“જ્ઞાનખાતા” તરફથી નકલ એક. -પ.પૂ. સૌમ્યમૂર્તિ સાધ્વીશ્રી સમ્યગુણાશ્રીજી મ.ની પ્રેરણાથી પ.પૂ. ગુરુમાતા-વાત્સલ્યમૂર્તિ સા. શ્રી રત્નત્રયાશ્રીજી મ.ની પંચમી પુન્યતિથિ નિમિત્તે શ્રીમતી લીલમબેન પ્રાણલાલ પી. દામાણી તરફથી નકલ એક. -પ.પૂ. સ્વનામધન્યા સા. શ્રી સમ્યગુણાશ્રીજી તથા તેઓના શિષ્યા સા. શ્રી સમજ્ઞાશ્રીજીની પ્રેરણાથી-૨૦૫૩ના યશસ્વી ચાતુર્માસ નિમિત્તે શ્રી પાર્શ્વપદ્માવતી જૈન સંઘ, પારૂલનગર, અમદાવાદ તરફથી નકલ બે. પ.પૂ. રત્નત્રચારાધના સાધ્વીથી સૌગુણાશ્રીજી તથા તેઓશ્રીના શિષ્યા સા. શ્રી સમજ્ઞાશ્રીજીની પ્રેરણાથી સંવત ૨૦૫૪ના નિર્મળ આરાધનામચ ચાતુર્માસની સ્મૃતિમાં-ઘાટલોડિયા (પાવાપુરી) જેન જે. મૂર્તિ. સંઘ, અમદાવાદ તરફથી નકલ એક. - - - - છે. - - . Page #5 -------------------------------------------------------------------------- ________________ -૫.પૂ. સાધ્વી શ્રી રત્નત્રયાશ્રીજી મ.ના પરમ વિનેયા સા.શ્રી સૌમ્યગુણાશ્રીજીની પ્રેરણાથી તેઓના સંસારીભાઈશ્રી ઇન્દ્રવદનભાઈ દામાણીના અનુમોદનીય પુરુષાર્થથી “આગમ દીપ-સંપુટ”ના બદલામાં પ્રાપ્ત રકમમાંથી-નકલ ચાર. -૫.પૂ. પ્રશમરસનિમગ્ના સાધ્વીશ્રી પ્રશમશીલાશ્રીજી મ.ની પ્રેરણાથીસમ્મેતશિખર તિકેંદ્ધારિકા પ.પૂ. સાધ્વીશ્રી રંજનશ્રીજી મ.સા.ના શિષ્યા અપ્રતિમ વૈયાવૃત્ત્વકારિકા સા.શ્રી મલયાશ્રીજી તત્ શિષ્યા સા. શ્રી નરેન્દ્રશ્રીજી-તત્ શિષ્યા સા. શ્રી પ્રગુણાશ્રીજી મ.ના. આત્મશ્રેયાર્થે. અરિહંત ટાવર, જૈન સંઘ, મુંબઇ તરફથી નકલ એક. -પ.પૂ. આગમોદ્ધારક આચાર્યદેવશ્રી ના સમુદાયવર્તી પ.પૂજ્ય વૈયાવૃષ્યકારિકા સા.શ્રી મલયાશ્રીજી મ.ના શિષ્યા પૂ.સા. શ્રી કૈવલ્યશ્રીજી મ.ના શિષ્યા પૂ. સા.શ્રી ભવ્યાનંદશ્રીજી મ.સા.ના સુશિષ્યા મિષ્ટભાષી સાધ્વીશ્રી પૂર્ણપ્રજ્ઞાશ્રીજી મ.સા. તથા તેમના વિનિત શિષ્યા સા. શ્રી પૂર્ણદર્શિતાશ્રીજી તથા સા. પૂર્ણનંદીતાશ્રીજીની પ્રેરણાથી-સર્વોદય પાર્શ્વનાથ ચેરીટેબલ ટ્રસ્ટ, મુલુન્ડ મુંબઈ તરફથી નકલ એક. -૫.પૂ. વૈયાવૃત્ત્વકારિકા સાધ્વીશ્રી મલયાશ્રીજી મ.ના પ્રશિષ્યા સા. શ્રી ભવ્યાનંદશ્રીજીમ.ના સુવિનિતા સા.શ્રી કલ્પપ્રજ્ઞાશ્રીજી તથા કોકીલકંઠી સા. શ્રી કૈરવપ્રજ્ઞામ્રજી ની પ્રેરણાથી -મેહુલ સોસાયટી, આરાધનાભવન, સુભાષનગર, વડોદરાની બહેનો તરફથી નકલ એક -શ્રી વિશાશ્રીમાળી તપગચ્છજ્ઞાતિ-જ્ઞાનખાતું, જૈન પાઠશાળા, જામનગર તરફથી નકલ બે. -શ્રી મંગળ પારેખનો ખાંચો-જૈન શ્વે. મૂર્તિ. સંઘ, અમદાવાદ. તરફથી ૨૦૫૪ના ચાતુર્માસ નિમિત્તે નકલ બે. • શ્રી આકોટા જૈન સંઘ, વડોદરાની બહેનો તરફથી નકલ એક. · -શ્રીમતી નયનાબેન રમેશચંદ્ર શાહ, વડોદરાની પ્રેરણાથી આગમોના સેટના બદલામાં પ્રાપ્ત રફમમાંથી નફલ પાંચ. શેષ સર્વે રકમ “અમારા”આજ પર્યન્ત પ્રકાશનોના બદલામાં પ્રાપ્ત થયેલી છે. Page #6 -------------------------------------------------------------------------- ________________ नमो नमें निम्मत सणस पंचम गणपर श्री सुध स्वामिने नमः ३५/२ बृहत्कल्प -छेदसूत्रम् - मटीक [द्वितीयं छेद सूत्रम् उद्देशक : -१-मू. ८- - - ५० पर्यान्ताः + उद्देशक ः २, + उद्देशकः-३-मू.९६ पर्यन्तः [भद्रबाहुस्वामि रचितं मूलं + (स्वोपज्ञनियुक्तियुक्त) संघदासगणि विरचितं भाष्यं एवं मलयगिरि-क्षेमकीर्ति आचार्याभ्याम् विरचिता वृत्तिः] मू.(८) से गामंसि वा जाव रायहाणिंसि वा सपरिक्खेवंसि अबाहिरियंसि कप्पइ निग्गंथीणं हेमंत-गेम्हासु दो मासा वत्थए । वृ-अस्यापि व्याख्या प्राग्वत् । नवरमबाहिरिके क्षेत्रे कल्पते निर्ग्रन्थीनां हेमन्त-ग्रीष्मेषु द्वौ मासौ वस्तुमिति ॥अथ भाष्यविस्तरः[भा.२०४७] एसेव कमो नियमा, निग्गंथीणं पि होइ नायव्यो। जं एत्थं नाणत्तं, तमहं वोच्छं समासेणं ।। कृ'एष एव' निर्ग्रन्थसूत्रोक्तः “पव्वजा सिक्खापय" इत्यादिकःक्रमोनियमा निर्ग्रन्थीनामपि ज्ञातव्यो भवति । यत् पुनः अत्र विहारद्वारे नानात्वं तदहं वक्ष्ये समासेन । प्रतिज्ञातमेव निर्वाहयति[भा.२०४८] निग्गंथीणं गणहरपरूवणा खेत्तमग्गणाचेव। वसही वियार गच्छस्स आणणावारए चेव॥ [भा.२०४९] भत्तट्ठणाए य विही, पडिनीए भिक्खनिग्गमे चेव । निग्गंथाणं मासो, कम्हा तासिंदुवे मासा॥ कृनिर्ग्रन्थीनांयोगणधरः गच्छवपिकस्तस्य प्ररूपणाकर्तव्या।ततःक्षेत्रस्यसंयतीप्रायोग्यस्य मार्गणा प्रत्युपेक्षणा वक्तव्या।ततस्तासांयोग्यावसतिर्विचारभूमिश्च।ततः ‘गच्छस्य संयतीगणस्य आनयना । ततः 'वारकः' घटस्तत्स्वरूपम् । तदनन्तरं भक्तार्थना-समुद्देशनं तस्याः 'विधिः' व्यवस्था । ततः प्रत्यनीककृतोपद्रवतोयथा निवारणम् । ततो भिक्षायां निर्गमः। ततो निर्ग्रन्थानां कस्मादेको मासः ? तासां च कस्माद् द्वौ मासौ ? । एतानि द्वाराणि वक्तव्यानीति द्वारगाथाद्वयसमुदायार्थः। अथावयवार्थं प्रतिद्वारमाह[भा.२०५०] पियधम्मे दढधम्मे, संविग्गेऽवज ओय-तेयस्सी। संगहुवग्गकुसले, सुत्तत्थविऊ गणाहिवई॥ वृ-प्रियः-इष्टो धर्म-श्रुत-चारित्ररूपो यस्य स प्रियधर्मा । यस्तु तस्मिन्नेव धर्मे ढो Page #7 -------------------------------------------------------------------------- ________________ दृहत्कल्प-छेदसूत्रम् -२-१/८ द्रव्यक्षेत्राद्यापदुदयेऽपि निश्चलः स ढधर्मा, राजदन्तादित्वाद् दृढशब्दस्य पूर्वनिपातः। संविग्नो द्विधा-द्रव्यो भावतश्च ।तत्र द्रव्यतो मृगः, सदैव त्रस्तमानसत्वात्। भावतोयः संसारभयोद्विग्नः सन् नित्यं पूर्वरात्रा-ऽपररात्रकाले सप्रेक्षते-किं मया कृतम् ? किं वा मे कर्तव्यशेषम् ? किंवा शक्यमपि तपः कर्मादिकमहं न करोमि ? इत्यादि । “वज्ज"त्ति अकारप्रश्लेषाद् अवयं-पापं "सूचनात् सूत्रम्" इति कृत्वा तद्भीरु-अवधभीरु । ओजः तेजश्च उभयमपि वक्ष्यमाणलक्षणं तद् विद्यते यस्य स ओजस्वी तेजस्वी चेति । सहः-द्रव्यतोवस्त्रादिभिर्भावतः सूत्राभ्याम्, उपग्रहः-द्रव्यतऔषधादिभिर्भावतो ज्ञानादिभिः, एतयोः संयतीविषययोः सङ्गहोपग्रहयोः कुशलःदक्षः। तथा सूत्रार्थविद् गीतार्थः । एवंविधः ‘गमाधिपति' आर्यिकाणांगणधरः स्थापनीयः॥ अथौजस्तेजसी व्याचष्टे[भा.२०५१] आरोह-परीणाहा, चियमंसो इंदिया य पडिपुत्रा। अह ओओ तेओ पुन, होइ अनोतप्पया देहे ॥ वृ-आरोहो नाम-शरीरेण नातिदैर्ध्य नातिहस्वता, परिणाहो नाम-नातिस्थौल्यं नातिदुर्बलता; अथवा आरोहः-शरीरोच्छ्रायः परिणाहः-बाह्रोर्विष्कम्भः, एतौ द्वावपि तुल्यौ न हीनाधिकप्रमाणौ । “चियमंसो"त्ति भावप्रधानत्वाद् निर्देशस्य 'चितमांसत्वं नाम' वपुषि पांसुलिका नावलोक्यन्ते। तथा इन्द्रियाणि च प्रतिपूर्णानि, न चक्षु-श्रोत्राद्यवयवविकलतेति भावः । अथ' एतद्आरोहादिकमोजउच्यते, तद्यस्यास्तिसओजस्वी।तेजः पुनः 'देहे शरीरे अनपत्रप्यता' अलज्जनीयता दीप्तियुक्तत्वेनापरिभूतत्वम्, त विद्यते यस्य स तेजस्वी ॥गतं गणधरप्ररूपणाद्वारम् । अथ क्षेत्रमार्गणाद्वारमाह[भा.२०५२] खित्तस्स उ पडिलेहा, कायव्वा होइ आनुपुवीए। किं वच्चई गणहरो, जो चरई सो तणं वहइ॥ वृ-'क्षेत्रस्य' संयतीप्रायोग्यस्य 'आनुपूर्त्या “थुइमंगलमामंतण" इत्यादिना पूर्वोक्तक्रमेण प्रत्युपेक्षणा गणधरेणकर्तव्या। आह किं केन हेतुनागणधरः स्वयमेव क्षेत्रप्रत्युपेक्षणायव्रजति? उच्यते-योबलीवादिश्चारिं चरतिसएव तृणभारंवहति, एवंयोनिर्ग्रन्थीगणस्याधिपत्यमनुभवति स एव सर्वमपि तच्चिन्ताभारमुद्वहति॥आह संयत्यः किमर्थं न गच्छन्ति ? इत्युच्यते[भा.२०५३] संजइगमणे गुरुगा, आणादी सउणि पेसि पिल्लणया। उवलोभे तुच्छा आसियावणाइणो भवे दोसा॥ वृ-यदि संयत्यः क्षेत्रप्रत्युपेक्षितं गच्छन्ति ततआचार्यस्य चतुर्गुरव आज्ञादयश्च दोषाः। यथा 'शकुनिका' पक्षिणी श्येनस्य गम्या भवति यथा वा "पेसि"त्ति मांसपेशिका आम्रपेशिका वा सर्वस्याप्यभिलषणीया भवति तथा एता अपि; अत एव "पेल्लणय"त्ति विषयार्थिना प्रेर्यन्ते । तथातुच्छास्ताः, ततोयेन तेनाप्याहारादिलोभेनोपप्रलोभ्य आसियावणम्-अपहरणंतासां क्रियते। एवमादयो दोषा भवन्ति ।। इदमेव भावयति[भां.२०५४] तुच्छेण वि लोभिज्जइ, भरुयच्छाहरण नियडिसड्डेणं । जंतनिमंतण वहणे, चेइय रूढाण अक्खिवणं॥ कृतुच्छेनापिआहार-वस्त्रादिना स्त्रीलोभ्यते।अत्रच भृगुकच्छप्राप्तेननिकृतिश्राद्धेनोदाहरणम्। Page #8 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं - ८, [भा. २०५४] कथम् ? इत्याह- "णंत "त्ति वस्त्राणि तैर्निमन्त्रणं कृत्वा 'वहने' प्रवहणे चैत्यवन्दनार्थमारूढानां संयतीनां तेन 'आक्षेपणम्' अपहरणं कृतमिति । जहा भरूअच्छे आगंतुगवाणियओ तञ्चन्नियसड्डो संजईओ रूववईओ हूण कवडसढत्तणं पडिवन्नो । ताओ तस्स वीसंभियाओ । गमनकाले पवत्तिणिं विन्नवेइ-वहणट्ठाणे मंगलट्ठा पडिलाहणं करेमि तो संजईओ पट्ठवेह, अम्हे वि अनुग्गहिया होज्जामो । तओ पट्ठविया । तत्थ गया कवडसड्डेणं भन्नंति-पढमं वहणे चेइयाइं वंदह, तो पडिलाहणं करेमि त्ति । ताओ जाणंति-अहो ! विवेको । तओ चेइयवंदनत्थमारूढाणं पयट्टियं वहणं, जाव आसियावियाओ ॥ [ भा. २०५५ ] एएहि कारणेहिं, न कप्पई संजईण पडिलेहा । गंतव्व गणहरेणं, विहिना जो वन्निओ पुव्वि ॥ वृ- एतैः कारणैः संयतीनां क्षेत्रप्रत्युपेक्षा कर्तुं न कल्पते। केन पुनस्तर्हि प्रत्युपेक्षणाय गन्तव्यम् ? इत्याह-गन्तव्यं गणधरेण विधिना । कः पुनर्विधि ? इत्याह-यः पूर्वमत्रैव मासकल्पप्रकृते स्थविरकल्पिकविहारद्वारे वर्णितः । आह कीशं क्षेत्रं तासां योग्यं गणधरेण प्रत्युपेक्षणीयम् ? उच्यते [भा.२०५६] जत्थाहिवई सूरो, समणाणं सो य जाणइ विसेसं । एतारिसम्म खेत्ते, समणाणं होइ पडिलेहा ॥ [भा. २०५७] जहियं दुस्सीलजणो, तक्कर - सावयभयं व जहि नत्थि । निप्पच्चवाय खेत्ते, अज्जाणं होइ पडिलेहा ।। वृ- 'यत्र' ग्रामादी 'अधिपति' भोगिकादिकः 'शूरः' चौर-चरटादिभिरनभिभवनीय इत्यर्थः, स च 'श्रमणानां साधूनां विशेषं जाना, यथा-ईशममीषां दर्शने व्रतम्, ईशश्च समाचारः । एतादृशे क्षेत्रे साध्वीयोग्ये श्रमणानां प्रत्युपेक्षणा भवति, एवंविधं क्षेत्रं तासां हेतोः प्रत्युपेक्षणीयमिति भावः ॥ तथा यत्र दुःशीलजनः तस्कर - श्वापदभयं वा यत्र नास्ति ईध्शे निष्प्रत्यपाये क्षेत्रे आर्यिकाणां प्रायोग्ये प्रत्युपेक्षणा कर्त्तव्या भवति ॥ अथ वसतिद्वारमाह [भा. २०५८] गुत्ता गुत्तदुवारा, कुलपुत्ते सत्तमंत गंभीरे । भीयपरिस मद्दविए, ओभासण चिंतना दाने ॥ वृ- 'गुप्ता' वृत्या कुड्येन वा परिक्षिप्ता । 'गुप्तद्वारा' कपाटद्वयोपेतद्वारा । यस्यां च शय्यातरः कुलपुत्रकः, कथम्भूतः ? 'सत्त्ववान्' न केनापि क्षोभ्यते, महदपि च प्रयोजनं कर्तुमध्यवस्यति । 'गम्भीरो नाम' संयतीनां पुरीषाद्याचरणं दृष्ट्वाऽपि विपरिणामं न याति । तथा मीता - चकिता पर्षद् यस्य स भीतपर्षद्, आज्ञैकसारतया यस्य भ्रुकुटिमात्रमपि दृष्टवा परिवारः सर्वोऽपि भयेन कम्पमानस्तिष्ठति न च कचिदन्याये प्रवृत्तिं करोति । मार्दवम् - अस्तब्धता तद् विद्यते यस्य स मार्दविकः । एवंविधो यदि कुलपुत्रको भवति ततः “ओभासण "त्ति संयतीनामुपाश्रयस्यावभाषणं कर्त्तव्यम् । अवभाषिते च यद्यसावुपाश्रयमनुजानीते - अनुग्रहो मे, तिष्ठन्तु भगवत्यो यथाऽभिप्रेतं कालमत्र' इति ततो भण्यते "चिंतन"त्ति यथा स्वकीयाया दुहितुः स्नुषाया वा चिन्तां करोषि तथा यद्येतासामपि प्रत्यनीकादुपसर्गरक्षणे चिन्तां कर्तुमुत्सहसे ततोऽत्र स्थापयामः । स प्राहबाढं करोमि चिन्तां परं कथं पुनरमू रक्षणीयाः ? । ततोऽभिधातव्यम्-यथा किलाक्षिणी स्वहस्तेन परहस्तेन वा दूयमाने रक्ष्येते तथैता अपि यद्यात्ममानुषैरपरमानुषैर्वा उपद्रूयमाणा रक्षसि तत Page #9 -------------------------------------------------------------------------- ________________ बृहत्कल्प-छेदसूत्रम् -२-१/८ एतारक्षिताभवन्तीति । यद्येवंप्रतिपद्योपाश्रयस्यदानंकरोतिततः स्थापनीयाः ।अथाप्रतिपद्यमाने स्थापयन्ति ततश्चत्वारो गुरुकाः ।। अन्याचार्याभिप्रायेणामुमेवार्थमाह[भा.२०५९] घनकुड्डा सकवाडा, सागारियमाउ-भगिनिपेरंता। निप्पच्चवाय जोग्गा, विच्छिन्नपुरोहडा वसही। वृ. 'धनकुड्या' पक्वेष्टकादिमयमित्तिका, 'सकपाटा' कपाटोपेतद्वारा, सागारिकसत्कानां मातृमगिनीनां गृहाणि पर्यन्ते-पार्श्वतो यस्याः सा सागारिकमात-भगिनीगृहपर्यन्ता, गाथायामनुक्तोऽपिगृहशब्दोऽत्रद्रष्टव्यः, 'निष्प्रत्यपाया' दुर्जनप्रवेशादिप्रत्यपायरहिता, विस्तीर्ण पुरोहडंगृहपश्चाद्भागो यस्यां सा विस्तीर्णपुरोहडा, एवंविधा वसति संयतीनां योग्या॥ [भा.२०६०] नासने नातिदूरे, विहवापरिणयवयाण पडिवेसे। मज्झत्य-ऽवियाराणं, अकुऊहल-भावियाणंच ॥ वृ-विधवाश्च ताः परिणतवयसश्च-स्थविरस्त्रियस्तासाम् तथा मध्यस्थाना-कन्दर्पादिभाविकलानाम् अविकाराणां-गीतादिविकाररहितनाम् अकुतूहलानां-'संयत्यो भोजनादिक्रियाः कथं कुर्वन्ति?' इति कौतुकवर्जितानाम् भावितानां-साधु-साध्वीसामाचारीवासितानां सम्बन्धि यत्प्रतिवेश्म-प्रत्यासन्नगृहं तत्र नासन्ने नातिदूरे संयतीप्रतिश्रयो ग्राह्यः ।। अथान्याचार्यपरिपाट्या शय्यातरस्वरूपमाह[भा.२०६१] भोइय-महतरगादी, बहुसयणो पिल्लओ कुलीनो य। परिनतवओ अभीरू, अनभिग्गहिओ अकुतूहली ॥ वृ-यो भोगिक-महत्तरादि बहुस्वजनः बहुपाक्षिकः, तथा प्रेरकः' षिङ्गादीनांस्वगृहे प्रविशतां निवारकः, कुलीनः परिणतवयाश्चप्रतीतः, अभीरु उत्पन्नेमहत्यपि कार्येन बिभेति 'कथमेतत् कर्तव्यम् ?' इति, 'अनभिगृहीतः' आभिग्रहिकमिथ्यात्वरहितः, 'अकुतूहली' संयतीनां भोजनादिदर्शने कौतुकवर्जितः॥ [भा.२०६२] कुलपुत्त सत्तमंतो, भीयपरिस भद्दओ परिणओ । धम्मट्ठीय विनीओ, अज्ञासेन्जायरो भणिओ। वृ-यस्तु कुपुत्रकः सत्त्ववान्' न केनाप्यभिभवनीयः, भीतपर्षत् प्राग्वत्, ‘भद्रकः' शासने बहुमानवान्, परिणतो वयसामत्यावा, तथा 'धर्मार्थी धर्मश्रद्धालुः, विनीतः' विनयवान्, एष आर्यिकाणांशय्यातरो भणितस्तीर्थकरैः ।। गतं वसतिद्वारम् । अथ विचारद्वारमाह[भा.२०६३] अनावायमसंलोगा, अणावाया चेव होइ संलोगा। आवायमसंलोगा, आवाया चेव संलोगा। वृ-अनापाता असंलोका १ अनापाता संलोका २ आपाता असंलोका ३ आपाता संलोका चेति चतो विचारभूमयः। एतासुसंयतीनां विधिमाह[भा.२०६४] वीयारे बहि गुरुगा, अंतो विय तइयवञ्जितेचेव। तइए विजत्थ पुरिसा, उति वेसित्थियाओ अ॥ वृ-यदि पुरोहडे विद्यमाने संयत्यो ग्रामा बहिर्विचारभुवं गच्छन्ति ततश्चतुर्वपि स्थण्डिलेषु प्रत्येकं चतुर्गुरुकाः प्रायश्चित्तम् । अन्तरपिच' ग्रामाभ्यन्तरे पुरोहडादौ आपातासंलोकलक्षणं Page #10 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं - ८, [भा. २०६४] तृतीयं स्थण्डिलं वर्जयित्वा यत्र पुरुषा वेश्यास्त्रियश्च 'उपयन्ति' आपतन्ति तत्र चत्वारो गुरुकाः । यत्र तु कुलजानां स्त्रीणामापातो भवति तत्र गन्तव्यम् ।। आह किं पुनः कारणं प्रथमादीनि स्थण्डिलानि तासां नानुज्ञायन्ते ? उच्यन्ते [ भा. २०६५ ] जत्तो दुस्सीला खलु, वेसित्थि नपुंस हेट्ठ तेरिच्छा । ७ साउ दिसा डिट्ठा, पढमा बिइया चउत्थी य ॥ वृ- " जत्तो" त्ति यस्यां दिशि 'दुःशीलाः' परदाराभिगामिनः पुरुषा आपतन्ति तथा वेश्यास्त्रियोनपुंसकाश्च "हेट्ठ"त्ति अधोनापिताः 'तिर्यञ्चश्च' वानरादय आपतन्ति 'सा तु' सा पुनः दिक् प्रथमा द्वितीया चतुर्थी च 'प्रतिक्रुष्टा' निषिद्धा, प्रथमादीनि स्थण्डिलानीत्यर्थः ॥ अथैनामेव निर्युक्तिगाथां व्याचष्टे [भा. २०६६ ] चारभड घोड मिंठा, सोलग तरुणा य जे य दुस्सीला । उब्भामित्थी वेसिय, अपुमेसु उ इंति उ तदट्ठा ।। वृ- 'चारभटाः' राजपुरुषाः 'घोटाः' चट्टाः 'मिण्ठाः ' गजपरिवर्त्तकाः 'सोलाः' तुरगचिन्तानियुक्ताः, एवमादयो ये तरुणाः सन्तो दुःशीलास्ते प्रथम-द्वितीययोः स्थण्डिलयोरनापातत्वादेकान्तमिति कृत्वा उद्रामकस्त्रीषु वा वेश्यासु वा “अपुमेसु उ"त्ति नपुंसकेषु वा पूर्वप्राप्तेषु 'तदर्थं ' तेषाम् उद्रामकस्त्रीप्रभृतीनां प्रतिसेवनार्थमायान्तीति । चतुर्थे स्थण्डिले संलोकत्वादेते दुःशीलादयः संयतीवर्गं पश्येयुः संयतीवर्गेण वा ते दृश्येरन्नित्यतस्तदपि निषिध्यते ॥ हेट्ठउवासणहेउं, नेगागमनम्मि गहण उड्डाहो । वानर - मयूर - हंसा, छाला सुनगादि तेरिच्छा ।। [भा. २०६७ ] वृ- अधस्तादुपासनम् अधोलोचकर्म तद्धेतोरधोनापितेषु पूर्वप्राप्तेषु 'अनेकेषां मनुष्याणामधोलोचकर्मकारापकाणामागमने सति यद्युदीर्णमोहास्ते संयतीर्गृह्णन्तीति ततो ग्रहणे उड्डाहो भवति । तथा वानर-मयूर-हंसाश्छगलाः शुनकादयश्च तिर्यञ्चस्तत्रायाताः संयतीमुपसर्गयेयुः ॥ यत एवं ततः किम् ? इत्यत आह [भा. २०६८ ] जइ अंतो वाघाओ, बहिया तासि तइया अनुन्नाया । सेसा नाणुन्नाया, अजाण वियारभूमीतो ।। वृ-यदि‘अन्तः’ग्रामाभ्यन्तरे ‘व्याघातः' पुरोहडादेरभावस्ततो बहिस्तासां 'तृतीया विचारभूमि' आपाताऽसंलोकरपाऽनुज्ञाता, तत्रापि स्त्रीणामेवापातो ग्राह्यो न पुरुषाणाम् । शेषा विचारभूमयोऽनापाताऽसंलोकाद्या आर्यिकाणां नानुज्ञाताः ॥ गतं विचारद्वारम् । अथ संयतीगच्छस्यानयनमिति द्वारमाह [भा.२०६९ ] पडिलेहियं च खेत्तं, संजइवग्गस्स आणणा होइ । निक्कारणम्मि मग्गतो, कारणे समगं व पुरतो वा ।। वृ- एवं वसति- विचारभूम्यादिविधिना प्रत्युपेक्षितं च संयतीप्रायोग्यं क्षेत्रम् । ततः संयतीवर्गस्यानयनं तत्र क्षेत्रे भवति । कथम् ? इत्याह- 'निष्कारणे' निर्भये निराबाधे वा सति साधवः पुरतः स्थिताः संयत्यस्तु 'मार्गतः' पृष्ठतः स्थिता गच्छन्ति । कारणे तु 'समकं वा' साधूनां पार्श्वतः 'पुरतो वा' साधूनामग्रतः स्थिताः संयत्यो गच्छन्ति ॥ Page #11 -------------------------------------------------------------------------- ________________ बृहत्कल्प-छेदसूत्रम् -२-१/८ [भा.२०७०] निप्पच्चवाय संबंधि भाविए गणहरऽपविइ-तइओ। नेइ भए पुनसत्येण सद्धिं कयकरणसहितो वा ॥ वृ. 'निष्प्रत्यपाये' उपद्रवाभावे संयतीनां ये 'सम्बन्धिनः' स्वज्ञातीयः ‘भाविताश्च' सम्यक्परिणतजिनवचना निर्विकाराः संयतास्तैः सह गणधर आत्मद्वितीय आत्मतृतीयो वा संयतीर्विवक्षितं क्षेत्र नयति । अथ स्तेनादिभयं वर्तत ततः सार्थेन सार्द्ध नयति, यो वा संयतः कृतकरणः-इषुशास्त्रेकृताभ्यासस्तेनसहितोऽसौसंयतीस्तत्रनयति।सचगणधरः स्वयंपुरतः स्थितो गच्छति, संयत्यस्तु मार्गतः स्थिताः ।।अत्रैवमतान्तरमुपन्यस्य दूषयनाह[भा.२०७१] उभयट्ठाइनिविटुं, मा पेल्ले वइणि तेणपुर एगे। तंतुन जुज्जइअविनय विरुद्ध उभयंचजयणाए। वृ-एके सूरयोब्रुवते-उभयं-कायिकी-संज्ञेतदर्थम्आदिशब्दात्परस्मिन्वाक्वचित्प्रयोजने निविष्टम्-उपविष्टं सन्तं संयतंव्रतिनीमाप्रेयतुइत्यनेनहेतुनासंयत्यः पुरतोगच्छन्ति।अत्राचार्य प्राह-'तत्तु' तदुक्तंनयुज्यते। कुतः? इत्याह-पुरतोगच्छन्तीनांतासामविनयःसाधुषुसजायते, लोकविरुद्धं चैवं परिस्फुटं भवति-अहो! महेलाप्रधानममीषां दर्शनम् । यत एवमतो मार्गतः स्थिता एव ता गच्छन्ति । 'उभयंच कायिकी-संज्ञारूपं यतनया कुर्यात् । कापुनर्यतना? इति चेद् उच्यते-यत्रैकः कायिकी संज्ञां वा व्युत्सृजति तत्र सर्वेऽपि तिष्ठन्ति । तथास्थितांच तान् दृष्ट्वा संयत्योऽपि नाग्रतः समागच्छेयुः, ता अपि पृष्ठत एव शरीरचिन्तां कुर्वन्तीति॥ गतं गच्छस्याननमिति द्वारम् । अथ वारकद्वारमाह[भा.२०७२] जहियं च अगारिजमो, चोक्खब्भूतो सुईसमायारो। कुडमुहदद्दरएणं, वारगनिक्खेवमा भणिया। वृ-'यस्मिंश्च' ग्रामादौ अगारीजनः' अविरतिकालोकचोक्षभूतःशुचिसमाचारश्चवर्तते तत्र वारकग्रहणं निर्ग्रन्थीभिः कर्त्तव्यम् । अथ न कुर्वन्ति ततश्चत्वारो गुरवः, यच्चप्रवचनोड्डाहादिकमुपजायतेतन्निष्पन्नंप्रायश्चित्तम्।यत एवमतःकुटमुखे घटकण्ठके श्लक्ष्णचीवरदर्दरकेणपिहितस्य वारकस्य स्वच्छद्रवभृतस्य निक्षेपणा मणिता भगवद्भिः॥ एनामेव नियुक्तिगाथां भावयति[भा.२०७३] थीपडिबद्धे उवस्सए, उस्सग्गपदेण संवसंतीओ। वचंति काइभूमि, मत्तगहत्था नयाऽऽयमणं॥ वृ- उत्सर्गपदेन संयतीभि स्त्रीप्रतिबद्ध उपाश्रये वस्तव्यमिति कृत्वा तत्र संवसन्त्यो यदा कायिकीभूमिं व्रजन्ति तदा मात्रकहस्ता' वारकं हस्ते गृहीत्वा व्रजन्ति, यथा तासामगारीणां प्रत्ययोजायते-एताः कायिकीं कृत्वापश्चादाचमनं करिष्यन्ति, अहो! शुचिसमाचाराइति।तत्र च गतास्तासामदर्शनीभूता आचमनंन कुर्वन्ति, सच वारकोऽन्तर्लिप्तः कर्तव्यः॥ कुतः? इत्यत आह[भा.२०७४] दुक्खं विसुयावेठ, पनगस्सयसंभवो अलित्तम्मि। संदंतेतसपाणा, आवजण तक्कणादीया। वृ-धारकोऽलिप्तः सन् “विसुयावेउँ" विशोषयितुं "दुक्खं" दुष्करो भवति ।अलिप्ते चतत्र Page #12 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं-८, [भा. २०७४ ] पानकभावितत्वात् पनकस्य 'सम्भवः' सम्मूर्च्छनं भवति । अलिप्तश्च वारकः पानके प्रक्षिप्ते सति स्यन्दत-परिगलति । यन्दमानेच 'त्रसप्राणिनः' कीटिका-मक्षिकादयः समागच्छेयुः । ततः किम्? इत्यत आह- “आवज्जण "त्ति यदनन्तकायिक- विकलेन्द्रियेषु सङ्घट्टनादिकमापद्यते तन्निष्पन्नं प्रायश्चित्तम्। “तक्कणाईय'त्ति ततो वारकात् पानके परिगलति मक्षिकाः पतन्ति, तासां ग्रसनार्थं गृहकोकिला धावति तस्या अपि भक्षणार्थं मार्जारीत्येवं तर्कणम्-अन्योन्यं प्रार्थनं तदादयो दोषा भवेयुः ॥ यत्र पुनः कायिकीभूमौ सागारिकं भवति तत्रेयं यतनासागारिए परम्मुह, दगसद्दमसंफुसंतिओ नित्तं । पुलएज माय तरुणी, ता अच्छ दवं तु जा दिवसो ॥ [भा. २०७५ ] ९ वृ- सागारिके सति पराङ्मुखीभूय कायिकीं कृत्वा 'नेत्रं' भगमसंस्पृशन्त्यः 'दकशब्द' पानकप्रक्षालनानुमापकं कुर्वन्ति । तथा 'तरुण्यः' स्त्रियः 'किमत्रास्ति पानकं न वा ?' इति जिज्ञासया मा प्रलोकन्तामिति हेतोस्तस्मिन् वारके तावद् ' अच्छम्' अकलुषं 'द्रवं' पानकं प्रक्षिप्तं तिष्ठति यावद् दिवसः, ततः सन्ध्यासमये तत् पानकं परिष्ठापयन्ति ॥ गतं वारकद्वारम् । अथ भक्तार्थनाविधिद्वारमाह [भा. २०७६ ] मंडलिठाणस्सऽसती, वला व तरुणीसु अहिवडंतीसु । पत्तेय कमढभुंजण, मंडलिथेरी उ परिवेसे ॥ - यद्यसागारिकं ततो मण्डल्यां समुद्दिशन्ति । अथ मण्डलीभूमि सागारिकबहुला ततो मण्डलिस्थानस्यासति बलाद् वा प्रणयेन तरुणीष्वभिपतन्तीषु तत्रौर्णिकं कल्पमधः प्रस्तीर्य तस्योपरि सौत्रिकं तत्राप्यलाबुपात्रकाणि स्थापयित्वा प्रत्येकं कमढकेषु भुञ्जते । प्रवर्त्तिनी च पूर्वाभिमुखा धुरिनिविशते । तत एका मण्डलिस्थविरा यमलजननीसहोदरा सर्वासामपि परिवेषयेत्, आत्मनोऽपि योग्यमात्मीये कमढके प्रक्षिपेत् ॥ [भा. २०७७] ओगाहिमाइविगई, समभाग करेइ जत्तिया समणी । तासिं पञ्चयउं, अणहिक्खट्ठा अकलहो अ ।। बृ- अवगाहिमं पक्वानम् आदिशब्दाद् घृतादिकाश्च विकृतीः यावत्यः श्रमण्यस्तावतः समभागान् मण्डलिस्थविरा करोति । किमर्थम् ? इत्याह- 'तासां' श्रमणीनां प्रत्ययार्थम्, था “अणहिक्खट्ठ”त्ति 'अनधिकखादनार्थं सर्वासामप्यविषमसमुद्देशनार्थम्, अकलहश्चैवं भवति, असङ्घडं न भवतीत्यर्थः ॥ ताश्च समुद्देष्टुमुपविशन्त्य इत्थं ब्रुवते [भा.२०७८ ] निव्वीइय एवइया, व विगइओ लंबणा व एवइया । अन्नगिलायंबिलिया, अज्ज अहं देह अन्नासिं ॥ वृ- एका ब्रूते - अद्याहं निर्विकृतिका । द्वितीया प्राह- अद्य मम 'एतावत्यः' एक - द्व्यादिसङ्ख्याका विकृतयो मुत्कलाः शेषाणां प्रत्याख्यानम् । अपरा भणति-अद्य ममैतावन्तः 'लम्बनाः' कवलाः तत ऊर्ध्वं नियमः । अन्याऽभिधत्ते - अद्याहम् 'अन्नग्लाना' ग्लानं पर्युषितमन्नं मया भोक्तव्यमित्येवं प्रतिपन्नाभिग्रहा । तदपरा ब्रूते - अद्याहम् ' आचाम्लिका' कताचाम्लप्रत्याख्याना अत इदं विकृत्यादिकमन्यासां प्रयच्छत । एवं समुद्दिश्य स्वच्छपानकेनाचमनं कुर्वन्ति । प्रवर्त्तिन्याः कमढकं क्षुल्लिका निर्लेपयति, शेषास्तु स्वं स्वं कमढकम् । ततः सर्वास्वपि समुद्दिष्टासु मण्डलीस्थविरा Page #13 -------------------------------------------------------------------------- ________________ १० बृहत्कल्प-छेदसूत्रम् -२-१/८ समुशिति । एवंविधं विधिं दृष्ट्वा किं भवति ? इत्याह[भा. २०७९ ] दट्टू निहुयवासं, सोयपयत्तं अलुद्धयत्तं च । इंदियदमं च चासिं, विनयं च जणो इमं भणइ ॥ वृ- 'तासां' संयतीनां 'निभृतवासं' विकथादिविरहेण निव्यापारतयैवावस्थानम्, 'शौचप्रयनं' वारकग्रहणादिरूपम्, अलुब्धत्वं च विकृत्यादिष्वभ्युत्थानाभिग्रहश्रवणेन, 'इन्द्रियदमं च' श्रोत्रादीन्द्रियनिग्रहम्, 'विनयं च ' प्रवर्तिन्यादिष्वभ्युत्थानादिरूपं दृष्टवा 'जनः' लोक इदं ब्रवीति । [भा. २०८०] सचं तवो य सीलं, अनहिक्खाओ अ एगमेगस्स । जइ बंभं जइ सोयं, एयासु परं न अन्नासु ॥ [भा.२०८१] बाहिरमलपरिछुद्धा, सीलसुगंधा तवोगुणविसुद्धा । धन्नाण कुलुप्पन्ना, एआ अवि होज्ज अम्हं पि ॥ वृ- 'सत्यं' वाक्कार्मणोरविसंवादिता, 'तपः' अनशनादि, ‘शीलं' सुस्वभावता, 'अनधिकखादश्च' विषमभोजनम् 'एकैकस्याः' परस्परममूषाम्, तथा यदि 'ब्रह्म' ब्रह्मचर्यं यदि 'शौचं ' शुचिसमाचारता, एतानि सत्यादीनि यदि परम् 'एतासु संयतीषु दृश्यन्ते 'नान्यासु' शाक्यादिपाषण्डिनीषु । ततो यद्यष्येता बाह्यमलेन परिक्षिप्तास्तथापि शीलेन सुगन्धाः तपोगुणैः - अनशनादिभिः यद्वा तपसाप्रतीतेन गुणैश्च-उपशमादिभिर्विशुद्धाः 'धन्यानां कुलोत्पन्नाः' एता येषां कुले उत्पन्नास्तेऽपि धन्या इति भावः । ‘अपि' सम्भवनायातम्, सम्भाव्यते किमयमर्थ यदस्माकमपि भगिनी - दुहित्रादय एतादृश्यः स्वकुलोज्वालनकारिण्यो भवेयुः ? | [भा. २०८२ ] एवं एत्थ वसंतीणुवसंतो सो य सिं अगारिजणो । गिण्हेति य सम्मत्तं, मिच्छत्तपरम्मुहो जाओ ।। वृ एवं तत्र वसन्तीनां तासां स अगारीजनः 'उपशान्तः' प्रतिबुद्धस्ततो मिथ्यात्वपराङ्मुखो जातः सन् सम्यक्त्वं गृह्णाति, चशब्दाद् देशविरतिं गृहवासभग्नो वा कश्चित् तद्गुणग्रामरञ्जितमनाः सर्वविरतिमपि प्रतिपद्यते ।। गतं भिक्षार्थनाविधिद्वारम् । अथ प्रत्यनीकद्वारमाहतरुणीण अभिद्दवणे, संवरितो संजतो निवारेइ । तह वि य अठायमाणे, सागारिओ तत्थुवालभइ ॥ [भा. २०८३] वृ-तरुणीनां संयतीनामभिद्रवणे प्रत्यनीकेन विधीयमाने सति 'संवृतः संयतीवेषाच्छादितः संयतो निवारयति । तथापि चातिष्ठति तस्मिन् 'सागारिकः' शय्यातरः 'तत्र' उपसर्गे तमुपालभते । एनामेव निर्युक्तिगाथां भावयति [भा.२०८४] गणिणिअकहणे गुरुगा, सा वि य न कहेइ जइ गुरूणं पि । सिद्धम्मि य ते गंतुं, अनुसट्ठी मित्तमाईहिं ॥ वृ- कश्चित्तरुणो विषयलोलुपतया संयतीनामुपद्रवं कुर्यात् ततस्तत्क्षणादेव ताभि प्रवर्त्तिन्याः कथनीयम् । यदि न कथयन्ति ततश्चत्वारो गुरवः । साऽपि च प्रवर्त्तिनी यदि गुरूणां न कथयति तदापि चतुर्गुरवः आज्ञादयश्च दोषाः, तस्मात् कथयितव्यम् । ततः 'शिष्टे' कथिते 'ते' आचार्यास्तस्याविरतकस्य पार्श्व गत्वा साध्वीशीलभङ्गस्य दारुणविपाकतासूचिकामनुशिष्टिं ददति । यद्युपरमते ततः सुन्दरम् अथ नोपरमते ततो यानि तस्य मित्राणि आदिशब्दाद् ये वा भ्रात्रादयः स्वजनास्तेषां Page #14 -------------------------------------------------------------------------- ________________ ११ ___११ उद्देशक : १, मूलं-८, [भा. २०८४] निवेद्य तैः प्रज्ञाप्यते । यदि स्थितस्ततो लष्टम्॥ [भा.२०८५] तह विय अठायमाणे, वसभा भेसिंति तहविय अठंते। अमुगत्थ घरे एजह, तत्थ य वसभा वतिणिवेसा ।। वृ-तथाप्यतिष्ठति तस्मिन् प्रत्यनीके 'वृषभाः' गच्छस्य शुभा-ऽशुभकार्यचिन्तानियुक्तास्तं प्रत्यनीकं भापयन्ति । तथाप्यतिष्ठति यस्तरुणः कृतकरणः साधुः स संयतीनेपथ्यं कृत्वा तस्य सङ्क्तं प्रयच्छति, यथा-अमुकत्र गृहे यूयमागच्छत । ततो वृषभा वतिनीनां वेषं परिधाय तेन साधुना सह तत्र गत्वा प्रत्यनीकस्यशिक्षांकुर्वन्ति। तथाप्यनुपशान्तेतस्मिन् सागारिकस्य निवेद्यते। तेनोपलब्धो यदि स्थितस्ततः सुन्दरम् ॥ अथ नास्ति तदानीं सन्निहितः सागारिकस्ततः किं कर्तव्यम् ? इत्याह[भा.२०८६] सागारिए असंते, किच्चकरे भोइयस्स व कहिति । अन्नत्थ ठाण निती, खेत्तस्सऽसती णिवेचेव ।। वृ. सागारिके 'असति' अस्निहिते ‘कृत्यकरस्य' ग्रामचिन्तानियुक्तस्य भोगिकस्य वा' ग्रामस्वामिनः कथयन्ति। तेन शासितोऽपियदिनोपरमतेततः संयतीरन्यत्र स्थाने' क्षेत्रे नयन्ति। अथ नास्ति संयतीप्रायोग्यपरं क्षेत्रस्वयं वा संयत्यो ग्लानादिकार्यव्यापृतान शक्नुवन्ति क्षेत्रान्तरं गन्तुंततः 'नृपस्य' दण्डिकस्य निवेद्यते, स प्रत्यनीकमुपद्रवन्तं निवारयति॥ गतं प्रत्यनीकद्वारम् । अथ भिक्षानिर्गमद्वारमभिधिसुराह[भा.२०८७] दो थेरि तरुणि थेरी, दोन्निय तरुणीउ एक्किया तरुणी। चउरो अअनुग्घाया, तत्थ वि आणाइयो दोसा॥ वृ-अत्रगुरिनियोगतश्शूणिरिव लिश्यते-जति दोनिथेरीओनिग्गच्छंतिभिक्खस्सएका, तरुणी थेरी यजतिएका, दो तरुणीओ जति निग्गच्छंति एका, एगा थेरी जति निग्गच्छइण्का, एक्किया तरुणी जति निग्गच्छइण्का, तत्राप्याज्ञादयो दोषाः॥ कुतः? इत्याह[मा.२०८८] चउकन होज रहं, संका दोसाय थेरीयाणं पि। कुट्टिणिसहिता बितिए, तइय-चउत्थीसुधुत्ति त्ति ॥ वृ-दोण्हं थेरीणं दोसे-दुवे अभिन्नरहसीओहोज्जा, संकाय-किंमन्ने केणइ दूतिकिच्चेणं निउत्तियाओ? असंकणिज्जाओत्तिकाउं।तरुणीथेरीयलोगोभणेज्जा-कुट्टिणिसहियाहिंडइ, “बितिए"त्ति पगारे निग्गमस्स। दो तरुणीओ धुत्तीओ संभाविजंति । एगा वि थेरी धुत्ती संभाविज्जइ । एगा तरुणी तक्कणिज्जा ॥ यस्मादेते दोषाः तस्मादयं विधिः[भा.२०८९] पुरतोय मग्गतो या, थेरीओ मज्झ होंति तरुणीओ। अइगमने निग्गमने, एस विही होइ कायव्वो॥ वृ- 'पुरतः' अग्रतः ‘मार्गतश्च पृष्ठतः स्थविरा भवन्ति, मध्यभागे पुनस्तरुण्यः, एवं बह्वीनां सम्भूय पर्यटन्तीनामुक्तम् । जघन्येन तु तिः सहैव पर्यटन्ति, तत्रैका स्थविरा पुरतः द्वितीया स्थविरैवपृष्ठतः तृतीया तुरणी तयोर्द्वयोरपि मध्यभागे स्थिता सती पर्यटन्ति । एवम् 'अतिगमने' गृपतिगृहप्रवेशे निर्गमने च' तत एव निर्गमे एषविधि कर्तव्यो भवति । ___ कुतः? इति चेद् उच्यते Page #15 -------------------------------------------------------------------------- ________________ १२ बृहत्कल्प-छेदसूत्रम् -२-१/८ [भा.२०९०] तिगमादसंकमिजा, अतक्कणिज्जा य साण-तरुणाणं । अन्नोन्नरक्खणेसण, वीसत्थपवेसकिरिया य॥ वृ-त्रिकादयः पर्यटन्त्योदशनीया भवेयुः, श्वान-तरुणानांच अतर्कणीयाः' अनभिलषणीया भवन्ति, उवद्रवतस्वपिच श्वान-गवादिषुत्रिप्रभृतोऽन्योन्यंपस्परंसुखेनैव रक्षणं कुर्वन्ति, एषणां च सम्यक् शोधयन्ति, विश्वस्ताश्च सत्यो गृहस्थकुलेषु प्रवेश-निर्गमादिकाः क्रियाः कुर्वन्ति॥ यत्र कोष्ठको भवेत् तत्रायं विधिः[भा.२०९१] थेरी कोट्टगदारे, तरुणी पुन होइ तीए नादूरे। बिइय किढी ठाइ बहि, पञ्चत्थियरक्खणट्ठाए। वृ-एका स्थविरा 'कोष्ठकस्य' अपवरकस्य द्वारे, तरुणी पुनः 'तस्याः' स्थविराया नातिदूरे प्रदेशे, या तु द्वितीया 'किढी' स्थविरा सा द्वारस्य बहिस्तिष्ठति । किमर्थम् ? इत्याह-प्रत्यर्थीप्रत्यनीकस्तस्य रक्षणार्थम्, यदि कोऽप्युपसर्गं कुर्यात् तदा सुखेनैव बोलं कृत्वा स निवार्यते॥ [भा.२०९२] जाणंति तब्विह कुले, संबुद्धीए चरिज अनोनं । ओराल निच्च लोयं, खुज तवो आउल सहाया॥ वृ-तद्विधानि-ताशानि सम्भावनीयोपद्रवाणि कुलानि सम्यग् जानन्ति, ज्ञात्वा च प्रथमत एव परिहरन्ति । 'अन्योऽन्यं' परस्परं 'सम्बुध्द्या' सम्मत्या 'चरेयुः' भिक्षाचर्यां पर्यटेयुः, मा भूवनसम्मत्या पर्यटने परस्परमसङ्खडादयो दोषाः।याच 'उदारा' रूपातिशयसंयुक्तासंयतीसा नित्यमेव लोचमात्मनः करोति, “खुज"त्ति तस्याः पृष्ठदेशे कुब्जकरणी स्थापयितव्या, 'तपः' चतुर्थादिकं सा कारापणीया, 'आकुले' जनाकीर्णे बहीभिश्च सहायाभि सहिता सा भिक्षादौ हिण्डापनीया ॥अथ तासां वृन्देन भिक्षाटने कारणान्तरमाह[भा.२०९३] तिप्पभिइ अडतीओ, गिण्हंतऽननहिं चिमे तिन्नि । संजम-दव्वविरुद्धं, देहविरुद्धंचजंदव्वं ॥ वृ-त्रिप्रभृतिवृन्देन भिक्षामटन्त्यः 'अन्योऽन्यस्मिन्' पृथक्पृथग्भाजने चशब्दः प्रागुक्तकारणापेक्षया कारणान्तरद्योतनार्थः, अमूनि त्रीणिद्रव्याणिसुखेनैवगृह्णन्ति, तद्यथा-संयमविरुद्धं द्रव्यविरुद्धं देहविरुद्धं च यद् द्रव्यम् ॥ एतान्येव यथाक्रमं प्रतिपादयति[भा.२०९४] पालंक-लट्टसागा, मुग्गकयं चाऽऽमगोरसुम्मीसं। संसज्जती उ अचिरा, तं पिय नियमा ददुसाय॥ वृ-पालक़शाकं महाराष्ट्रादीप्रसिद्धम्, लट्टाशाकं-कौसुम्भशालानकम्, एते अन्योऽन्यंमिलिते सूक्ष्मजन्तुभि संसज्येते । यच्च मुद्गकृतम्, उपलक्षणत्वादन्यदपि द्विदलं तदप्यामगोरसोन्मित्रं सद् अचिरादेव सूक्ष्मजन्तुभि संसज्यते, संसक्तं च नियमाद् द्वौ दोषौ समाहृतौ द्विदोषं तस्मै द्विदोषाय भवति, संयमोपघाता-ऽऽत्मोपघातरूपं दोषद्वयं करोतीत्यर्थः। [भा.२०९५] दहि-तेलाई उभयं, पय-सोवीराउ होति उ विरुद्धा। देहस्स विरुद्धं पुन, सी-उण्हाणंसमाओगो॥ वृ-दधि-तैले आदिशब्दादन्यदपि 'उभयं' मिलितंसद्यत् परस्परविरुद्धम्,येच पयःसौवीरे' दुग्ध-काञ्जिके परस्परविरुद्ध एतद्रव्यविरुद्धंमन्तव्यम्।देहस्यपुनर्विरुद्धयः शीतोष्णयोर्द्रव्ययोः Page #16 -------------------------------------------------------------------------- ________________ उद्देशकः १, मूलं-८, [भा. २०९५] परस्परंसमायोगः । एतानि पृथक्पृथग्भाजनेषुगृह्यमाणानिन संयमाधुपघातायजायन्ते।।अपिच[मा.२०९६] नत्थिय मामागाई, मागउग्गामो यतासिमब्भासे । सी-उण्हगिण्हणाए, सारक्खण एक्कमेक्कस्स ॥ वृन च सन्ति तासां मामाकानि कुलानि, नहि कोऽपि स्त्रीजनं गृहे प्रविशन्तीमीयया निषेधयतीति भावः । मातृग्रामो नामसमयपरिभाषयास्त्रीवर्ग, चशब्द एवकारार्थः, ततइदमुक्तं भवति-स्त्रीवर्ग एव प्रायेण भिक्षादायकः, स च तासां संयतीनामभ्यासे स्त्रीत्वसम्बन्धमधिकृत्य प्रत्यासत्तौ वर्तते, अतसत्रिप्रभृतीनामपि पर्यटन्तीनां सुखेनैव भक्त-पानं पर्याप्तं भवति । शीतोष्णग्रहणेन च संरक्षणमेकैकस्याः परस्परं कृतं भवति।कथं पुनः ? इत्यत आह[भा.२०९७] एगत्थ सीयमुसिणं, च एगहिं पानगंच एगत्था। दोसीणस्स अगहणे, चिराडणे होजिमे दोसा॥ वृ-'एकत्र प्रतिग्रहे 'शीतं' पर्युषितंभक्तं गृह्णन्ति, एकस्मिनुष्णम्, एकत्रच पानकम्, एतच्च तिसृणामटन्तीनां घटामाटीकते।अथ द्वेपर्यटतस्तत एकत्र प्रतिग्रहे उष्णं द्वितीयत्र तुपानकं परं दोषानं कुत्र गृह्णन्ति? मात्रकंतु स्वार्थं परिभोक्तुंन कल्पते, अथोष्णमध्ये दोषानं गृह्णन्ति तदा देहविरुद्धं भवति, अथ दोषान्नं न गृह्णन्ति ततो दोषान्नस्याग्रहणे 'चिराटने चिरं पर्यटन्तीनां तरुणादिकृतोपसर्ग स्त्रीवेद उध्दीप्येत । तथा चामुमेवार्थं दर्शयितुंवेदत्रयस्वरूपमाह[भा.२०९८] थी पुरिसो अनपुंसो, वेदो तस्स उइमे पगारा उ । फुफुम-दवग्गिसरिसो, पुरदाहसमो, भवे तइओ॥ कृवेदस्त्रिधा-स्त्रीवेदः पुरुषवेदोनपुंसकवेदश्चातस्यतुत्रिविधस्यापियथाक्रमममी प्रकाराःस्त्रीवेदः फुम्फुकाग्निसशः-करीषाग्नितुल्यः,यथाकरीषाग्निर्नतर्धगधगन्नास्तेनपरिस्फुटंप्रज्वलति नवा विध्यायति चालितस्तु तत्क्षणादेवोद्दीप्यते एवं स्त्रीवेदोऽपि । पुरुषवेदस्तु दवाग्निसशः, यथादवाग्निरिन्धनयोगतः सहसैव प्रज्वल्य विध्यायति एवं पुरुषवेदोऽपि तृतीयो नपुंसकवेदः स पुरदाहसमः, यथा हि महानगरदाहे वह्नि प्रज्वलितः सन्नाट्टै वा शुष्के वा सर्वत्र दीप्यते एवं नपुंसकवेदोऽपि स्त्रियां पुरुषे वा सर्वत्र दीप्यते न चोपशाम्यति॥ इत्थ वेदत्रयस्वरूपमुपदर्य प्रस्तुतयोजनामाह[भा.२०९९] जह फुफुमा हसहसेइ घट्टिया एवमेव थीवेदो। दिप्पइअवि किढियाण वि, आलिंगण-छे(छं]दणाईहिं॥ कृयथा फुम्फुकाग्निघट्टितः सन् “हसहसेइ"त्ति देदीप्यते एवमेव स्त्रीवेदोऽप्यालिङ्गनछेदनादिभिरुदीरितः सन् “किढियाण वि" ति स्थविराणामपि दीप्यते, किं पुनस्तरुणीनाम् ? इत्यपिशब्दार्थः॥ आह स्थविराणां कथं वेदोद्दीपनं भवति? इति उच्यते[भा.२१००] नवओ इत्थ पमाणं, न तवस्सित्तं सुयंन परियाओ। अवि खीणम्मि विवेदे, थीलिंगं सव्वहा रक्खं ॥ कृ-न 'वयः' वार्द्धकादिकम् अत्र' विचारे प्रमाणम्, न वा 'तपस्वित्वम्' अनशनादि-तपःकर्मकारिता, नवा 'श्रुतम्' आचारादिकंसुबहप्यवगाहितम्, नवा पर्यायः' द्राधीयःप्रव्रज्याकाललक्षणः, एतेषु सत्स्वपि वेदोदयो भवेदित्यर्थः । अपि च क्षीणेऽपि' निदग्धेन्धनकल्पे कृतेऽपि Page #17 -------------------------------------------------------------------------- ________________ बृहत्कल्प-छेदसूत्रम् -२-१/८ वेदे स्त्रीलिङ्गं सर्वथा रक्ष्यम्, अत एव स्त्रीकेवली यथोक्तामार्थिकोपकरणप्रावरमादियतनां करोतीति भावः ।। आह यदि ताः स्नानादिपरिकर्मरहिताः ततः किं कोऽपि तासु रागं व्रजति येनेत्थं यतना क्रियते ? उच्यते [ मा. २१०१] कामं तवस्सिणीओ, हाणुव्वट्टणविकारविरयाओ । तह वि य सुपाउआणं, अपेसणाणं चिमं होइ ॥ वृ- 'कामम्' अनुमतं यथा तपस्विन्यः स्नानोद्वर्तनविकारविरतास्तथापि 'सुप्रावृतानां' नित्यमेव बहुभिरुपकरणैराच्छादितानाम् 'अप्रेषणानां च' अव्यापाराणाम् इदम्' अनन्तरमेव वक्ष्यमाणं शरीरसौन्दर्यं भवति ॥ तदेवाह [मा. २१०२] १४ रूवं वन्नो सुकुमारया य निद्धच्छवी य अंगाणं । होंति किर सन्निरोहे, अज्जाण तवं चरंतीणं ॥ वृ- 'रूपम्' आकृति 'वर्ण' गौरत्वादि 'सुकुमारता' कोमलस्पर्शता स्निग्धा च - कान्तिमती छवि-त्वग् ‘अङ्गानां' शरीरावयवानाम् । एतानि रूपादिनी आर्यिकाणां 'सन्निरोध' बहूपकरणप्रावरणादौ ध्रियमाणानां तपः चरन्तीनामपि भवन्ति, ततो युक्तियुक्ता पूर्वोक्ता तासां यतनेति । गतं भिक्षानिर्गमद्वारम् । अथ निर्ग्रन्थानां मासः कस्मात् तासां द्वौ मासाविति द्वारम् । शिष्यः पृच्छति कतिं निर्ग्रन्थीनामभ्यधिकानि महाव्रतानि येन तासां द्वौ मासौ निर्ग्रन्थानामेकं मासमेकत्र वस्तुमनुज्ञायते ? सूरिराह [भा. २१०३] जइ वि य महव्वयाइं, निग्गंथीणं न होंति अहियाइं । तह वि य निच्चविहारे, हवंति दोसा इमे तासिं ॥ वृ- यद्यपि च निर्ग्रन्थीनां महाव्रतानि नाधिकानि भवन्ति तथापि 'नित्यविहारे' मासे मासे क्षेत्रान्तरसङ्क्रमणे इमे दोषास्तासां भवन्ति ॥ [भा. २१०४] मंसाइपेससिसरिसी, वसही खेत्तं च दुल्लभं जोग्गं । एएण कारणेणं, दो दो मासा अवरिसासु ॥ वृ-मांसादिपेशीसध्शी संयती, सर्वस्याप्यभिलषणीयत्वात् । तथा तासां योग्या वसतिर्दुर्लभा, क्षेत्रं च तत्प्रायोग्यं दुर्लभम् । ततो यथोक्तगुणविकलायां वसतौ दोषदुष्टे वा क्षेत्रे स्थाप्यमानानां बहवः प्रवचनविराधनादयो दोषा उपढीकन्ते । एतेन कारणेन तासाम् 'अवर्षासु' वर्षावासं विमुच्य द्वौ द्वौ मासावेकत्र वस्तुमनुज्ञायते ॥ अथ द्वयोरुपरि वसन्तीनां दोषान् द्वितीयपदं चोपदर्शयति [मा. २१०५ ] दोन्हं उवरि वसंती, पायच्छित्तं च होति दोसा य । बिइयपयं च गिलाणे, वसही भिक्खं च जयणाए । वृ-द्वयोर्मासयोरुपरि वसन्ति ततः प्रायश्चित्तं दोषाश्च भवन्ति । द्वितीयपदं च ग्लाने वसतिर्भैक्षं च यतनया ग्रहीतव्यम् । भावार्थो निर्ग्रन्थानामिव द्रष्टव्यः ॥ सूत्रम् मू. (९) से गामंसि वा जाव रायहाणिंसि वा सपरिक्खेवंसि सबाहिरियंसि कप्पइ निग्गंथीणं हेमंत - गिम्हासु चत्तारि मासा वत्थए- अंतो दो मासे, वाहिं दो मासे । अंतो वसमाणीणं अंतो भिक्खायरिया, बाहिं वसमाणीणं बाहिं भिक्खायरिया ।। Page #18 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं - ९, [भा. २१०५] १५ वृ- अस्य व्याख्या प्राग्वत् । नवरं सबाहिरिके क्षेत्रेऽन्तर्द्वी मासौ बहिर्द्वी मासावित्येवं चतुरो मासान् निर्ग्रन्थीनां वस्तुं कल्पत इति ।। अथ माप्यम् [भा. २१०६ ] एसेव कमो नियमा, सपरिक्खेवे सबाहिरियम्मि । नवर पुन नाणतं, अंतो बाहिं चउम्मासा ॥ वृ- 'एष एव ' पूर्वसूत्रोक्तः क्रमः सर्वोऽपि नियमात् सपरिक्षेपे सबाहिरिके क्षेत्रे वसन्तीनां संयतीनां द्रष्टव्यः । नवरं पुनः 'नानात्वं' विशेषोऽयम्- 'अन्तः' अभ्यन्तरे 'बहि' बाहिरिकायाम् 1 एवमुभयोश्चत्वारो मासाः पूरणीयाः ॥ [भा. २१०७] चउण्हं उवरि वसंती, पायच्छित्तं च होंति दोसा य । नातं असईए उ, अंतो वसही बहिं चरइ ॥ वृ- चतुर्णां मासानामुपरि यदि सबाहिरिके क्षेत्रे संयती वसति तदा तदेव प्रायश्चित्तं त एव च दोषाः द्वितीयपदमपि तदेव मन्तव्यम् । 'नानात्वं' विशेषः पुनरयम् बाहिरिकायां वसतेः, शय्यातरस्य वा यथोक्तगुणस्य 'असति' अभावे 'अन्तः प्राकाराभ्यन्तरे "वसहि "त्ति वसती पूर्वस्यामेव स्थिता 'बहि' बाहिरिकायां 'चरति' भिक्षाचर्यामटति । इदमेव स्पष्टयति [ भा. २१०८ ] जोग्गवसहीइ असई, तत्थेव ठिया चरिंति बाहिं तु । पुव्वगहिए विगिंचिय, तत्तो च्चिय मत्तगादी वि ॥ वृ- बहि संयतीयोग्याया वसतेरभावे 'तत्रैव' अभ्यन्तरोपाश्रये स्थिताः सन्त्यो बहिश्चरन्ति, पूर्वगृहीतानि मात्रक - तृण- डगलादीनि विविच्य ' परित्यज्य अपराणि 'तत एव' बाहिरिकाया मात्रकादीन्यप्यानेतव्यानि, न केवलं भिक्षेत्यपिशब्दार्थः, श्रुत- संहननादिविषया सामाचारी क्षेत्रकालादिविषया च स्थिति स्थविरकल्पिकानामिव द्रष्टव्या ॥ तदेवमुक्त आर्यिकाणामपि मासकल्पविधि । अथ शिष्यः प्रश्नयति[भा. २१०९] गच्छे जिनकप्पम्मि य, दोण्ह वि कयरो भवे महिडीओ । निष्फायग-निष्पन्ना, दोन्नि वि होंति महिड्डीया ।। गच्छ-जिनकल्पयोर्द्वयोर्मध्ये कतरः 'महर्द्धिकः' प्रधानतरो भवेत् ? । गुरुराह-निष्पादकनिष्पन्नाविति कृत्वा द्वावपि महर्द्धिकौ भवतः । तत्र गच्छः सूत्रार्थग्राहणादिना जनिकल्पिक-स्य निष्पादकः अतोऽसौ महर्द्धिकः, जिनकल्पिकस्तु निष्पन्नः - ज्ञानदर्शन- चारित्रेषु परिनिष्ठित इत्यसौ महर्द्धिकः ॥ एनामेव नियुक्तिगाथां भावयति [भा. २११०] दंसण-नाण-चरिते, जम्हा गच्छम्मि होइ परिवुट्टी । एएण कारणेणं, गच्छोउ भवे महिडीओ ॥ वृ- दर्शन-ज्ञान- चारित्राणां यस्माद् गच्छे परिवृद्धिर्भवति एतेन कारणेन गच्छो महर्द्धिको भवति ॥ [ भा. २१११] पुरतो व मग्गतो वा, जम्हा कत्तो वि नत्थि पडिबंधो । एएण कारणेणं, जिनकप्पीओ महिडीओ ॥ कृ- 'पुरतो वा' विहरिष्यमाणक्षेत्रे 'मार्गतो वा' पृष्ठतः पूर्वविह्वतक्षेत्रे यस्मात् 'कुतोऽपि द्रव्यतः क्षेत्रतः कालतो भावतो वा प्रतिबन्धस्तस्य भगवतो न विद्यते तेन कारणेन जिनकल्पिको मह Page #19 -------------------------------------------------------------------------- ________________ १६ र्द्धिकः ॥ अथ द्वयोरपि महर्द्धिकत्वं दृष्टान्तेन दर्शयति[भा. २११२] बृहत्कल्प - छेदसूत्रम् -२-१/९ दीवा अन्नो दीवो, पइप्पई सो य दिप्पइ तहेव । सीसोच्चि सिक्खतो, आयरिओ होइ नऽन्नत्तो ॥ वृ-दीपाद् अन्यः' द्वितीयो दीपः प्रदीप्यते, स च मौलो दीपस्तथैव दीप्यते, एवं जिनकल्पिकदीपोऽपि गच्छदीपादेव प्रादुर्भवति, स च गच्छदीपस्तथैव ज्ञान-दर्शन- चारित्रैः स्वयं प्रदीप्यते । यद्वा यथा शिष्य एव शिक्षमाणः सन् क्रमेणाचार्यो भवति 'नान्यतः ' नान्येन प्रकारेण एवं स्थविरकल्पिक एव तपःप्रभृतिभिर्भावनाभिरात्मानं भावयन् क्रमेण जिनकल्पिको भवति नान्यथा । अतो द्वावपि महर्द्धिकी ॥ अस्यैवार्थस्य समर्थनायापरं ध्ष्टान्तत्रयं दर्शयितुं नियुक्तिगाथामाह [भा. २११३] दिट्ठतो गुहासीहे, दोत्रिय महिला पया य अपया य । गावीण दोन वग्गा, सावेक्खो चेव निरवेक्खो || वृष्टान्तोऽत्र गुहासिहविषयः प्रथमः । द्वितीयो द्वे महिले - एका 'प्रजा' अपत्यवती द्वितीया 'अप्रजा' अपत्यविकला । तृतीय गवां द्वौ वर्गों - एकः सापेक्षः, अपरो निरपेक्ष इति । तत्र गुहासिंहष्टान्तं भावयति [भा. २११४] सीहं पालेइ गुहा, अविहाडं तेण सा महिड्डीया । तस्स पुन जोव्वणम्मिं, पओअणं किं गिरिगुहाए । वृ- "अविहाडं'' ति देशीभाषया बालकं सिंहं गुहा 'पालयति' वनमहिष- व्याघ्रादिभ्यो रक्षति, तन्निर्गतस्य तस्य तेभ्यः प्रत्यपायसम्भवात्; तेन कारणेन गुहा महर्द्धिका । यदा तु सिंहो यौवनं प्राप्तो भवति तदा किं तस्य प्रयोजनं गिरिगुहया ? न किञ्चिदित्यर्थः, स्वयमेव वनमहिपाद्युपद्रवादात्मानं पालयितुं प्रत्यलीभूतत्वात्, इत्थं सिंहो महर्द्धिकः ॥ अथार्थोपनयमाहदव्वावइमाईसुं, कुसीलसंसग्गि- अन्नउत्थीहिं । रक्खड़ गणीपुरोगो, गच्छो अविकोवियं धम्मे ॥ [भा. २११५] वृ- गणी - आचार्य स पुरोगः पुरस्सरो नायको यसय स तथाविधो गच्छो गुहास्थानीयः सिंहशावकस्तानीयं साधुं 'धर्मे' श्रुत चारित्रात्मके 'अविकोविदम्' अद्याप्यप्रबुद्धं द्रव्यापदि आदिशब्दात् क्षेत्र-काल-भावापत्सु तथा कुशीलाः- पार्श्वस्थादयस्तैरन्यतीर्थिकैर्वा सार्द्धयः संसर्गस्तत्र च 'रक्षति' विश्रोतसिका - प्रमाद - मिथ्यात्वाद्युपद्रवात् पालयति अतो गच्छो महर्द्धिकः । यदा त्वसौ द्विविधेऽपि धर्मे व्युत्पन्नमति कृतपरिकर्मा जिनकल्पं प्रतिपन्नस्तदा स्वयमेवात्मानं द्रव्यापदादिष्वपि विश्रोतसिकादिविरहितः सम्यक् परिपालयति अतो जिकल्पिको महर्द्धिकः ॥ अथ महेलाद्वयष्टान्तमाह [भा.२११६] आणा-इस्सरियसुहं, एगा अनुभवइ जइ वि बहुतत्ती । देहस्स य संठप्पं, मोहसुहं चेव कालम्मि ।। वृ-द्वयोर्महलयोर्मध्ये 'एका' सप्रसवा यद्यपि 'बहुतप्तिः' अपत्यस्नपनादि बहुव्यापार व्यापृता तथापि सा गृहस्वामिनीत्वादाज्ञैश्वर्य सुखमनुभवन्ति 'काले च' प्रस्तावे देहस्य 'संस्थाप्य' संस्थापना भोग सुखमपि च प्राप्नोति । [भा. २११७] परवावारविमुक्कगा, सरीरसक्कारतप्परा निच्चं । Page #20 -------------------------------------------------------------------------- ________________ १७ उद्देशक : १, मूलं-९, [भा. २११७] मंडणए वक्खित्ता, भत्तं पिन चेयई अपया॥ वृ-या तु 'अप्रजा अप्रसवा सा 'परव्यापारविमुक्ता' अपत्यादिचिन्तावर्जिता 'नित्यं' सदा शरीरसंस्कारे-मुखधावनादौ तत्परा-परायणा ‘मण्डनके विलेपना-ऽऽभरणादौ व्याक्षिप्ता सती 'भक्तमपि' भोजनमपि 'न चेतयति' न संस्मरति॥अर्थोपनयमाह_ [भा.२११८] वेयावच्चे चोयण-वारण-वावारणासय बहस। एमादीवक्खेवा, सयं झाणं न गच्छम्मिः॥ वृ-यथा सप्रसायाः स्त्रियोबहुव्यापारव्यग्रता भवति तथा गच्छेऽपियद्आचार्योपाध्यायादिवैयावृत्त्यम्, या च चक्रवालसामाचारी हापयतो नोदना, या चाकृत्यप्रतिसेवनां कुर्वतो वारणा, याश्च बहवो वस्त्र-पात्राद्युत्पादनविषया व्यापारणाः तदेवमादिषुयोव्याक्षेपः-व्याकुलत्वंतस्माद्धेतोः 'गच्छे’ गच्छवासिनां 'सततं' निर्तरं 'ध्यानम्' एखाग्रशु-भाध्यवसायात्मकमात्मनो मण्डनकल्पं न भवति । नकल्पिकस्य तु वैयावृत्त्यादिव्याक्षेपरहितस्य निरपत्यस्त्रिया आत्मनो मण्डनमिव निरन्तमेव तथा तद् उपजायते यथा भोक्तुमपि स्पृहा न भवति ॥अथ गोवर्गद्वयदृष्टान्तमाह[भा.२११९] सर्लपोइयाओ, नस्संतीओ वि नेव धेनूओ। मोत्तूण तन्नगाई, दवंति सपरक्कमाओ वि ।। कृ'धेनवः' अभिनवप्रसूता गावस्ताः शार्दूलेन’ व्याघेण पोतिताः' त्रासिताः सत्योनश्यन्त्योऽपि 'तर्णकानि' वत्सरूपाणि मुक्त्वा ‘सपराक्रमा अपि' समर्था अपि नैव द्रवन्ति' न शीघ्रं पलायन्ते, अपत्यसापेक्षत्वात्॥ [भा.२१२०] न वि वच्छएसु सजंति वाहिओ नेव वच्छमाऊसु । सबलमगृहंतीओ, नस्संति भएण वग्धस्स ॥ कृयास्तु“वाहिओ" बष्कयिण्यस्ता नापिवत्सकेषु सजन्ति ममत्वं कुर्वन्ति, नापि 'वत्समातृषु' धेनुषु, किन्तु स्वबलमगृहमाना व्याघ्रस्य भयेन नश्यन्ति निरपेक्षत्वात् ।। एष दृष्टान्तः । अथार्थोपनयमाह[भा.२१२१] आयसरीरे आयरिय-बाल-वुड्ढेसु आविसावेक्खा । कुल-गण-संघेसुतहा, चेइयकज्जाइएसुंच ॥ वृ-यथा धेनवस्तथा गच्छवासिनोऽप्यात्मशरीरे आचार्य-बाल-वृद्धेषु अपि च कुल-गणसङ्घकार्येषु चैत्यादिकार्येषुच सापेक्षाः, अतः संसारव्याघ्रभयेन नश्यन्तोऽपि संहननादिबलोपेता अपि न शीघ्रं पलायन्ते । जिनकल्पिकास्तु भगवन्त आत्मशरीरादिनिरपेक्षा अधेनुगाव इव स्ववीर्यमगृहमानाः संसारव्याघ्रानिप्रत्यूहंपलायन्ते।यद्येवंतर्हि जिनकल्पो महर्द्धिकतरइत्यापन्नम्, मैवं वादीः, जिननिजनिरुपमगुणैरुभयोरपितुल्यकक्षत्वात्। तथाहि-अत्यन्ताप्रमादनिष्प्रतिकर्मतादिभिर्गुणैर्जिनकल्पोमहर्द्धिकः, परोपकार-प्रवचनप्रभावनादिभिश्च गुणैः स्थविरल्पिकोमहर्द्धिक इति ॥अपि च[भा.२१२२] रयणायरो उ गच्छो, निप्फादओ नाण-दसण-चरित्ते। एएण कारणेणं, गच्छो उ भवे महिड्डीओ॥ | 1902 Page #21 -------------------------------------------------------------------------- ________________ १८ बृहत्कल्प-छेदसूत्रम् -२-१/९ वृ-रत्नाकर इव रत्नाकरः-जिनकल्पिकादिरलानामुत्पत्तिस्थानं यतो गच्छो वर्तते, निष्पादकश्च ज्ञान-दर्शन-चारित्रेषु एतेन कारणेन गच्छो महर्द्धिकः । इदमेव भावयति[भा.२१२३] रयणेसु बहुविहेसुं, नीणिज्जतेस नेव नीरयणो। अतरो तीरइ काउं, उप्पत्ती सो य रयणाणं॥ [भा.२१२४] इय रयणसरिच्छेसुं, विमिग्गएसुं पि नेव नीरयणो। जायइ गच्छो कुणइ य, रयणब्भूते बहू अन्ने ॥ वृ-न तरीतुं शक्यत इति अतरः' रलाकरः, स यथा बहुविधेषु रत्लेषु निष्काश्यमानेष्वपि नैव 'नीरत्नः' रलविरहितः कर्तुशक्यते, कुतः? इत्याह-यतः ‘उत्पत्ति' आकरोऽसौरलानाम्। "इय" अनेनैव प्रकारेण गच्छरत्नाकरोऽपि रत्नसध्क्षेषु जिनकल्पिकादिषु विनिर्गतेष्वपि नैव नीरत्नो जायते, आचार्यादिरलानां सर्वदैव तत्र सद्भावात्, करोति च पश्चादपि बहूनन्यान् साधून रत्नभूतानिति गच्छो जिनकल्पिकश्च उभावपि महर्द्धिको इति॥ चूर्णिः-श्रीवद्धभाष्यप्रभृतिबहुतिथग्रन्थसार्थाभिरामाऽऽरामा दर्थप्रसूनैरुचितमवचितैः सूक्तिसौरभ्यसारैः । चेतःपट्टे निधाय स्वगुरुशुचिवचस्तन्तुसन्तान ध्ब्धैः, श्रीकल्पे मासकल्पप्रकृतविवरणग्मया निर्मितेयम् ॥ मू. (१०) सेगामंसिवाजावरायहाणिसिवाएगवगडाए एगदुवाराएएगनिक्खमण-प्पवेसाए नो कप्पइ निग्गंथाण य निग्गंथीण य एकतओ वत्थए। वृ-अथास्य सूत्रस्य कः सम्बन्धः? इत्याह[भा.२१२५] गाम-नगराइएसुं, तेसु उ खेत्तेसु कत्थ वसियव्वं । जत्थ न वसंति समणीमब्भासे निग्गमपहे वा ।। वृ-ग्राम-नगरादिषु तेषु' पूर्वसूत्रोक्तेषु क्षेत्रेषु कुत्रवस्तव्यम् ? इति चिन्तायामनेन सूत्रेण प्रतिपाद्यते-यत्र अभ्यासे' स्वप्रतिश्रयासन्ने 'निर्गमपथे वा' निर्गमद्वारे श्रमण्यो न वसन्ति तत्र वस्तव्यमिति ॥ अथ प्रकारान्तरेण सम्बन्धमाह[भा.२१२६] अहवा निग्गंधीओ, दठिया तेसु गाममाईसु। मा पिल्लेही कोई, तेणिम सुत्तं समुदियं तु॥ वृ-अथवा निर्ग्रन्थीस्तेषु ग्रामादिषु स्थिता दृष्ट्वा मा 'कश्चिद्' आचार्यादिस्तत्रागत्य 'प्रेरयेत्' निष्काशयेदिति एतेन कारणेनेदं सूत्र ‘समुदितं' समायातम्॥ __ अनेन सम्बन्धेनायातस्यास्य व्याख्या-अथ ग्रामे वा यावद् राजघान्यां वा यावत्करणाद् नगरे वा खेटे वा इत्यादिपदपरिग्रहः । एकवगडाके एकद्वारके एकनिष्क्रमण-प्रवेशके च क्षेत्रे नो कल्पते निर्ग्रन्थानांच निर्ग्रन्थीनांच एकतो मिलितानां 'वस्तुम्' अवस्थातुमिति सूत्रसङ्केपार्थः॥ विस्तरार्थं तु भाष्यकृदाह[भा.२१२७] वगडा उ पिक्खेवो, पुव्वुत्तो सो उ दव्वमाईओ। दारं गामस्स मुहं, सो चेव य निग्गम-पवेसो॥ वृ- 'वगडा नाम' ग्रामादेः सम्बन्धी परिक्षेपः । स तु' स पुनः परिक्षेपः 'द्रव्यादिकः' द्रव्य ___ Page #22 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं-१०, [भा. २१२७] क्षेत्र-काल-भावभेदभिन्नः, यथा पूर्वम्- “पासाणिट्टग-मट्टिय-खोड-कडग-कंटिगा भवे दव्वे ।" इत्यादिना मासकल्पप्रकृते उक्तस्तथैवात्रापि द्रष्टव्यः । 'द्वारं नाम' ग्रामस्य मुखम्, ग्रामप्रवेश इत्यर्थः । स एव च निर्गमेनोपलक्षितः प्रवेशो निर्गम-प्रवेशोऽभिधीयते ।। इत्थं सूत्रे व्याख्याते सति शिष्यः प्राह[भा.२१२८] दारस्स वा विगहणं, कायव्वं अहव निग्गमपहस्स। जइ एगट्ठा दुन्नि वि, एगयरं बूहि मा दो वि । वृ-यदि तदेव द्वारं स एव च निर्गम-प्रवेशस्ततो हे आचारय! द्वारपदस्य वा ग्रहणं कर्त्तव्यम् अथवा निर्गम-प्रवेशपथपदस्य, यदि नाम द्वेअपि पदे अमूएकार्थे ततः ‘एकतरम्' एकद्वारपदम् एकनिष्क्रमण-प्रवेशपदं वा सूत्रे ‘ब्रूहि भणेत्यर्थः, मा द्वे अपि ॥ एवं शिष्येणोक्ते सूरिराह[भा.२१२९] एगवगडेगदारा, एगमनेगा अनेग एगा य । चरिमो अनेगवगडा, अनेगदारा य भंगो उ॥ वृ-इह वगडा-द्वारयोश्चत्वारो भङ्गाः, तद्यथा-एका वगडा एकं द्वारम्, यथा पर्वतादिपरिक्षिप्ते क्वचिद् ग्रामादौ १। एका वगडा अनेकानि द्वाराणि, यथा प्राकारादिपरिक्षिप्ते चतुरिनगरादौ २अनेका वगडाएकं द्वारम्, यथा पद्मसरःप्रभृतिपरिक्षिप्ते बहुपाटके ग्रामादौ ३।अनेकावगडा अनेकानि द्वाराणि, यथा पुष्पावकीर्णगृहे ग्रामादौ ४, एषः 'चरमः' चतुर्थो भङ्गः ।। यदि नामैवं चत्वारो भङ्गास्ततः प्रस्तुते किमायातम् ? इत्याह[भा.२१३०] तइंपडुच्च भंगं, पउमसराईहि संपरिक्खित्ते। अन्नोन्नदुवाराण वि, हवेज एगंतु निक्खमणं॥ वृ-अत्र भङ्गचतुष्टये तृतीयं भङ्गं प्रतीत्य एकद्वारग्रहणमेकनिष्क्रमण-प्रवेशग्रहणं च सूत्रे कृतम् । कुतः ? इत्याह-पद्मसरसा आदिशब्दाद् गर्तया पर्वतेन वा सम्परिक्षिप्ते ग्रामादौ अन्यान्यद्वारकाणामपि पाटकानामेकमेव निष्क्रमणं भवेत्, तिसृषु दिक्षु पद्मसरःप्रभृतिव्याघातसम्भवादेकस्यामेव दिशि निष्क्रमण-प्रवेशौ भवत इति भावः । ततः किम् ? इत्याह[भा.२१३१] तत्थ वि यहोति दोसा, वीयारगयाण अहव पंथम्मि। संकादीए दोसे, एगवियाराण वोच्छिहिई॥ वृ-'तत्रापि च तृतीयभङ्गे पृथक्पाटकेषु स्थितानामपि, किं पुनः प्रथमभङ्गे द्वितीयभङ्गे वा स्थितानामित्यपिशब्दार्थः, 'विचारगतानां' संज्ञाभूमौ सम्प्राप्तानाम् अथवा तस्या एव 'पथि' मार्गेगच्छतां ‘दोषाः' शङ्कादयोभवन्ति।ताँश्च शङ्कादीन्दोषान् “एकविचाराणाम्' एकसंज्ञाभूमीकानां निर्ग्रन्थानां निर्ग्रन्थीनांच सूरि स्वयमेव नियुक्तिगाथाभिर्यथावसरमुत्तरत्र वक्षति' भणिष्यति॥ तत्र प्रथमभङ्गे तावद् दोषानुपदिदर्शयिषुराह[भा.२१३२] एगवगडं पडुच्चा, दोण्ह वि वग्गाण गरहितो वासो। जइ वसइ जाणओ ऊ, तत्थ उ दोसा इमे होति ।। कृ-एकवगडम् उपलक्षणत्वादेकद्वारंच क्षेत्रप्रतीत्य 'द्वयोरपिवर्गयोः' साधु-साध्वीलक्षणयोरेकत्र वासः ‘गर्हितः निन्दितः, न कल्पत इत्यर्थः। यदिसः 'ज्ञायकः' 'संयत्योऽत्र सन्ति' इतिजानानस्तत्रागत्य वसति ततः 'इमे' वक्ष्यमाणा दोषा भवन्ति ।। इदमेव सविशेषमाह Page #23 -------------------------------------------------------------------------- ________________ बृहत्कल्प-छेदसूत्रम् -२-१/१० [भा.२१३३] एगवगडेगदारे, एगयर ठियम्मि जो तहिं ठाइ । गुरुगा जइ वि य दोसा, न होज्ज पुट्ठो तह वि सो उ । वृ-एकवगडे एकद्वारे च क्षेत्रे यत्र पूर्वमेकतरः-संयतवर्ग संयतीवर्गो वा स्थितो वर्तते तत्र 'यः' आचार्यादि प्रवर्त्तिन्यादिवी पश्चादागत्य तिष्ठति तस्य चत्वारो गुरुकाः । यद्यपि च तत्र 'दोषाः' वक्ष्यमाणा न भवेयुः तथाप्यसौ भावतस्तैः स्पृष्टो मन्तव्यः॥ तत्र पूर्वस्थितसंयतीवर्ग क्षेत्रमङ्गीकृत्य तावदाह[भा.२१३४] सोऊण य समुदानं, गच्छ आनित्तुं देउले ठाइ। ठायंतगाण गुरुगा, तत्थ वि आणाइणो दोसा॥ वृ-श्रुत्वा चशब्दादवधार्यच ‘समुदान' भैक्षं सुलभप्रायोग्यद्रव्यम्, ततो गच्छमानीय देवकुले उपलक्षणत्वादपरस्मिन् वा सभा-शून्यगृहाद तिष्ठति।तत्र चतिष्ठतामाचार्यादीनां चत्वारो गुरुकाः। तत्राप्याज्ञादयो दोषा द्रष्टव्याः॥ एनामेव नियुक्तिगाथां व्याख्यानयति[भा.२१३५] फड्डगपइपेसविया, दुविहोवहि-कज्जनिग्गया वा वि। उवसंपज्जिउकामा, अतिच्छमाणा व ते साहू ।। [भा.२१३६] संजइभावियखेत्ते, समुदाणेऊण बहुगुणं नच्चा । संपुन्नमासकप्पं, बिंति गणिं पुट्ठऽपुट्ठा वा॥ वृ-केनापि स्पर्द्धकपतिना स्वसाधवः क्षेत्रप्रत्युपेक्षणार्थं प्रेषिताः, यद्वा द्विविधः-औधिकोपग्रहिकभेदभिन्नो यउपधिस्तस्योत्पादनार्थं कार्येषु वा-कुल-गण-सङ्घसम्बन्धिषु निर्गताः 'उपसम्पत्तुकामा वा' उपसम्पदं जिघृक्षवः अध्वानं वाअतिक्रामन्तस्तत्रतेसाधवः प्राप्ताः॥एते स्पर्द्धकपतिप्रेषितादयः संयतीभावित क्षेत्रे ‘समुदानयित्वा' भैक्षं पर्यटय प्रचुरप्रायोग्यलाभेन बहुगुणं तत् क्षेत्रं ज्ञात्वा गुरूणां समीपमायाताः सम्पूर्णमासकल्पं 'गणिनम्' आचार्यं पृष्टा अपृष्टा वा ब्रुवते ॥ किं तत् ? इत्याह[भा.२१३७] तुम विपुन्नो कप्पो, न य खेत्तं पेहियं भेजंजोग्गं। जंपि य रुइयं तुब्भं, नतंबहुगुणं जइ इमंतु॥ वृ- 'क्षमाश्रमणाः !' युष्माकमपि मासकल्पः पूर्णो वर्तते, न च तत् क्षेत्र प्रत्युपेक्षितं यद् भवतां 'योग्यम्' अनुकूलम्, यदपि च क्षेत्रं युष्माकं 'रुचितम्' अभिप्रेतं न तद् बहुगुणं यथेदमस्मत्प्रत्युपेक्षितं क्षेत्रम् ॥परम्[भा.२१३८] एगोऽत्थ नवरि दोसो, मं पइ सो वि य न बाहए किंचि । नयसो भावो विजइ, अदोसंजो अनिययस्स॥ वृ-नवरमेक एवात्र दोषो विद्यते परं सोऽपि मां प्रति' मदीयेनाभिप्रायेण न किञ्चिद् बाधते। नचासौ 'भावः' पदार्थोजगतिविद्यतेयः ‘अनियतस्य' अनिश्चितस्यानुद्यमवतोवा पुरुषस्यादोषवान् भवति, किन्तु सर्वोऽपि सदोष इति भावः॥ [भा.२१३९] अहवण किं सिट्टेणं, सिढे काहिह न वा वि एयं ति। खुड्डमुहा संति इहं, जे कोविज्जा जिणवई पि॥ वृ-अथवा किमस्माकमनेनार्थेन 'शिष्टेन' कथितेन कार्यम् ? न किञ्चिदित्यर्थः, यतो यूयं Page #24 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं-१०, [भा. २१३९] २१ शिष्टे सति करिष्यथ वा न वा 'एनम्' अस्मदभिप्रेतमर्थमिति वयं न विद्मः । कुतः ? इत्याह'क्षौद्रमुखाः' मधुमुखा मधुरभाषिण इत्यर्थः सन्ति' विद्यन्ते 'इह' अस्मिन् गच्छे भवतां वल्लभेश्वराः ये जिनवाचमपि 'कोपयेयुः' अन्यथा कुर्यु, आस्तां तावदस्मदादिवचनमित्यपिशब्दार्थः ॥ [भा.२१४०] इइ सपरिहास निब्बंधपुच्छिओ बेइ तत्थ समणीओ। बलियपरिग्गहियाओ, होह दढा तत्थ वच्चामो॥ वृ-'इति' एवं सपरिहां तेनोक्ते आचार्यै स महता निर्बन्धेन पृष्टः-कथम भद्र ! कीशस्तत्र दोषो विद्यते? ततः स ब्रवीति-तत्र श्रमण्यो बलिना-बलवता आचार्यादिना परिगृहीता विद्यन्ते, परंतथापि यूयं दृढा भवत' मा कामपि शङ्का कुरुध्वम्, अत्रार्थे सर्वमप्यहं भलिष्यामि, अतस्तत्र व्रजामो वयम् । एवं भणतः प्रायश्चित्तमाह[भा.२१४१] भिक्खू साहइ सोउं, भणइ जइ वच्चिमो तहिं मासो। लहुगा गुरुगा वसभे, गणिस्स एमेवुवेहाए। वृ-यदि भिक्षुरनन्तरोक्तं वचनं कथयति श्रुत्वा वा यदि भिक्षुरेव भणति बाढम्, व्रजामनत्र वयम्' ततोमासलघु प्रायश्चित्तम्।अथ 'वृषभः' उपाध्याय एवं ब्रवीतिप्रतिशृणोति वा ततस्तस्य चत्वारोलघवः । गणिनः' आचार्यस्येत्थंभणतःप्रतिश्रण्वतोवाचत्वारोगुरवः । एवमेवोपेक्षायामपि द्रष्टव्यम् । किमुक्तं भवति ? -इत्थं तेनोक्ते 'व्रजामो वयम्' इतिवा प्रतिश्रुते यदि भिक्षुरुपेक्षा करोतितदातस्य लघुमासिकम्, वृषभस्योपेक्षमाणस्य चतुर्लघु,आचार्यस्योपेक्षांकुर्वाणस्य चतुर्गुरु।। अथवा[भा.२१४२] सामथण परिवच्छ, गहणे पयभेद पंथ सीमाए। . गामे वसहिपवेसे, मासादी भिक्खुणो मूलं ॥ वृ-भिक्षु 'तत्र गन्तव्यम् ? न वा ?' इति “सामथणं' देशीशब्दत्वात् पर्यालचनं करोति मासलघु। “परिवच्छित्ति देशीशब्दोऽयं निर्णयार्थे वर्तते, ततो गन्तव्यमेव तत्र' इति निर्णय करोतिमासगुरु । “गहणे"त्ति निर्णीय यधुपधिं गृह्णाति ततश्चतुर्लघु।पदभेदं कुर्वतश्चतुर्गुरुकम्। पथि व्रजतः षड्लघुकम् । ग्रामसीमायां प्राप्तस्य षड्गुरुकम् । ग्रामं प्राप्तस्य च्छेदः । वसतौ प्रवेशं कुर्वतो मूलम् । एवं भिक्षोलघुमासादारभ्य मूलं यावत् प्रायश्चित्तमुक्तम् ॥ [भा.२१४३] गणि आयरिए सपदं, अहवा वि विसेसिया भवे गुरुगा। भिक्खूमाइचउण्हं, जइ पुच्छसि तो सुणसु दोसे ॥ वृ. गणिनः' उपाध्यायस्य मासगुरुकादारभ्य स्वपदमनवस्थाप्यं यावत्, आचार्यस्य तु चतुर्लघुकादारभ्य स्वपदं पाराञ्चिकं यावत् प्रायश्चित्त ज्ञेयम् । अथवा भिक्षु-वृषभो-पाध्यायाऽऽचार्याणां चतुर्णामपितपः-कालविशेषिताश्चतुर्गुरुकाः । तद्यथा-भिक्षोभ्यामपिलघवः तपसा कालेन च, वृषभस्य कालेन गुरवस्तपसा लघवः, उपाध्यायस्य तपसा गुरवः कालेन लघवः, आचार्यस्य तपसा कालेन च द्वाभ्यामपि गुरवः । अथ के पुनस्तत्र तिष्ठतां दोषाः ? इति यदि पृच्छसि ततः शृणु' निशमय दोषान् मयाऽभिधीयमानान् ॥ तानेवाभिधित्सुराह[भा.२१४४] अन्नतरस्स निओगा, सव्वेसि अनुप्पिएण वा तेतु। देउल सभ सुन्ने वा, निओयपमुहे ठिया गंतुं॥ Page #25 -------------------------------------------------------------------------- ________________ २२ बृहत्कल्प-छेदसूत्रम् -२-१/१० वृ-'अन्यतरस्य' भिक्षु-वृषभादेर्नियोगात् ‘सर्वेषां वा' साधूनाम् ‘अनुप्रियेण' अनुमत्या 'ते' आचार्यास्तत्र गत्वादेवकुल वासभायां वा शून्यगृहे वानियोगस्य-ग्रामस्य मुखे-प्रवेश एव स्थिताः ततो निर्ग्रन्थानां निर्ग्रन्थीनां चोभयेषामपि परस्परदर्शनेन बहवो दोषा भवन्ति । अत्र चाग्निदृष्टान्तं सूरयो वर्णयन्ति[भा.२१४५] दुविहो य होइ अग्गी, दव्वग्गी चेव तह य भावग्गी । दव्वग्गिम्मि अगारी, पुरिसो व घरं पलीवेंतो।। वृ-द्विविधश्च भवत्यग्नि, तद्यथा-द्रव्याग्निश्चैवतथाचभावाग्निद्रव्याग्नौ चिन्त्यमाने 'अगारी' अविरतिका पुरुषो वा गृहं प्रदीपयन् यथा सर्वस्वं दहति, एवं साध्वी वा साधुर्वा स्वजीवगृहं मदनभावाग्निना प्रदीपयन् चारित्रसर्वस्वं दहतीति नियुक्तिगाथासङ्केपार्थः ।। अथविस्तरार्थमभिधित्सुर्द्रव्याग्निमाह[भा.२१४६] तत्थ पुन होइ दव्वे, डहणादीनेगलक्खणो अग्गी । नामोदयपञ्चइयं, दिप्पइ देहं समासज्ज ।। वृ. 'तत्र' तयोर्द्रव्याग्नि-भावाग्न्योर्मध्ये द्रव्याग्नि पुनरयं भवति-यः खलु ‘दहनाद्यनेकलक्षणोऽग्नि दहनं-भस्मीकरणं तल्लक्षणः, आदिशब्दाद् पचन-प्रकाशनपरिग्रहः, 'देहम्' इन्धनं काष्ठिदिकं समासाद्य प्राप्य 'नामोदयप्रत्ययम्' उष्णस्पर्शादिनामकर्मोदयाद्दीप्यतेसद्रव्याग्निरुच्यते॥ किमर्थं पुनरयं द्रव्याग्नि? इति चेद् अत आह[भा.२१४७] दव्वाइसन्निकरिसा, उप्पन्नो तानि चेव डहमाणो । दव्वग्गि त्ति पवुच्चइ, आदिमभावाइजुत्तो वि॥ वृ-द्रव्यम्-ऊर्ध्वाधोव्यवस्थिते अरणिकाष्ठे तस्यआदिशब्दात् पुरुषप्रयत्नादेश्चयः सन्निकर्षसमायोगस्तस्माद् उत्पन्नः ‘तान्येव' काष्ठादीनिद्रव्याणि दहन् यद्यपिआदिमेन-औदयिकलक्षणेन भावेन अग्निनामकर्मोदयेनेत्यर्थः, आदिशब्दात् पारिणामिकादिभावेन च युक्तो वर्तते तथापि •द्रव्याग्निप्रोच्यते, 'द्रव्यादुत्पन्नो द्रव्याणांवा दाहकोऽग्निद्रव्याग्नि' इति व्युत्पत्तिसमाश्रयणात्।। स पुनः कथं दीप्यते? इत्याह[भा.२१४८] सो पुन इंधनमासज्ज दिप्पती सीदती य तदभावा । नाणत्तं पि य लभए, इंधन-परिमाणतो चेव ।। तृ-'सपुनः' द्रव्याग्नि इन्धनं' तृण-काष्ठादिकमासाद्यदीप्यते सीदतिच' विनश्यति तदभावाद्' इन्धनाभावात् । 'नानात्वं' विशेषस्तदपि च लभते इन्धनतः परिमामतश्च । तत्रेन्धनतो यथातृणाग्नि तुषाग्नि काष्ठाग्निरित्यादि । परिमाणतो यथा-महति तृणादाविन्धने महान् भवति, अल्पे चेन्धने स्वल्प इति ॥ उक्तो द्रव्याग्नि। अथ भावाग्नि व्याचष्टे[भा.२१४९] भावम्मि होइ वेदो, दत्तो तिविहो नपुंसगादीओ। जइ तासि तयं अत्थी, किं पुन तासिं तयं नत्थी॥ वृ-'भावे' भावाग्निर्वेदाख्य इत ऊर्ध्वं वक्तव्यो भवति । स च वेदस्त्रिविधो नपुंसकादिको ज्ञातव्यः । अत्र परः प्राह-यदि ‘तासां' संयतीनां 'तकत्' स्त्रीवेदादिरूपं मोहनीयं स्यात् तर्हि युष्मदुक्तोऽग्निदृष्टान्तोऽपि सफलः स्यात् 'किं पुनः' परंतासां ‘तकत्' मोहनीयं नास्ति, अतः Page #26 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं- १०, [भा. २१४९] कुतस्तासां भावाग्नेः सम्भवो भवेत् ? इति भावः । एतदुत्तरत्र भावयिष्यते ॥ अथानन्तरोक्तमेव भवाग्निस्वरूपं स्पष्टयति [भा. २१५० ] उदयं पत्तो वेदो, भावग्गी होइ तदुवओगेणं । भावो चरित्तमादी, तं डहई तेन भावग्गी ॥ २३ वृ- ‘वेदः' स्त्रीवेदादिरूदयं प्राप्तः सन् तस्य स्त्रीवेदादेः सम्बन्धी य उपयोगः-पुरुषाभिलाषादिलक्षणस्तेन हेतुभूतेन भावाग्निर्भवति । कुतः ? इत्याह-भावश्चारित्रादिकः परिणामः 'तं' भावं येन कारणेन दहति तेन भावाग्निरुच्यते, 'भावस्य दाहकोऽग्निर्भावाग्नि' इत व्युत्पत्तेः ।। कथं पुनर्दहति ? इति चेद् उच्यते [भा. २१५१] जह वा सहीनरयणे, भवने कासइ पमाय-दप्पेणं । डज्झति समादित्ते, अनिच्छमाणस्स वि वसूनि ।। इय संदंसण-संभासणेहि संदीविओ मयमवण्ही । भादीगुणरयणे, डहइ अनिच्छस्स वि पमाया ।। [भा. २१५२] वृ-यथा वा 'स्वानरत्ने' पद्मरागादिबहुरत्नकलिते भवने प्रमादेन दर्पेण वा 'समादीप्ते ' प्रज्वालिते सति 'कस्यचिद्' इभ्यादेरनिच्छतोऽपि 'वसूनि' रत्नानि दह्यन्ते, “इय” एवं सन्दर्शनम् - अवलोकनं सम्भाषणं-मिथः कथा ताभ्यां 'सन्दीपितः' प्रज्वालितो मदनवह्निरनिच्छतोऽपि साधुसाद्वीजनस्य ‘ब्रह्मादिगुणरतनानि’ब्रह्मचर्य - तपः-संयमप्रभृतयो ये गुणास्त एव दौर्गत्यदुःखापहारितया रत्नानि तानि प्रमादाद् 'दहति' भस्मसात् करोति ।। अमुमेवार्थं द्रढयति [भा. २१५३ ] सुक्खिधन-वाउबलाऽभिदीवितो दिप्पतेऽ हियं वण्ही । दिट्ठिधन-रागानिलसमीरितो ईय भावग्गी ॥ दृ-शुष्केन्धनेन वायुबलेन वाऽभिदीपितो यथा वह्निरधिकं दीप्यते "ईय” एवं दृष्टिरूपं यदिन्धनं यश्च रागरूपोऽनिलः-वायुस्ताभ्यां समीरितः उद्दीपितो भृशं भावाग्निरपि दीप्यते ॥ अथ “किं पुन तासिं तयं नत्थि" त्ति पदं भावयन् शिष्येण प्रश्नं कारयति - लुक्खमरसुण्हमनिकामभोइणं देहभूसविरयाणं । सज्झाय- पेहमादिसु, वावारेसुं कओ मोहो । [भा. २१५४ ] वृ- रूक्षं-निस्नेहम् “अरसोहं" इति नञ् प्रत्येकभिसम्बध्यते अरसं-हिंग्वादिभिरसंस्कृतम् अनुष्ण-शीतलम् अनिकामं परिमितं भक्तं भोक्तुं शीलमेषां ते रूक्षा- Sरसा ऽनुष्णाS निकामभोजिनस्तेषाम्, मकारावलाक्षणिकी, तथा देहभूषायाः स्नानादिरूपाया विरतानांप्रतिनिवृत्तानाम्, स्वाध्यायः- वाचनादिरूपः प्रेक्षा-प्रत्युपेक्षणा तयोः आदिशब्दाद् वैयावृत्त्यादिषु च व्यापारेषु व्यापृतानां साधु-साध्वीजनानां कुतः 'मोहः' पुरुषवेदाद्युदयरूपः सम्भवति ? ॥ अत्र प्रतिवचनमाह [भा. २१५५ ] नियणाइलुननमद्दण, वावारे बहुविहे दिया काउं । सुक्ख सुढियावि रत्तिं, किसीवला किं न मोहंति ॥ वृ- "नियणं' ति निदानं निद्दिणणमित्यर्थः, आदिशब्द उत्तरत्र योक्ष्यते, लवनं मर्दनं च प्रतीतम्, एवमादीन् बहुविधान् व्यापारान् दिवा कृत्वा 'शुष्काः ' स्नानाद्यभावेन शीतोष्णादिभइश्च परिम्लानाः Page #27 -------------------------------------------------------------------------- ________________ २४ बृहत्कल्प-छेदसूत्रम् -२-१/१० “सुढिआ' श्रान्ता एवंविधा अपि कृषीबलाः 'किम्' इति परिप्रश्ने भवानेवात्र पृच्छयते कथय किं ते रात्रौ 'न मुह्यन्ति' न मोहमुपगच्छन्ति? मुह्यन्त्येवेति भावः॥ [भा.२१५६] जइ ताव तेसि मोहो, उप्पज्जइ पेसणेहि सहियाणं । अव्वावारसुहीणं, न भविस्सइ किह नु विरयाणं ॥ वृ-यदि तावत् 'तेषां' कृषीबलानां 'प्रेषणैः' व्यापारैः सहितानां मोह उत्पद्यते ततः 'विरतानां' संयतानाम् ‘अव्यापारसुखिनां' तथाविधव्यापाररहिततया सुखिनां सतां कथं नु नाम न मोहोदयो भविष्यति? ॥अथात्रैव पराभिप्रायमाशय परिहरति[भा.२१५७] कोई तत्थ भणिज्जा, उप्पन्ने रुंभिउं समत्थो त्ति । सो उपभून वि होई, पुरिसो व घरं पलीवंतो।। वृ- कश्चित् 'तत्र' अनन्तरोक्तेऽर्थे ब्रूयात्-यद्यपि मोह उत्पस्त्यते तथाप्यहमुत्पन्नेऽपि मोहे आत्मानं निरोद्धं समर्थ इति । गुरुराह-स पुनरेवं वक्ता ताद्दशेऽवसरे निरोद्धं 'प्रभुः' समर्थो न भवति, पुरुष इव गृहं प्रदीपयन् ।। अथैनामेव नियुक्तिगाथां व्याख्यानयति[भा.२१५८] कामं अखीणवेदान होइ उदओ जहा वदह तुब्भे । तंपुन जिनामु उदयं, भावन-तव-नाणवावारा॥ [भा.२१५९] उप्पत्तिकारणाणं, सब्भावम्मि वि जहा कसायाणं। नहु निग्गहो न सेओ, एमेव इमं पिपासामो॥ वृ-शिष्यःप्राह-'कामम्' अवधारितमस्माभिर्यथा यूयंवदथ अक्षीणवेदानांमोहस्योदयोभवति, परं 'तं पुनः' मोहोदयं जयामो वयं भावना-तपो-ज्ञानव्यापारात्' भावना-स्त्रीकडेवरसतत्त्वचिन्तनादिकातपः-चतुर्थादिकम् ज्ञानव्यापारः-सूत्रार्थचिन्तनात्मकः, अपिच-“चउहि ठाणेहिं कोहुप्पत्ती सिया,तंजहा-खेत्तं पडुच्च वत्थुपडुच्च सरीरंपडुच्च उवहिं पडुच्च" इत्यादिना स्थानाङ्गादौ प्रज्ञप्तानां कषायोत्पत्तिकारणानां क्षेत्र-वास्त्वादीनां सद्भावेऽपि यथा कषायाणां निग्रहो न न श्रेयान् अपि तु श्रेयानेव, एवमेव ‘इदमपि' प्रस्तुतं पश्यामः, मोहोदयकारणानां सद्भावेऽपि तन्निग्रहं करिष्याम इति भावः ।। अत्र सूरि परिहारमाह- . [भा.२१६०] पहरण-जाणसमग्गो, सावरणो विहु छलिज्जई जोहो । वालेण य न छलिज्जइ,ओसहहत्थो वि किं गाहो ॥ बृ-प्रहरणं-खड्गादि यानं-हस्त्यादि ताभ्यां समग्रः-सम्पूर्ण तथा 'सावरणः' सन्नाहसहितः अपिशब्दाद् युद्धकौशलादिगुणयुक्तोऽपि यथा योधः समरशिरसि प्रविष्टः प्रयत्नं कुर्वाणोऽपि योधान्तरेण ‘छल्यते' छलं लब्ध्वा हन्यते इत्यर्थः, यद्वा 'ग्राहः' सर्पग्राहको गारुडिकादि औषधहस्तोऽपि किं 'व्यालेन' दुष्टसर्पण न च्छल्यते? छल्यत एव, एवं यद्यपि भवान् भावना-तपोज्ञानव्यापारयुक्तस्तथापि स्त्रीणां सन्दर्शनादि कुर्वन् मोहोदयेन च्छल्यत एवेति ॥ अपिच[भा.२१६१] उदगघडे वि गरगए, किमोगमादीवितं न उज्जलइ। अइइद्धो विन सक्कइ, विनिव्ववेउं कुडजलेणं॥ वृ-उदकघटे 'करगतेऽपि' हस्तस्थितेऽपि किम् ‘ओकः' गृहम् ‘आदीपितं' प्रज्वालितं सद् 'नोज्ज्वलति' नदीप्यते ?, अथासौ 'अतीद्धः' अतिदीप्तोऽग्निस्ततः कुटजलेन प्रक्षिप्तेनापिनासौ ___ Page #28 -------------------------------------------------------------------------- ________________ उद्देश : १, मूलं - १०, [भा. २१६१ ] निर्वापयितुं शक्यते, एवं यद्यपि ज्ञानव्यापारादिकं जलघटकल्पं स्वाधीनं तथापि मोहोदयाग्निना प्रज्वलितं चारित्रगृहं किं न प्दीप्यते ?, अतिप्रबलो वा मोहो यद्युदीयेत ततो घटजलकल्पेन बहुनाऽपि ज्ञानव्यापारादिना नाऽसौ विध्यापयितुं शक्य इति ॥ किञ्च [भा. २१६२] रीढासंपत्ती वि हु, न खमा संदेहियम्मि अत्थम्मि । नायक पुन अत्थे, जा वि विवत्ती स निद्दोसा ।। वृ-संयतीक्षेत्रे गतानां मोहोदयनिरोधादिको यः सन्देहितः संशयासपदीभूतोऽर्थस्तस्मिन् रीढयायदृच्छया घुणाक्षरन्यायेन सम्पत्तिरपि 'न क्षमा' न श्रेयसी । यः पुनः साध्वीरहितक्षेत्रगमनादिकोऽर्थः पूर्वं ज्ञातः-निर्दोषत्वेन निर्णीतस्ततः कृतः कर्त्तुमारब्धः ज्ञातकृतस्तस्मिन् याऽपि कुतोऽपि वैगुण्यतो विपत्तिर्भवति सा अपि निर्दोषा मन्तव्या ॥ अथ परः प्राह [भा. २१६३] दूरेण संजईओ, अस्संजइआहि उवहिमाहारो । इ मेलणाए दोसो, तम्हा रन्नम्मि वसियव्वं ॥ २५ वृ- संयत्यः 'दूरेण' पृथग्वसत्यादौ वसन्त्यः परिहर्तुं शक्यन्ते, यास्तु 'असंयत्यः' इविरतिकास्ताः परिहरतुमशक्याः, यतस्ताभ्य उपधिराहारश्च लभ्यते, अतो यदि 'मीलनायाः' संसर्गस्य दोषः संयतीक्षेत्रि तिष्ठतां भवति ततः साधुभिररण्ये गत्वा वस्तव्यम् ॥ सूरिराह [भा. २१६४ ] रन्ने वि तिरिक्खीतो, परिन्न दोसा असंतती यावि । लब्भीय कूलवालो, गुणमगुणं किं व सगडाली ।। वृ- अरण्येऽपि वसतां तैरश्चस्त्रियो हरिणीप्रभृतयो दोषानुपजनयन्ति । तथा 'परिज्ञा' भक्तप्रत्याख्यानं तद्दोषाश्च भवन्ति । तथाहि तत्राहाराद्यभावाद् भक्तप्रत्याख्यानं कर्त्तव्यम्, तच्च प्रथमत एव कर्तुं न युज्यते, विरतिसहितस्य जीवितस्य दुष्प्रापत्वात् न च तदानीं तत् कर्तुं शक्यते, कुर्वतामप्यार्त्तध्यानसम्भवात् कुदेवत्वगमन-प्रेत्यबोधिदुर्लभत्वादयो दोषाः । 'असन्ततिश्च' प्रव्राजनाद्यभावान्न शिष्य - प्रशिष्यादिसन्तान उपजायते, यद्वा- “ असंतईए "त्ति सर्वथैव स्त्रीणामसत्तायां वनवासमङ्गीकृत्य यत् किल ब्रह्मचर्यं धार्यते तन्न बहुफलं भवति, “थंभा कोहा अनाभोगा, अनापुच्छा असंतई ।" इतिवचनात् । न चात्रारण्यं जनाकुलं वा प्रमाणम्, यतः कूलवालकोsटव्यामपि वसन्ं कं गुणं लब्धवान् ? 'शाकटालि' स्थूलभद्रस्वामी स जनमध्ये गणिकाया गृहेऽपि तिष्ठन् कमगुणं लब्धवान् ? न कमपीति भावः । किञ्च - [भा. २१६५ ] कस्सइ विवित्तवासे, विराधना दुन्नए अभेदो वा । हसगडालि मणो वा, तह बिइओ किं न रुंभिसु ॥ वृ- कस्यचिद् 'विविक्ते' स्त्री पशु पण्डकविरहितेऽपि वासे वसतः प्रबलवेदोदयाद् विराधना ब्रह्मचर्यस्य वति, कस्यापि पुनः 'दुर्नये' स्त्र्यादिसंसक्तप्रतिश्रयवासेऽपि वेदमोहनीयक्षयोपशमप्रबलत्वेन 'अभेदः' न ब्रह्मचर्यविलोपो भवति । वाशब्दः प्रकारान्तरद्योतनार्थः । आह यद्येवं तर्हि कर्मोदय-क्षय-क्षयोपशमादिरेव प्रमाणं न स्त्रीसंसर्गादि, नैवम्, कर्मणामुदय-क्षयक्षयोपशमादयोऽपि प्रायस्तथाविधद्रव्य-क्षेत्रादिसहकारिकारणसाचिव्यादेव तथा तथा समुपजायन्ते नान्यथा । यथा वा 'शाकटालि' स्थूलभद्रस्वानी खकीयं मनः एतसंसर्गेऽपि निरुद्धवान् तथा 'द्वितीयः' सिंहगुहावासी किं न निरुद्धधानयेन स्त्रीसंसर्गादिकमप्रमाणं गीयते ॥ Page #29 -------------------------------------------------------------------------- ________________ २६ बृहत्कल्प-छेदसूत्रम् -२-१/१० यतश्चैवमतः [भा. २१६६ ] होज न वा वि पभुत्तं, दोसाययणेसु वट्टमाणस्स । चूयफलदोसदरिसी, चूयच्छायं पि वज्रेइ ॥ वृ- भवेद् वा न वा 'दोषायतनेषु' ब्रह्मविराधनादिदोषस्थानेषु वर्त्तमानस्य मनो निरोद्धुं 'प्रभुत्वं' सामर्थ्य तथापि दोषायतनानि दूरतः परिहरणीयानि । दृष्टान्तश्चात्र चूतफलदोपदर्शी चूतच्छायामपि वर्जयति - जहा एगो रायपुत्तो अंबगपिओ । तस्स अंबगेहिं अइखइएहिं वाही उट्ठिओ । सो वेज्जेहि याप्याकृतः अंबगा य पडिसिद्धा । सो अन्नया पारद्धिं गओ अंबच्छायाए वीसमइ । अमच्चेण पुन पडिसिद्धो तह विन ठाइ । ताहे तेण वारिज्जुंतेण वि तं फलं गहियं । भणेइ अ-मए न खाइयव्वं, को दोसो गहिए ? त्ति । तेन पसंगदोसेण खइयं विनट्ठो य । एस दिट्टंतो । अयमत्थोवणओ-जहा तस्स रायपुत्तस्स वेज्जेहिं अंबगा अपत्थ त्ति काउं पडिसिद्धा तहा भगवया वि साहूणं अब्बंभपडिसेवा इह सपरत्थ य अपत्थ त्ति काउं पडिसिद्धा, तप्परिहरणोवाओ अ 'इत्थी-पसु-पंडगसंसत्ताए वसहीए संजईखेत्ते य न ठायव्वं" इच्चाई उवइट्ठो । जो तेसु ठाइ सो नियमा पसंगदोसेण विनस्सइ चरित्तरजस्स य अणाभागी भवइ, जहा सो रायपुत्तो । अन्नो पसत्थो रायपुत्तो सो चूतफलदोसदरिसी चूयच्छायं पि परिहरंतो इहलोइयाण कामभोगाणं आभागी जातो, एवं जो साहू तित्थयरपडिसिद्धइत्थिपडिसेवादोसदरिसी इत्थिसंसत्ताओ वसहीओ संजईखेत्तं च परिहरइ सो नियमा इह परत्थ य सव्वसुक्खाणं आभागी भवइ त्ति ।। अथ "दूरेण संजईओ" इत्यादि यत् परणाक्षिप्तं तदेतत् परिजिहीर्षुराह[भा. २१६७] इत्थीणं परिवाडी, कायव्वा होइ आनुपुव्वीए । परिवाडीए गमणं, दोसा य सपक्खमुप्पन्ना ॥ वृ- 'स्त्रीणाम्' एकखुरादीनां परिपाटि' पद्धतिरानुपूर्व्या कर्त्तव्या भवति, प्ररूपणीयेत्यर्थः । ततः ‘परिपाट्यां' यथा तासु गमनं भवति तथा वाच्यम् । दोषाश्च स्वपक्षत उत्पन्ना भवन्तीति वक्तव्यमिति निर्युक्तिगाथा सङ्क्षेपार्थः । अथैनामेव गाथां व्याख्यानयतिएगखुर- दुखुर-गंडी - सप्फइत्थीसु चैव परिवाडी । [भा. २१६८ ] । बद्धाण चरंतीणं, जत्थ भवे वग्गवग्गेसु ॥ [भा. २१६९ ] तत्थऽन्नतमो मुक्को, सजाइमेव परिधावई पुरिसो । पासगए वि विवक्खे, चरइ सपक्खं अवेक्खंतो ॥ वृ- एकखुरा वडवादयः, द्विखुरा गो-महिष्यादयः, गण्डीपदा हस्तिन्यादयः, सनखपदाः शुनीप्रभृतयः, एतासु षष्ठी - सप्तम्योरर्थं प्रत्यभेदात् एतासां स्त्रीणां 'वर्गवर्गेषु' पृथक्पृथक्सजातीयसमूहरूपेषु बद्धानां वा चरन्तीनां वा यत्र क्वापि कुटी-वाटकदौ परिपाटीर्भवेत् तत्राऽश्वगो- हस्तिशुकादीनामन्यतमः पुरुषो मुक्तः सन् दरस्थितामपि 'स्वजातिमेव' वडवादिकां परिधावति, 'विपक्षे तु' विजातीये गवादिपक्षे 'पार्श्वगतेऽपि ' प्रत्यासन्नस्थितेऽपि स्वपक्षमपेक्षमाणश्चरति, न पुनर्विपक्षमुधावतीति भावः, एवं श्रमणोऽपि स्वपक्ष इति कृत्वा विश्वस्तः सन् संयतीभि सह संसर्गं करोति, न पुनरविरतिकासु । यतःआगंतुयदव्वविभूसियं च ओरालियं सरीरं तु । [भा. २१७० ] Page #30 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं-१०, [भा. २१७०] २७ असमंजसो उ तम्हाऽगारिस्थिसमागमो जइणो ।। वृ. आगन्तुकद्रव्यैः-वस्त्रा-ऽऽभरणादिभिर्विभूषितम्-अलङ्कृतं चशब्दादुद्वर्त्तनस्नानादिपरिकर्मयुक्तंच यस्मादगारस्त्रीणामौदारिकंशरीरंतस्माद् ‘असमञ्जसः' विसशस्ताभिः सह 'यतेः' साधोर्मलीमसशरीरस्य समागमन (समागमः-) मीलकः॥ अपि च[भा.२१७१] अविभूसिओ तवस्सी, निक्कामोऽकिंचणो मयसमाणो । इयऽगारीसुं समणे, लज्जा भय संथवो न रहो।। वृ- ‘अविभूषितः' विभूषारहित एषः, तथा 'तपस्वी' तपःक्षीणदेहः, 'निष्कामः' शुभरसगन्धाद्यपभोगरहितः, 'अकिञ्चनः' निष्परिग्रहः, ततः 'मृतसमानः' शबकल्प एषः, 'इति' एवमगारीणांश्रमणेऽवज्ञाभवति। श्रमणस्य पुनरगारीभिः सह विपक्षतयायालज्जा यच्चागारिभ्यो भयं तेन ताभिसह न ‘संस्तवः' परिचयः न वा ‘रहः' एकान्त इति ॥स्वपक्षे तु कथम्? इत्याह[भा.२१७२] निब्भयया य सिनेहो, वीसत्थत्तं परोप्पर निरोहो । दानकरणं पि जुजइ, लग्गइ तत्तं च तत्तं च ।। वृ-संयतस्य संयत्या 'निर्भयता' न भयमुत्पद्यते, स्नेहश्चोभयोरपि भवति स्वपक्षत्वात्, 'विश्वस्तत्वं च विश्वासः परस्परगुह्यगोपनविषयः प्रत्ययइत्यर्थः, परस्परम्' उभयोरपि 'निरोधः' बस्तिनिग्रहात्मकः, तथा 'दानकरणमपि' वस्त्र-पात्रादिदानलणं संयती प्रति तस्य 'युज्यते' सम्भवतीत्यर्थः, ततो यथा तप्तं च तप्तं च लोहं 'लगति' सम्बध्यते तथा संयती-संयतौ द्वावपि निरोधसन्तप्तौ रहो लब्ध्वा लगत इति ॥ आह दृष्टास्तावत् स्वपक्षसमुत्था दोषाः, परमेते कुत्र सम्भवन्ति? इति निरूप्यताम्, उच्यते[भा.२१७३] वीयार-भिक्खचरिया-विहार-जइ-चेइवंदनादीसुं। कज्जेसुं संपडिताण होंति दोसा इमे दिस्स। वृ- एकवगडे एकद्वारे च ग्रामादौ विचारभूमि-भिक्षाचर्या-विहारभूमि-यतिचैत्यवन्दनादिषु कार्येषुप्रतिश्रयान्निर्गतानां रथ्यादौ सम्पतितानां मिलितानामन्योऽन्यं दृष्ट्वा एते दोषा भवन्ति॥ [मा.२१७४] दूरम्मि दिट्टि लहुओ, अमुगो अमुगि त्ति चउलहू होति । किइकम्मम्मि य गुरुगा, मिच्छत्त पसज्जणा सेसे ॥ वृ-यदि दूरेऽपि संयतः संयत्या दृष्टः संयती वा संयतेन तदा लघुको मासः । प्रत्यासन्नप्रदेशे समायातं संयतं सम्यगुपलक्ष्य संयती यद्यमुकोऽयंज्येष्ठार्य इति ब्रूते, संयतो वा संयतीमुपलक्ष्य अमुका संयतीति ब्रवीति तदा चत्वारो लघवः । अथ सा 'कृतिकर्म वन्दनंकरोति तदा चत्वारो गुरुकाः । ये चाभिनवधर्माणस्ते तथा वन्दमानानुपलभ्य वक्ष्यमाणनीत्या मिथ्यात्वं गच्छेयुः । 'शेषे' भोजिका-घाटिकादौ शङ्कां कुर्वाणे सति प्रसजना' प्रायश्चित्तस्य वृद्धिद्रष्टव्या॥तामेवाह[भा.२१७५] दिढे संका भोइय, घाडिय नाई य गाम बहिया य । चत्तारिछच्च लहु गुरु, छेदो मूलं तह दुगंच॥ वृ-संयतस्य संयत्या कृतिकर्म क्रियमाणं केनचिद् दृष्टम्, दृष्टे सति तस्य 'शङ्का' वक्ष्यमाणा सआयतेततश्चत्वारो गुरवः । अथ भोजिकायाः' भार्यायाः कथयति ततश्चतुर्लघुकाः। घाटिकःमित्रंतस्याग्रतः कथने चतुर्गुरवः । 'ज्ञातीना' स्वजनानां कथने षड् लघवः । अज्ञातीनां कथयति Page #31 -------------------------------------------------------------------------- ________________ २८ बृहत्कल्प-छेदसूत्रम् -२-१/१० षड् गुरवः । ग्रामस्य कथयति च्छेदः । ग्रामबहिर्निर्गत्य कथयति मूलम् । ग्रामसीमायां कथनेऽनवस्थाप्यम् । सीमानमतिक्रम्य कथयति पाराञ्चिकम्॥ कीशी पुनः शङ्का भवति? इत्याह[भा.२१७६] कुवियं नु पसादेती, आओ सीसेण जायए विरहं । आओ तलपन्नविया, पडिच्छई उत्तिमंगेणं ॥ वृ-'नुः' इति वितर्के, किमेषा संयती कुपितं सन्तमेनं संयतंप्रसादयति? आहोश्चित् ‘शीर्षण' मस्तकेन 'विरहः' एकान्ते याचते? उताहोअनेन साधुना तलेन-चप्पुटिकादिकरणेन प्रज्ञापिता सती प्रार्थनामुत्तमाङ्गेन प्रतीच्छति?॥ [भा.२१७७] इइ संकाए गुरुगा, मूलं पुन होइ निव्विसंकेतु। सोही वाऽसन्नतरे, लहुगतरी गुरुतरी इयरे ॥ वृ-'इति' एवं शङ्कायां चत्वारो गुरुकाः । अथ निर्विशङ्क-कुपित-प्रसादनाद्यर्थमेव करोतीति मन्यतेततो द्वयोरपि मूलम् । भोजिकादिश्चयो यस्तस्यसम्बन्धेनासन्नतरस्तत्रतत्रशोधिलघुकतरा। 'इतरस्मिन्’ घाटिक-ज्ञात्यादौ दूरतरे गुरुकतरा ।। अथ किमिति ज्ञातीनां प्रथमं न कथयति? इत्याह[भा.२१७८] विस्ससइ भोइ-मित्ताइएसु तो नायओ भवे पच्छा। जह जह बहु जननायं, करेइ तहवड्डए सोही॥ वृ-भोजिका-मित्रादिषुशरीरमात्रभिन्नेषुन किमपि गोपनीयमस्तीति कृत्वायतोऽसौ विश्वसिति ततः 'ज्ञातीन्' स्वजनान् पश्चाद् ज्ञापयति । यथा यथा चासौ बहुजनज्ञातं करोति तथा तथा 'शोधि' प्रायश्चित्तं वर्द्धते ।। अथासौ ज्ञाप्यमानो जनः प्रतिषेधयति ततः प्रायश्चित्तमप्युपरमते। तथा चाह[भा.२१७९] पडिसेहो जम्मि पदे, पायच्छित्तं तु ठाइ पुरिमपए। निस्संकियम्मि मूलं, मिच्छत्त पज्जणा सेसे॥ वृ-तेन पुरुषेण भोजिकाया आख्यातम्-मया संयती संयतं शीर्षप्रणामेनावभाषमाणा दृष्टा, ततः सा प्रतिषेधयति-न भवत्येवम्, मैवमसमञ्जमंवोचइति; ततः फ्रायश्चित्तमप्युपरतम् ।अथासौ तयानप्रतिषिद्धस्ततःप्रायश्चित्तं वर्द्धते । एवंघाटिकादिष्वपिवक्तव्यम् ।ततोयस्मिन् भोजिकादौ पदेप्रतिषेधस्ततः पूर्वपदे' शङ्कादौ प्रायश्चित्तं तिष्ठति, नोर्द्धवंवर्द्धते।तथा 'कुपित-प्रसादनाद्यर्थमेव करोति' इति निशङ्कितेमूलम् । एवं मिथ्यात्वं शेषस्य च' भोजिकादिविषय प्रायश्चित्तस्य प्रसजना भवतीति । कथं पुनर्भोजिकादयः प्रतिषेधयन्ति? इत्याह[भा.२१८०] किइकम्मंतीए कयं, मा संक असंकणिज्जचित्ताई। न विभूयं न भविस्सइ, एरिसगं संजमधरेसुं॥ वृ-'कृतिकर्म' वन्दनकं तया' संयत्या कृतम्, मा अशङ्कनीयचित्तेअमूशंकिष्ठाः, नापि भूतम् अपिशब्दाद् न भवतिन च भविष्यति ईशंभवत्परिकल्पितं कुपित-प्रसादनादिकमसमञ्जसचेष्टितं 'संयमधरेषु' साधु-साध्वीजनेषु॥ एवं विचारभूमौ गच्छतां दोषा उक्ताः । अथ भिक्षाचर्यायां तानेवाह Page #32 -------------------------------------------------------------------------- ________________ २९ उद्देशकः १, मूलं-१०, [भा. २१८१] [भा.२१८१] पढम-बिइयातुरो वा, सइकाल तवस्सि मुच्छ संतो वा। __ रच्छामुहाइ पविसं, नितो व जनेन दीसिज्जा ।। वृ-“रच्छामुहाइ"त्ति तस्मिन् ग्रामे रथ्यामुखे आदिशब्दादन्यत्र वा तथाविधे स्थाने देवकुलं वा शून्यगृहं वा भवेत् तत्र प्रथमपरीषहातुरः प्रथमालिका) द्वितीयपरीषहातुरश्च द्रवपानार्थं प्रविशेत्, यद्वा यावन्न ‘सत्कालः' भिक्षाया देशकालो भवति तावदत्रैवोपविष्टस्तिष्ठामि, अथवा 'तपस्वी' क्षपकः सविश्रामग्रहणार्थम्, यद्वाऽत्युष्णेन कस्यापिमूर्छा समुत्पन्नातस्याअपनयनार्थम्, यदि वा भिक्षाटनेन श्रान्तोऽहमतोऽत्र विश्राम गृह्णामि एवमेभि कारणैस्तत्र प्रविशेत. स च प्रविशन् ततो निर्गच्छन् वा जनेन दृश्येत; संयत्यपि तत्रैतैरेव कारणैः प्रविशेत् साऽपि प्रविशन्ती जनेन दृष्टा स्यात् ।।अत्र चतुर्भङ्गीमाह[भा.२१८२] संजओ दिट्ठो तह संजई य दोन्नि वि तहेव संपत्ती। रच्छामुहे व होजा, सुन्नघरे देउले वा वि॥ वृ-सयतस्तत्र प्रविशन् दृष्टोन संयती संयती दृष्टा न संयतः २ संयतः संयती च द्वावपि दृष्टौ न दृष्टौ वा३-४। “तहेव संपत्ति"त्तियैः कारणैः संयतः प्रविष्टस्तैरेव संयत्या अपि तत्र सम्प्राप्तिरभूत्, एवमनन्तरोक्तचतुर्भङ्गया रथ्यामुखेवा शून्यगृहे वा देवकुलेवा दर्शनं स्यात् ।। ततः किम् ? इत्याह[भा.२१८३] वइणी पुव्वपविठ्ठा, जेणायं पविसते जई इत्थ । एमेव भवति संका, वइणिं दह्ण पविसंति॥ कृ-संयतंतत्रप्रविशन्तं दृष्ट्वा शङ्का भवेत्-नूनंव्रतिनी पूर्वप्रविष्टा वर्तते येनायंयतिरत्रप्रविशति। एवमेव व्रतिनी प्रविशन्तीं दृष्ट्वा शङ्का भवति-नूनं संयतः प्रविष्टोऽस्ति येनेयं प्रविशति ॥ [भा.२१८४] उभयं वा दुदुवारे, दटुं संगारउ त्ति मन्नंति। तेपुन जइ अन्नोन्नं, पासंता तत्थ न विसंता॥ वृ-द्विद्वारे वा देवकुले 'उभयं' संयतः संयती च प्रविशेत्, तत्रैकेन द्वारेण संयतः प्रविष्टो द्वितीयेन तु संयती, तौ च दृष्ट्वा “सङ्गारः' संङ्केतोऽत्रानयोरिति गृहस्था मन्यन्ते । “तौ च" संयतीसंयतौ यद्यन्योन्यमद्रक्ष्यतां ततस्तत्र 'नावेक्ष्यतां प्रवेशं नाकरिष्यताम्॥ इत्थं प्रवेशे चतुर्भङ्गी दर्शिता । अथ निर्गमनेऽपि तामतिदिशन्नाह[भा.२१८५] एमेव ततो निते, भंगा चत्तारि होति नायव्वा । चरिमो तुल्लो दोसु वि, अदिट्ठभावेण तो सत्त॥ वृ-'एवमेव' प्रवेशवत् 'ततः' शून्यगृहादेर्निर्गच्छतरपितयोश्चत्वारो भङ्गा भवन्ति ज्ञातव्याः। तद्यथा-संयतो निर्गच्छन् दृष्टो न संयती १ संयती निर्गच्छन्ती दृष्टा न संयतः २ संयतः संयती द्वावपि दृष्टौ ३ द्वावपिन दृष्टौ ४।अत्र च 'द्वयोरपि' प्रवेश-निर्गमयोः 'चरमः' चतुर्थो भङ्गस्तुल्यः। कुतः? इत्याह-'अष्टभावेन' द्वयोरपि संयत-संयत्योरदृष्टत्वेन, ततश्च द्वाभ्यामप्येक एव गण्यते, एवं सप्त भङ्गा भवन्ति । एतेषु दोषानाह[भा.२१८६] एक्विक्कम्मि य भंगे, दिट्ठाईया य गहणमादीया । सत्तमभंगे मासो, आउभयाई अ सविसेसा ॥ Page #33 -------------------------------------------------------------------------- ________________ 30 बृहत्कल्प-छेदसूत्रम् -२-१/१० एकैकस्मिन् भङ्गे दृष्टादयः' दृष्टे सति शङ्का भोजिकादयो दोषा भवन्ति । तत्र शङ्का नाम किं विश्रामणार्थमत् प्रविशति? उतप्रतिसेवनार्थम्? इतितत्रचतुर्गुरु।प्रतिसेवनार्थमेवेति निशङ्किते मूलम् । शेषं भोजिकानिवेदनादि सप्रायश्चित्तं प्राग्वद् द्रष्टव्यम् । तथा उभयोरपि राजपुरुषैस्तत्र प्रवेशे दृष्टे सति ग्रहणा-ऽऽकर्षणादयो दोषाः । सप्तमे भङ्गे मासलघु, तत्र चात्मोभयादिसमुत्थाः सविशेषा दोषाः। तथाहि-तत्रोभयोरप्यष्टत्वादन्योन्यदर्शने द्वयोरेकतरस्यवा चित्तभेदः सम्भवेतकेनाप्यावां प्रविशन्तौ न दृष्टाविति कृत्वा तत्रैकान्ते घटनं भवेत् । आदिशब्दाच्चतुर्थव्रतं विराधितमावाभ्यामिति मत्वा वैहायसमरणा-ऽवधावनादीनि कुर्याताम् ॥ अथ प्रवेशविषयेषु भङ्गकेषु पञ्चभिरादेशैः प्रायश्चित्तमभिधित्सुः प्रथमादेशतस्तावदाह[भा.२१८७] चरमे पढमे बिइए, तइए भंगे य होइमा सोही। मासो लहुओ गुरुओ, चउलहु-गुरुगा य भिक्खुस्स। वृ-चरमो नाम-यत्र द्वे अपि न दृष्टे १ प्रथमः-यत्र संयत एव दृष्टः २ द्वितीयः-यत्र संयती टेष्टा ३ तृतीयः-यत्र द्वे अपि हटे ४, एतेषु भङ्गेषु यथाक्रमं भिक्षोरियं शोधिर्मन्तव्या । तद्यथा-मासो लघुकः, मासो गुरुकः, चतुर्लघुकाः, चतुर्गुरुकाः॥ [भा.२१८८] वसभेय उवज्झाए, आयरिए एगठाणपरिवुड्डी। मासगुरुं आरब्मा, नायव्वा जाव छेदो उ ।। वृ. वृषभस्योपाध्यायस्याचार्यस्य च यथाक्रममेकैकस्थानपरिवृद्धि कर्तव्या, ततश्च मासगुरुकादारभ्य च्छेदं यावत् प्रायश्चित्तस्थानानि ज्ञातव्यानि । तद्यथा-वृषभस्य चतुर्थे भङ्गे मासगुरु, प्रथमे चतुर्लघु, द्वितीये चतुर्गुरु, तृतीये षड्लघु; एवमुपाध्यायस्य चतुर्लघुकादारब्धं षड्गुरुके तिष्ठति, आचार्यस्य चतुर्गुरुकादारब्धं छेदान्तं द्रष्टव्यम् ।। एष एक आदेशः। अथ द्वितीय उच्यते[भा.२१८९] अहवा चरिमे लहुओ, चउगुरुगं सेसएसु भंगेसु। . भिक्खुस्स दोहि विलहू, काल तवे दोहि वी गुरुगा॥ वृ-अथवा चरमे भङ्गे लघुको मासः, ‘शेषेषु' त्रिष्वपि भङ्गेषु प्रत्येकं चतुर्गुरुकम् । एतानि प्रायश्चित्तानिभिक्षोः 'द्वाभ्यामपि तपसाकालेनचलघुकानि, वृषभस्यकालगुरुकाणि, उपाध्यायस्य तपोगुरूणि, आचार्यस्योभयगुरूणि ॥ एष द्वितीय आदेशः। अथ तृतीय उच्यते[भा.२१९०] मासो विसेसिओ वा, तइयादेसम्मि होइ भिक्खुस्स। गुरुगो लहुगा गुरुगा, विसेसिया सेसगाणं तु॥ वृ-'वा' इति अथवा तृतीयादेशे चतर्ध्वपि भङ्गेषु लघुमासस्तपः-कालविशेषितो भिक्षोभवति। तद्यथा-चतुर्थे भङ्गे द्वाभ्यामपि तपः-कालाभ्यां लघुकं लघुमासिकम्, प्रथमे तदेव तपसा लघुकं कालेन गुरुकम्, द्वितीये काले लघुकं तपसा गुरुकम्, तृतीये द्वाभ्यामपितपःकालाभ्यां गुरुकम्। ‘शेषाणां तु वृषभोपाध्यायाचार्याणां यथाक्रमं गुरुको मासः चत्वारो लघुकाश्चत्वारो गुरुकाः चतुर्वपिभङ्गेष्वेवमेवतपः-कालविशेषिताः प्रायश्चित्तम् । एषतृतीयआदेशः । अथ चतुर्थमाह[भा.२१९१] अहवा चउगुरुग च्चिय, विसेसिया हुँति भिक्खुमाईणं। मासाइ जाव गुरुगा, अविसेसा हुंति सव्वेसिं॥ Page #34 -------------------------------------------------------------------------- ________________ उद्देशक ः १, मूलं-१०, [भा. २५९१] वृ-अथवा चतुर्गुरुका एव भिक्षुप्रभृतीनां चतुर्णामपि तपः-कालविशेषिता भवन्ति । तद्यथाभिक्षोभ्यामपि तपः-कालाभ्यांलघवः, वृषभस्य तपोलघवः कालगुरवः, उपाध्यायस्यतपोगुरुकाः काललघुकाः, आचार्यस्य द्वाभ्यामपि तपः-कालाभ्यांगुरवः । एषचतुर्थ आदेशः।यद्वामासादारभ्य चतुर्गुरुकं यावद् भिक्षु-वृषभादीनां प्रायश्चित्तानि । तद्यथा-भिक्षोर्मासलघु, वृषभस्य मासगुरु, उपाध्यायस्य चतुर्लघुकम्, आचार्यस्य चतुर्गुरुकम्। एतानि च प्रायश्चित्तानि सर्वेषांभङ्गचतुष्टयेऽपि तपः-कालाभ्यामविशेषितानीति पञ्चम आदेशः ।।एवंतावत्प्रवेशप्रत्ययंशुद्धपदे प्रायश्चित्तमुक्तम्। अथ तत्र प्रविष्टानां ये दोषाः सम्भवन्ति तत्प्रत्ययं प्रायश्चित्तमाह[भा.२१९२] दिह्रोभास पडिस्सुय, संथार तुअट्ट चलणउक्खेवे । फंसण पडिसेवणया, चउलहुगाई उजा चरिमं॥ वृ-एवं प्रविष्टयोः संयत-संयत्योः परस्परं 'दृष्टे' दर्शने साते सति चतुर्लघवः । संयतः संयती वा यद्यवभाषते ततश्चत्वारो गुरवः । अवभाषिते सति यदि प्रतिश्र णोति तदा षड् लघवः । संस्तारके कृतेषड्गुरवः । त्वग्वर्तने कृतेच्छेदः ।चलनः-पादस्तस्योत्क्षेपेमूलम्।स्पर्शनेऽनवस्थाप्यम्। प्रतिसेवने पाराञ्चिकम् ॥एवं प्रविष्टानां प्रायश्चित्तमुक्तम् । अथ निर्गमनविषयमाह[भा.२१९३] पविसंते जा सोही, चउसु वि भंगेसुवन्निया एसा । निक्खममाणे स चिय, सविसेसा होइ भंगेसु॥ वृ-संयती-संयतयोः प्रविशतोर्या शोधिश्चतुर्ध्वपि भङ्गेषु 'एषा' अनन्तरमेव वर्णिता सैव शून्यगृहादेर्निष्कामतोरपि सविशेषाचतुर्ध्वपि भङ्गेषु भवति॥एवंतावद्ग्रामादेरन्तर्विचारभूमौ गच्छन्तीनां भिक्षाचर्यायां च दोषाः प्रतिपादिताः । अधुनाग्रामादेर्बहिर्विचारभुवं गच्छन्तीनां दोषोनुपदर्शयितुमाह[भा.२१९४] अंतो वियार असई, अचियत्त सगार दुज्जनवते वा। वाहिं तु वयंतीणं, अपत्त-पत्ताणिमे दोसा॥ कृ-'अन्तः' ग्रामादेरभ्यन्तरेविचारभूमेरभावे, अप्रीतिकंवा 'सागारिकः' शय्यातरस्तत्रव्युत्सर्जने कुर्यात्, ‘दुर्जनवृतंवा दुःशीलजनपरिवृतंतत्पुरोहडंततोग्रामादेर्बहिव्रजन्तीनांस्थण्डिलमप्राप्तानां प्राप्तानां वा इमे दोषाः ॥ [भा.२१९५] वीयाराभिमुहीओ, साहुंदटूण सन्नियत्ताओ। लहुओ लहुया गुरुगा, छम्मासा छेद मूल दुगं॥ वृ-विचारभूमेरभिमुखं गच्छन्त्यः साधुंतत्र यान्तं दृष्ट्वा यदि सन्निवर्तन्ते तदा लघुको मासः। सनिवृत्ताः सत्यः संज्ञांधारयन्त्यो यद्यनागाढं परिताप्यन्ते तदा चतुर्लधवः।आगढपरितापनायां चतुर्गुरवः । महादुःखे षड् लघवः । मूत्रछायां षड् गुरवः । कृच्छप्राणे च्छेदः । कृच्छोच्छ्वासे भूलम्।समुद्धातेऽनवस्थापयम्। कालगमने पाराञ्चिकम् ॥एनोमेव नियुक्तिगाथां व्याख्यानयति[भा.२१९६] एसो वि तत्थ वच्चइ, नियत्तिमो आगयम्मि गच्छामो। लहुओ य होइ मासो, परितावणमइ जा चरिमं ॥ वृ-'एषोऽपि' संयतः 'तत्र' स्थण्डिले व्रजति अतो निवर्तामहे वयम् 'आगते' प्रतिनिवृत्ते सति गमिप्याम इति कृत्वा यदि संयत्यो निवर्तन्ते तदा लघुमासः । अथ संज्ञानिरोधना Page #35 -------------------------------------------------------------------------- ________________ ३२ बृहत्कल्प-छेदसूत्रम् -२-१/१० नागाढपरितापनादिकं भवति ततश्रचतुर्लघुकादिकमनन्तरगाथोक्तं ‘चरमं' पाराञ्जिकं यावत् प्रायश्रिचत्तम्॥ [भा.२१९७] गड्डा कुडंग गहणे, गिरिदरि उजाण अपरिभोगे वा । पविसंते य पविटे, निते य इमा भवे सोही ।। वृ- अथ तान् साधून दृष्ट्वा यदि ‘गळ्यां' प्रतीतायां 'कुडङ्गे' वंशजालिकायां 'गहने' बहुवृक्षनिकुञ्जे 'गिरिदाँ' पर्वतकन्दरायां 'उद्यानेवा' अपरिभोग्येसंयत्यः प्रविशेषुःततःप्रविशन्तीषु प्रविष्टासु निर्गच्छन्तीषु चेयंशोधि साधूनां भवति । [भा.२१९८] दूरम्मि दिढे लहुओ, अमुई अमुओ त्ति चउगुरु होति । तेचेव सत्तभंगा, वीयारगए कुडंगम्मि। वृ-यदि दूरे संयत्या संयतः संयतेन वा संयती दृष्टा ततो लघुको मासः । अथामुका संयती अमुको वा अयं ज्येष्ठार्य इति ब्रूते तदा चतुर्मुखः । तत्र च कुडङ्गे यदि कोऽपि संयतः विचारार्थ गतः-पूर्वप्रविष्टो वर्तते तदा त ए सप्त भङ्गाः, तद्यथा-संयतः प्रविशन् दृष्टो न संयती १ संयती प्रविशन्ती दृष्टा न संयतः २ द्वावपि दृष्टौ ३ द्वावपिन दृष्टौ ४, एवं निर्गमनेऽपि चतुर्भङ्गी, नवरं चतुर्थो भङ्गःप्रवेश-निर्गमयोरुभयोरपितुल्य इति कृत्वा द्वाभ्यामप्येक एव गण्यतिइति सप्त भङ्गा भवन्ति । एतेषु च प्रायश्रिचत्तं प्रागिव द्रष्टव्यम् ।। अथ तत्र ग्रामे द्वारे स्थितेषु तेषु यस्तासां संयतीनां निरोधी भवति तदुत्थदोषदर्शनाय दृष्टान्तमाह[भा.२१९९] आमीराणं गामो, गामदारे य देउलं रम्मं । आगमन भोइयस्स य, ठाइ, पुनो भोइओ तहियं ।। वृ-आभीराणां कश्चिद् ग्रामः, तस्य च ग्रामस्य द्वारे देवकुलं रम्यम्, अन्यदाच 'भोगिकस्य' ग्रामस्वामिनस्तत्रागमनम्,ततः 'तत्र' देवकुले भोगिकस्तिष्ठति ।।। [भा.२२००] महिलाजनो य दुहितो, निक्खमण पवेसणंच सिंदुक्खं । सामत्थणा य तेसिं, गो-माहिससन्निरोधो य॥ वृ-ततः तेषाम्' आमीराणां महिलाजनो दुःखितोऽभूत्, निष्कमणं प्रवेशनंच “सिं" तासां विचारादौ गच्छन्तीनां 'दुःख' दुष्करमभवत्, ततस्तेषां “सामत्थण" त्तिपालोचनमभूत्, यथामहिलाजनस्यातीवाबाधा वर्तते, अत एनं भोगिकमुपायेनान्यत्र स्थापयाम इति । ततस्तैर्गोमाहिषस्य-गो-महिषीसमूहस्य स्वस्ववत्सविजोयनस्य ग्रामाद् बहिर्नीत्वा ग्रामद्वारबन्धनेन रात्री सन्निरोधः कृत इति ॥इदभेव स्फुटतरमाह[भा.२२०१] विगुरुब्वियबोंदीणं, खरकम्मीणं तु लज्जमाणाओ। भंजंति अनिंतीओ, गोवाड-पुरोहडे महिला ।। वृ-विकुर्विता-वस्त्रादिभिरलङ्कृता वोन्दि-शरीरं येषां ते विकुर्वितबोन्दयस्तेषामेवंविधानां भोगिकसम्बन्धिनां खरकर्मिकाणां लज्जमानाःसत्यो महेला बहिरनिर्गच्छन्त्यो गोवाटक-पुरोहडानि 'भञ्जन्ति' पुरीषव्युत्सर्गादिना विनाशयन्तीत्यर्थः॥ [भा.२२०२] इति ते गोणीहिं समं, धिइमलभंता उबंधिउंदारं । गामस्य विवच्छाओ, बाहिं ठाविंसु गावीओ॥ Page #36 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं-१८, [भा. २२०२] वृ- इति' एवं विचार्य 'ते' आभीरा धृतिमलभमाना गोभिरात्मना सार्द्ध सञ्जारिताभिः सह बहिनिर्गत्व ग्रामस्य द्वारं बद्धवा विवत्साः' वत्सरहिताः केवला एव गाः उपलक्षणत्वाद् महिषीश्च ग्रामस्य बहिः स्थापितवन्तः, ताश्रव तत्र स्थिताः स्ववत्सवियोजिता महता शब्देन सकलामपि रात्रिविस्वरमारटितवस्यः, वत्सका अपिनामान्तःस्थितास्तथैव शब्दायितवन्तः। ततः किमभूत्? इत्याह[भा.२२०३] वच्छग-गोणीसद्देण असुवणं भोइए अहनि पुच्छा। सब्मावे परिकहिए, अन्नम्मि ठिओ निरुवरोहे ।। वृ-तेषां वत्सकानां गवांच यः शब्दः-विस्वरारटनलक्षणस्तेन भोगिकस्य अस्वपन’ निद्रा न समायातेत्यर्थः । ततः ‘अहनि' दिवसे उद्रते सति तेन पृच्छा कृता, यथा-किमेवं रात्रो गो-माहिषं विस्वरमारटत् ? तैराभीरैस्ततः सर्वोऽपि सद्भावः परिकथितः । ततोऽसौ भोगिकोऽन्यस्मिन् देवकुले 'निव्या_ते गत्वा स्थित इति ।। अत्रोपनयमाह[भा.२२०४] एवं चिय निरविक्खा, वइणीण ठिया निओगपमुहम्मि । जातासि विराधनया, निरोधमादी तमावजे ।। वृ- ‘एवमेव' भोगिकवत् केचिद् निरपेक्षाः संयता वतिनीनां सम्बन्धी यो नियोगः-ग्रामः क्षेत्रमित्यर्थः तस्य प्रमुखे-निर्गम-प्रवेशद्वारे स्थिताः तैर्या तासां निरोधादिका विराधना आदिशब्दादनागाढपरितापनादिका तामापद्यन्ते, तन्निष्पन्नं तेषां प्रायश्रिचत्तं भवतीति भावः॥ [भा.२२०५] अहवण थेरा पत्ता, दटुं निक्कारणट्ठियं तंतु। भोइयनायं काउं, आउट्टि विसोहि निच्छुभणा।। वृ."अहवण" तिअखण्डमव्ययपदमथवेत्सस्यार्थे । अथवा 'स्थविराः कुलस्थविरादयस्तत्र क्षेत्रेप्राप्तास्तमाचार्यादिकं ग्रामद्वार एवस्थितं दृष्ट्वा पृच्छन्ति-आर्य! किमत्र संयतीक्षेत्रेभवानीशे प्रदेशे स्थितः ? इति । यदि निष्कारणिकस्ततो भोगिकज्ञातमनन्तरोक्तं कुर्वन्ति, यथा तेन महिलाजनेन महान् क्लेशराशिरनुबभूवे, एवमेतामिरपि संयतीभिर्भवता अत्र स्थितेन महद् दुःखमनुभवनीयम् । एवमुक्ते यदि 'आवृत्तः' प्रतिनिवृत्तस्ततो 'विशोधि' प्रायश्रिचत्तं दत्त्वा ततः क्षेत्रानिष्काशना कर्तव्या ।। [भा.२२०६] एवं ता दप्पेणं, पुट्ठो व भणिज्न कारण ठिओ मि। तहियं तु इसा जयणा, किं कजं का य जयणाओ। वृ-एवं तावद् ‘दर्पण' आकुट्टिकया स्थितानांदोपा उक्ताः । अथ कुलादिस्थविरैः पृष्टो भणेत्कारणे स्थितोऽस्म्यहम् । ततः पुष्टकारणसद्भावे न प्रायश्रिचत्तंन वा निष्काशना । तत्र तुकारणे स्थितानाम् ‘इयं वक्ष्यमाणा यतना। शिष्यः प्राह-किं पुनः ‘कार्य कारणम् ? का वा यतनाः?॥ उच्यते[भा.२२०७] अद्धाणनिग्गयाई, अग्गुजाणे भवे पवेसोय। पुत्रो ऊनो व भवे, गमनं खमणं च सव्वासिं॥ वृ-अध्वनो ये निर्गता वसिमं प्राप्तास्तेऽध्वनिर्गताः, आदिशब्दादशिवादिकारणेपुवर्तमानाः 1937 Page #37 -------------------------------------------------------------------------- ________________ बृहत्कल्प-छेदसूत्रम् -२-१/१० संयतीक्षेत्रे प्राप्ताः । तत्र चाग्रोद्याने स्थित्वा गीतार्था संयतीप्रतिश्रये प्रहेयाः । तेश्रच विधिना तत्र प्रवेशः कर्तव्यः । संयतीनां च मासकल्बः पूर्ण ऊनो वा भवेत् । यदि पूर्णस्ततो गमनं कर्त्तव्यम् । अथ न्यनस्ततः सर्वासामपि क्षपणं भवतीति नियुक्तिगाथासमासार्थः ॥ अथ विस्तरार्थमाह[भा.२२०८] उव्वाया वेला वा, दूरुट्ठियमाइणो परगामे । इय थेरऽज्जासिज्जं, विसंतऽणआवाहपुच्छा य॥ वृ-अध्वनिर्गतादयः साधवः संयतीक्षेत्रे प्राप्ताः सन्तो यदि न तावद् भिक्षाया देशकालस्ततो यः पुरोवर्ती ग्रामस्तत्र गत्वा भैक्षं गृह्णन्तु । अथ ते 'उदाताः' अतीव परिश्रान्तः, वेला वा तदानीमतिक्रामति, परग्रामे वा दुरोत्थितादयो दोषाः-तत्र दुरेस ग्रामो न तदानीं गन्तुं शक्यते, उत्थितो वा-उद्वसीभूतोऽसौ,आदिशब्दात् क्षुल्लकोवा अभिनवावासितो वा भटाक्रान्तो वा इत्यादिपरिग्रहः। 'इति' एवं विचिन्त्याग्रोद्याने स्थित्वा यःस्थविरोगीतार्थः स आत्मद्वितीयः संयतीप्रतिश्रये प्रेष्यते। सच तत्र गत्वा बहिरेकपाश्रचे स्थित्व नैषेधिकीं करोति । यदि ताभिः सुन्दरम्, अथ न श्रुतं ततः शय्यातरीणां निवेद्यते, ताभिरार्यिकाणां निवेदिते यदि सर्वा अप्यार्यिका वृन्देन निर्गच्छन्ति ततश्रचत्वारो गुरवः । ततः प्रवर्तिनी प्रौढाभ्यां वयः परिणताभ्यामार्यिकाभ्यां सहिता निर्गत्य अनुजानीत' इति भणति । ततस्तौ साधू आर्याशय्यां' साध्वीप्रतिश्रयं प्रविशतः। ततश्च ताभिः कृतिकर्मणि विहिते स गीतार्थसाधुरधोमुखमवलोकमान आचार्यवचनेन तासामनाबाधपृच्छां करोति-कच्चिदुत्सर्पन्ति संयमयोगा निराबाधं भवतीनाम् ? ग्लाना वा न काचिद् वर्तते ? ॥ एवं पृष्ट्वा किं कुर्वन्ति ? इत्याह[भा.२२०९] अमुगत्थ गमिस्सामो, पुट्ठाऽपुट्ठा व ईय वोत्तूणं। - इह भिक्खं काहामो, ठवणाइघरे परिकहेह ।। वृ-स्थविरागीतार्था पृष्टा अपृष्टा वा 'अमुकत्रवयं गमिष्यामः' इत्युक्त्वाइदं भणन्ति-वयमिह ग्रामे भिक्षां करिष्यामः, ततः स्थापनादिगृहाणि परिकथत, आदिशब्दोमामाकादिकुलसूचकः।। ततस्तेषु कथितेषु यो विधि कर्तव्यस्तमाह[भा.२२१०] सामायारिकडा खलु, होइ अवड्डेय एगसाहीय। सीउण्हं पढमादी, पुरतो समगंवजयणाए॥ वृ-हे आर्या! कृतसामाचारीका यूयम् ? उतन? इति तासां समीपे प्रष्टव्यम् । “अवढे" त्ति एकस्मिन्ग्रामा॰ संयताः पर्यटन्ति द्वितीयस्मिन्संयत्यः । “एगसाहीय"त्तिएकस्यांसाहिकायांगृहपङ्तयां साधवः पर्यटन्ति द्वितीयस्यां साध्व्य इति । यद्वा शीतमुष्णं वा यथायोगं गृहन्ति । तथा “पढमाइ"तिप्रथमालिकम्आदिशब्दात् पानकस्य वापानंशून्यगृहादिस्थानानिवर्जयित्वा कुर्वन्ति । संयतीनां 'पुरतः प्रथमंसमकं वा यतनयापर्यटन्ति । एव नियुक्तिगाथासमासार्थः॥ अथ विस्तरार्थं प्रतिपदमाह[भा.२२११] कडमकड त्तिय मेरा, कडमेरा भित्ति बितिजइ पुट्ठा। ताहे भणंतिथेरा, साहह कह गिहिमो भिक्खं ॥ कृ-स्थविरैस्ताःप्रष्टव्याः-आर्या! युष्माभिः 'मर्यादा' सामाचारी'कृता शिक्षिता? उतअकृता? इति पृथा यदि ब्रुवते-‘कृतमर्यादा वयं कृतसामाचारीकाः, विधिंजानीम इत्यर्थः। ततः स्थविरा Page #38 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं - १०, [भा. २२११] भणन्ति- कथयत कथं भिक्षां गृह्णीमो वयम् ? ॥ [भा. २२१२] ता बेंति अम्ह पुण्णो, मासो वच्चामु अहव खमणं णे । संपत्थियाउ अम्हे, पविसह वा जा बयं नीमो ॥ वृ-ता आर्यिका ब्रुवते-पूर्णोऽस्माकं मासकल्पः, अतः सूत्रार्थपौरुष्यो कृत्वा व्रजामो वयम्, साधवो यथासुखं पर्यटन्तु । अथ न क्षपणं ततस्ता ब्रूयुः- सम्प्रस्थिता वयं भिक्षाटनार्थम्, यूयं पश्चात् पर्यटत । अथवा-'प्रविशत' भिक्षामवतरत यूयं यावद् वयं निर्गच्छाम इति ।। यदा च तासां क्षपणं भवति तदा ब्रूयुः[भा. २२१३] विच्छिन्नो य पुरहडो, अंतो भूमी य ने वियारस्स । ३५ सागारिओ व सन्नी, कुणइ अ सारक्खणं अम्हं ।। वृ- विस्तीर्णं पुरोहडं वर्त्तते, गाथायां प्राकृतत्वात् पुंस्त्वनिर्देशः, “ने” अस्माकम् ‘अन्तः' ग्राममध्ये विचारभूमिरस्ति, यश्चास्माकं सागारिकः सः 'संज्ञी' श्रावकस्ततः संरक्षणमस्माकं करोति, बहिर्विचारभुवं गन्तुं न ददातीत्यर्थः । एवं संयतीभिरुक्ते साधवस्तत्र यथासुखं पर्यटन्ति । अथ ताभिः पूर्वं क्षपणं न कृतं ततो यदि सुभिक्षं वर्त्तते प्रचुरं च प्राप्यते ततः संयत्यः क्षपणं कुर्वन्तु । अपि च यद्यपि तासां साधुभ्यो भक्त पानं प्रदातुं न कल्पते तथापयेवं कुर्वन्तीभिस्ताभि प्राघुण्यं कृतं भवति । अथ न शक्नुवन्ति क्षपणं कर्तुं ततः संयत्यः प्रागेव पर्यटन्त्यो दोषान्नं गृह्णन्ति संयता भिक्षाया देशकाले उष्णं गृह्णन्ति । अथ संयतीनां दोषान्नमकारं ततः संयता दोषान्नमितराः पुनरुष्णं गृह्णन्ति ॥ [भा. २२१४] उभयस्सऽ कारगम्मी, दोसीणे अहव तस्स असईए । संथ भणति तुम्हे, अडिएसु वयं अडीहामो ॥ वृ- 'उभयस्य' संयती-संयतवर्गस्य दोषान्ने दोषान्ने अकारके अथवा 'तस्य' दोषान्नस्य 'असति' अभावे संस्तरणे सति संयत्यो भणन्ति-यूयं तावदटत ततो युष्मासु अटितेषु वयमटिष्यामः ॥ अथैक एव तत्रदेश-कालस्ततः क्रमेण पर्यटने वेलाया अतिक्रमो भवति ततः किं कर्त्तव्यम्? इत्याह [भा. २२१५] तुभे भिक्खं, इमम्मि पउरन्न-पाण गामद्धे । वाड साहीए वा, अम्हे सेसेसु घेच्छामो ॥ वृ- संयत्यो ब्रुवते - यूयं गृह्णीत भिक्षामस्मिन् प्रचुरान्नपानस्य ग्रामस्यार्थे, अस्मिस्तु ग्रामार्द्धे वयं ग्रहीष्यामः; यद्वा-अस्मिन् पाटकेऽस्यां वा साहिकायां यूयं गृह्णीत वंय शेषेषु ग्रहीष्याम इति ।। [भा. २२१६] ओली निवेसने वा, वज्जेत्तु अडंति जत्थ व पविट्ठा । न य वंदनं न नमनं, न य संभासो न वि य दिट्ठी ॥ - "ओलि त्ति ग्रामगृहाणामेका पङ्क्ति, निवेशनं एकनिष्क्रमण-प्रवेशानि द्व्यादीनि गृहाणि, ततो यस्यां पङ्क्तौ निवेशने वा संयत्यः पर्यटन्ति तां वर्जयित्वा अन्यस्यां पङ्क्तावन्यस्मिन् वा निवेशने संयताभिक्षामटन्ति । अथ लघुतरोऽसौ ग्रामस्ततः पङ्क्त्यादिविभागो न शक्यते कर्त्तु ततो यत्र गृहादौ प्रविष्टा रथ्यायां वा गच्छन्त एकत्र मिलन्ति तत्र 'न च' नैव 'वन्दनं' कृतिकर्म न वा 'नमनं' शिर-प्रणाममात्रं न च 'सम्भाषः' परस्परालापो नापि च 'दृष्टिः' सम्मुखमवलोकनम्, Page #39 -------------------------------------------------------------------------- ________________ बृहत्कल्प-छेदसूत्रम् -२-१/१० मा प्रापत् पूर्वोक्तशङ्कादिदोषप्रसङ्ग इति ।। [भा.२२१७] पुव्वभणिए य ठाणे, सुन्नोगादी चरंति वजेता । पढम-विइयातुरावा, जयमा आइन्न धुवकम्मी ॥ वृ- 'पूर्वभणितानि च' शङ्काविषयभूतानि शून्यौकः-शून्यगृहं तदादीनि स्थानानि दूरेण वर्जयन्तश्चरन्ति, प्रथम-द्वितीयपरीषहातुरा वा यतनया जनाकीर्णे 'ध्रुवकर्मिका वा' काष्ठसूत्रधारादयो यत्र पश्यन्ति तत्र प्रथमालिकां द्रवपानं वा कुर्वन्ति ।। एवं संयतीक्षेत्रे साधूनामागतानां विधिरुक्तः । अथोभयेषु पूर्वस्थितेषूभयेषामेवागमने विधिमाह[भा.२२१८] दोन्नि वि ससंजईया, एगग्गामम्मि कारणेण ठिया। तासिंच तुच्छयाए, असंखडं तत्थिमा जयणा ॥ वृ-'द्वयेऽपि' वस्तव्याआगन्तुकाश्च साधवो यदि ससंयतीका एकस्मिन्ग्रामे कारणेन स्थिताः, 'तासांच' संयतीनां तुच्छतया यद्यसङ्खडमुपजायते तत्र 'इयं' वक्ष्यमाणा यतना॥ आह तिष्ठतु तावद् यतना, कथं पुनस्तासामसङ्खडमुत्पन्नम् ? इति तावद् वयं जिज्ञासामहे, उच्यतेताभिवस्तिव्यसंयतीभिरागन्तुकसंयत्यः पृष्टाः-आर्या ! किं यूयं यच्छया भक्त-पानं लभध्वे न वा? इति, ताः प्राहु:[भा.२२१९] चुण्णाइ-विंटलकए, गरहियसंथवकए य तुब्भाहिं । ताइँ अजाणंतीओ, फव्वीहामो कहं अम्हे ।। वृ-चूर्णं-वशीकरणादिफलं द्रव्यसंयोगरूपंतेन आदिशब्दाद्ज्योतिष-निमित्तादिनाचविण्टलेन कृते-भाविते, तथा गर्हितः-पूर्व-पश्चात्सम्बन्धरूपोयः संस्तवः-परिचयस्तेन वा कृते-भावितेयुष्माभिः क्षेत्रे 'तानि' चूर्णादीनि कर्तुमजानानाः कथं वयमत्र “फव्वीहामो"त्ति यच्छया भक्त-पानं लभामहे ? ॥ वास्तव्यसंयत्यः प्रतिब्रुवते[भा.२२२०] सेसामुमानेन परंजनोऽयं, ठावेइ दोसेसु गुणेसु चेव । पावस्स लोगो पडिहाइ पावो, कल्लाणकारिस्स य साहुकारी ॥ वृ-'स्वेन' स्वकीयेनानुमानेन ‘परम्' अन्यम् आत्मव्यतिरिक्तम् ‘अयं' प्रत्यक्षोपलभ्यमानो जनो दोषेषु गुणेषु च स्थापयति, अविद्यमानानामपितेषां तत्राध्यारोपंकरोतीति भावः । एतदेव व्यक्तीकरोति-पापस्य' पापकर्मकारिणो जनस्यलोकः सर्वोऽपि पापःप्रतिभाति, कल्याणकारिणः पुनः सर्वोऽपि साधुकारी ॥ ततश्च[भा.२२२१] नूनं न तं वट्टइ जंपुरा भे, इमम्मि खेत्ते जइभावियम्मि । अवयवच्चाण जतो करेहा, अम्हाववायं अइपंडियाओ॥ वृ-'नूनं निश्चितं यत् कुण्टल-विण्टलं पुरा “मे” भवत्यः कृतवत्यस्तदत्र क्षेत्रे यतिभावितेन वर्तते कर्तुम् । कुत एतद् ज्ञायते यद् वयं कुण्टल-वेण्टलं कृतवत्यः ? इति चेद् अत आह'अपेतवाच्यानां वचनीयतारहितानांयतएवं यूयम् 'अतिपण्डिताः' अतीवादुर्विदग्धाअस्माकम् 'अपवादम्' असद्दोषोद्धोषणं कुरुथ ॥ इत्थमसङ्खडे उत्पन्ने किं कर्तव्यम् ? इत्याह[भा.२२२२] तत्थेव अनुवसंते, गणिणीइ कहिति तह वि हु अठंते। ___ गमहारीण कहेंती, सगाण गंतूण गणिणीओ॥ hal Page #40 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं - १०, [भा. २२२२] ३७ बृ- यदि तत्रैव परस्परमुपशान्तं तदसङ्घडं ततः सुन्दरमेव । अध नोपशान्तं ततः 'गणिन्याः ' स्वस्याः स्वस्याः प्रवर्त्तिन्याः कथयन्ति । यदि न कथयन्ति ततश्चतुर्गुरवः । ततस्ते प्रवर्त्तिन्यौ मधुरया गिरा प्रज्ञाप्योपशमयतः । तथापि 'अतिष्ठति' अनुपरते 'द्वे अपि' गणिन्यौ गत्वा स्वेषां स्वेषां गणधारिणां कथयतः । यदि न कथयतस्ततश्चत्वारो गुरुकाः ॥ ततः प्रवर्त्तिन्या कथिते गणधरेण किं विधेयम् ? इत्यत आह [भा. २२२३] उप्पन्ने अहिगरणे, गणाहारिनिवेदनं तु कायव्वं । जइ अप्पणा भणेज्जा, चाउम्मासा भवे गुरुगा ।। वृ- 'अधिकरणे' असा डे उत्पन्ने सति प्रवर्त्तिनीमुखादाकर्ण्य तेन गणधरेण द्वितीयस्य गणधारिणो निवेदनं कर्त्तव्यम् । यदि स गणधर आत्मनैव गत्वा द्वितीयगणधरसत्कां व्रतिनीं 'भणेत्' उपालम्भेत ततश्चतुर्मासा गुरुका भवेयुः ॥ [भा.२२२४] वतिणी वतिणि वतिणी, व परगुरुं परगुरू व जइ वइणिं । जंप ती वि गुरुगा, तम्हा सगुरूण साहेज्जा ॥ वृ-यदि व्रतिनी व्रतिनीं 'जल्पति' उपालभते, व्रतिनी वा यदि 'परगुरुम्' अन्यसंयतीगणधरं जल्पति, परगुरुर्वा यदि व्रतिनीं जल्पति तत एतेषु त्रिष्वपि चतुर्गुरुकाः, तस्मात् स्वगुरूणां कथयेत्, उपलक्षणत्वात् स्वव्रतिनीं चोपालम्भेत ॥ अथ परव्रतिनीमुपालम्भमानस्य को दोषः स्यात् ? इत्यत्रोच्यते [ भा. २२२५] जाणामि दूमियं भे, अगं अरुयम्मि जत्थ अक्कंता । को वा एअं न मुणइ, वारेहिह कित्तिया वा वि ।। वृ-सा परव्रतिनी भण्यमाना ब्रूयात्-जानाम्यहं यद् दूनं भवतामङ्गम्, 'यत्र' यस्मिन् 'अरुषि' व्रणे युष्मदीयसंयतीं प्रतिब्रुवाणया मया यूयमाक्रान्ता, को वा एनमर्थं न जानाति ? कियतो वा ब्रुवतो निवारयिष्यथ ? यद्यहंवारिता सती न जल्पिष्यामि तर्ह्यन्येऽपि जल्पिष्यन्तीति ॥ अपि च [ भा. २२२६] निग्गंधं न वि वायइ, अलाहि किं वा वि तेण भणिएणं । छाएउं च पभायं, न वि सक्का पडसएणावि ॥ वृ- नहि निर्गन्धं वायुर्वाति, किन्तु या शस्य वनखण्डादेर्मध्येन समायाति ताद्दग्गन्धसहित एव, एवं भवतामप्यस्या उपरि य ईशः पक्षपातः सन निसम्बन्ध इति भावः । अथवा "अलाहि"त्ति अलमनेन वचनेनाभिहितेन, मर्मानुवेधित्वात् । किं वा तेन भणितेन कार्यम् ? यतः प्रभातं सञ्जातं सद् न पटशतेनापि च्छादयितुं शक्यम् । इत्थं तन्मुखाद् निर्गते असद्भूतार्थेऽपि दूषणे जले पतिते इव तैलबिन्दौ सर्वतः प्रसर्पत सूरीणां महान् छायाघातो जायते, स च तत्त्वत आत्मकृत एवेति । अत्र दृष्टान्तमाह[भा. २२२७] मज्झत्थं अच्छंतं, सीहं गंतूण जो विबोहेइ । अप्पवहाए होई, वेयालो चेव दुज़ुत्तो वृ- 'मध्यस्थम्' उदीसीनं तिष्ठन्तं सिंहं गत्वा उपेत्य यः कश्चिद् 'विबोधयति' विशेषेणपार्ष्णिप्रहारादिना बोधयति स विबोधितः सन् तस्यात्मवधाय भवति । वेताल इव वा दुष्प्रयुक्तो यथा साधकमेवोपहन्ति, एवमियमप्याचार्येण प्रबोधिता सती तस्यैव च्छायाघातमुपजनयति ॥ Page #41 -------------------------------------------------------------------------- ________________ ३८ बृहत्कल्प-छेदसूत्रम् -२-१/१० यतश्चैवमतः[भा.२२२८] उप्पन्ने अहिगरणे, गणहारि पवत्तिणिं निवारेइ । अह तत्थ न वारेई, चाउम्मासा भवे गुरुगा। वृ-उत्पन्नेऽधिकरणे गणधारीप्रवर्तिनी निवारयति।अथ तत्रगणधारीनवारयति ततश्चतुर्मासा गुरुका भवेयुः । अतो गणधरौ द्वावपि मिलित्वा संयतीप्रतिश्रयं गत्वा प्रवर्तिनी पुरतः कृत्वा स्वस्वसंयतीरुपशमतः ॥ तत्र वास्तव्यसंयत्य इत्थमुपशाम्यन्ते[भा.२२२९] पाहुन्नं ताण कयं, असंखडं देह तो अलज्जाओ। पव्वट्ठिय इय अजा, उवालभंताऽनुसासंति॥ वृ-'प्राघुण्यम्' आतिथ्यं 'तासाम्' आगन्तुकसंयतीनांशोभनं कृतम्यदेवमलज्जाः सत्योऽसङ्खडं 'दत्थ' कुरुथ । पूर्वस्थिता आचार्या स्वकीया आर्या उपालभमानाः ‘इति’ एवमनुशासते।। आगन्तुकसंयतीनामुपशमनोपायः पुनरयम्[भा.२२३०] एगंतासिं खेत्तं, मलेह बिइयं असंखडं देह । आगंतू इय दोसं, झवंति तिक्खाइ-महुरेहिं ।। वृ-एकंतावत् ‘तासां' वास्तव्यसंयतीनां सत्कं क्षेत्रं मलयथ' विनाशयथ, द्वितीयंपुनरसङ्खडं 'दत्य गुरुथ। आगन्तुका आचार्या इति' एवं 'दोषम् अधिकरणलक्षणंतीक्ष्ण-मधुरादिभिर्वचनैः "झवंति"त्ति विध्यापयन्ति, उपशमयन्तीति यावत् । ततश्च[भा.२२३१] अवराह तुलेऊणं, पुव्ववरद्धं च गणधरा मिलिया। बोहित्तुमसागारिए, दिति विसोहिं खमावेउं ।। वृ-द्वावपिगणधरौ मिलितावपराधं 'तोलयित्वा' यस्या यावानपराधस्तंपरस्परसंवादेन सम्यग् निश्चित्यया पूर्वापराद्धा-पूर्वमपराद्धं यया सा तथा ताम् ‘असागारिके' एकान्ते बोधयित्वा ततो द्वितीयां तस्याः पाश्रवात् क्षमापयतः । क्षमापयित्वा चोभयोरपि यथोचितां 'विशोधि' प्रायश्चित्तं प्रयच्छत इति । गतः प्रथमो भङ्गः। अथ द्वितीयं भङ्गं बिभावयिषुराह[भा.२२३२] अभिनिदुवारऽभिनिक्खमणपवेसे एगवगडि ते चेव। जं इत्थं नाणत्तं, तमहं वोच्छं समासेणं ॥ वृ-द्वितीयभङ्गो नाम यद् ग्रामादिकम् अभिनिद्वरम्-अनेकद्वारम् अत एवाभिनिष्क्रम-प्रवेशं परमेकवगडं तत्रत एव दोषा भवन्तियेप्रथमभङ्गे प्रोक्ताः । यत् पुनः ‘अत्र' द्वितीयभङ्गे नानात्वं तदहं वक्ष्ये समासेन ॥ प्रतिज्ञातमेव निर्वाहयति[भा.२२३३] तह चेव अन्नहा वा, वि आगया ठंति संजईखेत्ते। भोइयनाए भयमा, सेसंतंचेविमं चऽनं ॥ वृ-'तथैव' “सोऊणयसमुदाणंगच्छंआनित्तु देउले ठाइ।" इत्यादिना प्रथमभङ्गोक्तप्रकारेणव अन्यथा वा संयतीक्षेत्रेआगताः सन्तस्तिष्ठन्ति।तत्रच स्थितानां तेषां भोगिकज्ञाते भजना कार्या, यदि संयतीनां विचारभूम्यादिमार्गे स्थितास्ततो भवति भोगिकज्ञातम् अन्यथा तु न भवतीति भावः । शेषं' सर्वमपि प्रायश्चित्तादि 'तदेव' प्रथमभङ्गोक्तं ज्ञातव्यम् । इदं च ‘अन्यद्' अभ्यधिक-द्वारकदम्बकमभिधीयते ॥ Page #42 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं- १०, [भा. २२३४] [ भा. २२३४] एगा व होज साही, दाराणि व होज्ज सपsिहुत्ताणि । पासे व मग्गओ वा, उच्चे नीए व धम्मका ॥ ३९ वृ-तत्रानेकद्वारे एकवगडे ग्रामादौ साधु-साध्वीप्रतिश्रययोरेका वा 'साहिका' गृहपङ्क्तिर्भवेत्। द्वाराणि वा परस्परं 'सप्रतिमुखानि' अभिमुखानि भवेयुः । अथवा साध्वीप्रतिश्रयस्य पार्श्वतो वा मार्गतो वा उच्चे वा नीचे वा स्थाने स्थिता भवेयुः । तत्र च स्थितानां धर्मकथां कोऽप्यशुभेन भावेन कुर्यादिति नियुक्तिगाथासङ्क्षेपार्थः । अथ विस्तरार्थमाह [भा. २२३५] वइअंतरियाणं खलु, दोण्ह वि वग्गाण गरहिओ वासो । आलावे संलावे, चरित्तसंभेइणी विकहा ॥ वृ- एकस्यां साहिकायां वृत्या अन्तरितयोः संयत-संयतीरूपयोर्द्वयोरपि वर्गयोरेकत्र वासः ‘गर्हितः’निन्दितः, तीर्थकरैः प्रतिक्रुष्ट इत्यर्थः । यतस्तत्र संयत-संयत्योः कायिक्यादिव्युत्सर्जनार्थं निर्गतयोः परस्परम् 'आलापे' सकृज्जल्पे 'संलापे' पुनः पुनः सम्भाषणे सञ्जाते सति चारित्रसम्भेदिनी विकथा वक्ष्यमाणरीत्या भवेत् ।। अथैकसाहिकायामेव दोषानाहउभयेगयरट्ठाए, व निग्गया दट्टु एकमेकं तु । संका निरोहमादी, पबंध आतोभया वाऽऽसु ।। [भा.२२३६] वृ- उभयं-संज्ञा- कायिकीरूपं तस्य एकतरस्य वा व्युत्सर्जनार्थं निर्गतयोः संयती-संयतयोरेकैकं दृष्ट्वा शङ्का भवति । तथाहि-संयतः कायिक्यादिव्युत्सर्जनार्थं निर्गतः संयतीं दृष्ट्वा प्रतिनिवृत्तः, पुनरपि कायिकी -संज्ञाभ्यामुद्बाध्यमानो निर्गतः, ततः संयती तं दृष्ट्वा शङ्का करोति नूनमेष मां कामयते; एवं संयतस्यापि संयतीं प्रविशन्तीं पौनःपुन्येन प्रविशति निर्गच्छति च तन्नूनमेनामेनं वा अभिलषतीति । निरोधो वा कायिकी -संज्ञयोर्भवेत् । आदिशब्दादनागाढपरितापनादिपरिग्रहः । कथाप्रबन्धो वा वक्ष्यमाणलक्षणो भवेत् । ततश्चात्मसमुत्थेन उभयसमुत्थेन वा वाशब्दात् परसमुत्थेन वादोषेण 'आशु' क्षिप्रं संयमविराधना भवेत् ॥ कुमारप्रव्रजितस्य वा इत्थं कौतुकमुपजायते[भा. २२३७] परसामि ताव छिद्दं, वन्न पमाणं व ताव से दच्छं । इति छिड्डेहि कुमारा, झायंती कोउहल्लेणं ॥ वृ- पश्यामि तावत् किमपि च्छिद्रम् येन 'वर्णं' गौरत्वादिकं 'प्रमाणं वा' शरीरोच्छ्रयरूपं “से” तस्याः-विवक्षितसंयत्याः सत्कं तावदहं द्रक्ष्यामि इति कृत्वा च्छिद्रैः 'कुमाराः' अभुक्तभोगिनः कुतूहलेन 'ध्यायन्ति' अवलोकन्ते, ततस्तेषां प्रतिगमनादयो दोषाः ॥ कथाप्रबन्धं व्याख्यानयति[भा. २२३८ ] दुब्बलपुच्छेगयरे, खमणं कं तं ति मोहभेसज्जं । तह वि य वारियवामो, बलियतरं बाहए मोहो । वृ- 'एकतरः ' संयतः संयती वा दुर्बलो भवेत् । तत्र संयतं संयती पृच्छति-किमेवं दुर्बलोऽसि ? स ब्रूते - क्षपणं करोमि । तत्र संयती प्राह- 'किं' किमर्थं 'तत्' क्षपणं ज्येष्ठार्येण क्रियते । संयतः प्राह- 'मोहभैषज्यं' मोहचिकित्सनार्थमौषधमिदमासेव्यते तथाप्यसौ मोहो वारितः सन् वामःप्रतिकूलो वारितवामः 'बलिकतरम्' अतिशयेन मां बाधते ॥ संयती प्रतिवक्ति [भा. २२३९] मूलतिगिच्छं न कुणह, न हु तण्हा छिजए विना तोयं । अम्हे वि वेयणाओ, खइया एआ न वि पसंतो ।। Page #43 -------------------------------------------------------------------------- ________________ बृहत्कल्प - छेदसूत्रम् -२-१/१० वृ- मूलचिकित्सां यूयं न कुरुथ, नहि तृष्णा 'तोयम्' उदकं विना छिद्यते, अस्माभिरपि 'एताः ' एवंविधाः क्षपणप्रभृतिका वेदनाः 'खादिताः' असकृदासेविताः परं तथाप्यसौ मोहो न प्रशान्तः ॥ [भा. २२४० ] मोहग्गिआहुइनिभाहि ईय वायाहि अहियवायाहिं । धंतं पि धइसमत्था, चलंति किमु दुब्बलधिईया || वृ-मोहाग्नेः 'आहुतिनिभाभि' घृतादिप्रक्षेपकल्पाभि 'इति' एतादृग्भिर्वाग्भिः अधिकम्-अत्यर्थम् अहिते वा नरकादौ पातयन्तीति अधिकपाता अहितपाता वा ताभि एवंविधाभि "धंतं पि"त्ति अतिशयेनापि ये धृतिसमर्थास्तेऽपि 'चलन्ति' क्षुभ्यन्ति, किं पुनः 'धृतिदुर्बलाः' तथाविधमानसावष्टम्भविकलाः ? । एवं संयतीमपि दुर्बलां प्रतीत्येदमेव वक्तव्यम् ॥ ४० गतमेका साहिकेति द्वारम् । अथ सप्रतिमुखानि द्वाराणीति द्वारमाह[भा. २२४१] सपडिदुवारे उवस्सए, निग्गंधीणं न कप्पई वासो । दहूण एकमेकं चरित्तभासुंडणा सज्जो ॥ वृ- 'सप्रतिद्वारे' अभिमुखद्वारयुक्ते निर्ग्रन्थीनामुपाश्रये विद्यामाने साधूना न कल्पते वासः । यदि वसन्ति ततस्तत्राभिमुखद्वारयोरुपाश्रययोः 'एकैकम्' अन्योऽन्यं दृष्ट्वा चारित्रभ्रंशना संयतीसंयतयोः 'सद्यः' तत्क्षणादेवोपजायते । किञ्च [भा. २२४२] घम्मम्मि पवायट्ठा, नितां दट्टु परोप्ररं दो वि । लज्जा विसंति निंति य, संका य निरिक्खणे अहियं ॥ वृ- ग्रीष्मकाले " धम्मम्मि 'त्ति विभक्तिव्यत्ययद् घर्मेणोद्बाध्यमानः संयतः प्रवातार्थं बहिर्निर्गच्छति, संयत्येवं निर्गच्छति । ततो द्वावपि परस्परं दृष्ट्वा लज्जया भूयः प्रविशतः, ततः संयतः प्रविष्ट इति कृत्वा संयती भूयोऽपि निर्गच्छति, एवं संयतोऽपि । तत एवं द्वितीयं तृतीयं वा वारं निर्गच्छतोः प्रविशतोश्च शङ्का भवति नूनमेष एषा वा मामभिधारयति । एकाग्रया च दृष्ट्या निरीक्षणेऽधिकं शङ्का भवेत् ॥ [भा. २२४३] वीसत्थऽवाउडऽन्नोन्नदंसणे होइ लज्जवोच्छेदो । ते चेव तत्थ दोसा, आलावुल्लावमादीया ॥ वृ- अभिमुखद्वारप्रयुक्तयोरुपाश्रययोः विश्वस्ती सन्तौ संयती-संयतौ कदाचिदपावृतौ भवतः । तत एवमन्योन्यदर्शने लज्जाया व्यवच्छेदो भवति । ततश्च तत्रालापोल्लापादयो दोषास्त एव मन्तव्याः ॥ गतं द्वाराणि वा सप्रतिमुखानीति द्वारम् । अथ पार्श्वतो वा मार्गतो वेति द्वारं भावयति [ भा. २२४४] एमेव य एक्कतरे, ठियाण पासम्मि मग्गओ वा वि । वइअंतर एगनिवेसणे य दोसा उ पुव्वुत्ता ॥ वृ- एवमेव संयतीप्रतिश्रयस्यैकतरस्मिन् पार्श्वे 'मार्गतो वा' पृष्ठतो वृत्यन्तरे एकस्मिन् निवेशने वा स्थितानां दोषाः 'पूर्वोक्ताः एव' आलाप-संलापादयो मन्तव्याः ॥ अथोच्च-नीचद्वारं भावयति [भा. २२४५ ] उच्चे नीए व ठिआ, दट्टू परोप्परं दुवग्गा वि । संका व सईकरणं, चरितभासुंडणा चयई । वृ- उच्चे नीचे वा स्थाने स्थितौ 'द्वावपि वर्गों' साधु-साध्वीलक्षणौ भवेताम्, तत्र साधुः साध्वी Page #44 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं - १०, [भा. २२४५] वा परस्परं दृष्ट्वा 'किमेष मामभिधारयति ?' इति शङ्का वा कुर्यात्, स्मृतिकरणं वा भुक्तभोगिनाम्, चारित्रस्य वा भ्रंशना ब्रह्मव्रतविराधनया भवेत्, “चयइ"त्ति सर्वथैव वा संयमं त्यजति, अवधावनं कुर्यादित्यर्थः । इदमेवोच्च-नीचपदद्वयं व्याचष्टे [भा. २२४६ ] माले सभावओ वा, उच्चम्मि ठिओ निरिक्खई हेट्टं । बेव निवन्नवा, तत्थ इमं होइ पच्छित्तं ॥ वृ- कदाचित् ते संयताः 'माले' द्वितीयभूमिकादौ स्वभावतो वा उच्चे देवकुलादौ स्थिता भवेयुः, संयत्यस्तु तद्विपरीते नीचे, ततोऽसौ तत्रोर्द्धवस्थित उपविष्टो वा 'निपन्नो वा' त्वग्वर्त्तित इत्यर्थः यदि संयतीमधस्ताद् निरीक्षते, तत्रेदं प्रायश्चित्तं भवति ॥ [भा. २२४७] संतर निरंतरं वा, निरिक्खमाणे सई पकामं वा । काल- तवेहि विसिट्ठो, भिन्नो मासो तुयट्टम्मि ॥ वृ- 'सान्तरं नाम' यद् विण्टिकया हस्तादिना वा उच्चो भूत्वा शिरः शरीरं वा उच्चैस्तरं कृत्वा पश्यति । 'निरन्तरं नाम' विण्टिकादिकं विना स्वभावस्थ एव प्रेक्षते । तत्र त्वग्वर्त्तितः सन् निरन्तरं 'सकृद्' एकवारं संयतीं पश्यति भिन्नमासो द्वाभ्यामपि तपः- कालाभ्यां लघुः । त्वग्वर्त्तित एव निरन्तरं ‘प्रक्रामम्' असकृत्प्रेक्षते भिन्नो मासः कालगुरुस्तपोलघुः । अथ स्वभावस्थः प्रेक्षमाणस्तां न पश्यति ततः ‘सान्तरं' विण्टिकामन्यद्वा किञ्चिदुच्छीर्षके कृत्वा सकृत् पश्यति भिन्नो मासस्तपोगुरु काललघुः । सान्तरमेव प्रक्रामं प्रेक्षते भिन्नो मासो द्वाभ्यामपि तपः कालाभ्यां गुरुकः । एवं त्वग्वर्त्तनं कुर्वाणस्य भणितम् ॥ [भा.२२४८] एसेव गुरु निविट्टे, ट्ठियम्मि मासो लहू उ भिक्खुस्स । एक्केक ठाण वुड्डी, चउगुरुअंतं च आयरिए ॥ ४१ - वृ- निविष्टो नाम निषण्णस्तस्यापि प्रेक्षमाणस्य एष एव निरन्तर - सान्तरादिकोऽभिलापो वक्तव्यः, नवरं प्रायश्चित्तं स एव भिन्नमासो गुरुकश्चतुर्ष्वपि स्थानेषु तपः कालविशेषितस्तथैव कार्य। स्थितो नाम ऊर्द्धस्थस्तस्याप्येवमेवाभिलापः, नवरं प्रायश्चित्तं लघुमासस्तपः कालविशेषितः । एवं भिक्षोः प्रायश्चित्तमुक्तम्, वृषभोपाध्यायाचार्याणां यथाक्रममेकैकस्थानवृद्धि कर्त्तव्या यावदाचार्यस्य चतुर्गुरुकम् । तद्यथा-वृषभस्य गुरुभिन्नमासादारब्धं गुरुमासे, उपाध्यायस्य मासलघुकादारब्धं चतुर्लघुके, आचार्यस्य गुरुमासिकादारब्धं चतुर्गुरुके निष्ठामुपयातीति ।। एष प्रथम आदेशः । अथ द्वितीयमाह [भा. २२४९] दोहि वि रिय सकामं, पकाम दोहिं पि पेक्खई जो उ । चउरो य अनुग्घाया, दोहि वि चरिमस्स दोहि गुरु ।। बृ- "दोहि वित्ति द्वाभ्यामपि नयनाभ्यां यन्निरीक्षते तदरहितम्, रहितं तु यदेकेन लोचनेन निरीक्षते । एतदुभयमपि प्रत्येकं द्विधा - सकामं प्रकामं च । तत्र सकाममेकशः प्रकाममनेकशः । "दोहिं पि पेक्खई जो उ"त्ति द्वाभ्यामपि रहिता -ऽरहिताभ्यां सकाम- प्रकामाभ्यां वा यः प्रेक्षते तस्य चत्वारो मासा अनुद्धाताः 'द्वाभ्यामपि ' तपः- कालाभ्यां विशेषिताः प्रायश्चित्तम् । 'चरमस्य' चतुर्थभङ्गवर्तिनः 'द्वाभ्यामपि' तपः- कालाभ्यां गुरुकाः कर्त्तव्याः । एष नियुक्तिगाथासमासार्थः ।। अथास्या एव भाष्यकृद् व्याख्यानमाह Page #45 -------------------------------------------------------------------------- ________________ ४२ [भा. २२५० ] पायठिओ दोहि नयणेहि पिच्छईरहिय मोत्तु एक्केणं । तं पुन सई सकामं, निरंतरं होइ उ पकामं ।। बृहत्कल्प - छेदसूत्रम् -२-१/१० वृ- पादाभ्यां भुवि स्थितो द्वाभ्यां नयनाभ्यां यत् प्रेक्षते तदरहितम्, यत् पुनरेकेन नयनेन 'मुक्त्वा ' परित्यज्य निरीक्षते तद् रहितम् । 'तत् पुनः' उभयमपि 'सकृद्' एकवारं निरीक्षणं सकामम्, 'निरन्तरम्' अनेकशस्तदेव प्रकामं भवति ॥ [भा.२२५१] अहवण समतलपादो, दोहि वि रहिअं तु अग्गपाएहिं । इट्टालादी विरहं, एक्केक्क सकामग पकामं ॥ वृ- "अहवण” त्ति अथवा समतलपादो यद् निरीक्षते तद् अरहितम्, यत् पुनरग्रपादाभ्यां द्वाभ्यामपि स्थितो निरीक्षते तद् रहितम् । अथवा यदिट्टाल-लेष्टुकाद्यारूढः पश्यति तद् अरहितम्, तदपरं रहितम् । एतदरहितं रहितं च एकैकं सकामं प्रकामं च मन्तव्यम् ॥ अहवण उच्चावेउं, कर-विंटय-पीढगादिसुं काउं । ताई वा वि पमोत्तुं, रहियं विट्ठो पुन निसिज्जं ॥ [भा. २२५२] बृ- अथवा यदि संयता नीचैः प्रदेशे स्थिताः संयत्यस्तूच्चे ततः शिरः शरीरं वा 'उच्चयित्वा' उच्चैः कृत्य यन्निरीक्षते यद्वा करे - हस्ते विण्टिकायां पीठकादिषु वा शीर्षं कृत्वा यन्निरीक्षते तद् रहितम्; अथवा यतयः उच्चे स्थिता यतिन्यस्तु नीचे ततः करादिषु पूर्वन्यस्ते शिरसि अत्युच्चत्वादनवलोकमानो यत् 'तानि' कर - विण्टिकादीनि 'प्रमुच्य' उत्सार्य पश्यति तद् रहितम् । एतत् त्वग्वर्त्तनं कुर्वतो रहितमुक्तम् । “बिट्टो पुन निसिज्जं” ति उपविष्टः पुनर्निषद्यां मुक्त्वा यत् पश्यति तद् रहितम् । तद्विपरीतं त्रिष्वपि स्थानेष्वरहितं द्रष्टव्यम् ॥ " [भा. २२५३] दिट्ठीसंबंधो वा, दोण्ह वि रहियं तु अन्नतरगत्ते । अप्पो दोसो रहिएष गुरुकतरो उभयसंबंधे ॥ वृ- अथवा 'द्वयोरपि' संयत-संयत्योर्यो दृष्टेः दृष्टेश्च सम्बन्धस्तदरहितम् । रहितं पुनरन्यतरगात्रे निरीक्षणम् । अत्र चाल्पतरो दोषः 'रहिते' एकतरदृष्टिसम्बन्धे, अरहिते तूभयद्दष्टिसम्बन्धे गुरुकतरो दोषः ॥ अत्र प्रायश्चित्तमाह [भा. २२५४] दोहि वि अरहिय रहिए, एक्केक्क सकामए पकामे य । गुरुगा दोहि विलहुगा, लहु गुरुग तवेण दोहिं पि ॥ वृ-द्वाभ्यामपि नयनाभ्यां निरीक्षणमित्यादिकं यदनेकविधमरहितं भणितं तत्र सकामे चत्वारो गुरवः 'द्वाभ्यामपि ' तपः- कालाभ्यां लघवः, तत्रैव प्रकामे चत्वारो गुरवः तपोलघुकाः । रहिते तु सकामे चतुर्गुरुकाः तपसा गुरवः, तत्रैव प्रकामे चतुर्गुरवो द्वाभ्यामपि गुरवः । यत्तु दृष्टिसम्बन्धरूपमरहितम् अन्यतरगात्रनिरीक्षणरूपं तु रहितं व्याख्यातं तत्रैवं प्रायश्चित्तयोजना-रहिते सकामे चतुर्गुरु उभयलघुकम्, प्रकामे चतुर्गुरु कालगुरुकम्, अरहिते सकामे चतुर्गुरु तपोगुरुकम्, अरहिते प्रकामे चतुर्गुरु उभयगुरुकम् ॥ [भा. २२५५] एक्केक्काउ पयाओ, साहीमाईसु ठायमाणाणं । निक्कारणट्ठियाणं, सव्वत्थ वि अविहिए दोसा ।। वृ- अरहित-रहित-सकाम-प्रकामनिरीक्षणानामेकैकस्मात् पदात् साहिकायाम् आदिशब्दात् Page #46 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं-१०, [भा. २२५५] सप्रतिमुखद्वारेषु पुरतो वा मार्गतो वा उच्चे वा नीचे वा सर्वत्रापि निष्कारणे तिष्ठतां कारणे वा 'अविधिना' अयतनया स्थितानाममी दोषा भवेयुः ।। [भा.२२५६] दिट्ठा अवाउडा हं, भयलज्जा थद्ध होज खित्ता वा। पडिगमणादी व करे, निच्छक्काओ व आउभया॥ वृ-काचित् संयती विचारभूमौ प्राप्ता संयतमागच्छन्तं दृष्टवा चिन्तयेत्-अहो ! अहं ज्येष्ठार्येणापावृता दृष्टा, ततः सा भयेन लज्जया वा स्तब्धा क्षिप्तचित्ता वा भवेत् । यद्वा काश्चिदपावृता दृष्टाः सत्यः ‘कथममीषांपुरतः स्थास्यामः?' इति कृत्वा प्रतिगमनादीनि कुर्यु। अथवा 'दृष्टं यद् द्रष्टव्यम्' इत्यभिसन्धाय 'निच्छक्काः' निर्लज्जाः काश्चिद् भवेयुः। ततश्चात्मसमुत्थास्तदुभयसमुत्थाश्च दोषा भवन्ति । यदि वा[भा.२२५७] तासिं कक्खंतर-गुज्झदेस-कुच-उदर-ऊरुमादीए। निग्गहियइंदियस्स वि, दटुं मोहो समुज्जलति ।। वृ-'तासां’ संयतीनांकक्षान्तर-गुह्यदेश-कुचोदरोरुप्रभृतीन्अवयवान्दृष्ट्वा निगृहीतेन्द्रियस्यापि मोहः समुज्ज्वलति किं पुनरितरस्य ? इति । ततश्चामी दश कामवेगा उत्पद्यन्ते[भा.२२५८]चिंता य १ दटुंमिच्छइ २, दीहं नीससइ ३ तह जरो ४ दाहो ५। भत्तअरोयग ६मुच्छा ७, उम्मत्तो ८ न याणई ९ मरणं १०॥ वृ-'चिन्ता नाम' शोचन्नास्ते १ द्रष्टुमिच्छति २ दीर्घ निश्वासिति ३ तथा ज्वरो ४ दाहः ५ भक्तस्यारोचकः-अरुचिमूर्छा७उन्मत्तःसञ्जायते ८न जानाति किञ्चदपि ९ मरणमुपजायते १०॥ एनामेव नियुक्तिगाथां विवृणोति[भा.२२५९] पढमे सोयइ वेगे, दद्रुतं इच्छई बिइयवेगे। नीससइ तइयवेगे, आरुहइ जरो चउत्थम्मि । [भा.२२६०] डज्झइ पंचमवेगे, छटे भत्तं न रोयए वेगे। __सत्तमगम्मि य मुच्छा, अट्ठमए होउ उम्मत्तो॥ [भा.२२६१] नवमे न याणइ किंची, दसमे पाणेहि मुच्चई मनूसो। एएसिं पच्छित्तं, वोच्छामि अहानुपुव्वीए । वृ-प्रथमेशोचति वेगे-हा! कथं तय सह सम्पत्तिर्भविष्यति? इति विचिन्तयतीत्यर्थः । द्रष्टुं तां पूर्वदृष्टां पुनरपीच्छति द्वितीयवेगे २ । निश्वसिति तृतीयवेगे दीर्घान्निश्वासान् मुञ्चति ३ । आरोहतिज्वरश्चतुर्थे ४ । दह्यतेऽङ्गं पञ्चमवेगे ५। षष्ठे भक्तं न रोचते वेगे ६। सप्तमे वेगे मूर्छा ७।अष्टमे उन्मत्तो भवति । नवमे न जानाति किश्चिदपि, निश्चेष्टो भवतीत्यर्थः ९। दशमे वेगे प्राणैर्मुच्यते मनुष्यः १०। एतेषांदशानामपिवेगानां प्रायश्चित्तंयथाऽऽनुपूर्व्या वक्ष्ये अभिधास्ये॥ तदेवाह[भा.२२६२] मासो लहुओ गुरुओ, चउरो मासा हवंति लहु-गुरुगा। छम्मासा लहु-गुरुगा, छेदो मूलं तह दुगंच॥ प्रथमे वेगे लघुको मासः । द्वितीये गुरुको मासः । तृतीये चत्वारो मासा लघुकाः । चतुर्थे चत्वारो मासा गुरुकाः । पञ्चमे षण्मासा लघवः । षष्ठे षण्मासा गुरवः । सप्तमे च्छेदः । अष्टमे Page #47 -------------------------------------------------------------------------- ________________ ४४ बृहत्कल्प-छेदसूत्रम् -२-१/१० मूलम् । नवमेऽनवस्थाप्यम् । दशमे षण्मासा लघवः । षष्ठे षण्मासा गुरवः । सप्तमेच्छेदः । अष्टमे मूलम् । नवमेऽनवस्थाप्यम् । दशमे पाराञ्चिकम् ॥ [भा.२२६३] एक्कम्मि दोसु तीसुव, ओहावितेसु तत्थ आयरिओ। मूलं अणवठ्ठप्पो, पावइ पारंचियं ठाणं ।। वृ-अथ मोहोदयेनैकः ‘अवधावति' उत्प्रव्रजतितत आचार्यो मूलं प्राप्नोति, द्वयोरवधावतोरनवस्थाप्यो भवति, त्रिष्ववधावमानेषुपाराञ्चिकं स्थानं प्राप्नोति ॥ गतमुच्चनीचद्वारम् । अथ धर्मकथाद्वारमाह[भा.२२६४] धम्मकहासुणणाए, अनुरागो भिक्खसंपयाणे य। संगारे पडिसुणणा, मोक्ख रहे चेव खंडीए॥ वृ-धर्मकथायाः श्रवणेन संयत्या अनुरागः सञ्जायते । ततः स्निग्ध-मधुरभैक्षस्य सम्प्रदानं संयताय कारयति । ततः ‘सङ्गारस्य' सङ्केतस्य प्रतिश्रवणं करोति । कः पुनः सङ्केतः ? इत्याह"मोक्ख रहे चेव"त्तिअमुष्मिन् दिवसे रथो हिण्डिष्यते तत्रास्माकंरक्ष्यमाणानांमोक्षोभविष्यति। “खंडीए'त्ति खण्डी-छिण्डिका तस्या वा द्वारमुद्धाटंरात्रौ भविता, यद्वा दीर्घस्यालाक्षणिकत्वात् खण्डितं-श्रामण्यस्य खण्डना तयोः प्रतिसेवमानयोर्जायते । एष नियुक्तिगाथासमासार्थः ॥ अथैनामेव विवरीषुराह[भा.२२६५] असुभेन अहाभावेन वा विरत्तिं निसंतपडिसंते। वत्तेइ किन्नरो इव, कोई पुच्छा पभायम्मि । वृ-कोऽपिसाधुरशुभेन वाभावेन यथाभावेनवा रात्रौ निशान्तप्रतिश्रान्ते अत्यन्तभ्रमणादुपरते यद्वानिशान्तेषु-स्वेषु स्वेषुगृहेषुविश्रान्तेजने किन्नरइव मधुरया गिराधर्मकथांकाञ्चित्परिवर्तयति तद् आकर्ण्य संयत्यः प्रभाते पृच्छन्ति ॥यथा[भा.२२६६] कतरो सो जेन निसिं, कन्ना ने पूरिया व अभयस्स। सो मि अहं अज्जाओ!, आसि पुरा सुस्सरो किं वा ।। वृ-कतरोऽसौ साधुर्येन 'निशि' रात्री कर्णा "ने" अस्माकममृतस्य पूरिता इव कृताः?।स प्राह-सोऽहमस्मि आर्या ! 'पुरा' पूर्वमहं सुस्वर आसं तदपेक्षया किं वा सौस्वर्यमिदानीं मम विद्यते? ॥ यतः[भा.२२६७] रुक्खासणेण भग्गो, कंठो मे उच्चसद्दपढओ य । संथुय कुलम्मि नेह, दावेमि कए पुनो पुच्छा॥ वृ- रूक्षाशनेनोच्चशब्देन पठतश्च मे कण्ठो भग्नस्ततो नेदानी तथा सुस्वर इति । ततस्तदीयसौस्वर्येणातीवानुरञ्जिता काऽपिसंयतीप्राह-संस्तुते' भावितेकुले ‘स्नेहं' घृतादिकमहं दापयिष्यामि येन भवतां स्वरपाटवमुपजायते । ततस्तथाकृते सति ‘पुनः' भूयोऽपि तं दुर्बलं दृष्ट्वा पृच्छा कृता, यथा-ज्येष्ठार्य ! किमेवं दुर्बलो दृश्यसे? ॥ एवं च कुर्वतोस्तयोः किं भवति? इत्याह[भा.२२६८] संदंसनेन पीई, पीईउरई रईउ वीसंभो। वीसंभाओ पणओ,पंचविहं वड्डए पिम्मं ॥ Page #48 -------------------------------------------------------------------------- ________________ उद्देशकः १, मूलं-१०, [भा. २२६८] वृ-सन्दर्शनेनोभयोरपि प्रथमतः प्रीतिरुपजायते । ततः प्रीत्या ‘रति' चित्तविश्रान्ति । रतेश्च 'विश्रम्भः' विश्वासः । विश्वासाच्च मिथः कथादि कुर्वतोः 'प्रणयः' अशुभो रागो जायते । एवं ‘पञ्चविधं' पञ्चभि प्रकारैः प्रेम वर्द्धते । ततश्च स तया दुर्बल इति पृष्टो ब्रूयात्[भा.२२६९] जह जह करेस नेह, तह तह नेहो मे वड्डइ तुमम्मि । तेन नडिओ मि बलियं, जंपच्छसि दुब्बलतरो त्ति ।। वृ-यथा यथा 'करोषि' सम्पादयसि ‘स्नेहं' घृतं तथा तथा मम त्वयि स्नेहो वर्द्धते । तेन च' स्नेहेन ‘नटितः' विडम्बितोऽस्यहम् । यत्त्वं पृच्छसि दुर्बलतर इति तदेतेन हेतुनादुर्बलोऽहम्।। एवमुक्ते सा ब्रूयात्[भा.२२७०] अमुगदिने मुक्ख रहो, होहिइ दारं व वोज्झिहिइ रत्तिं । तइया ने पूरिस्सइ, उभयस्स वि इच्छियं एयं ॥ वृ-अमुष्मिन् दिने ‘रथः' रथयात्रा भविता तस्यां साधु-साध्वीजनेषु गतेष्वष्माकं रक्ष्यमाणानां मोक्षो भविष्यति, द्वारं वा छिण्डिकाया अमुकस्यां रात्रौ 'वक्ष्यते' वहमानकं भविष्यति तदा “ने" आवयोरुभयस्यापि यथेप्सितमेतत्पूरिष्यते ।।एवं सङ्केतंप्रतिश्रुत्य प्रतिसेवनां कुर्वतोस्तयोः श्रामण्यस्य खण्डनं भवति, ततश्च भग्नव्रतोऽहम्' इति कृत्वा यद्यवधावति ततः[भा.२२७१] एगम्मि दोसु तीसुव, ओहावंतेसु तत्थ आयरिओ। मूलं अणवठ्ठप्पो, पावइ पारंचियं ठाणं॥ वृ-एकस्मिन्नवधावतिमूलम्, द्वयोरनवस्थाप्यम्, त्रिष्ववधावमानेषुपारञ्चिकमाचार्य प्राप्नोति, कस्मात् ताशे क्षेत्रे स्थितः ? इति कृत्वा । द्वितीयपदे एतेष्वपि स्थानेषु तिष्ठेत् ।। कथम् ? इत्याह[भा.२२७२] अद्धाणनिग्गयाई, तिक्खुत्तो मग्गिऊण पडिलोमं । गीयत्था जयणाए, वसंति तो अभिदुवाराए। वृ-अध्वनो निर्गताःआदिशब्दादशिवादिषुवर्तमानाः सहसैवैकवगडाकमनेकद्वारं संयतीक्षेत्रं प्राप्ताः । ततस्तत्र ‘त्रिकृत्वः' त्रीन् वारान् निरुपहतां वसतिं मार्गयित्वा यदि न प्राप्नुवन्ति ततः 'प्रतिलोमं' प्रतीपक्रमेण गीतार्था यतनया 'अभिद्वारे' अनेकद्वारे संयतीक्षेत्रे वसन्ति । कः पुनः प्रतीपक्रमः ? इति चेद् उच्यते-यानि पूर्वमेकसाहिकादीनि धर्मकथापर्यन्तानि द्वाराण्युक्तानि तेषु प्रथमतो यस्यां धर्मकथाशब्दः साध्वीभि श्रूयते तस्यां वसतौ वस्तव्यम् । तत्र चेयं यतना[भा.२२७३] सिंगारवज बोले, अह एगो विजपाढऽनुच्चं च । सवादीनिब्बंधे, कहिए विन ते परिकहिंति ॥ वृ-धर्मकथां परिवर्तयन्तः शृङ्गाररसवर्ज ‘बोलेन च' वृन्देन परिवर्तयन्ति यथैकस्य कस्यापि व्यक्तः स्वरो नोपलक्ष्यते । अथान्येन सह गुणयतस्तस्य न सञ्चरति तत एकोऽपि वैद्यपाठेन गुणयति, स्वरवर्जितमिति भावः, तदपि ‘अनुच्चं' नोच्चैस्तरेण शब्देन । अथ 'सुस्वरोऽयम्' इति ज्ञात्वा श्राद्धाआदिशब्दाद् यथाभद्रकादयो वा निर्बन्धं कुर्युततो यथास्वरेणधर्मं कथयति । ततः कथितेऽपि मधुरस्वरेण धर्मे प्रभाते संयतीनां पृच्छन्तीनां न ‘ते’ साधवः परिकथयन्ति, यथाअमुकेनेत्थं धर्म कथित इति । ईश्या वसतेरलाभे उच्चे वा नीचे वा स्थातव्यम् ॥ Page #49 -------------------------------------------------------------------------- ________________ बृहत्कल्प-छेदसूत्रम् -२-१/१० तत्रेयं यतना[भा.२२७४] खढओ व चिलिमिली वा, तत्तो थेरा य उच्चनीए वा। पासे ततो न उभयं, मत्तग जयणाऽऽउल ससद्दा ।। वृ-प्रविशन्तो निर्गच्छन्तो वा यस्मिन् पार्वे परस्परं पश्यन्ति ततः कटकः वंशादिमयो घनो दीयते । अथ कटकोन प्राप्यते तदा चिलिमिली वस्त्रमयी दातव्या, स्थविराश्च ततस्तस्मिन् पार्वे तिष्ठन्ति, संयतीनां तु क्षुल्लिकाः । एवमुच्च-नीचे यतना । अथोच्च-नीचमपि न लभ्यते ततो यत्र पार्श्वतो वा मार्गतो वा प्रतिश्रयस्तत्र तिष्ठतां यतना-कायिक्यादिव्युत्सर्जनार्थं निर्गच्छन्तो यत्र परस्परं पश्येयुः 'ततः' तस्यां दिशि 'नोभयं' न संज्ञां न वा कायिकी व्युत्सृजन्ति । ताशस्य स्थण्डिलस्याप्राप्तौमात्रकेषुयतन्ते, अथवाआकुलाः सशब्दावातत्रव्रजन्ति, तदभावेसप्रतिमुखद्वारे तिष्ठन्ति ॥ तत्र चेयं यतना[भा.२२७५]पिहदारकरण अभिमुह, चिलिमिलि वेला ससद्द बहु निंति। साहीए अन्नदिसिं, निंती न य काइयं तत्तो।। वृ-यत्रद्वाराणिपरस्परमभिमुखानि तत्रान्यस्यां दिशिपृथगद्वारं कुर्वन्ति।अथन लभ्यतेऽन्यस्यां दिशि द्वारं कर्तुं ततो द्वारे चिलिमिली नित्यबद्धा स्थापनीया कटको वा अपान्तराले दातव्यः, कायिक्याः संज्ञायाश्च वेलां परस्परं स्थापयित्वा असहशवेलायां निर्गच्छन्ति, 'सशब्दाश्च' काशितादिशब्दस्वागमनसूचकं कुर्वन्तोबहवः निर्यन्ति' निर्गच्छन्ति। यत्रैका साहिका तत्रान्यस्यां दिशियस्य द्वारंतत्र प्रतिश्रयेतिष्ठन्ति । यतश्च संयतीनांप्रतिश्रयस्ततः कायिक्यान निर्गच्छन्ति, तासां वा कायिकीभूमिं न व्रजन्ति । एवं संज्ञाभूम्यामपि द्रष्टव्यम् ।। कियद्वाऽत्र मणिष्यते?[भा.२२७६] जत्थऽप्पतरा दोसा, जत्थ य जयणं तरंति काउंजे। तत्थ वसंति जयंता, अनुलोमं किं पिपडिलोमं॥ वृ-यत्रोपाश्रयेऽल्पतराः पूर्वोक्ता दोषा भवन्ति, यत्र च 'यतनां' यथोक्तां कर्तुं 'तरन्ति' शक्नुवन्ति, “जे" इति पादपूरणे, तत्रानुलोमं वा प्रतिलोमं वा किमप्येकसाहिकादिकं स्थानं प्रतीत्य यथोक्तनीत्यायतमाना वसन्ति, नात्र कोऽपिप्रतिनियमः किन्तुगीतार्थेनाल्पबहुत्ववेदिना भविव्यमिति भावः॥कथं पुनरल्पतरा दोषा भवन्ति? इति उच्यते[भा.२२७७] आय-समणीण नाउं, किढि कप्पट्ठी समाणयं वजे । बहुपाडिवेसियजनं, च खमयरं एरिसे होइ॥ वृ-आत्मनः श्रमणीनांच स्वभावं दृढधर्मत्वादिकं ज्ञात्वा तथा यतितव्यम् । “किढि कप्पट्टि" त्ति स्थविरश्रमण्यः क्षुल्लकाश्चोभयपार्श्वतः कर्तव्याः, वयसा समानां च संयती सन्दर्शनादौ दूरतोवर्जयेत् । यच्च गृहं बहुप्रतिवेशिकजनमीदशे प्रतिश्रयेऽवस्थानं 'क्षमतरम्' अतिशयेन युक्तं भवति, विजनेतु विश्वस्ततया बहशे दोषा भवेयुरिति ॥गतो द्वितीयभङ्गः । अथ तृतीयभङ्गमाह[भा.२२७८] पउमसर वियरगोवा, वाघातो तम्मि अभिनिवगडाए। तम्मि विसो चेव गमो, नवरं पुन देउले मेलो॥ वृ-तृतीयभङ्गोनामअनेकवगडाकमेकनिष्क्रमणप्रवेशंच ग्रामादि, तत्रच 'अभिनिवगडाके' Page #50 -------------------------------------------------------------------------- ________________ उद्देशकः १, मूलं-१०, [भा. २२७८] ४७ अनेकवगडे एकद्वारे च क्षेत्रे पद्मसरो वा 'विदरको वा' गर्ता व्याघातः' व्याघातकारणं भवेद् येनानेके निष्क्रमण-प्रवेशा न भवन्ति तस्मिन्नपि स एव ‘गमः' प्रकारः सर्वोऽपि ज्ञातव्यः । 'नवरं' केवलं पुनर्देवकुले ‘मीलकः' दृष्ट्यादिभिः कारणैः साधु-साध्वीनां सङ्गमो भवेत् ।। कथम् ? इत्यत आह[भा.२२७९] अंतो वियार असई, अजाण हविज्ज तइयभंगम्मि । संकिट्ठगवीयारे, व होज्ज दोसा इमं नायं ॥ वृ- अनेकवगडाके एकनिष्क्रमण-प्रवेशे च ग्रामादौ स्थितेषु साधु-साध्वीजनेषु आरियाकाणामन्तः 'तृतीयभङ्गे आपातासंलोकाख्येविचारभूमेरसत्ता भवेत्ततोबहिर्निर्गच्छन्तीनां संक्लिष्टविचारभूमर्दोषा भवेयुः । संक्लिष्टविचारभूमी नाम एकद्वारतया अन्या संज्ञाभूमिर्न विद्यते अतः संयता अपि तत्रैवायान्ति, आसन्ने वा परस्परं संज्ञाभूमी, ततश्च निर्गमने प्रवेशे वा देवकुले मेलको भवेत् । इदं चात्र 'ज्ञात' दृष्टान्त उच्यते॥ [भा.२२८०] वासस्स य आगमनं, महिला कुड नंतगेव रत्तट्ठी । देउलकोणे व तहासंपत्ती मेलणं होजा॥ वृ-कस्याश्चिद् महेलायाः कुसुम्भरक्तवस्त्रयुगलनिवसनायाः प्रथमप्रावृषि घटं गृहीत्वा जलाहरणार्थं निर्गतायाः ‘वर्षस्य' वृष्टेरागमनम्। ततोऽसौमहेला रक्तार्थिनी' रञ्जनंरक्तंकुसुम्भराग इत्यर्थः तदर्थिनी 'मा वर्षोदकेन पतता कुसुम्भरागो विलीयताम्' इति कृत्वा 'कुटे' घटे 'नंतके' वस्त्रे द्वेअपिप्रक्षिप्य स्वयमपावृतीभूय क्वापिदेवकुले प्रविष्टा । तस्य च कोणके यावदसौप्रविशति तावत्तत्र कश्चिदगारः पूर्वप्रविष्ट आसीत्तेन सा अपावृता दृष्टा, जातश्चतस्य मोहोदयः, ततस्तेन सायुक्ता, दृष्टं च तदन्यैः पुरुषैः। एवं तथासम्पत्त्या तथाविधवर्षपतनादिसमायोगेनैकस्या एव विचारभूमेः प्रतिनिवृत्तयोः संयती-संयतयोरेकत्र देवकुलादौ वर्षावस्त्राणि परित्यक्तवतोर्मीलनं भवेदिति ॥अथ तस्यागारस्य किं संवृत्तम् ? इत्याह[भा.२२८१] गहिओ असो वराओ, बद्धो अवओडओ दवदवस्स। संपाविओ रायकुलं, उप्पत्ती चेव कजस्स ॥ -गृहीतश्चसवराको राजपुरुषैः, बद्धश्च अवकोटकः' अधोनीतकृकाटिकः पश्चान्मुखीकृतबाहुयुगलः, “दवदवस्स"त्ति शीघ्रं सम्प्रापितश्च राजकुलमयम्, तत्र च प्रस्तुतकार्यस्योत्पत्ति कारणिकैः पृष्टा, तेन चागारेण यथावस्थितं सर्वमपि तत्पुरतो विज्ञप्तम् । ततश्च[भा.२२८२] जाणंता विय इत्थि, दोसवइं तीए नाइवग्गस्स। पच्चयहेउंसचिवा, करति आसेन दिद्रुतं ।। वृ-'नहि महत्यपि वृष्टयाधुपद्रवे स्त्रिया निरावरणत्वं शिष्टानामनुमतम्' इति कृत्वा स्त्रियं दोषवतींजानन्तोऽपितस्याः सम्बन्धी यो ज्ञातिवर्ग-स्वजनसमुदायस्तस्य प्रत्ययहेतोः ‘सचिवाः' कारणिका अश्वेन घटान्तं कुर्वन्ति । तमेवाह[भा.२२८३] वम्मिय कवइय वलवा, अंगनमझे तहेव आसोय। वलवाए, अवंगुननं, कज्जस्स य छेदनं भणियं ।। . वृ-वर्ण-लघुस्तनुत्राणविशेषः, तदस्याः सातमिति वर्मिता, एवं कवचिताऽपि, नवरं Page #51 -------------------------------------------------------------------------- ________________ बृहत्कल्प-छेदसूत्रम् -२-१/१० कवचंमहाँस्तनुत्राणविशेषः, एवंविधा यथा काचिद् वडवा कस्यचिद् नृपत्यादेरङ्गणमध्ये तिष्ठति, अश्वश्च तथैव, ततस्तां दृष्टवा प्रधावितोऽपि वर्मित-कवचितां तां न प्रतिसेवितुं शक्नोति । यदा तु तस्या वडवाया अपावरणं-वर्मादिरपनयनं क्रियते तदा सुखेनैव प्रतिसेविष्यत इति । अत इयमेवापराधिनीति तैः कारणिकैः 'कार्यस्य' व्यवहारस्य 'छेदनं' परिच्छेदकारि वचो भणितमिति ।। [भा. २२८४ ] एवं खु लोइयाणं, महिला अवराहि न पुन सो पुरिसो । इह पुन दोह वि दोसो, सविसेसो संजए होइ ॥ वृ- 'एवम्' अमुना प्रकारेण 'खुः' अवधारणे लौकिकानां महिला अपराधिनी संवृत्ता न पुनरसौ पुरुषः । ' इह पुनः' अस्माकं लोकोत्तरे व्यवस्थितानां 'द्वयोरपि' संयती - संयतयोर्दोषः, अपि च ‘सविशेषः' समधिको दोषः संयते भवति ॥ कुतः ? इति चेद् उच्यते ४८ [भा. २२८५ ] पुरिसुत्तरिओ धम्मो, पुरिसे य धिई ससत्तया चेव । पेलव परज्झ इत्थी, फुंफुग-पेसीए दिट्ठतो ॥ वृ- “पुरुषोत्तरः पुरुषप्रधानो यतः पारमेश्वरो धर्म, पुरुषे च 'धृति' मानसस्वास्थ्यलक्षणा ‘ससत्त्वताच' सत्त्वसम्पन्नता भवति, अतस्तस्य प्रतिसेवमानस्य सविशेषो दोषः । स्त्री तु 'पेलवा' निसत्त्वा ‘“परज्झ’”त्ति परवशाच । अत्र च फुम्फुकेन पेश्या च दृष्टान्तः यथा फुम्फुकः - करीषाग्निचालितः सनुद्दीप्यते एवं स्त्रीवेदोऽपि, यथा च पेशी सर्वस्याप्यभिलषणीया एवमियमपि । अतो न तस्याः समधिको दोष इति । आह यदि संयतीनामन्तस्तृतीयभङ्गे विचारभूमिर्भवेत् ततः किं न वर्त्तते स्थातुम् ? उच्यते [भा. २२८६] जइ वि य होज्ज वियारो, अंतो अजाण तइयभंगम्मि । तत्थ वि विकिंचणादीविग्गनाणं तु ते दोसा ।। वृ- यद्यप्यार्याणामन्तः 'तृतीयभङ्गे' आपातासंलोकलक्षणे विचारो भवेत तथापि विवेचनाउद्धरितभक्त-पानादिपरिष्ठापनिका तत्प्रभृतिषु कार्येषु विनिर्गतानां साधु-साध्वीनां परस्परमिलितानामेकद्वारे क्षेत्रे 'त एव' पूर्वोक्ता दोषा भवेयुः, अतस्तत्रापि न वर्त्तते स्थातुम् ॥ उपसंहरन्नाह [भा. २२८७] एते तिन्नि वि भंगा, पढमे सुत्तम्मि जे समक्खाया। जो पुन चरिमो भंगो, सो बिइए होइ सुत्तम्मि ।। वृ- एका वगडा एकं द्वारम् १ एका वगडा अनेकानि द्वाराणि २ अनेका वगडा एकं द्वारम् ३ एते त्रयोऽपि भङ्गा ये समाख्यातास्ते प्रथमे वगडासूत्रे प्रत्येतव्याः । तच्च प्रागेव व्याख्यातम् । यः पुनः 'चरमो भङ्गः' सअनेकावगडा अनेकानि द्वाराणीति लक्षणः स द्वितीये वगडासूत्रे द्रष्टव्यः ॥ तच्चेदम् मू. (११) से गामंसि वा जावरायहाणिंसि वा अभिनिव्वगडाए अभिनिदुवाराए अभिनिक्खमणप्पवेसाए कप्पइ निग्गंथाण य निग्गंधीण य एगयओ वत्थए । वृ- अथ ग्रामे वा यावद् राजधान्यां वा 'अभिनिवगडाके' निपातानामनेकार्थत्वाद् अभि इतिअनेका नि इति-नियता वगडाः - परिक्षेपाः यत्र, यद्वा 'अभि-नि' शब्दौ पृथगर्थद्योतकौ द्रष्टव्य, ततश्च पृथग्- अनेका वगडा यत्र तदभिनिवगडाकं तत्र । एवमभिनिद्वारकेऽभिनिष्क्रमण-प्रवेशके Page #52 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं-११, [भा. २२८७] च कल्पते निर्ग्रन्थानां निर्ग्रन्थीनां च एकतो वस्तुमिति सूत्रार्थः ॥ [भा.२२८८] एयद्दोसविमुक्के, विच्छिन्न वियारथंडिलविसुद्धे । ____ अभिनिव्वगड-दुवारे, वसंति जयणाएगीयत्था ॥ वृ-एतैः-प्रथमसूत्रोक्तैर्दोषैर्विमुक्तेविस्तीर्णेमहाक्षेत्रे 'विचार-स्तण्डिलविशुद्धे यत्रभिक्षाचर्या संज्ञाभूमिश्च परस्परमपश्यतां भवति तत्रैवंविधेऽभिनिवगडाकेऽभिनिद्वारेच संयतीक्षेत्रे यतनया गीतार्था वसन्ति ।। कथम्? इत्याह[भा.२२८९] पिहगोअर-उच्चारा, जे अब्मासे वि होंति उ निओया। वीसुंवीसुं वुत्तो, वासो तत्थोभयस्सावि ॥ वृ- ये 'अभ्यासे' मूलक्षेत्रप्रत्यासत्तौ 'नियोगाः' ग्रामा भवन्ति तेऽपि साधु-साध्वीनां पृथग्गोचरचर्याकाः पृथगुच्चारभूमिकाश्च परस्परं भवन्ति, आस्तां मूलग्राम इत्यपिशब्दार्थः । 'उभयस्यापि च संयतानां संयतीनां च तत्र 'विष्वग् विष्वग्' पृथक्पृथगुपाश्रये वासः प्रोक्त इति ॥अत्र नोदकः प्रेरयन्नाह[भा.२२९०] तं नत्थि गाम-नगरं, जत्थियरीओ न संति इयरे वा। पुनरवि भणामु रन्ने, वस्सउ जइ मेलणे दोसा॥ वृ-ग्रामाश्चनगराणिचेति ग्राम-नगरम्, तद्नास्ति ग्राम-नगरं यत्र ‘इतराः' पार्श्वस्थादिसंयत्यः 'इतरेवा' पार्श्वस्थादयो न सन्ति, ततःपुनरपिवयंभणामः, यथा-अरण्ये 'उष्यतां वासः क्रियतां यदि मीलनायामेवंविधा दोषाः ॥ सूरिराह[भा.२२९१] दिद्रुतो पुरिसपुरे, मुरुडदूतेन होइ कायध्वो। जह तस्स ते असउणा, तह तस्सितरा मुनेयव्वा । वृ-दृष्टान्तोऽत्र पुरुषपुरे रक्तपटदर्शनाकीर्णे मुरुण्डदूतेन भवति कर्तव्यः । यथा 'तस्य' मुरुण्डदूतस्य 'ते' रक्तपटा अशकुना न भवन्ति, तथा 'तस्य' साधोः 'इतराः' पार्श्वस्थ्यादयो मुणितव्याः, ता दोषकारिण्यो न भवन्तीत्यर्थः । इदमेव भावयति[भा.२२९२] पाडलि मुरुंडदूते, पुरिसपुरे सचिवमेलणाऽऽवासो। भिक्खू असउण तइए, दिनम्मि रन्नो सचिवपुच्छा ॥ वृ-पाटलिपुत्रे नगरे मुरुण्डो नाम राजा । तदीयदूतस्य पुरुषपुरे नगरे गमनम्। तत्र सचिवेन सह मीलनम् । तेन च तस्य आवासो दापितः । ततो राजानं द्रष्टुमागच्छतः 'भिक्षवः' रक्तपटा अशकुना भवन्ति इति कृत्वा स दूतो न राजभवनं प्रविशति । ततस्तृतीये दिने राज्ञः सचिवपार्वे पृच्छा-किमिति दूतो नाद्यापि प्रविशति? ॥ ततश्च[भा.२२९३] निग्गमनं च अमच्चे, सब्भावाऽऽइक्खिए भणइ दूयं । अंतो बहिं च रच्छा, नऽरहिंति इहं पवेसणया। वृ-अमात्यस्य राजभवनान्निर्गमनम् । ततो दूतस्यावासे गत्वा सचिवो मिलितः । पृष्टश्च तेन दूतः-किं न प्रविशसि राजभवनम् ? ।स प्राह-अहं प्रथमे दिवसे प्रस्थितः परं तच्चन्निकान् दृष्टवा प्रतिनिवृत्तः अपशकुना एते' इति कृत्वा, ततो द्वितीये तृतीयेऽपि दिवसे प्रस्थितः तत्रापि तथैव | 19741 Page #53 -------------------------------------------------------------------------- ________________ बृहत्कल्प-छेदसूत्रम् -२-१/११ प्रतिनिवृत्तः ।एवंसद्भावे आख्याते' कथिते सति दूतममात्योभणति-एतेइहरथ्यायाअन्तर्बहिर्वा नापशकुनत्वमर्हन्ति।ततः पवेशनादूतस्य राजभवने कृता । एवमस्माकमपि पावस्थादयस्तदीयसंयत्यश्च रथ्यादौ दृश्यमाना न दोषकारिण्यो भवन्ति । अपि च[भा.२२९४] जह चेव अगारीणं, विवक्खबुद्धी जईसुपुव्वुत्ता। तह चेव य इयरीणं, विवक्खबुद्धी सुविहिएसु॥ वृ- यथैव अगारीणाम्' अविरतिकानां पूर्वम् “आगंतुगदव्वविभूसियं" इत्यादिना यतिषु विपक्षबुद्धिरुक्ता तथैव इतरासां' पार्श्वस्थादिसंयतीनांहस्त-पादधावनादिना विभूषितविग्रहाणां सुविहितेषु स्नानादिविभूषारहितेषु विपक्षबुद्धिर्भवतीति द्रष्टव्यम् ॥ मू. (१२) नो कप्पइ निग्गंथीणं आवणगिहंसि वा रच्छामुहंसि वा सिंघाडगंसि वा चउक्कंसि वा चचरंसि वा अंतरावणंसि वा वत्थए। वृ-अथास्य सूत्रस्य सम्बन्धमाह[भा.२२९५] एयारिसखेत्तेसुं, निग्गंथीणं तु संवसंतीणं । केरिसयम्मिन कप्पइ, वसिऊण उवस्सए जोगो ॥ वृ- एतादृशेषु-पृथग्वगडाकेषु पृथग्द्वारेषु च क्षेत्रेषु निर्ग्रन्थीनां संवसन्तीनां कीशे उपाश्रये वस्तुंन कल्पते? इतिअनेन सूत्रेण चिन्त्यते, एषः 'योगः' सम्बन्धः॥प्रकारान्तरेण सम्बन्धमाह[भा.२२९६] दिट्ठमुवस्सयगहणं, तत्थऽज्जाणं न कप्पइ इमेहिं। वुत्ता सपक्खओवा, दोसा परपक्खिया इणमो॥ वृ-दृष्टमनन्तरसूत्रे उपाश्रयग्रहणम्, तत्राऽऽर्याणाममीषु प्रतिश्रयेषु वस्तुंन कल्पते इत्यनेन सूत्रेण प्रतिपाद्यते। उक्ता वा 'स्वपक्षतः' स्वपक्षमाश्रित्य संयतानां संयतीनां च परस्परं दोषाः, इदानीं तु 'परपाक्षिकाः' गृहस्थाख्यपरपक्षप्रभवा दोषा व्यावर्ण्यन्ते इति ॥ एवम् अनेकैः सम्बन्धैरायातस्यास्य सूत्रस्य व्याख्या-नो कल्पते 'निर्ग्रन्थीनां' साध्वीनामापणगृहे वा रथ्यामुखे वा शृङ्गाटके वा चतुष्के वा चत्वरे वा अन्तरापणे वा वस्तुमिति सूत्रसङ्केपार्थः ।। अथ विस्तरार्थं प्रतिपदमभिधित्सुः प्रायश्चित्तमाह[भा.२२९७] आवणगिह रच्छाए, तिए चउक्कंतरावणे तिविहे । ठायंतिगाण गुरुगा, तत्थ वि आणाइणो दोसा ।। वृ- आपणगृहे रथ्यामुखे त्रिके चतुष्केऽन्तरापणे वा 'त्रिविधे' त्रिप्रकारे वक्ष्यमाणस्वरूपे उपलक्षणत्वात् चत्वरेच तिष्ठन्तीनां संयतीनांप्रत्येकंचत्वारो गुरुकाः प्रायश्चित्तम्।तत्राप्याज्ञादयो दोषा द्रष्टव्याः॥ आपणगृहादीनां व्याख्यानमाह[भा.२२९८] जं आवणमज्झम्मी, जंच गिहं आवणा य दुहओ वि । तं होइ आवणगिहं, रच्छामुह रच्छपासम्मि॥ वृ-यद् गृहम् ‘आपणमध्ये' समन्तादापणैः परिक्षिप्तम् अथवा मध्यभागे यद् गृहं द्वाभ्यामपि च पाश्र्वाभ्यां यस्यापणा भवन्ति तद् आपणगृहं भवति । रथ्यामुखं रथ्यायाः पार्वे भवति । तच त्रिविधम्[भा.२२९९] तंपुन रच्छमुहं वा, बाहिमुहं वा वि उभयतोमुहं वा । Page #54 -------------------------------------------------------------------------- ________________ उद्देश : १, मूलं- १२ [भा. २२९९] अहवा जत्तो पवहइ, रच्छा रच्छामुहं तं तु ॥ वृ- 'तत् पुनः' गृहं रथ्यायाः पार्श्वे वर्त्तमानं रथ्याया अभिमुखं वा भवेद् 'बहिर्मुखं वा' रथ्या तस्य पृष्ठतो वर्त्तते इत्यर्थः, 'उभयतोमुखं वा यस्यैकं द्वारं रथ्यायाः पराङ्मुखमेकं तु रथ्याया अभिमुखमित्यर्थः, अथवा यतो गृहाद् रथ्या प्रवहति तद् रथ्यामुखमुच्यते ॥ [भा. २३००] सिंघाडगं तियं खलु, चउरच्छसमागमो चउक्कं तु । छहं रच्छाण जहिं, पवहो तं चच्चरं बिंती ॥ ५१ वृ- शृङ्गाटकं नाम यत् 'त्रिकं' रथ्यात्रयमीलनस्थानम् । क्वचित् तु सूत्रादर्शे “तियंसि वा " इत्यपि पदं दृश्यते, तत्रैवं व्याख्या- ' शृङ्गाटकं' सिङ्घाटकाकारं त्रिकोणं स्थानम्, 'त्रिकं' रथ्यात्रयमीलकः । चतुष्कं तु चतसृणां रथ्यानां समागमः । तथा यत्र षण्णां रथ्यानां 'प्रवह: ' निर्गमस्तत् चत्वरं ब्रुवते तीर्थकर - गणधराः ॥ [भा.२३०१] अह अंतरावणो पुन, वीही सा एगओ व दुहओ वा । तत्थ हि अंतरावण, गिहं तु सयमावणो चेव ।। 4 वृ- 'अथ' इत्यानन्तर्ये । अन्तरापणो नाम 'वीथी' हट्टमार्ग इत्यर्थः, सा 'एकतो वा' एकपार्श्वेन "दुहओ व "त्ति द्वाभ्यां वा पार्श्वभ्यां भवेत् तत्र यद् गृहं तद् अन्तरापणगृहम् । यद् वा गृहं स्वयमेवापणस्तदन्तरापणः । किमुक्तं भवति ? -यत्रैकेन द्वारेण द्वारेण व्यवह्रियते द्वितीयेन तु गृहं तदन्तरापणगृहम् । एतेषु प्रतिश्रयेषु संयतीनां न कल्पते स्थातुम् ॥ अथैतेष्वेव तिष्ठन्तीनां प्रायश्चित्तमाह [भा. २३०२] आवण रच्छगिहे वा, तिगाइ सुन्नंतरावणुञ्जाणे । चउगुरुगा छल्लहुगा, छग्गुरुगा छेय मूलं च ॥ वृ- आपणगृहे तिष्ठन्ति चतुर्गुरुकाः । रथ्यागृहे तिष्ठन्ति षड्लघवः । “तिगाइ "त्ति त्रिकचतुष्क- चत्वरेषु तिष्ठन्तीनां षड्गुरवः । “सुन्न”त्ति अपरिगृहीते शून्यगृहे अन्तरापणे वा च्छेदः । उद्यान तिष्ठन्तीनां मूलम् । एवं भिक्षुणीविषयमुक्तम् । गणावच्छेदिन्याः षड्लघुकादारब्धं नवमे तिष्ठति । प्रवर्त्तिन्याः षड्गुरुकादारब्धं प्रायश्चित्तं दशमे पर्यवस्यति । एतच्चापत्तिमङ्गीकृत्योक्तम्, अन्यथा सर्वासामपि मूलमेव भवति, परतः संयतीनां प्रायश्चित्तस्यैवाभावात् ॥ [भा. २३०३] सव्वेसु वि चउगुरुगा, भिक्खुणिमाईण वा इमा सोही । चउगुरुविसेसिया खलु, गुरुगादि व छेदनिट्ठवणा । वृ- अथवा 'सर्वेष्वपि' आपणगृहादिषु स्थानेषु चतुर्गुरुका अविशेषितं प्रायश्चित्तम् । अयं च प्रकारः प्रागुक्तोऽपि सङ्ग्रहार्थमिह भूयोऽप्युक्त इति न पुनरुक्तता । यदि वा भिक्षुणीप्रभृतीनामियं शोधिर्द्रष्टव्या, तद्यथा-चतुर्गुरुकास्तपः- कालाभ्यां विशेषिताः । तत्र भिक्षुण्याश्चतुर्गुरुकमुभयलघु, अभिषेकायास्तदेव तपसा लघु कालेन गुरुकम्, गणावच्छेदिन्याः कालेन लघु तपसा गुरु, प्रवर्त्तिन्यास्तपसा कालेन च गुरुकम्। यदि वा चतुर्गुरुकादारभ्य च्छेदे निष्ठापना कर्त्तव्या, तद्यथाभिक्षुण्याः सर्वेष्वपि स्थानेषु चतुर्गुरुकम्, अभिषेकायाः षड्लघुकम्, गणावच्छेदिन्याः षड्गुरुकम्, प्रवर्त्तिन्याश्छेदः ।। अथात्रैव दोषानुपदर्शयितुं द्वारगाथामाह [भा. २३०४] तरुणे वेसित्थि विवाह रायमादीसु होइ सइकरणं । Page #55 -------------------------------------------------------------------------- ________________ ५० बृहत्कल्प-छेदसूत्रम् -२-१/१२ इच्छमणिछे तरुणा, तेना उवहिं व ताओ वा ।। वृ-आपणगृहादिषु स्थितानां साध्वीनां तरुणान् वेश्यास्त्रीः विवाहं च दृष्ट्वा राजादीनां च दर्शने भुक्तभोगानां स्मृतिकरणं भवति, इतरासां कौतुकम्।तरुणांश्चप्रार्थयमानान्यदीच्छन्ति ततः संयमविराधना, अथ नेच्छन्तितत उड्डाहदिकं कुर्युः ।स्तेनाश्च तत्रोपधिंवा 'ता वा' आर्यिका अपहरेयुरिति द्वारगाथासमासार्थः॥अथ विस्तरार्थं प्रतिपदमाह[भा.२३०५] चउहालंकारविउव्विए तहिं दिस्स सललिए तरुणे। लडहपयंपिय-पहसिय-विलासगइ-णेगविहकिड्डे ॥ कृचतुर्द्धा-वस्त्र-पुष्प-गन्धा-ऽऽभरणभेदात्चतुर्विधोयोऽलङ्कारस्तेनविकुर्वितान्-अलङ्कृतान् तरुणान् ‘तत्र' आपणगृहादिषु दृष्ट्वा मोहोदयो भवतीतिवाक्यशेषः । कथम्भूतान्? “सललितान्' ललितं नाम-हस्त-पादाङ्गविन्यासविशेषः, उक्तञ्च ___ हस्त-पादाङ्गविन्यासो, भ्रू-नेत्रौष्ठप्रयोजितः। सुकुमारो विधानेन, ललितं तत् प्रकीर्तितम् ॥ तेन सहितान् । तथा लडभं-मनोज्ञं प्रजल्पितं-प्रकृष्टवचनं प्रहसितं-हास्यं विलासश्च स्थाना-ऽऽसन-गमनानां, हस्त-भ्रू-नेत्रकर्मणां चैव । उत्पद्यते विशेषो, यः श्लिष्टः स तु विलासः स्यात् ॥ इत्येवंलक्षणः गतिश्च-सुललितपदन्यासरूपा अनेकविधाश्च-द्यूता-ऽऽन्दोलनादिकाः क्रीडा येषां ते तथाविधास्तान् ।। अथ वेश्यास्त्रीद्वारमाह[भा.२३०६] दटुं विउब्वियाओ, कुलडा धुत्तेहि संपरिवुडाओ। बिब्बोय-पहसियाओ, आलिंगणमाइया मोहो॥ कृविकुर्विताः' अलङ्कृताः ‘कुलटाः' स्वैरिण्यः वेश्यास्त्रियइत्यर्थः 'धूत्तैः' षिङ्गः सम्परिवृताः' समन्ततो वेष्टिताः 'बिब्बोक-प्रहसिताः' बिब्बोको नाम इष्टानामर्थानां, प्राप्तावभिमानगर्वसम्भूतः। स्त्रीणामनादरकृतो, बिब्बोको नाम विज्ञेयः॥ -- प्रहसितं नाम-हास्याभिधानो रसविशेषः, अस्य च लक्षणमिदम् हास्यो हासप्रकृति, हासो विकृताङ्ग-वेष-चेष्टाभ्यः । भवति परस्थाभ्यः सच, भूम्ना स्त्री-नीच-बालगतः॥ एते बिब्बोक-प्रहसिते विद्येते यासां ता बिब्बोक-प्रहसितवत्यः । गाथायां प्राकृतत्वाद् मतुप्रत्ययलोपः । एवंविधाः पणाङ्गना दृष्टवा तासां चालिङ्गनादिकाश्चेष्टाः क्रियमाणा निरीक्ष्य मोहः समुद्दीप्यते॥अथ विवाहद्वारमाह[भा.२३०७] तत्थ चउरंतमादी, इब्भविवाहेसु वित्थरा रइया । भूसियसयणसमागम, रह-आसादीय निव्वहणा॥ वृ-'तत्र' आपणगृहादौ स्थितानां संयतीनामिभ्यविवाहेषु ये चतुरन्तादयो विस्तरा रचिताः, चतुरन्तं नाम चतुरिका, आदिशब्दाद् द्वन्दन-कलश-तोरणदिविवाहविस्तरपरिग्रहः, तथा यस्तत्र भूषितानां-वस्त्रादिभिरलङ्कृतानां स्वजनानां समागमः, यच्च रथेन वाऽश्वेन वा आदिशब्दात Page #56 -------------------------------------------------------------------------- ________________ उद्देशकः १, मूलं-१२, [भा. २३०७] शिबिकया वा 'निर्वहणं' वध्वाः सर्वदया श्वशुरगृहे नयनं तद्दर्शने भुक्तभोगिनीनां स्मृतिकरणमभूक्तभोगिनीनांतुकौतुकमुपजायते, ततःप्रतिगमनादयोदोषाः।। अथ राजद्वारमाह. [भा.२३०८] बलसमुदयेण महया, छत्तसिया वियणि-मंगलपुरोगा। दीसंति रायमादी, तत्थ अतिता य निंता य॥ वृ- महता बलसमुदयेन ‘अतियन्तः प्रविशन्तः “निर्यन्तो वा' निर्गच्छन्तः ‘राजादयः' राजेश्वरतलवरप्रभृतयस्तत्र श्यन्ते । कथम्भूताः? "छत्तसिय"त्ति प्राकृते पूर्वापरनिपातस्यातन्त्रत्वात् सितं-श्वेतं छत्रं येषां ते सितच्छत्राः, तथा “वियणि" त्ति वालवीजनिका मङ्गलानिदर्पणपताकादीनि एतानिपुरोगाणि-पुरतोगामीनियेषां राजादीनांते तथा॥द्वारगाथायां "रायमादीसु" ति यद् आदिग्रहणं कृतं तल्लब्धमर्थमाह[भा.२३०९] ते नक्खि-वालि-मुहवासि-जंघिणो दिस्स अट्ठियाऽणट्ठी। होसुंने एरिसगा, न य पत्ता एरिसा इतरी ।। वृ- तान् पुरुषान् नखि-वालि-मुखवासि-जटिनो दृष्ट्वा भुक्तभोगिन्योऽभूवन् “ने" अस्माकमपीशाः पतय इति स्मृतिम् 'इतरास्तु' अभुक्तभोगिन्यो नास्माभिरीद्दशाः पूर्वं प्राप्ता इत्येवं कौतुकं कुर्युः । तत्र नखाः-करजाः स्निग्धा-ऽऽताम्रोत्तुङ्गतादिगुमोपेता येषां ते नखिनः, प्रशंसायामत्र मत्वर्थीयः, यथा रूपवती कन्येत्यादिषु । एवं वालाः-केशास्ते श्यामल-निचितकुञ्चितादिगुणोपेता येषां ते वालिनः । मुखवासः-कर्पूरादिभिर्मुखस्य सौरभ्यापादनं तदस्ति येषां ते मुखवासिनः । जविनः-वर्तुल-स्थूलजङ्घायुगलकलिताः । एते 'अर्थिनः' मैथुनाभिलाषिणः 'अनर्थिनो वा' यथाभावेन समागच्छेयुः, ताँश्च दृष्टवा भुक्ता-ऽभुक्तसमुत्था दोषा भवन्ति। तानेव दर्शयति[भा.२३१०] एयारिसए मोत्तुं, एरिसयविवाहिता य सइ भुत्ते । इयरीण कोउहल्लं, निदाण-गमणादयो सज्जं ॥ -एतादृशान्मुक्त्वाऽस्माभिर्दीक्षा गृहीताईशैर्वासह विवाहिता वयमपिपूर्वमितिस्मृतिकरणं भुक्तभोगिनीनाम्, 'इतरासाम्' अमुक्तभोगिनीनांपुनः ‘कौतूहलं कौतुकंभवेत्, ततश्चोभयीषामपि सद्यो निदान-गमनादयो दोषाः । निदानम्-'अस्य तपो-नियमादेः प्रभावाद् भवान्तरे ईशमेव पुरुषं लभेय' इति लक्षणम्, गमनं-स्वगृहं प्रति भूयः प्रत्यावर्त्तनम् ।।अपिच[भा.२३११] आयाणनिरुद्धाओ, अकम्मसुकुमालविग्गहधरीओ। तेसि पि होइ दटुं, वइणीओ समुब्भवो मोहे ॥ वृ-आदानानि-इन्द्रियाणि निरुद्धानि यासांता निरुद्धादानाः, गाथायांव्यत्यासेन पूर्वापरनिपातः प्राकृतत्वात्।अकर्मणा-कर्मकरणाभावेन सुकुमारं-कोमल विग्रह-शरीरंधारयन्तीत्यकर्मसुकुमारविग्रहधराः । एवम्भूता व्रतिनीदृष्टवा 'तेषामपि नखि-वालिप्रभृतीनां मोहस्य समुद्भवो भवति।। अथ "इच्छमनिच्छे तरुण" ति पदं विवृणोति[भा.२३१२] संजमविराधना खलु, इच्छाए अनिच्छयं व वहि गिण्हे । तेनोवहिनिप्फन्ना, सोही मूलाइ जा चरिमं । वृ-यदि तत्रापणगृहादौ तरुणान् अवभाषमाणान् इच्छति ततः संयमविराधना।अथ नेच्छति Page #57 -------------------------------------------------------------------------- ________________ बृहत्कल्प-छेदसूत्रम् -२-१/१२ ततोऽनिच्छती बलादपि संयती बहिर्गृह्णीयुः । “तेना उवहिं वताओ वा" इति पदं व्याख्यायते"तेनोवहिनिष्फन्ना" इत्यादि । शून्यगृहादिषु स्थितानां साध्वीनां स्तेना यधुपधिमपहरेयुः तत उपधिनिष्पन्ना शोधिः । तद्यथा-जघन्यमुपिमपहरन्ति पञ्चकम्, मध्यमपहरन्ति मासिकम्, उत्कृष्टमपहरन्ति चतुर्लघु । संयतीहरणेमूलादिकंचरमं यावत् प्रायश्चित्तमाचार्यस्य मन्तव्यम्, तद्यथाएकां संयतीमपहरन्ति मूलम्, द्वे अपहरन्त्यनवस्थाप्यम्, तिस्रोऽपहरन्ति पाराञ्चिकम् ।। अथातरैव प्रकारान्तरेण दोषान् दिदर्शयिषुराह नियुक्तिकारः[भा.२३१३] ओभावना कुलरे, ठाणं वेसित्थि-खंडरक्खाणं । उद्धंसणा पवयणे, चरित्तभासुंडणा सज्जो ॥ वृ-तत्र स्थितानामप्रभाजना 'कुलगृहे' कुलगृहस्य भवति । वेश्यास्त्रीणां खण्डरक्षाणां चआरक्षिकाणां स्थानं तदापणगृहादिभवेत्। उद्धर्षणा च प्रवचने।तथा सद्यश्चारित्रात् परिभ्रंशना चोपजायते ।। तत्र कुलगृहस्यापभ्राजना भाव्यते-आपणगृहादौ स्थितास्ता दृष्ट्वा कश्चित् तदीयज्ञातीनामन्तिके गत्वा ब्रूयात्[भा.२३१४] ससिपाया वि ससंका, जासिं गायाणि सन्निसेविंसु । कुलफुसणीउ ता भे, दोन्नि विपक्खे विधंसिति ।। वृ- यासां युष्मदीयसुता-स्नुषादीनां प्रयत्नेन संरक्ष्यमाणानां गात्राणि 'शशिपादा अपि' चन्द्रमरीचयोऽपि ‘सशङ्काः' चकिता इव सन्निषेवितवन्तः, ताश्चेदानीमेवमापणगृहादो वसन्त्यः "भे" भवतां 'कुलस्पृशिन्यः' कुलमालिन्यकारिण्यः 'द्वावपि पक्षी' पैतृक-श्वशुरपक्षलक्षणौ 'विधर्षयन्ति' विनाशयन्तीत्यर्थः । एवं कुलगृहस्यापभ्राजना भवति ॥ अथ “स्थानं वेश्यास्त्री-खण्डरक्षाणाम्" इति पदं विवृणोति[भा.२३१५] छिन्नाइवाहिराणं, तं ठाणं जत्थ वा परिवसंति । इय सोउं दद्रूण व, सयं तु ता गेहमाणिंति॥ वृ-यत्र 'ताः' श्रमण्यः परिवसन्तितत्छिन्नादिबाह्यानांस्थानम्, छिन्नाः-छिन्नालाः,आदिशब्दाद् वेश्या-खण्डरक्ष-विट-द्यूतकारादयो ये बाह्याः-विशिष्टजनबहिर्वर्तिनः, तेषां स्थाने यदि तिष्ठन्ति ततस्तदीयाः संज्ञातकाः 'इति' एवंवृत्तान्तं श्रुत्वा दृष्टवावा 'ताः' सम्बन्धिसंयतीः स्वकंगृहमानयन्ति, अलमनया प्रव्रज्यया यत्रैवंविधे स्थाने वासो विधीयते ॥अथ “उद्धर्षणा प्रवचने" इति पदं व्याख्याति[भा.२३१६] पेच्छह गरहियवासा, वइणीउ तवोवणं किर सियाओ। किं मन्ने एरिसओ, धम्मोऽयं सत्थगरिहा य॥ वृ. तास्तत्रापणगृहे दृष्टवा कश्चिद् ब्रूयात्-पश्यत भो लोकाः ! यदेवं 'गर्हितवासाः' शिष्टजनजुगुप्सितेस्थाने स्थिता वतिन्यस्तपोवनंकिल श्रिताः' आश्रितवत्यः, किंमन्ये एतत्तीर्थकृता ईशोऽयं धर्मो दृष्टः ? इत्येवं शास्तुः-तीर्थकरस्य गर्दा भवति । [भा.२३१७] साहूणं पि य गरिहा, तप्पक्खीणं च दुञ्जणो हसइ। अभिमुहपुनरावत्ती, वचंति कुलप्पसूयाओ॥ वृ-साधूनामपिच गर्दाजायते-अहो ! सदाचारबहिर्मुखाअमी ये स्वकीयाः संयतीरित्थमस्थाने Page #58 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं- १२, [भा. २३१७] ५५ स्थापयन्ति । तथा तत्पाक्षिकाः - साधुपक्षबहुमानिनो ये श्रावकास्तेषां च पुरतः 'दुर्जनः ' मिथ्यादृंष्टिलोकः ‘हसति’ उपहासं करोति । याश्च प्रव्रज्यायामभिमुखास्तासां ताध्शस्थानावस्थानेनाभाविताः सत्यो भूयः स्वगृहाणि व्रजन्ति ।। अथ चारित्रभ्रंशनापदं विवृणोतितरुणादीए दहुं, सइकरणसमुब्भवेहि दोसेहिं । पडिगमनादी व सिया, चरितभासुंडणा वा वि ॥ [भा. २३१८] वृ- आपणे तरुणादीन् दृष्टवा स्मृतिकरणसमुद्भवैः उपलक्षणत्वात् कौतुकसमुद्भवैश्च दोषः 'प्रतिगमनं' गृहवासगमनं तदादीनि वा पदानि स्यु' भवेयुः, आदिशब्दादन्यतीर्थिकगमनादिपरिग्रहः, स्वलिङ्गे वा स्थितानां तरुणादिभि प्रतिसेवनायां चारित्रभ्रंशना भवेत् ॥ एते आपणगृहे तिष्ठन्तीनां दोषा द्रष्टव्याः । अथ रथ्यामुखादिषु तानतिदिशन्नाह[भा. २३१९] एए चेव य दोसा, सविसेसतरा हवंति सेसेसु । रच्छामुहमादीसुं, थिरा-थिरेहिं थिरे अहिया ।। वृ- 'एत एव' अनन्तरोक्ता दोषाः 'शेषेषु' रथ्यामुख- शृङ्गाटक-त्रिकादिष्वपि भवन्ति । नवरं सविशेषतरा उत्तरोत्तरेषु द्रष्टव्याः यावदुद्यानम् । ते च तरुणादयो द्विधा - स्थिरा अस्थिराश्च । स्थिरा नाम-येषां तत्रैव गृहाणि, अस्थिराः येषामन्यत्र गृहाणि । अत्र च स्थिरेष्वधिकतरा दोषाः प्रतिपत्तव्याः । द्वितीयपदे तिष्ठेयुरपि । कथम् ? इत्याह [भा. २३२०] अद्धाणनिग्गयादी, तिक्खुत्तो मग्गिऊण असईए । रच्छामुहे चउक्के, आवण अंतो दुहिं बाहिं ॥ वृ- अध्वनिर्गतादयः 'त्रिकृत्वः' त्रीन् वारान् निर्दोषां वसतिं मार्गयित्वा 'असत्याम्' अलभ्यमानायां विविक्तवसतौ वृषभाः प्रथमतो रथ्यामुखे संयतीः स्थापयन्ति, तत्रापि प्रथमम् 'अन्तर्मुखे' यस्य पृष्ठतो रथ्या वर्त्तते इत्यर्थः, तस्याप्राप्तौ “दुहिं" ति द्विधामुखे' उभयद्वारे इत्यर्थः, तस्याप्यभावे “बाहिं" ति 'बहिर्मुखे' रथ्याभिमुखद्वारे इत्यर्थः । “चउक्के आवण "त्ति उपलक्षणत्वात् शृङ्गाटकादीनामपि ग्रहणम्, ततोऽयमर्थ - रथ्यामुखस्याभावे आपणगृहेऽपि संयतीभिः स्थातव्यम्, तदप्राप्तौ शृङ्गाटके त्रिके वा, तस्याप्यसत्त्वे चतुष्के, तस्यालाभे चत्वरे, तदप्राप्तौ अन्तरापणेऽपि स्थातव्यमिति ॥ अथ “अंतो दुहिं बाहिं "ति पदत्रयं व्याचष्टे [भा. २३२१] अंतोमुहस्स असई, उभयमुहे तस्स बाहिरं पिहए । तस्सऽ सइ बाहिरमुहे, सइ ठइए थेरिया बाहिं | वृ- पूर्वम् 'अन्तर्मुखे' रथ्यामुखगृहे स्थातव्यम् । अन्तर्मुखस्यासत्युभयमुखे । तस्य च यद् बहिर्द्वारं रथ्याभिमुखं तत् 'पिदधति' कटादिना स्थगयन्ति द्वितीयेन द्वारेण निर्गम-प्रवेशौ कुर्वन्ति । 'तस्य' उभयमुखस्याभावे 'बहिर्मुखे' रथ्याभिमुखद्वारे तिष्ठन्ति, तत्र च द्वारं सदा स्थगितमेव कुर्वन्ति, स्थविरसाध्व्यश्च तत्र "बाहिं" ति 'बहि' द्वारप्रत्यासत्तौ तिष्ठन्ति ॥ अथात्रैव विधिमाह[भा. २३२२] जत्थऽप्पयरा दोसा, जत्थ य जयणं तरंति काउं जे । निच्चमवि जंतियाणं, जंतियवासो तहिं वृत्तो ।। वृ-यत्राल्पतराः पूर्वोक्ता दोषाः, तेषां च दोषाणां परिहरणे यत्र यतनां कर्तुं शक्नुवन्ति 'तत्र' आपणगृहादौ नित्यं यन्त्रितानामपि यन्त्रितवासः प्रोक्त इति । किमुक्तं भवति ? - यद्यपि Page #59 -------------------------------------------------------------------------- ________________ बृहत्कल्प-छेदसूत्रम् -२-१/१२ संयतीप्रायोग्योपकरण-प्रावरणादिना ताः सर्वदैव सुयन्त्रितास्तथापि तत्रापणगृहादौ विशेषतो यथोक्तयतनया यन्त्रणा कर्तव्या॥का पुनर्यतना? इति चेद् उच्यते[भा.२३२३] बोलेण झायकरणं, ठाणं वत्थुव पप्प भइयं तु। वंदेन इंति निति व,अविनीयनिहोडणा चेव ।। वृ- 'बोलेन’ समुदायशब्देन स्वाध्यायकरणं येन पूर्वोक्ताः दोषा न भवन्ति । स्थानं वा वस्तु वाप्राप्य 'भाज्यं स्वाध्यायकरणंन कर्तव्यमपीत्यर्थः ।वृन्देन चकायिकीसंज्ञाव्युत्सर्जनार्थमतियन्ति नियन्तिवा। अविनीतानांच-दुःशीलानांतरुणादीनांनिहेठनाकर्तव्या, नतत्र प्रवेष्टुंदातव्यमितिभावः॥ [भा.२३२४] एएसिं असईए, सुने बहि रक्खियाउ वसहेहिं । तेसऽसती गिहिनीसा, वइमाइसु भोइए नायं ॥ वृ. 'एतेषाम्' आपणगृहादीनामसति अध्वप्रतिपन्नादयो व्रतिन्यः 'वृषभैः' समर्थसाधुभि'बहिः' समन्ततो रक्षिताः सत्यः शून्येऽप्युपाश्रये वसेयुः। अथ वृषभान भवन्ति ततस्तेषामभावे गृहिणाम्-अगारिणां निश्रया वृत्यादिभिः सुगुप्ते शन्येऽपि प्रतिश्रये वसन्ति । कथम् ? इत्याह'भोजिकस्य' ग्रामस्वामिनः 'ज्ञात' विदितं कृत्वा, यथा-वयमत्र भवदीयबाहुच्छायापरिगृहीताः स्थिताः स्मः, अतो भवता अस्माकं सारा करणीयेति ॥ सूत्रम् मू. (१३) कप्पइ निग्गंथाणं आवणगिहंसि वा जाव अंतरावर्णसि वा वत्थए । वृ-अस्य व्याख्या प्राग्वत्॥अथ भाष्यम्[भा.२३२५] एसेव कमो नियमा, निग्गंथाणं पिनवरि चउलहुगा। सुत्तनिवातो अंतोमुहम्मि तह चेव जयणाए। वृ-एष एव क्रमो नियमाद् निर्ग्रन्थानामपि भवति, तेषामप्यापणगृहादिषु वसतां पूर्वोक्ता दोषा भवन्तीति भावः । नवरं चतुर्लघुकाः प्रायश्चित्तम् । आह यद्येवं तर्हि सूत्रं निरर्थकम्, तत्र साधूनामापणगृहादिषु वस्तुमनुज्ञातत्व, नैवम्, कारणिकं सूत्रम्, यद्यन्य उपाश्रयो न प्राप्यते ततोऽन्तर्मुखे रथ्यागृहे स्थातव्यम्, अत्र ‘सूत्रनिपातः' प्रकृतसूत्रमवतरतीति भावः । तस्याभावे शेषेष्वपि तिषठतां तथैव यतना द्रष्टव्या। सूत्रम् मू. (१४) नो कप्पइ निग्गंथीणं अवंगुयदुवारिए उवस्सए वत्थए । एगं पत्थारं अंतो किच्चा एगं पत्थारं बाहिं किच्चा ओहाडियचिलिमिलियागंसि एवं णं कप्पइ वत्थए। वृ-अस्य सूत्रस्य सम्बन्धमाह[भा.२३२६] पडिसिद्धविवक्खेसुं, उवस्सएहि उ संवसंतीणं । बंभवयगुत्ति पगए, वारिंतऽनेसु वि अगुत्तिं ॥ वृ- पूर्वसूत्रे प्रतिषिद्धानाम्-आपणगृहादीनां विपक्षा ये उपाश्रयाः कल्पनीया इत्यर्थः, तेषु संवसन्तीनां व्रतिनीनां ब्रह्मचर्यगुप्ति प्रकृता, तदर्थं तेषु ताभिर्वस्तव्यमिति भावः । अतस्तस्या प्रकृते प्रक्रमे 'अन्येष्वपि' अप्रतिषिद्धेषु प्रतिश्रयेष्वपावृतद्वारतारूपामगुप्तिं वारयन्ति भगवन्तो भद्रबाहुस्वामिन इति।।अनेन सम्बन्धेनायातस्यास्य व्याख्या-नो कल्पते 'निर्ग्रन्थीनां व्रतिनीनाम् 'अपावृतद्वारके' उद्घाटद्वारे उपाश्रये वस्तुम् । सकपाटोपाश्रयालाभे तु तत्रापि वसन्तीभिरित्थं विधिविधेयः-एकं 'प्रस्तारं' कटम् ‘अन्तः' प्रतिश्रयाभ्यन्तरे कृत्वाएकं प्रस्तारं बहि कृत्वा ततः Page #60 -------------------------------------------------------------------------- ________________ ५७ उद्देशक : १, मूलं-१४, [भा. २३२६] 'अवघाटितचिलिमिलिकाके अवघाटिता-बद्धा चिलिमिलिका यत्रसतथाईशेउपाश्रये ‘एवम्' अनन्तरोक्तेन विधिना “णं" इति वाक्यालङ्कारे कल्पते वस्तुमिति सूत्रसङ्केपार्थः ।। विस्तरार्थं तु भाष्यकृदाह[भा.२३२७] दारे अवंगुयम्मी, निग्गंथीणं न कए वासो। चउगुरु आयरियाई, तत्थ वि आणाइणो दोसा।। वृ-'अपावृते' उद्घाटिते द्वारे, उद्धारटद्वारे उपाश्रये इत्यर्थः निर्ग्रन्थीनांन कल्पते वासः ।अत्र चैतत् सूत्रमाचार्य प्रवर्त्तिन्यान कथयति चतुर्गुरु, प्रवर्तिनी संयतीनां नकथयति चतुर्गुरु, आर्यिका यदि न प्रतिशृण्वत्ति तदा तासां मासलघु । तत्रापि' अकथनेऽश्रवणे चाज्ञादयो दोषा द्रष्टव्याः॥ [भा.२३२८] दारे अवंगुयम्मी, भिक्खुणिमादीण संवसंतीणं। गुरुगा दोहि विसिट्ठा, चउगुरुगादी व छेदंता ।। वृ-उपाश्रयसम्बन्धिनिद्वारेऽपावृतेसति भिक्षुण्यादीनां संवसन्तीनां द्वाभ्यां तपः-कालाभ्यां विशिष्टाश्चतुर्गुरुकाः प्रायश्चित्तम् । तद्यथा-भिक्षुण्याश्चतुर्गुरुकं तपसा कालेन च लघु, अभिषेकायास्तदेव कालगुरुतपोलघु, गणावच्छेदिन्यास्तपोगुरु काललघु, प्रवर्त्तिन्याद्वाभ्यामपि गुरुकम्। चतुर्गुरुकादयो वा छेदान्ताः प्रायश्चित्तविशेषा भवन्ति, तद्यथा-भिक्षुण्या अपावृतद्वारे वसन्त्याश्चतुर्गुरुकम्, अभिषेकायाः षड्लघुकम्, गणावच्छेदिन्याः पङ्गुरुकम्, प्रवर्तिन्याश्छेद इति ॥ अत्र दोषानाह[भा.२३२९] तरुणे वेसित्थीओ, विवाहमादीसु होइ सइकरणं । इच्छमनिच्छे तरुणा, तेना ताओ व उवहिं वा ।। वृ-अस्या व्याख्या अनन्तरसूत्रवद् द्रष्टव्या॥ [भा.२३३०] अन्ने वि होति दोसा, सावय तेणे य मेहुणट्ठी य। वइणीसु अगारीसुय, दोच्चं संछोभणादीया।। वृ- अन्येऽप्यभ्यधिका अत्रदोषा भवन्ति । तत्रापावृतद्वारे उपाश्रये श्वापदो वा स्तेनो वा चशब्दात् श्वानो वा प्रविशेयुः, तैश्च यद्विराधनां प्राप्नुवन्ति तनिष्पन्नं प्रायश्चित्तम् । 'मैथुनार्थी बा' उद्रामकः प्रविशेत् स बलादप्युदारशरीरांसंयतीं गृह्णीयात् ।तिनीषु वा मध्ये काचिद्वतिनी मोहोद्भवेन कस्यापि गृहिणो गृही वा तस्याः संयत्याः प्रसुप्तासु शेषसाध्वीषु रात्रौ काञ्चिदगारी प्रेष्य दौत्यं कारापयेत् । अगारीषु वा मध्ये काचित् संछोभणं-परावर्त्त कुर्यात्, संयतीसंस्तारके सा अगारी संयतीसत्कानि वस्त्राणि प्रावृत्य सयीत संयती तु तदीयानि वस्त्राणि प्रावृत्यागारस्य सकाशंगच्छेदित्यर्थः । यस्मादेवमादयोदोषास्तस्मादपावृतद्वारे प्रतिश्रये साध्वीभिर्न स्थातव्यम्।। द्वितीयपदे तिष्ठतां (तिष्ठन्तीनां) विधिमाह[भा.२३३१] पत्थारो अंतो बहि, अंतो बंधाहिं चिलिमिलि उवरिं। पडिहारि दारमूले, मत्तग सुवणं च जयणाए। वृ-प्रस्तीर्यत इति प्रस्तारः, सच द्विधा-अन्तर्बहिश्च । 'अन्तः' अभ्यन्तरप्रस्तारे "बंधाहि"न्ति 'बधान' नियन्त्रय चिलिमिलीमुपरिष्टात् । ततः प्रतिहारी द्वारमूले तिष्ठति। ‘मात्रकं मोकव्युत्सर्जन स्वपनं च यतनया कर्तव्यमिति नियुक्तिगाथासमासार्थः । अथ विस्तरार्थमाह Page #61 -------------------------------------------------------------------------- ________________ ५८ बृहत्कल्प-छेदसूत्रम् -२-१/१४ [भा.२३३२] असई यकवाडस्सा, विदलकडादी अदो कडा उभओ। फरमुट्ठियस्स सरिसो, बाहिरकडयम्मि बंधोउ ॥ वृ-यदि द्वारं कपाटसहितं भवति ततः सुन्दरमेव । अथ कपाटं नास्ति ततः कपाटस्यासति प्रस्तारः क्रियते । प्रस्तारः-कटः, स च द्विदलकटादि द्विदलं-वंशदलं तन्मयः कटो द्विदलकटः, आदिशब्दात्शरकटः परिगृह्यते। ईशौ द्वौ कटौ द्वारस्यौभयतः क्रियेते, एकोऽभ्यन्तरे द्वितीयो बहिरित्यर्थः। ततःस्फरकस्ययामुष्टि-ग्रहणस्थानं तस्यसहशोबन्धोबाह्यकटेऽभ्यन्तरतोदातव्यः।। सच बन्धः किम्मयः कर्त्तव्यः ? इत्याह[भा.२३३३] सुत्ताइरज्जुबंधो, दुछिड्ड अभितरिल्लकडयम्मि। हेट्ठा मज्झे उवरिं, तिन्नि व दो वा भवे बंधा॥ वृ-सूत्रस्य आदिशब्दावल्कस्य वा ऊर्णाया वा या रज्जु-दवरकः परिस्थूरो हेढश्च तस्य बन्धो बाह्यकटे स्फरमुष्टिकसशोदातव्यः, अभ्यन्तरकटेच द्वे छिद्रे कर्तव्ये । कथम्? इतिअत आह"हेट्ठा मझे उवरिं"ति ‘मध्ये स्फरकमुष्टेरनुश्रेण्यामेवाधस्तादुपरि चच्छिद्रद्वयं कर्त्तव्यम्, ततो बाह्यकटस्य स्फरकमुष्टौ दवरको ६ढं प्रवेश्य पश्चादभ्यन्तरकटस्य द्वयोरपि च्छिद्रयोः प्रक्षिप्य ततोऽभ्यन्तरेण निष्काश्यनिबिडंबन्धनीयः, ईशा द्वौवात्रयोवाबन्धाबध्यन्ते।अभ्यन्तरप्रस्तारस्य चोपरि चिलिमिली बध्यते, सा च तान् बन्धान् गोपयति। तथा च ते बन्धा बध्यन्ते यथा प्रतिहारी मुक्त्वा अन्या काचिन्न जानाति॥आह सा प्रतिहारी कीग्गुणान्विता स्थापनीया? इति उच्यते[भा.२३३४] काएण उवाचया खलु, पडिहारी संजईण गीयत्था। परिनय भुत्त कुलीणा, अभीरु वायामियसरीरा॥ वृ-कायेनोपचिता न कृशशरीरा, 'गीतार्थाः' सम्यगधिगतसूत्रार्था, परिणता वयसा बुध्या च, “भुत्त"त्ति भुक्तभोगिनी, 'कुलीना' विशुद्धकुलोत्पन्ना, 'अभीरु' न कुतश्चिदपि स्तेनोद्रामकादेर्विविधां बिभीषिकां दर्शयतोऽपि बिभेति, “वायामियसरीर"त्ति व्यायामःखेदस्तत्सहशरीरा समर्थदहा इत्यर्थः, ईशी खलु संयतीनां प्रतिहारी स्थापयितव्या । साच किं करोति? इत्याह[भा.२३३५] आवासगंकरित्ता, पडिहारी दंडहत्थ दारम्मि। तिन्नि उ अप्पडिचरिउं, कालं घेत्तूण य पवेए॥ वृ-'आवश्यक' प्रतिक्रमणं कृत्वा प्रतिहारी दण्डकहस्ता अग्रद्वारे तिष्ठति । ततश्च “तिन्नि उ"त्ति तिः संयत्यः कालप्रत्युपेक्षणार्थं निर्गच्छन्ति । “अप्पडिचरियं"ति प्रादोषिकं कालं यथा साधवः प्रतिजागरितं गृह्णन्ति तास्तथा न इति गृहीत्वा च कालं ततः प्रवर्त्तिन्या निवेदयन्ति । निवेद्य च स्वाध्याये प्रस्थापिते सर्वा अपि स्वाध्यायं कुर्वन्ति ॥ कथम् ? इत्याह[भा.२३३६] ओहाडियदाराओ, पोरिसि काऊण पढमए जामे । पडिहारि अग्गदारे, गणिणी उ उवस्सयमुहम्मि । वृ-अवघाटितं-चिलिमिलिकया पिहितं द्वारम्-अग्रद्वारंयासांता अवघाटितद्वाराः सर्वा अपि प्रथमेयामे सूत्रपौरुषीं कृत्वा ततो मध्ये प्रविशन्तीति वाक्यशेषत्र । पौरुषीं कुर्वाणानांचप्रतिहारी अग्रद्वारे तिष्ठति, 'गणिनी तु' प्रवर्तिनी उपाश्रयस्य मुखे-मूलद्वारे स्थिता स्वाध्यायं करोति ।। Page #62 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं- १४, [भा. २३३६ ] [भा. २३३७] उभयविसुद्धा इयरी, पविसंतीओ पवत्तिणी छिवइ । सीसे गंडे वच्छे, पुच्छर नामं च का सि त्ति ।। वृ- उभयं संज्ञा कायिकी च तद् विशुद्धं व्युत्सृष्टं याभिस्ता उभयविशुद्धाः, आहिताग्न्यादेशकृतिगणत्वात् पूर्वापरनिपातव्यत्ययः, 'इतराः संयत्यो यदा प्रविशन्ति तदा प्रविशन्तीरेव ताः प्रवर्त्तिनी 'किमेषा संयती ? उत न ?' इति परिज्ञानार्थं 'शीर्षे' शिरसि 'गण्डे' कपोले 'वक्षसि' हृदये एवं त्रिषु स्थानेषु परिस्पृशति नाम च पृच्छति - 'का?' किं नामासि त्वम् ? इति ॥ या च तत्र प्रवेशसमये विलम्बते या वा सुप्तानामप्रस्तावे निर्गच्छति सा वक्तव्या[भा. २३३५ ] किं तुज्झ इक्कियाए, घम्मी दारं न होइ इत्तो उ । न य निडुरं पि बन्नइ, मा जियगद्दत्तणं हुज्जा ।। वृ-किं तवैकस्या एव घर्मो येनैवं निर्गच्छसि विलम्बसे वा ? द्वारमितो न भवति, एवमन्यव्यपदेशेन मधुरवचनैः सा वक्तव्या । न च "निडुरं” कठोरं स्फुटमेव भण्यते, “मा जियगद्दत्तणं' ति 'जितलज्जत्वं' निर्लज्जता मा भूदिति हेतोः ।। ततश्च [भा. २३३९] सव्वासु पविट्ठासुं, पडिहारि पविस्स बंधए दारं । मझे यठाइ गणिणी, सेसाओ चक्कवालेणं ॥ वृ- सर्वासु संयतीषु प्रविष्टासु प्रतिहारी प्रविश्य द्वारं पूर्वोक्तविधिना बघ्नाति । 'मध्ये च' मध्यभागे ‘गणिनी' प्रवर्त्तिनी 'तिष्ठति' संस्तारकं प्रस्तृणातीत्यर्थः, शेषास्तु संयत्यः 'चक्रवालेन' मण्डलिकया प्रवर्त्तिनीं परिवार्य संस्तृणन्ति यथा परस्परं सुप्तानां न सङ्घट्टो भवति ।। आह किमर्थं न सङ्घट्टः क्रियते ? उच्यते [भा. २३४०] सइकरण कोउहल्ला, फासे कलहो य तेन तं मुत्तुं । किढि तरुणी किढि तरुणी, अभिक्ख छिवणा य जयणाए । ५९ वृ- 'स्पर्शे' अन्योऽन्यं सङ्घट्टने भुक्ताऽभुक्तानां स्मृतिकरण-कौतूहले भवतः । 'कलहश्च' असङ्घडं च परस्परं भवति, यथा-अहं त्वया हस्तेन वा पादेन वा सङ्घट्टिता। तेन हेतुना 'तं' स्पर्शं मुक्त्वा 'कढी' स्थविरा सा प्रथमतः संस्तारकं करोति, ततस्तदन्तरिता तरुणी, पुनः स्थविरा, पुनस्तरुणी इत्येवं संस्तारकप्रस्तरणविधिः । 'यतनया च' यथा तासां स्मृतिकरणादिनोपजायते तथा ‘अभीक्ष्णं’ पुनः पुनः स्पर्शना प्रवर्त्तिन्या कर्त्तव्या । प्रतिहारी च द्वारमूले संस्तारयति ॥ कथम् ? इति अत आह [ भा. २३४१ ] तनुनिद्दा पडिहारी, गोविय घेत्तुं च सुवइ तं दारं । जग्गंति वारएण व, नाउं आमोस दुस्सीले ।। वृ- तन्वी स्तोका निद्रा यस्याः सा तथा एवंविधा प्रतिहारी तद् द्वारं बद्धवा तथा ग्रन्थिं गोपयित्वा स्वपिति यथा अन्याः संयत्यो न जानन्त्युद्घाटयितुम् । हस्तेन वा तद् दवरकप्रान्तं गृहीत्वा स्वपिति । अथ तत्र आमोषाः स्तेना दुःशीला वा अभितन्ति ततस्तान् ज्ञात्वा वारकेण रात्रौ जाग्रति ॥ अथ मात्रकयतनामाह । [भा. २३४२ ] कुडमुह डगलेसु व काउ मत्तगं इट्टगाइदुरुढाओ । लाल सराव पलालं, व छोटु मोयं तु मा सद्दो ॥ Page #63 -------------------------------------------------------------------------- ________________ ६० बृहत्कल्प-छेदसूत्रम् -२-१/१४ वृ-'कुटमुखे घटकण्ठके डगलेषुवा मात्रकं कृत्वा' स्थापयित्वातस्य मात्रकस्योपरि 'शरावं' मल्लकं स्थाप्यते, तस्य च बुने च्छिद्रं क्रियते, तत्र च्छिद्रे वस्त्रमयी ‘लाला' लम्बमाना चीरिका पलालं वा प्रक्षिप्यते, ‘मा मोकं व्युत्सृजन्तीनां शब्दो भवतु' इति कृत्वा । तत उभयपार्वत इष्टकाः क्रियन्ते, आदिशब्दात् पीठकादिपरिग्रहः, तत्रारूढाः सत्यो रात्रौमात्रकेमोकंव्युत्सृजन्ति।। अथ स्वपनयतनामाह[भा.२३४३] सोऊण दोन्नि जामे, चरिमे उज्झेत्तु मोयमत्तंतु। कालपडिलेह झातो, ओहाडियचिलिमिली तम्मि॥ वृ- सुप्तवा द्वौ ‘यामौ' प्रहरौ चरमे यामे उत्थाय मोकमात्रकम् ‘उज्झित्वा' परिष्ठाप्य ततः कालं-वैरात्रिकं प्राभातिकं च प्रत्युपेक्ष्य स्वाध्यायो यतनया क्रियते । 'तस्मिश्च' चरमे यामे 'अवघाटितचिलमिलीकं चिलिमिलिकापिहितं द्वारं भवति,शेषंतुकटद्वयमपनीयत इतिभावः। ताश्च कालं गृहीत्वा न प्रतिजाग्रति, कुतः? इत्याह[भा.२३४४] संकापदं तह भयं, दुविहा तेणा य मेहुणट्ठी य। देह-धिइदुब्बलाओ, कालमओ ता न जग्गंति ॥ वृ- यदि ताः प्रतिश्रयद्वारे स्थित्वा कालं प्रतिजागृयुः ततः सागारिकस्यान्यस्य वा शङ्कापदं भवति-किं मन्ये एषा कञ्चिदुद्रमकं प्रतीक्षते यदेवमत्रोपविष्टा जागर्ति? इति । 'तथा' इति कारणान्तरसमुच्चये, भयं च तासामल्पसत्त्वतयोपजायते । 'द्विविधाश्च स्तेनाः' शरीरस्तेनोपधिस्तेनभेदास्तत्रागच्छेयुः, ते संयतीमुपधिं वा अपहरेयुः, मैथुनार्थिनो वा संयतोमुपसर्गयेयुः देहेन-शरीरेणधृत्याच-मानसावष्टम्भेन दुर्बलास्ताअतः संयत्यः कालं नजाग्रति' न प्रतिचरन्तीति।। [भा.२३४५] कम्मेहि मोहियाणं, अभिद्दवंताण को त्तिजा भणइ। संकापदं व होजा, सागारिअ तेनए वा वि॥ वृ-यदि रात्रौ 'कर्मभिर्मोहिताः' घनकर्मकर्कशतया समुदीर्णमोहाः केचन पापीयांसः संयतीः शीलात् च्यावयितुमभिद्रवेयुस्ततः को विधि? इतिअतआह-तेषामभिद्रवतांयासंयती कोऽयम्?' इति ब्रूते तस्याश्चतुर्गुरुकाः प्रायश्चित्तम्, आज्ञादयश्च दोषाः, शङ्कापदं वा सागारिक्य स्तेनकस्य वा, अपिशब्दाद् मैथुनार्थिनो वा भवेत् ॥ इदमेव भावयति- [भा.२३४६] अन्नो वि नूनमभिपडइ इत्थवीसत्थया तदट्ठीणं । सागारि सेग्झगावा, सइत्थिगाओ व संकेजा। वृ- तदर्थिनो नाम तद्-विवक्षितं स्तैन्यं मैथुनं वा सेवितुं ये समायातास्तेषां संयतीमुखात् 'कः?' इति वचनं श्रुत्वा शङ्कापदमुपजायते-नूनमन्योऽपि कश्चिदत्रोद्रामकः स्तेनो वाऽभिपतति येनैवमेषा 'कः?' इतिप्रश्नयति। ततश्च तेषां तत्र प्रविशतां विश्वस्तता भवति-न भयमुत्पद्यते। यस्तु 'सागारिकः' शय्यातरः “सेज्झगा वा" प्रातिवेश्मिकास्ते एकका वा सस्त्रीका वा शङ्कां कुर्यु-किं मन्ये एतासां संयतीनां दत्तसङ्केतः कोऽप्युद्रामकोऽत्रायाति? ॥ [भा.२३४७] तेनियरं व सगारो, गिण्हे मारेज सो व सागरियं । पडिसेह छोभ झामण, काहिंति पदोसतो जंच ॥ वृ-अथवा 'कः ?' इति वचनं श्रुत्वा सागारिक उत्थाय स्तेनम् ‘इतरंवा' मैथुनार्थिनं गृह्णीयाद् ww Page #64 -------------------------------------------------------------------------- ________________ उद्देशक : : १, मूलं- १४, [भा. २३४७] ६१ मारयेद्वा, 'सवा' स्तेनो मैथुनार्थी वा सागारिकं मारयेत । सागारिके च मारिते सति तदीयाः संज्ञातकाः 'प्रतिषेधं' तद्रव्या-ऽन्यद्रव्यव्यवच्छेदं कुर्युः । स्तेनादयः शय्यातरेण गृहीताः सन्तः संयतीनां ‘“छोभं”ति अभ्याख्यानं दद्यु- अस्माकं भाटिरेताभिर्गृहीता आसीत् । “झामण” त्ति प्रद्विष्टा वा सन्तः शय्यातरगृहं संयतीनां वा प्रतिश्रयं प्रदीपयेयुः । प्रद्वेषतो वा यदन्यदपि ते करिष्यन्ति तन्निष्पन्नमापद्यते । तस्मात् 'कः ?' इति न वक्तव्यम् ॥ कथं पुनस्तर्हि वक्तव्यम् ? इत्याह [भा. २३४८] संकियमसंकियं वा, उभयट्ठि नच्च बेंति अहिलितं । छुत्ति हडि त्ति अनाहा !, नत्थि ते माया पिया वा वि ॥ वृ- उभयं स्तैन्यं मैथुनं च तदर्थिनं शङ्कितमशङ्कितं वा 'ज्ञात्वा' अवगम्य 'अभिलीयमानम्' आयान्तमेवं ब्रुवते - "छुत्ति हडि त्ति" अनुकरणशब्दावेती, छुछुरिति वा हडिरिति वा वक्तव्यमित्यर्थः । यद्वा 'हे अनाथ !' निस्वामिक ! किं ते नास्ति माता वा पिता वा यदेवमस्यां वेलायां पर्यटसि ? इति ॥ [भा. २३४९] भंजंतुवस्सयं णे, छिन्नाल जरग्गगा सगोरहगा । नत्थि इहं तुह चारी, नस्ससु किं खाहिसि अहन्ना ! | वृ- भञ्जन्ति' विध्वंसन्ते “ने” 'अस्माकमुपाश्रयं छिन्नालाः' तथाविधा दुष्टजातीयाः 'जरद्गवा'जीर्णबलीवर्दा सगोरथकाः ' कल्होडकयुक्ताः, अतो नास्त्यत्र त्वद्योग्या चारि, 'नश्य' पलायस्व, किमत्र खादिष्यसि ‘अधन्य!' हे निर्भाग्य ! त्वम् ? । प्राकृतत्वाद् गाथायां दीर्घत्वम् । एतेनान्यव्यपदेशभङ्गया तस्य प्रविशतः प्रतिषेधः कृतो भवति ॥ द्वितीयपदमाह [भा. २३५०] अद्धाणनिग्गयादी, तिक्खुत्तो मग्गिऊण असईए । दव्वस्स व असईए, ताओ व अपच्छिमा पिंडी ।। वृ- अध्वनिर्गतादयः संयत्यः 'त्रिकृत्वः' त्रीन् वारान् वसतिं मार्गयित्वा 'असति' अलभ्यमाने गुप्तद्वारे उपाश्रयेऽपावृतद्वारेऽपि वसन्ति । तत्र यदि कपाटमवाप्यते ततः सुन्दरमेव, अथ न प्राप्यते ततः 'द्रव्यस्य' कपाटस्यासति कण्टिकादिकमप्यानीय द्वारं पिधातव्यम् । यावद् 'अपश्चिमा' सर्वान्तिमा यतना “ताओ व पिंडि "त्ति ताः सर्वा अपि पिण्डीभूय परस्परं करबन्धं कृत्वा दण्डकव्यग्रहस्तास्तिष्ठन्तीति । एनामेव नियुक्तिगाथां व्याचष्टे [भा. २३५१] अन्नत्त व कवाडं, कंटिय दंड चिलिमिलि बहिं किढिया । पिंडीभवंति सभए, काऊणऽन्नोन्नकरबंधं ॥ वृ- कपाटयुक्तस्य द्वारस्याभावेऽन्यतोऽपि कपाटं याचित्वा द्वारं पिधातव्यम् । अथ याच्यमानमपि तन्न लब्धं ततो वंशकटो याचितव्यः । तस्यालाभे 'कण्टिकाः' कण्टकशाखाः । तासामप्राप्तौ दण्डकैस्तिरश्चीनैश्चिलिमिलिका क्रियते । तावतां दण्डकानामभावे वस्त्रचिलिमिलिका बध्यते। बहिर्द्वारमूले 'किढिकाः' स्थविराः क्रियन्ते । अथ कोऽपि तत्र तासामभिद्रवणं करोति ततस्ताध्शे 'समये' सोपसर्गे सत्यन्योन्यं करबन्धं कृत्वा पिण्डीभवन्ति ॥ कथं पुनः ? इत्यत आहअंतो हवति तरुणी, सद्दं दंडेहि ते पतालिंति । अह तत्थ होंति वसभा, वारिंति गिही व ते होउं ॥ [भा. २३५२] Page #65 -------------------------------------------------------------------------- ________________ बृहत्कल्प-छेदसूत्रम् -२-१/१४ वृ. 'अन्तः' मध्ये तरुण्यो गृहीतदण्डकहस्तास्तिष्ठन्ति, बहिस्तु स्थविराः, ताश्चोमय्योऽपि 'शब्द' बृहद्धनिना बोलं कुर्वन्तियेन भूयाँल्लोको मिलति, ताँश्च स्तेन-मैथुनार्थिन उपद्रवतो दण्डकैः प्रताडयन्ति । अथ तत्र वृषभाः सन्निहिता भवन्ति ततस्ते गृहिणो भूत्वा तान् निवारयन्ति॥ मू. (१५) कप्पइ निग्गंथाणं अवंगुयदुवारिए उवस्सए वत्थए। वृ-कल्पते निर्ग्रन्थानामपावृतद्वारे उपाश्रये वस्तुमिति सूत्रार्थः ॥अथ भाष्यविस्तरः[भा.२३५३] निग्गंथदारपिहणे, लहुओ मासो उ दोस आणादी। अइगमणे निग्गमणे, संघट्टणमाइ पलिमंथो॥ वृ-निर्ग्रन्था यदि द्वारपिधानं कुर्वन्ति ततो लघुको मासः प्रायश्चित्तम्, आज्ञादयश्च दोषाः । विराधना त्वियम्-कोऽपि साधुः 'अतिगमनं' प्रवेशं करोति, अन्येन च साधुना द्वारपिधानाय कपाटं प्रेरितम्, तेन च तस्य शिरसोऽभिघाते परितापादिका ग्लानारोपणा । एवं निर्गमनेऽपि केनचिबहि स्थितेनपश्चान्मुखंकपाटेप्रेरितेशीर्ष भिद्येत।तथा त्रसजन्तूनांसट्टनम्, आदिशब्दात् परितापनमपद्रावणंवा द्वारे पिधीयमानेऽपाव्रियमाणे वा भवेत् । 'परिमन्थश्च' सूत्रार्थव्याघातो भूयोभूयः पिदधतामपावृण्वतां च भवति ॥ एनामेव नियुक्तिगाथां व्याख्यानयति[भा.२३५४] घरकोइलिया सप्पे, संचाराई य होति हिटुवरिं। . ढकिंत वंगुरिते, अभिघातो नित-इंताणं॥ वृद्वारस्याधस्तादुपरिवागृहकोकिला वा सर्पोवा सञ्चारिमावा' कीटिका-कुन्थु-कंसारिकादयो जीवा भवेयुः, आदिशब्दात् कोकिलादयोवा सम्पातमसत्त्वाः, ततो द्वारंढक्कयताम् 'अपावृण्वतां च' उद्घाटयतां “नित-इंताणं"ति निर्गच्छतां प्रविशतां वा गृहकोकिलादिप्राण्यभिघातो भवेत्, सर्प-वृश्चिकादिभिर्वा साधूनामेवाभिघातो भवेत् । द्वितीयपदे द्वारं पिदध्यादपि ॥ कथम्? इत्याह[भा.२३५५] सिय कारणे पिहिज्जा, जिण जानग गच्छि इच्छिमो नाउं । आगाढकारणम्मि उ, कप्पइ जयणाइ उ ठएउं । वृ. 'स्यात्' कदाचित् 'कारणे' पुष्टालम्बने पिदध्यादपि द्वारम् । किं पुनस्तत् कारणम् ? इत्याह-'जिनाः' जिनकल्पिकाः 'ज्ञायकाः तस्य कारणस्य सम्यग वेत्तारः परं द्वारं न पिदधति। शिष्यःप्राह-'गच्छे' गच्छवासिनामिच्छामो वयं विधिं ज्ञातुम्। सूरिराह्आगाढं-प्रत्यनीक-स्तेनादिरूपं यत् कारणं तत्र ‘यतनया' वक्ष्यमाणलक्षणया गच्छवासिनां द्वारं स्थगयितुं कल्पते । एष नियुक्तिगाथासमासार्थः । अथैनाभेव विवृणोति[भा.२३५६] जाणंति जिना कजं, पत्ते वि उतं न ते निसेवंति। थेरा वि उजाणंति, अनागयं केइ पत्तंतु।। वृ. 'जिनाः' जिनकल्पिकास्तत् कार्यमनागतमेव जानन्ति येन द्वारं पिधीयते, तच्च प्रत्यनीकस्तेनादिकं वक्ष्यमाणलक्षणम्, तस्मिश्रच प्राप्तेऽपि तद्' द्वारपिधानं ते भगवन्तो न निषेवन्ते, निरपवादानुष्ठानपरत्वात् । 'स्थविरा अपि च' स्थविरकल्पिकाः सातिशयश्रुतज्ञानाथुपयोगवलेन केचिदनागतभेव जानन्ति, 'केचित्तु' निरतिशयाः प्राप्तमेव तत् कार्य जानते, ज्ञात्वा च यतनया तत् परिहरन्ति॥ Page #66 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं-१५, [भा. २३५६] ६३ [भा.२३५७] अहवा जिनप्पमाणा, कारणसेवी अदोसवं होई । थेरा वि जाणग च्चिय, कारण जयणाए सेवंता ।। वृ-अथवा "जिण जाणग" त्ति नियुक्तगाथापदमन्यथा व्यारुवायते-जिनः-तीर्थकरस्तस्य प्रामाण्यात् कारणे द्वारपिधानसेवी अदोषवान् भवति । जिनानां हि भगवतामियमाज्ञा-कारणे यतनया द्वारपिधानं सेवमानाः स्थविरकल्पिका अपि 'ज्ञायका एव' सम्यग्विधिज्ञा एव ॥ आह किं तत्कारणं येन द्वारं पिधीयते? उच्यते[भा.२३५८] पडिनीय तेन सावय, उब्भामग गोण साणऽणप्पज्झे । सीयं च दुरधियासं, दीहा पक्खी व सागरिए॥ कृ-उद्घाटितेद्वारे प्रत्यनीकः प्रविश्याहननमपद्दावणंवा कुर्यात्। 'स्तेनाः' शरीरस्तेना उपधिस्तेना वा प्रविशेयुः । एवं 'श्रवापदाः' सिंह-व्याध्रादयः ‘उद्भामकाः' पारदारिकाः 'गौः' बलीवर्द 'श्रवानः' प्रतीताः एतेवाप्रविशेयः। “अणप्पज्झे"त्ति अनात्मवशः' क्षिप्तचित्तादिसद्वारेऽपिहिते सति निर्गच्छेत् । शीत्तं वा दुरधिसहं हिमकणानुषक्तं निपतेत् । 'दीर्धा वा' सर्पा 'पक्षिणो वा' काक-कपोतप्रभृतयः प्रविशेयुः । सागारिको वा कश्रिचत्प्रतिश्रयमुद्धाटद्वारं दृष्ट्वा तत्र प्रविश्य शयीत वा विश्रामं वा गृह्णीयात् ।। [भा.२३५९] . एकेक्कम्मि उ ठाणे, चउरोमासा हवंति उग्धाया। आणाइणो य दोसा, विराधना संजमा-ऽऽयाए॥ वृ-द्वारमस्थगयतामनन्तरोक्ते एकैकस्मिन्' प्रत्यनीकप्रवेशादौस्थाने चत्वारोमासाः उद्धाताः' लघवः प्रायश्रिचत्तं भवति, आज्ञादयश्रवात्र दोषाः विराधना च संयमा-ऽऽत्मविषया भावनीया यदुक्तम् “चत्वारो मासा उद्धाताः" इति तवद् बाहुल्यमङ्गीकृत्य द्रष्टव्यम्, अतोऽपवदन्नाह[भा.२३६०] अहि-सावय-पच्चत्थिसु, गुरुगा सेसेसु होति चउलहुगा । तेणे गुरुगा लहुगा, आणाइ विराधना दुविहा॥ वृ-अहिषुश्रवापदेषु प्रत्यर्थिषुच-प्रत्यनीकेषुद्वारेऽपिहिते सत्युपाश्रयंप्रविशत्सुप्रत्येकं चत्वारो गुरुकाः। शेषेषु' उभामकादिषु सागारिकान्तेषुचतुर्लघुकाः । स्तेनेषु गुरुका लघुकाश्रवभवन्ति। तत्र शरीरस्तेनेषु चतुर्गुरुकाः, उपधिस्तेनेषु चतुर्लघुकाः । आज्ञादयश्रच दोषाः । विराधना च द्विविधा-संयमविराधना आत्मविराधना च । तत्र संयमविराधना स्तेनैरुपधावपहृते तृणग्रहणमग्निसेवनं वा कुर्वन्ति, सागारिकादयो वा तप्तायोगोलकल्पाः प्रविष्टाः सन्तो निषदन-शयनादि कुर्वाणा बहूनांप्राणजातीयानामुपम कुर्यु।आत्मविराधनातुप्रयत्नीकादिषुपरिस्फुटैवेतिआह ज्ञातमस्माभिरपिधानकारणं परं काऽत्र यतना? इति वाद्यापि वयं जानीमः उच्यते[भा.२३६१] उवओगं हेट्वरिं, काऊण ठक्तिऽवंगुरते अ। पेहा जत्थ न सुज्झइ, पमजिउं तत्थ सारिति ॥ वृ-श्रोत्रादिभिरिन्द्रियैरधस्तादुपरिचोपयोगं कृत्वा द्वारं स्थगयन्ति वा अपावृण्वन्ति वा । यत्र चान्धकारे 'प्रेक्षा' चक्षुषा निरीक्षणं न शुध्यति तत्र रजोहरणेन दारुदण्डकेन वा रजन्यां प्रमृज्य 'सारयन्ति' द्वारं स्थगयन्तीत्यर्थः, उपलक्षणत्वादुद्धाटयन्तीत्यपि द्रष्टव्यम् ॥ मू. (१६) कप्पइ निग्गंथीणं अंतो लित्तं घडिमत्तयंधारित्तए वा परिहरित्तए वा ।। Page #67 -------------------------------------------------------------------------- ________________ ६४ बृहत्कल्प-छेदसूत्रम् -२-१/१६ वृ-अस्य सूत्रस्य सम्बन्धमाह[भा.२३६२] ओहाडियचिलिमिलिए, दुक्खं बहुसो अईति निति विय। आरंभो षडिमत्ते, निसिं व वुत्तं इमं तु दिवा ॥ वृ-चिलिमिलिक्या उपलक्षणत्वात् कटद्वयेन च 'अवघाटिते' पिनद्धे सति द्वारे रजन्यां मात्रकसन्तरेण बहि कायिक्यादिव्युत्सर्जनार्थं बहुशो निर्गम-प्रवेशेषु दुःखमार्यिका निर्गच्छन्ति प्रविशन्ति च, अतोऽयं घटीमात्रकसूत्रस्यारम्भः । यद्वा 'निशायां' रात्रौ मात्रके यथा कायिकी व्युत्सृज्यते तथा अनन्तरसूत्रेऽर्थतः प्रोक्तम्, इदं तुसुत्रंदिवा मात्रकविधिमधिकृत्योच्यतइति।। अनेन सम्बन्धेनायातस्यास्य व्याख्या-कल्पते 'निर्ग्रन्थानां व्रतिनीनामन्तर्लिप्तं घटीमात्रकं' घटीसंस्थानं मृन्मयभाजनविशेषंधारयितुंवापरिहत्तुंवा । धारयितुंनाम' स्वसत्तायां स्थापयितुम्। 'परिहत' परिभोक्तुम् । एव सूत्रार्थः ॥अथ नियुक्ति[भा.२३६३] घडिमत्तंतो लित्तं, निग्गंथीणं अगिण्हमाणीयं । चउगरुगाऽऽयरियादि, तत्थ वि आणआइणो दोसा। वृ- ‘अन्तः' मध्ये 'लिप्तं' लेपेनोपदिग्धं घटीमात्रकं निर्ग्रन्थीनामगृह्णतीनां चतुर्गुरुकाः । "आयरियाई" त्ति आचार्य एतत् सूत्रं प्रवर्त्तिन्या न कथयति चतुर्गुरु, प्रवर्तिनी आर्यिकाणां न कथयति चतुर्गुरु, आर्यिका न प्रतिशृण्वन्ति मासलघु । 'तत्रापि' घटीमात्रकस्याग्रहणे तद्विधिप्रतिपादकस्य च प्रस्तुतसूत्रस्य अकथनेऽप्रतिश्रवणे चाज्ञादयो दोषाः आह सघटीमात्रकः कीशो भवति? इत्याह[भा.२३६४] अपरिस्साई मसिणो, पगासवदणो समिम्मओ लहुओ। सुइ-सिय-दद्दरपिहणो, चिट्ठइ अरहम्मि वसहीए। वृ-'सः' इतिघटीमात्रकः पानकेनात्यन्तभावितत्वादवश्यंन परिश्रवतीत्यपरिश्रावी, मसृणः' सुकुमारः, प्रकाशं-प्रकटं वदनं-मुखमस्येति प्रकासवदनः, 'मृन्मयः' मृत्तिकानिष्पन्नः, 'लघुकः' स्वल्पभारः,शुचि-पवित्रंचोक्षमित्यर्थः सितं-श्रवेतंन कृष्णवर्णाधुपेतंदर्दरपिधानं-वस्त्रमयंबन्धनं यस्य स शुचि-सित-दर्दरपिधानः । एवंविधः 'अरहसि' प्रकाशप्रदेशे वसत्यां तिष्ठति मू. (१७) नो कप्पई निग्गंथाणं अंतो लित्तं घडिमत्तयंधारित्तए वा परिहरित्तए वा ।। [भा.२३६५] साहू गिण्हइ लहुगा, आणाइ विराधना अनुवहि त्ति। बिइयं गिलाणकारण, साहूण वि सोअवादीसु ॥ वृ-यदि साधुर्घटीमात्रकं गृह्णाति तदा चत्वारो लधुकाः, आज्ञादयश्रच दोषाः, विराधना च संया-ऽऽत्मविषया। तत्र “अनुवहि" त्ति साधूनामयमुपधिन भवति । किमुक्तं भवति? यत् किल साधूनामुपकारे न व्याप्रियते तद् नोपकरणं किन्त्वधिकरणम्, जं जुजइ उवयारे, उवगरणं तं सि होइ उवगरणं । ___ अइरेगं अहिगरणं, (ओधनियुक्ति गा०] इति वचनाद्, यच्चाधिकरणं तत्र परिस्फुटैव संयमविराधना । आत्मविराधना त्वतिरिक्तोपधिभारवहनादनागाढपरितापनादिका । “बिइयं" ति द्वितीयपदमत्र भवति । किं पुनः तत् ? इत्याह-ग्लानकारणे समुत्पन्ने साधूनामपिघटीमात्रकग्रहणंभवेत्, अथवा शौचवादिषु Page #68 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं - १७, [ भा. २३६५ ] ६५ शिष्येषु देशविशेषेषु वा । एतदुत्तरत्र भावयिष्यते अथ किमर्थमत्र चतुर्लघु प्रायश्चित्तमुक्तम् ? अत्रोच्यते [भा. २३६६ ] दुविहपमाणतिरेगे, सुत्तासेन तेन लहुगा उ । मज्झिमगं पुन उवहिं, पडुच्च मासो भवे लहुओ ॥ वृ-द्विविधं-द्विप्रकारं गणना-प्रमाणभेदाद् यत् प्रमाणं ततोऽतिरिक्ते उपधौ सूत्रादेशेन चतुर्लघुका भवन्ति । यतं उक्तं निशीथसूत्रे जे भिक्खू गणनाइरित्तं वा पमाणाइरित्तं वा उवहिं घरेइ से आवज्जइ चाउम्मासियं परिहारट्ठाणं उग्धाइयं इति । अतः सूत्रादेशेन चतुर्लघुकम्। यदा तूपधिनिष्पन्नं चिन्त्यते तदा अयं घटीमात्रको मध्यमोपधिभेदेष्ववतरतीति कृत्वा मध्यमं पुनरुपधिं प्रतीत्य लघुको मासो भवति । अथ "धारयितुं वा परिहर्तुं वा" इति पदद्वयव्याख्यानमाह [भा. २३६७] धारणया उ अभोगो, परिहरणा तस्स होई परिभोगो । दुविहेन वि सो कप्पई, परिहारेणं तु परिभोत्तुं ॥ वृ- इह द्विधा परिहारः, तद्यथा-धारणा परिहरणा च । तत्र धारणा 'अभोगः' अव्यापारणम्, संयमोपबृंहणार्थं स्वसत्तायां स्थापमित्यर्थः । परिहरणा नाम 'तस्य' घटीमात्रकादेरुपकरणस्य 'परिभोगः' व्यापारणम् । एतेन द्विविधेनापि परिहारेण स घटीमात्रको निर्ग्रन्थीनां परिभोक्तुं कल्पते । स च दिवसं यावत् पानकपूर्णस्तिष्ठति । अथ किमर्थमयं गृह्यते ? इत्याह [भा. २३६८] उड्डाहो वोसिरणे, गिलाणआरोपणा य धरणम्मि । बिइयपयं असईए, भिन्नोऽवह अद्धलित्तो वा ।। वृ-संयतीमिरुत्सर्गतो द्रव्यप्रतिबद्धायां वसतौ स्थातव्यम् । तत्र घटीमात्रकाग्रहणे सागारिकाणां पश्यतां बहि कायिकीव्युत्सर्जन 'उड्डाहः' प्रवचनलाघवमुपजायते । अथ कायिक्या वेगं धारयन्ति ततो धरणे ‘ग्लानारोपणा' परिताप-महादुःखादिका भवति । यत एवमतो ग्रहीतव्यो घटीमात्रकः संयतीभिः । द्वितीयपदमत्र- 'असति' अविद्यमाने घटीमात्रके यदि वा विद्यते घटीमात्रकः परं 'भिन्नः' भग्न अर्द्धलिप्तो वा अत एव 'अवहः' अव्याप्रियमाणः ततो बहिर्गत्वा कायिकी यतनया व्युत्सर्जनीया । निर्ग्रन्थाः पुनरप्रतिबद्धोपाश्रये तिष्ठन्ति अतस्ते घटीमात्रकं न गृह्णन्ति, कारणे तु गृह्णन्त्यपि । यत आह [भा.२३६९] लाउय असइ सिनेहो, ठाइ तहिं पुव्वभाविय कडाहो । सेहे व सोयवायी, धरंति देसिं व ते पप्प ॥ वृ- अलाबुपात्रकस्याभावे ग्लानार्थं च स्नेहे ग्रहीतव्ये पूर्वभावितं कटाहकं घटीमात्रकं वा ग्रहीतव्यम् । यतस्तत्र गृहीतः 'स्नेहः' धृतं तिष्ठति' न परिश्रवति । शैक्षो वा कश्चित् साधूनां मध्येऽत्यन्तं शौचवादी स शौचार्थं घटीमात्रकं गृह्णीयात् । 'देशीं वा' देशविशेषं शौचवादिबहुलं प्राप्य घटीमात्रकं धारयन्ति, यथा गोल्लविषये । अथास्यैव ग्रहणे विधिमाह [भा. २३७०] गहणं तु अहागडए, तस्सऽ सई होइ अप्पपरिकम्मे । तस्सऽ सइ कुंडिगादी, घेत्तुं नाला विउज्जंति ॥ वृ-प्रथमतो यथाकृतस्य घटीमात्रकस्य ग्रहणं कर्त्तव्यम् । तस्यासत्यल्पपरिकर्मणि ग्रहणं भवति 19 5 Page #69 -------------------------------------------------------------------------- ________________ बृहत्कल्प-छेदसूत्रम् -२-१/१७ अथाल्पपरिकर्मापि न प्राप्यते ततः 'कुण्डिकां' कमण्डलुम् आदिशब्दादपरमपि तथाविधं बहुपरिकर्मयोग्यं गृहीत्वा नालानि वियोज्यन्ते ॥ मू. (१८) कप्पइ निग्गंथाण वा निग्गंधीण वा चेलचिलिमिलियं धारित्तए वा परिहरित्तए वा ॥ ६६ वृ- अस्य सम्बन्धमाह [भा. २३७१] सागारिपच्चयट्ठा, जह घडिमत्तो तहा चिलिमिली वि । रत्तिं वट्ठऽनंतर, इमा उ जयणा उभयकाले ॥ वृ- सागारिकः- गृहस्तस्तस्य प्रत्ययार्थं यथा घटीमात्रकस्तथा चिलिमिलिकाऽपि धारयितव्या । यद्वा यदधस्तात् सूत्रं ततः 'अनन्तरस्मिन्' अपावृतद्वारोपाश्रयसूत्रे रात्रौ चिलिमिलिकादिप्रदानलक्षणा यतना भणिता, 'इयं तु' प्रस्तुतसूत्रोपात्ता यतना अस्मिन् 'उभयकाले' रात्रौ दिवा च कर्त्तव्या इति । अनेन सम्बन्धेनायातस्यास्य व्याख्या कल्पते निर्नन्थानां निर्नन्थीनां वा चेलचिलिमिलिकां धारयितुं वा परिहर्त्तु वा । एष सूत्राक्षरार्थः । अथ भाष्यविस्तरः [भा. २३७२] धारणया उ अभोगो, परिहरणा तस्स होइ परिभोगो । चेलं तु पहाणयरं, तो गहणं तस्स नऽन्नासिं ॥ वृ-धारणता नाम ‘अभोगः' अव्यापारणम्, परिहरणातु 'तस्य' चिलिमिलिकाख्यस्योपकरणस्य 'परिभोगः' व्यापारणमुच्यते । आह वस्त्र-रज्जु-कट-वल्क- दण्डभेदात् पञ्चविधा चिलिमिलिका वक्ष्यते तत् कथं सूत्रे चेलचिलिमिलिकाया एव ग्रहणम् ? इत्याह- 'चेलं तु' वस्त्रं रज्वादीनां मध्ये बहुतरोपयोगिस्वात् प्रधानतरं ततस्तस्यैव सूत्रे ग्रहणं कृतम्, न 'अन्यासां' रज्जुचिलिमिलिकादीनाम् । अथ चिलिमिलिकाया एव भेदादिस्वरुपनिरुपणाय द्वारगाथामाह [भा. २३७४] सुत्तभई रज्जुभई, वागभई दंड-कडगमयई । पंचविह चिलिमिली पुन, उवग्गहकरी भवे गच्छे । वृ- सूत्रमयी रज्जुमयी वल्कमयी दण्डकमयी कटकमयी चेति पञ्चविधा चिलिमिलि । एषा पुनः 'गच्छे' गच्छ्वासिनामुपग्रहकरी भवति । उक्तो भेदः । अथ प्ररूपणा क्रियते - सूत्रस्य विकारः सूत्रमयी, सा च वस्त्रमयी वा क्रम्ब - लमयी वा प्रतिपत्तव्या । रज्जोर्विकारो रज्जुमयी, ऊर्णादिमयो दवरक इत्यर्थः । वल्कं नामशणादिवृक्षत्वग्रूपम्, तेन निर्वृत्ता वल्कमयी । दण्डकः वंश- वेत्रादिमयी वष्टिस्तैर्निर्वृत्ता दण्डकमयी । कटः- वंशकटादि, तन्निष्पन्ना कटकमयी ।। गता प्ररूपणा । अथास्याः पञ्चविधाया अपि चिलिमिलिकाया यथाक्रमं गाथात्रयेण द्विविधप्रमाणमाहहत्थपनगं तु दीहा, तिहत्थ रुंदोन्निया असइ खोमा। [भा. २३७५ ] एत प्पमाण गणणेक्कमेक्क गच्छं व जा वेढे ॥ वृ- इह प्रमाण- गणनाभेदाद् द्विविधं प्रमाणम् । तत्र प्रमाणप्रमाणमाश्रित्य सूत्रमयी चिलिमिलिका हस्तपञ्चकं दीर्घा त्रीन् हस्तान् 'रुन्दा' विस्तीर्णा भवति । एषा चोत्सर्गतस्तावदौर्णिकी । और्णिक्याः 'असति' अलामे क्षौमिकी ग्रहीतव्या । वल्कचिलिमिलिकाया अप्येतदेव प्रमाणम् । गणनाप्रमाणं पुनरधिकृत्यैकैकस्य साधोरेकैका, यावत्यो वा गच्छं वेष्टयन्ति तावत्यो भवन्ति । यद्वा या प्रातिहारिकी Page #70 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं - १८, [भा. २३७५] च्छं सकलमपि वेष्टयति सा गणनयैका, प्रमाणेन त्वनियता ॥ [भा.२३७६ ] ६७ असतोण्णि खोमिरज्जू, एक्कपमाणेण जा उ वेढेइ । कडहूवागादीहिं, पोत्तऽसइ भए व वागमई ॥ वृ- रज्जूचिलिमिलिका पूर्वमौर्णिकदवरकरुपा । तस्या अभावे क्षौमिकदवरकात्मकाऽपि कर्त्तव्या। सा च सर्वेषामपि साधूनां प्रत्येक गणनयैकैका, प्रमाणेन तु हस्तपञ्चकदीर्धा भवति; गणावच्छेदिकहस्ते वा एक एव दवरको भवति यः सकलमपि गच्छ शीतादिरक्षायै वेष्टयति । कडहूर्नाम-वृक्षविशेषः, तस्य यद् वल्कम् आदिशब्दात् पलाश-शणादिसम्बन्धीनि वल्कानि, तैर्निर्वृत्ता वल्कमयी, साच “पोत्तऽसई” त्ति वस्त्रचिलिमिलिकाया अभावे 'भये वा' स्तेनादिसमुत्थे गृह्यते ॥ [भा. २३७७] देहऽहिओ गणणेक्को, दुवारगुत्ती भये व दंडमई । संचारिमा य चउरो, भय माणे कडमसंचारी ॥ वृ- देहं शरीरं तस्य प्रमाणादधिको यो दण्डकः स देहाधिकः, स च समयपरिभाषया देहात् चतुरङ्गुलाधिकप्रमाणा नालिका भण्यते, एतावता प्रमाणप्रमाणमुक्तं द्रष्टव्यम् । स च देहाधिको दण्डको गणनयैकैकस्य साधोरकैको भवति । तैश्च दण्डकैः श्वापदादिभये 'द्वारगुप्ति' द्वारस्य स्थगतं क्रियते । एषा दमयी दृष्ट्वा । एताश्चादिमाश्चतस्त्रश्चिलिमिलिका वसतेर्वसतिं क्षेत्रात् क्षेत्रं सञ्चरन्तीति सञ्चारिमा उच्यन्ते । कटकमयी तु असञ्चारिमा । 'माने च' प्रमाणे द्विविधेऽपि तां कटकमरयीं चिलिमिली 'भज' विकल्पय, अनियतप्रमाणेत्यर्थः । तत्र प्रमाणङ्गीकृत्य यावता वक्ष्यामाणं कार्यं पूर्यते तावप्रमाणा कटकचिलिमिली, गणना तु यद्येकः कटः कार्यं न प्रतिपूरयित ततो द्विव्यादयोऽपि तावत्सङ्ख्याकाः कटा ग्रहीतव्या यावद्भिस्तत् कार्यं पूर्यते तावत्प्रमाणा कटकचिलिमिली, गणनया तु यद्येकः कटः कार्यं न प्रतिपूरयति ततो द्विव्यादयोऽपि तावत्सङ्ख्याकाः कटा ग्रहीतव्या यावद्भिस्तत् कार्यं पूर्यते ॥ गतं द्विविधप्रमाणम् । अथ 'उपभोगो द्विपक्षे' इति पदं विवृणोति [भा. २३७८ ] सागारिय सज्झाए, पानदय गिलाण सावयभए वा । अद्धाण-मरण-वासासु चेव सा कप्पए गच्छे ॥ वृ- - सागारिके पश्यति स्वाध्याये विधातव्ये प्राणदयायां विधेयायां ग्लानार्थं श्वापदभये वा उत्पन्नेऽध्वनि मरणे वर्षासु चैव 'सा' चिलिमिलिका कलपते 'गच्छे' गच्छ्वासिनां साधूनां परिभोक्तुम् । एष निर्युक्तिगाथासमासार्थः । अथैनामेव प्रतिपदं विवृणोति [भा. २३७९] पडिलेहोभयमंडलि, इत्थी - सागारियट्ठ सागरिए । घाणा - SS लोग ज्झाए, मच्छिय- डोलाइपानेसु ॥ वृ- प्रतिलेखनां कुर्वन्तो द्वारे चिलिमिलिकां कुर्वते, मा सागारिका उत्कृष्टोपधिं द्राक्षु मा वा उडुञ्चकान् कार्षुरिति कृत्वा, “उभयमंडलि"त्ति समुद्देशनमण्डल्यां स्वाध्यायमण्डल्यां चोड्डाहरक्षणार्थम्, 'इत्थीसागारियट्ठ "त्ति स्त्रीरूपप्रतिबद्धायां च वसतौ 'स्त्रीसागारिकानामालोको मा भूत्' इत्येतदर्थं चिलिमिली दीयते, “सागारिए "त्ति सागारिकद्वारे चिन्त्यमाने एतत् कारणजातं चिलिमिलिकाग्रहणे द्रष्टव्यम् । “घाणाऽऽ लोग ज्झाए ”त्ति स्वाध्यायद्वारे यत्र मूत्रपुरीषादेरशुभा प्राणिरागच्छति, शोणित-चर्बिकाणां वा यत्रालोकः, चेटरूपाणि वा यत्र कुतूहलेनालोकन्ते तत्र Page #71 -------------------------------------------------------------------------- ________________ बृहत्कल्प-छेदसूत्रम् -२-१/१८ चिलिमिलीं दत्त्वा स्वाध्यायः क्रियते । मक्षिका-डोलादयो वा प्राणिनो यत्र बहवः प्रविशन्ति, डोला:-तिड्डुका उच्यन्ते तत्र प्राणदयार्थमेतासामेव चिलिमिलिकानामुपभोगः कर्त्तव्य इति ॥ [भा. २३८० ] उभओसहकज्जे वा, देसी वीसत्थमाइ गेलने । अद्धाणे छन्नासइ, भओवही सावए तेने । वृ- उभयं-संज्ञा-कायिकीलक्षणं चिलिमिलिकया आवृतो ग्लानः सुखं व्युत्सृजति, 'औषधकार्ये वा' औषधं वा तस्य प्रच्छन्ने दातव्यम्, 'मा मृगा अवलोकन्ताम्' इति कृत्वा, अतश्चिलिमिलिका दातव्या । एवं "देसि "त्ति यत्र देशे शाकिन्या उपद्रवः सम्भवति तत्र ग्लानः प्रच्छन्ने धारयितव्यः । विश्वस्तो वा ग्लानः प्रच्छन्ने सुखमपावृतस्तिष्ठति । आदिशब्दाद् दुग्धादिकं ग्लानार्थमेव गीतार्थेन स्थापितम्, तच्च दृष्ट्वा ग्लानो यदा तदा वा अभ्यवहरेदिति कृत्वा तत्रान्तरे चिलिमिलिका दीयते यथाऽसौ तन्न पश्यति । एवमादिको ग्लानत्वे चिलिमिलिकानामुपभोगः । अध्वनि प्रच्छन्नस्थानस्याभावे चिलिमिलिकां दत्त्वा समुद्दिशन्ति वा सारोपधिं वा प्रत्युपेक्षन्ते । श्वापदेभ्यो वा यत्र भयं स्तेनेभ्यो वा यत्रोपधेरपहरणशङ्का तत्र दण्डकचिलिमिलिकया कटकचिलिमिलिकया वा ढं द्वारं पिधाय स्थीयते ॥ ६८ [भा.२३८१] छन्न-वहणट्ठ मरणे, वासे उज्झक्खणी य कड़ओ य । उल्लुवहि विरल्लिति व, अंतो बहि कसिण इतरं वा ।। वृ- 'मरणे' मरणद्वारे यावद् मृतकं न परिष्ठाप्यते तावत् प्रच्छन्ने चिलिमिलिकया आवृतं ध्रियते। तथा दण्डकचिलिमिलिकया मृतकमुत्क्षिप्य वहनं कर्त्तव्यम् । तथा वर्षासु जीमूते वर्षति यस्या दिशः सकाशात् “उज्झक्खणीय "त्ति पवनप्रेरिता उदककणिकाः समागच्छेयुः तस्यां कटकचिलिमिली कर्त्तव्या, वर्षासु वा भिक्षाचर्यादौ गतानां वृष्टिकायेनार्द्रीकृतमुपधिं रज्जुचिलिमिलिकायां ‘विरल्लयन्ति' विस्तारयन्तीत्यर्थः । तत्र यः कृत्स्नः -सारोपधिस्तम् 'अन्तः' मध्ये विस्तारयन्ति, इतरः- अकृत्स्नः स्वल्पमूल्य उपधिस्तं बहिर्विस्तारयन्ति । एनां पञ्चविधां चिलिमिलिकामगृह्णतोऽधारयतश्चतुर्लघुकाः, या च ताभिर्विना संयमा-ऽऽत्मविराधना तन्निष्पन्नमपि प्रायश्चित्तम् ।। तथा [भा. २३८२] बंभव्वयस्स गुत्ती, दुहत्यसंघाडिए सुहं भोगो । वीसत्थचिट्ठणादी, दुरहिगमा दुविह रक्खा य ।। वृ- उपाश्रये वर्त्तमाना आर्यिकाश्चिलिमिलिकया नित्यकृतया तिष्ठन्ति, यतो ब्रह्मव्रतस्य गुप्तिरेवं कृता भवति । द्विहस्तविस्तराया अपि सङ्घाटिकायाः सुखं भोगो भवति । किमुक्तं भवति ?प्रतिश्रये हि तिष्ठन्त्यस्ता द्विहस्तविस्तरामेव सङ्घाटिकां प्रावृण्वते न त्रिहस्तां न वा चतुर्हस्ताम् । ततश्चिलिमिलिकायां बहिर्बद्धायां तयाऽपि प्रावृतया विश्वस्ताः - निशङ्काः सत्यः सुखं स्थाननिषदनत्वग्वर्त्तनादिकाः क्रियाः कुर्वन्ति । 'दुरधिगमाश्च' दुःशीलानामगम्या भवन्ति । द्विविधा च रक्षा कृता भवति, संयम आत्मा च रक्षितो भवतीति भावः ॥ मू. (१९) नो कप्पइ निग्गंथाण वा निग्गंथीण वा दगतीरंसि चिट्ठित्तए वा निसीइत्तए वा तुयट्टित्तए वा निद्दाइत्तए वा पयलाइत्तए वा, असणं वा पाणं वा खाइमं वा साइमं वा आहारित्तए, उच्चारं वा पासवणं वा खेलं वा सिंघाणं वा परिट्ठवित्तए, सज्झायं वा करित्तए, धम्मजागरियं वा जागरित्तए, काउस्सग्गं वा ठाणं ठाइत्तए ॥ Page #72 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं-१९, [भा. २३८२] वृ-अथास्य सूत्रस्य कः सम्बन्धः? इत्याह[भा.२३८३] मा मं को इच्छिइ, दच्छंव अहं ति चिलिमिली तेनं । दगतीरे वि न चिट्ठइ, तदालया मा हुसंकेज्जा॥ वृ-मा मां कोऽपि' सागारिको द्रक्ष्यति, अहंवा तंसागारिकंमाद्राक्षमिति कृत्वा चिलिमिली क्रियते । अत्रापि दकतीरेऽनेनैव कारणेन न तिष्ठति यत् ‘तदालयाः' दकतीराश्रिता जन्तवो मा शङ्कन्तामिति ।। अनेन सम्बन्धेनायातस्यास् व्याख्या- नो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा 'दकतीरे' उदकोपकण्ठे स्थातुंवा' ऊध्वंस्थितस्यासितुं निषत्तुंवा' उपविष्टस्यस्थातुं त्वग्वर्तयितुं वा' दीर्घ कायं प्रसारयितुं निद्रायितुं वा' सुखप्रतिबोधावस्थया निद्रया शयितुं 'प्रचलायितुं वा' स्थितस्य स्वप्तुम्, अशनं वा पानं वा खादिमं वा स्वादिमं वाऽऽहारयितुम्, उच्चारंवा प्रश्रवणंवा खेलं वा सिङ्घानं वा परिष्ठापयितुम्, 'स्वाध्यायं वा' वाचनादिकं कर्तुम्, 'धर्मजागरिकां वा' धर्मध्यानलक्षणां 'जागरितुं' कर्तुम् धातूनामनेकार्थत्वात्, अत्र पाठान्तरम्-"झाणं वा झाइत्तए" धर्मध्यानमनुस्मतमिति, 'कायोत्सर्ग वा' चेष्टा-ऽभिभवभेदाद् द्विविधकायोत्सर्गलक्षणं स्थानं 'स्थातुं' कर्तुमित्यर्थः । एष सूत्रार्थः ॥ अथ नियुक्तिविस्तरः[भा.२३८४] दगतीर चिट्ठणादी, जूयग आयावणा य बोधव्वा । . लहुओ लहुया लहुया, तत्थ विआणाइणो दोसा ॥ वृ-दकतीरे स्थानादीनि कुर्वतः प्रत्येकं लघुको मासः । 'यूपके वक्ष्यमाणलक्षणे वसतिगृह्णाति चतुर्लघुकाः। ‘आतापनां' प्रतीतामपि दकतीरे कुर्वतश्चतुर्लघुकाः प्रायश्चित्तंबोद्धव्याः। तत्रापि प्रत्येकमाज्ञादयो दोषाः ।।अत्र दकतीरस्य प्रमाणे बहव आदेशाः सन्ति तानेव दर्शयति[भा.२३८५] नयने पूरे दिढे, तडि सिंचण वीइमेव पुढे य। अच्छंते आरण्णा, गाम पसु-मणुस्स-इत्थीओ॥ वृ-नोदकः प्राह-“नयनि"ति उदकाकराद् यत्रोदकं नीयते तद् दकतीरम्, यदि वयावन्मात्रं नदीपूरेणाक्रम्यते तद् दकतीरम्, यद्वा यत्र स्थितैर्जलं दृश्यतेतद्दकतीरम्, अथवा यावन्नद्यास्तटी भवति, यदि वा यत्र स्थितो जलस्थितेन शृङ्गकादिना सिच्यते, अथवा यावन्तं भूभागं वीचयः स्पृशन्ति, यदि वायावान्प्रदेशोजलेन स्पृष्ट एतद्दकतीरम्।सूरिराह-यानित्वया दकतीरलक्षणानि प्रतिपादितानि तानिन भवन्ति, किन्त्वारण्यका ग्रामेयकावा पशवोमनुष्याः स्त्रियो वाजलार्थिन आगच्छन्तः साधुंयत्र स्थितं दृष्ट्वा तिष्ठन्तिनिवर्तन्ते वातद्दकतीरमुच्यते ॥ एतदेव सविशेषमाह[भा.२३८६] सिंचण-वीई-पुट्ठा, दगतीरं होइन पुन तम्मत्तं । ओतरित्तरिउमणा, जहि दटुंतसंति तं तीरं ॥ कृनयन-पूरप्रभृतीनांसप्तानामादेशानांमध्याच्चरमाणित्रीणि सिञ्चन-वीचि-स्पृष्टक्षणानिदकतीरं भवन्ति, न पुनस्तावन्मात्रमेव, किन्त्वारण्यका ग्रामेयका वा तिर्यङ्-मनुष्या जलपानाद्यर्थमवतरीतुमनसः पीत्वा वा उत्तरीतुमनसो जलचरा वा यत्र स्थितं साधुं दृष्टवा 'त्रस्यन्ति' बिभ्यति चलन्ति वा तदव्यभिचारि दकतीरमुच्यते ॥ तत्र च स्थान-निषदनादिकरणे दोषान् दर्शयति[भा.२३८७] अहिगरणमंतराए, छेदन ऊसास अनहियासे अ। आहनन सिंच जलचर-खह-थलपाणाण वित्तासो॥ Page #73 -------------------------------------------------------------------------- ________________ बृहत्कल्प-छेदसूत्रम् -२-१/१९ वृ-दकतीरे तिष्ठतः साधोः 'अधिकरणं' वक्ष्यमाणलक्षणं बहूनां च प्राणिनामन्तरायं भवति । तथा साधोः सम्बन्धिनीनां पादरेणूनां 'छेदनकाः' सूक्ष्मावयवरूपा उड्डीय पानीये निपतेयुः, यद्वा 'छेदनं नाम' ते प्राणिनः साधुं दृष्ट्वा प्रतिनिवृत्ताः सन्तो हरितादिच्छेदनं कुर्वन्तो व्रजन्ति । “उस्सासे’ति उच्छ्वासविमुक्ताः पुद्गला जले निपतन्ति ततो अप्कायविराधना, यदि वा तेषां प्राणिनां तृषार्त्तानाम् 'उच्छ्वासः' च्यवनं भवेत् मरणमित्यर्थः । “अनहियासेय'त्ति 'अनधिसहाः' तृषामसहिष्णवस्तेऽतीर्थेन जलमवतरेयुः, साधुर्वा कश्चिद् 'अनधिसहः' तृषार्त्ताः पानीयं पिबेत् । दुष्टगवा - ऽश्वादिना वा तस्याहननं भवेत् । दकतीरस्थितं वा अनुकम्पया प्रत्यनीकतया वा कश्चिद् दृष्ट्वा सिञ्चनं कुर्यात् । जलचर- खचर- स्थलचरप्राणिनां च वित्रासो भवेत् ॥ तत्राधिकरणं व्याचिख्यासुराह ७० [भा. २३८८] दवण वा नियत्तण, अभिहननं वा वि अन्नतूहेणं । गामा-SS रन्नपसूणं, जा जहि आरोवणा भणिया || वृ- साधुं दृष्ट्वाऽऽरण्यकादिप्राणिनां निवर्त्तनं भवति, अभिहननं वा परस्परं तेषां भवेत्, “अन्नतूहेणं" ति अन्यतीर्थेन वा ते जलमवतरेयुः तेषां च ग्रामा-Sऽरण्यपशूनां निवर्त्तनादौ षट्कायोपमर्दसम्भवात् “छक्काय चउसु लहुगा" इत्यादिना या यत्रारोपणा भणिता सा तत्र द्रष्टव्या। एष निर्युक्तिगाथासमासार्थः । अथैनामेव विवृणोति [भा. २३८९] पडिपहनियत्तमाणम्मि अंतरायं च तिमरणे चरिमं । सिग्घगइतन्निमित्तं, अभिघातो काय - आयाए । वृ-आरण्यकाः तिर्यञ्चः तिर्यक्स्तियो वा 'पानीयं पिबामः' इत्याशया तीर्थाभिमुखमायान्तः साधुंदकतीरस्थितं दृष्ट्वा प्रतिपथेन निवर्त्तन्ते, निवर्त्तमाने च तत्रारण्यकप्राणिगणे साधीरधिकरणं भवति । तेषां च तृषार्त्तानामन्तरायं चशब्दात् परितापना च कृता भवति । तत्रैकस्मिन् परितापिते च्छेदः, द्वयोस्तु मूलम्, त्रिष्वनवस्थाप्यम्, चतुर्षु परितापितेषु पाराञ्चिकम्, एतेनान्तरायपदं व्याख्यातम् । “तिमरणे चरिमं" ति यद्येकस्तृषार्त्तोम्रियते ततो मूलम्, द्वयोर्ग्रयमाणयोरनवस्थाप्यम्, त्रिषु म्रियमाणेषु साधोः पाराञ्चिकम्, एतेनोच्छ्वासपदं विवृतम् । तथा तं साधुं दृष्ट्वा ते तिर्यञ्चो भीताः शीघ्रगत्या पलायमाना अन्योऽन्यं वा अभिघातयेयुः, षट्कायानां वा तन्निमित्तं शीघ्रं धावमाना अभिघातं विदध्यु, तत्र “छक्काय चउसु लहुगा' इत्यादिकं कायविराधनानिष्पन्नं प्रायश्चित्तम् । हप्ता वा तिर्यञ्चस्तस्यैव साधोराहननादिनाऽऽत्मविराधनां कुर्युः । अनेनाहननपदं व्याख्यातम् ॥ “अनहियासे अन्नतूहेणं "ति पदद्वयं भावयति [भा.२३९०] अतड-पवातो सो चेव य मग्गो अपरिभुत्त हरियादी । ओवग कूडे मगरा, जइ घंटे तसे य दुहतो वि ॥ वृ- अथ तृषामसहिष्णवस्ते गवादयो अतटेन वा अतीर्थेन अन्यतीर्थेन वाऽवतरेयुः छिन्नटक्के वा प्रपातं दधु ततः परितापनाद्युत्था सैवारोपणा । अथवा 'स एव' अभिनवो मार्ग प्रवर्त्तते तत्र चापरिभुक्तेनावकाशेन गच्छन्तो हरितादीनां छेदनं कुर्यु तत्र तन्निष्पन्नं प्रायश्चित्तम् । एतेन च्छेदनपदं व्याख्यातम् । “ओवग”त्ति गर्त्ता तस्यां वा अतीर्थेनावतीर्णा सन्तः ते प्रपतेयुः, अतीर्थे वा केनचिल्लुब्धकेन कूटं स्थापितं भवेत् तेन कूटेन बद्धा विनाशमश्नुवते, अतीर्थेन वा जलमवतीर्णा Page #74 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं - १९, [भा. २३९०] मकरादिभिः कवलीक्रियन्ते, तथा "जइ धुंटे” त्ति अन्यतीर्थेनातीर्थेन वा साधुनिमित्तमवतीर्णासिरहितेऽकाये यावतो घुण्टान् कुर्वन्ति तावन्ति चतुर्लघूनि । " तसे य" त्ति अचित्तेऽकाये यदि द्वीन्द्रियमश्नाति ततः षड्लघुकम्, त्रीन्द्रिये षड्गुरुकम्, चतुरिन्द्रिये च्छेदः, पञ्चेन्द्रिये एकस्मिन् मूलं द्वयोरनवस्थाप्यं त्रिषु पञ्चेन्द्रियेषु पाराञ्चिकम् । “दुहओ वित्ति यत्राप्कायोऽपि सचित्तः द्वीन्द्रियादयश्च तत्र त्रसास्तत्र द्वाभ्याम् अप्काय-त्रसविराधनाभ्यां निष्पन्नं प्रायश्चित्तम् । सर्वत्रापि च द्वीन्द्रियेषु षट्सु त्रीन्द्रियेषु पञ्चसु चतुरिन्द्रियेषु चतुर्षु पञ्चेन्द्रियेषु त्रिषु पाराञ्चिकम् । एते तावदारण्यकतिर्यक्समुत्था दोषा उक्ताः । अथ ग्रामेयकतिर्यक्समुत्थान् दोषानुपदर्शयति [भा. २३९१] गामेय कुच्छियाऽ कुच्छिया य एक्केक्क दुट्ठऽदुट्ठाय । दुट्ठा जह आरण्णा, दुछियऽदुगुंछिया नेया ।। ७१ वृ- ते ग्रामेयकास्तिर्यञ्चो द्विविधाः 'कुत्सिताः' जुगुप्सिताः 'अकुत्सिताः' अजुगुप्सिताः । जुगुप्सिता गर्दमादयः, अजुगुप्सिता गवादयः । पुनरेकैके द्विविधाः दुष्टा अदुष्टाश्च । तत्र ये जुगुप्सिता वा दुष्टास्ते द्वयेऽपि यथा आरण्यकास्तथैव दोषानाश्रित्य ज्ञेयाः । ये अजुगुप्सिता अदुष्टास्तेष्वपि यथासम्भवं दोषा उपयुज्य वक्तव्याः ॥ ये पुनर्जुगुप्सिता अदुष्टास्तेषु दोषानाह [भा. २३९२ ] भुत्तियरदोस कुच्छिय, पडिनीय च्छोभ गिण्हणादीया । आरण्णमनुय-थीसुवि, ते चेव नियत्तणाईया ॥ वृ- येन साधुना महाशब्दिकाद्या जुगुप्सिता तिरश्ची गृहस्थकाले भुक्ता तस्य तां तत्र दृष्टवा स्मृति, इतरस्य कौतुकम् एवं भुक्ताऽभुक्तसमुत्था दोषा भवन्ति । अथवा तासु जुगुप्सितासु तिरश्चीषु पार्श्ववर्तिनीषु प्रत्यनीकः कोऽपि “छोभ "त्ति अभ्याख्यानं दद्यात् मयैष श्रमणको महाशब्दिकां प्रतिसेवमानो दृष्ट इति, तत्र ग्रहणा-ऽऽकर्षणप्रभृतयो दोषाः । एवं ग्रामेयकISSरण्यकेषु तिर्यक्षु दोषा उपदर्शिताः । अथ मनुष्येष्वभिधीयन्ते- “आरण्ण” इत्यादि, मनुष्या द्विविधाःआरण्यका ग्रामेयकाश्च । तत्रारण्यकेषु पुरुषेषु त एव दोषाः, स्त्रीष्वप्यारण्यकासुत एव निवर्त्तनाऽन्तरायादयो दोषा ये तिर्यक्षु भणिताः ।। एते चान्येऽभ्यधिकाःपायं अवाउडाओ, सबराईओ तहेव नित्थक्का । आरियपुरिस कुतूहल, आउभयपुलिंद आसुवहो । [मा. २३९३] वृ- 'प्रायः' बाहुल्येन शबरीप्रभृतय आरण्यका अनार्यस्त्रियः 'अपावृताः' वस्त्रविरहिताः “नित्थक्का” इति निर्लज्जाश्च भवन्ति, ततः साधुं दृष्ट्वा आर्योऽयं पुरुष इति कृत्वा कौतूहलेन तत्रागच्छेयुः, ताश्च दृष्ट्वा साधोरांत्मोभयसमुत्था दोषा भवेयुः, तदीयपुलिन्दश्च तां साधुसमीपायातां विलोक्य ईष्यार्भरेण प्रेरितः साधोः पुलिन्द्या उभयस्य वा आशु शीघ्रं वधं कुर्यात् ॥ [भा. २३९४ ] थी- पुरिसअनायारे, खोभो सागारियं ति वा पहणे । गामित्थी पुरिसेहि वि, ते च्चिय दोसा इमे अन्ने ।। वृ- अथवा स पुलिन्द्रः पुलिन्द्या सहानाचारमाचरेत् ततः स्त्रीपुरुषानाचारे दृष्टे चित्तक्षोभो भवेत्, क्षुभिते च चित्ते प्रतिगमनादयो दोषाः । यद्वा स पुलिन्द्रस्तां प्रतिसेवितुकामः ' सागारिकं ' वक्ष्यमाणलक्षणमिति कृत्वा तं साधुं प्रहण्यात् । एते आरण्यकेषु स्त्री-पुरुषेषु दोषा उक्ताः । ग्रामेयकस्त्री-पुरुषेष्वपि त एव दोषाः । एते चान्येऽधिका भवन्ति ॥ Page #75 -------------------------------------------------------------------------- ________________ ७२ बृहत्कल्प-छेदसूत्रम् -२-१/१९ [भा.२३९५] चंकमणं निल्लेवण, चिट्ठित्ता तम्मि चेव तूहम्मि । __अच्छंते संकापद, मज्जण दटुं सतीकरणं ॥ वृ-चक्रमणं निर्लेपनं वा तत्र गृहस्थः कर्तुकामोऽपि साधुं दृष्ट्वा कश्चिदन्यत्र गत्वा करोति, कश्चिच्च तत्रैव तीर्थे साधुसमीपे गत्वा करोति । तथा “चिट्ठित्त"त्ति कश्चिद् गृहस्थः साधुना सह गोष्ठीनिमित्तं स्थित्वा पश्चादन्यत्र गच्छति । एवमधिकरणं भवेत् । तथा दकतीरे तिष्ठति साधौ 'शङ्कापदं' वक्ष्यमाणलक्षणमगारिणां जायते । मज्जनं च विधीयमानं दृष्ट्वा स्मृतिकरणं भुक्तभोगिनाम्, उपलक्षणत्वादमुक्तभोगिनां च कौतुकमुपजायते॥ अथैनामेव नियुक्तिगाथां विवृणोति[भा.२३९६] अन्नत्य व चंकमती, आयमणऽन्नत्थ वा वि वोसिरइ। . कोनाली चंकमणे, परकूलाओ वितत्थेइ॥ वृ-कश्चिद् ‘दकतीरेचङ्क्रमणंकरिष्यामि' इत्यभिप्रायेणायातः साधुंदृष्ट्वा ततः स्थानादन्यत्र चक्रम्यते, वाशब्दात् कश्चिदन्यत्र चङ्कम्यमाणः साधु विलोक्य तत्रागत्य चक्रम्येत । एवम् 'आचमनं' निर्लेपनं तत् कर्तुकामः संज्ञां वा व्युष्टुकामः साधुं दृष्ट्वा अन्यत्र गत्वा अन्यतो वा तत्रागत्य निर्लेपयति व्युत्सृजति वा । तथा कश्चिदगारो गन्तुकामः परकूले चक्र्म्यमाणं साधुं निरीक्ष्य “कोनालि"त्ति गोष्ठी तांसाधुना सह करिष्यामीतिमत्वातदर्थं चङ्क्रमणकर्तुपरकूलादपि तत्रागच्छति । सर्वत्र साधुनिमित्तमागच्छन्नागतस्तिष्ठंश्च षट् कायान् विराधयेत् ॥ “अच्छंते संकापयत्ति पदं व्याख्यानयति[भा.२३९७] दग-मेहुणसंकाए, लहुगा गुरुगा उ मूल निस्संके। दगतूर कोंचवीरग, पघंस केसादलंकारे॥ वृ-साधुंदकतीरे तिष्ठन्तं दृष्ट्वा कश्चिदगारः शङ्कां कुर्यात्-किमेष उदकपानार्थं तिष्ठति? उत मैथुने दत्तसङ्केतां काञ्चिदागच्छन्ती प्रतीक्षते? ।तत्रोदकपानशङ्कायांचतुर्लघु, निशङ्कितेचतुर्गुरु; मैथुनशङ्कायां चतुर्गुरु, निशङ्किते मूलम् । “मज्जण दटुं सईकरणं" ति पदं व्याख्यायते-कोऽपि मज्जनं कुर्वन् तथा कथञ्चिद् जलमास्फालयति यथा 'दकतूर्यम्' उदके मुखादितूर्याणां शब्दो भवति।यद्वा कोऽपिक्रोञ्चवीरकेणजलमाहिण्डते।क्रोञ्चवीरको नाम पेटासहशोजलयानविशेषः। “पघंस"त्तिस्नात्वा पटवासादिभि स्वशरीरं कोऽपि प्रघर्षयति । यद्वा “केसादलंकारे"त्ति केशवस्त्र-माल्या-ऽऽभरणा-ऽलङ्कारैरात्मानमलङ्करोति । एतद् मज्जनादिकं दृष्ट्वा भुक्ता-ऽभुक्तसमुत्थाः स्मृत्यादयो दोषाः ॥ एवं पुरुषेषु भणितम् । अथ स्त्रीषु दोषान् दर्शयति[भा.२३९८] मजणवहणट्ठाणेसुअच्छते इत्थिमं ति गहणादी। एमेव कुच्छितेतर, इत्थि सविसेस मिहुनेसु ॥ वृ-सपरिग्रहस्त्रीणां वसन्तादिपर्वण्यन्यत्र वायाजलक्रीडायद्वा सामान्यतोमल-दाहोपशमनार्थं स्नानं तद् मज्जनमुच्यते, तस्य जलवहनस्थानेषु स्त्रीणां सम्बन्धिषु तिष्ठन्तं साधुं हटवा तदीयो ज्ञातिवर्गश्चिन्तयति-अस्मदीयस्त्रीणांमज्जनादिस्थाने एष श्रमणः परिभवेन कामयमानोवा तिष्ठति, ततो दुष्टशील इति कृत्वा ग्रहणा-ऽऽकर्षणादीनि कुर्यात् । याः पुनरपरिग्रहस्त्रियस्ताः ‘कुत्सिताः' रजक्यादयः ‘इतराः' अकुत्सिता ब्राह्मण्यादयः तास्वप्येवमेवात्मपरोभयसमुत्थादयो दोषाः । Page #76 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं- १९, [भा. २३९८] 'मिथुनेषु' स्त्री-पुरुषयुग्मेषु मैथुनक्रीडया रममाणेषु सविशेषतरा दोषा भवन्ति, ये च चङ्क्रमणादयो दोषाः पूर्वमुक्तासतेऽप्यत्र तथैव द्रष्टव्याः । यत एते दोषा अतो दकतीरेऽमूनि सूत्रोक्तानिपदानि न कुर्यात् ॥ [भा. २३९९] चिट्ठण निसीयणे या, तुयट्ट निद्दा य पयल सज्झाए । झाणाऽऽहार वियारे, काउस्सग्गे य मासलहू ॥ वृ-स्थाने १ निषदने २ त्वग्वर्त्तने ३ निद्रायां ४ प्रचलायां ५ स्वाध्याये ६ ध्याने ७ आहारे ८ विचारे ९ कायोत्सर्गे १० चेति दशसु पदेषु दकतीरे विधीयमानेषु प्रत्येकं मासलघु, असामाचारीनिष्पन्नमिति भावः ॥ अथ निद्रा-प्रचलयोः स्वरूपमाह ७३ [भा. २४००] सुहपडिबोहो निद्दा, दुहपडिबोहो उ निद्दनिद्दा य । पयला होइ ठियस्सा, पयलापयला य चंकमओ ॥ वृ-सुखेन-नखच्छोटिकामात्रेणापि प्रतिबोधो यस्मिन् स सुखप्रतिबोधः, एवंविधः स्वापविशेषो निद्रेत्युच्यते । यत्र तु दुःखेन महता प्रयत्नेन प्रतिबोधः स निद्रानिद्रा । तथा स्थितो नाम-उपविष्ट ऊर्ध्वस्थितो वा तस्य या स्वापावस्था सा प्रचला । या तु 'चङ्क्रमतः' गतिपरिणतस्य निद्रा सा प्रचलाप्रचला । अत्र च निद्रा - प्रचलयोरधिकारे यन्निद्रानिद्रा - प्रचलाप्रचलयोर्व्याख्यानं तदनयोरप्यत्रैवान्तर्भावो द्रष्टव्य इति ज्ञापनार्थम् ।। अथ विस्तरतः प्रायश्चित्तं वर्णयितुकाम आह[भा. २४०१ ] संपामे असंपाइमे व दिट्टे तहेव अहिडे । पनगं लहु गुरु लहुगा, गुरुग अहालंद पोरुसी अहिया || वृ-दकतीरे 'सम्पातिमेऽ सम्पातिमे वा' उभयस्मिन्नपि वक्ष्यमाणलक्षणे दृष्टोऽदृष्टो वा तिष्ठति । कियन्तं पुनः कालम् ? इत्याह-यथालन्दं पौरुषीमधिकं वा पौरुषीम् । तत्र यथालन्दं त्रिधाजघन्यं मध्यममुत्कृष्टं च । तत्र स्त्रिया आर्द्रः करो यावता कालेन शुष्यति तद् जघन्यम्, उत्कृष्टं पूर्वकोटिप्रमाणम्, तयोरपान्ताले सर्वमपि मध्यमम् । अत्र जघन्येन यथालन्देनाधिकारः । एवं यथालन्दादिभेदात् त्रिविधं कालं दकतीरे तिष्ठतः पञ्चकं लघुको गुरुको मासः लघुका गुरुकाश्चत्वारो मासा प्रायश्चित्तम् । एतदुपरिष्टाद् व्यक्तीकरिष्यते ॥ अथ सम्पातिमा -ऽ सम्पातिमपदे व्याख्याति [भा. २४०२] जलजा उ असंपाती, संपातिम सेसगा उ पंचिंदी । अहवा मुत्तु विहंगे, होंति असंपातिमा सेसा ।। वृ-ये 'जलजाः' मत्स्य-मण्डूकादयस्तेऽसम्पातिमाः, तैर्युक्तं दकतीरमप्यसम्पातिमम् । शेषाः 'पञ्चेन्द्रियाः' स्थलचराः खेचरा वा ये स्थानान्तरादागत्य सम्पतन्ति ते सम्पातिमास्तैर्यद् युक्तं तत् सम्पातिमम् । अथवा 'विहङ्गाः' पक्षिणस्ते यत्रागत्य सम्पतन्ति तत् सम्पातिमम् । तान् मुक्त्वा 'शेषाः ' स्थलचरा जलचरा वा सर्वेऽप्यसम्पातिमाः, तद्युक्तं दकतीरमसम्पातिमम् ॥ अथ पूर्वोक्तं प्रायश्चित्तं व्यक्तीकुर्वन्नाह [भा. २४०३] असंपाइ अहालंदे, अद्दिट्ठे पंच दिट्टि मासो उ । पोरिसि अदिट्ठि दिने, लहु गुरु अहि गुरुओ लहुआ उ ॥ वृ- असम्पातिमे दकतीरे जघन्यं यथा तन्दमध्ष्टस्तिष्ठति पञ्च रात्रिन्दिवानि, दृष्टस्तिष्ठति मासलघु, Page #77 -------------------------------------------------------------------------- ________________ ७४ बृहत्कल्प-छेदसूत्रम् -२-१/१९ असम्पातिमे पौरुषीमध्ष्टस्तिष्ठति मासलघु, दृष्टस्तिष्ठति मासगुरु, अधिकां पौरुषीम दृष्टस्तिष्ठति मासगुरु, दृष्टस्तिष्ठति चतुर्लघु । एवमसम्पातिमे दकतीरे भणितम् ॥ [भा. २४०४] संपाइमे वि एवं मासादी नवरि ठाइ चउगुरुए । भिक्खू-वसभा-ऽऽयरिए, तव कालविसेसिया अहवा ।। - सम्पातिमेऽप्येवमेवार्द्धापक्रान्त्या प्रायश्चित्तं द्रष्टव्यम् । नवरं लघुमासादारब्धं चतुर्गुरुके तिष्ठति, एतदोघतः प्रायश्चित्तम् । अथवैतान्येव भिक्षु वृषभा ऽभिषेकाऽऽचार्याणां तपःकालविशेषितानि भवन्ति । तथाहि पूर्वोक्तं सर्वमपि प्रायश्चित्तं भिक्षोस्तपसा कालेन च लघुकम्, वृषभस्य कालगुरु तपोलघु, अभिषेकस्य तपोगुरु काललघु, आचार्यस्य तपसा कालेन च गुरुकम्। अत्र चाभिषेकपदं गाथायामनुक्तमपि "तन्मध्यपतितस्तद्रहणेन गृह्यते" इति न्यायात् प्रतिपत्तव्यम् । एष द्वितीय आदेशः || [भा. २४०५] अहवा भिक्खुस्सेयं, वसभे लहुगाइ ठाइ छल्लहुए । अभिसे गुरुगादी, छग्गुरु लहु छेदो आयरिए ॥ वृ- अथवा यदेतत् प्राश्चित्तमुक्तं तद् भिक्षोर्द्रष्टव्यम् । वृषभस्य तु मासलघुकादारब्धं षड्लघुके तिष्ठति, तत्रासम्पातिमे यथालन्द- पौरुषी-समधिकपौरुषीषु दृष्टा-दृष्टयोर्मासलघुकादारब्धं चतुर्गुरुके तिष्ठति । सम्पातिमे एतेष्वेव स्थानेषु मासगुरुकादारब्धं षड्लघुके पर्यवस्यति । 'अभिषेकस्य' उपाध्यायस्यासम्पातिमे मासगुरुकादारब्धं षड्लघुके तिष्ठति, सम्पातिमे चतुर्लघुकादारब्धं षड्गुरुके तिष्ठति । आचार्यस्य चतुर्लघुकादारब्धमसम्पातिमे षड्गुरुके सम्पातिमे चतुर्गुरुकादारब्धं छेदे निष्ठामुपगच्छति । एष तृतीय आदेशः । अथ चतुर्थमादेशमाह [भा. २४०६ ] अहवा पंचण्हं संजईण समणाण चेव पंचण्हं । पनगादी आरद्धं, नेयव्वं जाव चरिमपदं ॥ वृ- अथवा क्षुल्लिकादिभेदात् पञ्चानां संयतीनां श्रमणानां चैव पञ्चानां पञ्चकादेरारब्धं प्रायश्चित्तं तावद् नेतव्यं यावत् 'चरमपदं' पाराञ्चिकम् ।। एतदेव सविशेषमाह [भा. २४०७] संजइ संजय तह संपS संप अहलंद पोरिसी अहिया । चिट्ठाई अद्दि, दिट्ठे पनगाइ जा चरिमं ॥ वृ- संयत्यः क्षुल्लिका स्थविरा भिक्षुणी अभिषेका प्रवर्त्तिनी चेति पञ्चविधाः, संयता अपि क्षुल्लक-स्थविर- भिक्षुको-पाध्याया ऽऽचार्यभेदात् पञ्चधा, “संपऽसंपत्ति सूचकत्वात् सूत्रस्य सम्पातिममसम्पातिमं वा दकतीरम्, यथालन्द-पौरुषी-अधिकपौरुषीलक्षणं कालत्रयम्, स्थाननिषदनादीनि च दश पदानि, अदृष्टे दृष्टे चेति पदद्वयम् । एतेषु पदेषु पञ्चकादिकं चरमं प्रायश्चित्तं यावद् नेतव्यम् ॥ कियन्ति पुनः प्रायश्चित्तस्थानानि भवन्ति ? इति दर्शयति [भा. २४०८] पण दस पनरस वीसा, पनवीसा मास चउर छ च्चैव । लहु गुरुगा सव्वेते, छेदो मूलं दुगं चेव ॥ - पञ्चरात्रिन्दिवानि दशरात्रिन्दिवानि पञ्चदशरात्रिन्दिवानि विंशतिरात्रिन्दिवानि पञ्चविंशतिरात्रिन्दिवानि मासिकं चत्वारो मासाः षण्मासाश्च, एतानि सर्वाणि लघुकानि गुरुकाणि च, तद्यथा-लघुपञ्चरात्रिन्दिवानि गुरुपञ्चरात्रिन्दिवानि इत्यादि, एतानि षोडश सञ्जतानि, छेदो Page #78 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं-१९, [भा. २४०८] ७५ मूलं 'द्विकं चैव' अनवस्थाप्य-पाराञ्चिकयुगम्, एवं विंशति प्रायश्चित्तस्थानानि भवन्ति । अथामीषामेव पदानां चारणिकां कुर्वन्नाह[भा.२४०९] पनगाइ असंपाइम, संपाइमऽट्ठिमेव दिढे य । चउगुरुए ठाइ खुड्डी, सेसाणं वुड्डि एक्कक्कं ।। वृ- असम्पातिमे यथालन्दमष्टा क्षुल्लिका तिष्ठति लघुपञ्चकम्, दृष्टा तिष्ठति गुरुपञ्चकम्, पौरुषीमष्टा तिष्ठति गुरुपञ्चकम्, दृष्टा तिष्ठति लघुदशकम्, अधिकं पौरुषीमदृष्टा तिष्ठति लघुदशकम्, दृष्टायां गुरुदशकम् । सम्पातिमे यथालन्दमष्टा तिष्ठति गुरुपञ्चकम्, दृष्टा तिष्ठति लघुदकम्, पौरुषीमदृष्टा तिष्ठति लघुदशकम्, दृष्टायां गुरुदशकम्, समधिकां पौरुषीमदृष्टायां तिष्ठन्त्यां गुरुदशकम्, दृष्टायां लघुपञ्चदशकम् । एवमूर्द्धवस्थानमाश्रित्योक्तम् । निषीदन्त्यास्तु गुरुपञ्चरात्रिन्दिवेभ्यःप्रारब्धं गुरुपञ्चदशरात्रिन्दिवेषु, त्वरवर्तनं कुर्वत्या लघुदशरात्रिन्दिवादारब्धं लघुविंशतिरात्रिन्दिवेषु, एवं निद्रायमाणाया गुरुविंशतिरात्रिन्दिवेषु, प्रचलायमानाया लघुपञ्चविंशतिरात्रिन्दिवेषु, अशनाद्याहारमाहरन्त्या गुरुपञ्चविंशतिरात्रिन्दिवेषु, उच्चारप्रश्रवणे आचरन्त्या लघुमासे, स्वाध्यायं विदधानाया मासगुरुके, धर्मजागरिकया जाग्रत्याश्चतुर्लघुके, कायोत्सर्गं कुर्वत्याश्चतुर्गुरुके तिष्ठति । एवं क्षुल्लिकायाः प्रायश्चित्तमुक्तम् । शेषाणां तु स्थविरादीनामेकैकं स्थानमुपरि वर्द्धते अधस्ताच्चैकैकं स्थानं हीयते । तद्यथा-स्थविराया गुरुपञ्चकादारब्धं षड्लघुकं यावद्, भिक्षुण्या लघुदशकादारब्धं पङ्गुरुकान्तम्, अभिषेकाया गुरुदशकादारब्धंछेदपर्यन्तम्, प्रवर्त्तिन्या लघुपञ्चदशकादारब्धमूलान्तमवसातव्यम्॥एतदेवाह[भा.२४१०] छल्लहुए ठाइ थेरी, भिक्खुणि छग्गुरुए छेद गणिणी उ। मूले पवत्तिनी पुन, जह भिक्खुणि खुड्डए एवं ।। वृ-स्थविरा षड्लघुके, भिषुणी षड्गुरुके, 'गणिनी' अभिषेका सा छेदे, प्रवर्तिनी पुनर्मूले तिष्ठतीति । यथा च भिक्षुण्यां एवं क्षुल्लकेऽपि द्रष्टव्यम्, दशभ्यो लघुरात्रिन्दिवेभ्यः षड्गुरुकान्तमसम्पातिम-सम्पातिमादिषु प्रायश्चित्त भवतीत्यर्थः ॥ [भा.२४११]गणिणिसरिसो उ थेरो, पवत्तिणिविभागसरिसओ भिक्खू। अड्डोकंती एवं, सपदं सपदं गणि-गुरूणं ॥ वृ-गणिनी-अभिषेका तस्याः सद्दशः स्थविरः, यथाअभिषेकायागुरुदशकमादौ कृत्वाच्छेदान्तं भणितंतथा स्थविरस्यापि भणनीयमिति भावः । प्रवर्त्तिन्याः प्रायश्चित्तविभागेनसशोभिक्षुर्भवति, लघुपञ्चदशकात् प्रभृति मूलान्तं प्रायश्चित्तं तस्यापि ज्ञेयमिति हृदयम् । एवम् ‘अर्धापक्रान्त्या' अधस्तनैकपदह्रासोपरितनपदैकवुध्यात्मिकया गणी उपाध्यायो गुरु-आचार्यस्तयोरपि स्वपदं स्वपदंयावत् प्रायश्चित्तं नेतव्यम् तत्रोपाध्यायस्य गुरुपञ्चदशकमादौ कृत्वा स्वपदमनवस्थाप्यम्, . आचार्यस्य लघुविंशतिरात्रिन्दिवादारभ्य स्वपदं पाराञ्चिकं यावद् द्रष्टव्यम् ।। [भा.२४१२] एवं तु चिट्ठणादिसु, सव्वेसुपदेसु जाव उस्सग्गो। पच्छित्ते आदेसा, इक्विकपयम्मि चत्तारि॥ वृ-'एवम्' अमुना प्रकारेण स्थान-निपदनादिषु सर्वेष्वपि पदेषु कायोत्सर्गं यावदेकैकस्मिन् पदे प्रायश्चित्तविषयाश्चत्वार आदेशा भवन्ति । तद्यथा-एकं तावदौधिकं प्रायश्चित्तम्, द्वितीयं Page #79 -------------------------------------------------------------------------- ________________ बृहत्कल्प-छेदसूत्रम् -२-१/१९ तदेव तपः-कालविशेषितम्, तृतीयं छेदान्तम्, चतुर्थं चारणिकाप्रायश्चित्तम्॥गतं दकतीरद्वारम्। अथ यूपकस्यावसरः, तमेवाभिधित्सुराह[भा.२४१३] संकम जूवे अचले, चले य लहुगो य हुंति लहुगा य । तम्मि विसो चेव गमो, नवरि गिलाणे इमं होइ॥ वृ-यूपकं नाम-बेटकाख्यं जलमध्यवर्ति तटम्, तत्र देवकुलिका वा गृहं वा भवेत् तत्र वसतिं गृह्णतश्चतुर्लघुकाः । तच्च यूपकं सङ्कमेण वा गम्येत जलेन वा । सङ्क्रमो द्विविधः- चलोऽचलश्च। अचलेन गच्छतो मासलघु । चलो द्विविधः-सप्रत्यपायो निष्प्रत्यपायश्च । सप्रत्यपायेन गच्छतश्चतुर्गुरुकम्, निष्प्रत्यपायेन व्रजतश्चत्वारो लघुकाः । तस्मिन्नपि यूपके ‘स एव गमः' सैव वक्तव्यता या दकतीरे भणिता “अधिकरणमन्तरायः" इत्यारभ्य यावद् “एकैकस्मिन् पदे चत्वार आदेशाः" इति । नवगं ग्लानं प्रतीत्य इदमभ्यधिकं दोषजालं भवति । [भा.२४१४] दटूण व सइकरणं, ओभासण विरहिए य आइयणं । परितावण चउगुरुगा, अकप्प पडिसेव मूल दुगं॥ वृ- ग्लानस्य तदुदकं दृष्टवा ‘स्मृतिकरणम्' ईशी स्मृतिरुत्पद्यते-पिबाम्यहमुदकम् । ततोऽसाववभाषणंकरोति, यदि दीयतेतत-संयमविराधना, अथन दीयतेततोग्लानः परित्यक्तः। विरहितेचकारणतःसाधुभिप्रतिश्रये उदकस्य "आइयणं"तिपानं कुर्यात्, यदि स्वलिङ्गेनापिबति ततश्चतुर्लघुकम्।अथ “दुर्ग"तिगृहिलिङ्गमन्यतीर्थिकलिङ्गंचतेन ‘अकल्पम् अप्कायंप्रतिसेवते ततो मूलम्, तेन चापथ्येनानागाढपरितापनादयो दोषाः, तन्निष्पन्नमाचार्यस्य प्रायश्चित्तम् । अथवा "अकप्पपडिसेव मूल दुगं"तिअकल्पंप्रतिसेव्य भग्नव्रतोऽहमितिकृत्वा यद्येको ग्लानोऽवधावते तत आचार्यस्य मूलम्, द्वयोरनवस्थाप्यम्, त्रिषु पाराञ्चिकम् ॥ [भा.२४१५] आउक्काए लहुगा, पूयरगादीतसेसु जा चरिमं । जे गेलने दोसा, धिइदुब्बले सेहे ते चेव ॥ वृ-अप्काये प्रतिसेविते चतुर्लघुकाः । पूतरकादित्रसेषु 'चरम पाराञ्चिकं यावन्नेतव्यम् । तत्र पूतरकादिषुद्वीन्द्रियेषु षड्लघुकम्, त्रीन्द्रियेषुषड्गुरुकम्, चतुरिन्द्रियेषुच्छेदः पञ्चेन्द्रिये मत्स्यादौ उदकेन सह गिलिते एकस्मिन् मूलम्, द्वयोरनवस्थाप्यम्, त्रिषुपाराञ्चिकम् ।येच ग्लान्ये ग्लानस्य स्मृतिकरणा-प्कायपानादयो दोषा उक्ताः ‘धृतिदुर्बले' मन्दश्रद्धे शैक्षे त एव द्रष्टव्याः ।। गतं यूपकद्वारम् । अथातापनाद्वारमाह नियुक्तिकारः[भा.२४१६] आयावण तह चेव उ, नवरि इमं तत्थ होइ नाणत्तं । मज्जन सिंचन परिणाम वित्ति तह देवया पंता ।। कृ-येदकतीरेऽधिकरणा-ऽन्तरायादयोदोषा उक्तास्तेयथासम्भवंदकतीरेयूपकेवाआतापनां कुर्वतस्तथैव गणितव्याः, नवरमिदं 'नानात्वं' विशेषोभवति-तत्रातापयतो मज्जनंवा सिञ्चनंवा कश्चित् कुर्यात्, परिणामो वा तस्य स्नानादिविषयो भवेत्, ‘वृत्तिा' आजीविका मरुकाणां व्यवच्छिद्येत, प्रान्ता वा देवता लोकेनापूज्यमाना साधोरुपसर्गं कुर्यात्॥ तत्र मज्जन-सिञ्चन-परिणामद्वाराणि व्याख्यानयति-- [भा.२४१७]. मजति व सिंचंति व, पडिनीयऽनुकंपया वणं केई। __ Page #80 -------------------------------------------------------------------------- ________________ उद्देशकः १,मूलं-१९, [भा. २४१७] ७७ तण्हुण्हपरिगयस्स व, परिणामो ण्हाण-पियणेसु ॥ वृ-“णं" इति तमातापकं प्रत्यनीकतया अनुकम्पया वा केचिद् ‘मज्जयन्ति वा' स्नपयन्ति 'सिञ्चन्ति वा' शृङ्गच्छटादिभिरञ्जलीभिर्वा निर्वापयन्ति । यद्वा तस्यातापकस्य ‘तृषितोऽहम्' इत्येवंतृष्णापरिगतस्य ‘धर्माभिभूतगात्रोऽहम्' इत्येवमुष्णपरिगतस्यवा स्नान-पानयोः परिणामः सआयते ।। वृत्तिद्वारं प्रान्तदेवताद्वारं चाह[भा.२४१८] आउट्ट जणे मरुगाणअदाने खरि-तिरिक्खिछोभादी। पञ्चक्खदेवपूयण, खरियाऽऽवरणं व खित्ताई ॥ वृ- तस्यातापनया आवृत्तः-आवर्जितो जनो मरुकाणां दानं न ददाति, ततस्तेषामदाने खरीद्व्यक्षरिका तिरश्ची-महाशब्दिकाप्रभृतिका तद्विषयं छोभम्-अभ्याख्यानं तदादयो दोषा भवेयुः । तथा प्रत्यक्षदेवताऽयम्' इति कृत्वा तस्य साधोः पूजनं देवतायाश्चापूजनम्, ततः "खरियाऽऽवरणं"तिसंयतवेषमावृत्य तत्प्रतिरूपं कृत्वा व्यक्षरिकांप्रतिसेवमानंदेवता दर्शयेत्, क्षिप्तचित्तादिकं वा तं श्रमणं सा देवता कुर्यादिति ॥अथैनामेव नियुक्तिगाथां स्पष्टयति[भा.२४१९] आयावण साहुस्सा, अनुकंपं तस्स कुणइ गामो उ। मरुयाणंच पओसो, पडिनीयाणंच संका य॥ कृतस्य साधोर्दकतीरे आतापनांकुर्वतो ग्रामजनः सर्वोऽप्यावृत्तः, ततश्चानुकम्पांतस्य करोति, पारणकदिवसे भक्तादिकंसविशेषंददातीत्यर्थः, 'अयंप्रत्यक्षदेवः, किम्माकमन्येषां मरुकादीनां दत्तेन ? एतस्य दत्तं बहुफलं भवति' इति कृत्वा । ततो मरुकाणामदीयमाने प्रद्वेषः सातेः, ततस्ते व्यक्षरिका-महाशब्दिकादिविषयमयशः प्रदधु, यथा-एष संयतोऽस्माभिव्यक्षरिकां महाशब्दिकां वा प्रतिसेवमानो इष्ट इति । तत्र ये प्रत्यनीकास्तेषां शङ्का भवति तत्र चतुर्गुरु, निशङ्किते मूलम्; अथवा येप्रत्यनीकास्तेशन्ते-कस्मादेष तीर्थस्थाने आतापयति ? किं स्तैन्यार्थी? उत मैथुनार्थी ? इति । गतं वृत्तिद्वारम् । अथ “पञ्चक्खदेव" इत्यादि पश्चाद्धं भाव्यते-यत्रासावातपयति तत्रप्रत्यासना देवता वर्तते तस्यालोकः सर्वोऽपिपूर्वं पूजापर आसीत्।तंच साधुं तत्रातापयन्तं दृष्ट्वा अयं प्रत्यक्षदैवतमिति कृत्वा लोकस्तं पूजयितुं लग्नः । ततः सा देवता अपूज्यमाना प्रद्विष्टा सती द्व्यक्षरिकाद्यभ्याख्यानं दद्यात् । अथवा साधुरूपमावृत्य तत्प्रतिरूपं द्व्यक्षरिकां तिरश्ची वा प्रतिसेवमानं दर्शयेत्, क्षिप्तचित्तं वा कुर्यात्, अपरां वा अकल्पप्रतिसेवनादिकामक्रियादर्शयेत् । यस्मादियन्तोदोषास्तस्माद्दकतीरेयूपके वान स्थानादीनि पदानि कुर्यात्, द्वितीयपदे कुर्यादपि । कथम् ? इत्याह[भा.२४२०] पढमे गिलाणकारण, बीए वसहीए असइए वसइ। रायणियकजकारण, तइए बिइयपय जयणाए। वृ-प्रथम-दकतीरंतत्र ग्लानकारणात् तिष्ठेत् । द्वितीयं-यूपकंतत्र निर्दोषाया वसतेः 'असति' अभावे ‘वसति' तिष्ठति । 'तृतीयम्' आतापनापदं तत्र रात्निकः-राजा तदायत्तं यत् कुल-गणसङ्घकार्यं तत्कारणे तिष्ठेत् । एवं त्रिष्वपि दकतीरादिषु 'यतनया' वक्ष्यमाणलक्षणया 'द्वितीयपदं' तत्रावस्थानलक्षणं सेवेत ॥अथैनामेव नियुक्तिगाथां भावयति [भा.२४२१] विज-दवियट्ठयाए, निजंतो गिलाणो असति वसहीए। Page #81 -------------------------------------------------------------------------- ________________ ७८ बृहत्कल्प-छेदसूत्रम् -२-१/१९ जोगाए वा असती, चिट्ठे दगतीरऽनोयारे ॥ वृ-ग्लानो वैद्यस्य समीपं नीयमानो द्रव्यम् - औषधं तदर्थं वाऽन्यत्र नीयमानोऽन्यत्र वसतेरभावे दकतीरेऽपि तिष्ठेत् । अथवा विद्यते वसति परं न ग्लानयोग्या ततो योग्याया वसतेरसति तत्र वसेत् । अथवा विश्रामणार्थं दकतीरे मुहूर्त्तमात्रं ग्लानस्तिष्ठेत् । तमपि मनुष्य-तिरश्चाम् 'अनवतारे' अप्रवेशमार्गेऽवतारयेत् ॥ तत्र च स्थितानामियं यतना [भा.२४२२] उदगंतेण चिलिमिणी, पडियरए मोत्तु सेस अन्नत्थ । पडियर पडिसंलीना, करिज्ज सव्वाणि वि पयाणि ॥ वृ- उदकं येनान्तेन-पार्श्वेन भवति ततश्चिलिमिली कटको वा दीयते, ये च ग्लानस्य प्रतिचरकास्तान् मुक्त्वा शेषाः सर्वेऽप्यन्यत्र तिष्ठन्ति । प्रतिचरका अपि प्रतिसंलीनास्तथा तिष्ठन्ति यथा सम्पातिमा - S सम्पातिमसत्त्वानां सन्त्रासो न भवति । एवं सर्वाण्यपि स्थान-निषदनादीनि पदानि कुर्यात् ।। गता दकतीरयतना । अथ यूपकयतनामाहअद्धाणनिग्गयादी, संकम अप्पाबहुं असुन्नं च । [भा. २४२३] - सेहभावो, संससिणं व निव्वविरं ।। वृ- अध्वनिर्गतादयः साधवोऽन्यस्या वसतेरभावे यूपके तिष्ठन्ति । तत्राल्पबहुत्वं ज्ञात्वा य एकाङ्गिकोऽचलो अरिशाटी निष्प्रत्यपायश्च सङ्क्रमस्तेन गन्तव्यम् । दिवा च रात्रौ च वसतिमशून्यां कुर्वन्ति । तत्र स्थितानां ग्लानस्य वा शैक्षस्य वा यदि 'पानीयं पिबामः' इत्यशुभो भाव उत्पद्यते ततस्तौ प्रज्ञाप्येते । तथाप्यस्थिते भावे तयोः संसृष्टपानकमुष्णोदकं वा 'निर्वाप्य' सुशीतलं कृत्वा दातव्यम् ॥ अथातापनायतनामाह [ भा. २४२४] ओलोयण निग्गमणे, ससहाओ दगसमीवे आयावे । उभदढो भोगजढे, कज्जे आउट्ट पुच्छणया ॥ वृ-चैत्यविनाश-तद्रव्यविनाशादिविषयं किमपि कार्यं राजाधीनं ततो राज्ञ आवर्जनार्थं दकसमीपे आतापयेत् । तच्च दकतीरं राज्ञोऽवलोकनपथे निर्गमनपथे वा भवेत्। तत्र चातापयन् 'ससहायः ' नैकाकी 'उभयध्ढः' धृत्या संहननेन च बलवान् "भोगजढे "त्ति ग्रामेयका-ऽऽरण्यकानां तिर्यङ्मनुष्याणामवतरणमार्गं मनुजानां च स्नादिभोगस्थानं वर्जयित्वा अपरिभोग्ये प्रदेशे आतापयति । ततः स राजा तं महातपोयुक्तमातापयन्तं दृष्ट्वा आवृत्तः सन् कार्यं पृच्छेत्-भगवन् ! किमेवमातापयसि ? आज्ञापय, करोम्यहं युष्मदभिप्रेतं कार्यम्, भोगान् वा भगवतां प्रयच्छामि । मुनिराह-महाराज! न मे कार्यं भोगादिभिर्वरैः, इदं सङ्घकार्यं चैत्यविनाशनिवर्त्तनादिकं विदधातु महाराज इति ।। अथ तस्य कीदृशः सहायो दीयते ? इत्याह [भा. २४२५] भाविय करणो तरुणो, उत्तर-सिंचणपहे य मुत्तूणं । मज्जणमाइनिवारण, न य हिंडइ पुप्फ वारेइ ॥ वृ- ‘भावितो नाम' परिणतजिनवचनः तस्य ह्यप्कायपाने परिणामो न भवति, “करणु"त्ति इषुशास्त्रे संयमे वा कृतकरणः, 'तरुणः' समर्थ, ईदृशः सहायस्तस्य नातिदूरे वृक्षच्छायायामुपविष्टस्तिष्ठति । स चातापकस्तिर्यङ्-मनुष्याणामुत्तरणपथं सिञ्चनपथं च मुक्त्वा आतापयति । तथाप्यातापयन्तं यदि कोऽपि मज्जयति वा सिञ्चयति वा ततस्तं सहायो निवारयति । स Page #82 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं- १९, [भा. २४२५] ७९ चातापकस्तस्मिन् ग्रामे नगरे वा भिक्षां न हिण्डते, 'मा मरुकादयः प्रद्विष्टा अभ्याख्यानं विषगरादि वा दद्यु' इति कृत्वा । यश्चातापकस्य पुष्पादीन्यालगयति तमप्यसौ सहायो वारयति ॥ सू. (२०) नो कप्पइ निग्गंथाण वा निग्गंथीण वा सचित्तकम्मे उवस्सए वत्थए ॥ मू. (२१) कप्पइ निग्गंथाण वा निग्गंथीण वा अचित्तकम्मे उवस्सए वत्थए । वृ- अस्य सूत्रस्य सम्बन्धमाह [भा.२४२६] पढम-चउत्थवयाणं, अतिचारो होज्ज दगसमीवम्मि । इह वि य हुज चंउत्थे, सचित्तकम्मेस संबंधो ॥ वृ-प्रथम चतुर्थव्रतयोरप्कायपान- स्त्रीपशसंसर्गादिभिरतिचारो दकसमीपे तिष्ठतां भवेदिति कृत्वा तत्र न तिष्ठतीत्युक्तम् । इहापि च सचित्रकर्मणि प्रतिश्रये तिष्ठतां चतुर्थव्रतस्यातिचारो भवेदिति कृत्वा तत्र न तिष्ठतीत्यनेन प्रतिपाद्यते । एष सम्बन्धः ॥ प्रकारान्तरेण तमेवाह[ भा. २४२७] नो कप्पइ जागरिया, चिट्ठणमाई पया य दगतीरे । चित्तगयमानसाणं, जागरि-झाया कुतो अहवा ।। वृ- अनन्तरसूत्रे नो कल्पते 'जागरिका' धर्मध्यानं स्थानादीनि च पदानि दकतीरे कर्तुमित्यक्तम्। इह तु चित्रगतमानसानां कुतो जागरिका-स्वाध्यायौ सम्भवतः ? इत्ययम् ' अथवा ' द्वितीयः सम्बन्धः ॥ अनेन सम्बन्धद्वयेनायातस्यास्य व्याख्या-नो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा 'सचित्रकर्मणि' चित्रकर्मणा संयुक्त उपाश्रये वस्तुम् ।। कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा अचित्रकर्मणि उपाश्रये वस्तुमिति सूत्रार्थ ।। अथ भाष्यविस्तरः [भा. २४२८] निद्दोस सदोसे वा, सचित्तकम्मे उ दोस आणादी । सइकरणं विकहा वा, बिइयं असतीए वसहीए । वृ- निर्दोषे वा सदोषे वा सचित्रकर्मणि प्रतिश्रये तिष्ठतामाज्ञादयो दोषाः । ये च ताशे चित्रकर्मखचिते वेश्मनि पूर्वं भोगान् बुभुजिरे तेषां स्मृतिकरणम्, उपलक्षणत्वादितरेषां कौतुकमुपजायते, विकथा वा तत्र वक्ष्यमाणलक्षणा भवेत् । द्वितीयपदं चात्र - वसतावसत्यां तत्रापि वसेत् ।। अथैनामेव निर्युक्तिगाथां व्याख्याति [भा.२४२९] तरु गिरि नदी समुद्दो, भवणा वल्ली लयावियाणा य । निद्दोस चित्तकम्मं, पुत्रकलस-सोत्थियाई य ॥ वृ- तरवः - सहकारादयः, गिरयः - हिमवदादयः नद्यः - गङ्गा - सिन्धुप्रभृतयः, समुद्र:लवणोदादिकः, भवनानि चतुःशालादीनि गृहाणि, वल्लयः - नागवल्लयादयः, लताः - माधवी - चम्पकलतादयः तासां वितानं निकुरुम्बम्, तथा पूर्णकलश-स्वस्तिकादयश्च ये माङ्गलिकाः पदार्था, एतेषां रूपाणि यत्रालिखितानि तच्चित्रकर्म निर्दोषं ज्ञातव्यम् ॥ अथ सदोषमाह [भा. २४३०] तिरिय-मनुय-देवीणं, जत्थ उ देहा भवंति भित्तिकया । सविकार निव्विकारा, सदोस चित्तं हवइ एयं ॥ वृ- 'तिर्यड्-मनुज- देवीनाम्' इति तिरश्चीनां मानुषीणां देवीनां चेत्यर्थः, एतासां देहाः सविकारा निर्विकारा वा यत्र भित्तौ कृताः- आलिखिता भवन्ति एतत् चित्रकर्म सदोषं भवति । अथात्रैव तिष्ठतां प्रायश्चित्तमाह Page #83 -------------------------------------------------------------------------- ________________ बृहत्कल्प-छेदसूत्रम् -२-१/२१ [भा.२४३१] लहु गुरु चउण्ह मासो, विसेसितो गुरुगो आदि छल्लहुगा। चउलहुगादी छग्गुरु, उभयस्स वि दुविहचित्तम्मि॥ वृ-निर्दोषेचित्रकर्मणि तिष्ठतां चतुर्णामपितपः-कालविशेषितो लघुमासः। तद्यथा-आचार्यस्य द्वाभ्यामपि तपः-कालाभ्यां गुरुकः, उपाध्यायस्य तपोगुरुकः काललघुकः, वृषभस्य कालगुरुकस्तपोलघुकः, भिक्षोभ्यामपि लघुकः ।निर्ग्रन्थीनामपिनिर्दोषचित्रकर्मणि तिष्ठन्तीनांप्रवर्तिनीगणावच्छेदिनी-अभिषेका-भिक्षुणीनामेवमेव तपः-कालविशेषितो गुरुको मासः । निर्ग्रन्थाः सदोषचित्रकर्मणि यदि तिष्ठन्ति तदा गुरुको मास आदौ क्रियते, षड्लघुकाश्च पर्यन्ते । तद्यथाभिक्षोर्मासगुरुकम्, वृषभस्य चतुर्लघुकम्, उपाध्यायस्य चतुर्गुरुकम्, आचार्यस्य षड्लघुकम् । निर्ग्रन्थीनांतुसदोषेचित्रकर्मणि तिष्ठन्तीनांचतुर्लघुकमादौ कृत्वावगुरुकान्तंप्रायश्चित्तम् । तद्यथाभिक्षुण्याश्चतुर्लघुकम्, अभिषेकायाश्चतुर्गुरुकम्, गणावच्छेदिन्याः षड्लघुकम्, प्रवर्तिन्याः षड्गुरुकम् । एवम् ‘उभयस्यापि निर्ग्रन्थ-निर्ग्रन्थीवर्गस्य द्विविधेचित्रकर्मणिप्रायश्चित्तंज्ञातव्यम्॥ अथ विकथापदं व्याख्यानयति[भा.२४३२] दिटुं अन्नत्थ मए, चित्तं तं सोभणं न एअंति। इति विकहा पलिमंथो, सज्झायादीण कलहो य॥ वृ-तत्र चित्रकर्म दृष्ट्वा कश्चित् साधुबूयात्-मयापूर्वमन्यत्र चित्रकर्म दृष्टं तच्च 'शोभनं' वर्णकरेखादिशुध्धा रमणीयं न पुनः “एतत्' प्रत्यक्षोपलभ्यमानम् । तदाकर्ण्य द्वितीयः साधुर्च्यात्मुग्धबुद्धे! किंजानीषेत्वम्? इदमेव रमणीयमिति। एवं विकथा सआयते।ततश्च स्वाध्यायादीनां परिमन्थः कलहश्चोभयोरप्युत्तरप्रत्युत्तरिकां कुर्वतोरुत्पद्यते। यतएतेदोषास्तस्मान्न स्थातव्यम्।। द्वितीयपद वसतावसत्यामिति द्वारं भावयति[भा.२४३३] अद्धाणनिग्गयाई, तिपरिरया असइ अन्नवसहीए। तरुणा करिति दूरे, निच्चावरिए य ते रूवे॥ वृ-अध्वनिर्गतादयस्त्रीन् परिरयान्-परिभ्रमणानि कृत्वा यद्यन्या निरुपहता वसतिर्न प्राप्यते ततः सचित्रकर्मकेऽप्युपाश्रये तिष्ठन्ति। तत्रच प्रथमं निर्दोषे पश्चात् सदोषेऽपि।येच तरुणास्तान् चित्रकर्मणो दूरतः कुर्वन्ति।तानि च रूपाणि नित्यावृतानि' सदैव चिलिमिलिकया प्रच्छादितानि कुर्वन्ति, नापावृतानि स्थापयन्तीत्यर्थः ।। मू. (२२) नो कप्पइ निग्गंथीणं सागारियअनिस्साए वत्थए । मू. (२३) कप्पइ निग्गंथीणं सागारियनिस्साए वत्थए। वृ-अस्य सूत्रस्य सम्बन्धमाह[भा.२४३४] एरिसदोसविमुक्कम्मि आलए संजईण नीसाए। कप्पइ जईण भइओ, वासो अह सुत्तसंबंधो ।। वृ-ईशैः-अनन्तरोक्तैर्दोषैर्विमुक्तो यआलयः-उपाश्रयस्तस्मिन् संयतीनां सागारिकनिश्रया परिगृहीतानां वासः कल्पते । यतीनां तु 'भक्तः' विकल्पितः, निश्रया वा अनिश्रया वा तेषां वासः कल्पत इत्यर्थः । एतेन द्वितीयसूत्रस्यापि वक्ष्यमाणस्य सम्बन्धः प्रतिपादितः । अथ' एष सूत्रसम्बन्धइति।।अनेन सम्बन्धेनायातस्यास्य व्याख्या-नोकल्पते निर्ग्रन्थीनां 'सागारिकानिश्रया' Page #84 -------------------------------------------------------------------------- ________________ उद्देशकः १, मूलं-२३, [भा. २४३४] ८१ शय्यातरेणापरिगृहीतानांवस्तुम्॥कल्पते निर्ग्रन्थीनां सागारिकनिश्रया' शय्यातरेण परिगृहीतानां वस्तुम् । एष सूत्रसङ्केपार्थः ॥अथ भाष्यकारो विस्तरार्थ बिभणिषुराह[भा.२४३५] सागारियं अनीसा, निग्गंथीण न कप्पए वासो। चउगुरु आयरियादी, दोसा ते चेव तरुणादी ।। वृ-सागारिकः-शय्यातरस्तम् 'अनिश्राय' निश्रामकृत्वा । किमुक्तं भवति?-शय्यातरस्य या निश्रा-'मया युष्माकं चिन्ता करणीया, न भवतीभिकुतोऽपि भेतव्यम्' इत्यभ्युपगमः, तामन्तरेण निर्ग्रन्थीनां न कल्पते वासः । अत एवैतत् सूत्रमाचार्यो यदि प्रवर्त्तिन्या न कथयति ततश्चत्वारो गुरुकाः । सान प्रतिश्रणोति चत्वारो गुरुकाः । आचार्यमुखादाकर्ण्य सा संयतीनां न कथयति तदापि चतुर्गुरुकाः । यदि ता न प्रतिश्र ण्वन्ति तदा तासां लघुको मासः । तत्र चापरिगृहीते उपाश्रये वसन्तीनांतएव तरुणादयः' "तरुणावेसित्थि विवाह" इत्यादयोदोषाः ये आपणगृहादौ तिष्ठन्तीनामुक्ताः॥ [मा.२४३६] सागारियं अनिस्सा, भिक्खुणिमादीण संवसंतीणं । गुरुगा दोहि विसिट्ठा, चउगुरुगाई व छेदंता॥ कृ-सागारिकम् अनिश्राय' निश्रामकृत्वा भिक्षुण्यादीनांसंवसन्तीनां द्वाभ्यां तपः-कालाभ्यां विशिष्टाश्चतुर्गुरुकाः । तत्र भिक्षुण्यास्तपसा कालेन च लघुकाः, अभिषेकायाः कालेन गुरुकाः, गणावच्छेदिन्यास्तपसा गुरुकाः, प्रवर्त्तिन्यास्तपसा कालेन च गुरुकाः । अथवा चतुर्गुरुकादीनि छेदान्तानि प्रायश्चित्तानि । तद्यथा-भिक्षुण्याश्चतुर्गुरुकम्, अभिषेकायाः षड्लघुकम्, गणावच्छेदिन्याः षड्गुरुकम्, प्रवर्त्तिन्याश्छेद इति । आज्ञादयश्च दोषाः ॥अपिच[भा.२४३७] कंपइवाएण लया, अनिस्सिया निस्सिया उ अक्खोभा। इय समणी अक्खोभा, सगारिनिस्सेयरा भइया । पृ- 'लता' वल्ली ‘अनिश्रिता' वृक्षाद्यालम्बनरहिता वातेन प्रेर्यमाणा सती कम्पते, 'निश्रिता तु' सालम्बना ‘अक्षोभ्या' वातेन चालयितुमशक्या। "इय" एवं श्रमणी सागारिकनिश्रिता सती अक्षोभ्या, 'इतरा' अनिश्रिता 'भक्ता' विकल्पिता, यदि सा स्वयं धृति-बलयुक्ता तदा तरुणादीनामक्षोभ्या धृतिदुर्बला तु क्षोभणीयेति भावः ॥ आह श्रमणी न खल्वाचार्यप्रवर्तिनीनिश्राविरहिता कदापि भवति, अतः किं कार्यं तस्याः सागारिकनिश्रया ? इत्युच्यते[भा.२४३८] दोहि विपक्खेहि सुसंवुयाण तह वि गिहिनीसमिच्छंति। बहुसंगहिया अज्जा, होइ थिरा इंदलठ्ठी वा॥ वृ-'द्वाभ्यामपि' आचार्य-प्रवर्तिनीलक्षणाभ्यां पक्षाभ्यां यद्यप्यार्या सुसंवृता वर्तन्ते तथापि तासां गृहिणः-सागारिकस्य निश्रामिच्छन्ति भगवन्तः । कुतः? इत्याह-'बहुसङ्ग हीताः' बहुभिआचार्यादिभिश्चिन्तकैः परिगृहीता आर्या स्थिरा भवति इन्द्रयष्टिरिव । यथा खल्विन्द्रयष्टिर्बह्वीभिः इन्द्रकुमारिकाभिर्बद्धा सती निष्कम्पा भवति एवमियमपि॥ किञ्च[भा.२४३९] पत्थितो विय संकइ, पत्थिजंतो वि संकती बलिणो। सेणा वहूय सोभइ, बलवइगुत्ता तहऽज्जा वि॥ 1916 Page #85 -------------------------------------------------------------------------- ________________ बृहत्कल्प-छेदसूत्रम् -२-१/२३ वृ- प्रार्थयन्नप्यार्यां समर्थसागारिकनिश्रितां तरुणादिजनः 'शङ्कते' बिभेतीत्यर्थः । तथा प्रार्थ्यमानोऽपि संयतीजनः 'बलिनः' समर्थस्य शय्यातरस्य शङ्कते । अपि च यथा सेना बलपतिनासेनानायकेन यथा वा वधूर्बलवता श्वशुरपक्षेण पितृपक्षेण च गुप्ता रक्षिता शोभते तथा आर्याऽपि बलवता शय्यातरेण परिगृहीता सती विराजते ।। अमुमेवार्थं व्यतिरेकभङ्गया दृष्टान्तेन द्रढयति ८२ [भा. २४४०] सुना पसुसंधाया, दुब्बलगोवा य कस्स न वितक्का। इय दुब्बलनिस्साऽ निस्सिया व अज्जा वितक्काओ ।। वृ- ‘शून्याः’ रक्षापालविरहिताः 'दुर्बलगोपा वा' असमर्थरक्षपालपरिगृहीताः 'पशुसङ्गाताः' गवादिपशुवर्गा कस्य न 'वितक्या ' अभिलषणीया भवन्ति ? | 'इति' अमुना प्रकारेण दुर्बलशय्यातरनिश्रिताः सर्वथैवानिश्रिता वा आर्या सर्वस्यापि 'वितक्या' प्रार्थनीया भवन्ति । अत्रैवार्थे दृष्टान्तान्तराणि दर्शयति [भा. २४४१] अइया कुलपत्तगभोइया उ पक्कन्नमेव सुन्नम्मि । इच्छमनिच्छे तरुणा, तेणा उवहिं व ताओ वा ।। वृ- 'अजिका' छगलिका, कुलपुत्रकाणां च भोजिका महिला, 'पक्वात्र' मोदका - ऽशोकवत्यार्दि, यथैतानि शून्ये वर्त्तमानानि सर्वस्यापि स्पृहणीयानि भवन्ति एवं श्रमण्योऽपपि । तथा “इच्छमनिच्छे तरुण” त्ति तरुणान् प्रार्थयमानान् यदि ता इच्छन्ति ततो ब्रह्मव्रतभङ्गः, अथ नेच्छन्ति ततस्ते बलादपि तासां ग्रहणं कुर्यु । स्तेना उपधिं वा 'ता वा' संयतीरपहरेयुः ॥ [भा. २४४२ ] उच्छुय- घय-गुल- गोरस- एलाकुग- माउलिंगफलमादी । पुप्फविही गंधविही, आभरणविहीं य वत्थविही ।। वृ- इक्षु-घृत - गुड-गोरसाः प्रतीताः, 'एलालुकानि' चिर्मटानि, 'मातुलिङ्गफलानि' बीजपूराणि, आदिशब्दादाप्रादिपरिग्रहः, तथा 'पुष्पविधिः ' चम्पकादिका पुष्पजाति, गन्धाः - कोष्ठपुटपाकादयस्तेषां विधि- प्रकारो गन्धविधि, एवमाभरणविधिर्वस्त्रविधिश्च । एते इक्षुप्रभृतयः शून्या दुर्बलपरिगृहीता वा यथा सर्वस्यापि स्पृहणीयास्तथा संयत्योऽप्यनिश्रिता दुर्बलसागारिकनिश्रिता वा तरुणादीनां स्पृहणीयाः । अतोऽनिश्रया दुर्बलनिश्रया वा न स्थातव्यम् । भवेत् कारणं येनानिश्रयाऽपि तिष्ठेयुः । कथम् ? इति चेद् उच्चते [भा. २४४३ ] अद्धाणनिग्गयादी, तिक्खुत्तो मग्गिऊण असईए । संवरणं वसभा वा, ताओ व अपच्छिमा पिंडी || वृ- अध्वनो निर्गता आदिशब्दादध्वनि वहमनका अध्वशीषे प्राप्ता वा त्रिकृत्वः परिगृहीतां वसतिं मार्गयित्वा यदि न प्राप्यते ततः सागारिकस्यानिश्रयाऽपि तिष्ठेयुः । तत्र च 'संवरणं' कपाटं तदन्यतोSपि मार्गयित्वा दातव्यम् । अथ कपाटं न प्राप्यते ततो वृषभा गृहीभूय यः कश्चित् तरुणादि संयतीरुपद्रवति तं प्रहरणादिभिर्निवारयन्ति । अथ वृषभा न सन्ति ततस्ता एव संयत्यो दण्डकव्यग्रहस्ताः पिण्डीभूय तिष्ठन्ति, यस्तत्रोपद्रवं चिकिर्षति तं दण्डकमुद्यम्य निवारयन्ति, बोलं च महता शब्देन कुर्वन्ति । एषा अपश्चिमा यतनेति अथवाभोइय- महतरगाई, समागयं वा भणंति गामं तु । [भा. २४४४] Page #86 -------------------------------------------------------------------------- ________________ उद्देश : १, मूलं - २३, [भा. २४४४ ] निवगुत्ताणं वसही, दिजउ दोसा उभे उवरिं ॥ वृ-तत्र ग्रामादौ यो भोगिको महत्तरो वा आदिशब्दादन्यो वा प्रमाणभूतस्तम् अथवा ग्राममेकत्र सभादौ 'समागतं' मिलितं दृष्ट्वा साधवो भणन्ति-नृपः -राजा तेन गुप्ताः रक्षिताः सन्तो वयं स्वव्रताचारं परिपालयामः, अतो नृपगुप्तानामस्माकं वसतिर्दीयताम्, अन्यथा ये शून्ये प्रतिश्रये तिष्ठन्तीनां संयतीनां तरुण- स्तेनाद्युपद्रवदोषा भवेयुः ते सर्वेऽपि “भे” युष्माकमुपरि भविष्यन्ति । एवमुक्ते ते भोगिकादयः संयतीप्रायोग्यं परिगृहीतां वसतिं दापयन्ति स्वयं वा प्रयच्छन्ति । अथ ये वृषभा बहि प्रहरणादिव्यग्रहस्तास्तिष्ठन्ति ते ईशाः कर्त्तव्या इति दर्शयति [भा. २४४५ ] कयकरणा थिरसत्ता, गीया संबंधिणो थिरसररा । जियनिद्दिदिय दक्खा, तब्भूमा परिनयवयाय ॥ वृकृतकरणाः' धनुर्वेदे कृताभ्यासाः, 'स्थिरसत्त्वाः' निश्चलमानसावष्टम्भाः, 'गीताः ' सूत्रार्थवेदिनः, 'सम्बन्धिनः' तासामेव संयतीनां नालबद्धा भ्रात्रादिसम्बन्धयुक्ता इत्यर्थः, 'स्थिरशरीराः' शारीरबलोपेताः, जिताः वशीकृता निद्रा इन्द्रियाणि च यैस्ते जितनिद्रेन्द्रियाः, 'दक्षाः' कुशलाः, 'तद्भौमाः' तस्याभेव भूमी भवास्तद्भूमिवास्तव्यलोकपरिचिता इत्यर्थः, 'परिणतवयसश्च' अतिक्रान्तयौवना मध्यमवयः प्राप्ताः, एवंविधा वृषभास्तत्र स्थापयितव्या ॥ मू. (२४) कप्पइ निग्गंधाणं सागरियनिस्साए वा अनिस्साए वा वत्थए । वृ-कल्पते निर्ग्रन्थानां सागारिकं निश्राय वा अनिश्राय वा वस्तुमिति । अत्र भाष्यम्[भा. २४४६] साहू निस्समनिस्सा, कारण निस्सा अकारणि अनिस्सा । निक्कारणम्मि लहुगा, कारणे गुरुगा अनिस्साए । वृ- साधवः सागारिकस्य निश्रया अनिश्रया वा वसंन्ति । तत्र कारणे निश्रया अकारणे त्वनिश्रया वस्तव्यम् । यदि निष्कारणे सागारिकनिश्रया वसन्ति ततश्चत्वारो लघुकाः । अथ कारणेऽनिश्रया वसन्ति ततश्चत्वारो गुरुकाः । अथ निष्कारणे सागारिकनिश्रया तिष्ठतां दोषानाहउट्ठेत निवेसिंते, भोजन- पेहासु सारि मोए अ । सुज्झाय बंभगुत्ती, असंगता तित्थऽवण्णो य ॥ [भा. २४४७] ८३ - कोऽपि साधुत्तिष्ठन् वा निविशमानो वा अपावृतीभवेत् तं दृष्ट्वा पुरुषाः स्त्रियो वा हंसन्ति उड्डुञ्चकान् वा कुर्वन्ति । भोजनं समुद्देशनं तत्र मण्डल्यां तुम्बकेषु वा समुद्दिशतो दृष्ट्वा ब्रवीन् - अहो ! अमी अशुचय इति । प्रेक्षा-प्रत्युपेक्षणा तस्यां विधीयमानायां "सारि" त्ति ते सागारिका उड्डञ्चकान् कुर्युः । “मोए" त्ति निशि मोकेनाचमने कायिकीव्युत्सर्जने वोड्डाहं कुर्युः । 'स्वाध्यायम्' अधीयमानं परावर्त्यमानं वा श्रुत्वा कर्णाहृतेनागमयन्ति । स्त्रीणां चाङ्गप्रत्यङ्गादी विलोक्यमाने ब्रह्मचर्यस्यागुप्ति । तथा लोकोऽपि ब्रूयात्- “असंगय” त्ति यैः किलासता प्रतिपन्ना तैः स्त्रीरहिते प्रतिश्रये स्थातव्यमित्येतदप्येते न जानन्ति । तीर्थस्य चावणों भवति, सर्वेऽप्येते ताशा इति । त एते दोषा अत उत्सर्गतः सागारिकस्यानिश्रया वस्तव्यम् । कारणे तु निश्रयाऽपि कल्पते वस्तुम् । तचेदम् [ भा. २४४८] तेना सावय मसगा, कारण निक्कारणे य अहिगरणं । एएहिं कारणेहिं, वसंति नीसा अनीसा वा ॥ Page #87 -------------------------------------------------------------------------- ________________ - बृहत्कल्प-छेदसूत्रम् -२-१/२४ वृ-स्तेनाः श्चापदा वा यत्रोपद्रवन्ति तत्र ये गृहस्थाः परित्राणं कुर्वते तत्र तन्निश्रया वस्तव्यम्। मशका वाऽन्यत्राभिद्रवन्ति ततो निश्रयाऽपि वस्तव्यम् । निष्कारणे तु निश्रया वसतामप्काययन्त्रवाहनादिकमधिकरणं भवेत् । एतैः कारणैर्निश्रया वा अनिश्रया वा यथायोगं वसन्तीति ।। मू. (२५) नो कप्पइ निग्गंथाण वा निग्गंथीण वा सागारिए उवस्सए वत्थए। वृ-अस्य सम्बन्धमाह[भा.२४९] निस्स त्ति अइपसंगेण मा हु सागारियम्मि उ वसिज्जा । तेचेव निस्सदोसा, सागारिए निवसतो मा हु॥ वृ. 'निर्ग्रन्थीनां सागारिकनिक्श्रयैव निर्ग्रन्थानामपि कारणे निश्रया वस्तुं कल्पते' इत्युक्तेऽतिप्रसङ्गदोषेण मा सागारिकेऽपि प्रतिश्रये वसेयुः । कुतः? इत्याह-सागारिकोपाश्रये निवसतो मा 'तएव उत्थान-निवेशनादिविषया निश्रादोषा भवेयुः, अगःसागारिकसूत्रं प्रारभ्यत इति। अनेन सम्बन्धेनायातस्यास्य व्याख्या-नो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनांवा 'सागारिके' सागारिकं-द्रव्यतो भावतश्च वक्ष्यमाणलक्षणं तदत्रास्ति इति व्युत्पत्तेः अभ्रादित्वाद् अप्रत्यये सागारिक ईशे उपाश्रये वस्तुमिति सूत्रसङ्क्षपार्थः॥अथ नियुक्तिविस्तरः[भा.२४५०] सागारियनिक्खेवो, चउविहो होइआनुपुबीए। . नामंठवणा दविए, भावे य चउव्विहो भेदो॥ . वृ-सागारिकपदस्य निक्षेपश्चतुर्विध आनुपूर्व्या भवति, तद्यथा-नाम्नि स्थापनायां द्रव्ये भावे चेति । एष चतुर्विधो भेदः ॥ तत्र नाम-स्थापने गतार्थे, द्रव्यता नोआगमतो ज्ञशरीरभव्यशरीरव्यतिरिक्तं द्रव्यसागारिकमाह[भा.२४५१] रुवं आभरणविही, वत्थालंकार भोयणे गंधे। आउज्ज नट्ट नाडग, गीए सयणे यदव्वम्मि॥ वृ-रुपमाभरणविधिर्वस्त्रालङ्कारो भोजनं गन्धा आतोद्यं नृत्तं नाटकं गीतं शयनीयं च, एतद् द्रवयसागारिकम् ॥ तत्र रुपपदं व्याख्याति[भा.२४५२] जंकट्ठकम्ममाइसु, रुवंसट्ठाणेतं भवेदव्वं । जंवा जीवविमुक्कं, विसरिसरुवं तु भावम्मि॥ वृ-यत् ‘काष्ठकर्मादिषु काष्ठकर्मणिवा चित्रकर्मणिवालेप्यकर्मणिवालेप्यकर्मणिवापुरुषरुपं स्त्रीरुपं वा निर्मितं तत् स्वस्थाने द्रव्यसागारिकं भवेत् । स्वस्थानं नाम-निर्ग्रन्थानां पुरुषरुपं निर्ग्रन्थीनां तु स्त्रीपुरुष । यत्तु विसशरुपं तद् भावसागारिकम्, निर्ग्रन्थानां स्त्रीरुपं निर्ग्रन्थीनां तु पुरुषरुपं भावसागारिकमित्यर्थः । यद् वा जीवविप्रमुक्तं पुरुषशरीरं स्त्रीशरीरं वा तदपि स्वस्थाने द्रव्यसागारिकं परस्थाने तु भावसागारिकमिति ॥ अथ “आभरणविही" इत्यादि व्याख्यायते-आभरणं-कटकादितस्य विधि भेदाआभरणविधिः । वस्त्रभेवाकङ्कारोवस्त्रालङ्करः; यद्वा वस्त्राणि चीनाशुकादीनी, अलङ्कारो द्विधा केशालङ्कार-माल्यालङ्कारभेदात् । भोजनमशनपान-खाद्य-स्वाद्यभेदाच्चतुर्विधम् । गन्धः-कोष्ठपुटपाकादि । आतोद्यं चतुर्विधम्-ततं विततं घनं शुषिरं च । तत्र ततं वीणाप्रभृतिकं, विततं मुरजादिकम् । Page #88 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं-२५, [भा. २४५२] घनं तु कांस्यतालादि, वंशादि शुषिरं मतम् ॥ नृत्तमपि चतुर्विधम्, तद्यथा-अञ्चितं रिभितम् आरभडं भसोलम्, एते चत्वारोऽपि भेदा नाट्यशास्त्रप्रसिद्धाः । नाटकम् - अभिनयविशेषः । अथवा [ भा. २४५३] नहं होइ अगीयं, गीयजुयं नाडयं तु नायव्वं । आभरणादी पुरिसोवभोग दव्वं तु सट्ठाणे ॥ वृ- इह 'अगीतं' गीतविरहितं नृत्तं भवति । यत् पुनर्गीतयुक्तं तद् नाटकं ज्ञातव्यम् । गीतं पुनश्चतुर्द्धा तीनसमं १ तालसमं २ ग्रहसमं ३ लयसमं ४ चेति । 'शयनं' पल्यङ्कादि । एतदाभरणादिकं यत् पुरुषोपभोगयोग्यं तत् स्वस्थाने 'द्रव्यं' द्रव्यसागारिकं साधारणत्वाद् द्रव्यसागारिकमेव, शेषाणि तु साधु-साध्वीनां स्वस्थानयोग्यानि द्रव्यसागारिकं परस्थानयोग्यानि तु भावसागारिकम् ।। एतेषु प्रायश्चित्तमाह [ भा. २४५४ ] एक्विक्कम्मि य ठाणे, भोअणवजे य चउलहू हुंति । गुरु भो अम्मिं, तत्थ वि आणाइणो दोसा ।। वृ- 'एकैकस्मिन्' रुपा SSभरणादौ 'स्थाने' द्रव्यसागारिके भोजनवर्जे तिष्ठतां चतुर्लघवः, भोजनसागारिके चतुर्गुरवः । केषाञ्चिन्मतेनाभरण-वस्त्रयोरपि चतुर्गुरवः । तत्राप्याज्ञादयो दोषाः, तन्निष्पन्नं पृथक् प्रायश्चित्तमिति भावः ॥ तथा [ भा. २४५५ ] को जाणइ को किरिसो, कस्स व माहप्पया समत्थत्ते । धिइदुब्बला उ केई, डेविंति तओ अगारिजनं ।। वृ- को जानाति नानादेशीयानां साधूनां मध्ये कः कीदृशः' की ध्क्परिणामः ?, कस्य वा कीशी 'महात्मता' महाप्रभावता 'समर्थत्वे' सामर्थ्ये लोभनिग्रहं ब्रह्मव्रतपरिपालनं वा प्रतीत्य विद्यते ? परचेतोवृत्तीनां निरतिशयैरनुपलक्ष्यत्वात् । ततो ये केचिद् धृतिदुर्बलास्ते तत्र रुपाऽऽभरणादिभिरक्षिप्तचित्ताः परित्यक्तसंयमधुरा अगारीजनं 'डेविंति ' गच्छन्ति, परिभुञ्जते इत्यर्थः ॥ तथा[भा. २४५६ ] केइत्थ भुत्तभोगी, अभुत्तभोगी य केइ निक्खता । रमणिज लोइयं ति य, अम्हं पेतारिसा आसी ॥ ८५ वृ- केचिद् 'अत्र' गच्छमध्ये भुक्तभोगिनो निष्क्रान्ताः केचित्त्वभुक्तभोगिनः, तेषां चोभयेषामप्येवं भाव समुत्पद्यते - रमणीयमिदं लौकिकं चरितं यत्रैवं वस्त्राऽऽभरणानि परिधीयन्ते, विविधखाद्यकादीनि यथेच्छं भुज्यन्ते, अस्माकमपि गृहाश्रमे स्थितानामेताद्दशा भोगा आसीरन् । इदभेव व्यनक्ति [भा.२४५७] एरिसओ उवभोगो, अम्ह वि आसि ण्ह इण्हि उज्जला । दुक्कर करेमु भुत्ते, कोउगमियरस्स दुणं ।। वृ- ईगेव गन्धमाल्य- ताम्बूलाद्युपभोगः पूर्वमस्माकमप्यासीत्, “ह” इति निपातः पादपूरणे, इदानीं तुवयं 'उज्जलाः' उत्-प्राबल्येन मलिनशरीरा अलब्धसुखास्वादाश्च 'दुष्करं' केशश्मश्रुल्लञ्चनभूमिशयनादि कुर्महे । इत्थं भुक्तभोगी चिन्तयति । इतरः- अभुक्तभोगी तस्य रुपा - Sऽभरणादिकं दृष्ट्वा कौतुकं भवेत् ॥ ततः को दोषः ? इत्यत आह Page #89 -------------------------------------------------------------------------- ________________ ८६ बृहत्कल्प-छेदसूत्रम् -२-१/२५ [भा.२४५८] सति-कोउगेण दुन्नि वि, परिहिज्ज लइज्ज वा वि आभरणं । अन्नेसिं उवभोगं, करिज्ज वाएज वुड्डाहो ॥ वृ-स्मृतिश्च कौतुकंचेति द्वन्द्वैकवद्भावः, तेन स्मृति-कौतुकेन द्वावपि भुक्ता-ऽभुक्तभोगिनी वस्त्राणि वा परिदधीयाताम्, आभरणं वा स्वशरीरे लगयेताम्, 'अन्येषां वा गन्ध-शयनीयाऽऽसनादीनामुपभोगं कुर्याताम्, आतोधंवा वादयेताम्।असंयतो वा संयतमलङ्कृतविभूषितं दृष्टवा लोकमध्ये उड्डाहं कुर्यात् ॥ [भा.२५५९] तच्चित्ता तल्लेसा, भिक्खा-सज्झायमुक्कतत्तीया। विकहा-विसुत्तियमणा, गमनुस्सुय उस्सुयब्भूया ॥ वृतदेव-स्त्रीरुपादिचिन्तनात्मकंचित्तंयेषांतेतच्चित्ताः । लेश्या नाम-तदङ्गपरिभोगाध्यवसाथः, सैव लेश्या येषां ते तल्लेश्याः । भिक्षाः-स्वाध्याययोर्मुक्ता तप्ति-व्यापारो यैस्ते भिक्षास्वाध्यायमुक्ततप्तिकाः । तथा संयमाराधनीया वाग्योगप्रवृत्ति सा कथा, तद्विपक्षभूता विकथा, विश्रोतसिका नाम-स्त्रीरूपादिस्मरणजनिता चित्तविप्लुति, तयोर्मनो येषां ते विकथाविश्रोतसिकामनसः । एवंविधास्ते केचिद्गमने-अवधावने उत्सुकीभवन्ति, केचिच्च ‘उत्सुकीभूताः' उप्रव्रजिता इत्यर्थः ॥ तत्र विकथा कथं भवति? इत्याह[भा.२४६०] सुटु कयं आभरणं, विनासियं न वि य जाणसि तुमंपि। सुढुड्डाहो गंधे, विसुत्तिया गीयसद्देसु॥ वृ- एकः साधुब्रवीति- सुष्टु' शोभनं कृतमिदमाभरणम्; द्वितीयः प्राह-विनाशितमेतत्, त्वमप्यविशेषज्ञो न जानासि। एवमुत्तरप्रत्युत्तरिकां कुर्वतोस्तयोरसङ्घडमुपजायते, मूर्छा वा तत्र रूपादौ कोऽपिकुर्यात्, तया चासौ सपरिग्रहो भवति । “उड्डाहो गंधे"त्तिचन्दनादिना गन्धेनात्मानं यदि कोऽपि विलिम्पतिपटवासादिभिर्वा वासयतितत उड्डाहो भवति, नूनं कामिनोऽमीअन्यथा कथमित्थमात्मानं मण्डयन्ति? इति । आतोद्य-गीतशब्देषु च श्रूयमाणेषु विश्रोतसिका जायते । अनेन विश्रोतसिकापदमपि व्याख्यातम्॥अपि च[भा.२४६१] निच्चं पिदव्वकरणं, अवहियहिययस्स गीयसद्देहिं पडिलेहण सज्झाए, आवासग भुंज वेरत्ती॥ वृ-नित्यमपि' सर्वकालंगीतादिशब्दैरपहृतहृदयस्य प्रत्युपेक्षणायांस्वाध्याये आवश्यके भोजने वैरात्रिके उपलक्षणत्वात् प्राभातिकादिकालेषु च द्रव्यकरणमेव भवति न भावकरणम्, मनसहिएण उ कारण कुणइ वायाए भासई जं च । एअंतु भावकरणं, मणरहितं दव्वकरणंतु ।। इति वचनात् ॥ [भा.२४६२] ते सीदितुमारद्धा, संजमजोगेसु वसहिदोसेणं । ___ गलइ जतुं तप्पंतं, एव चरित्तं मुनेयव्वं ।। वृ-'ते' साधव एवंविधेन वसतिदोषेण 'संयमयोगेषु आवश्यकव्यापारेषु सीदितुमारब्धाः। ततश्च ‘जतु'लाक्षा यथा तदग्निनातप्यमानंगलतिएवंरागाग्निनातप्यमानंचारित्रमपि परिगलतीति ज्ञातव्यम्॥ [भा.२४६३] उन्निस्खंता केई, पुनो वि सम्मेलणाए दोसेणं । Page #90 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं-२५, [भा. २४६३] ८७ वचंति संरंता, भंतूण चरित्तपागारं ॥ कृतस्यांवसतौस्त्रीरूपादिसम्मेलनायादोषेण केचिद्मन्दभाग्याः उनिष्क्रान्ताः' उत्प्रव्रजिताः, ततश्चारित्रमेव प्राकारः-जीवनगररक्षाक्षमत्वाचारित्रप्राकारस्तं भक्त्वा तान्येवस्त्रीरूपादीनि संस्मरन्तः पुनरपि गृहवासं व्रजन्ति ॥ ततः किमभूत् ? इत्याह[भा.२४६४] एगम्मि दोसुतीसु व, ओहावितेसु तत्थ आयरिओ। मूलं अणवठ्ठप्पो, पावइ पारंचियं ठाणं। वृ-यद्येकउन्निष्कामति ततो मूलम्, द्वयोरवधावतोरनवस्थाप्यम्, त्रिष्ववधावमानेषु तत्राचार्य पाराञ्चिकंस्थानं प्राप्नोति, यस्य वावशेन तत्र स्थितास्तस्येदंप्रायश्चित्तमिति॥गतंद्रव्यसागारिकम्। अथ भावसागारिकमाह[भा.२४६५] अट्ठारसविहऽबंभ, भावउ ओरालियंच दिव्वं च । मन-वयस-कायगच्छण, भावम्मि य रूव संजुत्तं॥ वृ-अष्टादशविधमब्रह्म भवति।तस्य चौदारिक-दिव्यलक्षणौ द्वौ मूलभेदौतत्रौदारिकंनवविधम्औदारिकान् कामभोगान् मनसा गच्छति मनसा गमयति गच्छन्तमन्यं मनसैवानुजानीते एवं वाचाऽपि त्रयो भेदाः प्राप्यन्ते, कयेनापि त्रयः, एतैस्त्रिभिस्त्रिकैर्नव भेदा भवन्ति । एवं दिव्येऽप्यब्रह्मणि नव भेदा लभ्यन्ते । एवमेदष्टादशविधमब्रह्म भावसागारिकं भवति । अथवा रूपं वा 'संयुक्तं वा' रूपसहगतं यदब्रह्मभावोत्पत्तिकारणं तदपि भावसागारिकम् ॥ एतदेव स्पष्टयति[भा.२४६६] अहव अबंभंजत्तो, भावो रूवाउ सहगयाओ वा । भूसण-जीवजुयं वा, सहगय तव्वज्जियं रूवं ।। वृ-अथवा यतो रूपाद्वा रूपसहगताद्वाअब्रह्मरूपो भाव उत्पद्यते तदपिकारणे कार्योपचाराद् भावसागारिकम्, यथा “नड्वलोदकंपादरोगः" इति।तत्र यत् स्त्रीशरीरंभूषणसंयुक्तमभूषितं वा यद् जीवयुक्तं तद् रूपसहगतं मन्तव्यम् । यत् पुनः स्त्रीशरीरमेव 'तद्वर्जितं' भूषणविरहितं जीववियुक्तं वा तद् रूपमुच्यते॥ : [भा.२४६७] तंपुन रूवं तिविहं, दिव्वं मानुस्सयं तिरिक्खं च । पायावच्च-कुडुंबिय-दंडियपारिग्गहं चेव ॥ वृ. 'तत् पुनः' अनन्तरोक्तं रूपं त्रिविधम्-दिव्यं मानुष्यं तैरश्चं च । पुनरेकैकं त्रिधाप्राजापत्यपरिगृहीतं कौटुम्बिकपरिगृहीतंदण्डिकपरिगृहीतंचेति।प्राजापत्याः प्राकृतलोका उच्यन्ते। एतत् त्रिविधमपि प्रत्येकंत्रिधा जघन्यमध्यमोत्कृष्टभेदात्॥ तत्र दिव्यस्य जघन्यादिभेदत्रयमाह[भा.२४६८] वाणंतरिय जहन्नं, भवणवई जोइसंच मज्झिमगं । वेमाणिय उक्कोसं, पगयं पुन तान पडिमासु।। . वृ- दिव्येषु यद् वानमन्तरिकं रूपं तद् जघन्यम्, भवनपित-ज्योतिष्कयोर्मध्यमम्, वैमानिकरूपमुत्कृष्टम् । अत्र च 'तेषां वानमन्तरादीनां याः प्रतिमास्ताभि 'प्रकृतम्' अधिकारः, सागारिकोपाश्रयस्य प्रस्तुतत्वात्, तत्र च प्रतिमानामेव सद्भावात् ।। । प्रकारान्तरेण दिव्यप्रतिमानां जघन्यादिभेदानाह Page #91 -------------------------------------------------------------------------- ________________ ८८ बृहत्कल्प-छेदसूत्रम् -२-१/२५ [भा.२४६९] कढे पुत्थे चित्ते, जहन्नयं मज्झिमंच दंतम्मि। सेलम्मिय उक्कोसं, जंवा रूवाउ निष्फन्नं ।। दृयादिव्यप्रतिमाकाष्ठकर्मणि वापुस्तकर्मणिवाचित्रकर्मणिवा क्रियतेतद्जघन्यंदिव्यरूपम्। या तु हस्तिदन्ते क्रियते तमध्यमम् ।या पुनः शैले चशब्दाद् मणिप्रभृतिषु च क्रियते तदुत्कृष्टम्। यद्वा रूपाद् निष्पन्नं जघन्यादिकं द्रष्टव्यम्-या दिव्यप्रतिमा विरूपा तद् जघन्यं दिव्यरूपम्, या तु मध्यमरूपातन्मध्यमम्, यापुनः सुरूपा तदुत्कृष्टम्।अत्रचौघतःप्रतिमायुतेउपाश्रयेतिष्ठतश्चत्वारो लघुकाः प्रायश्चित्तम् । अथौघविभागतः प्रायश्चित्तमाह[भा.२४७०] ठाण-पडिसेवणाए, तिविहे वी दुविहमेव पच्छित्तं । लहुगा तिनि विसिट्ठा, अपरिगहे ठायमाणस्स ॥ वृ-'त्रिविधेऽपि' जघन्यमध्यमोत्कृष्टभेदभिन्ने दिव्ये प्रतिमायुते तिष्ठतो द्विविधं प्रायश्चित्तम्स्थाननिष्पन्न प्रतिसेवनानिष्पन्नं च । तत्र स्थाननिष्पन्नमिदम्-दिव्ये प्रतिमायुतेऽपरिगृहीते तिष्ठतस्त्रयश्चतुर्लघुकास्तपः-कालविशिष्टाः, तद्यथा-जघन्येचत्वारोलघुकास्तपसाकालेनचलघुकाः, मध्यमे त एव कालगुरुकाः, उत्कृष्ट त एव तपोगुरुकाः॥अथ परिगृहीते प्रायश्चित्तमाह[भा.२४७१] चत्तारिय उग्घाया, पढमे बिइयम्मिते अनुग्घाया। . छम्मासा उग्घाया, उक्कोसे ठायमाणस्स। वृ-प्रथम-जघन्यं तत्र तिष्ठतश्चत्वारः 'उद्धातिमाः' लघवो मासाः । द्वितीयं-मध्यमं तत्र 'त एव' चत्वारोमासाः ‘अनुद्धाताः' गुरुका इत्यर्थः । उत्कृष्टेतुतिष्ठतः षण्मासा उद्धाताः, षड्लघव इत्यर्थः॥ [भा.२४७२] पायावच्चपरिग्गहे, दोहि वि लह होति एते पच्छित्ता । कालगुरू कोडुंबे, दंडियपारिग्गहे तवसा॥ वृ-एतानिचप्रायश्चित्तानि प्राजापत्यपरिगृहीते 'द्वाभ्यामपि तपः-कालाभ्यां लघुकानि द्रष्टव्यानि । कौटुम्बिकपरिगृहीते एतान्येव कालगुरुकाणि। दण्डिकपरिगृहीते एतान्येव तपसा गुरुकाणि ।। इदं च यस्माजघन्यादिविभागेन निर्दिष्टं सन्निहिता-ऽसन्निहितभेदेन न विशेषितं तस्मादेतदोघविभागप्रायश्चित्तमभिधीयते।अथ विभागप्रायश्चित्तं निरूपयितव्यम्, तत्र चैतान्येव जघन्यमध्यमोत्कृष्टानि सन्निहिता-सन्निहितभेदाभ्यां विशेष्यमाणानिषट्स्थानानि भवन्ति, एतेषु प्रायश्चित्तमाह[भा.२४७३] चत्तारि य उग्घाता, पढमे बिइयम्मि ते अनुग्घाया। तइयम्मि अनुग्घाया, चउत्थ छम्मास उग्घाता॥ [भा.२४७४] पंचमगम्मि वि एवं, छटे छम्मास होतऽनुग्घाया। असन्निहिए सन्निहिए, एस विही ठायमाणस्स ।। वृ-प्रथमं नाम-जघन्यमसन्निहितं द्वितीयं-जघन्यं सन्निहितं तृतीयं-मध्यममसन्निहितं चतुर्थमध्यमं सन्निहितं पञ्चमम्-उत्कृष्टमसन्निहितं षष्ठम्-उत्कृष्टं सन्निहितम् । अत्रायमुच्चारणविधिजघन्यकेऽसन्निहिते प्राजापत्यपरिगृहीते तिष्ठति चत्वार उद्धाता मासाः, सन्निहिते तिष्ठति 'त एव' चत्वारोमासाअनुद्धाताः, मध्यमकेऽसन्निहिते चत्वारोमासाअनुद्धाताः, सन्निहितेषण्मासा Page #92 -------------------------------------------------------------------------- ________________ उद्देश : १, मूलं- २५, [भा. २४७४ ] उद्धाताः, उत्कृष्टेऽसन्निहिते षण्मासा उद्धाताः, सन्निहिते षण्मासा अनुद्धाताः । एषोऽ सन्निहिते सन्निहिते च तिष्ठतः प्रायश्चित्तविधिरुक्तः । अथ प्राजापत्यादिविशेषत एनमेव विशेषयति[भा. २४७५ ] पढमिल्लगम्मि ठाणे, दोहि वि लहुगा तवेण कालेणं । बिइयम्मि अ कालगुरू, तवगुरुगा होंति तइयम्मि ॥ वृ- 'प्रथमे स्थाने' प्राजापत्यपरिगृहीते एतानि प्रायश्चित्तानि द्वाभ्यामपि लघुकानि, तद्यथातपसा कालेन च । 'द्वितीये' कौटुम्बिकपरिगृहीते तान्येव कालगुरुकाणि । 'तृतीये' दण्डिकपरिगृहीते एतान्येव तपोगुरुकाणि ।। स्थानप्रायश्चित्तमेव प्रकारान्तरेणाह [भा. २४७६] अहवा भिक्खुस्सेयं, जहन्नगाइम्मि ठाणपच्छित्तं । गणिणो उवरिं छेदो, मूलायरिए पदं हसति ॥ ८९ वृ- अथवा यदेतद् जघन्यादौ चतुर्लघुकादारभ्य षड्गुरुकावसानं स्थानप्रायश्चित्तमुक्तं तद् भिक्षोरेव द्रष्टव्यम्। गणी-उपाध्यायस्तस्य षड्गुरुकादुपरि च्छेदाख्यं प्रायश्चित्तपदं वर्द्धते, एक पदं चतुर्लघुकाख्यमधो हसति, चतुर्गुरुकादारभ्य च्छेदे तिष्ठतीत्यर्थः । आचार्यस्य षड्लघुकादारब्धं मूलं यावत् प्रायश्चित्तम्, अत्राप्येकं पदमुपरिवर्द्धते अधस्तादेकं पदं हसतीति ।। गतं स्थानप्रायश्चित्तम् । अथप्रतिसेवनाप्रायश्चित्तमाह [भा.२४७७] चत्तारि छच्च लहु गुरु, छम्मासितो छेदो लहुग गुरुगो य । मूलं जहन्नगम्मिं, सेवंति पसजणं मोत्तुं ॥ वृ- प्राजापत्यपरिगृहीते जघन्येऽसन्निहितेऽध्ष्टे प्रतिसेवमाने चत्वारो लघवः, ध्ष्टे चत्वारो गुरवः सन्निहितेऽध्ष्टे चतुर्गुरवः, दृष्टे षड्लघवः । कौटम्बिकपरिगृहीते जघन्येऽ सन्निहितेऽदृष्टे प्रतिसेविते षड्लघवः, दृष्टे षड्गुरवः, सन्निहितेऽदृष्टे षड्गुरवः, दृष्टे लघुषाण्मासिकच्छेदः । दण्डिकपरिगृहीतं जघन्यकमसन्निहितमध्ष्टंप्रतिसेवितं लघुषाण्मासिकच्छेदः, दृष्टे गुरुषाण्मासिकच्छेदः, सन्निहितेऽध्ष्टे गुरुषाण्णासिकछेदः, दृष्टे मूलम् । एतद् जघन्यं दिव्यप्रतिमारूषं सेवमानस्य प्रायश्चित्तं भणितम् । प्रसजना नाम-ध्ष्टे सति शङ्का-भोजिका-घाटिकादीनां ग्रहणा-ऽऽकर्षणप्रभृतीनां वा दोषाणां परम्परया प्रसङ्गः तां मुक्त्वा एतद् प्रायश्चित्तं द्रष्टव्यम्, तन्निप्पन्नं तु पृथगापद्यत इत्यर्थः ॥ अथ मध्यमे प्रायश्चित्तमाह [भा.२४७८]चउगुरुग छ च लहु गुरु, छम्मासिओ छेदो लहुओ गुरुगो य । मूलं अवटुप्पो, मज्झिमए पसज्जणं मोत्तुं ॥ वृ- मध्यमे प्राजापत्यपरिगृहीतेऽसन्निहितेऽध्ष्टे प्रतिसेविते चतुर्गुरवः, ६ष्टे षड्लघवः, सन्निहितेऽदृष्टे षड्लघवः, दृष्टे षड्गुरवः । कौटुम्बिकपरिगृहीतेऽसन्निहितेऽदृष्टे षड्गुरवः, दृष्टे लघुषाण्मासिकच्छेदः, सन्निहितेऽदृष्टे लघुषाण्मासिकच्छेदः, दृष्टे गुरुषाण्मासिकच्छेदः । दण्डिकपरिगृहीतेऽसन्निहितेऽदृष्टे गुरुषाण्मासिकच्छेदः, दृष्टे मूलम्, सन्निहितेऽदृष्टे मूलम्, दृष्टेऽनवस्थाप्यम् । एतद् मध्यमके प्रसजनां मुक्त्वा प्रायश्चित्तं द्रष्टव्यम् ।। उत्कृष्टविषयमाह[भा.२४७९] तव छेदो लहु गुरुगो, छम्मासितो मूल सेवमाणस्स । अवटुप्पो पारंचि, उक्कोसे पसजणं मोत्तुं ॥ वृ- उत्कृष्टे प्राकृतपरिगृहीतेऽ सन्निहितेऽध्ष्टे प्रतिसेविते लघुषाण्मासिकं तपः, दृष्टे गुरुषाण्मा Page #93 -------------------------------------------------------------------------- ________________ ९० बृहत्कल्प-छेदसूत्रम् -२-१/२५ सिकं तपः, सन्निहितेऽदृष्टे गुरुषाण्मासिकं तपः, दृष्टे लघुषाण्मासिकच्छेदः । कौटुम्बिकपरिगृहीतेऽसन्निहितेऽष्टे लघुषाण्मासिकच्छेदः, दृष्टे गुरुषाण्मासिकच्छेदः, सन्निहितेऽष्टे गुरुषाण्मासिकच्छेदः, दृष्टे मूलम् । दण्डिकपरिगृहीतेऽसन्निहितेऽदृष्टे मूलम्, दृष्टेऽनवस्थाप्यम्, सन्निहितेऽष्टेऽनवस्थ्याप्यम्, दृष्टे पाराञ्चिकम् । एवमुत्कृष्टे दिव्यप्रतिमारूपे प्रसजनां मुक्त्वा प्रायश्चित्तमवसातव्यम्॥अथ यथा चारणिकाया अभिलापः कर्त्तव्यस्तथा भाष्यकृदुपदर्शयति[भा.२४८०] पायावच्चपरिग्गहे, जहन्न सन्निहियए असन्निहिए। दिट्ठाऽदिढे सेवइ, एसाऽऽलावो उ सव्वत्थ ।। वृ-प्राजापत्यपरिगृहीते जघन्येऽसन्निहिते सन्निहितेऽष्टे दृष्टेच सेवते, गाथायामसन्निहिताऽदृष्टपदयोर्बन्धानुलोम्यात् पश्चानिर्देशः, “एषः' ईद्दशः 'आलापः' उच्चारणविधि 'सर्वत्र' कौटुम्बिकपरिगृहीतादौ मध्यमादौ च कर्तव्यः । अत्र नोदकः प्राह[भा.२४८१] जम्हा पढमे मूलं, बिइए अणवठ्ठो तइए पारंची। तम्हा ठायंतस्सा, मूलं अणवट्ठ पारंची। वृ-यस्मात् 'प्रथमे' जघन्ये प्रतिसेवमानस्य चतुर्लघुकादारब्धं मूलं यावत् प्रायश्चित्तं भवति, 'द्वितीये' मध्यमे चतर्गुरुकमादौ कृत्वा अनवस्थाप्यम्, 'तृतीये उत्कृष्टेषड्लघुकादारब्धं पाराञ्चिकं यावद्भवति, तस्मातिष्ठतएव स्थाननिष्पन्नानिजघन्यमध्यमोत्कृष्टेषुयथाक्रममूला-ऽनवस्थाप्यपाराञ्चिकानि भवन्तु ॥ सूरिराह[भा.२४८२] पडिसेवणाए एवं, पसज्जणा तत्थ होइ एक्कक्के । चरिमपदे चरिमपदं, तं पिय आणाइनिप्फन । वृ-जघन्यादिप्रतिसेवनायाम् ‘एवं मूला-ऽनवस्थाप्य-पाराञ्चिकानिदीयन्ते।यदि पुनः स्थितः सन्नैव प्रतिसेवते ततः कथं तानि भवन्तु? अथ प्रसङ्गमिच्छति ततएकैकस्मिन्प्रायश्चित्तस्थाने 'तत्र' अनन्तरोक्ते प्रसजना भवति । तथाहि-तं साधुं तत्र स्थितं दृष्ट्वा कश्चिदविरतिकः शङ्कां कुर्यात्, नूनं प्रतिसेवनानिमित्तमत्रैष स्थित इति, ततो भोजिका-घाटिकादिदोषप्रसङ्ग इति।तथा चरमपदं नाम-अष्टपदाद्दष्टपदंतत्र 'चरमपदं पाराञ्चिकंयावद् भवति । यच्चाज्ञादिदोषनिष्पन्नं चतुर्गुरुकादि तदपि द्रष्टव्यमिति सङ्ग्रहगाथा समासार्थ ॥अथेनामेव विवरीषुराह[भा.२४८३] जइ पुन सववो वि ठितो, सेविजा होज्ज चरिमपच्छित्तं । तम्हा पसंगरहियं, जं सेवइ तं न सेसाई॥ वृ-पुनःशब्दो विशेषणे । किं विशिनष्टि ? यद्येष नियमो भवेद्यस्तिष्ठति स सर्वोऽपि स्थितः सन्प्रतिसेवते ततो नोदक! भवेत् तिष्ठत एव त्वदुक्तंचरमप्रायश्चित्तम्, तच नास्ति, सर्वस्यापि स्थितस्य प्रतिसेवत्वाभावात्। तस्मात्प्रसङ्गरहितंयत्स्थानं सेवते तनिष्पन्नमेवप्रायश्चित्तं भवति, न 'शेषाणि' मूलादीनि ॥अथ “चरमपदे चरमपद"मिति पं भावयति[भा.२४८४] अद्दिट्ठाओ दिटुं, चरिमं तहि संकमाइ जा चरिमं । अहवण चरिमाऽऽरोवण, ततो वि पुन पावए चरिमं ॥ कृ-अष्टपदाद्द्दष्टपदंचरमम्, तत्र चरमपदेशङ्का-भोजिका-घाटिकादिक्रमेणचरमपदंपाराञ्चिकं यावत्प्राप्नोति । आह यदि दृष्टं ततः कथं शङ्का भवति । अथवा या यत्र 'चरमाऽऽरोपणा' यथा Page #94 -------------------------------------------------------------------------- ________________ उद्देश : १, मूलं - २५, [भा. २४८४] जघन्ये चरमंमूलं मध्यमे चरममनवस्थाप्यं उत्कृष्टे चरमं पाराचिकं तत् तत्र चरमपदम् । 'ततोऽपि ' चरमपदात् शङ्कादिभिः पदैः 'चरमं' पाराश्चिकं पुनः प्राप्नोति ।। [ भा. २४८५ ] अहवा आणाइविराधनाउ एक्विक्कियाउ चरिमपदं । पावइ तेन उ नियमो, पच्छित्तिहरा अइपसंगो ।। वृ- अथवा आज्ञा - ऽनवस्था - मिथ्यात्व - विराधनापदानां मध्ये यद् विराधनापदं तच्चरमम् । सा च विराधना द्विधा - आत्मनि संयमे च । तस्या एकैकस्याः सकाशात् 'चरमपदं' पाराञ्चिकं प्राप्नोति । तत्र प्रतिमाया यः स्वामी तेन दृष्ट्वा प्रतापितस्यात्मविराधनायां परितापनादिक्रमेण पाराञ्चिकम् । संयमविराधनायां तु तस्याः प्रतिमाया हस्ताद्यवयवे भग्ने भूयः संस्थाप्यमाने सति “छक्काय चउसु लहुगा” इत्यादिक्रमेण पाराञ्चिकम् । यत एवं प्रसङ्गतो बहुविधं प्रायश्चित्तं तेनायं नियमः- तिष्ठतः स्थानप्रायश्चित्तमेव न प्रतिसेवनाप्रायश्चित्तम्, इतरथा अतिप्रसङ्गो भवति ॥ कथम्? इति चेद् उच्यते [ भा. २४८६ ] नत्थि खलु अपच्छित्ती, एवं न य दाणि कोइ मुच्चिज्जा । कारि - अकारीसमया, एवं सइ राग-दोसा य ॥ वृ- यद्यप्रतिसेवमानस्यापि मूलादीनि भवन्ति तत एवं नास्ति कोऽप्यप्रायश्चित्ती, न चेदानीं कश्चित् कर्मबन्धान्मुच्येत, यः प्रतिसेवते तस्य कारिणोऽकारिणश्च समता भवति, एवं च प्रायश्चित्तदाने सति राग-द्वेषौ प्राप्नुत इति । तदपि चाज्ञादिनिष्पन्नमिति । [भा. २४८७ ] मुरियादी आणाए, अणवत्थ परंपराए थिरिकरणं । मिच्छत्ते संकांदी, पसजणा जाव चरिमपदं ॥ वृ- अपराधपदे वर्त्तमानस्तीर्थकृतामाज्ञाभङ्गं करोति तत्र चतुर्गुरु । अत्र च मौर्यैमयूरपोषकवंशोद्भवैः आदिशब्दादपरैश्चाज्ञासारै राजभिर्द्दष्टान्तः । तस्मिश्च कालेऽसावनवस्थायां वर्त्तते तत्र चतुर्लघु । अनवस्थातश्च परम्परया 'स्थिरीकरणं' तदेवापराधपदमन्योऽपि करोतीत्यर्थः, तदा चासौ देशतो मिथ्यात्वमासेवते तत्र चतुर्लघु । अपराधपदे वर्त्तमानो विराधनायां साक्षादेव वर्त्तते, परस्य च शङ्कादिकं जनयति-यथैतद् मृषा तथाऽन्यदपि सर्वममीषां मृषैव । प्रसजना चात्र भोजिका - घाटिकादिरूपा । तत्र चरमं पाराञ्चिकं यावत् प्रायश्चित्तं भवति ॥ अथ नोदकः प्राह ९१ [भा. २४८८] अवराहे लहुगयरो, किं नु हु आणाए गुरुतरो दंडो । आणाए चिय चरणं, तब्भंगे किं न भग्गं तु ॥ वृ- परः प्राह - जघन्यके ऽपरिगृहीते परिगृहीते वा तिष्ठति प्राजापत्यपरिगृहीतं वा जघन्यमसन्निहितमध्ष्टं प्रतिसेवते उभयत्रापि चतुर्लघु, एवं स्थानतः प्रतिसेवनतश्चापराधे लघुतरोदण्ड उक्तः, आज्ञाभङ्गे चतुर्गुरुकमिति, अतः 'किम्' इति परिप्रश्ने, 'नुः' इति वितर्के, 'हु:' इति गुर्वामन्त्रणे, किमेवं भगवन् ! आज्ञायां भग्नायां गुरुतरो दण्डो दीयत ? । सूरिराहआज्ञयैव चरणं व्यवस्थितम्, तस्या भङ्गे कृते सति किं न भग्नं चरणस्य ? सर्वमपि भग्नमेवेति भावः, अपि च लौकिका अप्याज्ञाया भङ्गे गुरुतरं दण्डं प्रवर्त्तयन्ति ॥ तथा चात्र पूर्वोद्दिष्टं मौर्यध्टान्तमाह Page #95 -------------------------------------------------------------------------- ________________ ९२ बृहत्कल्प-छेदसूत्रम् -२-१/२५ [भा. २४८९] भत्तमदानमडते, आणट्ठवणंब छेत्तु वंसवती । गविसण पत्त दरिसए, पुरिसवइ सबालडहणं च ॥ वृ- पाडलिपुत्ते नयरे चंदगुत्तो राया । सो य मोरपोसगपुत्तो त्ति जे खत्तिया अभिजाणंति ते तस्स आणं परिभवंति । चाणक्कस्स चिंता जाया- आणाहीनो केरिसो राया ? तम्हा जहा एयस्स आणा तिक्खा भवइ तहा करेमि त्ति । तस्स य चाणक्कस्स कप्पडियत्ते बिक्खं अडंतस्स एगम्मि गामे भत्तं न लद्धं । तत्थ य गामे बहू अंबा वंसा य अत्थि । तओ तस्स गामस्स पडिनिविट्टेणं आणाठवणनिमित्तं इमेरिसो लेहो पेसिओ-आम्रान् छित्त्वा वंशानां वृति शीघ्रं कार्येति । तेहि अ गामे अगेहिं 'दुल्लिहियं' ति काउं वंसे छ्त्तुं अंबाण वई कया । गवेसावियं चाणक्केन किं कयं ति ? | तओ तत्थागंतूण उवालद्धा ते गामेयगा- एते वंसगा रोहगादिसु उवउज्जंति, कीस मे छिन्न ? त्ति । दंसियं लेहचीरियं- अनं संदिट्टं अन्नं चेव करेह त्ति । तओ पुरिसेहिं अधोसिरेहिं वई काउं सो गामो सव्वोदड्डो ॥ अथ गाथाक्षरगमनिका - चाणक्यस्य भिक्षामटतः क्वापि ग्रामे भक्तस्य 'अदानं' भिक्षा न लब्धेत्यर्थः। तत आज्ञास्थापनानिमित्तमयं लेखः प्रेषित:- "अंब छेत्तुं वंसवइ” त्ति आम्रान् छित्त्वा वंशानां वृति कर्त्तव्या । ततो गवेषणे कृते ग्रामेण च पत्रे दर्शिते 'अन्यदादिष्टं मया अन्यदेव च भवद्भि कृतम्' इत्युपालभ्य ते पुरुषैर्वृतिं कारयित्वा सबाल - वृद्धस्य ग्रामस्य दहनं कृतम् ॥ एष दृष्टान्तः । अर्थोपनयस्त्वेवम् [भा. २४९० ] एगमरणं तु लोए, आणऽइआरुत्तरे अनंताई । अवराहरक्खणट्ठा, तेनाणा उत्तरे बलिया ॥ वृलोके आज्ञाया अतिचारे - अतिक्रमे एकमेव मरणमवाप्यते, लोकोत्तरे 'पुनराज्ञाया अतिचारेऽनन्तानि जन्म-मरणानि प्राप्यन्ते । तेन कारणेनापराधरक्षणार्थं लोकोत्तरे आज्ञा बलीयसी ॥ अथानवस्था- मिथ्यात्व-विराधनापदानि व्याचष्टे [ भा. २४९१] अणवत्थाए पसंगो, मिच्छत्ते संकमाइया दोसा । दुविहा विराधना पुन, तहियं पुन संजमे इणमो ॥ वृ- 'यद्येष बहुश्रुतोऽप्येवं सागारिके प्रतिश्रये स्थितस्ततः किमहमपि न तिष्ठामि ?' इत्येवमनवस्थायामन्यस्यापि प्रसङ्गो भवति । मिथ्यात्वे शङ्कादयो दोषाः, शङ्का नाम-किं मन्ये यथा वादिनस्तथा कारिणोऽमी न भवन्ति ?, आदिशब्दाद् विरत्यादिधर्मं प्रतिपद्यमानानां विपरिणाम इत्यादिदोषपरिग्रहः । विराधना पुनर्द्विविधा-संयमे आत्मनि च । तत्र संयमविषया तावदियम् ॥ [भा. २४९२] अनट्ठादंडो विकहा, वक्खेवो विसोत्तियाए सइकरणं । आलिंगनाइदोसा, असन्निहिए ठायमाणस्स ।। वृ- अर्थ-प्रयोजनं तदभावोऽनर्थ तेन दण्डोऽनर्थदण्डः, स च द्रव्यतो यदकारणे राजकुले दण्डयते, भावतस्तु निष्कारणं ज्ञानादीनां हानि सागारिक प्रतिश्रये स्थितानां भवति । 'विकथा' वक्ष्यमाणरूपा । 'व्याक्षेपो नाम' तां प्रतिमां प्रेक्षमाणस्य द्वितीयसाधुना सहोल्लापं कुर्वतः सूत्रार्थपरिमन्थः । विश्रोतसिका द्रव्य भावभेदाद् द्विधा । द्रव्यतः सारणीपानीयं वहमानं तृणादिकचवरेण पुरः स्थितेन निरुद्धं यदन्यतः कुशारादिषु गच्छति ततश्च सस्यहानिरुपजायते । Page #96 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं-२५, [भा. २४९२] भावतस्तु ज्ञानादिजले जीवकुल्यायां वहानतृणादिकचवरस्थानीयया चित्तविप्लुत्या निरुद्ध सति चारत्रसस्यविनाशो जायते सा विश्रोतसिकेत्युच्यते । तया स्मृतिकरणं भुक्तभोगिनाम्, अभुक्तभोगिनां तु कौतुकमालिङ्गनादयश्च दोषा भवन्ति । एतेऽसन्निहिते प्रतिमारूपे तिष्ठतो दोषाः ।। अथ विकथापदमालिङ्गनादिपदं च विवृणोति[भा.२४९३]सुटु कया अह पडिमा, विनासिया न वि य जाणसि तुमंपि। इय विकहा अहिगरणं, आलिंगणे भंगे भद्दितरा ॥ वृ-एकः साधु वीति-सुष्टु कृतेयं प्रतिमा, द्वितीयः प्राह-विनाशितेयं नापिच जानासि त्वमपि इत्येवं विकथा । ततश्चोत्तरप्रत्युत्तरिकां कुर्वतस्तयोरधिकरणं भवति । अथ कोऽप्युदीर्णमोहस्तां प्रतिमामालिङ्गेत् तत आलिङ्गने प्रतिमाया हस्त-पादादिभङ्गो भवेत् । सपरिग्रहायां च प्रतिमायां भद्रकेतरदोषाः-भद्रको हस्त-पादादिभङ्गे सञ्जाते सति पुनः संस्थापनं विदध्यात्, प्रान्तस्तुग्रहणाऽऽकर्षणादीनि कुर्यात् ।। एतेऽसन्निहिते दोषा उक्ताः । सन्निहितेऽपि त एव वक्तव्याः, एते चाभ्यधिकाः[भा.२४९४] वीमंसा पडिनीयट्ठया व भोगस्थिणी व सन्निहिया । काणच्छी उक्कंपण, आलाव निमंतण पलोभे ।। वृ-या तत्र सन्निहिता देवता सा त्रिभि कारणैः साधुं प्रलोभयेत्-विमर्शाद्वा प्रत्यनीकार्थतया वा भोगार्थितया वा । विमर्शो नाम-'किमेष साधुः शक्यः क्षोभयितुंन वा?' इति जिज्ञासा तया प्रतिमायामनुप्रविश्य काणाक्षिकं वा उत्कम्पनं वा स्तनादीनां विदधीत, आलापं वा कुर्यात्अमुकनामधेय! कुसलं तव? इत्यादि, निमन्त्रणंवा विदध्यात्-मया सह स्वामिन्! भोगानुपभुक्ष्व, प्रलोभनं वा कक्षान्तरोरुदर्शनेन कुर्वीत ॥ [भा.२४९५] काणच्छिमाइएहिं, खोभिय उद्धाइयस्स भद्दा उ । नासइ इयरो मोहं, सुवण्णकारेण दिटुंतो ।। कृयदा काणाक्षिप्रभृतिभिराकारैः क्षोभितस्तदा 'गृह्णाभ्येनाम् इत्यभिप्रायेणोद्धा-वितस्ततस्तस्य सा देवता यदि भद्रा ततो नश्यति । 'इतरः' साधुस्तस्यामदर्शनीभूतायां मोहं गच्छति, सम्मूढश्च तां द्रष्टुमिच्छति, 'हा कुत्र गताऽसि ? देहि सकृदात्मीयं दर्शनम्' इत्यादिप्रलापाँश्च करोत। अत्र च 'सुवर्णकारेण' चम्पानगरीवास्तव्येन अनङ्गसेनाख्येन दृष्टान्तः, स च आवश्य-कादिग्रन्थेषु सुप्रसिद्धः ।। अथ प्रत्यनीकार्थतयेति व्याचष्टे[भा.२४९६] वीमंसा पडिनीया, विद्दरिसण-ऽक्खित्तमादिणो दोसा । असंपत्ती संपत्ती, लग्गस्स य कड्डणादीणि ।। वृ-प्रत्यनीकाऽपि 'विमर्शात्' काणाक्षिप्रभृतिभिराकारैः क्षोभयित्वायदाऽसौ उद्घावितस्तदा "असंपत्ति"त्तियावदस हस्तादिना नैव गृह्णाति तावद् ‘विदर्शन' विकृतं रूपं दर्शयति, अथवा 'विदर्शनं नाम' अलग्नमेव लोको लग्नं पश्यति । यद्वा सा तस्य साधोः क्षिप्तचित्तादिदोषान् कुर्यात् । अथवा परिभोगसम्पत्तिं कृत्वा तत्रैव तस्य सागारिकंलापयेत् श्वानादिवत्। लग्नस्य च तस्य लेप्यकस्वामी अन्यो वा दृष्ट्वा ग्रहणा-ऽऽकर्षणादीनि कुर्यात् ।। एतदेव व्याचष्टे [भा.२४९७] पंता उ असंपत्तीइ चेव मारिज खेत्तमादी वा । Page #97 -------------------------------------------------------------------------- ________________ बृहत्कल्प-छेदसूत्रम् -२-१/२५ संपत्तीइ वि लाएतु कड्डणादीणि कारेज्जा । वृ-प्रान्तापुनः ‘असम्पत्त्यामेव' यावद्याप्यसौ हस्तादिनान गृह्णातितावन्मारयेत् 'वा' अथवा क्षिप्तचित्तम् आदिशब्दाद् यक्षाविष्टं वा कुर्यात् । सम्पत्त्यामपि सागारिकं लापयित्वा ग्रहणाऽऽकर्षणादीनि कारयेत् ।। अथ भोगार्थिनीपदं विवृणोति[भा.२४९८] भोगत्थी विगए कोउगम्मि खित्ताइ दित्तचित्तं वा। दखूण व सेवंतं, देउलसामी करेज्ज इमं॥ वृ-भोगार्थिनी देवता काणाक्षिकादिभिराकरैरुपप्रलोभ्य क्षुभितेन सहभोगान् भुक्त्वा विगते भोगविषये कौतुके ‘मा अपरया सह भोगान् भुङ्क्ताम्' इति कृत्वा तं क्षिप्तचित्तं वा' यक्षाविष्टं वा दप्तचित्तं वा कुर्यात् । अथवा तां देवतां सेवमानं तं साधुं दृष्ट्वा देवकुलस्वामी यथाभावेनेदं कुर्यात् ।। [भा.२४९९] तंचेव निट्ठवेई, बंधन निच्छुभण कडगमद्दे अ । आयरिए गच्छम्मि य, कुल गण संधे य पत्थारो॥ वृ-तमेव साधु क्रुद्धः सन् देवकुलस्वामी 'निष्ठापयति' मारयतीत्यर्थः । यदि वा प्रभुरसौ ततः स्वयमेवतंसाधु बध्नीयात्, अप्रभुरपि प्रभुणा बन्धापयेत् । अथवा वसतेामाद् नगराद् देशाद् राज्याद्वा निष्काशयेत्। कटकं-स्कन्धावारःसयथा परविषयमवतीर्णकस्याप्येकस्य राज्ञः प्रद्वेषण निरपराधान्यपि ग्राम-नगरादीनि सर्वाणि मृद्गाति, एवमेकेन साधुनाऽकार्यं कृतं दृष्ट्वा यो यत्र दृश्यते स तत्र बाल-वृद्धादिरपि सर्वो मार्यते एवंविधं कटकमदं कुर्यात् । यद्वा यस्तस्याचार्यो गच्छः कुलं गणः सङ्घो वा तस्य 'प्रस्तारः' विनाशः क्रियेत । तथा[भा.२५००] गिण्हणे गुरुगा छम्मास कड्डणे छेदो होइ ववहारे। पच्छाकडम्मि मूलं, उड्डहण-विरुंगणे नवमं ।। [भा.२५०१] उद्दावण निव्विसए, एगमणेगेपदोस पारंची। अणवठ्ठप्पो दोसु उ, दोसु उ पारंचिओ होइ ।। वृ-स साधुः प्रतिसेवमानो यदि देवकुलस्वामिना गृहीतः ततो ग्रहणे चत्वारो गुरुकाः । अथ हस्ते वा वस्त्रे वा गृहीत्वा राजकुलाभिमुखमाकृष्टस्तत आकर्षणे षड्लघवः । तेन साधुना स प्रत्याकर्षितस्ततः षण्मासा गुरवः । व्यवहारेप्रारब्धे च्छेदः । पश्चात्कृते' पराजितेमूलम् । ‘उड्डहने' रासभारोपणादिके 'विरूपणे वा' नासिकादिकर्तनेन विरूपणाकरणे 'नवमम्' अनवस्थाप्यम् । एकस्मिन्ननेकेषु वा साधुषु प्रदूषतोऽपद्रातणे कृते निर्विषये वाऽऽज्ञप्ते प्रतिसेवक आचार्यो वा पाराञ्चिकः । एवंच द्वयोः उड्डहन-विरूपणयोरनवस्थाप्यः, 'द्वयोस्तु अपद्रावणनिर्विषयाज्ञपनयोः पाराञ्चिको भवतीति ।।अथवा प्रद्विष्टः सन्निदं कुर्यात्[भा.२५०२] एयस्स नत्थि दोसो, अपरिक्खियदिक्खगस्स अह दोसो। इति पंतो निव्दिसए, उद्दवण विरुचणं व करे। वृ- ‘एतस्य' प्रतिसेवकसाधोस्ति दोषः किन्त्वेनमपरीक्षितं यो दीक्षितवान् तस्यैवापरीक्षितदीक्षकस्याचार्यस्य अथ' अयं दोष इति विचिन्त्यप्रान्त आचार्य निर्विषयं कुर्यात् अपद्रावयेद्वा, कर्ण-नासा-नयनाद्युत्पाटेन विरुम्पनं वा कुर्यात् ।। अथासन्निहिते एते दोषाः Page #98 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं - २५, [भा. २५०३] [भा. २५०३] तत्येव य पडिबंधो, अदिट्ठगमणाइ वा अनिंतीए । एए अन् य तहिं, दोसा पुन होंति सन्निहिए ।। ९५ वृ- 'तत्रैव' तस्यामेव देवतायां संयतस्य प्रतिबन्धो भवेत्, अथवा सा व्यन्तरी विगतकौतुका सती नागच्छति ततस्तस्यामनायान्त्यां स प्रतगमनादीनि कुर्यात् । एतेऽन्ये चैवमादयो दोषा लेप्यकस्वामिनाऽदृष्टेऽपि सन्निहिते प्रतिमारूपे भवन्ति ।। ताश्च सन्निहितप्रतिमा ईदृश्यो भवेयुः[भा. २५०४] कट्ठे पुत्थे चित्ते, दंतकम्मे य सेलकम्मे य । दिट्ठिपत्ते रूवे, वि खित्तचित्तस्स भंसणया ।। वृ- काष्ठमयी पुस्तमयी चित्रमयी दन्तकर्ममयी शैलकर्ममयी प्रतिमा भवेत् । एतासां रूपेऽपि दृष्ट्या प्राप्ते आक्षिप्तचित्तस्य प्रमत्ततया संयमजीविताद् भवजीविताद्वा परिभ्रंशना भवेत्, किं पुनस्तासामाश्रयस्थाने प्रतिसेवने वा ? ॥ तासां पुनः सन्निहितदेवतानामिमे प्रकाराः[भा.२५०५] सुहविन्नवणा सुहमोयगा य सुहविनवणा य होति दुहमोया । दुहविन्नप्पा य सुहा, दुहविन्नप्पा य दुहमोया ॥ वृ- विज्ञपना नाम-प्रार्थना प्रतिसेवना वा सा सुखेन यासां ताः सुखविज्ञपनाः सुखविज्ञप्या वा, तथा सुखेन मोच्यन्त इति सुखमोचाः सुपरित्यजा इत्यर्थः, एष प्रथमो भङ्गः । सुखविज्ञपना दुःखमोचा इति द्वितीयः । दुःखविज्ञप्या सुखमोचा इति तृतीयः । दुःखविज्ञप्या दुःखमोचा इति चतुर्थः ॥ तत्र प्रथमभङ्गे दृष्टान्तमाह [भा. २५०६ ] सोपारयम्मि नगरे, रन्ना किर मग्गितो उ निगमकरो । अकरोति मरणधम्मा, बालतवे धुत्तसंजोगो ॥ [भा.२५०७] पंच सय भोइ अगनी, अपरिग्गहि सालिभंजि सिंदूरे । तुह मज्झ धुत्त पुत्तादि अवन्ने विज्जखीलणया ।। वृ-सोपारयं नगरं । तत्थ नेगमा अकरा परिवसन्ति । ताण य पंच कुटुंबसयाणि । तत्थ य राया मंतिणा दुग्गाहितो। तेण ते नेगमा करं मग्गिता । ते 'पुत्ताणुपुत्तिओ करो एस भविस्सइ' त्ति काउं न दिंति । रन्ना भणिया- जइ न देह तो इमम्मि गेहे अग्गिपवेसं करेह । ततो ते सव्वे अग्गिं पविट्ठा । तेसिं नेगमाणं पंच महिलासयाइं तानि वि अग्गिं पविट्ठाणि । ताओ अ तीए अकामनिजराए पंच विसया अपरिग्गहियाओ वाणमंतरियाओ जायाओ । तेहि य निगमेहिं तम्मि चेव नगरे देवउलं कारियं । अत्थि तत्थ पंच सालिभंजियासया । ते ताहिं देवताहिं परिग्गहिया । ताओअ देवताओ न कोइ अप्पिड्डिओ वि देवो इच्छइ ताहे धुत्तेहिं समं संपलग्गाओ । ते धुत्ता तस्संबंधेण भंडणं काउमाढत्ता-एसा मज्झं न तुज्झं । इतरो वि भणइ-मज्झं न तुज्झं । जा य जेन धुत्तेन सह अच्छिइ सा तस्स सव्वं पुव्वभवं साहइ । ततो ते भणंति-हरे अमुकनामधेया ! एसा तुज्झं माया भगिनी वा इदानिं अमुगेण समं संपलग्गा । ता य एगम्मि पीइंन बंधंति, जो जो पडिहाइ तेन सह अच्छंति । तंच सोउं तासिं पुव्वभविएहिं पुत्ताईहिं 'अम्हं एस अयसो त्ति काउं वेजावाइएण खीलावियाउ त्ति ॥ अथ गाथाद्वयस्याप्यक्षरयोजना-सोपारके नगरे राज्ञा किल मार्गितः 'निगमानां' वणिग्विशेषाणां समीपे करः । तैश्च 'अकर इति' अपूर्व करो मा भूदिति कृत्वा मरणधर्मो व्यवसितः । तासां (तेषां ] च 'भोजिकाः ' महेलाः पञ्चापि शतान्यग्निप्रवेशलक्षणेन बालतपसा देवता अपरिगृहीताः Page #99 -------------------------------------------------------------------------- ________________ बृहत्कल्प-छेदसूत्रम् -२-१/२५ साताः।धूर्तेश्चसहसंयोगः। कथम्? इत्याह-'सिन्दूर' सिन्दूरारुणंयदेवकुलंतत्रशालभञ्जिकानां पञ्च शतानि ताभिर्देवताभिः परिगृहीतानि।तत्र स्थिताश्च धूर्ते समं सम्प्रलग्नाः । “तुह मज्झे"ति 'नेयंतव, ममेयम्' इत्येवंतेधूर्ता कलहायितवन्तः। ततस्तासांपूर्वभववृत्तान्तं श्रुत्वा अवर्णोऽयमस्माकम्' इति कृत्वा पुत्रादिभिर्विद्याप्रयोगेण तासांकीलना कारितेति॥उक्तःप्रथमो भङ्गः। अथ शेषभङ्गत्रयं भावयति[भा.२५०८] बिइयम्मि रयणदेवय, तइए भंगम्मि सुइगविज्जाओ। गोरी-गंधाराइ, दुहविण्णप्पा य दुहमोया ॥ वृ-द्वितीयभङ्गे रत्नदेवता निदर्शनम्, सा ह्यल्पर्द्धिकत्वात् कामातुरत्वाच्च सुखविज्ञपना सर्वसुखसम्पादकतया च दुःखमोचा। तृतीये भङ्गे शुचयो विद्यादेव्यो निदर्शनम्, ता हिशुचितया महर्द्धिकतयाच दुःखविज्ञपना उग्रतया नित्यमत्यन्ताप्रमत्तैराराधनीयत्वात्पर्यन्ते सापायत्वाच्च सुखमोचाः । चतुर्थेभङ्गे गौरी-गान्धारीप्रभृतयो मातङ्गविद्यादेवताद्रष्टव्याः, तथाहि-ताः साधनकाले लोकगर्हिततया दुःखविज्ञप्या यथेष्टकामसम्प्रापकतया च दुःखमोचा इति॥ भाविताश्चत्वारो भङ्गाः । अथ प्राजापत्यादित्रिविधपरिगृहीते गुरुलाघवमाह[भा.२५०९] तिण्ह विकतरो गुरुतो, पागइ कोडुबि दंडिए चेव । साहस अपरिक्ख भए, इयरे पडिपक्ख पभु राया। वृ-शिष्यः पृच्छति-'त्रयाणां' प्राजापत्य-कौटुम्बिक-दण्डिकपरिगृहीतानां मध्यात् कतरद गुरुतरम् ? । गाथायां प्राकृतत्वात् पुंस्त्वनिर्देशः । शिष्य एवाह-अहं तावद् भणामि-प्राजापत्यपरिगृहीतं गुरुकम्, कौटुम्बिक-दण्डिकपरिगृहीतं लघुतरम्, यतः “साहस"त्ति प्राकृतजनो मूर्खतया साहसिकोऽपरीक्षितकारी च भवति, अनीश्चरतया च तस्य तथाविधं भयं न भवति, अतोऽसौ मरणमप्यध्यवस्य तं साधुं मारयेत्, तेनास्य गुरुतरो दोषः। 'इतरौ नाम' कौटुम्बिकदण्डिकौतौप्राकृतिकस्यप्रतिपक्षभूतौ। किमुक्तंभवति?-तौन साहसिकौ, नाप्यपरीक्षितकारिणी, भयं च तयोर्भवति । अत्राचार्य प्राह-दण्डिक-कौटुम्बिकौ गुरुतरौ, प्राकृतो लघुतरः, यतो राजा उपलक्षणत्वात् कौटुम्बिकश्च प्रभुः, प्रभुत्वाच्च स एकस्य रुष्टः सङ्घस्य प्रस्तारं कुर्यादिति ॥अथ कौटुम्बिक-दण्डिकानां यद् भयमुत्पद्यते तद् दर्शयन् परः स्वपक्षं द्रढयन्नाह[भा.२५१०] ईसरियत्ता रज्जा व भंसए मन्नुपहरणा रिसओ। तेय समिक्खियकारी, अन्ना वि य सिं बहू अस्थि॥ वृ-एत ऋषयः 'मन्युप्रहरणाः' शापायुधा अतः कोपिताः सन्तो मामैश्वर्याद भ्रंशयेयरिति कौटुम्बिकश्चिन्तयेत्, राजा तु आममी राज्याद् भ्रंशयेयुरिति चिन्तयति । ते च' राजादयः 'समीक्षितकारिणः' नाविमृश्य कार्यं कुर्वन्ति । अन्यच्च तेषामन्या अपि बहवः प्रतिमाः सन्ति अतस्तस्यामेकस्यामेव तेषां नादरः॥एवं परेण स्वपक्षे भाविते सति सूरिराह[भा.२५११] पत्थारदोसकारी, निवावराहो य बहुजने फुसइ। पागइओ पुन तस्सव, निवस्स व भया न पडिकुज्जा ॥ वृ-प्रस्तारः-कटकमदः, एकस्य रुष्टः सर्वमपि यत्र व्यापादयतीत्यर्थः, तद्दोषकारी राजा, नृपापराधश्च 'बहुजनान् स्पृशति' बहुजनमध्ये प्रकटीभवतीति भावः । एवं कौटुम्बिकस्यापि Page #100 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं - २५, [भा. २५११] ९७ द्रष्टव्यम् । अत एतौ द्वावपि गुरुतरौ । प्राकृतकापराधस्तु बहुजनं न स्पृशति । अपि च प्राकृतकः 'तस्य वा' संयतस्य नृपस्यवा भयाद् 'न प्रतिकुर्याद्' न प्रत्यपकारं करोति ॥ [भा. २५१२] अविय हु कम्मद्दन्नो, न य गुत्ती ओ सि नेव दारट्ठा । तेन कयं पिन नज्ज, इतरत्थ पुनो धुवा दोसा ॥ वृ- 'अपि च इत्यभ्युच्चये, प्राकृतकः क्षेत्र-खलादिकर्मभि अन्न: - अक्षणिकः ततस्तासां प्रतिमानामुदन्तं न वहति, न च तत्सम्बन्धिनीषु देवद्रोणीषु 'गुप्ति' आत्यन्तिकी रक्षा, न वा ‘द्वारस्थाः’ द्वारपालाः ततः कृतमपि प्रतिमाप्रतिसेवनं न ज्ञायते । 'इतरत्र तु' दण्डिक-कौटुम्बिकेषु पुनः 'ध्रुवाः' अवश्यम्भाविनः प्रस्तारादयो दोषाः, द्वारपालादिरक्षासद्भावात् ॥ अत एव तेषां प्रतिमा पूर्व प्रभूततरं प्रायश्चित्तमुक्तम्, न केवलं प्रतिमासु किन्तु स्त्रीष्वपि तदीयासु गुरुतरं प्रायश्चित्तं भवतीति प्रसङ्गतो दर्शयितुमाह [भा. २५१३] नोय इत्थियाए, संपत्तीकारणम्मि पारंची। अमी अणवठप्पो, मूलं पुन पागयजणम्मि ।। वृ- 'राज्ञः स्त्रियाम्' अग्रमहिष्यां यद् मैथुनसंपत्तिलक्षणं कारणं तत्र पाराश्चिको भवति । अमात्यायामनवस्थाप्यः । प्राकृतजनस्त्रियां पुनर्मूलम् । शिष्यः प्राह [भा. २५१४] तुल्ले मेहुणभावे, नाणत्ताऽऽ रोवणाय कीस कया । जेन निवे पत्थारो, रागो वि य वत्थुमासज्ज ॥ वृ- दण्डिकादिपरिगृहीतासु प्रतिमासु स्त्रीषु वा तुल्ये मैथुनभावे कस्माद् 'आरोपणायाः’ प्रायश्चित्तस्य 'नानाता' विसध्शता कृता ? । सूरिराह-येन कारणेन 'नृपे' राज्ञि 'प्रस्तारः' कटकमर्दो भवति, अतस्तत्राधिकतरंप्रायश्चित्तम्। तदपेक्षया कौटुम्बिके प्राकृते च यथाक्रमं स्वल्पाः स्वल्पतरा दोषास्तस्तयोः प्रायश्चित्तमपि हीनं हीनतरम् । रागोऽपि च वस्तु आसाद्य भवति, याध्शं जघन्यं मध्यममुत्कृष्टं वा वस्तु रागोऽपि तत्र ताद्दशो भवतीति भावः ।। इदमेव भावयति [भा. २५१५] जइभागगया मत्ता, रागादीनं तहा चओ कम्मे । रागाइविहरया वि हु, पायं वत्थूण विहुरत्ता ।। वृ-रागादीनां 'मात्रा' जघन्यादिरूपा यतिषु यावत्सङ्ख्याकेषु भागेषु गता स्थिता 'कर्मण्यपि ' ज्ञानावरणादौ ‘चयः' बन्धस्तथैव द्रष्टव्यः । अथ रागादीनां मात्रानानात्वं कथं भवति ? इत्याहराकादीनां 'विधुरताऽपि' मात्रावैषभ्यमपि प्रायः 'वस्तूनां' स्त्रीप्रभृतीनां 'विधुरत्वात्' सुन्दरसुन्दरतर- सुन्दरतमविभागाद् भवति । प्रायोग्रहणं कस्यापि कदाचिद् वस्तुवैसध्श्यमन्तरेणापि रागादिवैस६श्यं भवतीति ज्ञापनार्थम् । यतश्चैवमतो युक्तियुक्तं दण्डिकादिपरिगृहीतासु स्त्रीषु प्रतिमासु वा प्रायश्चित्तनानात्वम् । तदेवमुक्तं दिव्यं प्रतिमायुतम् । अथ दिव्यस्यैव देहयुतस्यावसरःतच्चाचिततं न सम्भवति, जीवच्युतस्य दिव्यशरीरस्य तत्क्षणादेव विध्वंसनात् । यत्तु सचित्तदेवीशरीररूपं देहयुतं तत्र स्थानप्रायश्चित्तं यथा प्रतिमायुते, प्रतिसेवनाप्रायश्चित्तं तु यथा मनुष्यस्त्रीषु भणिष्यते । गतं दिव्यरूपम् । अथ मानुष्यरूपमाह [भा. २५१६ ] मानुस्सं पि य तिविहं, जहन्नगं मज्झिमं च उक्कोसं । 197 Page #101 -------------------------------------------------------------------------- ________________ ९८ बृहत्कल्प-छेदसूत्रम् -२-१/२५ पायावच्च-कुडुंबिय-दंडियपारिगहं चेव॥ कृ-मानुष्यमपि रूपंत्रिविधम्-जघन्यंमध्यममुत्कृष्टंच।पुनरेकैकं त्रिविधम्-प्राजापत्यपरिगृहीतं कौटुम्बिकपरिगृहीतं दण्डिकपरिगृहीतं चेति ।। तत्रोत्कृष्टादिविभागमाह[भा.२५१७] उक्कोस माउ-भज्जा, मझंपुन भगिनि-धूतमादीयं । खरियादी य जहन्नं, पगयं सजितेतरे देहे ॥ वृ. इह गृहिणो मातरं भार्यां वा नान्यस्य कस्यापि प्रयच्छन्ति, अतो माता भार्या चोत्कृष्टं मानुष्यरूपम् ।यास्तु भगिनीदुहितृ-पौत्र्यादयोऽन्यस्मै स्वाभिरुचिताय दीयन्ते ताः पुनर्मध्यमम्। खरिका-दासी तदादय इतराः स्त्रियो जघन्यम् । एतत् त्रयमपि प्रत्येकं द्विधा-प्रतिमायुतं देहयुतं च।प्रतिमायुतंदिव्यवद्वक्तव्यम्। देहयुतेन तुसजीवेन इतरेणवा-अजीवेन 'प्रकृतम्' अधिकारः, तद्विषयं प्रायश्चित्तमभिधास्यत इत्यर्थः ॥ तत्र स्थानप्रायश्चित्तं तावदाह[भा.२५१८] पढमिल्लुगम्मि ठाणे, चउरो मासा हवंतऽनुग्घाया। . छम्मासाऽनुग्घाया, बिइए तइए भवे छेदो॥ वृ-प्रथमं नाम-जघन्यं मानुष्यरूपं तत्र प्राजापत्यपरिगृहीतादौ भेदत्रयेऽपि तिष्ठतश्चत्वारोऽनुद्धाता मासाः, गुरव इत्यर्थः । द्वितीयं-मध्यंतत्रापि त्रिष्वपि भेदेषुषण्मासा अनुद्धाताः। तृतीयम्उत्कृष्टं तत्र भेदत्रयेऽपि तिष्ठतश्छेदो भवेत् ॥ अथ कीशश्छेदः ? इति ज्ञापनार्थमाह[भा.२५१९] . पढमस्स तइयठाणे, छम्मासुग्घाइओ भवे छेदो। चउमासो छम्मासो, बिइए तइए अनुग्घाओ॥ वृ-प्रथम-प्राजापत्यपरिगृहीतं तस्य यत् तृतीय स्थानम्-उत्कृष्टमित्यर्थः तत्र पाण्मासिक उद्धातिकश्छेदः। द्वितीयं-कौटुम्बिकपरिगृहीतं तस्य तृतीयस्थाने चतुर्गुरुकश्छेदः । तृतीयंदण्डिकपरिगृहीतं तत्रापि यत् तृतीय स्थानं तत्र पाण्मासिकोऽनुद्धातश्चेदः ॥ तथा[भा.२५२०] पढमिल्लुगम्मितवऽरिह, दोहि विलहु होंति एते पच्छित्ता। बिइयम्मिय कालगुरू, तवगुरुगा होति तइयम्मि॥ कृप्रथमिल्लुकं प्राजापत्यपरिगृहीतंतत्रजघन्य-मध्यमयोर्येतपोऽर्हेप्रायश्चित्तेचुतुर्गुरु-षड्गुरुरूपे एते द्वाभ्यामपि' तपः-कलाभ्यां लखुके कर्तव्ये। 'द्वितीये कौटुम्बिकपरिगृहीतेतेएव कालगुरुके। 'तृतीये' दण्डिकपरिगृहीते ते एव तपसा गुरुके कालेन लघुके। उक्तं स्थानप्रायश्चित्तं अथ प्रतिसेवनाप्रायश्चित्तमाह[भा.२५२१] चउगुरुका छग्गुरुका, छेदो मूलं जहन्नए होइ । छग्गुरुक छेअमूलं, अणवठ्ठप्पो अमज्झिमए। [भा.२५२२] छेदो मूलं च तहा, अणवठ्ठप्पो यहोइ पारंची। एवं दिट्ठमदिट्टे, सेवंते पसज्जणं मोत्तुं॥ वृ-प्राजापत्यपरिगृहीतं जघन्यमदृष्टं प्रतिसेवते चत्वारो गुरवः, ईष्टे षण्मासा गुरवः । कौटुम्बिकपरिगृहीतं जघन्यमष्टंप्रतिसेवतेषण्मासागुरवः, दृष्टेछेदः । दण्डिकपरिगृहीतंजघन्यमध्ष्टं प्रतिसेवते छेदः, दृष्टेमूलम् । प्राजापत्यपरिगृहीते मध्यमेऽष्टेषण्मासा गुरवः, दृष्टेछेदः । कौटुम्बिपरिगहीतेमध्यमेऽष्टे छेदः, दृष्टे मलम । दण्डिकपरिगृहीतेमध्यमेऽदृष्टे मूलम्, दृष्टेऽनवस्थाप्यम्। Page #102 -------------------------------------------------------------------------- ________________ ९९ उद्देशकः १, मूलं-२५, [भा. २५२२] प्राजापत्यपरिगृहीते उत्कृष्टेऽष्टे छेदः, दृष्टेमूलम् ।कौटुम्बिकपरिगृहीते उत्कृष्टेऽदृष्टेमूलम्, टेऽनवस्थाप्यम् । दण्डिकपरिगृहीते उत्कृष्टेऽष्टेऽनवस्थाप्यम्, दृष्टेपाराश्चिकम् । एवं दृष्टाध्टे प्रतिसेवमानस्य प्रसजनां' शङ्का-भोजिकादिलक्षणांमुक्त्वाप्रायश्चित्तंमन्तव्यम् । अत्र नोदकः प्राह[भा.२५२३] जम्हा पढमे मूलं, बिइए अणवठ्ठओ थइए पारंची। तम्हा ठायंतस्सा, मूलं अणवट्ठ पारंची॥ वृ-अत्राचार्य परिहारमाह[भा.२५२४] पडिसेवणाए एवं, पसज्जणा तत्थ होइ इक्किक्के । चरिमपदे चरिमपदं, तं पिय आणाइनिप्फन्नं ।। वृ-अनयोव्यार्खया प्राग्वत् [भा.२५२५] तेचेव तत्थ दोसा, मोरियआणाए जे भणिय पुट्विं । आलिंगणाइ मोत्तुं, मानुस्से सेवमाणस्स ॥ कृतएव' अनवस्था-मिथ्यात्वादयः 'तत्र' मानुष्यकस्त्रीरूपे दोषायेपूर्वं "मुरियाईआणाए" इत्यादिगाथायां भणिताः। नवरं दिव्यप्रतिमाया आलिङ्गने ये प्रतिमाभङ्गदोषा भद्रक-प्रान्तकृता उक्तास्तान् मुक्त्वा शेषाः सर्वेऽपि मानुष्यकं देहयुतं सेवमानस्य भणितव्याः॥ इदमेव स्फुटतरमाह[भा.२५२६] आलिंगते हत्थाइभंजणेजे उ पच्छकम्मादी। ते इह नत्थि इमे पुन, नक्खादिविछेअणे सूया ॥ वृ-लेप्यप्रतिमामालिङ्गमानस्यतस्याः प्रतिमाया हस्त-पादाद्यवयवभङ्गेसतियेपश्चात्कर्मादयो दोषा उक्तास्ते 'इह' मानुष्यके देहयुतेन भवन्ति।इमे पुनर्दोषाअत्र भवन्ति-सा स्त्रीकामातुरतया तं साधुंनखैर्विच्छिन्द्यात्, आदिशब्दाद् दन्तक्षतानि वा कुर्वीत । तैश्च तस्य श्रमणकस्य स्वपक्षण वापरपक्षेण वासूचा क्रियेत-यदेवमस्य वपुषिनख-दन्तक्षतानि श्यन्तेतदेष निश्चितंप्रतिसेवक इति ॥अथ मानुषीषु चतुरो विकल्पान् दर्शयति[भा.२५२७] सुहविन्नप्पा सुहमोइगा य सुहविन्नप्पा यहोति दुहमोया। दुहविन्नप्पाय सुहा, दुहविनप्पा य दुहमोया। वृ-मनुष्यस्त्रियश्चतुर्विधाः, तद्यथा-सुखविज्ञप्याः सुखमोच्याः १ सुखविज्ञप्या दुःखमोच्याः २दुःखविज्ञप्याः सुखमोच्याः ३ दुःखविज्ञप्या दुःखमोच्याः ४चेति॥चतुर्वपि भङ्गेषुयथाक्रमममूनि निदर्शनानि[भा.२५२८] खरिया महिड्डिगणिया, अंतेपुरिया य रायमाया य। उभयं सुहविनवणा, सुमोय दोहिं पिय दुमोया ।। कृ'खरिका' व्यक्षरिकासासर्वजनसाम्यतयासुखविज्ञप्या,परिफल्गुसुखलवास्वादनहेतुत्वाच्च सुखमोच्या १ । या तु महर्द्धिका गणिका साऽपि साधारणस्त्रीत्वेनैव सुखविज्ञप्या, यौवनरूपविभ्रमादिभावयुक्तत्वेन तुदुःखभोच्या या पुरन्तःपुरिका सा वर्षधरादिरक्षपालकैर्दुप्रापतया दुःखविज्ञप्या, प्रत्यपायबहुलतयाचसुखमोच्या ३।या तुराज्ञः सम्बन्धिनी माता सा सुरक्षिततया सर्वस्यापि च गुरुस्थाने पूजनीयतया च दुःखविज्ञप्या, प्राप्ता च सती सर्वसौख्यसम्पत्तिकारिणी Page #103 -------------------------------------------------------------------------- ________________ १०० बृहत्कल्प-छेदसूत्रम् -२-१/२५ प्रमाणभूतत्वाच राज्ञा विधीयमानान्प्रत्यपायान् क्षितुंशक्नोतीतिदुःखमोच्या ४। “उभय"मिति प्रथमा सुखविज्ञप्या सुखमोच्या १ “सुहवित्रवण"त्ति द्वितीया सुखविज्ञपना परं दुःखमोच्या २ "सुमोय"ति तृतीया सुमोचा परं दुःखविज्ञपना ३ चतुर्थी द्वाभ्यामपि 'दुःखा' दुःखविज्ञपना दुःखमोच्या चेति ॥ अथाक्षेप-परिहारौ प्राह[भा.२५२९] तिण्ह वि कयरो गुरुओ, पागय कोडुबि दंडिए चेव। साहस असमिक्ख भए, इयरे पडिपक्ख पभुराया॥ [भा.२५३०] ईसरियत्ता रज्जा, व भंसए मन्नुपहरणा रिसओ। तेय समिक्खियकारी, अन्ना विय सिंबहू अस्थि ।। [भा.२५३१] पत्थारदोसकारी, निवावराहोय बहुजने फुसइ। पागइओ पुन तस्स व, निवस्स व भयान पडिकुज्जा ।। [भा.२५३२] अवि यहु कम्मद्दण्णा, न य गुत्तीओ सि नेव दारट्ठा। तेन कयं पिन नजइ, इतरत्थ पुनो धुवो दोसो॥ [भा.२५३३] तुल्ले मेहुणभावे, नाणत्ताऽऽरोवणा उ कीस कया। जेन निवे पत्यारो, रागो वि यवत्थुमासज्जा । वृ-इदं गाथापञ्चकमपि दिव्यद्वारवद् द्रष्टव्यम् ।गतं मानुष्यकम् । अथ तैरश्चमाह[भा.२५३४] तेरिच्छं पिय तिविहं, जहन्नयं मज्झिमंच उक्कोसं। पायावच्च-कुडुंबिय-दंडियपारिग्गहं चेव ॥ वृतैरश्चमपि रूपं त्रिविधम्-जघन्यं मध्यममुत्कृष्टं च । पुनरेकैकं त्रिधा-प्राजापत्यपरिगृहीतं कौटुम्बिकपरिगृहीतं दण्डिकपरिगृहीतं चेति ।। तत्र.. [भा.२५३५]अइय अमिला जहन्ना, खरि महिसी मज्झिमा वलवमादी । गोणि करेनुक्कोसा, पगयं सजितेतरे देहे ॥ वृ-'अजिकाः' छगलिकाः ‘अमिलाः' एडकाः एताः 'जघन्याः' जघन्यं तैरश्वरूपमित्यर्थः । एवं खरी-महिषी-वडवादयोमध्यमम् । गावः-प्रतीताः करेणवः-हस्तिन्यस्ताः 'उत्कृष्टाः' उत्कृष्टं . तिर्यग्रूपम् । एतत् त्रयमपि द्विधा-प्रतिमायुतं देहयुतंच।इह सजीवेन 'इतरेण' अजीवेन देहयुतेन प्रकृतम्, तद्विषयं प्रायश्चित्तमभिधास्यत इत्यर्थः ॥ तत्र स्थानप्रायश्चित्तमाह[भा.२५३६] चत्तारि य उग्घाया, जहन्नए मज्झिमे अनुग्घाया। छम्मासा उग्घाया, उक्कोसे ठायमाणस्स। वृ-प्राजापत्यपरिगृहीतादौजघन्यकेतिरश्चीदेहयुते तिष्ठति। चत्वार उद्धाताः, मध्यमे तिष्ठति चत्वारोऽनुद्धाताः, उत्कृष्टे तिष्ठतः षण्मासा उद्धाताः॥ अथैतदेव प्रायश्चित्तं तपः-कालाभ्यां विशेषयति[भा.२५३७] पढमिल्लुगम्मि ठाणे, दोहि विलहुगा तवेण कालेणं। बिइयम्मि उ कालगुरू, तवगुरुगा होति तइयम्मि॥ वृ-'प्रथमिल्लुके स्थाने' प्राजापत्यपरिगृहीते यानि प्रायश्चित्तानि तानि 'द्वाभ्यामपि' तपसा कालेन च लघुकानि । 'द्वितीये' कौटुम्बिकपरिगृहीते तान्येव कालगुरुकाणि । 'तृतीये' Page #104 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं- २५, [भा. २५३७] [भा. २५३८] दण्डिकपरिगृहीते तपोगुरुकाणि ॥ गतं स्थानप्रायश्चित्तम् । अथप्रतिसेवनाप्रायश्चित्तमाहचउरो लहुगा गुरुगा, छेदो मूलं जहन्नए होइ । चउगुरुग छेद मूलं, अणवटुप्पो य मज्झिमए ॥ छेदो मूलं च तहा, अणवटुप्पो य होइ पारंची। एवं दिट्ठमदिट्ठे, सेवंते पसजणं मोत्तुं ॥ [भा. २५३९] वृ- प्राजापत्यपरिगृहीतं जन्यमध्ष्टं प्रतिसेवते चत्वारो लघवः, ध्ष्टे चत्वारो गुरवः । कौटुम्बिकपरिगृहीते जघन्येऽध्ष्टे चत्वारो गुरवः, ध्ष्टे च्छेदः । दण्डिकपरिगृहीते जघन्येऽदृष्टे च्छेदः, दृष्टे मूलम् । प्राजापत्यपरिगृहीते मध्यमेऽध्ष्टेचत्वारो गुरवः, दृष्टे च्छेदः । कौटुम्बिकपरिगृहीते मध्यमेऽष्टे च्छेदः, ष्टे मूलम् । दण्डिकपरिगृहीते मध्यमेऽध्ष्टे मूलम्, ध्ष्टेऽनवस्थाप्यम् । प्राजापत्यपरिगृहीते उत्कृष्टेऽध्ष्टे च्छेदः, दृष्टे मूलम् । कौटुम्बिकपरिगृहीते उत्कृष्टेऽध्ष्टे मूलम्, दृष्टेऽनवस्थाप्यम् । दण्डिकपरिगृहीते उत्कृष्टेऽदृष्टेऽनवस्थाप्यम्, ष्टे पाराश्चिकम् । एवं दृष्टाStष्टयोः 'प्रसजनां' शङ्का - भोजिकादिरूपां मुक्त्वा प्रायश्चित्तं ज्ञातव्यम् ॥ अत्र प्रागुक्तमेवाक्षेप - परिहारबद्धं गाथाद्वयमाह [भा. २५४० ] जम्हा पढमे मूलं, बिइए अणवट्ठो तइए पारंची । तम्हा ठायंतस्सा, मूलं अणवट्ठ पारंची ॥ पडिसेवणाए एवं, पसजणा तत्थ होइ इक्के क्के । चरिमपदे चरिमपदं, तंपि य आणाइनिप्फन्नं ।। [भा. २५४१] - गतार्थम् ॥ [भा. २५४२ ] ते चैव तत्थ दोसा, मोरियआणाए जे भणिय पुवि । आलावणाइ मोत्तुं, तेरिच्छे सेवमाणस्स ॥ वृ-मौर्यध्ष्टान्तद्वारेण या भगवतामाज्ञा बलीयसी प्रसाधिता तस्या भङ्गेय दोषाः 'पूर्व' दिव्यद्वारे मनुष्यद्वारे च भणिताः तेऽपि तथैवात्र द्रष्टव्याः । परमालापनादीन् मुक्त्वा शेषा अत्र तैरश्चे देहयुते सेवमानस्य भवन्ति । एतदेवालापनादिपदं व्याचष्टे [भा. २५४३ ] जह हास- खेड - आगार- विब्भमा होंति मणुयइत्थीसु । आलावा य बहुविधा, तह नत्थि तिरिक्खइत्थीसु ।। वृ- यथा मनुष्यस्त्रीषु हास्य-क्रीडा- आकार- विभ्रमा आलापाश्च बहुविधा भवन्ति न तथा तिर्यक्स्तीषु । एतावान् मनुष्यस्त्रीभ्यस्तिर्यक्स्तरीणां विशेषः ॥ अथ चतुर्भङ्गीमाह [भा.२५४४] सुहविण्णप्पा सुहमोइगा य, सुहविण्णप्पा य होंति दुहमोया । दुहविण्णप्पा य सुहा, दुहविण्णप्पा य दुहमोया ॥ वृ- गतार्था अत्रोदाहरणानि - १०१ [भा. २५४५] अमिलाई उभयसुहा, अरहण्णगमाइमक्कडि दुमोया । गोणाई तइयभंगे, उभयदुहा सीहि-वग्घीओ ॥ वृ- अमिलाः- एडकाः ता आदिशब्दाद् अजा-स्वरिकादयश्च तिर्यक्स्तिय उभयसुखाः, तत्र निष्प्रत्यपायतया सुखविज्ञप्याः, लोकगर्हिततया तुच्छसुखास्वादमात्रहेतुत्वाच्च सुखमोच्याः १ । Page #105 -------------------------------------------------------------------------- ________________ १०२ बृहत्कल्प-छेदसूत्रम् -२-१/२५ "अरहन्नगमाइमकडि"त्ति अरहन्नकस्य भ्रातृजाया तदनुरागाद् मृत्वा या मर्कटी जाता तदा दयस्तिरश्चयोदुःखमोच्याः परंसुखविज्ञप्याः, अरहन्नकदृष्टान्तश्चावश्यकादवसातव्यःतृतीयभङ्गे तुगो-महिष्यादयः, ताः स्वपक्षेऽपिदुःखेन सङ्गमंकार्यन्ते किंपुनः परपक्षे मनुजेषु? अतोदुःखविज्ञपनाः, लोकजुगुप्सितश्चतासुसङ्गमइति कृत्वासुखमोच्याः३।यास्तु सिंही-व्याघ्रीप्रभृतयस्ता उभयदुःखाः, तत्रजीवितान्तकारिणीत्वाद्दुःखविज्ञपनाः, अनुरक्ताश्च सत्यःप्रतिबन्धबन्धुरतया दुःखमोच्याः । अत्र नोदकः प्रश्नयति-को नाम प्राकृतोऽप्येतास्तियस्त्रियो लोकजुगुप्सिताः प्रतिसेवेत? विशेषतो जिनवचनपरिमलितमति? इति, अत्रोच्यते[भा.२५४६] जइता सणप्फईसुं, मेहुणभावंतु पावए पुरिसो। जीवियदोच्चा जहियं, किं पुन सेसासु जाईसु॥ वृ-यदि तावत् ‘सनखपदीषु सिंहीषु पुरुषो मैथुनभावं प्राप्नोति यत्र "जीवितदोच्च"त्ति जीवितभयं प्राणसन्देहो यासु भवतीत्यर्थः, किं पुनः शेषासु खरिकादिजातिषु? । तथा चात्र दृष्टान्तः-एक्का सीही रिउकाले मेहुणत्थी सजाइपुरिसं अलभमाणी सत्थे वहंते इक्वं पुरिसं चित्तुं गुहं पविठ्ठा चाटुं काउमाढत्ता । सा य तेन पडिसेविता । तत्थ तेसिं दोण्ह वि संसारानुभावतो अनुरागोजातो।गुहापडियस्स तस्स सा दिने दिने पोग्गलं आनेउं देइ । सो वितं पडिसेवइ ।जइ एवं जीवितंतकरीसु वि सणप्फईसु पुरिसो मेहुणधम्म पडिसेवइ किमंग पुन जासु जीवियभयं नत्थि तासु न पडिसेविस्सइ ? ति ॥ यञ्चोक्तम् “विशेषतो जिनवचनपरिमलितबुद्धि” इति तदप्ययुक्तम्, यतः किमेषोऽपिलोको भवतो न कर्णकोटरमध्यमध्यासिष्ट ? - मात्रास्वस्रा दुहित्रावा, न विविक्तासनो भवेत् । बलवानिन्द्रियग्रामः, पण्डितोऽप्यत्र मुह्यति॥ उक्तं तैरश्चं रूपम्, तदुक्तौ च समर्थितं भावसागारिकम् । एवं निर्ग्रन्थानामुक्तम् । अथ निर्ग्रन्थीनामेतदेवातिदिशन्नाह [भा.२५४७] एसेव कमो नियमा, निग्गंथीणं पि होइ नायव्यो। . पुरिसपडिमाउ तासिं, साणम्मि यजंच अनुरागो॥ वृ- “एष एव' द्रव्य-भावसागारिकविषयः क्रमो नियमाद् निर्ग्रन्थीनामपि भवति ज्ञातव्यः । नवरं दिव्यद्वारे तासां पुरुषप्रतिमा द्रष्टव्याः, मानुष्यद्वारे मनुजपुरुषाः, तैरश्चद्वारे तिर्यक्पुरुषा इति।तैरश्चेचश्वानविषयोयदनुरागोबभूव तद् दृष्टान्तो भवति।जहा-एगाअविरइयाअवाउडा काइयं वोसिरंती विरहे साणेण दिट्ठा। सोय साणो पुच्छं लोलितो चाडूणि करेंतो अल्लीणो।सा अगारी चिंतेइ-पेच्छामितावइएस किंकरेइ? त्ति।तस्सपुरतो सागारियं अभिमुहंकाउंजानुएहिं हत्थेहि यअहोमुही ठिया। तेन सापडिसेविया। तीए अगारीए तत्थेव साणे अनुरागोजातो । एवं मिग-छगल-वानरादीविअगारिंअभिलसंति॥यतएतेदोषास्ततः सागारिकेप्रतिश्रयेनवस्तव्यम्। अथ द्वितीयपदमाह[भा.२५४८] अद्धाणनिग्गयादी, तिक्खुत्तो मग्गिऊण असईए। गीयत्था जयणाए, वसंति तो दव्वसागरिए॥ वृ- अध्वनिर्गतादयः “त्रिकृत्वः' त्रीन् वारानन्यां निर्दोषां वसतिं मार्गयित्वा यदि न लभन्ते Page #106 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं- २५, [भा. २५४८] ततोऽन्यस्यां वसतावसत्यां गीतार्था यतनया द्रव्यसागारिकेऽप्युपाश्रये वसन्ति ।। यतनामेवाह[भा. २५४९ ] जहि अप्पतरा दोसा, आभरणादीण दूरतो य मिगा । चिलिमिलि निसि जागरणं, गीए सज्झाय-झाणादी ॥ १०३ वृ- 'यत्र' रूपा-ऽऽभरणादावल्पतरा दोषाः तत्र तिष्ठन्ति । मृगा इव मृगाः - अज्ञत्वादगीतार्थास्तानाभरणादीनां दूरतः कुर्वन्ति । चिलिमिलिकां च रूपादीनामपान्तराले बघ्नन्ति । 'निशि' रात्रौ तत्र जागरणं कर्तव्यम्, मा स्तेनादिराभरणादिकमपहरेदिति कृत्वा । गीतशब्दे च श्रूयमाणे महता शब्देन स्वाध्यायं कुर्वन्ति, ध्यानलब्धिसम्पन्नो वा ध्यानं ध्यायति, आदिशब्दाद् नृत्ते नाटके वा विधीयमाने तदभिमुखं नावलोकन्ते ।। भावसागारिके द्वितीयपदमाहअद्धानिग्गयादी, वासे सावयभए व तेनभए । आवरिया तिविहे वी, वसंति जयणाए गीयत्था ॥ [भा. २५५० ] वृ- अध्वनिर्गतादयो ग्रामादीनामन्तः शुद्धां वसतिमलभमाना बहिरप्युद्यानादौ वसन्ति । अथ बहिर्वसतामिमे दोषाः-‘“वास”त्ति वर्षं निपतति, सिंह- व्याघ्रादीनां वा श्वापदानां भयम्, स्तेनानां वा शरीरोपधिहराणां भयम् । ततो ग्रामादेरन्तर्भावसागारिके जघन्यमध्यमोत्कृष्टभेदाद् प्राजापत्यादिपरिगृहीतभेदाद्वा त्रिविधेऽपि वसन्ति । तत्र च प्रतिमा वस्त्रादिभिरावृताः क्रियन्ते । मनुष्य-तिर्यक्स्तियश्च कटकचिलिमिलिकामपान्तराले दत्त्वा यथा न विलोक्यन्त तथाऽऽवृताः सन्तो गीतार्था यतनया वसन्ति ॥ सूत्रम् मू. (२६) नो कप्पइ निग्गंथाणं इत्थिसागारिए उवस्सए वत्थए । मू. (२७) कप्पइ निग्गंथाणं पुरिससागारिए उवस्सए वत्थए । मू. (२८) नो कप्पइ निग्गंथीणं पुरिससागारिए उवस्सए वत्थए ॥ मू. (२९) कप्पइ निग्गंथीणं इत्थिसागारिए उवस्सए वत्थए । वृ- अस्य सूत्रचतुष्टयस्य सम्बन्धमाह [भा. २५५१] अविसिहं सागरियं, वृत्तं तं पुन विभागतो इणमो । मज्झे पुरिससगारं, आदी अंते य इत्थीसु ॥ वृ- पूर्वसूत्रे 'अविशिष्टं' स्त्री-पुरुषविशेषरहितं सागारिकमुक्तम्। अधुना पुनः तदेव सागारिकं 'विभागतः' स्त्री-पुरुषविशेषादस्मिन् सूत्रचतुष्टयेऽभिधीयते । अत्र च मध्यवर्त्तिसूत्रद्वये पुरुषसागारिकमादिसूत्रे अन्त्यसूत्रे च स्त्रीसागारिकमाश्रित्य विधिरभिधीयत इति ॥ अनेन सम्बन्धेनायातस्यास्य सूत्रचतुष्टयस्य व्याख्या-नो कल्पते निर्ग्रन्थानां स्त्रीसागारिके उपाश्रये वस्तुम् कल्पते निर्ग्रन्थानां पुरुषसागारिके उपाश्रये वस्तुम् । नो कल्पते निर्ग्रन्थीनां पुरुषसागारिके उपाश्रये वस्तुम् । नो कल्पते निर्ग्रन्थीनां पुरुषसागारिके उपाश्रये वस्तुम् । कल्पते निर्ग्रन्थीनां स्त्रीसागारिके उपाश्रये वस्तुमिति सूत्रचतुष्टयाक्षरार्थः ॥ अथ भाष्यकारो विस्तरार्थं बिभणिषुराहइत्थीसागरिए उवस्सयम्मि स चेव इत्थिया होइ। [ भा. २५५२ ] देवी मनुय तिरिच्छी, सच्चेव पसज्जणा तत्थ ॥ वृ- स्त्रीसागारिके उपाश्रये वस्तुंन कल्पते, सा चानन्तरसूत्रे या देवी मानुषी तिरश्ची च प्रतिपादिता सैवात्रापि द्रष्टव्या । सैव च 'प्रसजना' मिथ्यात्व-शङ्का भोजिकादिरूपा । तत्र च प्रायश्चित्तमपि Page #107 -------------------------------------------------------------------------- ________________ बृहत्कल्प-छेदसूत्रम् -२-१/२९ १०४ तदेव मन्तव्यम् । अत्र परः प्राह [भा. २५५३] जइस चेव य इत्थी, सोही य पसज्जणा य स च्चेव । सुत्तं तु किमारद्धं, चोदग ! सुण कारणं इत्थं ॥ वृ- यदि सैव स्त्री सैव 'शोधिः' प्रायश्चित्तं सैव च प्रसजना तर्हि किमर्थमिदं स्त्रीसागारिकसूत्रमारब्धम्? पुनरुक्तदोषदुष्टत्वान्नेदमारब्धं युज्यत इति भावः । सूरिराह-नोदक ! कारणमत्रास्ति येनेदं सूत्रमारब्धम्, तच्चावहितः शृणु' निशमय ॥ [भा. २५५४] पुव्वभणियं तु पुनरवि, जं-भण्णइ तत्थ कारणं अत्थि । पडिसेोऽणुन्ना कारणं विसेसोवलंभो वा ॥ वृ- तुशब्दोऽपिशब्दार्थे । पूर्वभणितमपि पुनरपि यद् भण्यते तत्र कारणमस्ति । किम् ? इत्याह- "पडिसेहो "त्ति ये पूर्वमनुज्ञां कुर्वता अर्था उक्तास्त एव भूयः प्रतिषेधद्वारेण भण्यन्ते । "अणुन "त्ति येऽर्था पूर्व प्रतिषेधं कुर्वता भणितास्तानेवानुज्ञां कुर्वन् भूयोऽपि दर्शयति । तथा 'कारणं' निमित्तं तद्दर्शनार्थं भूयोऽपि स एवार्थो भणनीयः । अथवा पूर्वं सामान्येन यः प्रतिपादितोऽर्थस्तस्यैव विशेषोपलम्भार्थं प्राग् भणितमपि भूयः प्रतिपादनीयम् । एवं प्रागुक्तभणने चत्वारि कारणानि सन्तीति ।। आह यद्येवं ततः प्रस्तुते किमायातम् ? इत्याहओहे सव्वनिसेहो सरिसाणुन्ना विभागसुत्तेसु । जाउं भेदो, तह मज्झत्थादओ वा वि ॥ [भा. २५५५ ] वृ- "नो कप्पइ निग्गंथाण वा निग्गंधीण वा सागारिए उवस्सए वत्थए" इत्यस्मिन् ओघसूत्रे सर्वस्यापि सागारिकस्य निषेधः कृतः, इह तु विभागसूत्रेषु सध्शानुज्ञा क्रियते, यथा-पुरुषाणां पुरुषसागारिके स्त्रीणां स्त्रीसागारिके वस्तुं कल्पते । तथा यतना यथा पुरुषेषु स्त्रीषु वा कर्त्तव्या तद्दर्शनहेतोर्विभागसूत्राणां भेदः । मध्यस्थादयो वा स्त्री-पुरुषाणां भेदा अर्थतो दर्शयिष्यन्ते इति विभागसूत्राणां पृथगारम्भः क्रियते ॥ अथ द्वितीयसूत्रे विशेषोपलम्भं दर्शयन्नाह [भा. २५५६] पुरिससागारिए उवस्सयम्मि, चउरो लहुगा य दोस आणादी । वि य पुरसा दुविहा, सविकारा निव्विकारा य ।। वृ- "कल्पते निर्ग्रन्थानां पुरुषसागारिके उपाश्रये वस्तुम्" इत्येवं यद्यपि सूत्रेऽनुज्ञातं तथाप्युत्सर्गतो न कल्पते । यदि वसन्ति ततश्चत्वारो लघुकाः प्रायश्चित्तम् आज्ञादयश्च दोषाः । तेऽपि च पुरुषा द्विविधाः सविकारा निर्विकाराश्च ।। तत्र सविकारान् व्याख्यानयति[भा. २५५७ ] रूवं आभरणविहिं, वत्था - ऽलंकार - भोयणे गंधे । आउज्ज नट्ट नाडग, गीए अ मनोहरे सुणिया ।। वृ- इह ये पुरुषाः रूपं उद्वर्तन - स्नान- नखदन्तकेशसंस्थापनादिना स्वशरीरे जनयन्ति, 'आभरणविधि' मणि-कनकादिमयानाभरणभेदान् 'वस्त्राणि वा' चीनांशुकादीनि परिदधते, 'अलङ्कारेण वा' केश- माल्यादिनाऽऽत्मानमलङ्कुर्वन्ति, भोजनं वा महता विस्तरेणभुञ्जते, चन्दनकर्पूरादिभिः कोष्ठपुटवाकादिभिर्वा गन्धैरात्मानमालिम्पन्ति वासयन्ति वा, तत-विततादिकं वा चतुर्विधमातोद्यं वादयन्ति, नृत्तं वा कुर्वन्ति, नाटकं वा नाटयन्ति, मधुरध्वनिना वा गीतमुच्चरन्ति, एते सविकारा उच्यन्ते । एतेषां रूपादीनि मनोहराणि दृष्ट्वा गीतादिशब्दांश्च 'श्रुत्वा' निशम्य Page #108 -------------------------------------------------------------------------- ________________ उद्देश : १, मूलं- २९, [भा. २५५७ ] भुक्ताऽभुक्तसमुत्था दोषाः । एतेषु तिष्ठतः प्रायश्चित्तमाह[भा. २५५८] १०५ एक्क्कम्मि उ ठाणे, चउरो मासा हवंति उग्घाया । आणाइणो यदोसा, विराधना संजमाऽऽयाए ॥ वृ- एतेषु रुपा-ऽऽभरणादिपु एकैकस्मिन् स्थाने तिष्ठतश्चत्वारो मासा उद्धाता भवन्ति, लघव इत्यर्थः । आज्ञादयश्च दोषाः, विराधना च संयमे आत्मनि च द्रष्टव्या ।। एवं ता सविकारे, निव्वीकारे इमे भवे दोसा । संसद्देण विबुद्धे, अहिगरणं सुत्तपरिहाणी ॥ [भा. २५५९] वृ- एवं तावत् सविकारपुरुषेषु दोषा उक्ताः । निर्विकारपुरुषेषु त्वमी दोषा भवेयुः साधूनां स्वाध्यायसत्केनावश्यिकी - नैषेधिकीसम्बन्धिना वा संशब्देन विबुद्धास्ते पुरुषाः साधुभि सह ‘अधिकारणम्' असङ्ग्रडं कुर्युः । तत्रात्मविराधना सूत्रपरिहाणिश्च भवति ॥ संयमविराधना त्वियम्[भा. २४६०] आउ जोवण वणिए, अगणि कुडुंबी कुकम्म कुम्मरिए । तेने मालागारे, उब्भामग पंथिए जंते ।। वृ- साधूनां गृहस्थानांच सम्बन्धिना असङ्खडशब्देन विबुद्धाः स्त्रियः “आउ” त्ति अप्कायाहरणार्थं व्रजन्ति । "जोवणं" ति रथकारादयः शकटे गवादीन् योजयित्वा काष्ठादिहेतोरटवीं गच्छेयुः । वणिजो धृतकुतुपादिकं गृहीत्वा ग्रामान्तरं व्रजन्ति । “अगनि" त्ति लोहकारादय उत्थायाग्निप्रज्वालनादिकर्मणि लगन्ति । कुटुम्बिनो हलादीनि गृहीत्वा क्षेत्राणि गच्छन्ति । 'कुकर्माणः ' मत्स्यबन्ध-वागुरिकादयो मत्स्याद्यर्थं गच्छन्ति । कुत्सितः मारणीयसत्त्वस्यातीववेदनोत्पादकत्वान्निन्द्यो यो मारः-मारणं स विद्यते येषां ते कुमारिकाः - सौकरिका इत्यर्थः तेऽपि स्वकर्मणि लगन्ति । स्तेनः प्रभातमिति कृत्वा पन्थानं बन्दुं गच्छेत् । मालाकारः करण्डे गृहीत्वाऽऽरामं गच्छति । ‘उद्भ्रामकः’ पारदारिकः स दत्तसङ्केत उद्भ्रामिकां गृहीत्वा पलायेत । पथिको बिबुद्धः पथि प्रवर्त्तते । यन्त्रिका बिबुद्धाः सन्तो यन्त्राणि वाहयन्ति । यस्मादेते दोषास्तस्मात् पुरुषेष्वपि न स्थातव्यम् ।। नोदकः प्राह[भा. २५६१] एवं सुत्तं अफलं, सुत्तनिवाओ उ असइ वसहीए । गीयत्था जयणाए, वसंति तो दव्वसागरिए । वृ- यदि ‘एवं' पुरुषेष्वपि निर्ग्रन्थानां वस्तुं न कल्पते तर्हि सूत्रं "कल्पते पुरुषसागारिके वस्तुम्” इत्येवंलक्षणमफलं प्राप्नोतिं । गुरुराह 'सूत्रनिपातः ' सूत्रस्यावसरो विशुद्धायां वसतावसत्यां मन्तव्यः, तथा च यद्यसागारिक वसतिर्न प्राप्यते ततो गीतार्था यतनया द्रव्यसागारिके वसन्ति, पुरुषसागारिके इत्यर्थः ।। [भा. २५६२] ते वियपुरिसा दुविहा, सन्नी अस्सन्निणो य बोधव्वा । मज्झत्थाऽऽभरणपिया, कंदप्पा काहिया चेव ॥ वृतेऽपि च पुरुषाद्विविधाः संज्ञिनोऽसंज्ञिनश्च । संज्ञा नाम देव-गुरु-धर्मतत्त्वानां यथावत् परिज्ञानं सा विद्यते येषां ते संज्ञितः, श्रावका इत्यर्थं । तद्विपरीता असंज्ञिनः । एते प्रत्येकं चतुर्विधाःमध्यस्था आभरणप्रिया कान्दर्पिकाः काथिकाश्च ॥ एतानेव व्याचाष्टे [भा. २५६३ ] आभरणपिए ज. णसु, अलंकरिते उ केसमादीणि । Page #109 -------------------------------------------------------------------------- ________________ १०६ बृहत्कल्प-छेदसूत्रम् -२-१/२९ ___ सइरहसिय-प्पललिया, सरीरकुइणो य कंदप्पा ॥ वृ- केशादीनि माल्यादिभिरलङ्कारैरलङ्कुर्वतः पुरुषानाभरणप्रियान् जानीहि । ये तु स्वैरहसितप्रलकिताः स्वेच्छया परस्परमट्टहासादिना हसन्ति, द्यूतान्दोलनादिना च क्रीडन्ति, ये च 'शरीरकुचयः' विविधषिङ्गचेष्टाकारिणः ते कादन्दर्पिकाः ॥ [भा.२५६४] अक्खाइयाउ अक्खाणगाईं गीयाईं छलियकव्वाई। कहयंता य कहाओ, तिसमुत्था काहिपा होति ।। वृ-तथा 'आख्यायिकाः' तरङ्गवती-मलयवतीप्रभृतयः, आख्यानकानि' धूर्ताख्यानकादीनि, 'गीतानि ध्रुवकादिच्छन्दोनिक्द्धानि गीतपदानि, तथा 'छलितकाव्यानि' शृङ्गारकाव्यानि, 'कथाः' वसुदेवचरित-चेटककथादयः, 'त्रिसमुत्थाः' धर्म-कामा-ऽर्थलक्षणपुरुषार्थत्रयवक्तव्यताप्रभवाः सङ्कीर्णकथा इत्यर्थः । एतान्याख्यायिकादीनि कथयन्तः उच्यन्ते, कथया चरन्तीनि व्युत्पत्तेः ।। [भा.२५६५] एएसिं तिण्हंपी, जे उ विगाराण बाहिरा पुरिसा । ___ वेरग्गरुई निहुया, निसग्गहिरिमं तु मज्झत्था ।। वृ-'एतेषाम् आभरणप्रियादीनांत्रयाणामपि सम्बन्धिनोये विकारास्तेभ्यः ‘बाह्याः' बहिर्वत्तिनो ये पुरुषाः 'वैराग्यरुचयः' केवलवैराग्यश्रद्धालवोनशृङ्गारादिरसप्रियाः 'निभृताः' करचरणेन्द्रियेषु संलीनाः निसर्गेण-खभावेनैव हीमन्तः-सलज्जाः ईशा मध्यस्था ज्ञातव्याः ।। पुनरप्यमीषां प्रत्येकं भेदानाह[भा.२५६६] एक्ककाते तिविहा, थेरा तह मज्झिमा य तरुणा य । एवं सन्नी बारस, बारस अस्सन्निणो होति॥ वृ-एकैकेमध्यस्थादयस्त्रिविधाः-स्थविरास्तथा मध्यमाञ्चतरुणाश्च । ततोमध्यस्थादयश्चत्वारः स्थविरादिभेदत्रयेण गुण्यन्ते जाता द्वादश भेदाः । एवं 'संज्ञिनः' श्रावकास्ते द्वादशविधाः । असंज्ञिनोऽपि द्वादशविधा भवन्ति ॥ एतेष्वेव प्रायश्चित्तमाह[भा.२५६७] काहीयातरुणेसं, चउसु विचउगुरुग ठायमाणस्स। सेसेसुंचउलहुगा, समणाणं पुरिसवग्गम्मि। वृ-संज्ञिनामसंज्ञिनां च यः काथिकस्तरुणः एतौ द्वौ भेदौ, ये च वक्ष्यमाणा नपुंसकाः पुरुषनेपथ्यास्तेषामपि संज्ञिनामसंज्ञिनां चैकैकः काथिकस्तरुणः, एते चत्वारो भेदाः, एतेषु चतुर्षु तिष्ठतः प्रत्येकं चत्वारो गुरुकाः। शेषेषु भेदेषु तिष्ठतः प्रत्येकं चतुर्लघु । एतत् प्रायश्चित्तं श्रमणानां पुरुषवर्गे भणितम् ।। कारणे पुनस्तिष्ठतां विधिमाह[भा.२५६८] सन्नीसु पढमवग्गे, असती अस्सन्निपढ़मवग्गम्मि। तेन परं सन्नीसुं, कमेण अस्सन्निसुंचेव ।। वृ-वसतौ निर्दोषायामसत्यां संज्ञिषु यः प्रथमवर्ग-मध्यस्थाः पुरुषास्तत्र तिष्ठन्ति । तत्रापि प्रथमंस्थविरेषु, तेषामभावेमध्यमेषु, तदलाभेतरुणेषु यथाक्रमंतिष्ठन्ति । ततः परं तेषामभावे द्वितीयादिवर्गेषुक्रमेणतिष्ठन्ति । द्वितीयवर्गोनामआभरणप्रियाः । तेषुप्रथमसंज्ञिषुस्थविरमध्यमतरुणेषु, ततएतेष्वेवासंक्षिषु।तदभावे संज्ञिनां तृतीयवर्गेकान्दर्पिकपुरुषेषु, तेषामलाभेऽसंज्ञिनां तृतीयवर्गे स्थविरादिषु यथाक्रमं स्थातव्यम् ।। Page #110 -------------------------------------------------------------------------- ________________ उद्देशकः १, मूलं-२९, [भा. २५६९] १०७ [भा.२५६९] एवं एक्कक्क तिगं, वोच्चत्थकमेण होइ नायव्वं । मोत्तूण चरिम सन्नी, एमेव नपुंसएहिं पि॥ वृ-एवं मध्यस्थादिषु एकैकस्मिन् पदे त्रिकं 'विपर्यस्तक्रमेण' प्रथम स्थविरेषु ततो मध्यमेषु ततस्तरुणेषु इत्येवंलक्षणेन वैपरीत्यविधिना भवति ज्ञातव्यम्, परं मुक्तवा चरमं संज्ञिनम् । किमुक्तं भवति? -चरमो भेदः काथिकः, तत्र संज्ञिनि प्रथमतस्त्रिकंन चारयितव्यं किन्तु द्विकम्, तद्यथा-यदा तृतीयावर्गो न प्राप्यते तदा चतुर्थवर्गे प्रथमं संज्ञिषु काथिकस्थविरेषु, तदलाभे काथिकमध्यमेषु, तदप्राप्तावसंज्ञिषु काथिकस्थविरेषु, तदभावे काथिकमध्यमेषु तिष्ठन्ति, अथ तेऽपि न प्राप्यते ततः संज्ञिषु काथिकतरुणेषु, तदभावेऽसंशिष्वपि काथिकतरुणेषु तिष्ठन्ति, ते चोभयेऽपि प्रज्ञापनीया यथा कथां न कथयन्ति । एवं पुरुषेषुस्थातव्ये विधिरुक्तः । एवमेवच नपुंसकेष्वपि वक्तव्यः । इदमेव भावयति[भा.२५७०] एमेव होति विहा, पुरिसनपुंसा वि सन्नि अस्सन्नी । मज्झत्थाऽऽभरणपिया, कंदप्पा काहिया चेव ।। वृ-पुरुषसागारिकालाभे कदाचिनपुंसकसागारिकः प्रतिश्रयो लभ्यते तत्रोप्येवमेव भैदाः कर्तव्याः। तत्र नपुंसका द्वि-स्त्रीनेपथ्यिकाः पुरुषनेपथ्यिकाश्च । ये पुरुषनेपथ्यिकास्ते द्विधाप्रतिसेविनोऽप्रतिसेविनश्च । ये तु स्त्रीनेपथ्यिकास्ते नियमात् प्रतिसेविनः । तत्र पुरुषनपुंसका अपि न केवलं पुरुषा इत्यपिशब्दार्थः संज्ञिनोऽसंज्ञिनश्चेति द्विविधा भवन्ति । उभयेऽपि प्रत्येक चतुर्विधाः-मध्यस्था आभरणप्रियाः कान्दर्पिकाः काथिकाश्चेति ।। [भा.२५७१] एकेक्का ते तिविहा, थेरा तह मज्झिमा य तरुणाय। एवं सन्नी बारस, बारस अस्सन्निणो होति ।। वृ. एकैकाः 'ते' मध्यस्थादयस्त्रिविधाः-स्थविरा मध्यमास्तरुणाश्च । एवं संज्ञिनो द्वादश असंज्ञिनोऽपि द्वादश भवन्ति ।। एतेषु प्रायश्चित्तमाह[भा.२५७२] जह चेव पर पुरिसेसुं, सोही तह चेव पुरिसवेसेसु । तेरासिएसुसुविहिय!, पडिसेवग-अपडिसेवीसु॥ वृ-यथैव पुरुषेषुशोधिरुपवर्णिता तथैव पुरुषवेषेष्विपि त्रैराशिकेषु' नपुंसकेषुहे सुविहित! प्रतिसेवकेषु अप्रतिसेवकेषु वा शोधिं जानीहीत्युपस्कारः । सा चेयम्-पुरुषनपुंसकानां ये काथिकास्तरुणास्तेषु चत्वारो गुरवः, शेषेषु भेदेषु चतुर्लघुकाः । कारणे पुनरध्वनिर्गतादीनां वसतेरलाभे तिष्ठतां तथैव पुरुषनपुंसकेष्वपि यतनाक्रमो यथा पुरुषेषु प्रतिपादितः ।। [भा.२५७३] जह कारणे पुरिसेसुं, तह कारणे इत्थियासु वि बसेज्जा । अद्धाण-वास-सावय-तेनेसु व कारणे वसती॥ वृ-यथाकारणेपुरुषेषुपुरुषेवेषनपुंसकेषुवावसन्ति तथा स्त्रीषु स्त्रीवेषधारिषुवानपुंसकेषु कारणे वसेयुः । किं पुनस्तत् कारणम् ? इत्याह-अध्वानं प्रितपन्नास्ततो निर्गता वा शुद्धामल्पतरदोषदुष्टां वा वसतिं न लभन्ते तत उद्यानादौ तिष्ठन्ति ।अथ वर्षं पतति बहिर्वा श्चापदभयं शरीरोपधिस्तेनभयं वा तत ईदृशे कारणे स्त्रीसागारिके तदभावे स्त्रीवेषधारिषु वा नपुंसकेषु पूर्वोक्तक्रमेण वसन्ति ।। निष्कारणे तु तत्र तिष्ठतामिदं प्रायश्चित्तम् Page #111 -------------------------------------------------------------------------- ________________ १०८ बृहत्कल्प-छेदसूत्रम् -२-१/२९ [भा. २५७४ ] काहीयातरुणीसुं, चउसु वि मूलं तु ठायमाणाणं । सेसासु विचउगुरुगा, समणाणं इत्थिवग्गम्मि ॥ वृ- स्त्रीषु स्त्रीवेषधारिषु वा नपुंसकेषु याश्चतस्त्रः काथिकतरुण्यस्तासु तिष्ठतां निर्ग्रन्थानां मूलम् । शेषासु संज्ञिनीषु असंज्ञिनीषु वा स्त्रीषु चतुर्गुरुकाः । एवं श्रमणानां स्त्रीवर्ग तिष्ठतां प्रायश्चित्तमुक्तम् ॥ [भा. २५७५ ] जह चैव य इत्थीसुं सोही तह चेव इत्थिवेसेसु । तेरासिए सुविहिय! ते पुन नियमा उ पडिसेवी ॥ वृ- यथैव श्रमणानां स्त्रीषु तिष्ठतां शोधिरभिहिता तथैव स्त्रीवेषेषु त्रैराशिकेषु हे सुविहित ! शोधिमवबुध्यस्वेत्युपस्कारः । 'ते पुनः' स्त्रीनपुंसका नियमात् 'प्रतिसेविनः' प्रतिसेवनाकाराषणशीला इति ॥ अथ कारणे तिष्ठतां यतनामाह [भा. २५७६ ] एमेव होंति इन्थी, बारस सन्नी तहेव अस्सन्नी । सन्नीण पढमवग्गे, असइ असन्नीण पढमम्मि || कृ- 'एवमेव' पुरुषवत्स्त्रियः स्त्रीवेषधारिणश्च नपुंसका मध्यस्थादिभि स्थविरादिभिश्च भेदैर्द्वादश संज्ञिन्यो द्वादश चाऽसंज्ञिन्यः प्रत्येकं भवन्ति । तत्र प्रथमं संज्ञिनीनां 'प्रथमवर्गे' मध्यस्थस्त्रीलक्षणे तदभावे असंज्ञिनीनां प्रथमवर्गे स्थविरादिक्रमेण स्थातव्यम् ॥ [भा. २५७७] एवं एक्क्क तिगं, वोच्चत्थकमेण होइ नेयव्वं । मोत्तूण चरिम सन्निं, एमेव नपुंसएहिं पि ।। वृ-एवम् ‘एकैकस्मिन्' आभरणप्रियादी वर्गे 'त्रिकं' तरुण्यादिभेदत्रयं विपर्यस्तक्रमेण नेतव्यम्प्रथमं स्थविरासु, ततो मध्यमासु, ततस्तरुणीषु, परं मुक्त्वा 'चरमां' काथिकाख्यां संज्ञिनीम् । तत्र हि प्रथमं संज्ञिनीषु स्थविरासु, ततो मध्यमासु, तदलाभेऽसंज्ञिनीषु स्थविरामध्यमासु, ततः संज्ञिनीषु तरुणीषु, तदप्राप्तावसंज्ञिनीषु तिष्ठन्ति । एवमेव स्त्रीवेषधारीषु, नपुंसकेष्वपि द्रष्टव्यम् ।। भावितं निर्ग्रन्थसूत्रद्वयम् । सम्प्रति निर्ग्रन्थीसूत्रद्वयं भावयति [भा. २५७८] एसेव कामो नियमा, निग्गंथीणं पि होइ नायव्वो । जह तेसि इत्थियाओ, तह तासि पुमा मुणेयव्वा ॥ वृ- एष एव क्रमो नियमान्निर्ग्रन्थीनामपि भवति ज्ञातव्यः । परं यथा 'तेषां' निर्ग्रन्थानां स्त्रियो गुरुकतरास्तथा निर्ग्रन्थीनामपि पुमांसो गुरुकतरा ज्ञातव्याः ॥ [भा.२५७९ ] काहीयातरुणीसुं, चउसु वि चउगुरुग ठायमाणीणं । सेसासु विचउलहुगा, समणीणं इत्थवग्गम्मि । वृ-स्त्रीणां स्त्रीवेषनपुंसकानां च मध्ये काधिकतरुणीषु चतसृष्वपि तिष्ठन्तीनां चतुर्गुरुकाः । 'शेषास्वपि' मध्यस्थादिषु द्वाविंशतिसङ्ख्याकासु स्त्रीषु द्वाविंशतौ च स्त्रीनपुंसकेषु चतुर्लघुकाः । एवं श्रमणीनां स्त्रीवर्गे प्रायश्चितं ज्ञातव्यम् ॥ [भा. २५८० ] काहीयातरुणेसु वि, चउसु वि मूलं तु ठायमाणीणं । सेसेसु उ चउगुरुगा, समणीयं पुरिसवग्गम्मि ॥ वृ-पुरुषाणां पुरुषनपुंसकानां च संज्ञ्यसंज्ञिनां ये प्रत्येकं चत्वारः काथिकास्तरुणास्तेषु तिष्ठन्तीनां Page #112 -------------------------------------------------------------------------- ________________ १०९ उद्देशक : १, मूलं-२९, [भा. २५८०] निर्ग्रन्थीनां मूलम् । 'शेषेषु' पुरुषेषु पुरुषनपुंसकेषु च प्रत्येकं चत्वारो गुरुकाः । एवं श्रमणीनां पुरुषवर्गे प्रायश्चित्तं मन्तव्यम् ।। अथापरं प्रायश्चित्तादेशमाह[भा.२५८१] थेराइएसु अहवा, पंचग पन्नरस मासलहुओ य। छेदो मज्झत्थादिसु, काहियतरुणेसु चउलहुओ।। [भा.२५८२] सन्नी-अस्सन्नीणं, पुरिस-नपुंसेसु एस साहूणं । एएसुं चिय थीसुं, गुरुओ समणीण विवरीओ॥ वृ-अथवा स्थविरादिषु त्रिषु पदेषु पञ्चकः पञ्चदशको मासलघुकश्च छेदो दातव्यः । तद्यथामध्यस्थेषु स्थविरेषु तिष्ठन्ति लघुपञ्चकश्छेदः, मध्यस्थेषु मध्यमेषु लघुपञ्चदशकः, मध्यस्थेषु तरुणेषुलघुमासिकच्छेदः । एवमाभरणप्रियेषु कान्दर्पिकेषुच त्रिविधेष्वपिमन्तव्यम्। काथिका अपि येस्थबिरामध्यमाश्चतेप्यप्येवमेवावसातव्यम् । विशेषचूर्णिकृत् पुनराह-काहीएसण्णिथेरे पन्नरस राइंदियाणि लहुओ छेदो, मज्झिमे मासलहुओ छेदो त्ति । ये तु काथिकास्तरुणास्तेषु चतुर्लघुमासिकच्छेदः ।। एवं पुरुषाः पुरुषनपुंसका वा ये संज्ञिनोये चासंज्ञिनस्तेषां समुदितानां येऽष्टचत्वारिंशत्सङ्ख्याका भेदास्तेषु यथोक्तक्रमेण 'एषः' पञ्चकादिकच्छेदः साधूनां भवति । स्त्रीषुस्त्रीनपुंसकेषुच ‘एतेष्वेव' मध्यस्थस्थविरादिभेदेषु साधूनामेष एवच्छेदोगुरुकः कर्तव्यः, तद्यथा-गुरुपञ्चको गुरुपञ्चदशको गुरुमासिको गुरुचतुर्मासिकश्चेति । श्रमणीनांपुनरेषएवच्छेदो विपरीतोदातव्यः, किमुक्तं भवति?-श्रमणीनांस्त्रीवर्गेतिष्ठन्तीनां लघुपञ्चकादिकच्छेदः,पुरुषवर्गे तु गुरुपञ्चकादिकः । शेषं सर्वमपि प्राग्वद् द्रष्टव्यम् ।। मू. (३०) नो कप्पइ निग्गंथाणं पडिबद्धसेन्जाए वत्थए। [भा.२५८३] इति ओह-विभागेनं, सेज्जा सागारिका समक्खाया। तंचेव य सागरियं जस्स अदूरे स पडिबद्धो । वृ-'इति' एवमोधेन विभागेन च 'सागारिका' सागारिकयुक्ता 'शय्या' प्रतिश्रयापरपर्याया समाख्याता । तदेव च सागारिकं यस्योपाश्रयस्य ‘अदूरे' आसन्ने स प्रतिबद्ध उच्यते । तत्र निर्ग्रन्थानामवस्थानमनेन प्रतिषिध्यते॥अनेन सम्बन्धेनायातस्यास्यव्याख्या-नोकल्पते निर्ग्रन्थानां 'प्रतिबद्धशय्यायां द्रव्यो भावतश्चप्रतिबद्ध उपाश्रये वस्तुमिति सूत्रार्थः।।अथ नियुक्तिविस्तरः[भा.२५८४] नामं ठवणा दविए, भावम्मिचउव्विहो उ पडिबद्धो। दवम्मि पट्ठिवंसो, भावम्मि चउव्विहो भेदो ।। वृ-नाम-स्थापना-द्रव्य-भावभेदाच्चतुर्विधः प्रतिबद्धः । तत्र नाम-स्थापने गतार्थे । द्रव्यतः पुनरयम्-‘पृष्ठवंशः' बलहरणं स यत्रोपाश्रये गृहस्थगृहेण सह सम्बद्धः स द्रव्यप्रतिबद्ध उच्यते। 'भावे तु' भावप्रतिबद्धे चिन्त्यमाने चतुर्विधो भेदो भवति । तद्यथा[भा.२५८५] पासवण ठाण रूवे, सद्दे चेव य हवंति चत्तारि। दव्वेण य भावेण य, संजोगो होइ चउभंगो॥ वृ-प्रश्रवणे स्थाने रूपे शब्दे चेति चत्वारो भेदा भावप्रतिबद्धे भवन्ति । तत्र यस्मिन् साधूनां स्त्रीणां च कायिकीभूमिरेका सप्रश्रवणप्रतिबद्धः । यत्र स्थितैर्भाषा-भूषण-रहस्यशब्दाः श्रूयन्ते सशब्दप्रतिबद्धः । अत्र च द्रव्येण च भावेन च संयोगे चतुर्भङ्गी भवति । तद्यथा-द्रव्यो नामैकः Page #113 -------------------------------------------------------------------------- ________________ बृहत्कल्प-छेदसूत्रम् - २- १/३० प्रतिबद्धो न भवतः, भावतो नामैकः प्रतिबद्धो न द्रव्यतः, एकोद्रव्यतोऽपि भावतोऽपि, एकोन द्रव्यतो न भावतः । एवं चतुर्भङ्गयां विरचितायां विधिमाह [भा. २५८६ ] ११० चउत्थपदं तु विदिन्नं, दव्वे हुगा य दोस आणादी । संसद्देण विबुद्धे, अहिकरणं सुत्तपरिहाणी ॥ वृ- चतुर्थपदमत्र 'वितीर्णम्' अनुज्ञातम्, चतुर्थभङ्गवर्तिनि प्रतिश्रये स्थातव्यमित्यर्थः । द्रव्यप्रतिबद्धे तिष्ठतां चत्वारो लघुकाः, आज्ञादयश्च दोषाः । साधूनां सम्बन्धिना आवश्यकीनैषेधिकीप्रभृतिना संशब्देन विबुद्धेषु विबुद्धेषु गृहस्थेष्वधिकरणं भवति । अथाधिकरणभयान्निस्सञ्चारास्तूष्णीकाश्चासते ततः सूत्रार्थपरिहाणि ॥ अथाधिकरणपदं व्याख्यानयति[भा.२५८७] आउ जोवण वणिए, अगनि कुडुंबी कुकम्म कुम्मरिए । तेने मालागारे, उब्भामग पंथिए जंते ।। वृ- अस्या व्याख्या प्राग्वत् ।। अथाधिकरणभ्यात् तृष्णीकास्तिष्ठन्ति तत एते दोषाः[भा.२५८८] आसज्ज निसीही वा, सज्झाय न करिति मा हु बुज्झिज्जा । तेनासंका लग्गण, संजम आयाए भाणादी ।। वृ- मा गृहस्था विबुध्यन्तामिति कृत्वा “आसज्ज” इति शब्दं नोच्चरन्ति मासलघु । नैषेधिकीमावश्यिकीं वा न कुर्वन्ति पञ्च रात्रिन्दिवानि । स्वाध्याये सूत्रपौरुषीं न कुर्वन्ति मासलघु। अर्थपौरुषीं न कुर्वन्ति पञ्च रात्रिन्दिवानि । स्वाध्याये सूत्रपौरुषीं न कुर्वन्ति मासलघु । अर्थपौरुषीं न कुर्वन्ति मासगुरु । सूत्रं नाशयन्ति चतुर्लघु । अर्थं नाशयन्ति चतुर्गुरु । एतेन सूत्रपरिहाणिरिति पदं व्याख्यातम् । तथा साधूनामावश्यिकीशब्दं पदनिपातशब्दं वा श्रुत्वा ते गृहस्थाः स्तेनोऽयमित्याशङ्कया साधुना समं युद्धाय लगेयुः । ततश्च युध्यमानयोः संयमात्मभाजनानां विराधनादयो दोषाः । यत एवमतो द्रव्यप्रतिबद्धायां वसतौ न स्थातव्यं । द्वितीयपदे तिष्ठेयुरपि ।। कथम् ? इत्यत आह [भा. २५८९] अद्धाणनिग्गयादी, तिक्खुत्तो मग्गिऊण असईए । गीयत्था जयणाए, वसंत तो दव्वपडिबद्धे ।। वृ-अध्वनिर्गतादयः ‘त्रिकृत्वः' त्रीन् वारा द्रव्यतो भावतोऽपि चाप्रतिबद्धमुपाश्रयं मार्गयित्वा यदि न लभन्ते ततो गीतार्था यतनया द्रव्यप्रतिबद्ध उपाश्रये वसन्ति ॥ यतनामेवाह[भा.२५९०] आपुच्छण आवासिय, आसज्ज निसीहिया य जयणाए । वेरती आवासग, जो जाहे चिंधन दुगम्मि ।। वृ-यदा कोऽपि साधुः कायिकीभूमौ गन्तुमिच्छति तदा द्वितीयं साधुमापृच्छय निर्गच्छति, स च द्वितीयः पृष्टमात्र एवोत्थाय दण्डकहस्तो द्वारे तिष्ठति यावदसौ प्रत्यागच्छति, एषा आप्रच्छनयतना। आवश्यिकीमासाद्यशब्दं नैषेधिकीं च यतनया यथा गृहस्था न शृण्वन्ति तथा कुर्वन्ति । वैरात्रिकवेलायामपि यः पूर्वमुत्थितस्तेन द्वितीयः साधुर्यतनया हस्तेन स्पृष्ट्वा प्रतिबोधयितव्यः, स च स्पृष्टमात्र एव तूष्णीम्भावेनोत्तिष्ठति, ततो द्वावपि कालभूमौ गत्वा वैरात्रिकं कालं यतनया गृह्णीतः यथा पार्श्वस्थितोऽपि न शृणोति । आवश्यकं यो यदा यत्र स्थितो विबुध्यते स तदा तत्र स्थित एव करोति, वन्दनकं स्तुतीश्च हृदयेनैव प्रयच्छन्ति, यद्वा यदा ते गृहस्थाः प्रभाते स्वयमेवोत्थितः Page #114 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं- ३०, [भा. २५९०] १११ तदाऽऽवश्यकं कुर्वन्ति । “चिंधन दुगम्मि" त्त पारवर्त्तयतां यत्र सूत्रेऽर्थे वा रात्रौ शङ्कितं भवति तस्य चिह्नम्-अभिज्ञानकरणम्, यथा अमुकस्मिन श्रुतस्कन्धेऽध्ययने उद्देशके वा इदं शङ्कितमस्तीति, तत् सर्वंदिवा प्रश्नयित्वा निशङ्कितं कुर्वन्ति ॥ तथा [भा. २५९१] जनरहिए वुज्जाणे, जयणा भासाए किमुय पडिबद्धे । ढड्ढरसरऽनुप्पेहा, न य संघाडेण वेरत्ती ॥ वृ-यदि तावज्जनरहितेऽप्युद्याने वसतां रात्रौ भाषायां यतना 'मा चतुष्पद-पक्षि- सरीसृपादयो जन्तवो विबुध्यन्ताम्' इति कृत्वा, ततः किं पुनः द्रव्यप्रतिबद्धे प्रतिश्रये ?, तत्र सुतरां यतना कर्त्तव्येति भावः । यस्तु ‘ढड्ढरस्वरः' बृहता शब्देन भाषणशीलः स वैरात्रिकं स्वाध्यायमनुप्रेक्षया करोति, मनसैवेत्यर्थः । येऽपि च साधवो न ढड्डुरस्वरास्तेऽपि सङ्घाटकेन न परिवर्तयन्ति किन्तु पृथक् पृथगिति ॥ गतः प्रथमो भङ्गः । अथ द्वितीयभङ्गं भावतः प्रतिबद्धो न द्रव्यत इत्येवंलक्षणं निरूपयति [भा.२५९२] भावम्मि उ पडिबद्धे, चउरो गुरुगा य दोस आणादी । ते वि य पुरिसा दुविहा, भुत्तभोगी अभुत्ता य ॥ वृ- ‘भावे' भावतः प्रतिबद्धे प्रतिश्रये तिष्ठतां चतुर्गुरुकाः आज्ञादयश्च दोषाः । ये पुनस्ते भावप्रतिबद्धे वसन्ति ‘ते पुरुषाः' साधवो द्विविधाः केचिद् ‘भुक्तभोगिनः' ये स्त्रीभोगान् भुक्त्वा प्रव्रजिताः, केचित्तु ‘अभुक्तभोगिनः ' कुमारप्रव्रजिताः । एषा पुरातना गाथा ।। अथास्या एव व्याख्यानमाह [भा.२५९३] भावम्मि उ पडिबद्धे, पनरससु पदेसु चउगुरू होंति । एक्क्काउ पयाओ, हवंति आणाइणो दोसा ।। वृ- भावप्रतिबद्धे चतुर्भि प्रश्रवणादिभिः पदैः षोडश भङ्गाः कर्त्तव्याः । तद्यथा-प्रश्रवणप्रतिबद्धः स्थानप्रतिबद्ध रूपप्रतिबद्धः शब्दप्रतिबद्धश्च १ प्रश्रवणप्रतिबद्धः स्थानप्रतिबद्धो रूपप्रतिबद्धो न शब्दप्रतिबद्धः २ इत्यादि । अत्र प्रथमभङ्गादारभ्य पञ्चदशसु 'पदेषु' भङ्गेषु चतुर्गुरवः प्रायश्चित्तम्। आदेशान्तरेण वा प्रथमे भङ्गे चत्वारश्चतुर्गुरवः, चतुर्णामपि पदानां तत्राशुद्धत्वात् । द्वितीये भङ्गे त्रयश्चतुर्गुरवः, त्रयाणां पदानां तत्राशुद्धत्वात् । एवमनया दिशा यत्र भङ्गे यावन्ति पदान्यविशुद्धानि तत्र तावन्तश्चतुर्गुरवः । एकैकस्माच्च 'पदाद्' भङ्गकादाज्ञादयो दोषा भवन्ति, यस्तु षोडशो भङ्गः स चतुर्ष्वपि पदेषु शुद्ध इति न तत्र प्रायश्चित्तम् ।। प्रश्रवणादीनामेवान्योऽन्यं सम्भवमाह[भा. २५९४] ठाणे नियमा रूवं, भासासद्दो य भूसणे भइओ । काय ठाणं नत्थी, सद्दे रूवे य भय सेसे ॥ वृ- यत्र साधूनां स्त्रीणां चैकमेवोपवेशनस्थानं तत्र नियमात् परस्परं रूपमवलोक्यते भाषाशब्दश्च श्रूयते भूषणशब्दस्तु भाज्यः, साभरणानां स्त्रीणां भवति इतरासां न भवतीत्यर्थः । 'कायिकी' प्रश्रवणं तत्र स्थानं नास्ति, लोकजुगुप्सिततया कायिकीभूमावुपवेशनाभावात्; भाषाभूषणशब्दरूपाणि तु भवन्त्यपीति भावः । शब्दे रूपे च 'शेषाणि' प्रश्रवणादीनि 'भज' विकल्पय । किमुक्तं भवति ? - शब्दे प्रश्रवण-स्थान-रूपामि भवन्ति वा न वा, रूपेऽपि प्रश्रवण-स्थान- शब्दा भवन्ति वा न देति ॥ एतेष्वेव दोषानुपदर्शयति Por Private & Personal Use Only Page #115 -------------------------------------------------------------------------- ________________ ११२ बृहत्कल्प - छेदसूत्रम् - २- १/३० [ भा. २५९५ ] आयपरोभयदोसा, काइयभूमी य इच्छऽनिच्छंते । संका एगमनेगे, वोच्छेद पदोसतो जं च ॥ वृ-यत्र संयतानामविरतिकानां चैका कायिकीभूमिस्तत्रात्मपरोभयसमुत्था दोषाः । तत्र संयत एवाविरतिकां रहसि दृष्ट्वा यदात्मना क्षुभ्यति एष आत्मसमुत्थो दोषः, यस्तु सा स्त्री तस्मिन् संयते क्षुभ्यति स परसमुत्थः, यस्तु साधुरविरतिकायामविरतिकाऽपि साधौ क्षोभमुपगच्छति स उभयसमुत्थो दोषः । “इच्छऽनिच्छंते "त्ति यदि स्त्रिया प्रार्थितः साधुस्तां प्रतिसेवितुमिच्छति ततो व्रतभङ्गः, अथ नेच्छति ततः सा उड्डाहं कुर्यात् । "संक" त्ति अविरतिका कायिकीभूमौ प्रविष्टा पश्चात् संयतमपि तत्र गच्छन्तं दृष्ट्वा कोऽपि शङ्कां कुर्यात् यदेवममू द्वे अप्यत्र त्वरितं प्रविष्टे तन्नूनं मैथुनार्थमिति । तत एकस्यानेकेषां वा साधूनां व्यवच्छेदं कुर्यात् । “पदोसतो जं च"त्ति तदीयाः पि-देवरादयः प्रद्वेषतो यद् ग्रहणा-ऽऽकर्षणादिकं करिष्यन्ति तन्निष्पन्नं प्रायश्चित्तम्।। 'यत्राविरतिकानां साधूनां चैकमेवोपवेशनस्थानं तत्र दोषानाह [भा. २५९६] दुग्गूढाणं छन्नंगदंसणे भुत्तभोगि सइकरणं । वेउव्वयमाईसु य, पडिबंधुहुंचयाऽऽसंका ॥ वृ- 'दुर्गूढानां' दुष्प्रावृतानां स्त्रीणांयानि च्छन्नाङ्गानि ऊरुकुचोरः प्रभृतीनि तेषां दर्शन भुक्तभोगिनां स्मृतिकरणं अभुक्तभोगिनां तु कौतुकमुत्पद्यते । तथा वैक्रियं वातादिविक्रियाविशेषाद् महाप्रमाणं सागारिकम्, अथवा विकुर्वितं नाम - महाराष्ट्रविषये सागारिकं विद्धवा तत्र विण्टकः प्रक्षिप्यते, सा चाविरतिका ताध्शेनाङ्गादानेन प्रतिसेवितपूर्वी, ततः वैक्रियं विकुर्वितं वा आदिग्रहणात् पैत्तिकं वा सागारिकं दृष्ट्वा सा स्त्री तत्र साधी प्रतिबन्धं कुर्यात्, उड्डुञ्चकं वा कश्चिदगारः कुर्यात्, आशङ्का वा लोकस्य भवति एते श्रमणका न सुन्दरा येनैवं महेलाभि सममासते ।। सर्वेष्वपि प्रश्रवणादिस्थानेषु सामान्यत इमे दोषाः[भा. २५९७ ] बंभवयस्स अगुत्ती, लज्जानासो य पीइपरिवुड्डी । साहु तवोवनवासो, निवारणं तित्थपरिहानी ।। वृ- स्त्रीभिः सहैकत्र तिष्ठतां साधूनां ब्रह्मचर्यस्य 'अगुप्ति' भङ्गो जायते, लज्जानाशच्च परस्परं भवति, अभीक्ष्णं सन्दर्शनादिना प्रीतिपरिवृद्धिरुपजायते, लोकश्चोपहासोक्तिभङ्गया ब्रवीतिअहो ! अमी साधवस्तपोवने वसन्ति, निवारणं च राजादयः कुर्वन्ति मा एतेषां मध्ये कोऽपि प्रव्रज्यां गृह्णातु, ततश्च 'तीर्थपरिहानि' तीर्थस्य व्यवच्छेदो भवति ॥ रूपप्रतिबद्धे दोषानाह[ भा. २५९८ ] चंकम्मियं ठियं मोडियं च विप्पेक्खियं च सविलासं । आगारे बहुविहे, दटुं भुत्तेयरे दोसा ॥ वृ- 'चङ्क्रमितं' राजहंसीवत् सलीलं पदन्यासः, 'स्थितं' कटीस्तम्भेनोर्द्धवस्थानम्, 'मोटितं' गात्रमोटनम्, विविधम्-अर्द्धाक्षि- कटाक्षादिभिर्भेदैः प्रेक्षितं विप्रेक्षितम्, तच्च 'सविलासं' भ्रूविक्षेप सहितंविस्मितमुखंवा, एवमादीनाकारान्बहुविधान् दृष्ट्वा भुक्तानाम् 'इतरेषांच' अभुक्तानांस्मृतिकरणकौतुकादयो दोषाः ॥ अविरतिकानां पुनर्नानादेशीयान् साधून् ध्ष्ट्वेत्थमध्युपपातो भवेत् [भा. २५९९] जल्ल-मलपंकियाण वि, लायन्नसिरी जहेसि देहाणं । सामन्नम्म सुरुवा, सयगुणिया आसि गिहवासे ।। Page #116 -------------------------------------------------------------------------- ________________ ११३ उद्देशकः १, मूलं-३०, [भा. २५९९] वृ-जल्लः-कठिनीभूतः, मलः-पुनरुद्वर्तितः सन्नपगच्छति, जल्लेन मलेन च पङ्कितानामप्येषां साधूनांदेहेषु अभ्यङ्गोद्वर्तन-स्नानविरहितेष्वपियथा लावण्यश्रीः' कमनीयतालक्ष्मीः श्रामण्येऽपि सुरूपा उपलभ्यतेतथाज्ञायते नूनममीषांगृहवासेशतगुणिता लावण्यलक्ष्मीरासीत्॥शब्दप्रतिबद्ध दोषानाह[भा.२६००] गीयाणिय पढियाणि य, हसियाणि य मंजुला य उल्लावा। भूसणसद्दे राहस्सिए असोऊण जे दोसा॥ वृ. स्त्रीणां सम्बन्धीनि भाषा-शब्द-रूपाणि, यानि गीतानि च पढितानि च हसितानि च, 'मञ्जुलाश्च' माधुर्यादिगुणोपेता उल्लापाः, ये च वलय-नूपुरादीनां भूषणानां शब्दाः, ये च रहसि भवा राहसिकाः-पुरुषेण परिभुज्यमानायाः स्त्रियाः स्तनितादयः शब्दा इत्यर्थः, तान् श्रुत्वा ये भुक्ता-ऽभुक्तसमुत्था दोषास्तनिष्पन्नं प्रायश्चित्तमाचार्यस्तत्र भावप्रतिबद्धे तिष्ठन् प्राप्नोति॥ अथ स्त्रियः साधूनां स्वाध्यायशब्दं श्रुत्वा यच्चिन्तयेयुस्तद् दर्शयति[भा.२६०१] गंभीर-महुर-फुड-विसयगाहओ सुस्सरो सरोजह सिं। सज्झायस्स मनहरो, गीयस्स नु केरिसो आसी ।। वृ-गम्भीरोनाम-यतःप्रतिशब्द उत्तिष्ठते, मधुर-कोमलः, स्फुट:-व्यक्ताक्षरः, विषयग्राहकःअर्थपरिच्छेदपटुः, सुखरः-मालव-कौशिक्यादिस्वरानुञ्जितः, एवंविधः स्वरोयथा 'एषां’ साधूनां सम्बन्धी स्वाध्यायस्यापि मनोहरः श्रूयते तथा ज्ञायते यदा गृहवासे विश्वस्ताः सन्तो गीतमेते विहितवन्तस्तदा गीतस्य कीद्दशो नामशब्द आसीत् ? किन्नरध्वनयस्तदानीमभूवन्नतिभावः॥ उक्ताश्चतुर्वपि प्रश्रवणादिप्रतिबद्धेषु दोषाः । अथ “ते पुन पुरिसा दुविहा" इत्यादि पश्चार्द्ध व्याख्यानयति[भा.२६०२] पुरिसा य भुत्तभोगी, अभुत्तभोगी य केइ निक्खता। कोऊहल-सइकरनुब्भवेहि दोसेहिमं कुजा ।। वृ-तेपुनः संयतपुरुषा द्विविधाः केचिद् भुक्तभोगिनः केचित्त्वमुक्तभोगिनो निष्क्रान्ताः । तेच तत्रोपाश्रये स्मृतिकरण-कौतूहलोद्भवा दोषा ये उत्पद्यन्ते तैरिदं कुर्युः ।। [भा.२६०३] पडिगमनमन्नतिस्थिग, सिद्धी संजइ सलिंग हत्थे य।। अद्धाण-वास-सवय-तेनेसु व भावपडिबद्धे ॥ वृ-प्रतिगमनंनाम-तेसाधवोभूयोऽपिगृहवासंगच्छेयुः, यद्वा कश्चित्पावस्थादिभ्यः समागतः सतेष्वेव व्रजेत्, अन्यतीर्थिकेषुवा गच्छेत्, सिद्धपुत्रिकां वा संयतींवा स्वलिङ्गस्थितःप्रतिसेवेत, हस्तकर्म वा कुर्यात् । यत एते दोषा अतो न भावप्रतिबद्धे स्थातव्यम् । भवेद्वाकारणं येन तत्रापि स्थातव्य भवति । किं पुनस्तत् ? इत्याह-“अद्धाण" इत्यादि । अध्वप्नतिपन्नास्ते साधवः, न चान्यां वसतिं लभन्ते, वर्ष वा निरन्तरं पतति, श्वापदाः स्तेना वा ग्रामादेर्बहिरुपद्रवन्ति । एतैः कारणैर्भावप्रतिबद्धेऽप्युपाश्रये तिष्ठन्ति । एतदेव व्याचष्टे[भा.२६०४] विहनिग्गया उ जइउं, रुक्खे जोइ पडिबद्ध उस्सा वा। ठायंति अह उवासं, सावय-तेनादओ भावे॥ 1918 1918 Page #117 -------------------------------------------------------------------------- ________________ ११४ बृहत्कल्प-छेदसूत्रम् -२-१/३० कृ-विहम्-अध्वा, ततो निगतास्तं प्रतिपन्ना वा त्रिकृत्वः शुद्धाया वसतेरन्वेषणे यतित्वा यदि न लभन्ते ततो वृक्षस्याधस्ताद्वा ज्योतिर्युतायां वा द्रव्यप्रतिबद्धायां वा वसतौ तिष्ठन्ति । “अह उ"त्तिअथ पुनर्वृक्षस्याधस्तादवश्यायो वावर्षवा निपतति श्वापद-स्तेनादयो वा तत्रोपद्रवन्ति ततो भावप्रतिबद्धायां वसतौ वसन्ति ।। तत्र चेयं यतना[भा.२६०५] भावम्मि ठायमाणा, पढमंठायंतिरूवपडिबद्धे । तहियंकडग चिलिमिली, तस्सऽसती ठंति पासवणे॥ वृ-भावप्रतिबद्धे उपाश्रये तिष्तः प्रथमं रूपप्रतिबद्धे तिष्ठन्ति । तत्र चापान्तराले कटकं चिलिमिलिकांवा प्रयच्छन्ति । तस्य रूपप्रतिबद्धस्याभावेप्रश्रवणप्रतिबद्धेऽपि तिष्ठन्ति।तत्रापि कायिकी मात्रके व्युत्सृज्यान्यत्र परिष्ठापयन्ति। [भा.२६०६] असईयमत्तगस्सा, निसिरणभूमीइ वा वि असईए। वंदेन बोलकरणं, तासि वेलंच वज्जिति ॥ -मात्रकस्य 'असति' अभावेऽन्यस्या वा कायिकीनिसर्जनभूमेरभावे 'वृन्देन' त्रिचतुः प्रभृतिसाधुसमूहेनमहताशब्देन बोलंकुर्वन्तस्तस्यामेवायिकीभूमौप्रविशन्ति। तासांच' अगारीणां कायिकीव्युत्सर्जनवेलां वर्जयन्ति ।। प्रश्रवणप्रतिबद्धस्याभावे शब्दप्रतिबद्धेऽपि तिष्ठन्ति, तत्र[भा.२६०७] भूसण-मासासः, सम्झायज्झाणनिच्चमुवओगो। . उवगरणेण सयंवा, पेल्लण अन्नत्थ वा ठाणे॥ दृ-प्रथमं भूषणशब्दप्रतिबद्धे तदभावे भाषाशब्दप्रतिबद्धेऽपि तिष्ठन्ति । तत्र चोभयत्रापि महताशब्देनसमुदिताः सन्तःस्वाध्यायं कुर्वन्ति, ध्यानलब्धिमन्तोवा 'ध्यानं धर्म-शुक्लभेदभिन्नं ध्यायन्ति, एतयोरेव स्वाध्याय-ध्यानयोर्नित्यमुपयोगः कर्तव्यः । भूषण-भाषाशब्दप्रतिबद्धाभावे स्थानप्रतिबद्धे तिष्ठन्ति । तत्रोपकरणेन स्वयं वा विप्रकीर्णा सन्तस्तथा मालयन्ति यथा तासां प्रेरणं भवति, अवकाशो न भवतीति भावः । अन्यत्र वा स्थाने गत्वा दिवसे, तिष्ठन्ति ।। स्थानप्रतिबद्धस्याभावे रहस्यशब्दप्रतिबद्धे तिष्ठन्ति। तत्र तिष्ठतां यतनांक्रमंच दर्शयति[मा.२६०८] परियारसद्दजयणा, सद्द वए चेव तिविह तिविहाय। उद्दाण-पउत्थ-सहीणभोइया जा जस्स वा गुरुगी॥ कृ-पुरुषेण स्त्री परिभुञ्जमाना यं शब्दं करोति स परिचारशब्द उच्यते, तत्र 'यतना' स्वाध्यायगुणनादिका कर्तव्या। 'सद्द वए चेव तिविह'त्ति शब्दतो वयसा च सा स्त्री त्रिविधा, तद्यथा-मन्दशब्दामध्यमशब्दातीव्रशब्दाच, वयसा तुस्थविरामध्यमा तरुणीचेति त्रिविधा। "तिविहाय"त्ति पुनरेकैका त्रिविधा-अपद्राणमर्तृका प्रोषितमर्तृका स्वाधीनभोक्तृका चेति । एवं भेदेषु विरचितेषु यतनाक्रम उच्यते-तत्र पूर्वमपद्राणभर्तृकायां स्थविरायां मन्दशब्दायां स्थातव्यम्, ततःप्रोषितभर्तृकायांस्थविरायांमन्दशब्दायाम, तदभावेऽपद्राणभर्तृकायांस्थविरायां मध्यशब्दायाम, तदसम्भवे प्रोषितभर्तृकायांस्थविरायांमन्दशब्दायाम, तदभावेऽपद्राणभर्तृकायां स्थविरायां मन्दशब्दायां स्थातव्यम्, ततः प्रोषितभर्तृकायां स्थविरायां मन्दशब्दायाम्, तदभावेऽपद्राणभत्कायां स्थविरायां मध्यशब्दायाम, तदसम्मवे प्रोषितभर्तृकायां स्थविरायां Page #118 -------------------------------------------------------------------------- ________________ उद्देशकः १, मूलं-३०, [भा. २६०८] ११५ मध्यमशब्दायाम्, तदलाभेऽपद्राणभर्तृकायास्थविरायांतीव्रशब्दायाम्, तदप्राप्तौ प्रोषितभर्तृकायां स्थविरायां तीव्रशब्दायां स्थातव्यम् । एवमेव मध्यमासु तरुणीषु च अपद्राण-प्रोषितभर्तृकासु क्रमो द्रष्टव्यः। ततःस्वाधीनभर्तृकायामपिप्रथमस्थविरायांततोमध्यमायांततस्तरुण्यांयथाक्रम मन्द-मध्यम-तीव्रशब्दायां स्थाव्यम् । अथवा "जा जस्स गुरुगि"त्ति यस्य साधोर्यो मन्दादिकः शब्दोरोचते तेन यायुक्ता सातस्य गुरुरागहेतुत्वाद्गुरुका, तेन च सर्वप्रयलेनतयागुरुकस्त्रिया प्रतिबद्धः प्रतिश्रयः परिहर्तव्यः । अथवाऽयमपरःक्रम उच्यते[भा.२६०९] उद्दाण परिठ्ठविया, पउत्थ कन्ना सभोइया चेव । थेरी मज्झिम तरुणी, तिव्वकरी मंदसहाय।। वृ-कन्याशब्दो बन्धानुलोम्याद् मध्येऽभिहितोऽप्यादौ कर्तव्यः, ततः पूर्वं 'कन्यायाम्' अपरिणीतस्त्रियाम्, तदभावेऽपद्राणभर्तृकायाम्, ततः ‘भर्तृपरिष्ठापितायां दौर्भाग्यात् पतिना परित्यक्तायाम, तदलाभेप्रोषितभर्तृकायां स्थविरायांस्थातव्यम्।तदप्राप्तावेतास्वेवप्रथमंमध्यमासु, ततस्तरुणीषु, ततः सभोक्तृका-स्वाधीनभर्तृका तस्यामपि स्थविरादिक्रमेण स्थेयम् । नवरं सा तीव्रशब्दकरी मन्दशब्दा चशब्दाद् मध्यमशब्दा चेति त्रिविधा । तत्र पूर्व मन्दशब्दायां ततो मध्यमशब्दायां ततस्तीव्रशब्दायामपिस्थातव्यम् ।। "सद्द वएचेव तिविह" ति व्याख्यानयति[भा.२६१०] थेरी मज्झिम तरुणी, वएण तिविहित्थि तत्थ एकेका। तिव्वकरी मज्झकरी, मंदकरीचेव सद्देणं ।। वृ-स्थविरा मध्यमा तरुणी चेति वयसा त्रिविधा स्त्री । तत्रैकैका त्रिविधा-तीव्रशब्दकरी मध्यमशब्दकरी मन्दशब्दकरी चेतिशब्देन त्रिविधा ॥अथ प्रश्रवणप्रतिबद्धादिषु चतुर्वपि या भाष्यकृता सविस्तरं यतना प्रोक्ता तामेव नियुक्तिकृदेकगाथया सङ्घ ह्याह[मा.२६११] पासवम मत्तएणं, ठाणे अन्नत्थ चिलिमिली रुवे । सज्झाए झाणे वा, आवरणे सद्दकरणेवा ।। वृ-कायिकीप्रतिबद्धे प्रतिश्रये प्रश्रवणं मात्रकेण परिष्ठापयितव्यम् । स्थानप्रतिबद्धेऽन्यत्र गत्वास्थातव्यम्। रूपप्रतिबद्धे चिलिमिली दातव्या शब्दप्रतिबद्धेस्वाध्यायोध्यानंवा 'आवरणं वा' कर्णयोः स्थगनं विधेयम् । तथापि शब्दे श्रूयमाणे 'शब्दकरणं तथा शब्दः कर्त्तव्यो यथा तयोर्लज्जितयोर्मोह उपशाम्यति ।। अथास्या एव पश्चाव्याचष्टे[भा.२६१२] वेरग्गकरंजवा, विपरिजियं बाहिरं व इअरंवा। सो तंगुणेइ साहू, झाणसलद्धी उझाएजा ॥ वृ-'वैराग्यकरम् उत्तराध्ययनादि, यद्वाऽपि परिजितं' स्वभ्यस्तंपरावर्तयमानमस्खलितमागच्छतीति भावः, तच्च ‘अङ्गबाह्यं वा प्रज्ञापनादि 'इतरद्वा' अङ्गप्रविष्टमाचारादि यद्यस्य साधोरागच्छति सतत् सूत्रंतथा गुणयतियथा परिचारणाशब्दोन श्रूयते। यस्तु ध्यानसलब्धिः' ध्यानलब्धिसम्पन्नः सध्यानं ध्यायति।। [भा.२६१३] दोसु वि अलद्धि कण्णे, ठएइ तह विसवणे करे सदं । जह लज्जियाण मोहो, नासइजणनायकरणं वा ।। -'द्वयोरपि स्वाध्याय-ध्यानयोर्य साधुरलब्धिकः स की स्थगयति । तथापि शब्दश्रवणे Page #119 -------------------------------------------------------------------------- ________________ ११६ बृहत्कल्प-छेदसूत्रम् -२-१/३० शब्दं तथा कुर्यात् यथा तयोलज्जितयोर्मोहो नश्यति, यथा-किमेवं भोः ! न पश्यसि त्वमस्मानत्र स्थितान् यदेवं लज्जनीयानि चेष्टितानि कुरुषे । यद्येवमप्युक्तो न तिष्ठति ततो जनज्ञातं कुर्वन्ति, यथा-पश्यत पश्यत भोइन्द्रदत्त ! यज्ञदत्त ! सोमशर्मन् ! अयं विगुप्त इत्थमस्माकंपुरतोऽनाचारं सेवते ॥गतो द्वितीयभङ्गः । अथ तृतीयभङ्गमाह[भा.२६१४] उभओ पडिबद्धाए, भयणा पन्नरसिया उ कायव्वा । दव्वे पासवणम्मि य, ठाणे रूवे य सद्दे य॥ वृ-'उभयतः' द्रव्यतो भावतश्च या प्रतिबद्धा वसति तस्यां पञ्चदशका ‘भजना' भङ्गकरचना कर्तव्या। तद्यथा-द्रव्यतःप्रतिबद्धाभावेचप्रश्रवण-स्थान-रूपशब्दैः प्रतिबद्धा १ द्रव्यतःप्रतिबद्धा भावतश्च प्रश्रवण स्थान-रूपैः प्रतिबद्धान शब्देन २ द्रव्यतः प्रतिबद्धा भावतः प्रश्रवण-स्थानशब्दैः प्रतिबद्धा न रूपेण ३ द्रव्यतः प्रतिबद्धा भावे सच प्रश्रवण-स्थानाभ्यां प्रतिबद्धा न रूपशब्दाभ्याम् ४ एतेचत्वारोभङ्गाः स्थानप्रतिबद्धपदेन लब्धाः । एवं स्थानाप्रतिबद्धपदेनापि चत्वारो लभ्यन्ते जाता अष्टौ भङ्गाः । एते प्रश्रवणप्रतिबद्धपदेन लब्धाः, एवं प्रश्रवणाप्रतिबद्धपदेनाप्यष्टौ लभ्यन्ते, जाताः षोडश भङ्गाः॥अत्रच षोडशो भङ्गः 'द्रव्यतः प्रतिबद्धा नपुनः प्रश्रवणादिभि' इत्येवंलक्षणो नाधिक्रियते, उभयतः प्रतिबद्धाया अधिकारात्, अत्र च भङ्गे भावतः प्रतिबद्धाया अभावात् । ततो ये आद्याः पञ्चदश भङ्गकास्तेषु तिष्ठतो दोषानाह[भा.२६१५] उभओपडिबद्धाएष ठायंते आणमाइणो दोसा। तेचेव पुव्वभणिया, तंचेव यहोइ बिइयपयं ।। वृ-उभयतः प्रतिबद्धायां वसतौ तिष्ठत आज्ञादयो दोषाः । ये च प्रथमद्वितीयभङ्गयोः पूर्वमधिकरणादय आत्मपरोभयसमुत्थादयश्च दोषा भणितास्त एवात्रापि समुदिता वक्तव्याः। यच्च प्रथमद्वितीयभङ्गयोद्धितीयपदमुक्तं तदेवात्रापि ज्ञातव्यम् । गतस्तृतीयो भङ्गः । चतुर्थस्तु भङ्गो न द्रव्यतः प्रतिबद्धा नापि भावत इत्येवंलक्षणः स चोभयथाऽपि निर्दोष इति न काचित् तदीया विचारणा ॥ सूत्रम् मू. (३१) कप्पइ निग्गंथीणं पडिबद्धसिज्जाए वत्थए। [भा.२६१६] एसेव कमो नियमा, निग्गंथीणं पि नवरिचउलहुगा। सुत्तनिवाओ निद्दोसे, पडिबद्धे असइ उ सदोसे । वृ-'एष एव क्रमः' द्रव्यभावोभयतःप्रतिबद्धव्याख्यापरिपाटिरूपो नियमाद् निर्ग्रन्थीनामपि वक्तव्यः । नवरंप्रतिबद्धे तिष्ठन्तीनांतासांचतुर्लघुकाः ।नोदकः प्राह-यद्येवंतर्हि सूरंनिरर्थकम्, तत्र निर्ग्रन्थीनामवस्थानस्यानुज्ञातत्वात् । आचार्य प्राह-सूत्रनिपातो निर्दोषप्रतिबद्ध प्रतिश्रये भवति, प्रायश्चित्तंतुसदोषप्रतिबद्धे द्रष्टव्यम्।अथ निर्दोषप्रतिबद्धोनप्राप्यते ततस्तस्य 'असति' अभावे सदोषप्रतिबद्धे स्थातव्यम्॥ [भा.२६१७] आउज्जोवणमादी, दव्वम्मि तहेव संजईणं पि। नाणत्तंपुन इत्थी, नऽच्चासन्ने न दूरे य॥ वृ- द्रव्यप्रतिबद्धे संयतीनामप्यकाय-शकटयोजनादयो दोषास्तथैव भवन्ति, परं तासां सागारिकनिश्रया तिष्ठन्तीनां न दोषः । “नाणत्तं पुन इत्थि" त्ति स पुनः प्रतिबद्धः स्त्रीभिरेव Page #120 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं- ३१, [ भा. २६१७] ११७ वसन्तीभिर्ज्ञातव्यो न पुरुषैः । एतद् निर्ग्रन्थेभ्यो निर्ग्रन्थीनां नानात्वम् । स च संयतीनां प्रतिश्रयः सागारिकगृहस्य नात्यासन्ने न चातिदूरे भवति ।। तद्यथा [भा. २६१८] अजियमादी भगिनी, जा यन्न सगारअब्भरहियाओ । विहवा वसंत सागारियस्स पासे अदूरम्मि ॥ - आर्यिका - पितामही मातामही वा, आदिशब्दाद् जनन्यादिपरिग्रहः भगिनी प्रतीता, याश्चान्या अपि भ्रातृजायाप्रभृतयः सागारिकस्य - शय्यातरस्याभ्यर्हिताः पूज्या विधवाः सागारिकगृहस्य पार्श्वेऽदूरे वसन्ति, ताभिर्द्रव्यतः प्रतिबद्धे प्रतिश्रये वस्तव्यमिति ।। आह चएयारिस गेहम्मी, वसंति वइणीउ दव्वपडिबद्धे । पासवणादी य पया, ताहि समं होंति जयणाए । [ भा. २६१९] वृ- एताद्दशे गेहे स्त्रीभिर्द्रव्यतः प्रतिबद्धे व्रतिन्यो वसन्ति । तत्र च स्थिताः प्रश्रवणादीनि पदानि 'यतनया' वारकग्रहणादिरूपया ताभि समं कुर्वन्ति । एतद् निर्दोषं द्रव्यप्रतिबद्धमुच्यते ॥ नोदकः प्राह-यद्यत्ताप्यप्काय-शकटयोजनादीन्यधिकरणानि भवन्ति ततः कथं निर्दोषं भवति ? इत्युच्यते [भा. २६२० ] कामं अहिगरणादी, दोसा वइणीण इत्थियासुं पि । ते पुन हवंति सज्झा, अणिस्सियाणं असज्झा उ ।। वृ- 'कामम्' अनुमतमस्माकं यदधिकरणादयो दोषा व्रतिनीनां 'स्त्रीष्वपि ' स्त्रीप्रतिबद्धे भवन्ति परं ते पुनर्दोषाः साध्याः, “आपुच्छण आवासिय, आसज्ज निसीहिया य जयणाए" इत्यादिगाथोक्तया यतनया तेषां परिहर्तुं शक्यत्वात् । ये तु तासामनिश्रितानां तरुणादिसमुत्था दोषा भवन्ति तेऽसाध्याः, असाध्यदोषपरिहारेण च साध्यदोषानाद्रियमाणानां यतनया च तत्परिहारं कुर्वन्तीनां न कश्चिद्दोष इति । उक्तो द्रव्यप्रतिबद्धे विधिः । अथ भावप्रतिबद्धे विधिमाह[भा.२६२१] पासवण-ठाण-रूवा, सद्दो य पपुंसमस्सिया जे उ । भावनिबंधो तासिं, दोसा ते तं च बिइयपदं ।। वृ- ये च प्रश्रवण-स्थान-रूप- शब्दाः 'पुमांसं' पुरुषमाश्रितास्तैः प्रतिबद्धा या शय्या तस्यां 'तासां' साध्वीनां 'भावनिबन्धः' सा भावप्रतिबद्धेति भावः । अत्र च दोषास्त एव पूर्वोक्ताः, द्वितीयपदमि तदेव मन्तव्यम् ॥ यस्तु विशेषस्तमुपदर्शयति [भा. २६२२] बिइयपय कारणम्मी, भावे सद्दम्मि पूवलियखाओ । तत्तो ठाणे रूवे, काइय सविकारसद्दे य ॥ वृ-द्वितीयपदे ‘कारणे' अध्वनिर्गमनादौ निर्दोषोपाश्रयस्याप्राप्तौ भावप्रतिबद्धे तिष्ठन्त्यः प्रथमं पूपलिकाखादस्य-वक्ष्यमाणलक्षणस्य शब्दप्रतिबद्धे तिष्ठन्ति, ततस्तस्यैव स्थानप्रतिबद्धे, ततो रूपप्रतिबद्धे, ततः कायिक्या वायुकायस्य वा यो व्युत्सृजतः शब्दो भवति तेन 'सविकारे' सदोषे तस्यैव प्रश्रवणप्रतिबद्धे तिष्ठन्ति ॥ पूपलिकाखादकस्य स्वरूपमाह [भा. २६२३] नउई -सयाउगोवा, खट्टामल्लो अजंगमोथेरो । अन्ने उट्ठविजइ, भोइजइ सो य अन्नेणं ॥ वृ- यः स्थविरो नवतिवार्षिको वा शतायुष्को वा सम्पन्नशतवर्ष इत्यर्थः, 'खट्वामल्लो Page #121 -------------------------------------------------------------------------- ________________ ११८ बृहत्कल्प-छेदसूत्रम् -२-१/३० नाम'प्रबलजराजर्जरितदेहतया यः खट्वाया उत्थातुं न शक्नोति, अत एवासौ 'अजङ्गमः' गमनक्रियासामर्थ्यविकलः,खट्वायाअपिचान्येन परिचारकादिनोत्थाप्यतेअन्येनचासौ भोज्यते' भोजनं कार्यते एष पूपलिकाखादकः ।। अस्यैव व्युत्पत्तिमाह[भा.२६२४] पूवलियं खायंतो, चब्बच्चबसद्द सो परं कुणइ । एरिसओवा सद्दो, जारिसओ पूवभक्खिस्स ।। वृ-पूपलिकां खादन्' भक्षयन्दन्तानामभावाद्यस्मादसौ परं केवलंचब्बच्चबाशब्दंकरोति तेन पूपलिकाखादकः । याशो वा पूपभक्षिणः शब्दो भवति ईशो यस्य भाषमाणस्य शब्दः स पूपलिकाखादकः॥ [भा.२६२५] सोविय कुटुंतरितो, खाहुत्थूभाउ कुणइ जत्तेणं । परिदेवइ किच्छाहि य, अवितकंतो विगंयभावो।। वृ- 'सोऽपि च' पूपलिकाखादकः स्थविरः संयतीप्रतिश्रयस्य कुड्यान्तरितो वर्तमानः "खाहुटूभाउ"त्ति काशित-निष्ठीवनेते द्वे अपि 'यलेन कष्टेन करोति, कृच्छ्राच्चासौ परिदेवते' करणतीति भावः, ‘अवितर्कमानः' वितर्कमकुर्वन् “विगतभावः' निरभिसन्धिह्रदयः सुप्त-मत्तमूर्छितादिरिवाव्यक्तचेतनाक इत्यर्थः, ईदशेन पूपलिकाखादकशब्देन प्रतिबद्धे निर्ग्रन्थीभिः प्रथमस्थातव्यम्।तदभावेतस्यैवस्थानप्रतिबद्धे, ततो रूपप्रतिबद्धे ततः प्रश्रवणप्रतिबद्धेऽपि।। आह किमत्र पूपलिकाखादकप्रतिबद्ध रागोद्भवो न भवति? उच्यते[भा.२६२६] अवि होज्ज विरागकरो, सद्दो रूवं च तस्स तदवत्थं । ठाणंचकुच्छमिजं, किंपुन रागोमवो तम्मि॥ वृ- 'अपि' इत्यभ्युच्चये, 'तस्य' पूपलिकाखादकस्य स्थविरस्य सम्बन्धी यः काशितपरिदेवनादिकःशब्दः, यच्च 'तदवस्थं तस्यामवस्थायां वर्तमानंवली-पलित-खलत्यादिकंरूपम्, यच्च तस्य विण्मूत्र-श्लेष्माघशुचिपङ्किलं 'कुत्सनीयं' जुगुप्सास्पदं स्थानं तानि प्रत्युत स्त्रीणां विरागकराण्येव, कुतःपुनस्तत्र रागोद्भवोभविष्यति? |अथ पूपलिकाखादकप्रतिबद्धंनावाप्यते ततोयथा निर्ग्रन्थानां कटकचिलिमिलिकादिका यतना भणिता तथा निर्ग्रन्थीनामपि द्रष्टव्या ॥ अत्र परः प्राहभ. (२६२७] एयारिसम्मिरूवे, सद्दे वा संजईणजइऽणुन्ना। समणाण किंनिमित्तं, पडिसेहो एरिसे भणिओ। वृ-यदि 'एताशे' पूपलिकाखादकसम्बन्धिनि रूपे शब्दे वा संयतीनामनुज्ञा क्रियते तर्हि श्रमणानां किंनिमित्तम् 'ईशे' स्थविरसत्रीसंश्रिते रूपादिप्रतिबद्धे प्रतिषेधो भणितः? तेषामपि तत्र वस्तुंयुक्तमिति भावः ।। सूरिराह[भा.२६२८] मोहोदएणइ ता, जीवविउत्तेवि इथिदेहम्मि । दिट्ठा दोसपवित्ती, किं पुन सजिए भवे देहे ।। वृ-यदि तावद्मोहोदयेनजीववियुक्तेऽपिस्त्रीदेहे पुरुषाणांप्रतिसेवनादोषप्रवृत्तिष्टा तर्हि किंपुनः सजीवे देहे स्थविरायाः सम्बन्धिनि? तत्र सुतरांभविष्यतीति भावः, अतस्तेषां तत्रापि प्रतिषेधः कृतः ।निर्ग्रन्थीनांतु पूपलिकाखादकप्रतिबद्धेस्वल्पएवदोषःअनिश्रितानांतुमहानिति Page #122 -------------------------------------------------------------------------- ________________ उद्देशकः १, मूलं-३१, [भा. २६२८] ११९ तासांतत्र वस्तुमनुज्ञायते॥ मू. (३२) नो कप्पइ निग्गंथाणं गाहावइकुलस्स मझमझेणं गंतुं वत्थए। [मा.२६२९] जह चेव य पडिबंधो, निवारिओ सुविहियाण गिहिएसु। तेसिं चिय मज्झेणं, गंतूणन कप्पए जोगो।। वृ-यथैव पूर्वसूत्रे 'गृहिषु' गृहस्थविषयो द्रव्यतो भावतश्च प्रतिबन्धः “सुविहितानां साधूनां निवारितस्तथैवात्रापि 'तेषामेव' गृहिणां मध्येन गत्वा यत्र निर्गम-प्रवेशौ क्रियेते तत्र वस्तुंन कल्पत इतिनिवार्यते। एषः 'योगः' सम्बन्धः॥अनेन सम्बन्धेनायातस्यास्यव्याख्या-नो कल्पते निर्ग्रन्थानां गृहपतिकुलस्य मध्यम्मध्येन गत्वा यत्र निर्गम-प्रवेशौ क्रियेते तत्रोपाश्रये वस्तुम् । उपलक्षणमिदम्तेन गृहस्थायत्रसंयतोपाश्रयस्य मध्यम्मध्येन निर्गच्छन्तिवाप्रविशन्तिवातत्रापि न कल्पते वस्तुमिति सूत्रार्थः ॥अथ विस्तरार्थ भाष्यकृत् प्रतिपादयति[भा.२६३०] मज्झेण तेसि गंतुं, गिही वगच्छंति तेसि मज्झेणं। पविसंत नित दोसा, तहियं वसहीए भयणा उ॥ वृ-'तेषाम्' अगारिणांमध्येन गत्वा यत्रप्रविश्यते निर्गम्यते वा, गृहिणोवा 'तेषां संयतानां मध्येन यत्र गच्छन्ति तत्र न कल्पतेवस्तुम् । कुतः ? इत्याह-तत्र ताशे उपाश्रये संयतानां गृहिणांवा प्रविशतां निर्गच्छतांच दोषा भवन्ति,ते चोपरिष्टादभिधास्यन्ते।तथावसर्ति प्रविष्ानां संयतानां वसतिविषयाः पूर्वोक्ता दोषास्तत्र भवेयुर्वा न वेत्येवं भजना कार्या-यदि प्रतिबद्धा वसतिस्तदा प्रतिबद्धशय्यासूत्रोक्ता दोषा भवन्ति, अथ न प्रतिबद्धा ततस्तेन भवन्ति ।। अथ मध्यपदं व्याख्याति[भा.२६३१] सब्मावमसमावं, मज्झमसब्भावतो उपासेणं। निव्वाहिमनिव्वाहिं, ओकमइंतेसु सब्मावं। वृ-मध्यं द्विधा-सद्भावमध्यमसद्भावमध्यं च । तत्र सद्भावमध्यं नाम-यत्र गृहपतिगृहस्य पार्वेनगम्यतेआगम्यतेवा छिण्डिकयेत्यर्थः, “ओकमइंतेसु"तिगृहस्थानाम्ओकः-गृहं संयताः संयतानांचगृहस्थामध्येनयत्र 'अतियन्त प्रविशन्तिउपलक्षणत्वानिर्गच्छन्तिवातदेतदुभयमपि सद्भावतः-परमार्थतो मध्यं सद्भावमध्यम् । तच्च प्रत्येकं द्विधा-निर्वाहि । यत्र पुनस्तयोरेकमेव फलिहकं तदनिर्वाहि ।। अस्य चतुर्विधस्यापि त्रयःप्रकारा भवन्ति, तद्यथा[भा.२६३२] साला यमज्झ छिंडी, निग्गंथाणं न कप्पए वासो। चउरोय अनुग्घाया, तत्थ विआणाइणो दोसा॥ वृ-शाला १ मध्यं २ छिण्डिका ३ चेति त्रयो भेदाः । एतेषु त्रिष्वपि निर्ग्रन्थानां न कल्पते वासः ।अथवसन्ति ततश्चत्वारोऽनुद्धातामासा भवन्ति।तत्राप्याज्ञादयोदोषाः। तत्रशालापदं व्याचिख्यासुः प्रथमतोद्वारगाथामाह[भा.२६३३] सालाए पच्चवाया, वेउब्वियऽवाउडे यअदाए। कप्पट्ठ भत्त पुढवी, उदगऽगनी बीय अवहन्ने। कृ-शालायांतिष्ठतां प्रत्यपायाः' दोषावक्तव्याः।तथावैक्रियेऽपावृतेचाङ्गादाने उड्डञ्चकादयो दोषाः । “अदाए"ति साधुमपावृतं दृष्ट्वा गृहस्था आदर्शो दृष्ट इत्यमङ्गलं मन्यन्ते । कल्पस्थानि Page #123 -------------------------------------------------------------------------- ________________ १२० .. बृहत्कल्प-छेदसूत्रम् -२-१/३२ वा तत्र निर्गम-प्रवेशपथे भवेयुः तेषां हस्त-पादाद्युपघातो भवेत् । तथा भक्तं-भोजनं तत्रावष्वष्कणादयो दोषाः । तथा पृथिव्युदकाग्निबीजानां विराधना । “अवहन्ने"त्ति उदूखलं तत्र बीजकार्य कण्डयन्त्यः स्त्रियः श्रङ्गारगीतानि गायेयुः तदाकर्णने विश्रोतसिका समुत्पद्यते इति द्वारगाथसमासार्थः॥अथ विस्तरार्थं प्रतिद्वारमभिधित्सुराह[भा.२६३४] सालाए कम्मकरा, घोडा पेसा य दास गोवाला। पेह पवंचुडुंचय, असहण कलहो य निच्छुभणं ।। वृ- गृहपतेः शालायां ये 'कर्मकराः' भृतकाः, ये च 'घोटाः' चट्टाः, 'प्रेष्याः' प्रेषणयोग्या आज्ञप्तिकराइत्यर्थः, 'दासाः' गृहजातकाःक्रीतावा, गोपालाः' प्रतीताः। एतेशालायां तिष्ठन्तः शयाना वा प्रेक्षां प्रत्युपेक्षणांकुर्वाणानां साधूनां प्रपञ्चं कुर्वन्ति, तथैव प्रत्युपेक्षन्ते इत्यर्थः । यद्वा प्रपञ्चो नाम-उपहासवचनम्-अहो ! बहवः प्राणजातीया एतेषु चीवरेषु पतिता इत्यादि । सूत्रार्थपरावर्तनादौ वा 'उड्डञ्चकाः' उद्वेटकास्तान् कुर्वन्ति, आलापकान् कर्णाघाटकेन पठित्वा तथैवोच्चरन्तीत्यर्थः । तत्र कश्चिदसहनःसाधुस्तैः कर्मकरादिभिसह कलहंकरोतितत्रास्थिभङ्गादयो दोषाः । सचगृहपतिस्तैः कर्मकरादिभिरुत्तेजितःसाधून निष्काशयेत्।निष्काशितानांचवसत्यर्थं पर्यटतां लोको ब्रूयात्-याध्शममीषांचेष्टितं तागेवामीषां फलमुपनतमित्यादि ।। किञ्च[भा.२६३५] आवासग सज्झाए, पडिलेहण भुंजणेय भासा य। उच्चारे पासवणे, गेलने जे भवे दोसा॥ वृ-आवश्यकंस्वाध्यायंप्रतिलेखनांचयदि सागारिकाः पश्यन्तीतिकृत्वान कुर्वन्ति अविधिना वा कुर्वन्ति तदा तनिष्पन्नं प्रायश्चित्तम् । भोजन-समुद्देशनं तच्च मण्डल्यां तुम्बकेषु वा क्रियमाणं दृष्ट्वा सागारिका जुगुप्सां कुर्युः । “भास"त्ति संयतभाषाः श्रुत्वा सागारिका गृह्णीयुः । उच्चारं प्रश्रवणं वा क्रियमाणं दृष्ट्वा प्रपञ्चादिकं कुर्वन्ति । अथतयोनिरोधः क्रियते तत आत्मविराधना। ग्लानो वा कश्चिद् भवेत् स सागारिकेषु पश्यत्सु महत्या दुःखासिकया तिष्ठति, ततस्तस्य या परितापना तनिष्पनं प्रायश्चित्तम् । एवमावश्यकादिषु ये यत्र दोषाः सम्भवन्ति ते तत्र वक्तव्या इति शेषः । तथा[भा.२६३६] आहारे नीहारे, भासादोसे य चोदनमचोदे । किड्डासुय विकहासु य, वाउलियाणं कओ झाओ॥ व. आहारे नीहारे च दोषविभाषा यथाऽनन्तरगाथायाम् | "भासादोसे य"त्ति ढड्डरभाषाभिर्भाष्यमाणाभिरप्काय-योजन-वणिजादयो दोषाः । “चोदणं"ति यदि साधूनां सामाचारीषु सीदतांनोदना क्रियतेतदा सागारिकास्तथैवप्रपञ्चं कुर्युः । “अचोए"त्तिअनोदयतां तु सामाचारीभङ्गो भवेत्, आज्ञा-ऽनवस्थादयश्च दोषाः । तथा ते कर्मकरादयस्तत्र नानाविधाभि क्रीडाभिःक्रीडन्ति, स्त्रीकाप्रभृतिकाश्चविविधाः कथाः कथयन्ति, तासुच यथाक्रमं विलोक्यमानासु श्रूयमाणासुचव्याकुलितानां साधूनां कुतःस्वाध्यायो भविष्यति? ॥गतं प्रत्यपायद्वारम् । अथ वैक्रियद्वारमपावृतद्वारं चाह[भा.२६३७] वंदामि उप्पलज्जं, अकालपरिसडियपेहुणकलावं । धम्मं किह णुन काहिइ, कन्ना जस्सेत्तिया विद्धा ।। Page #124 -------------------------------------------------------------------------- ________________ उद्देशक ः १, मूलं-३२, [भा. २६३७] १२१ वृ-कस्यापि साधोः स्वभावतो विक्रियातो वा सागारिकं त्वचाविरहितं भवेत्, ततस्तदपावृतं दृष्ट्वा कर्मकरादयः प्रपञ्चेन ब्रुवते-वन्देऽहममुमुत्पलार्यं साधुम्, अकाले-अनवसरे परिशटितः पेहुणं-पिच्छंतदेवकलापोयस्यसतथा तम्।यद्वा कस्यापि महाराष्ट्रादिविषयोत्पन्नस्य साधोरङ्गादानं वेण्टकविद्धम्, ततस्तद् दृष्ट्वा ब्रुवते-कथं नु नामासौ साधुर्धर्मं न करिष्यति यस्येयन्तः कर्णा विद्धाः ? ॥एवं चतैः प्रपञ्चेनोक्ते सति किं भवति?. [भा.२६३८] अहिगरणं तेहि समं, अज्झोवायो य होइ महिलाणं । तक्कम्मभाविताणं, कुतूहलं चेव इतरीणं ॥ वृ-यः कोपनः साधुः स तः सममधिकरणं करोति, ततश्चास्थिभङ्गादयो दोषाः । तथा या महेलास्ताशेन विकुर्विताङ्गादानेन यत्कर्म-प्रतिसेवनंतेन भावितास्तासांतस्मिन् साधावध्युपपातो भवति ।इतरासांकुतूहलमुपजायते॥अथादर्शद्वारंव्याख्यायते।तान्साधूनपावृतान्प्रतिमास्थितान् दृष्ट्वा कर्मकरादयः प्रपञ्चेन ब्रवीरन्[भा.२६३९] अद्दाइय ने वयणं, वच्चामो राउलं सभं वा वि। गोसे चिय अदाए, पेच्छंताणं सुहं कत्तो॥ वृ-'आदर्शितम्' आदर्शदर्शनेन पवित्रीभूतं तावदस्माकं वदनम्, अतो व्रजामो राजकुलं वा सभांवा । यद्वा ते प्रभात एव साधूनां पुतावपावृतौ दृष्टवा प्रकुपिताः सन्तोब्रुवते-अहो ! “गोसे" प्रभात एवाद पश्यतामस्माकमद्य कुतः सुखं भविष्यति? । एवं तैरुक्तेत एवाधिकरणादयो दोषाः॥अथ कल्पस्थद्वारं व्याचष्टे[भा.२६४०] हत्थाईअक्कमणं, उप्फुसणादी व ओहुए कुज्जा। गेलन्न मरण आसिय, विनास गरिहं दिय निसिं वा॥ वृ-तत्रागमन-निर्गमनपथेचेटरूपाणि भवेयुः तेषां साधुभिरागच्छद्भिर्निर्गच्छद्भिश्च हस्तपादाद्याक्रमणं भवेत्।अथासौ कल्पस्थः साधुना केनापि 'अवधुतः' उल्लवित इत्यर्थः, ततस्दीया माता तस्याप्कायेनोत्स्पर्शनम् आदिग्रहणाद् लवणोत्तारणं वा कुर्यात् । यदि वा स कल्पस्थो ग्लानीभवेद्वा म्रियेत वा तदा तदीया माता-पित्रादयः स्वजना ब्रवीरन् मन्येरन् वा-तेन श्रमणकेनास्मदीय एष दारकस्तदानीमल्लखितः तत इत्थं ग्लानत्वं पञ्चत्वं वा प्राप्तवान् । ततः प्रद्विष्टास्ते “आसिय" ति शालायाः साधूनां निर्घाटनं कुर्युः । “विनास"त्ति येन साधुना स कल्पस्थ उल्लङ्घितस्तस्य 'विनाशं' मारणं कुर्युः, यद्वा ते साधवस्तेन शय्यातरेण निष्काशिताः स्तेनश्वापदादिभिर्विनाशमाप्नुयुः । “गरिहं"ति लोकतो गर्हामासादयेयुः-किमेते(5)शोभनैः कर्मभिर्निष्काशिताः? इति । सर्वमप्येतद् निर्घाटनादिकं दिवा वा निशायां वा कुर्युः । यदि दिवा निष्काशयन्ति तदा चतुर्लघु, रात्रौ निष्काशयन्ति चतुर्गुरु ।। अथ भक्तद्वारमाह[भा.२६४१] भोत्तव्वदेसकाले, ओसक्कऽहिसक्कणं व ते कुज्जा। दरभुत्ते वऽचियत्तं, आगय नितेय वाघाओ॥ वृ-भोक्तव्यं-भोजनम्, अविवक्षितकर्मकत्वेन भावेतव्यप्रत्यस्य समानीतत्वात्, तस्यदेशकाले 'ते' गृहस्था अवष्वष्कणमभिष्वष्कणंवा कुर्युः। तत्रावष्वष्कणंनाम-यावनिर्गच्छन्तिसाधवस्तावद् वयं भोजनं कुर्महे, अभिष्वष्कणं-निच्छिन्तु तावद् भिक्षार्थं साधवस्ततो भोक्ष्यामहे । अथ ते Page #125 -------------------------------------------------------------------------- ________________ १२२ बृहत्कल्प-छेदसूत्रम् -२-१/३२ 'दरभुक्ताः ' अर्द्धसमुद्दिष्टास्ततः साधुषु गमनाऽऽगमनं कुर्वाणषु महदप्रीतिकं कुर्वन्ति । अथाप्रीतिकभयाद् भिक्षाया आगता भिक्षां निर्गच्छन्तो वा गृहस्थान् समुद्दिशतः प्रतीक्षन्ते ततः समुद्देश-स्वाध्यायादीनां भिक्षायाश्च व्याघातो भवति ।। अथ पृथिव्युदका-ऽग्नि-बीजाऽवहनद्वाराणि व्याख्याति[भा.२६४२] कुड्डाइलिंपणट्ठा, पुढवी दगवारगो य उद्दित्ता । कयविक्कयसंवहणे, धन्नं तह उक्खल तडे य ।। वृ-कुड्यस्य भूम्या वा लिम्पनार्थं तत्र 'पृथ्वी' मृत्तिका 'दकवारकश्च' पानीयघटः स्थापितो भवेत् तत्र गच्छतामागच्छतां वा पृथिव्यप्कायविराधना । “उद्दित्त"त्ति अग्निकायः शीतकाले उद्दीपितो भवेत् तत्रापरिणतादयः प्रतापयेयुः । “धन्नं"ति विभक्तिव्यत्ययाद् धान्यस्य वा क्रयविक्रयार्थं तत्र संवहनं भवेत् तस्य सङ्घट्टनादिनिष्पन्नं प्रायश्चित्तम् । तथा तत्रोदूखलं 'तटे' प्रत्यासन्नप्रदेशेस्थापितं भवेत्, तत्रचाविरतिका बीजकायंकण्डयन्त्यः शृङ्गारगीतानि गायन्ति, तेषुच श्रूयमाणेषु विश्रोतसिका समुपजायते ॥ [भा.२६४३] एवंता पमुहम्मी, जा साला कोट्ठतो अलिंदो वा। भूमीइ वा मालम्मिव, ठियाण मालम्मि सविसेसा ।। वृ-एवं तावत् ‘प्रमुखे' गृहद्वारे याशालावाकोष्ठको वाअलिन्दको वातत्रदोषा उक्ताः। एते च शाला-कोष्ठका-ऽलिन्दका भूमौ वा मालेवा भवेयुः । तत्र भूमौ तिष्ठतां दोषा भणिताः । अथ मालोपरवर्त्तिषु शालादिषु तिष्ठन्ति तत एत एव दोषाः सविशेषा द्रष्टव्याः ।। तथा च तमेव विशेषं दर्शयति[भा.२६४४] दुरुहंत ओरुभंते, हिट्ठठियाण अचियत्त रेनू य । संकाय संकुडंते, पडणा भत्ते य पाने य॥ वृ-तस्मिन्माले यदा साधुरारोहति वाअवरोहति वा तदा तस्य ये पादरेणवस्तैरधःस्थितानां गृहस्थानामुपरि प्रपतद्भिस्तेषांमहदप्रीतिकमुत्पद्यते।तथासासाधुरारोहन्नवरोहन्वाअधःस्थितानां गृहस्थानाम् 'अपावृतो दर्शनपथं मा गमम्' इति शझ्या द्वावप्यूरू सङ्कचयन् वस्त्रं च संयमयन् प्रपतेत् । पतितस्य च पादादिविराधना, भक्तस्य च पानस्य च भूमी परिगलना भवति॥ गतं शालाद्वारम् । अथ मध्यद्वारमाह[भा.२६४५] उव्वरए वलभीइ व, अंतो अन्नत्थ वा वसंताणं । तेचेव वत्थ दोसा, सविसेसतरा इमे अन्ने । कृचतुःशालादिगृहस्ययद् अन्तः' मध्यंतत्रापवरकेवावलभिकायांवा अन्यत्रवा' अविशेषिते गृहमध्ये वसतांये शालायांप्रत्यपायादयोदोषा उक्ताःतएवात्रापि द्रष्टव्याः, परंसविशेषतराः। तेच विशेषदोषाः ‘इमे' अनन्तरमेव वक्ष्यमाणाः ।। तानेवाह[भा.२६४६] अइगमनमनाभोगे, ओभासण मज्जणे हिरन्नेय। तेचेवतत्थ दोसा, सालाए छिंडिमझे य॥ वृ-गुहमध्ये तिष्ठतामनाभोगेनान्यस्मिन्नपरवरके 'अतिगमन' प्रवेश भवेत् । तत्र प्रविष्टस्य चाविरतिका अवभाषणं कुर्यात् ।मजनंचशय्यातरादिना क्रियमाणं दृष्ट्वा स्मृति-कौतुकेजायेते। Page #126 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं-३२, [भा. २६४६] १२३ हिरण्यं-रुप्यंचशब्दाभोजनादिच तत्रमन्दधर्मणः कस्याप्याकाङ्क्ष भवति । एते विशेषदोषाः । शेषास्तु प्रस्तुते मध्यद्वारे वक्ष्यमाणेच छिण्डिकाद्वारे तएव मन्तव्या ये शालाद्वारे पूर्वमुक्ताः ।। अथातिगमनमनाभोगे इति द्वारं व्याचष्टे[भा.२६४७] उभयट्ठाय विनिग्गए, अइंति संपइंति मन्नएऽगारी। अनुचियघरप्पवेसे, पडणा-ऽऽवडणे य कुइयादी ।। वृ-कोऽपि संयत उभयं-कायिका-संज्ञे तद्युत्सर्जनार्थं रात्रौ निर्गतः, स च प्रत्यागच्छन् 'आत्मीयोऽयमपवरकः' इति मन्यमानोऽपरमपवरकम् ‘अतियात्' प्रविशेत्, तत्र चागारी कायिकाद्यर्थनिर्गतभर्तृकातंसंयतमन्धकारनिकरनिरुद्धलोचना स्वंपतिमन्येत,ततश्चपरिष्वजेत, सचभर्ताप्रविष्टस्तंसंयतंतत्र स्थितं मत्वा ग्रहणा-ऽऽकर्षणादीनि कारयेत्, यद्वा तत्स्श्रणादेवतं तत्रैवापद्रावयेत्, सर्वेषां वासाधूनां निष्काशनं कुर्यात् । 'अनुचिते वा' अज्ञाते गृहे प्रवेशं कुर्वतो रात्रौ स्तम्भादिष्वापतन-प्रपतनादयोदोषाः । यद्वा तस्या अगार्या पतिस्तत्र न स्वाधीनः, सच संयतःप्रविष्टस्तस्याः शयनीयंस्पृष्टवान्, तयाच कूजितं महताशब्देन पूत्कृतमित्यर्थः, ततस्तत्र भूयान् लोको मिलितः, तया च वृत्तान्ते निवेदिते भवति महानुड्डाहः प्रवचनस्य, आदिशब्दाद् ग्रहणा-ऽऽकर्षणादयो दोषाः ।।अथावभाषणद्वारमाह[भा.२६४८] अट्ठिीगमनहिगी वा, उड्डाहं कुणइ सव्वनिच्छुमणं। तेनुब्भामे मन्नइ, गिहिआवडिओ व छिक्कोवा।। वृ-यस्या अविरतिकायाः पतिर्न स्वाधीनः सा यदि स्वयम् 'अर्थिका' मैथुनार्थिनी ततस्तं साधुमवभोषेत-मया सममुपभुङ्क्षवभोगानिति । यदीच्छति ततः संयमविराधना, अथ नेच्छति ततःसा उड्डाहं कुर्यात् । अथासौ स्वयं नार्थिका परंसंयतः क्षुभितचित्तस्तामवभाषतेततोऽप्यषा प्रवचनोड्डोहं करोति, सर्वेषावासाधूनांनिष्काशनं कुर्यात् । यद्वा अविरतिकस्तदानीभविरतिकया सह तिष्ठति, संयतश्च प्रविश्य तस्य गृहिण उपरिष्टादापतितो वा हस्तादिना वा तं “छिक्को" ति स्पृष्टवान्ततोऽसौ 'स्तेनोऽयम्, उम्दामको वाऽयम्' इति मन्यते, ततश्च तं साधुंपरितापयेद्वा विनाशयेद्वा।अथासौज्ञातोयथा संयतोऽयम् ततः शङ्कांकुर्यात्-किंमन्येप्रतिसेवनार्थमायातः? उत स्वोपाश्रयद्वारमजानानाः?' इत्येवं शङ्कायांचतुर्गुरु, प्रतिसेवनार्थभेवेति निशङ्कित मूलम्।। अथ मज्जनद्वारमाह[भा.२६४९] मज्जनविहिमजंतं, दटु सगारंसईकरणमादी। सिज्जायरीउ अम्ह वि, एरिसया आसि गेहेसु॥ [भा.२६५०] तासिं कुचोरु-जधनाइदंसणे खिप्पऽइक्कमो कीवे। इत्थीनाइ-सुहीण य, अचियत्तं छेदमाईया॥ वृ-मजनविधिर्नम-स्नानयोग्यामहतीप्रक्रियातयामजन्तंसागारिकंतत्रचतुःशालादिगृहमध्ये दृष्ट्वा भुक्तभोगिनां स्मृतिकरणमभुक्तभोगिनां तु कौतुकमुपजायते । शय्यातरीरपि तथैव मज्जन्तीदृष्ट्वा भुक्तभोगिनामीश्योऽपि गेहेषु गृहवासे वसतामासन्नति स्मृतिरुत्पद्यते ।। तथा 'तसां' शय्यातरस्त्रीणां मजन्तीनां कुचोरुजधनादिदर्शने 'क्लीबस्य' दृष्टिक्लीबाख्यस्य 'क्षिप्रं' शीध्रम् अतिक्रमः' ब्रह्मव्रतविराधना भवति।ततश्चयेस्त्रीणांज्ञातस्यः-मातापितृप्रभृतयः स्वजना Page #127 -------------------------------------------------------------------------- ________________ १२४ बृहत्कल्प-छेदसूत्रम् -२-१/३२ ये च सुहृदः-मित्राणि ते महदप्रीतिकं तद्रव्यान्यद्रव्यव्यवच्छेदं वा कुर्यु आदिशब्दाद् ग्रहणाऽऽकर्षणादिप्रत्यपायनिकुरम्बं राजपुरुषैः कारपयेषुः॥अपिच[भा.२६५१] आसंकितो व वासो, दुक्खं तरुणाय सन्नियत्तेउं । धंतं पिदुब्बलासो, खुमइ वलवाण मज्झम्मि।। वृ-तत्र स्त्रीप्रभृतिप्रत्यपायाशङ्कया सदैवाशङ्कितो वासो भवति । ये च तरुणास्ते शय्यातरीणां मज्जन्तीनामङ्ग-प्रत्यङ्गनिरीक्षणादेदुखेन ‘सनिवर्तयितुम्' उपरमयितुं शक्यन्ते । तथा "धंतं पि" त्ति अत्यन्तमपि दुर्बलः-क्षीणवपुरश्रवो वडवानां मध्ये वर्तमानः क्षुभ्यति, एवं तरुणा अत्यन्ततपोनिष्टप्तवपुषोऽपि स्त्रीणां मध्ये तिष्ठन्तः क्षोभमुगच्छन्तीति ।। गतं मज्जनद्वारम् । अथ हिरण्यद्वारमाह[भा.२६५२] तत्थ उ हिरण्णमाई, समंतओ दुटु विप्पकिन्नाई। लोभा हरेज कोई, अन्नेण हिए व संकेज्जा ।। कृ'तत्रचतुःशालादिगृहमध्ये हिरण्यं रुप्यम्आदिशब्दात्सुवर्ण-मणि-मौक्तिकादिसमन्ततो विप्रकीर्णम्-इतस्ततो विक्षिप्तम् आदिशब्दादन्यथा वा मुत्कलं शून्यं च दृष्ट्वा कश्चिद् निर्धर्मा लोभादपहरेत, अपह्यत्य चोप्रव्रजेदिति भावः । अन्येन वा केनचिपदस्ते स शय्यातरः संयतान् शङ्केत । गतं मध्यद्वारम् । अथ छिण्डिकाद्वारमाह[भा.२६५३] छिंडीइ पच्चवातो, तणपुंज-पलाल-गुम्म-उक्कुरुडे । मिच्छत्ते संकादी, पसज्जणा जाव चरिमपदं । वृ-इह यस्याश्चिण्डिकाया मध्येन गत्वा पुरोहडे प्रविश्यते तस्या द्वारमूले यः प्रतिश्रयः, यद्वा छिण्डिका-पुरोहडंतत्र यस्यावसतेरितत्र तिष्ठतांप्रत्यपाय उत्कुरुटावा इष्टका-काष्ठादिराशिरुपा भवेयुः तत्र वक्ष्यमाणा दोषाः । तत्र चोपाश्रये स्थितान् साधून दृष्ट्वा केचिदभिनवधर्माणो मिथ्यात्वमुपगच्छेयुः । अथवा किंमन्ये मैथुनार्थनएतेऽत्र स्थिताः ?' एवंशङ्कायाम्आदिशब्दाद् भोजिका-घाटिकादिपरम्परया निवेदने च 'चरमपदं' पाराञ्चिकं यावत् प्रायश्चित्तस्य प्रसजना प्राग्वद् द्रष्टव्या॥ तृणपुजादिषु दोषानाह[भा.२६५४] एकतरे पुव्वगते, आउभए गभीर गुम्ममादीसु। अह तत्थेव उवस्सओ, निरोहऽसज्झाय उड्डाहो ।। वृ-“गुम्ममाईसु" ति विभक्तिव्यत्ययाद् गुल्म-तृणपुञादिभिः 'गुपिलेट' त पुरोहडे संयताऽविरतिकयोरेकतरस्मिन् 'पूर्वगते' पूर्वमेव प्रविष्टे पश्चादितरत् प्रविशेत् तत्रात्मोभयसमुत्था उपलक्षणत्वात् परसमुत्था वा दोषा भवेषुः । अथ 'तत्रैव' पुरोहडे उपाश्रयस्ततोऽविरतिकानां निरोधो भवति, साधूनां लज्जया तत्र ताः कायिक्यादिकं कर्तुं न शन्कुवन्तीति भावः । तस्यां च छिण्डिकायामागच्छन्तीषु निर्गच्छन्तीषु वा अविरतिकासु तरुणा दृष्टीः पातयन्ति, ततश्च तेषां ताभिरपहृतह्दयानांस्वाध्यायहानिर्भवति। यदि कर्णाघाटकेनग्रहीप्यन्त्यमी' इति कृत्वानपठन्ति ततस्तन्निप्पन्नं प्रायश्चित्तम् । अथ पठन्ति ततो लोकस्तेषां स्वाध्यायशब्दं श्रुत्वा ब्रूयात्-अहो! स्त्री-पशु-षण्डकविवर्जितंविविक्तवासमासेवन्तेसाधवः । एवमसूययाब्रुवाणेषुतेषुप्रवचनस्योड्डाहो भवति ॥अथवा तत्रेमे दोषा भवेयुः Page #128 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं - ३२, [भा. २६५५ ] [ भा. २६५५ ] छिंडीए अवंगुयाए, उब्मामग-तेनगाण अइगमणं । वसहीए वोच्छेदो, उवगरणं राउले दोसा ॥ वृ- संयतैः रात्रौ कायिकीव्युत्सर्जनार्थं 'अपावृतायाम् उद्घाटितायां झिण्डिकायां कस्याप्युद्भामकस्य स्तेनस्य वा 'अतिगमनं' प्रवेशो भवेत् । सच प्रविश्य किञ्चिदपहरेत् अगारीं वा प्रतिसेवेत तन्निष्पन्नं साधूनां प्रायश्चित्तम् । शय्यातरश्चिन्तयेत् कुतो घननिश्छिद्रे स्तेनकः प्रविष्टः ? नृनं संयतौश्छिण्डिका रात्रवुद्धाटिता। ततोऽसौ प्रद्विष्टो वसतेर्य्यवच्छेदं कुर्यात् । यद्वा स स्तेनकः संयतानां गृहस्थानां वा 'उपकरणं' वस्त्रादिकमपहरेत् ततः सागारिको राजकुले निवेदयेत्, यथा-संयतैरुद्धाटितायां छिण्डिकायां स्तेनकः प्रविष्टः । ततश्च ग्रहणाऽऽकर्षणादयस्त एव दोषाः ।। अथवा शप्यातरभ्रूणिका केनचिदुद्भ्रामकेण सह सम्प्रलग्ना, तया च 'रात्रौ भवता समागन्तव्यम्' इति तस्य सङ्केतः कृतः, स चोद्भामक आयातः संयतैश्च छिण्डिका स्थगिता, ततः सा द्वितीयदिने तं प्रश्नयति [भा. २६५६ ] किं नागओ सि समणेहिं ढक्कियं दोस कूयरा जं तु । एतेऽवंगुण व, अज पइट्ठो सइरचारी ॥ १२५ वृ- कल्ये किं नागतोऽसि ? । स प्राह- आगतोऽहं परं किं करोमि ? श्रमणैः स्थगितं छिण्डिकाद्वारम् । ततः “दोस कूयरा जं तु" त्ति कुत्सितं शिष्टजनजुगुप्सितं चरन्तीति कुचराः- उद्भ्रामका उद्भ्रामिका वा, ते यद् 'द्वेषात्' प्रद्वेषतः साधूनां प्रान्तापना - ऽभ्याख्यानदानादि करिष्यन्ति तन्निष्पन्नं प्रायश्चित्तम् । अथवा 'एतैः' श्रमणैः 'अपावृतेन' उद्घाटितेन छिण्डिकाद्वारेण 'स्वैरचारी' स्तेन उद्भ्रामकोवा अद्यास्माकं गृहे प्रविष्ट इति सागारिको यद् वसत्यादिव्यवच्छेदं कुर्यात् तन्निष्पम् ।। अथवा स्तेनः प्रविष्टः सन्निदं कुर्यात्[भा. २६५७] अवहारे चउभंगो, पसंग एएहिं संपदिन्नं तु । संजयलक्खेण परे, हरिज तेना दिय निसिं वा ।। वृ- अपहारे चतुर्भङ्गी । तद्यथा-एके स्तेनाः प्रविष्टाः सन्तः संयतानां हरन्ति न गृहस्थानाम् १ अपरे गृहस्थानां न संयतानाम् २ केचिद् गृहस्थानामपि संयतानामपि ३ केचिन्न गृहस्थानां न संयतानामित्येष चतुर्थो भङ्गः शून्यः । तत्र यत्र संयतानामपहरन्ति तत्रोत्कृष्ट-मध्यम- जधन्योपधिनिष्पन्नम् । यत्र तु गृहस्थानामपहरन्ति तत्र 'एतैरेव साधुभिश्छिण्डिकामुद्घाटयद्भिस्मदीयं सुवर्णादि स्तेनेभ्यः सम्प्रदत्तम्' इति विचिन्त्य ते गृहस्था राजकुले ग्रहणा ऽऽकर्षणादिप्रसङ्ग कारापयेषुः । तथा 'अपरे' केचिद् मायाविनः स्तेनाः 'संयतलक्ष्येण' साधुवेषव्याजेन दिवा वा निशायां वा तत्र प्रविश्य कथञ्चित् प्रमत्तानामगारिणां सुवर्णादिकमपहरेयुः । तृतीयभङ्ग तु प्रथमद्वितीयभङ्गोक्ता दोषा द्रष्टव्याः । यत एते दोषा अतः शालायां वा मध्ये वा छिण्डिकायां वा न स्थातव्यम् । भवेत् कारणं येन तत्रापि तिष्ठेयुः ॥ किं पुनस्तत् ? इत्याहअद्धाणनिग्गयाई, तिक्खुत्तो मग्गिऊण असईए । साला मज्झे छिंडी, वसंति जयणाए गीयत्था ।। [भा. २६५८] वृ- अध्वनिर्गतादयः 'त्रिकृत्वः' त्रीन् वारान् शुद्धां वसतिं मार्गयित्वा यदि न लभन्ते ततः प्रथमं शालायां तस्या अलाभे चतुःशालादिगृहमध्ये तस्याप्यभावे छिण्डिकायां यतनया गीतार्था Page #129 -------------------------------------------------------------------------- ________________ १२६ बृहत्कल्प-छेदसूत्रम् -२-१/३२ वसन्ति ।। तत्र शालाविषयां यतनां तावदाह[भा.२६५९] बोलेण झायकरणं, तहा विगहिएऽनुसहिमाईणि। वेउव्वि खद्धऽवाउडि, छिड्डा चोले य पडले य॥ कृयत्रस्वाध्यायं कुर्वतामालापकान्कर्णाघाटयन्तितत्र बोलेन' सर्वेऽपिसमुदिताः स्वाध्यायं कुर्वन्तियेन तेव्यक्तं किमप्यालापकपदंनशृणुयुः । अथ तथापितेतदेकाग्रचित्ततया शृण्वन्तो दक्षत्वादालापकपदानि गृह्णीयुः ततस्तेषामनुशिष्टः कर्तव्या-भो भद्राः! न वर्तते युष्माकमित्यं कर्णाघाटकेनालापन्ग्रहीतुम्, इत्थं गृह्णतामिहैवोन्मादादयोबहवोऽना भवन्तीति।आदिग्रहणाद् विद्याया मनेण वा ते तथा वशीक्रियन्ते यथा कर्णाघाटकेन ग्रहणादुपरमन्ते । तथा 'विकुर्विते' विण्टकविद्धे 'खद्धे' महाप्रमाणे 'अपावृते' व्यपगतत्वचिसागारिके सति इयं यतना-पटलकानां चोकपट्टकस्य वा चतुरस्त्रीकृतस्यैकस्मिन् पुटे छिद्रं कृत्वा सागारिकं गोपायितव्यम् ।। यत्रादर्शदोषा भवन्ति तत्रेयं यतना[भा.२६६०] अद्दागदोससंकी, जा पढमा ताव पाउया निति। उट्ठण-निवेसनेसुय, तत्तो पिटुंन कुव्वंति ॥ वृ- आदर्शदोषशङ्किनः सन्तो यावत् प्रथना पौरुषी तावत् प्रावृता एव निर्गच्छन्ति । उत्थानोपवेशनयोश्च ततः गृहस्थाभिमुखपृष्ठंन कुर्वन्ति,मापुतौ ध्ष्ट्वा तेऽमङ्गलंमन्यन्तामिति कृत्वा ।। यत्र कल्पस्थकदोषाः समुद्देशदोषाश्च भवन्ति तत्रेयं यतना[भा.२६६१] अवणाविंतिऽवनिति व, कप्पढे परिरयस्स असईए। अप्पत्ते सइकाले, बाहि वियट्टति निग्गंतुं॥ वृ-परिरयो नाम-मार्गान्तरेणगमनम्, ततश्चयद्यन्यस्यमार्गस्यसम्भवस्ततः कल्पस्थाधिष्ठितं मार्गं विहाय तेन गन्तव्यम् । अथ नास्त्यपरो मार्गस्ततः कल्पस्थानि शय्यातरादिभिस्ततो मार्गादपनाययन्ति, वयंभिक्षादौ गमिष्यास्तत एतदपत्यभाण्डं निव्याबधिमन्यत्र नयत' इत्येवं भणन्तीतिभावः ।अथनतत्रकोऽपिसनिहितः ततःस्वयमेव यतनयाततोमार्गात्तान्यपनयन्ति। तेषां च गृहस्थानां यदा समुद्देशनवेला तदा साधवोऽप्राप्ते एव भिक्षासत्काले पात्रकाण्युद्ग्राह्य निर्गत्य च बहिर्गत्वा 'व्यावर्त्तयन्ति भिक्षावेलां प्रतीक्षन्ते, येनावष्वष्कणादयो दोषाः परिहृता भवन्ति ।। यत्र संयतानां भुजानानां सागारिकंतत्रेयं यतना[भा.२६६२] नीउच्चा उच्चतरी, चिलिमिलि भुंजंत सेसए भयणा। पुढवी-दगाइएसंसारण जयणाएकायव्वा ।। वृ-यदि सर्वेऽपिसाधवः ‘भुञ्जानाः' भक्तार्थिनस्तदा तिस्त्रश्चिलिमिलिकादातव्याः, तद्यथाप्रथमा नीचा, द्वितीया तस्याः सकाशादुच्चा, तृतीया तु ततोऽप्युच्चतरा । शेषा नाम-यदि केचिदभक्तार्थिनस्तदा तिसृणां चिलिमिलिकानां भजना, कदाचिदेका कदाचिद् द्वे कदाचित् तिम्रोऽपि दातव्या इति भावः । यत्र च पृथिवी-दका-ऽग्नि-बीजानां सम्भवस्तत्र गृहस्थानां यतनया 'सारणा' अनुशिष्टिः कर्तव्या, यथा साधूनांपृथिव्युदकाग्निबीजानांविराधनान भवति तथा यतितव्यमिति ॥यत्र बीजकायंकण्डयन्त्यो गायन्ति तत्रेयं यतना [भा.२६६३] जइ कुट्टणीउ गायंति विस्सरं साइयाउ मुसलेहिं। Page #130 -------------------------------------------------------------------------- ________________ १२७ उद्देशक : १, मूलं-३२, [भा. २६६३] विलवंतीसु सकलुणं, हयहियय! किमाकुलीभवसि ।। वृ-बीजकायंकुट्टयन्तीति कुट्टन्यः-कण्डनकारिण्य इत्यर्थः, तासु गायन्तीषुसाधुभिस्वचेतसि चिन्तनीयम्-यदि नामैतः कुट्टन्योमुशलैरनवरतमुक्षिप्यमाण-निक्षिप्यमाणैः 'सादिताः' खेदिताः सत्यस्तढुखापनोदार्थमित्थं विस्वररुदन्त्य इवगायन्ति तर्हि परमार्थतो विलपितमेवैताः कुर्वन्ति, "सर्वं गीतं विलपितम्" इति वचनात् ततः सकरुणं विलपन्तीष्वेतासु हे हतहृदय ! किमेवम् 'आकुलीभवसि' विश्रोतसिकामुपगच्छसि? नैवं भवतो युज्यत इति भावः। गता शालाविषया चता । अथ मध्यविषयांयतनामाह[भा.२६६४] मज्झे जग्गंति, सया, निति ससदा य आउला रत्तिं । फिडिए यजयण सारण, एहेहि इओ इमंदारं ॥ कृ-यत्रचतुःशालादिगृहमध्ये वसन्तितत्रवृषभारात्रौ सदैव' चतुर्वपियामेष्वित्यर्थःवारकेण जाग्रति । कायिक्यादिव्युत्सर्जनार्थं च रात्री ‘सशब्दाः' काशितादिशब्दं कुर्वन्तः ‘आकुलाश्च' त्वरमाणाः 'निर्यन्ति' निर्गच्छन्ति यथा पूर्वोक्ताः शङ्कादयो दोषा न स्यु । यश्च रात्रौ 'स्फिटितः' मार्गात् परिभ्रष्टो भवति तस्य यतनया यथा गृहस्था न विबुध्यन्ते तथा सारणा कर्तव्या, यथा-ह हि इत इदं द्वारंवर्तते ॥ [भा.२६६५] अविजाणंतो पविट्ठो, भणइ पविट्ठो अजाणमाणो मि। एहामि वए ठविउं, न पवत्तइ अस्थि मे इच्छा ॥ वृ-यत्सत्रान्यमपवरमविजानन् प्रविष्टः स पृष्टोऽपृष्टो वा शङ्कापनोदार्थ भणति-'अजानानः' मार्गमनवबुध्यमानोऽहमत्र प्रविष्टः । यदिअविरतिका तमवभाषते-मया सममुपभुव भोगान् अन्यथोड्डाहं करिष्यामीति, ततो वक्तव्यम्-येषा गुरूणां समीपे मया व्रतानि गृहीतानि सन्ति तेषामेव सन्निधौ स्थायित्वाएष्यामि, ममापि त्वद्विषयाइच्छाऽस्ति परं किं करोमि? 'नप्रवर्तते' नबुध्यते (युज्यते) गुरूणांसमीपेव्रतान्यस्थापयित्वा एवं कर्तुम् इत्यभिधायततो निर्गन्तव्यम्।। यत्र मजन-हिरण्ये भवतस्तत्रेयं यतना[भा.२६६६] कडओ व चिलिमिली वा, मजतिसुथेरगा यतत्तो उ। आइन्नहिरनेसुय, थेर चिय सिक्खगा दूरे॥ कृ-शय्यातरस्त्रीषु मज्जन्तीषु उपलक्षणत्वात् शय्यातरे वा मजति अपान्तराले कटको वा चिलिमिलिका वा दातव्या, ततश्च तेन पाइँन स्थविराः स्थापयितव्याः । येन च पार्वेन हिरण्यादीन्याकीर्णानि भवन्ति ततः स्थविरा एव कर्त्तव्याः । शिक्षकास्तु ततो दूरे स्थापनीयाः॥ गता मध्यविषया यतना । अथ छिण्डिकाविषयामाह[भा.२६६७] दारमसुत्रं काउं, निति अइंती ठिया उ छिंडीए। काइयजयणा सच्चिय, वगडासुत्तम्मिजा भणिया॥ कृ-छिण्डिकायां स्थिताः सन्तोद्वारमशून्यं कृत्वा निर्गच्छन्ति वा प्रविशन्तिवा येन स्तेनादयो दोषा न भवन्ति । 'कायिकीयतना तु' मात्रकव्युत्सर्जनादिका सैव द्रष्टव्या या पूर्वं वगडासूत्रे भणिता ॥ मू. (३३) कप्पइ निग्गंधीणं गाहावइकुलस्स मज्झमज्झेणं गंतुं वत्थए। Page #131 -------------------------------------------------------------------------- ________________ १२८ बृहत्कल्प-छेदसूत्रम् -२-१/३३ वृ-अस्य व्याख्या प्राग्वत्।। अथ भाष्यम्[भा.२६६८] एसेव कमो नियमा, निग्गंथीणं पिनवरिचउलहुगा। नवरं पुन नाणत्तं, सालाए छिडि मज्झेय॥ वृ-'एष एव' निर्ग्रन्थसूत्रोक्तः क्रमो निर्ग्रन्थीनामपि ज्ञातव्यः । नवरं तासां तत्र तिष्ठन्तीनां चतुर्लघुकाः प्रायश्चित्तम्, वैक्रिया-ऽप्रावृता-ऽऽदर्शविषयाश्च दोषा न भवन्ति । शेषं सर्वमपि प्राग्वद् द्रष्टव्यम् । नवरं पुनः 'नानात्वं' विशेषः शालायं छिण्डिकायां मध्ये च त्रिष्वपि स्थानेषु वक्तव्यम् । तत्र शालायां तावदाह[भा.२६६९] सालाए कम्मकरा, उड्डंचय गीयए य ओहसणा। घर खामणं च दानं, बहुसो गमनं च संबंधो॥ वृ-शालायां स्थितानामार्यिकाणां कर्मकराउड्डञ्चकान् कुर्युः, यथा-याशी इयमार्यिका ताशी मम श्यालिका वा मातुलदुहिता वा विद्यते । गीतेन वा ते कर्मकरादयः प्रपञ्चन्ते, यथा-वंदामु खंति ! पडपंडुरसुद्धदंति!, रच्छाए जंति! तरुणाण मणंहरंति!।इत्यादि। उपहसनं वा कश्चित् करोति।ततश्च भिक्षार्थंगृहंगतायास्तस्याः क्षामणम्, दानंचवस्त्र-पात्रादेः, गमनंचबहुशस्तस्याः समीपे करोति । ततश्चैवं ‘सम्बन्धः' तयोः परस्परं घटनं भवति । अथामून्येवोपहसनादीनि पदानि गाथात्रयेण भावयति[भा.२६७०] पानसमा तुज्झ मया, इमा यसरिसी सरिव्वया तीसे। संखे खीरनिसेओ, जुज्जइ तते तत्तं च ॥ [भा.२६७१] सो तत्थ तीए अन्नाहि वा वि निब्भत्थिओ गओ गेहं । खामिंतो किल सुढिओ, अक्खुन्नइ अग्गहत्थेहिं । [भा.२६७२] पाएसुचेडरूवे, पाडेत्तू भणइ एस भे माता। जंइच्छइ तं दिज्जह, तुमं पि साइज जायाई॥ वृ-तत्र शालादौ काञ्चिदुदाररूपां संयती दृष्ट्वा कश्चित् पुरुषः स्वसुहृदं विपन्नपत्नीकं सोपहासमित्थं ब्रवीति-वयस्य ! या किल तव प्राणसमा पत्नी सा तावन्मृता, अपराच तथाविधा न विलोक्यते, ‘इयंतु' संयती 'तस्याः' त्वत्पल्याः ‘सध्शी' सध्यूपा सध्वयाश्च, अतस्तवानया सह सम्बन्धो विधीयमानःशङ्के क्षीरनिषेक इव, तप्तंच लोहमपरेणापितप्तेन सह संयोज्यमानमिव 'युज्यते' सुश्लिष्टीभवति । एवं ब्रुवाणोऽसौ तया संयत्या अन्याभिर्वा संयतीभिढिं निर्भर्त्सतः सन् सवयस्योऽपि स्वगेहं गतः । अन्यदा च स तदीयवयस्यः संयती भिक्षार्थं स्वगृहमागतां शठतया “सुढितो" ति सुष्टु-अतीवास्तः-प्रयत्नपरः किल क्षामयन्निव अग्रहस्तैः ‘आक्षुणति' तस्याः पादौ विलिखतीत्यर्थः, चेटरूपाणि च प्राक्तनपत्याः सम्बन्धीनि तस्याः संयत्याः पादयोः पातयित्वा भणति-एषा "भे" भवतां माता, यत्किमपीयमिच्छति तत् सर्वमाहारादिजातमस्यै दातव्यम् । संयतीमपि भणति-एतत् त्वदीयं गृहम्, अमूनि च भवत्याः सम्बन्धीनि ‘जातानि अपत्यानि, अतस्त्वमेतानि ‘सातयेः" सङ्गोपायेः। एवमुक्त्वा वस्त्रा-ऽन-पानादीनि बहुशस्तस्याः प्रयच्छति।साच स्त्रीस्वभावतया तुच्छेनाप्याहारादिना वशीक्रियत इत्यतो भूयो भूयस्तदीयगृहे गमानगमनं कुर्वत्यास्तस्यास्तेन सह सम्बन्धो भवति । यत एते दोषा अतो न तत्र स्थातव्यम्॥ anal Page #132 -------------------------------------------------------------------------- ________________ १२९ उद्देशक ः १, मूलं-३३, [भा. २६७२] आह यद्येवं ततः सूत्रमपार्थकम् ?, तत्र साध्वीनां वस्तुमनुज्ञातत्वात् । सूरिराह-नैवम्[भा.२६७३] सुत्तनिवाओ पासेन गंतु बिइयपय कारणज्जाए। सालाए मझे छिंडी, सागारिय निग्गहसमत्थो ।। कृ-यत्र पार्श्वेनगत्वानिर्गमन-प्रवेशौक्रियेतेतत्र निर्ग्रन्थीभिर्द्धितीपदेऽध्वनिर्गमनादौ कारणजाते वस्तव्यमित्येवमत्र सूत्रनिपातः । तत्र च शालायां वा मध्ये वा छिण्डिकायां वा यदि सागारिकः 'निग्रहसमर्थ' जितेन्द्रियस्तरुणादीनांवा संयतीरुपसर्गयतांखरण्टनादिना शिक्षाकरणदक्षो भवति ततस्तत्र स्थातव्यम् ॥ एतदेव व्याख्यातुमाह[भा.२६७४] पासेन गंतु पासे, व जंतु तहियं न होइ पच्छित्तं । मज्झेण व जंगंतुं, पिह उच्चारं घरंगुत्तं ॥ [भा.२६७५] दुजणवजा साला, सागारअवत्तभूणगजुया वा। एमेव मज्झ छिंडी, निय-सावग-सज्जणगिहे वा ।। वृ-यत्र पाइँन गत्वा निर्गम्यते वा, यद् वा गृहं गृहपतिकुलस्य पार्वे भवति तत्र तिष्ठतां प्रायश्चित्तं न भवति । यद् वा गृहं गृहपतिकुलस्य मध्येन गत्वा प्रविश्यते तद् यदि पृथगुच्चारकायिकीभूमिकं ‘गुप्तं च' कुड्य-कपाटादिभिः सुसंवृतं ततस्तत्रापि प्रायश्चित्तं न भवति । तत्र यदिशालायां स्थातव्यं स्यात् तदा सा 'दुर्जनवर्जा' दुःशीलरहिता यद्वा सागारिकस्य सम्बन्धिनो येअव्यक्ताः-अद्याप्यपरिणतवयसोभ्रूणकाः-बालकास्तैर्युता याशाला तस्यां स्थातव्यम् । एवमेव चतुःशालकादिगृहमध्ये छिण्डिकायांवायत्र निजकाः-तासामेव संयतीनांनालबद्धाःपितृ-भ्रात्रादयः श्रावका वा-माता-पितृसमाना जिनवचनभाविता भवन्ति यानि वा सज्जनानां-स्वभावत एव सुशीलानां यथाभद्रकाणां गृहाणि तत्र स्थातव्यम् ।। मू. (३४) भिक्खू य अहिगरणं कटुतं अहिगरणं विओसवित्ता विओसवियपाहुडे, इच्छाए परो आढाइजा इच्छाए परो नो आढाइजा, इच्छाए परो अब्भुटेजा इच्छाए परो नो अब्भुटेजा, इच्छाए परो वंदिज्जा इच्छाए परो नो वंदिज्जा, इच्छाए परो संभुजेजा इच्छाए परो नो संभुंजेजा, इच्छाए परो संवसिज्जा इच्छाए परो नो संवसिज्जा, इच्छाए परो उवसमिजा इच्छाए परो नो उवसमिज्जा । जो उवसमइ तस्स अत्थि आराधना, जो न उवसमइ तस्स नत्थि आराधना, तम्हा अप्पणा चेव उवसमियव्वं । से किमाहुभंते ! ? उवसमसारं सामनं ।। वृ-अथास्य सूत्रस्य कः सम्बन्धः? इत्याशङ्काव्युदासायाह[भा.२६७६] एगत्थ कहमकप्पं, कप्पं एगत्थ इच्चऽसद्दहतो। पडिसिद्धे व वसंते, निवारण वइक्कमे कलहो। वृ- ‘एकत्र' गृहपतिकुलस्य मध्ये कथं निर्ग्रन्थानामकल्प्यम् ? निर्ग्रन्थीनां तु कथम् ‘एकत्र' तत्रैव कल्प्यम् ? 'इति' एवमश्रद्दधतः कलह उपजायते । यद्वा प्रतिषिद्ध प्रतिश्रये वसतः केनचिन्निवारणं कृतम्, ततः प्रतिषिद्धोपाश्रयस्थाता तदीयवचनस्य व्यतिक्रम-विकुट्टनं करोति एवं कलहो भवेत् । उत्पन्ने च कलहे झगित्येव व्यवशमनं कर्तव्यमित्यत्र सूत्रे प्रतिपाद्यत इति ॥ अनेन समबन्धेनायातस्यास्यव्याख्या-'भिक्षु सामान्यः साधुः, चशब्दस्यानुक्तसमुच्चयार्थत्वा199 Page #133 -------------------------------------------------------------------------- ________________ १३० बृहत्कल्प-छेदसूत्रम् -२-१/३४ दाचार्योपाध्यायावपिगृह्येते, अधिक्रियते-नरकगतिगमनयोग्यताप्राप्यतेआत्माअनेनेत्यधिकरणं कलहः प्राभृतमित्येकोऽर्थः, तत् ‘कृत्वा' तथाविधद्रव्य-क्षेत्रादिसाचिव्योपबृंहितात्कषायमोहनीयोदयाद्वितीयसाधुना सह विधायततः स्वयमन्योपदेशेन वा परिभाव्य तस्यैहिकामुष्मिकापायबहुलतांतद्अधिकरणं विविधम्-अनेकैः प्रकारैः स्वापराधप्रतिपत्तिपुरःसरं मिथ्यादुष्कृतप्रदानेन 'अवशमय्य' उपशमं नीत्वा ततो विशेषेणावसायितम्-अवसानं नीतं प्राभृतं-कलहो येन स व्यवसायितप्राभृतः-व्युत्सृष्टकलहो भवेत् । किमुक्तं भवति ?-गुरुसकाशे स्वदुश्चरितमालोच्य तत्प्रदत्तप्रायश्चित्तंच यथावत्प्रतिपद्य भूयस्दकरणायाभ्युत्तिष्ठेत् ।आह येनसह तदधिकरणमुत्पन्नं सयधुपशम्यमानोऽपिनोपशाम्यति ततःको विधिः? इत्याह-“इच्छाए परोआढाएज्जा" इत्यादि सूत्रम् । ‘इच्छया' यथास्वरुच्या परः' अन्यो द्वितीयः साधुराद्रियेत् इच्छयापरोनाद्रियेत,प्रागिव सम्भाषणादिभिरादरं कुर्याद्वा न वेति भावः । एवमिच्छया परस्तमभ्युत्तिष्ठेत्, इच्छया परो नाऽभ्युत्तिष्ठेत् । इच्छया परस्तं साधुंवन्देत, इच्छया परो न वन्देत । इच्छया परस्तेन साधुना सह 'सम्भुञ्जीत' एकमण्डल्यांभोजनंदानग्रहणसम्भोगंवा कुर्यात्, इच्छया परोन सम्भुञ्जीत । इच्छया परस्तेन साधुना सह 'संवसेत् सम्-एकीभूयैकत्रोपाश्रये वसेत्, इच्छया परोन संवसेत् । इच्छया पर उपशाम्येत, इच्छया परो नोपशाम्येत । परं यः 'उपशाम्यति' कषायतापापगमेन निवृतो भवति तस्यास्ति सम्यग्दर्शनादीनामाराधना, यस्तु नोपशाम्यति तस्य नास्ति तेषामाराधना । 'तस्मात्' एवं विचिन्त्य आत्मनैव 'उपशान्तव्यम्' उपशमः कर्तव्यः । शिष्यः प्राह-“से किमाहु भंते !" अथ किमत्र कारणमहुः ‘भदन्त!' परमकल्याणयोगिन् ! तीर्थकरादयः ? । सूरिराहउपशमसारंश्रामण्यम्, तद्विहीनस्यतस्यनिष्फलतयाऽभिधानात्। उक्तञ्चदशवैकालिकनियुक्तौ सामन्नमनुचरंतस्स कसाया जस्स उक्कडा होति। मन्नामि उच्छुपुष्फं, व निष्फलं तस्स सामन्नं ॥ - इति सूत्रार्थः । अथ विषमपदानि भाष्यकृद् विवृणोति[भा.२६७७] घेप्पंति चसद्देणं, गणि आयरिया य भिक्खुणीओय। अहवा भिक्खुग्गहणा, गहणं खलु होइ सव्वेसिं । वृ-इह सूत्रे भिक्षुच्चेति यश्चशब्दस्तेन 'गणी' उपाध्यायस्तथा आचार्यों भिक्षुण्यश्च गृह्यन्ते । अथवा 'भिक्षुग्रहणात्' भिक्षुपदोपादानात् सर्वेषामप्याचार्यादीनां ग्रहणं द्रष्टव्यम्, “एकग्रहणे तज्जातीयानां सर्वेषां ग्रहणम्" इति वचनात्॥ [भा.२६७८] खामिय वितोसिय विनासियंच झवियं च होंति एगट्ठा। पाहुड पहेण पणयण, एगट्ठा ते उ निरयस्स ।। वृक्षामितंव्यवशमितं विनाशितं क्षपितमितिचैकार्थानिपदानि भवन्ति।तथा प्राभृतंप्रहेणकं प्रणयनमिति वा त्रीण्यप्येकार्थानि । तानि तु प्राभृतादीनि 'निरयस्य' नरकस्य मन्तव्यानि, यत एतदधिकरणं नरकस्य-सीमन्तकादेः प्रामृतमिव प्राभृतमुच्यते, एवं प्रहेणक-प्रणयनपदे अपि भावनीये॥ [भा.२६७९] इच्छा न जिनादेसो, आढा उन आदरो जहा पुट्वि । भुंजण वास मणुत्रे, सेस मणुने वइतरे वा ॥ Page #134 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं-३४, [भा. २६७९] १३१ वृ-इच्छा नाम न 'जिनादेशः' तीर्थकृतामुपदेशोऽयमिति कृत्वा नादरादीनि पदानि करोति किन्तुस्वच्छन्देन।तथा आढा नाम-आदरस्तं यथापूर्वमुचितालापादिभि कृतवाँस्तथा कुर्याद्वान वा।शेषाणि त्वभ्युत्थानादीनि सुगमानीति कृत्वाभाष्यकृतान व्याख्यातानि।अत्रच सम्भोजनसंवासनपदे ‘मनोज्ञेषु' सम्भागिकेषु 'इतरेषु वा' असाम्भोगिकेषु भवेयुः ।। कृता भाष्यकृता विषमपदव्याख्या । अथ नियुक्तिविस्तरः[भा.२६८०] नामं ठवणा दविए, भावे य चउव्विहं तु अहिगरणं । दव्वम्मि जंतमादी, भावे उदओ कसायाणं ।। वृ-नामाधिकरणंस्थापनाधिकरणंद्रव्याधिकरणंभावाधिकरणंचेति चतुर्विधमधिकरणम्। तत्र नाम-स्थापने गतार्थे । द्रव्याधिकरणमागमतोऽधिकरणशब्दार्थं प्ररूपयन्ननुपयुक्तो वक्ता। नोआगमतो ज्ञशरीर-भव्यशरीरव्यतिरिक्तं द्रव्याधिकरणं यन्त्रादिकं द्रष्टव्यम् । यन्त्रं नाम दलनयन्त्रादि । 'भावे' भावाधिकरणं 'कषायाणां' क्रोधादीनामुदयो विज्ञेयः॥ तत्र द्रव्याधिकरणं व्याख्यानयति[भा.२६८१] दव्वम्मि उ अहिगरणं, चउव्विहं होइ आनुपुव्वीए । निव्वत्तण निक्खिवणे, संजोयण निसिरणे यतहा।। वृ- 'द्रव्ये' द्रव्यविषयमधिकरणं चतुर्विधं भवति 'आनुपूर्व्या' परिपाट्या, तद्यथानिर्वर्तनाधिकरणं निक्षेपणाधिकरणं संयोजनाधिकरणं निसर्जनाधिकरणं चेति । तत्र योनिप्राभृतादिना यदेकेन्द्रियादिशरीराणि निवर्तयति, यथा सिद्धसेनाचार्येणाश्वा उत्पादिताः। जहा वा एगेनायरिएण सीसस्स जोगो उवदिट्ठो जहा महिसो भवति । तं च सुतं आयरियाणं भाइनिजेन । सो निद्धम्मो उनिक्खंतो महिसं उप्पाएउं सोयरियाण हत्थे विक्किणइ । आयरिएण सुतं।तत्थगतोभणेइ-किं एतेनं? अहंतेरयणजोगंपयच्छामि, दव्वे आहराहि।तेअआहरिया। आयरिएण संजोइया एगंते निक्खित्ता भणितो-एत्तिएण कालेणउक्खनिज्जासि, अहं गच्छामि। तेन उक्खत्तो । दिट्ठीविसो सप्पो जातो । सो तेण मारितो । एवं अहिगरणच्छेदो । सो वि सप्पो अंतोमुहुत्तेणमओ ति॥ __ यद्वा वैक्रिया-ऽऽहारकशरीरे अपि यन्निष्कारणे निवर्तयति, परशु-कुन्तादीनि वा करोति तनिर्वर्तनाधिकरणमुच्यते। निक्षेपणाधिकरणंद्विधा-लौकिकंलोकोत्तरिकंच।तत्रयमत्स्यग्रहणार्थं गलनामा लोहकण्टकः कूटं वा मृगादीनां ग्रहणाय जालं वा लावकादीनामर्थाय निक्षिप्यते, शतध्यादीनि घरट्टा-ऽरघट्टादीनि वा यन्त्राणि स्थाप्यन्ते तदेतद् लौकिकं निक्षेपणाधिकरणम् । यत्तु लोकोत्तरिकं तत् षड्विधम्-यत्र पात्राद्युपकरणं निक्षिपतित्र न प्रत्युपेक्षते न प्रमार्जयति १ नप्रत्युपेक्षतेप्रमार्जयति२प्रत्युपेक्षतेनप्रमार्जयति ३; यत्तुप्रत्युपेक्षतेप्रमार्जयति ३; यत्तुप्रत्युपेक्षते प्रमार्जयतिच तदुष्प्रत्युपेक्षितंदुःप्रमार्जितं४दुःप्रत्युपेक्षितंसुप्रमार्जितं ५सुप्रत्युपेक्षितंदुष्प्रमार्जितं ६ करोति; एवमेते षङ्भङ्गा निक्षेपणाधिकरणम् । यस्तु सप्तमो मङ्गः सुप्रत्युपेक्षितं सुप्रमार्जितं करोतिती लक्षणः स नाधिकरणम्, शुद्धत्वात् । यद्वा यद् भक्तं पानकं वाऽपावृतं स्थापयति तनिक्षेपणाधिकरणम्।संयोजनाधिकरणमपि द्विधा लौकिक-लोकोत्तरिकभेदात् । तत्र लौकिकं रोगाद्युत्पत्तिकारणं विष-गरादिनिष्पत्तिनिबन्धनं वा द्रव्यसंयोजनम् । लोकोत्तरिकं तु Page #135 -------------------------------------------------------------------------- ________________ बृहत्कल्प-छेदसूत्रम् -२-१/३४ भक्तोपधिशय्याविषयसंयोजनम् । निसर्जनाधिकरणमपि लौकिकं शर-शक्ति-चक्र-पाषाणादीनां निसर्जनम् । लोकोत्तरिकं तु सहसाकारादिना यत् कण्टक-कर्करादीनां भक्तपानान्तः पतितानां निसर्जनम् । गतं द्रव्याधिकरणम् । अथ भावाधिकरणमाह [भा. २६८२] अह- तिरिय उड्डकरणे, बंधण निव्वत्तणा य निक्खिवणं । उवसम-खएण उड्डं, उदएण भवे अहेगरणं ॥ वृ-इह क्रोधादीनां कषायाणामुदयो भावाधिकरणमित्युक्तम् अतस्तेषामेव 'अधस्तिर्यगूर्ध्वकरणे' अधोगतिनयनेतिर्यग्गतिनयने ऊर्ध्वगतिनयने च स्वरूपं वक्तव्यम् । तथा 'बन्धनं नाम' संयोजनं १ निर्वर्त्तना २ निक्षेपणं ३ चसब्दस्य व्यवहितसम्बन्धस्यात्र योजनाद् निसर्जना ४ चेति चतुर्विधं द्रव्याधिकरणम् । आह अनन्तरप्रतिपादितमिदं किमर्थमिदानीमभिधीयते ? उच्यतेयत् प्राग् गाथायां चतुर्विधं द्रव्याधिकरणमुक्तं तद् “दव्वम्मि जंतमादी" इति पदं व्याख्यानयता भाष्यकृता दर्शितम्, इदं तु निर्युक्तिकारः सङ्ग्रहगाथया द्वयोरपि द्रव्यभवाधिकरणयोः स्वरूपं सूचयतीति । अथास्या एव प्रथमापादं पश्चार्द्धेन व्याचष्टे - “उवसम” इत्यादि । कषायाणामुपशमेन क्षयेन चोर्ध्वगति-स्वर्गा ऽपवर्गलक्षणाऽवाप्यते । तेषामेव च तीव्रपरिणामानामुदयेन 'अधः करणं भवति' नरकगतिगमनं भवतीत भावः । उपलक्षणमिदम्, तेन नातितीव्रैः कषायैस्तिर्यग्गतिर्मध्यमैस्तु मनुष्यगतिरवाप्यत इति पुरातनगाथासमासार्थः ॥ अथास्या एव भाष्यकारो व्याख्यानं करोति[भा. २६८३ ] तिव्वकसायसमुदया, गुरुकम्मुदया गती भवे हिट्ठा । नाइकिलिट्ठ- मिऊहि य, उववज्जइ तिरिय-मनुएसु ॥ वृ तीव्राः सङ्किलष्टपरिणामा ये कषायाः क्रोधादयस्तेषां सम्बन्धी यः सम्-एकीभावेनोदयस्तेन जीवा गुरूणां ज्ञानावरणीयादिकर्मणामुपचयं कुर्वन्ति । गुरुकर्मोदयाच्च तेषाम् 'अधः ' सप्तमनरकपृथिव्यादिनरकेषु गतिर्भवति । ये तु कषाया नातिक्लिष्टाः- नातीवाशुभपरिणामास्तैर्नातिक्लिष्टः कर्मोपचयो भवति ततश्च तिर्यक्षूत्पद्यन्ते । ये तु मृदवः प्रतनुपरिणामास्तैर्मृदुः कर्मोपचयो भवति ततो मनुष्येषूत्पद्यन्ते ॥ [ भा. २६८४ ] १३२ खीणेहि उ निव्वाणं, उवसंतेहि उ अनुत्तरसुरेसु । जह निगो तह लहू, समुवचओ तेन सेसेसु ॥ वृ- 'क्षीणैः' अभावतां गतैः कषायैर्निर्वाणमासादयति । 'उपशान्तैः' विष्कम्भितोदयैः तुशब्दात् क्षीणोपशान्तैश्चानुत्तरविमानवासिषु सूरेषूत्पद्यते । एवं यथा प्रकृष्टः प्रकृष्टतरः कषायाणां निग्रहः तथाऽयं जीवः 'लघुः' लघुभूतो भवति । अथ न तथाविध- कषायाणां निग्रहः कृतस्ततः कर्मणां समुपचयो भवति, तेन 'शेषेषु' अनुत्तरविमानवासिवर्जेषु देवेषूत्पद्यते । आह गुरुलघुकमगुरुलघुकं वा द्रव्यं भवति नैकान्तगुरुकं न वा एकान्तलघुकमित्यागमेऽभिधीयते ततः कर्मणां गुरुतया जीवा अधो गच्छन्ति लघुतया तूर्ध्वमिति कथं न विरुध्यते ? उच्यते-इह हि यद् आगमे गुरुलघुकमगुरुलघुकं वा द्रव्यमुक्तं तन्निश्चयनयमता श्रयणेन, इदं तु कर्मणां गुरुत्वं लघुत्वं च व्यवहारनयमता श्रयणाद् उच्यते । तथा चामुमेवार्थं ज्ञापयितुमिदमाह [ भा. २६८५ ] गुरुयं लहुयं मीसं, पडिसेहो चेव उभयपक्खे वि । तत्थ पुन पढमबिइया, पया उ सव्वत्थ पडिसिद्धा ॥ Page #136 -------------------------------------------------------------------------- ________________ उद्देश : १, मूलं - ३४, [भा. २६८५ ] १३३ वृ- गुरुकं 9 लघुकं २ 'मिश्रं' गुरुलघुकमिति ३ 'प्रतिषेधश्चैवोभयपक्षेऽपि' न गुरुकं नापि लघुकमित्यर्थः ४, एवं व्यवहारतश्चतुर्द्धा द्रव्यम् । 'तत्र पुनः' एतेषां मध्ये ये प्रथमद्वितीये पदे ते 'सर्वत्रापि' निश्चयनयमताश्रितेषु सूत्रेषु प्रतिषिद्धे । तथाहि स निश्चयनयो ब्रवीति - नास्त्येकान्तेन गुरुस्वभावं किमपि वस्तु, पराभिप्रायेण गुरुत्वेनाभ्युपगतस्यापि लेष्टवादेः परप्रयोगादूर्ध्वादिगमनदर्शनात्; एवमेकान्तेन लघुस्वभावमपि नास्ति, अतिलघोरपि बाष्पादेः करताडनादिना अधोगमनादिदर्शनात्; तस्मादियं वस्तुनः परिभाषा - यत्किमप्यत्र जगति बादरं वस्तु तत् सर्वं गुरुलघु, शेषं तु सर्वमप्यगुरुलघुकमिति ।। इदमेव व्यक्तीकुर्वन्नाहजातेयगं सरीरं, गुरुलहु दव्वाणि कायजोगो य । [भा. २६८६ ] मन-भासा अगुरुलहू, अरूविदव्वा य सव्वे वि ।। वृ- औदारिकशरीरादारभ्य तैजसशरीरं यावद् यानि द्रव्याणि, यश्च तेषामेव सम्बन्धी 'काययोगः ' शरीरव्यापारः एतत् सर्वं गुरुलघुकमिति निर्देश्यम् । यानि तु मनो-भाषाप्रायोग्याणि, उपलक्षणत्वाद् आनपान-कार्मणप्रायोग्याणि तदपान्तरालवर्तीनि च द्रव्याणि, यानि च सर्वाण्यपि धर्मा-धर्माSSकाश - जीवास्तिकायलक्षणान्यरूपिद्रव्याणि तदेतत् सर्वमगुरुलघुकमिति परिभाष्यम् ॥ [भा. २६८७ ] अहवा बायरबोंदी, कलेवरा गुरुलहू भवे सव्वे । सुहुमानंतपदेसा, अगुरुलहू जाव परमाणू ॥ वृ- ' अथवा ' इति प्रकारान्तरद्योतने । बादरा बोन्दि-शरीरं येषां ते 'बादरबोन्दयः' बादरनामकर्मोदयवर्त्तिनो जीवा इत्यर्थः, तेषां सम्बन्धीनि यानि कडेवराणि, यानि चापराण्यपि बादरपरिणामपरिणतानि भू-भूधरादीनि शक्रचाप- गन्धर्वपुरप्रभृतीनि वा वस्तूनि तानि सर्वाण्यपि गुरुलघून्युच्यन्ते । यानि तु सूक्ष्मनामकर्मोदयवर्त्तिनां जन्तूनां शरीराणि यानि च सूक्ष्मपरिणामपरिणतानि अनन्तप्रादेशिकादीनि परमाणुपुद्गलं यावद् द्रव्याणि तानि सर्वाण्यप्यगुरुलघूनि।। दर्शितं निश्चयनयमतम् अथ व्यवहारनयमतमाह [भा. २६८८ ] ववहारनयं पप्प उ, गुरुया लहुया य मीसगा चेव । डुग पदीव मारुय, एवं जीवाण कम्माइ ॥ वृ-व्यवहारनयं पुनः 'प्राप्य' अङ्गीकृत्य त्रिविधानि द्रव्याणि भवन्ति, तद्यथा-गुरुकाणि लघुकानि 'मिश्रकाणि च ' गुरुलघूनीत्यर्थः । तत्र यानि तिर्यगूर्ध्वं वा प्रक्षिप्तान्यपि स्वभावादेवाधो निपतन्ति तानि गुरुकाणि, यथा-लेष्टुप्रभृतीनि । यानि तूर्ध्वगतिस्वभावानि तानि लघुकानि, यथाप्रदीपकलिकादीनि । यानि तु नाधोगतिस्वभावानि न वा ऊर्ध्वगतिस्वभावानि, किं तर्हि ? स्वभावादेव तिर्यग्गतिधर्मकाणि तानि गुरुलघूनि, यथा- 'मारुतः' वायुसतप्रभृतीनि । एवं जीवानां कर्माण्यपि त्रिधा भवन्ति-गुरूणि लघूनि गुरुलघूनि च । तत्र यैरमी जीवा अधोगतिं नीयन्ते तानि गुरुकाणि, यैस्तु त एवोर्ध्वगतिं प्राप्यन्ते तानि लघुकानि, यैः पुनस्तिर्यग्योनिकेषुवा मनुष्येषु वा गतिं कार्यन्ते तानि गुरुलघुकानीति ॥ तदेवं व्यवहारनयाभिप्रायेण समर्थितः कर्मणां गुरुत्वलघुत्वपरिणामः । अथ परः प्राह- ननु जीवास्तावत् स्ववशा एव ज्ञानावरणादिकं कर्मोपचिन्वन्ति ततो गतिरपि तेषां स्ववशतया किं न प्रवर्त्तते ? यदेवं कर्मोदयबलादूर्ध्वमधस्तिर्यग्वा नीयन्ते ? उच्यते Page #137 -------------------------------------------------------------------------- ________________ १३४ बृहत्कल्प-छेदसूत्रम् -२-१/३४ [भा.२६८९] कम्मं चिणंति सवसा, तस्सुदयम्मि उ परव्वसा होति । रुक्खं दुरुहइ सवसो, विगलइस परव्वसो तत्तो॥ वृ-जीवाः ‘स्ववशाः' स्वतन्त्राएव मिथ्यात्वा-ऽविरत्यादिभिः कर्म 'चिन्वन्ति' बध्नन्तीत्यर्थः, परं 'तस्य' कर्मण उदये तेजीवाः परवशा भवन्ति । दृष्टान्तमाह-यथा कश्चित् पुरुषो वृक्ष मारोहन् 'स्ववशः' स्वाभिप्रायानुकूल्येनारोहति, स च कुतश्चिद् दुःप्रमादात् ततो विगलन् ‘परवशः' स्वकाममन्तरेणैव विगलति। आह यद्येवंततः किंसंसारिणो जीवाः सर्वथैव कर्मपरवशा एव? उच्यते-नायमेकान्तः, यत आह[भा.२६९०] कम्मवसा खलु जीवा, जीववसाई कहिंचि कम्माइं। कत्थइ धणिओ बलवं, धारणिओ कत्थई बलवं। वृ-कर्मवशाः खलु प्रायेणामी संसारिणो जीवाः, परं 'कुत्रचित्' प्रबलधृति-बलादिसद्भावे कर्माण्यपि जीववशानि । अमुमेवा) दृष्टान्तेन द्रढयति-यथा 'कुत्रचित्' जनपदादौ 'धनिकः' व्यवहारिको बलवान्, 'कुत्रचित् पुनः' प्रत्यन्तग्रामादौ ‘धारणिकः' ऋणधारकोऽपि बलवान् । इयमत्र भावना-यदि जनपदमध्यवर्ती विद्यमानविभवो वा धारणिकस्तदा धनिको बलीयान्, अथ धारणिकः प्रत्यन्तग्रामे वा पल्लयां वा गत्वा स्थितः न वा तस्य तथाविधं किमपि द्रव्यमस्ति ततो धारणिको बलवान् भवति ॥ एष दृष्टान्तः । अथार्थोपनयमाह[भा.२६९१] धनियसरिसंतु कम्म, धारणिगसमा उ कम्मिणो हिंति। संताऽसंतधना जह, धारणग धिई तनू एवं ॥ वृ-इह धनिकसद्दशं कर्म, धारणिकसमानाः 'कर्मिणः' सकर्मका जीवा भवन्ति, सुख-दुःखो पभोगादिऋणधारकत्वात् तेषामिति भावः । यथा च 'सद्धनाः' विद्यमानविभवाः 'असद्धनाश्च' अविद्यमानविभवा धारणिका भवन्ति । तत्र च विद्यमानविभवे धारणिके धनिको यदि कार्य भवति तदा राजकुलबलेनतंधारणिकंधृत्वा स्वल्पंद्रव्यंबलादपि गृह्णाति, सचधारणिकस्तस्मिन् द्रव्ये दत्ते सति अनृणीभवति अथासावविद्यमानविभवस्ततस्तेन धनिकेन स वशीक्रियते, वशीकृतश्च तत्पारतन्त्रयेण वर्तमानो दुस्सहं दासत्वादिमहादुःखोपनिपातमनुभवति। एवमत्रापि "धिइ"त्ति धृतिबलं "तनु"त्ति शारीरंच बलं विद्यमानविभवताकल्पमवसेयम्। इदमुक्तंभवतियस्यजीवस्यवज्रकुड्यसमानं विशिष्टं मनःप्रणिधानबलं वर्षभनाराचसंहननलक्षणंचशारीरंबलं भवति स धनिकसशं कर्म क्षपयित्वा सुखेनैवानृणीभवति; यस्य तु धृतिबलं शारीरबलं वा न भवति स तेन कर्मणा वशीक्रियते, वशीकृतश्च तत्परतन्त्रतया वर्तमानो विविधशारीरमानसदुःखोपनिपातमनुभवति ॥ आह धृति-संहननबलोपेतो यत् कर्म क्षपयति तत् किमुदीर्णमनुदीर्णं वा क्षपयति? इति उच्यते[भा.२६९२] सहणोऽसहणो कालं, जह धनिओ एवमेव कम्मंतु। उदिया-ऽनुदिए खवणा, होज्ज सिया आउवज्जेसु॥ वृ-धनिको द्विधा-सहिष्णुसहिष्णुश्च । यः सहिष्णः स विवक्षितं कालं प्रतीक्षते, इतरस्तु न प्रतीक्षते । एवमेव कमीपि किञ्चित्स्वकालपूर्ती किञ्चित् पुनस्तामन्तरेणापि स्वविपाकंदर्शयतीति। एवमुदीर्णस्यानुदीर्णस्य वाकर्मणः क्षपणा धृति-संहननबलोपेतस्य भवेत्, “सिय" त्ति ‘स्यात्' Page #138 -------------------------------------------------------------------------- ________________ १३५ उद्देशक : १, मूलं-३४, [भा. २६९२] . कदाचित् कस्याप्येवं भवति न सर्वस्य । यस्तु संहनन-बलविहीनः स नवरमनुदीर्णं कर्म देशतः क्षपयेत् न सर्वतः “आउवजेसु"त्तिआयुःकर्मवर्जानां शेषकर्मणामनुदीर्णानामपि क्षपणंभवति, आयुषः पुनरुदीर्णस्यैव क्षपणमिति भावः । तदेवं धनिक-धारणिकदृष्टान्ते जीव-कर्मणोरुभयोरपि तुल्यमेव यथायोगं बलीयस्त्वं द्रष्टव्यम् । उक्तञ्च ग्निाशो ब्रह्मदत्ते भरतनृपजयः सर्वनाशश्च कृष्णे नीचैर्गोत्रावतारश्चरमजिनपतेर्मल्लिनाथेऽबलात्वम्। निर्वाणं नारदेऽपि पशमपरिणति सा चिलातीसुतेऽपि इत्थं कर्मा-ऽऽत्मवीर्ये स्फुटमिह जयतां स्पर्द्धया तुल्यरूपे। उक्तं सप्रपञ्चं भावाधिकरणम् । अथ कथं तदुत्पद्यते ? इत्याशङ्कावकाशमवलोक्य तदुत्थानकारणानि दर्शयति[भा.२६९३] सच्चित्ते अच्चित्ते, मीस वओगय परिहार देसकहा। सम्ममणाउट्टते, अहिगरणमओ समुप्पजे ॥ वृ- 'सचित्ते' शैक्षादौ 'अचित्ते' वस्त्र-पात्रादौ 'मिश्रके' सभाण्ड-मात्रकोपकरणे शैक्षादावनाभाव्येऽपरेणगृह्यमाणे, तथा 'वचोगतं व्यत्यानेडितादितत्र वा विधीयमाने, परिहारःस्थापना तदुपलक्षितानियानि कुलानितेषावाप्रवेशे क्रियमाणे, देशकथायांवा विधीयमानायाम्, एतेषु स्थानेषु प्रतिनोदितो यदि सम्यग् नावर्त्तते-न प्रतिपद्यते अतोऽधिकरणमुत्पद्यते इति नियुक्तिगाथासमासार्थः ।। अथैनामेव विवृणोति[भा.२६९४] आभव्वमदेमाणे, गिण्हत तहेव मग्गमाणे य । सच्चित्तेतरमीसे, वितहापडिवत्तिओ कलहो॥ वृ-'आभाव्यं नाम' शैक्षःशैक्षिका वा कस्याप्याचार्यस्योपतस्थे 'युष्मदन्तिके प्रव्रज्यां गृह्णामि' इति। तमुपस्थितं मत्वा विपरिणमय्य परः कश्चिदाचार्यो गृह्णाति ततो मौलाचार्योब्रवीति-किमेवं मदीयमाभाव्यं गृह्णासि ?, पूर्वगृहीतं वा शैक्षादिकं याचितः-मदीयमाभाव्यं किं न प्रयच्छसि ? इति। एवमाभाव्यं सचित्तम् इतरद्' अचित्तं मिश्रृंवा तत्कालं गृह्यमाणंपूर्वगृहीतंवामार्यमाणमपि यदा वितथप्रतिपत्तितो न ददाति तदा कलहो भवति । वितथप्रतिपत्तिर्नाम-परस्याभाव्यमपि शैक्षादिकमनाभाव्यतया प्रतिपद्यते॥वचोगतद्वारमाह[भा.२६९५] विच्चामेलण सुत्ते, देसीभासा पवंचने चेव । अन्नम्मि य वत्तव्वे, हीनाहिय अक्खरे चेव ।। वृ- 'सूत्रे' सूत्रविषया या 'व्यत्यानेडना' अपरापरोद्देशका-ऽध्ययन-श्रुतस्कन्धेषु घटमानकानामालापक-श्लोकादीनां योजना, यथा-“सव्वजीवा विइच्छंति, जीविउंनमरिजिउं" इत्यत्र इदमप्यालापकपदं घटते “सव्वे पाणा पियाउया" इत्यादि । तथाभूतं सूत्रं परावर्तयन् ‘किमेवं सूत्रं व्यत्यानेडयसि ?' इति प्रतिनोदितो यदि न प्रतिपद्यते तदाऽधिकरणं भवति । देशीभाषा नाम-मरु-मालव-महाराष्ट्रादिदेशानां भाषा तामन्त्रयत्र देशान्तरे भषमाण उपहस्यते, उपहस्यमानश्वासङ्खडं करोति । यद्वा प्रपञ्चनं वचनानुकारेण वा चेष्टानुकारेण वा कोऽपि करोति ततः प्रपञ्चयमानसाधुना सहाधिकरणमुत्पद्यते।अन्यस्मिन् वा वक्तव्ये कोऽप्यन्यद्वक्ति। Page #139 -------------------------------------------------------------------------- ________________ १३६ बृहत्कल्प-छेदसूत्रम् -२-१/३४ यद्वा हीनाक्षरमधिकाक्षरं वा पदं वक्ति । तत्र हीनाक्षरम्-भास्कर इति वक्तव्ये भाकर इति वक्ति, अधिकाक्षरम्-सुवर्णमिति वक्तव्ये सुसुवर्णमिति ब्रवीति॥परिहारिकद्वारमाह[भा.२६९६] परिहारियमठवेंते, ठवियमणट्ठाए निव्विसंतेवा। कुच्छियकुले व पविसइ, चोइयऽनाउट्टणे कलहो॥ वृ-गुरु-ग्लान-बालादीनां यत्र प्रायोग्यं लभ्यते तानि कुलानि परिहारिकाण्युच्यन्ते, एकं गीतार्थसङ्घाटकं मुक्त्वा शेषसङ्घाटकानां परिहारमर्हन्तीति व्युत्पत्तेः । तानि यदि न स्थापयति, स्थापितानि वा 'अनर्थ' निष्कारणं 'निर्विशति' प्रविशतीत्यर्थः, यद्वा 'परिहारिकाणि नाम' कुत्सितानि जात्यादिजुगुप्सितानीति भावः, तेषु कुलेषु प्रविशति । एतेषु स्थानेषु नोदितो यदि नावर्त्तते न वा तेषु प्रवेशादुपरमते ततः कलहो भवति ।। देशकथाद्वारमाह[भा.२६९७] देसकहापरिकहणे, एक्के एक्के व देसरागम्मि। मा कर देसकहं ति य, चोइय अठियम्मि अहिगरणं ॥ वृ-देशकथाया उपलक्षणत्वाद्भक्त-स्त्री-राजकथानांच परिकथनं कुर्वाणो द्वितीयेन साधुना नोदितः-मा देशादिकथां कार्षी, न वर्तते साधूनामीशी कथां कथयितुम् । स प्राह-कोऽसि तवं येनैवं मां वारयसि? । तथापि अस्थिते' अनुपरते सत्यधिकरणं भवति । यद्वा “एक्के एक्के व देसरागम्मि"त्ति एकः साधुः सुराष्ट्रां वर्णयति, यथा-रमणीयः सुराष्ट्राविषयः; द्वितीयः प्राहकूपमण्डूकस्त्वम्, किंजानासि? दक्षिणापथएवप्रधानोदेशः; एवमेकैकदेशरागेणोत्तरप्रत्युत्तरिकां कुर्वाणयोस्तयोरधिकरणं भवति ॥ एवमुत्पन्नेऽधिकरणे किं कर्तव्यम् ? इत्याह[भा.२६९८] जो जस्स उ उवसमई, विज्झवणं तस्स तेन कायव्वं । जो उ उवेहं कुज्जा, आवज्जइ मासियं लहुगं । वृ-यःसाधुर्यस्य साधोःप्रज्ञापनयोपशाम्यतितस्यतेन साधुना 'विध्यापन' क्रोधाग्निनिर्वापणं कर्तव्यम् । यः पुनः साधुरुपेक्षां कुर्यात् स आपद्यते मासिक लघुकम् ॥ [भा.२६९९] लहुओ उ उवेहाए, गुरुओ सो चेव उवहसंतस्स । उत्तुयमाणे लहुगा, सहायगत्ते सरिसदोसो॥ वृ- उपेक्षां कुर्वाणस्य लघुको मासः प्रायश्चित्तम् । उपहसतः स एव मासो गुरुकः । अथ उत्प्राबल्येन तुदति उत्तुदति-अधिकरणं कुर्वन्तं विशेषत उत्तेजयतीत्यर्थः ततश्चत्वारो लघुकाः। अथ कलहं कुर्वतः 'सहायकत्वं' साहाय्यं करोति ततोऽसावधिकरणकृता सह सध्शदोष इति कृत्वा सदृशं प्रायश्चित्तमापद्यते, चतुर्गुरुकमित्यर्थः ॥ तथा चाह[भा.२७००] चउरो चउगुरु अहवा, विसेसिया होति भिक्खुमाईणं । अहवा चउगुरुगादी, हवंति ऊ छेद निट्ठवणा॥ वृ-भिक्षु-वृषभोपाध्याया-ऽऽचार्णामधिकरणंकुर्वतांप्रत्येकंचतुर्गुरुकम्, ततश्चत्वारश्चतुर्गुरुका भवन्ति ।अथवात एव चतुर्गुरुकास्तपः-कालविशेषिता भवन्ति, तद्यथा-भिक्षोश्चतुर्गुरुकंतपसा कालेनच लघुकम्, वृषभस्य तदेव कालगुरुकम्, उपाध्यायस्य तपोगुरुकम्, आचार्यस्य तपसा कालेन च गुरुकम् । अथवा चतुर्गुरुकादारभ्य च्छेदे निष्ठापना कर्तव्या, तद्यथा-भिक्षुरधिकरणं करोति चतुर्गुरुकम्, वृषभस्यषड्लघुकम्, उपाध्यायस्यषड्गुरुकम्, आचार्यस्याधिकरणंकुर्वाणस्य Page #140 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं- ३४, [भा. २७०० ] १३७ च्छेद इति । यथा चाधिकरणकरणे आदेशत्रयेण प्रायश्चित्तमुक्तं तथा साहाय्यकरणेऽपि द्रष्टव्यम्, समानदोषत्वात् ।। अथोपेक्षाव्याख्यानमाह [भा.२७०१] परपत्तिया न किरिया, मोत्तु परटुं च जयसु आयट्ठे । अवयवेा वत्ता, गुणो वि दोसो हवइ एवं ॥ वृ-इहाधिकरणं कुर्वतो दृष्ट्वा माध्यस्थ्यभावेन तिष्ठन् अन्येषामप्युपदेशं प्रयच्छति-परप्रत्यया या 'क्रिया' कर्मबन्धः सा अस्माकं न भवति, परकृतस्य कर्मण आत्मनि सङ्क्रमाभावात् । तथा यद्येतावधिकरणकरणादुपशाम्येते ततः परार्थ कृतो भवति । तं च परार्थं मुक्त्वा यदि मोक्षार्थिनस्तदा ‘आत्मार्थ एव’ स्वाध्याय-ध्यानादिके 'यतध्वं' प्रयत्नं कुरुत । अपि चेत्यभ्युच्चये । ओधनियुक्तिशास्त्रेऽप्युपेक्षा संयमाङ्गतया प्रोक्ता, “उवेहित्ता संजमो वुत्तो" (पेहेत्ता संजमो वुत्तो, उवेहित्ता वि संजमो) । इति वचनात् । यद्वा "मैत्री- प्रमोद - कारुण्य- माध्यस्थ्यानि सत्त्वगुणाधिक-क्लिश्यमाना-ऽविनेयेषु" इति वचनाद् अविनेयेषु माध्यस्थ्यापरपर्याया उपेक्षैव प्रोक्ता, ततः सैव साधूनां कर्तुमुचितेति भावः । अत्र सूरिराह "गुणो वि दोसो हवइ एवं " ति यदिदमविनेयेषु माध्यस्थ्यमुपदिष्टं तदसंयतापेक्षया न पुनः संयतानङ्गीकृत्य; यस्मादसंयतेष्वियमुपेक्षा क्रियमाणा गुणः संयतेषु तु क्रियमाणा महान् दोषो भवति । उक्तञ्चौघनिर्युक्तावपि संजयगिहिचोयणऽचोयणे यवावार ओवेहा । अथ " परपत्तिया न किरिय" त्ति पदं भावयति [भा. २७०२] जइ परोपडिसेविज्जा, पावियं पडिसेवणं । मज्झ मोनं चरंतरस, के अट्ठे परिहायई ॥ - यदि 'परः' आत्मव्यतिरिक्तः 'पापिकाम्' अकुशलकर्मरूपामधिकरणादिकां प्रतिसेवनां प्रतिसेवेत ततो मम मौनमाचरतः को नाम ज्ञानादीनां मध्यादर्थः परिहीयत ? न कोऽपीत्यर्थः ॥ अथ "मोत्तु परट्टं व जयसु आयट्टे" इति पदं व्याचष्टे [भा. २७०३] आय उवत्ता, माय परट्ठम्मि वावडा होह । हंदि परट्ठाउत्ता, आयट्ठविणासगा होंति ॥ वृ- आत्मार्थो नाम-ज्ञान-दर्शन- चारित्ररूपं पारमार्थिकं स्वकार्यं तत्रोपयुक्ता भवत, मा च ‘परार्थे’ परकार्येऽधिकरमोपशमनादौ व्यापृता भवत । हन्दीति हेतूपदर्शने । यस्मात् परार्थायुक्ता ‘आत्मार्थविनाशकाः’ स्वाध्याय-द्यानाद्यात्मकार्यपरिमन्थकारिणो भवन्ति ।। गतमुपेक्षाद्वारम् । अथोपहसनोत्तेजनाद्वारे युगपद् व्याचष्टे [भा. २७०४] एसो वि ताव दम्मउ, हसइ व तस्सोमयाए ओहसना । उत्तरदानं मा ओसराहि अह होइ उत्तुअणा ।। वृ- द्वयोरधिकरणं कुर्वतोरेकस्मिन् सीदति आचार्योऽन्यो वा ब्रवीति - एषोऽपि तावददान्तपूर्वोदम्यतामिदानीमनेन; यदि वा तस्य 'अवमतायां' पश्चात्करणे इत्यर्थः स्वयमट्टट्टहासैरुपहसति, एतदुपहसनमुच्यते । तथा तयोर्मध्याद् यः सीदति तस्य 'उत्तरदानं ' अमुकममुकं च ब्रूहि इत्येवं शिक्षापणम्; यद्वा-माऽमुष्मादपसरस्त्वम्, ध्ढीभूय तथा लग यथा नैतेन पराजीयसे, अथैषोत्तेजनाऽभिधीयते ॥ अथ सहायकत्वं व्याख्यानयति [भा. २७०५ ] वायाए हत्थे हि व, पाएहि व दंत-लउडमादीहिं । Page #141 -------------------------------------------------------------------------- ________________ १३८ बृहत्कल्प-छेदसूत्रम् -२-१/३४ जो कुणइ सहायत्तं, समानदोसं तयं बेति॥ । वृ-द्वयोः कलहायमानयोर्मध्यादेकस्य पक्षे भूत्वा यः कोऽपि वाचा हस्ताभ्यां वा पद्भ्यां वा दन्तैर्वा लगुडादिभिर्वा 'सहायत्वं' साहाय्यं करोति तं तेनाधिकरणकारिणा सह समानदोषं तीर्थकरादयो ब्रुवते॥अथाचार्याणामुपेक्षां कुर्वाणानां सामान्येन वाऽधिकरणेऽमुपशाम्यमाने दोषदर्शनार्थमिदमुदाहरणमुच्यते-अरनमज्झे एगं अगाहजलं सव्वतो वणसंडमंडियं महंतं सरं अस्थि । तत्थ य बहूणि जलचर-थलचर-स्वहचरसत्ताणि अच्छंति । तत्थ एगं महल्लं हस्थिजूहं परिवसइ । अन्नया य गिम्हकाले तं हत्थिजूहं पानियं पाउं ण्हाउत्तिनं मज्झण्ह देसकाले सीयलरुक्खच्छायाए सुहंसुहेणं चिट्ठइ । तत्थ यअदूरदेसे दो सरडा भंडिउमारद्धा । वणदेवयाए अते दटुं सव्वेसिं सभासाए आघोसियं । किं तत् ? इत्याह[भा.२७०६] नागा! जलवासीया!, सुणेह तस-थावरा!। सरडा जत्थ भंडंति, अभावो परियत्तई॥ वृ-'भो नागाः!' हस्तिनः ! तथा जलवासिनः!' मत्स्य-कच्छपादयः ! अपर च ये त्रसाः! मृग-पशु-पक्षिप्रभृतयः! स्थावराश्च-सहकारादयोवृक्षाः! एते सर्वेऽपियूयं श्रणुतमदीयंवचनम्यत्र सरसि सरटौ 'भण्डतः' कलहं कुरुतः तस्य 'अभावः परिवर्त्तते विनाशः सम्भाव्यत इति भावः।तामा एते सरडे भंडते उवेक्खह, वारेह तुब्भे । एवं भणिया वितेजलचराइणो चिंतंतिकिं अम्हं एते सरडा भंडता काहिति? । तत्थ य एगो सरडो भंडतो पिल्लितो । सो धाडिजंतो सुहपसुत्तरस एगस्स जूहहिवस्स हस्थिस्स 'बिलं' ति काउं नासापुडं पविट्ठो । बिइओ वि तस्स पिट्ठओ चे पविट्ठो । ते सिरकवाले जुद्धं संपलग्गा । तस्स हथिस्स महंती अरई जाया। तओ देयणट्टो महईए असमाहीए वट्टमाणो उठेत्ता तंवणसंडं चूरेइ, बहवे तत्थ विस्संता सत्ता घाइया, जलं च आडोहितेण जलचरा घाइया, तलागपाली य भेइया, तलागं विणटुं, ताहे जलचरा वि सव्वे विनट्ठा ।। अमुमेवार्थमाह[भा.२७०७] वनसंड सरे जल-थल-खहचर वीसमण देवया कहणं। वारेह सरडुवेक्खण, धाडण गयनास चूरणया ।। वृ- वनखण्डमण्डिते सरसि जलचर-स्थलचर-खचराणां विश्रमणम् । तत्र च सरडभण्डनं दृष्ट्वा वनदेवतया “नागा ! जलवासीया !" इत्यादि श्लोककथनं कृत्वा “वारयत सरटौ कलहायमानौ" इत्युपदिष्टम् । ततश्च तैर्नागादिभि सरटयोरुपेक्षणं कृतम् । एकस्य च सरटस्य द्वितीयेन घाटनम् । ततोऽसौ घाट्यमानो गजनासापुटं प्रविष्टवान्। तत्पृष्ठतो द्वितीयेऽपि प्रविष्टे तयोश्चयुद्धेलग्नेमहावेदनार्तेन हस्तिनावनखण्डस्यचूरणंकृतमिति। एष दृष्टान्तः,अयमर्थोपनयःयथा तेषामुपेक्षमाणानां तत् पद्मसरः सर्वेषामप्याश्रयभूतं विनष्टम्, तस्मिंश्च विनश्यमाने तेऽपि विनष्टाः, एवमत्राप्याचार्यादीनामुपेक्षमाणानां महान् दोष उपजायते । कथम् ? इति चेद् उच्यतेइह तावधिकरणकारिणावुपेक्षितौ परस्परंमुष्टामुष्टि वादण्डादण्डि वायुध्येताम्, ततश्चपरम्परया राजकुलज्ञाते सञ्जाते सति स राजादिस्तेषांसाधूनांबन्धनंवाग्राम-नगरादेर्निष्काशनंवा कटकमद वा कुर्यात् ।। किञ्चान्यत्__ [भा.२७०८] तावो भेदो अयसो, हानी दंसण-चरित्त-नाणाणं । Page #142 -------------------------------------------------------------------------- ________________ उद्देशक ः १, मूलं-३४, [भा. २७०८] साहुपदोसो संसारवडणो साहिकरणस्स ॥ वृ-तापो भेदोऽयशो हानिर्दर्शन-ज्ञान-चारित्राणां तथा साधुप्रद्वेषः संसारवर्द्धनो भवति । एते साधिकरणस्य दोषा भवन्तीति नियुक्तिगाथा समासार्थः ।। अथैनामेव गाथां विवृणोति[भा.२७०९] अइभणिय अभणिए वा, तावो भेदो उ जीव चरणे वा। रूवसरिसं न नीलं, जिम्हं व मने अयस एवं ।। वृ-तापो द्विधा-प्रशस्तोऽप्रशस्तश्च । तत्रातिभणिते सति चिन्तयति-धिग् मां येन तदानीं स साधुर्बहुविधैरसदभ्याख्यानैरभ्याख्यातः इत्थमित्थं चाक्रुष्टः, एषप्रशस्तस्ताप उच्यते।अथअभणितंन तथाविधं किमपि तस्य सम्मुखं भणितं ततश्चिन्तयति-हा! मन्दभाग्यो विस्मरणशीलोऽहं यद् मया तदीयं जात्यादिमर्मनिकुरुम्बं न प्रकाशितम्, एष अप्रशस्तस्तापो मन्तव्यः । तथा 'भेदो नाम कलहंकृत्वाजीवितभेदं चरणभेदंवा कुर्यु, पश्चात्तापतप्तचेतसोवैहायसादिमरणमभ्युपगच्छेयु: उनिष्क्रमणं वा कुर्युरिति भावः । तथा लोको ब्रूयात्-अहो ! अमीषां श्रमणानां रूपसध्शं' याशं बहिः प्रशान्ताकारं रूपमवलोक्यते ताशं 'शीलं' मनःप्रणिधानं नास्ति । यद्वा-किं मन्ये 'जिम' लज्जनीयं किमप्यनेन कृतं येनैवंप्रम्लानवदनो दृश्यते? ।एवमादिकमयशः समुच्छलति।। [भा.२७१०] अक्कुट्ट तालिए वा, पक्खापक्खि कलहम्मि गणभेदो । एगयर सूयएहिव, रायादीसिढे गहणादी॥ वृ-जकार-मकारादिभिर्वचनैराक्रुष्टे 'ताडिते वा' चपेटा-दण्डादिभिराहते सति ‘पक्षापक्षि' परस्परपक्षपरिग्रहेणसाधूनां कलहेजातेसतिगणभेदोभवति।तथा तयोः पक्षयोर्मध्यादेकतरपक्षण राजकुलं गत्वा 'शिष्टे' कथिते सति ‘सूचकैर्वा' राजपुरुषविशेषै राजादीनां ज्ञापिते ग्रहणाऽऽकर्षणादयो दोषा भवन्ति । [भा.२७११] वत्तकलहो विन पढइ, अवच्छलत्ते य दंसणे हानी। जह कोहाइविवड्डी, तह हानी होइ चरणे वि॥ वृ-'वृत्तकलहोऽपि' कलहकरणोत्तरकालमपि कषायकलुषितः पश्चात्तापतप्तमानसोवा यन्न पठति एषा ज्ञानपरिहाणिः । साधुप्रद्वेषतः साधर्मिकवात्सल्यं विराधितं भवति, अवात्सल्येच दर्शनपरिहानिः । यथा चक्रोधादीनांकषायाणां वृद्धिस्तथा चरणेऽपि' चारित्रस्य परिहानिर्भवति, विशुद्धसंयमस्थानप्रतिपातेनाविशुद्धसंयमस्थानेषु गमनं भवतीत्यर्थः ।। एतच्च व्यवहारमाश्रित्योक्तम् । निश्चयतस्तु[भा.२७१२] अकसायं खुचरित्तं, कसायसहितो न संजओ होइ । साहूण पदोसेन य, संसारं सो विवड्ढेइ ।। वृ-खुशब्दस्यैवकारार्थत्वाद् ‘अकषायमेव' कषायविरहितमेव चारित्रं भगवद्भिः प्रज्ञप्तम् । अतोनिश्चयनयाभिप्रायेण कषायसहितःसंयतएवनभवति, चारित्रशून्यत्वात्।तथासाधूनामुपरि यः प्रद्वेषस्तेनासौ साधिकरणः सन् संसारं वर्द्धयति, दीर्घतरंकरोतीति भावः । यत एते दोषास्तत उपेक्षा न विधेया ।। किं पुनस्तर्हि कर्तव्यम् ? इत्याह[भा.२७१३] आगाढे अहिगरणे, उवसम अवकड्डणा य गुरुवयणं । ___ उवसमह कुणह ज्झायं, छड्डणया सागपत्तेहिं ॥ Page #143 -------------------------------------------------------------------------- ________________ १४० बृहत्कल्प-छेदसूत्रम् -२-१/३४ - वृ- 'आगाढे' कर्कशेऽधिकरणे उत्पन्ने सति द्वयोरप्युपशमः कर्त्तव्यः । कथम् ? इत्याहकलहायमानयोस्तयोः पार्श्वस्थितैः साधुभिः 'अपकर्षणम्' अपसारणं कर्तव्यम् । गुरुभिश्चोपशमनार्थमिदं वचनमभिधातव्यम्-आर्या ! उपशाम्यतोपशाम्यत, गाथायामनुक्तमपि द्विवचनं प्रक्रमाद् दृश्यम्, अनुपशान्तानां कुतः संयमः? कुतो वा स्वाध्यायः ?, तस्मादुपशमं कृत्वा स्वाध्यायं कुरुत, किमेवं द्रमकवत् कनकरसस्य शाकपत्रैः ‘छर्दनां' परित्यागं कुरुथ? ॥ कः पुनरयं द्रमकः ? उच्यते- जहा एगो परिव्वायगो दमगपुरिसं चिन्तासोगसागरावगाढं पासत्ति, पुच्छति य-किमेवं चिंतापरो? । तेन से सब्भावो कहितो 'दारिद्दाभिभूतो मि'त्ति । तेन भणितं-इस्सरंतुमं करेमि, जतो नेमिततो गच्छाहि, जंचभणामितंसव्वं कायव्वं । ताहे तेसंबलं घेत्तुंपव्वयनिगुंजंपविठ्ठा। परिव्वायगेणयभणितो-एस कणगरसो सीत-वाता-ऽऽतव-परिस्समं अगणिन्तेहिं तिसा-खुधावेयणं सहंतेहिं बंभचारीहिं अचित्तकंद-मूल-पत्त-पुप्फ-फलाहारीहिं समीपत्तपुडएहिं भावतो अरुस्समाणेहिं घेत्तव्यो, एस से उवचारो । तेन दमगेन सो कनगरसो उवचारेण गहितो, तुंबयं भरितं । ततो निग्गता । तेन परिव्वायगेण भणितं-सुरुटेण वि तुमे एस सागपत्तेन नछड्डियव्वो।ततो सो परिव्वायगो गच्छंतोतंदमगपुरिसंपुनो पुनो भणइ-मम पभावेण ईसरो भविस्ससि । सो य पुनो पुनो भन्नमाणो रुट्ठो भणति-जंतुज्झ पसाएण ईसरत्तणं तेन मेन कज्जातंकनगरसंसागपत्तेन छड्डेति। ताहेपरिव्वायगेण भन्नति-हाहादुरात्मन्! किमेयं तुमेकयं? । [भा.२७१४] जंअज्जियं समीखल्लएहिं तव-नियम-बंभमइएहिं । तं दानि पच्छ नाहिसि, छड्डिंतो सागपत्तेहिं ।। वृ-यदर्जितं शमीसम्बन्धिभिः खल्लकैः-पत्रपुटैस्तपो-नियम-ब्रह्मयुक्तैः तदिदानीं शाकपत्रैः परित्यजन् ‘पश्चात् परित्यागकालादूर्ध्वंपरितप्यमानोज्ञास्यसि, यथा-दुष्ठुमया कृतंयच्चिरसञ्चितः कनकरसः शाकपत्रैरुत्सिच्य परित्यक्तः । एवं परिव्राजकेण द्रमक उपालब्धः । अथाचार्यस्तावधिकरणकारिणावुपालभते-आर्या ! यच्चारित्रं कनकरसस्थानीयं तपो-नियम-ब्रह्मचर्यमयैः शमीखल्लकैरर्जितं परीषहोपसर्गादिश्रममगणयद्भिश्चिरात् कथं कथमपि मीलितं तदिदानी शाकपत्रसदृशैः कषायैः परित्यजन्तः पश्चात् परितप्यमानाः स्वयमेव ज्ञास्यथ । यथा-हा! बहुकालोपार्जितेन संयमकनकरसेन तुम्बकस्थानीयं स्वजीवं बहुपूर्णं कृत्वा पश्चात् कलहायमानैः शाकवृक्षपत्रस्थानीयैः कषायैरुत्सिच्योत्सिच्यायमात्मा रिक्तीकृतः, शिरस्तुण्ढमुण्डनादिश्च प्रव्रज्याप्रयासो मुधैव विहित इति ॥ आह कथमेकमुहूर्तभाविनाऽपि क्रोधादिना चिरसञ्चितं चारित्रं क्षयमुपनीयते? उच्यते[भा.२७१५] जंअज्जियंचरित्तं, देसूनाए वि पुव्वकोडीए। तंपि कसाइयमेत्तो, नासेइ नरो मुहुत्तेण ।। वृ-यदर्जितं चारित्रं 'देशोनयाऽपि' अष्टवर्षन्यूनयाऽपि पूर्वकोट्या तदपि, आस्तामल्पतरकालोपार्जितमित्यपिशब्दार्थ, 'कषायितमात्रः' उदीर्णमात्रक्रोधादिकषाय इत्यर्थः 'नाशयति' हारयति 'नरः' पुरुषः 'मुहूर्तेन' अन्तर्मुहूर्तेनेति भावः । यथा प्रभूतकालसञ्चितोऽपि महान् तृणराशि सकृत्प्रज्वालितेनाप्यग्निना सकलोऽपि भस्मसाद् भवति, एवं क्रोधानलेनापि सकृदुदीरितेन चिरसञ्चितं चारित्रमपि भस्मीभवतीति हृदयम् । एवमाचार्येण सामान्यतस्त Page #144 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं- ३४, [भा. २७१५] योरनुशिष्टिर्दातव्या, न त्वेकमेव कञ्चन विशेष्य भणनीयम् । यत आह[भा. २७१६] आयरिय एगु न भणे, अह एगु निवारि मासियं लहुगं । राग-द्दोसविमुक्के, सीयघरसमो उ आयरिओ ।। १४१ वृ- आचार्यो नैकमधिकरणकारिणं 'भणति' अनुशास्ति । अथाचार्य एकमेव 'निवारयति' अनुशास्ति न द्वितीयं ततो मासिकं लघुकमापद्यते, असामाचारीनिष्पन्नमिति भावः । तस्मादाचार्यो राग-द्वेषविमुक्तः शीतगृहसमो भवेत् । शीतगृहं नाम-वर्द्धकिरत्ननिर्मितं चक्रवर्तिगृहम्, तच्च वर्षासु निवातप्रवातं शकाले सोष्मं ग्रीष्मकाले शीतलम् । यथा च तच्चक्रवर्तिनः सर्वर्त्तुक्षमं तथा द्रमकादेरपि प्राकृतपुरुषस्य तत् सर्वर्तुक्षममेव भवति, एवमाचार्यैरपि निर्विशेषैर्भवितव्यम् ।। अथ विशेषं करोति तत इमे दोषाः [भा. २७१७] वारेइ एस एयं, ममं न वारेइ पक्खरागेणं । बाहिरभावं गाढतरगं च मं पेक्खसी एक्कं ॥ वृ-एष आचार्यः ‘आत्मीयोऽयम्' इति बुध्या अमुं वारयति, मां तु परबुध्या पश्यन्न वारयति, एवं पक्षरागेण क्रियमाणेन अननुशिष्यमाणः साधुर्बाह्यभावं गच्छति । यद्वा सोऽननुशिष्यमाणो गाढतरमधिकरणं कुर्यात् । अथवा तमाचार्यं परिस्फुटमेव ब्रूयात्-त्वं मामेवैकं बाह्यतया प्रेक्षसे । ततश्चात्मानमुद्वध्य यदि मारयति तत आचार्यस्य पाराञ्चिकम् । अथोन्निष्क्रामति ततो मूलम् । तस्माद् द्वावप्यनुशासनीयौ | अनुशिष्टौ च यद्युपशान्तौ ततः सुन्दरम् । अथैक उपशान्तो न द्वितीय:, तेन चोपशान्तेन गत्वा स स्वापराधप्रतिपत्तिपुरस्सरं क्षामितः परमसौ नोपशाम्यति । आह कथमेतदसौ जानाति यथाऽयं नोपशान्तः ? उच्यते यदा वन्द्यमानोऽपि न वन्दनकं प्रतीच्छति, यदि वाऽवमरत्नाधिकोऽसौ ततस्तं रत्नाधिकं न वन्दते, आद्रियमाणोऽपि वा नाद्रियते । एवं तमनुपशान्तमुपलक्ष्य ततोऽसौ किं करोति ? इत्याह [भा. २७१८] उवसंतोऽनुवसंतं, तुपासिया विन्नवेइ आयरियं । तस्स उपन्नवणट्ठा, निक्खेवो परे इमो होइ ॥ वृ-उपशान्तः साधुरनुपशान्तमपरं दृष्ट्वाऽऽचार्यं विज्ञपयति-क्षमाश्रमणाः ! उपशान्तोऽहम् परमेष ज्येष्ठार्योऽमुको वा नोपशाम्यति । तत आचार्यास्तस्य प्रज्ञापनार्थं परनिक्षेपं कुर्वन्ति । स च परनिक्षेपः 'अयं' वक्ष्यमाणो भवति ।। तमेवाह [भा. २७१९] नाठवणा दविए, खेत्ते काले तदन्नमन्ने अ । आएस कम बहु पहाण भावओ उ परो होइ ॥ वृ- नामपरः स्थापनापरो द्रव्यपरः क्षेत्रपरः कालपरः । एते च द्रव्यपरादयः प्रत्येकं द्विधा, तद्यथा - " तदन्नमन्ने य'त्ति तद्द्रव्यान्योऽन्यद्रव्यान्यश्च तद्द्रव्यपरोऽन्यद्रव्यपरश्चेत्यर्थः । एवं तत्क्षेत्रपरोऽन्यक्षेत्रपरश्च, तत्कालपरोऽन्यकालपरश्च । तथाऽऽ देशपरः क्रमपरो बहुपरः प्रधानपरो भावपरश्चेति दशधा मूलभेदापेक्षया परनिक्षेपो भवतीति नियुक्तिगाथासमासार्थः । अथास्या एव भाष्यकारो व्याख्यां कर्तुकामो नाम-स्थापने क्षुण्णत्वादनाध्त्य ज्ञशरीर भव्यशरीरव्यतिरिक्तं द्रव्यपरं तावदाह [भा. २७२०] परमाणुपुग्गलो खलु, तद्दव्वपरो भवे अनुस्सेव । Page #145 -------------------------------------------------------------------------- ________________ १४२ बृहत्कल्प-छेदसूत्रम् -२-१/३४ अन्नद्दव्वपरो खलु, दुपएसियमाइणो तस्स ।। वृ-द्रव्यपरो द्विधा, तद्यथा-तव्यपरोऽन्यद्रव्यपरश्च। तत्र 'अणोः परमाणु पुद्गलस्यापरः परमाणुपुद्गलः परतया चिन्त्यमानस्तव्यपरोभवति । तस्यैव परमाणुपुद्गलस्यद्विप्रदेशिकादयः स्कन्धाः परतया चिन्त्यमाना अन्यद्रव्यपरा भवन्ति। [भा.२७२१] एमेव य खंधाण वि, तद्दव्वपरा उ तुल्लसंघाया। जे उ अतुलपएसा, अणू य तस्सऽन्नदव्वपरा ॥ वृ-'एवमेवच' परमाणुपुद्गलवव्यणुकप्रभृतीनां स्कन्धानामपिये 'तुल्यसङ्घाताः' परस्परं समानप्रदेशसङ्ख्याकाः स्कन्धास्तेतद्रव्यपराः, ये पुनः 'अतुल्यप्रदेशाः'विसद्दशप्रदेशसङ्ख्याकाः स्कन्धाः 'अणवश्च एकाणुकास्ते सर्वेऽप्यन्यद्रव्यपरा भवन्ति । तद्यथा-व्यणुकस्कन्धो व्यणुकस्कन्धस्य तव्यपरः, त्र्यणुकादयस्तु स्कन्धाः परमाणवश्च तस्यान्यद्रव्यपराः; एवं त्र्यणुकादयोऽप्यनन्ताणुकपर्यन्ताः स्कन्धाः परस्परंतुल्यप्रदेशसङ्ख्याकास्तव्यपराः, विसध्शप्रदेशसङ्ख्याकास्त्वन्यद्रव्यपरा मन्तव्याः, यावत् सर्वोत्कृष्टाणुको महास्कन्धः । अथ क्षेत्र-कालपरौ प्रतिपादयति[भा.२७२२] एगपएसोगाढादि खेते एमेवजा असंखेजा। एगसमयाइठिइणो, कालम्मि विजा असंखेज्जा। वृ-'क्षेत्रे क्षेत्रविषयेऽपिपरद्वारे चिन्त्यमाने 'एवमेव' तत्क्षेत्रपरा-ऽन्यक्षेत्रपरभेदेन पुद्गला एकप्रदेशावगाढादयोऽसङ्खयेयप्रदेशावगाढंयावद्रष्टव्याः। तद्यथा-एकप्रदेशावगाढः परमाणुः स्कन्धो वा एकप्रदेशावगाढस्य तत्क्षेत्रपरः, द्वित्रिप्रदेशावगाढादयः पुनस्तस्यान्यक्षेत्रपराः; तथा द्विप्रदेशावगाढः स्कन्धो द्विप्रदेशावगाढस्य स्कन्धस्य तक्षेत्रपरः, एकत्र्यादिप्रदेशावगाढास्तु तस्यान्यक्षेत्रपराः; एवं विस्तरेण सर्वाऽवगाहना द्रष्टव्या । कालेऽप्येकसमयादिस्थितयः पुद्गला यावदसङ्ख्येयसमयस्थितयस्तावत् तत्कालपरा-ऽन्यकालपरभेदाद्वक्तव्याः-तत्रैकसमयस्थितिकानां पुद्गलानामेकसमयस्थितिकास्तत्कालपराः, द्वित्र्यादिसमयस्थितिकाः पुनरन्यकालपराः; एवं यावदसयेयोत्सर्पिण्यवसर्पिणीगतासङ्खयेयसमयस्थितिकानां पुद्गलानां तावत्सङ्ख्याकसमयस्थितिकाएवतत्कालपराः, शेषास्त्वेकसमयस्थितिकादयः सर्वेऽप्यन्यकालपराअवसातव्याः।। अथादेशपरं व्याचष्टे[भा.२७२३] भोअण-पेसणमादीसु एगखित्तट्ठियं तुजंपच्छा। आदिसइ मुंज कुणसुव, आएसपरो हवइ एस॥ वृ-भोजन-प्रतीतं प्रेषणं-व्यापारणं तदादिषु कार्येषु कञ्चन पुरुषमेकस्मिन् क्षेत्रे स्थितमपि 'पश्चात् पर्यन्ते आदिशति-यथा 'भुत्व' भोजनं विदेहि, 'कुरु वा' कृष्यादिकर्म विधेहि, एष आदेशपरो भवति, आदेशः-आज्ञपनं तदाश्रित्य परः-पाश्चात्य आदेशपर इति व्युत्पत्तेः ।। अथ क्रमपरमाह[भा.२७२४] दव्वाइ कमो चउहा, दब्बे परमाणुमाइ जाऽनंतं। . एगुत्तरवुड्डीए, विवड्डियाणं परो होइ॥ कृ-क्रमः परिपाटीरित्येकोऽर्थः,तमाश्रित्यपरःक्रमपरः ।सचतुर्दा-द्रव्य-क्षेत्र काल-भावभेदात्। Page #146 -------------------------------------------------------------------------- ________________ १४३ उद्देशकः १, मूलं-३४, [भा. २७२४] तत्र 'द्रव्ये' द्रव्यतः परमाणुमादौ कृत्वा अनन्तप्रदेशिकस्कन्धं यावदेकोत्तरप्रदेशवृध्यावर्धितानां पुद्गलद्रव्याणां यो यदपेक्षया परः स तस्माद् द्रव्यक्रमपरो भवति, तद्यथा-परमाणुपुद्गलाद् द्विप्रदेशिकस्कन्धः, द्विप्रदेशिकस्कन्धात् त्रिप्रदेशिकस्कन्धः, एवं यावदसङ्ख्येयप्रदेशिकस्कन्धादनन्तप्रदेशिकस्कन्धो द्रव्यक्रमपरः । क्षेत्रक्रमपरोऽप्येवमेव; नवरमेकप्रदेशावगाढाद् द्विप्रदेशावगाढः, द्विप्रदेशावगाढात् त्रिप्रदेशावगाढः, एवं यावत् सङ्घयेयप्रदेशावगाढादसङ्खयेयप्रदेशावगाढः क्षेत्रक्रमपरः। कालक्रमपरस्त्वेवम्-एकसमयस्थितिकाद्विसमयस्थितिकः, द्विसमयस्थितिका त्रिसमयस्थितिकः, एवंयावत् सङ्ख्येयसमयस्थितिकादसङ्ख्येयसमयस्थितिकः कालक्रमपरः । भावक्रमपरः पुनरेवम्-एकगुणकालकाद् द्विगुणकालकः, द्विगुणकालकात् त्रिगुणकालकः, वं यावदसद्ध्येयगुणकालकादनन्तगुणकालको भावक्रमपरः । एवं नीललोहितहारिद्र-शुक्लरूपेषु शेषेष्वपि चतुषु वर्णेषु, सुरभि-दुरभिलक्षणे च गन्धद्वये, तिक्त-कटुकषायाऽम्ल-मधुरात्मकेचरसपञ्चके, गुरु-लघु-मृदु-कठिन-स्निग्ध-रूक्ष-शीतोष्णलक्षणेचस्पर्शाष्टके यथाक्रमं भावक्रमपरता भावनीया ॥अथ बहुपरं भावयति[भा.२७२५] जीवा १ पुग्गल २ समया ३, दव्व ४पएसा य ५ पज्जवा ६चेव। थोवा १ नंता २ नंता ३, विसेसमहिया ४ दुवेऽनंता ५-६॥ इहपूर्वार्द्ध-पश्चार्द्धपदानांयथाक्रमंयोजनाकार्या। तद्यथा-'जीवाः' संसारि-मुक्तभेदभिन्नास्ते सर्वस्तोकाः,जीवेभ्यः पुद्गला अनन्तगुणाः, पुद्गलेभ्यः समयाअनन्तगुणाः, समयेभ्यो द्रव्याणि विशेषाधिकानि, द्रव्येभ्यः प्रदेशा अनन्तगुणाः, प्रदेशेभ्यः पर्याया अनन्तगुणाः । उक्तञ्च व्याख्याप्रज्ञप्तौ-एएसिणं भंते! जीवाणं पोग्गलाणं अद्धासमयाणं अद्धासमयाणं सव्वदव्वाणं सव्वपएसाणं सव्वपञ्जवाण य कयरे कतरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा? गोयमा! सव्वत्थोवाजीवा, पोग्गलाअनंतगुणा, अद्धासमयाअनंतगुणा, सव्वदव्वा विसेसाहिया, सव्वपएसाअनंतगुणा, सव्वपज्जवाअनंतगुणा ।अत्रामीषामित्थमल्पबहुत्वेहेतुभावना भगवतीटीकायां वृद्धैरुपदर्शिताऽऽस्ते, अतस्तदर्थिना सैवावलोकनीया ।।अथ प्रधानपरमाह[भा.२७२६] दब्वे सचित्तमादी, सचित्तदुपएसु होइ तित्थयरो। सीहो चउप्पएसुं, अपयपहाणा बहुविहाउ॥ वृ-प्रधानएवपरःप्रधानपरःसचद्विधा-द्रव्यतोभावतश्च। तत्र 'द्रव्ये' द्रव्यतस्त्रिधासचित्तादि, आदिशब्दाद् मिश्रोऽचित्तश्च। तत्रसचित्तप्रधानस्त्रिंधाःद्विपद-चतुष्पदा-ऽपदभेदात्।तत्र द्विपदेषु तीर्थकरः प्रधानो भवति, चतुष्पदेषु सिंहः प्रधानो भवति, अपदेषु बहुविधाः सुदर्शनाभिधानजम्बूवृक्षप्रभृतयः पनसादयो वाप्रधानाः ।अचित्तः प्रधानपरोऽनेकधा, तद्यथा-धातुषु सुवर्णम्, वस्त्रेषु चीनांशुकम्, गन्धद्रव्येषु गोशीर्षचन्दनमित्यादि । मिश्रप्रधानपाराणि तुसुवर्णकटकाद्यलङ्कृतविग्रहाणि तीर्थकरादिद्रव्याण्येव द्रष्टव्यानि ।। भावप्रधानपरमाह[भा.२७२७] वण्ण-रस-गंध-फासेसु उत्तमा जे उ भू-दग-वनेसु । __ मणि-खीरोदगमादी, पुष्फ-फलादी यरुखेसु॥ वृ. “वण्ण-रस-गंध-फासेसु"त्ति तृतीयार्थे सप्तमी, ततो वर्णेन रसेन गन्धेन स्पर्शेन वा वर्णादिलक्षणैभर्विरित्यर्थः ये 'भू-दक-वनेषु' पृथिवीकाया-ऽकाय-वनस्पतिकायेषु उत्तमास्ते Page #147 -------------------------------------------------------------------------- ________________ बृहत्कल्प-छेदसूत्रम् -२-१/३४ भावप्रधानपराः । तानेव पश्चार्द्धेनोदाहरति- "मणि-खीरोदग" इत्यादि । पृथिवीकायेषु पद्मरागवज्र-वैडूर्यादिमणयःप्रधानाः, अप्कायेषु क्षीरोदकादिपानीयानि 'वृक्षेषु' वनस्पतिषु पुष्प - फलादीनि प्रधानानि ।। गतः प्रधानपरः । अथ भावपरो व्याख्यायते - भावः - क्षायोपशमिकादिस्तदपेक्षया परः-भावान्तरवर्ती भावपरः । स च दहोदयिकमाववर्ती गृह्यते । तथा चाहआढणमभुट्ठाणं, वंदन संभुंजणा य संवासो । एयाइं जो कुणई, आराधन अकुणओ नत्थि ! [ भा. २७२९] अकसायं निव्वाणं, सव्वेहि वि जिनवरेहि पन्नत्तं । सो लब्भइ भावपरो, जो उवसंते अनुवसंतो ॥ [भा. २७२८] वृ-आदरो अभ्युत्थानं वन्दनं सम्भोजनं संवासशचेत्येतानि पदानि य उपशान्तो भूत्वा करोति तस्याराधना अस्ति, यस्त्वेतानि न करोति तस्याराधना नास्ति । एतेन “जो उवसमइ तस्स अत्थि आराहणा” इत्यादिकः सूत्रावयवो व्याख्यातः । अथ किमर्थमादरादिपदानामकरणे आराधना नास्ति ? इत्याह-‘अकषायं' कषायाभावसम्भवि 'निर्वाणं' सकलकर्मक्षयलक्षणं सर्वैरपि जिनवरैः प्रज्ञप्तम् । अतो यः कश्चिदुपशान्तेऽपि साधावनुपशान्त आदरादिपदानामकरणेन सकषायः स भावपरो लभ्यते, औदयिकभाववर्त्तित्वात् ॥ १४४ अथाचार्यस्तमुपशान्तसाधुं प्रज्ञापयन् प्रस्तुतयोजनां कुर्वन्नाह [भा. २७३०] सो वट्टइ ओदइए, भावे तं पुन खओवसमियम्मि । जह सो तुह भावपरो, एमेव य संजम-तवाणं ।। वृ- भो भद्र ! 'सः' द्वितीयः साधुरद्याप्यौदयिके भावे वर्त्तते, त्वं पुनः क्षायोपशमिके भावे वर्त्तसे । अतो यथाऽसौ 'तव' त्वदपेक्षया भावपरस्तथा संयम - तपोभ्यामप्ययं परः- पृथग्भूत इति । अतस्त्वया न काचित् तदीया चिन्ता विधेया ॥ द्वितीयपदे कुर्यादप्यधिकरणम्, यत आह[ भा. २७३१] खेत्ताद कोविओ वा अनलविगिंचट्टया व जाणं पि । अहिगरणं तु करेत्ता, करेज सव्वाणि वि पयाणि ।। वृ-क्षिप्तचित्तः आदिशब्दाद् ध्प्तचित्तो यक्षाविष्टद्येवा अनात्मवशत्वादधिकरणं कुर्यात् । 'अकोविदो वा' अद्याप्यपरिणतजिनवचनः शैक्षः सोऽप्यज्ञत्वादधिकरणं विदध्यात् । यद्वा 'जानन्नपि ' गीतार्थोऽपीत्यर्थः अनलस्य-प्रव्रज्याया अयोग्यस्य नपुंसकादेः कारणे दीक्षितस्य तत्कारणपरिसमाप्तौ विवेचनार्थं- परिष्ठापनाय तेन सहाधिकरणं करोति, कृत्वा चाधिकरणं सर्वाण्यप्यनादरादीनि पदानि कुर्यात् ॥ मू. (३५) नो कप्पइ निग्गंथाणवा निग्गंथीण वा वासावासासु चारए ॥ [भा. २७३२] अहिगरणं काऊण व, गच्छइ तं वा वि उवसमेउं जे । पुव्वं च अनुवसंते, खामेस्सं वयइ संबंधो ॥ वृ- अधिकरणं कृत्वा वाशब्दः पक्षान्तरद्योतकः कषायानुबद्धमना अन्यत्र ग्रामादौ गच्छति । यद्वा 'तत्' अधिकरणमुत्पन्नं श्रुत्वा कश्चिद् धर्मश्रद्धावान् तदुपशमयितुमागच्छति । “जे” शब्दः पादपूरणे । यदि वा पूर्वमनुपशान्तः सन्नन्यत्र ग्रामादौ गतः, तत्र च स्वयमन्योपदेशेन वा 'क्षमयिष्याम्यहं तं साधुम्' इतिपरिणाममुपगतो भूयस्तत्रैव ग्रामे व्रजति । तच्च गमनमनेन सूत्रेण Page #148 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं- ३५, [भा. २७३२] वर्षासु प्रतिषिध्यत इत्ययं पूर्वसूत्रेण सहास्य सूत्रस्य सम्बन्धः ॥ अमुमेव तृतीयसम्बन्धप्रकारं व्याख्याति - १४५ [भा. २७३३] अहवा अखामियम्मि त्ति कोइ गच्छेज्ज ओसवणकाले । सुभमवि तम्मि उ गमणं, वासावासासु वारेइ ॥ वृ- अथवाऽनुपशान्त एवान्यत्र गतः, तत्र च वर्षासु पर्युषणाकाले समायाते सति 'अधिकरणं मयान क्षमितम्, अतः कथं मे सांवत्सरिकप्रतिक्रमणं विधीयमानं शुद्धिमेष्यति ?' इति परिभाव्य यत्र द्वितीयः साधुश्चतुर्मास्यां स्थितोऽस्ति तत्राधिकरणं क्षमयितुं कश्चिद् गच्छति, तच्च तदीयं तत्र गमनं शुभमपि वर्षवर्षासु अनेन सूत्रेण वारयतीति । अनेन सम्बन्धेनायातस्यास्य व्याख्यानो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा वर्षोपलक्षिता वर्षा वर्षवर्षास्तासु 'चरितुं' "चर गतिभक्षणयोः” इति धातुरत्र गत्यर्थो गृह्यते, ग्रामानुग्रामं पर्यटितुमित्यर्थः । यद्वा भक्षणार्थोऽप्यत्र गृह्यते, तथाहि-भक्षणं-समुद्देशनं तच्च यथा ऋतुबद्धे साधूनां तथा वर्षासु कर्तुं न कल्पते, तदानीं हि चतुर्थभक्तादिप्रत्याख्यानपरायणैर्भवितव्यम्, विकृतीनां चाभीक्ष्णं ग्रहणंन कर्तव्यमिति सूत्रार्थः ॥ अथ नियुक्तिविस्तरः [भा.२७३४] वासावासो दुविहो, पाउस वासा य पाउसे गुरुगा । वासासु होंति लहुगा, ते च्चिय पुण्णे अनिंतस्स ॥ वृ - वसन्ति - एकत्र ग्रामादौ तिष्ठन्ति लोकाः प्रायो ऽस्मिन्निति वासः, वर्षा एव वासो वर्षावासः । सद्विधा-प्रावृड् वर्षारात्रश्च । तत्र श्रावण-भाद्रपदमासौ प्रावृड्डुच्यते, अश्विन कार्तिकौ तु वर्षारात्रः । आह च चूर्णिकृत् - पाउसो सावणो भद्दवओ अ, वासारतो अस्सोओ कत्तियओ अत्ति । विशेषचूर्णिकृत् पुनराह - पाउसो आसाढो सावणो अ, वासारत्तो भद्दवओ अस्सोओ अत्ति । तत्र यदि प्रावृषि ग्रामानुग्रामं चरन्ति तदा चतुर्गुरुकाः, वर्षासु विचरतश्चतुर्लघुकाः, 'त एव' चत्वारो लघुकाः पूर्णे वर्षारात्रे ‘अनिर्यतः' अनिर्गच्छतः प्रायश्चित्तम् ॥ तत्र प्रावृषि विहरतस्तावद् दोषानाह[भा. २७३५] वासावासविहारे, चउरो मासा हवंतऽनुग्घाया । आणाइणो य दोसा, विराधना संजमाऽऽयाए ॥ वृ-इह वर्षावासः श्रावणो भाद्रपदश्चाभिधीयते, तत्र विहारं कुर्वतश्चत्वारो मासाः 'अनुद्धाताः ' गुरवः प्रायश्चित्तं भवति, आज्ञादयश्च दोषाः, विराधना च संयमात्मविषया ॥ तामेव भावयति[भा. २७३६ ] छक्कायाण विराधन, आवडणं विसम - खाणु-कंटेसु । वुमण अभिहण रुक्खोल्ल, सावय तेने गिलाणे य ॥ वृ- वर्षासु विहरतः षट्कायानां विराधना । तथा 'आपतनं' वर्षे निपतति वर्षाकल्पा"दितीमनभयाद् वृक्षादेरधस्तिष्ठतस्तदीयशाखादिना शिरस्यभिघातो भवेत् यद्वा 'आपतनं' कर्दमपिच्छिले पथि स्खलनम् । विषमे वा भूप्रदेशे नपतेत् । 'स्थाणुः' कीलकः सः कर्दमे जले वाऽ६श्यमानः पादयोरास्फलेत् । कण्टकैर्वा पादतले विध्येत् । उदकवाहेन वा गिरिनद्या वा ‘वाहनम्' उत्क्षिप्यान्यत्र नयनं भवेत् । तथा गिरिनदीतटिकया मार्गे गच्छतोऽभिघातो भवेत् । "रुक्खोल्ल” त्ति यद्यार्द्रीकरणभयाद् वृक्षमालीयते, स च वृक्षः प्रबलवातप्रेरिततया पतेत् तत्रात्म 19 10 Page #149 -------------------------------------------------------------------------- ________________ बृहत्कल्प-छेदसूत्रम् -२- १/३५ संयमविराधना । तथा यस्य वृक्षस्याधस्तिष्ठति तस्योपरि चित्रकादिकः श्वापद आरूढो भवेत् तेनानागाढमागाढं वा परिताप्येत । "तेने" त्ति अवहमानेषु मार्गेषु द्विविधाः स्तेना विश्वस्ताः सञ्चरेयुः, तैरुपधेर्वा तस्य वा साधोरपहारः क्रियेत; अकाले वा वा परिभ्रमन् स्तेनक इति शङ्कयेत । “गिलाणे” त्ति तीमितेनोपधिना प्राव्रियमाणेन भक्तेऽजीर्यमाणे ग्लानो भवेत् । एवमापतनादिष्वात्मविराधना संयमविराधना वा या यत्र सम्भवति सा तत्र योजनीया ॥ १४६ अथ षट्कायविराधनां व्याख्यानयति [भा. २७३७] अक्खुन्नेसु पहेसुं, पुढवी उदगं च होइ दुहओ वि । उल्लपयावण अगनी, इहरा पनगो हरिय कुंथू ॥ वृ- अक्षुण्णाः- अमर्दिताः पन्थानः प्रावृषि भवन्ति, तेषु विहरन् पृथ्वीकायं विराधयति । तथा 'द्विविधमपि' भौमा - ऽन्तरिक्षभेदाद् द्विप्रकारमप्युदकं तदा सम्भवति ततोऽप्कायविराधना । वर्षेण आर्द्रीभूतमुपधिं यद्यग्निना प्रतापयति तदाऽग्निविराधना । यत्राग्निस्तत्र वायुरवश्यं भवतीति 'वायुविराधनाऽपि । 'इतरथा' यद्युपधिं न प्रतापयति तदा पनकः सम्मूर्च्छति, तत्संसक्तं चोपधिं प्रावृण्यतः परिदधतः प्रत्युपेक्षमाणस्य वाऽनन्तकायसङ्घट्टनादिनिष्पन्नं प्रायश्चित्तम्; 'हरितानि वा' दूर्वादीनि तदानीमचिरोद्गतानि निरन्तराणि च भवेयुः ततो वनस्पतिविराधना । अप्रत्युपेक्षमाणो उपधौ कुन्थुप्रभृतयो जन्तवः सम्मूर्च्छन्ति, मार्गे गच्छतामिन्द्रगोपशिशुनाग-कुत्तिकादयसप्राणिनो बहवो भवन्ति ततस्त्रसकायविराधना । एवं षण्णामपि कायानां विराधना यतः प्रावृषि विहरतां भवति अतो न विहर्त्तव्यम् । द्वितीयपदे विहरेदपि कथम् ? इत्याह [भा. २७३८] असिवे ओमोयरिए, रायहुट्टे भए व गेलने । आबाहाईएसु व, पंचसु ठाणेसु रीइज्जा ।। वृ- 'अशिवे' अशिवगृहीतेषु प्रभूतेषु कुलेषु असंस्तरन्नन्यत्र गच्छेत् । परपक्षतो वा अवमोदर्ये सञ्जाते सति असंस्तरन् गच्छेत् । राजद्विष्टे विराधनाभयाद् गच्छति । 'भये वा' बोधिक- स्तेनसमुत्थे 'यद्यमी मां द्रक्ष्यन्ति ततोऽपहरिष्यन्ति' इमि मत्वा गच्छति । ग्लानो वा कश्चिदन्यत्र सञ्जातस्तस्यप्रतचरणार्थं गच्छति । आबाधादिषु वा पञ्चसु स्थानेषूत्पन्नेषु प्रावृष्यंपि 'रीयेत' ग्रामान्तर गच्छेत् । तान्येवाबाधादीनि स्थानानि दर्शयति [भा. २७३९] आबाहेव भये वा, दुब्मिक्खे वाह वा दओहंसि । पव्वहणे व परेहिं, पंचहि ठाणेहि रीइज्जा ।। वृ- आबाधं नाम - मानसी पीडा, भयं स्तेनादिसमुत्थम्, दुर्भिक्षं प्रतीतम्, एतेषु समुत्पन्नेषु, अथवा 'दकौधे' पानीयप्रवाहेण प्रतिश्रये ग्रामेवा व्यूढे सति, 'परैर्वा' प्रत्यनीकैर्दण्डिकादिभिः 'प्रव्यथने' परिभवे ताडने वा विधीयमाने, एतेषु पञ्चसु स्थानेषुप्रावृष्यपि रीयेत ॥ [भा. २७४०] एतं तु पाउसम्मी, भणियं वासासु नवरि चउलहुगा । ते चेव तत्थ दोसा, बिइयपदं तं चिमं वऽन्नं ॥ वृ- 'एतद्' अनन्तरोक्तं प्रायश्चित्तं दोषजालं द्वितीयपदं च प्रावृषि भणितम् । अथ 'वर्षासु' वर्षारात्रेऽश्विन - कार्तिकरूपे चरति ततश्चतुर्लघुकाः प्रायश्चित्तम् । 'त एव च' तत्र विहरतः षट्कायविराधनादयो दोषाः, तदेव च द्वितीयपदम् । इदं वा 'अन्यद्' अपरं द्वितीयपदमभिधीयते ॥ Page #150 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं - ३५, [भा. २७४१] [भा. २७४१] असिवे ओमोयरिएष रायद्दुट्टे भए व गेलने । नाणादितिगस्सऽट्ठा, वीसुंभण पेसणेणं वा ॥ १४७ वृ- अशिवेऽवमौदर्ये राजद्विष्टे भये वा ग्लानकारणे वा समुत्पन्ने वर्षासु ग्रामान्तरं गच्छेत्, एतावत् प्रागुक्तमेव द्वितीयपदम् । अथेदमपरमुच्यते-ज्ञानादित्रयस्यार्थायान्यत्र वर्षासु गच्छेत् । तत्रापूर्व कोऽपि श्रुतस्कन्धोऽन्यस्याचार्यस्य विद्यते स च भक्तं प्रत्याख्यातुकामो वर्त्तते, सच श्रुतस्कन्धस्तत आचार्यादगृह्यमाणो व्यवच्छिद्यते, अतस्तदध्ययनार्थं वर्षास्वपि गच्छेत । एवं दर्शनप्रभावकशास्त्राणाप्यध्ययनार्थं गच्छेत् । चारित्रार्थं नाम-तत्र क्षेत्रे स्त्रीसमुत्थदोषैरेषणादोषैर्वा चारित्रं न शुध्यतीति तन्निमित्तमन्यत्र वर्षासु गच्छेत् । "वीसुंभण" त्ति 'विष्कम्भनं नाम' कश्चिदुत्तमार्थप्रतिपत्तुकामस्तस्य विशोधिकरणार्थं गच्छेत् । "पेसणेणं व" त्ति कश्चिदाचार्येणान्यतरस्मिन् औत्पत्तिके कारणे वर्षास्वपि प्रेषितो भवेत्, स च तस्मिन् कारणे समापिते भूयोऽपि गुरूणां समीपे समागच्छेत् ॥ अथवेदं द्वितीयपदम् [भा. २७४२] आऊ तेऊ वाऊ, दुब्बल संकामिए अ ओमाणे । पाणाइ सप्प कुंथू, उट्ठण तह थंडिलस्सऽसती ॥ वृ- अप्कायेन वसति प्लाविता भवेत् स्थण्डिलानि वा व्यूढानि, अग्निकायेन वा प्रतिश्रयो ग्रामो वा दग्धः, “वाऊ" इत्ति वातेन वा तत्र वसतिर्भग्ना, “दुब्बल' त्ति वर्षेण तीम्यमाना वसतिः 'दुर्बला' पतितुकामा सञ्जाता, “संकामिए य" त्ति स ग्रामो धिग्जातीयादेः कस्यापि प्रत्यनीकस्य सङ्क्रामितः-दत्त इत्यर्थः, अथवा “संकामिए य'त्ति तानि श्राद्धकुलान्यन्यत्र ग्रामे सङ्क्रामितानि, “ओमाणे”त्ति इन्द्रमहादिषु बहवः पाण्डुराङ्गप्रभृतय आगतास्तैरवमानं सञ्जातम्, ‘प्राणादिभिर्वा' मर्कोटकोद्देहिकादिभिर्वसति संसक्ता भवेत्, सर्पो वा वसतौ समागत्य स्थितः, अनुद्धरिनामकैर्वा कुन्थुजीवैर्वसति संसक्ता समजायत, ग्रामो वा सकलोऽपि 'उत्थितः ' उद्वसीभूतः, 'स्थण्डिलस्य वा' विचारभूमिलक्षणस्य हरितकायादिभिरभावः समजनि, एवमादिकस्तत्र व्याघातो भवेत् ।। अत एव ते साधवः प्रागेवामुं विधिं विदधति [ भा. २७४३] मूलग्गांमे तिनि उ, पडिवसमेसुं पि तिनि वसहीओ । ठायंता पेहिंति उ, वियार - वाघायमइट्ठा ॥ वृ-मूलग्रामो नाम-यत्र साधवः स्थिताः सन्ति तस्मिन् तिस्रो वसतीः प्रत्युपेक्षन्ते । प्रतिवृषभग्रामा नाम-येषु भिक्षाचर्यया गम्यते तेष्वपि प्रत्येकं तिो वसतीस्तिष्ठन्त एव प्रत्युपेक्षन्ते । किमर्थम् ? इत्याह-मूलग्रामे यदि विचारभूमेर्वसतेर्वा व्याघातो भवति ततस्तेषु प्रतिवृषभग्रामेषु तिष्ठन्ति ॥ तत्राप्कायादिव्याघाते समुत्पन्ने यतनामाह [ भा. २७४४] उदगा ऽगनि वायाइसु, अन्नस्सऽ सतीइ थंभनुद्दवने । संकामियम्मि भयणा, उट्ठण थंडिल्ल अन्नत्य ॥ वृ- उदकेन वा अग्निना वा वातेन वा आदिशब्दात् त्रसप्राणादिजन्तुसंसक्त्या वा व्याघाते समुत्पन्नेऽन्यस्यां वसतौ तिष्ठन्ति । अथ नास्त्यन्या वसतिस्तत उदका ऽग्नि- वातान् स्तम्भनीविद्यया स्तनन्ति । यत्र च सर्प समागत्य तिष्ठति तत्र तस्य सर्पस्य 'अपद्रावणं' विद्ययाऽन्यत्र नयनं कुर्वन्ति । यत्र च ग्रामस्वामी कुलानि वा अन्यानि सङ्क्रान्तानि तत्र भजना कर्त्तव्या - यदि स Page #151 -------------------------------------------------------------------------- ________________ १४८ बृहत्कल्प-छेदसूत्रम् -२-१/३५ ग्रामस्वामी कुलानि वा भद्रकाणिततस्तत्रैवतिष्ठन्ति, अथ प्रान्तान ततोऽन्यत्र गच्छन्ति।अथासौ ग्राम उत्थितः स्थण्डिलानां वा व्याघातः समजायत ततोऽन्यत्र ग्रामे गच्छन्ति । अवमानदुर्बलशय्ययोर्यतनामाह[भा.२७४५] इंदमहादी व समागतेसु परउत्थिएसु य जयंति। पडिवसभेसु सखित्ते, दुब्बलसेज्जाए देसूनं ।। वृ- इन्द्रमहोत्सवादी वा बहुषु परतीर्थिकेषु समागतेषु स्वक्षेत्रे ये प्रतिवृषभग्रामास्तेषु अन्तरपल्लिकासु च भिक्षाग्रहणाय यतन्ते । अथ तेष्वपि न संस्तरन्ति ततोऽन्यत्र गच्छन्ति । 'दुर्बलशय्यायां' वर्षेण तीम्यमानतया वसतौ दुर्बलायां सातायां स्थूणां दद्यात् ।। अथ वसतिप्रमार्जने विधिमाह[भा.२७४६] दोनि उ पमजणाओ, उडुम्मि वासासु तइय मज्झण्हे। वसहिं बहुसो पमजण, अइसंघट्टऽन्नहिं गच्छे॥ वृ-वसतेरष्टसुऋतुबद्धमासेषुद्वेप्रामार्जने कर्तव्ये, तद्यथा-पूर्वाह्नेऽपराह्नेच।वर्षासुपुनस्तृतीया प्रमार्जनामध्याह्णे विधेया।अथ कुन्थुप्रभृतिभिस्त्रसप्राणैः संसक्तावसतिस्ततऋतुबद्धे वर्षावासे चयथोक्तप्रमाणादतिरिक्तमपिबहुशः प्रमार्जनं कुर्यात्। अथ बहुशःप्रमार्जने त्रसप्राणानामतीव सट्टो भवति अतिबहवो वा त्रसास्ततोऽन्यत्र ग्रामे गच्छेयुः ॥ गच्छतां च मार्गे यतनामाह[भा.२७४७] उत्तण ससावयाणिय, गंभीरानिय जलानि वजेता । तलियरहिया दिवसओ, अब्भासतरे वए खेत्ते।।। कृ'उत्तणानिनाम' उर्वीभूतानितृणानि दीर्धाणीति यावत्तानियत्रमार्गेभवन्ति, 'सश्चापदानि च' सिंह-व्याघ्रादिश्चापदोपेतानि यत्र तृणानि भवन्ति, 'गम्मीराणि च' अस्ताधानि जलानि यत्र भवन्ति, तान् मार्गान् वर्जयन्तः ‘तलिकारहिताः' अनुपानका दिवसतो गच्छन्ति न रात्रौ । यञ्चाभ्यासतरम्-अतिप्रत्यासन्नं क्षेत्रं तत्र व्रजन्ति॥ मू. (३६) कप्पइ निग्गंथाण वा निग्गंथीण वा हेमंत-गिम्हासु चारए । [भा.२७४८] दुस्संचर बहुपाणादि काउ वासासुजंन विहरिंसु । तस्स उ विवज्जयम्मी, चरंति अह सुत्तसंबंधो । वृ-वर्षासु कर्दमाकुलतया दुःसञ्चरं बहुप्राण-हरितादिसङ्खलं वा मेदिनीतलं भवतीति कृत्वा यत् तदानीं न विहृतवन्तः, तत एव 'तस्य' वर्षावासस्य 'विपर्यये' ऋतुबद्धे काले सुसञ्चरमल्पप्राणजातीयंवा मत्वा 'चरन्ति' ग्रामानुग्रामं विहरन्ति । अथ' एषपूर्वसूत्रेण सहास्य सूत्रस्य सम्बन्ध इति ॥अनेन सम्बन्धेनायातस्यास्य व्याख्या-कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा हेमन्त-ग्रीष्मयोरष्टसु ऋतुबद्धपासेषु चरितुं' ग्रामानुग्रामंपर्यटितुमिति सूत्रार्थः॥ अथ नियुक्तिविस्तरः[भा.२७४९] पुन्ने अनिग्गमे लहुगा, दोसा ते चेव उग्गमादीया। दुब्बल-खमग-गिलाणा, गोरस उवहिं पडिच्छंति॥ - वृ- यदि पूर्णे वर्षावासे ततः क्षेत्रान्न निर्गच्छन्ति ततश्चत्वारो लघुकाः त एव चोद्गमाशुद्धिस्त्रीसमुत्थादयो दोषाये मासकल्पप्रकृते दर्शिताः ।अपरेचामी दोषाः- "दुब्बल" इत्यादि। Page #152 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं- ३६, [भा. २७४९] १४९ ये साधव आचाम्लेन 'दुर्बलाः' कृशीभूतशरीरास्ते 'कदा वर्षावासः पूरिष्यते ?' इत्येव निर्गमनं प्रतीक्षमाणा यत् परितापनादिकमवाप्नुवन्ति तन्निष्पन्नं प्रायश्चित्तम् । क्षपका वा विकृष्टतपोनिष्टप्तवपुषो निर्गमनं प्रतीक्षन्ते; ग्लानो वा अधुनोत्थितो दुःखं तत्र तिष्ठति, चतुर्मासादूर्ध्वमप्य- बस्तानेन क्षेत्रस्य चमढिततया तथाविधपथ्याद्यभावात्; गोरसधातुको वा कश्चित् सिन्धुदेशीयः प्रव्रजितः सोऽपि गोरसाभावान्न तत्र स्थातुं शक्नोति; ततस्तेन विना यत् परिताप्यन्ते तन्निष्पन्नमनिर्गच्छतां प्रायश्चित्तम् ॥ अथ निर्गच्छन्ति ततः किं भवति ? इत्याह [भा. २७५०] एए न होंति दोसा, बहिया सुलभं च भिक्ख उवही य । भवसिद्धिया उ वाणा, बिइयपय गिलाणमादीसु ॥ वृ- वर्षावासे पूर्णे निर्गच्छताम् 'एते' अनन्तरोक्ता दोषा न भवन्ति । 'बहिश्च' बहिर्ग्रामेषु विहरतां भैक्षं सुलभं भवति, तेन च दुर्बल क्षपकादीनामाप्यायना स्यात् । उपधिश्च बहि प्राप्यते । भवसिद्धिकाश्च सत्त्वा बोधमासादयन्ति । केचिद्वा तदानीमाचार्याणां दर्शनमभिलषन्त तेषां सर्वविरत्यादिप्रतिपत्ति । आज्ञा च भगवतां तीर्थकृत्वां कृत्वा भवति । यत एवमतो वर्षावासानन्तरं निर्गन्तव्यम् । द्वितीयपदे ग्लानादिषु कारणेषु न निर्गच्छन्ति, आदिशब्दादवमौदर्यादिपरिग्रहः । अत्र च यतना मासकल्पप्रकृते “चउभाग तिभागऽद्धे, जयंतऽनिच्छे अलंभे वा ।" इत्यादिना दर्शिता तथैव द्रष्टव्या ॥ [भा. २७५१] तम्हा उ विहरियव्वं, विहिना जे मासकप्पिया गामा । छड्डेइ वंदणादी, तइ लहुगा मग्गणा पत्था ॥ वृ-यदि ग्लानादिकारणंन स्यात् ततोऽवश्यं विधिना मासकल्पप्रकृतोक्तेन ये मासकल्पप्रायोग्या ग्रामास्तेषु विहर्त्तव्यम् । अथ मासकल्पप्रायोग्याणि क्षेत्राणि “चैत्यवन्दनादिभि" वक्ष्यमाणैः कारणैः छर्दयति तदा यावन्ति क्षेत्राणि परित्यज्य गच्छति तावन्ति चतर्लघुकानि । " मग्गणा पत्थ" त्ति द्वितीयपदे मासकल्पप्रायोग्यक्षेत्राणामपि परित्यागे ये गुणास्तेषां 'मार्गणा' अन्वेषणा 'पथ्या' हिता ॥ अथ वन्दनादीन्येव कारणानि प्रतिपादयति [भा. २७५२] • आयरिय साहु वंदन, चेइय नीयल्लए तहा सन्नी । गमनं च देसदंसण, वइगासु य एवमाईणि ॥ वृ- आचार्याणां साधूनां चैत्यानां वा वन्दनार्थं गच्छति । 'निजकाः ' संज्ञातकाः 'संज्ञिनः ' श्रावकास्तेषामुभयेषामपि दर्शनार्थं देशदर्शनार्थं वा गमनं करोति । व्रजिकासु वा 'क्षीरादिकं लप्स्येऽहम्' इति कृत्वा गच्छति । एवमादीनि कारणानि मासकल्पयोग्यक्षेत्रं परित्यजन्नवलम्बते ।। अथामून्येव व्याख्यानयति [भा. २७५३] अप्पुव्व विवित्त बहुस्सुया य परियारवं च आयरिया । परियारवज्ज साहू, चेइय पुव्वा अभिनवा वा ॥ वृ- 'अपूर्वा' अदृष्टपूर्वा 'विविक्ताः ' निरतिचारचारित्राः 'बहुश्रुता नाम' युगप्रधानागमा विचित्रश्रुता वा 'परिवारवन्तश्च' बहुसाधुसमूहपरिवृताः, एवंविधा आचार्या अमुकत्र नगरादौ तिष्ठन्ति तानहं वन्दिष्ये । साधवोऽप्येवंविधगुणोपेता एव, नवरं परिवारवर्जास्ते भवन्ति । चैत्यानि ‘पूर्वाणि वा’ चिरन्तनानि जीवन्तस्वामिप्रतिमादीनि 'अभिनवानि वा' तत्कालकृतानि, 'एतानि www.jainėlibrary.org Page #153 -------------------------------------------------------------------------- ________________ १५० बृहत्कल्प-छेदसूत्रम् -२-१/३६ ममाष्टपूर्वाणि' इति बुद्धा तेषां वन्दनाय गच्छति॥ - [भा.२७५४] गाहिस्सामि व नीए, सण्णी वा भिक्खुमाइ वुग्गाहे । बहुगुण अपुव्व देसी, बइगाइसु खीरमादीणि ॥ वृ-तथा 'निजकान्वा' संज्ञातकान् 'ग्राहयिष्यामि' बोधयिष्यामीत्यर्थः, संज्ञिनोवा' श्रावकान् 'भिक्षुकादि' तच्चन्निक-परिव्राजकादिपरपाषण्डी व्युभाहयति तेषां स्थिरीकरणार्थम्, देशो वा 'बहुगुणः' सुलभभैक्षतादिगुणोपेतोऽपूर्वश्च वर्तते, वजिकायां-गोकुले आदिशब्दात् प्रचुरद्रव्यपतिग्रामादिषु वा क्षीर-दधि-धृता-ऽवगाहिमादीनि लभ्यन्ते, एवमादिभिः कारणैर्मासकल्पप्रायोभ्याणि क्षेत्राणि परित्यजति ।। अत्र दोषान् दर्शयति[भा.२७५५] अद्धाणे उव्वाता, भिक्खोवहि साण तेन पडिनीए। ओमाण अभोज घरे, थंडिल असतीइ जे जत्थ ।। कृतेसाधवोऽध्वनिव्रजन्तः उद्वाताः' परिश्रान्ताः सन्तश्चिन्तयन्ति-अत्रग्रामेगुरवः स्थास्यन्ति। आचार्याश्च तं ग्रामं व्यतीत्याग्रतो गताः, ततस्ते छिन्नायामाशायां व्रजन्तो यदनागाढमागाढं वा परिताप्यन्ते तन्निष्पन्नं सूरीणां प्रायश्चित्तम् । मैक्षं वा तत्र स्फिटितायां वेलायां न प्राप्येत, अत्यन्तपरिश्रान्ता तानेव वाऽपहरेयुः, प्रत्यनीको वा तदानीं विजनं मत्वा हन्याद्वा मारयेद्वा, अवमानं वा स्वपक्षतः परपक्षतो वा भवेत्, ‘अभोज्यगृहेषुवा' रजकादिसम्बन्धिषुभिक्षां गृह्णीयुः तत्रैय वा तिष्ठेयुः, ततश्च प्रवचनविराधना | स्थण्डिलानि वा तत्र न भवेयुः, तेषामभावे संयमात्मविराधना । एवं ये यत्र दोषाः सम्भवन्ति ते तत्र योजयितव्याः।। अथ द्वितीयपदमाह[भा.२७५६] बिइयपए असिवाई, उवहिस्स उ कारणा व लेवो वा। . बहुगुणतरं व गच्छे, आयरियाई व आगाढे ॥ वृ-द्वितीयपदेऽशिवादीनि कारणानि विज्ञाय व्यतिव्रजेयुरपि । तत्र यदपान्तराले क्षेत्रं तदशिवगृहीतम्, आदिशब्दादवभौदर्य-राजद्विष्यादिदोषयुक्तं स्वाध्यायो वा तत्र न शुद्धतीत्यादिपरिग्रहः । उपधि-वस्त्र-पात्रादिरुपस्तत्र न लभ्यते, पुरोवर्तिनितु ग्रामादौ लभ्यते, अतस्तस्य कारणात्। लेपोवाअग्रतोवर्तिनि ग्रामे लभ्यतेन तत्र । गच्छस्य वा बहुगुणतरंतत्क्षेत्रम्, श्वानप्रत्यनीकाद्यभावाद् भिक्षात्रयवेलासद्भावाञ्च । आचार्यादीनां वा प्रायोग्यं तत्र विद्यते, यद्वा "आयरियाईव"त्तिसम्यक्त्वंग्रहीतुकामाः केचिदाचार्याणांदर्शनंकाङ्क्षन्ति; आदिशब्दात्परप्रवादी वा कश्चिदुद्धोषणां कारयेत्, यथा-शून्याः परप्रवादा इन्यादि; ते चाचार्या वादलब्धिसम्पन्नाः अतस्तन्निग्रहार्थं गच्छेयुः । “आगाढे" त्ति आगाढयोगवाहिनां वा प्रायोग्यमांग न प्राप्यते, परस्मिन् ग्रामे तुप्राप्यते । यद्वा आगाढं सप्तधा, तद्यथा-द्रव्यगाढं क्षेत्रागाढं कालागाढं भावागाढं पुरुषागाढं चिकित्सागाढं सहायागाढम् । तत्र द्रव्यागाढेषणीयं द्रव्यं तत्र न लभ्यते । क्षेत्रागाढं नाम तदतीव खलु (खुल) क्षेत्रम्, स्वल्पभैक्षदायकमित्यर्थः । कालागाढं तत् क्षेत्रं न ऋतुक्षमम् । भावागाढं ग्लानादिप्रायोग्यं तत्र न लभ्यते । पुरुषागाढमाचार्यादिपुरुषाणां तदकारकम् । चिकित्सागाढं वैद्यास्तत्र न प्राप्यन्ते । सहायागाढं सहायास्तत्र न सन्तीति॥ . [भा.२७५७] एएहिं कारणेहिं, एक्क-दुगंतर तिगंतरं वा वि । संकममाणो खेत्तं, पुट्ठो विजओ नऽइक्कमइ ॥ Page #154 -------------------------------------------------------------------------- ________________ उद्देशक : :१, मूलं- ३६, [भा. २७५७] १५१ वृ- 'एतैः' अशिवादिभिः कारणैरेकं वा द्वे त्रीणि वा अपान्तरालक्षेत्राण्यतिक्रम्यापरं क्षेत्रं सङ्क्रामन् पूर्वोक्तैर्दोषैः स्पृष्टोऽपि न दोषवान् भवति । 'यतः ' यस्मात् तीर्थकराज्ञामसीनातिक्रामति, यद्वा 'यतो नाम' यतनायुक्तः ॥ [ भा. २७५८] निक्कारणगमणम्मिं, जे चिय आलंबणा उ पडिकुट्ठा । कज्जम्मि संकमंतो, तेहिं चिय सुज्झई जयणा ॥ वृ- 'निष्कारणे' अशिवाद्यभावे यद् गमनम् - अपान्तरालक्षेत्रपरित्यागेन क्षेत्रान्तरसङ्क्रमणं तत्र 'यान्येव' आचार्य साधु-चैत्यवन्दनादीन्यालम्बनानि 'प्रतिकुष्टानि', 'कार्ये' द्वितीयपदे ज्ञानदर्शनादिविशुद्धिनिमित्तं सङ्क्रामन् 'तैरेव' आचार्यादिभिरालम्बनैः यतनायुक्तः 'शुध्यति' अदोषभाग भवति ॥ मू. (३७) नो कप्पइ निग्गंथाण वा निग्गंथीण वा वेरज्ज-वि-रुद्धरज्जुंसि सज्जं गमणं सज्जं आगमनं सज्जं गमनागमनं करित्तए। जो खलु निग्गंथो वा निग्गंधी वा वेरज्ज-विरुद्धरज्जुंसि सज्जं गमणं सज्जं आगमनं सज्जं गमनागमनं करेइ, करितं वा साइज्जइ, से दुहओ विइक्कममाणे आवज्जइ चाउम्मासियं परिहारट्ठाणं अनुग्धाइयं ॥ [भा. २७५९] चारो त्ति अइपसंगा, विरुद्धरज्जे वि मा चरिज्जाहि । इय एसो उवधाओ, वेरज्जविरुद्धसुत्तस्य ॥ वृ- अनन्तरसूत्रे हेमन्त - ग्रीष्मयोग्रमानुग्रामं 'चारः' गमनं कर्त्त कल्पते इत्युक्तेऽतिप्रसङ्गतो विरुद्धाराज्येऽपि वर्त्तमान मा चारीदित्यभिप्रायेणेदं सूत्रमारभ्यते । एष वैराज्यविरुद्धराज्यसूत्रस्य ‘उपोद्घातः’ सम्बन्धः ।। अनेनायातस्यास्य व्याख्या -नो कल्पते निर्ग्रन्थीनां वा वैराज्य विरुद्ध राज्ये ‘सद्यः’ तत्कालं गमनं सद्य आगमनं सद्यो गमनागमनं कर्तुम् । यः खलु निर्ग्रन्थो वा निर्ग्रन्थी वा राज्य - विरुद्ध राज्ये सद्यो गमनं सद्य आगमनं सद्यो गमनागमनं करोति, कुर्वन्तं वा 'स्वादयति' अनुभोदयति, सः 'द्विधाऽपि' तीर्थकृतां राज्ञश्च सम्बन्धिनीमाज्ञामतिकामन् 'आपद्यते प्राप्नोति चातुर्मासिकं परिहारस्थानमनुद्धातिकम्, चतुर्गुरुकमित्यर्थः । इति सूत्रसङ्क्षेपार्थः ।। अथ विस्तरार्थं भाष्यकृदाह [भा. २७६०] वेरं जत्थ उ रज्जे, वेरं जायं व वेररज्जुं वा । जं च विरज्जइ रजं, रज्जेणं विगयरायं वा ॥ वृ- यत्र राज्ये पूर्वपुरषपरम्परागतं वैरं तद् वैराज्यमुच्यते, नैरुक्ती शब्दनिष्पत्ति । यद्वा न पूर्वपुरुषपरम्परागतं परं सम्प्रति ययोराज्ययोर्वैरं 'जातम्' उत्पन्नं तद् वैराज्यम् । अथवा परकीयग्रामनगरदाहादीनि कुर्वन् यत्र राजादि वैरे - विरोधे रज्यते ताध्शं डमरं वैराज्यमुच्यते । यदि वा यद् राज्यममात्यादिप्रधानपुरुषसमूहरुपं “रज्जेणं" ति विवक्षितेन राज्ञा सह 'विरज्यते' विरक्तीभवति तद् वैराज्यम् । इष्टरुपनिष्पत्ति सर्वत्रापि निरुक्तिवशात् । यद्वा विगतः मृतः प्रोषितो वा राजा यत्र तद् विगतराजकम-अराजकमित्यर्थः, तदेव वैराज्यम् । यत्र तु द्वयोरपि राज्ञो राज्ये परस्परं गमनागमनं विरुद्धं तद् विरुद्धराज्यमुच्यते ।। अथ सद्यः प्रभृतीनि शेषपदानि व्याचष्टेसजग्गहणा तीयं, अनागयं चेव वारियं वेरं । पन्नग पडुच गयं, होजाSS गमनं व उभयं वा ॥ [भा. २७६१] Page #155 -------------------------------------------------------------------------- ________________ १५२ बृहत्कल्प-छेदसूत्रम् -२- १/३७ वृ- सद्यः- वर्तमानकालभावि यद् वैरं तत्र गमनादिकं न कल्पते, एवं सद्योग्रहणादतीतमनागतं च वैरं निवारितं भवति, यत्र वैरं पूर्वोत्पन्नमस्ति यत्र वा भविष्यत्तया सम्भाव्यमानं तत्रापि क्षेत्रे गमनादीनि न कर्त्तव्यानीति भावः । तथा प्रज्ञापकं प्रतीत्य 'गतं' गमनमागमनम् 'उभयं वा' गमनागमनमत्र भवति । तत्र यत्र प्रज्ञापकस्तिष्ठति ततो यदन्यत्र गम्यते तद् गमनम्, अन्यतः स्थानात् प्रज्ञापकसम्मुखं यदागम्यते तदागमनम्, गत्वा प्रत्यागमने विधीयमाने गमनागमनम् ॥ अथ वैरशब्दस्य निक्षेपमाह [भा. २७६२] नामं ठवणा दविए, खेत्ते काले य भाववेरे य । तं महिस-वसभ-वग्घा -सीहा नरएसु सिज्झणया || वृ- नामवैरं स्थापनावैरं द्रव्यवैरं क्षेत्रवैरं कालवैरं भाववैरं चेति षड्विधं वैरम् । तत्र नामस्थापनावैरे सुगमे । द्रव्यवैरं तु यद् द्रव्यनिमित्तं गोत्रजादीनां वैरमुत्पद्यते । क्षेत्रवैरं यस्मिन् क्षेत्रे यस्य वा क्षेत्रस्य हेतोर्वैरमुत्पद्यते । कालवैरं तु यस्मिन् काले वैरमुत्पद्यते, यावन्तं वा कालं वैरं वर्त्तते । भाववैरं तु पश्चार्द्धेनाह - "तं महिस" इत्यादि । तद्' इति भाववैरं “महिष-वृषभ” इत्यादिना तु दृष्टान्तसूचा । स चायम्- एगत्थ गामे गावीओ चोरेहिं गहियाओ । तओ जो गामस्स महयरगो सो कुढेण निग्गओ । अम्मियाओ गावीओ । जुद्धं संपलग्गं । चोराहिवो सेनावई महत्तरेण सह संपलग्गो । ते रुद्दज्झाणोवगया एक्कमेक्कं वहेउं मया पढमपुढवीए नारगा उववन्ना । तओ उव्वट्टा ते दो वि महिसा जाया । अन्नमन्नं पासित्ता आसुरत्ता ज्झुज्झिउं मया दुच्चं पुढविं गया । तओ उव्वट्टित्ता वसभा जाया । तेनेव वेरेणं अन्नमन्नं मारित्ता पुनो दुचं पुढविं गया । ओ उव्वट्टित्ता दो वि वग्घा जाया । तत्थ वि अन्नोन्नं वहित्ता मया तच्चं पुढविं गया । ततो उव्वट्टित्ता दो वि सीहा उववन्ना । तत्थ वि एक्क मेक्कं वहित्ता मया चउत्थपुढवीए नारगा उववन्ना । ततो उव्वट्टा दो वि मनुएसु उववन्ना । तत्थ जिनसासणं पवन्ना, सिद्धा य ॥ एतद् भाववैरं मन्तव्यम् । अत्र चानेनैवाधिकार इति ॥ वैराज्यग्रहणादेतेऽप्यर्था सूचिता भवन्तीति दर्शयति [भा. २७६३] अनराए जुवरा, तत्तो वेरज्जए अ वेरजे । एत्तो एक्विक्वम्मिउ, चाउम्मासा भवे गुरुगा ।। वृ- अराजके यौवराज्ये तश्च वैराज्ये द्वैराज्ये चेति चतुर्णां भेदानामेकैकस्मिन् भेदे गच्छतस्तपःकालविशेषिताश्चतुर्मासा गुरुका भवेयुः । तत्र प्रथमे द्वाभ्यामपि तपः- कालाभ्यां लघवः द्वितीये कालगुरवः, तृतीये तपोगुरवः, चतुर्थे द्वाभ्यामपि गुरवः ॥ अराजकादीनामेव चतुर्णां व्याख्यानमाह[भा.२७६४] अनरायं निवमरणे, जुवराया जाव दोच्च नऽभिसित्तो । वेरजं तु परबलं, दाइयकलहो उ वेरजं ॥ वृ-नृपस्य प्राक्नस्य राज्ञो भरणे सञ्जते सति यावदद्यापि राजा युवराजश्चैतौ द्वावपि नाभिषिक्तौ तावदराजकं भण्यते प्राचीननृपतिना यो यौवराज्येऽभिषिक्त आसीत् तेनाधिष्ठितं राज्यम् परमनेन यावन्नाद्यापि द्वितीयो युवराजोऽभिषिक्तः तावद् यौवराज्यमुच्यते । यत्र तु 'परबलं' परचक्रमागत्य विडवरं करोति तद् वैराज्यम् । यत्र तु द्वयोर्दायकयोः-सगोत्रयोरेकराज्याभिलाषिणोः स्वस्वकटकसन्निविष्टयोः परस्परं कलहः - विग्रहस्तद् द्वैराज्यमुच्यते ॥ व्याख्यातं वैराज्यम् । अथ विरुद्धराज्यंव्याखानयति Page #156 -------------------------------------------------------------------------- ________________ १५३ उद्देशकः १, मूलं-३७, [भा. २७६५] [भा.२७६५] अविरुद्धा वाणियगा, गमना-ऽऽगमनं च होइ अविरुद्धं । निस्संचार विरुद्धे, न कप्पए बंधणाईया॥ वृ-यत्र वैराज्ये वाणिजकाः परस्परं गच्छन्तोऽविरुद्धास्तत्र साधूनामपि गमानगमनं विरुद्धं न भवति, कल्पते तत्र गन्तुमिति भावः । यत्र तु वणिजां शेषजनपदस्य च निस्सञ्चारं कृतंगमनागमननिषेधो विहितस्तद् वैराज्यं नृपतिविहिताः बन्धनादयो दोषास्तत्र भवन्तीति ॥ तत पुनर्गमनागमनं कथं भवति? इत्याह[भा.२७६६] अत्ताण चोर मेया, वा सोणिय पलाइणो पहिया। पडिचरगा य सहाया, गमनागमनम्मि नायव्वा ।। वृ- इह विरुद्धराज्ये गच्छतामनेके प्रकाराः-तत्र “अत्ताण"त्ति संयता आत्मनैव चौरादिसहायविरहिता गच्छन्ति, एष चूर्ण्यभिप्रायः; निशीथचूर्ण्यभिप्रायस्तु-“अत्ताण"त्तिअत्राणा नाम-स्कन्धन्यस्तलगुडद्वितीया ये देशान्तरंगच्छन्ति कार्पटिकावातैः सह साधवोऽपिगच्छन्तीति प्रथमः प्रकारः, एवमुत्तरत्रापि भावना कार्या १ तथा 'चौराः' गवादिहारिणः २, 'मेदा नाम' गृहीतचापा दिवा रात्रौचजीवहिंसापराम्लेच्छविशेषाः ३, 'वागुरिकाः' पाशप्रयोगेण मृगघातकाः ४, शौनिकाः' शुनिकाद्वितीया लुब्धकाः ५, ‘पलायिनो नाम' ये भटादयो राज्ञः पृच्छां विना सकुटुम्बाः प्रणश्य राज्यान्तरंगच्छन्ति ६, पथिकाः' नानाविधनगर-ग्राम-देशपरिभ्रमणकारिणः७, 'प्रचिचरका नाम' ये परराष्ट्रस्वरूपं प्रच्छन्नचारितया गवेषयन्ति, हेरिका इत्यर्थः ८ । एते आत्मादयोऽत्राणादयोवाऽष्टौभेदाभवन्ति। केषाञ्चिदाचार्याणां वागुरिकाः शौनिकाश्चद्वयेऽप्येक एव भेदस्तन्मतेनाष्टमा अहिमरका भवन्ति । अहि-सर्पस्तद्वदकृतेऽप्यपकारे परं मारयन्तीत्यहिमरकाः। एते सहायाः साधूनां वैराज्यगमनागमने ज्ञातव्याः ॥ एतेष्वेव भङ्गोपदर्शनायाह[भा.२७६७] अतताणमाइएसु, दिय पह दिढे य अट्ठिया भयणा । एत्तो एगयरेणं, गमनागमनम्मि आणाई। वृ-आत्मादिभेदेषु अत्राणादिषुवा सहायेष्वेकैकस्मिन् दिवा-पथ-दृष्टपदैः सपरतिपक्षैरष्टिका भजना भवति, अष्टावष्टौ भङ्गा भवन्तीत्यर्थः । तथाहि-आत्मना सहायविरहिता दिवा मार्गेण राजपुरुषैदृष्टा गच्छन्ति १ आत्मना दिवा उन्मार्गेण राजपुरुषैरदृष्टाः ४आत्मना रात्रौ मार्गेण दृष्टाः ५ आत्मना रात्रौ मार्गेणादृष्टाः ६ आत्मना रात्रौ उन्मार्गेण दृष्टाः ७ आत्मना रात्रावुन्मार्गेणाष्टा गच्छन्ति ८ । एवं चौरादिभि द्वितीयव्याख्यानापेक्षया त्वत्राणादिभि प्रतिचरकान्तैः सहायैरपि सार्द्धं गच्छतां प्रत्येकमष्टौ भङ्गाः कर्तव्याः । “एत्तो एग" इत्यादि पश्चार्द्धम्-एतेषामष्टानां भेदानां प्रत्येकमष्टविधानांमध्यादेकतरेणापिप्रकारेणेयो गमनागमनं करोति तस्याऽऽज्ञा-ऽनवस्थादयो दोषा भवन्ति। प्रायश्चित्तं चेदम्[भा.२७६८] अत्ताणमाइएसुं दिय-पह-दिडेसु चउलहू होति। राओ अपह अदिटे, चउगुरगाऽइक्कमे मूलं ।। वृ-आत्मादिष्वत्राणादिषुवा पदेषुयेदिवाविषयाः प्रथमे चत्वारो भङ्गकास्तेषुपथ-दृष्टपदाभ्यां सप्रतिपक्षाभ्यामुपलक्षितेषुतपः-कालविशेषिताश्चत्वारोलघुकाः।येतुरात्रिविषयाः पाश्चात्याश्चत्वारो भङ्गकास्तेषु अपथा-ऽष्टपदाभ्यांसप्रतिपक्षाभ्यामुपलक्षितेषुतपः-कालविशेषिताश्चत्वारोगुरुकाः। Page #157 -------------------------------------------------------------------------- ________________ बृहत्कल्प-छेदसूत्रम् - २-१ / ३७ १५४ यतो राज्यात् प्रधावितस्तस्य 'अतिक्रमे' अतिलङ्घने कृते सति मूलम् ॥ अथ सर्वभङ्गपरिमाण - ज्ञापनार्थमाह [भा. २७६९] अत्ताणमाइयाणं, अट्ठण्हऽट्ठहि पहि भइयाणं । चउसट्ठिए पयाणं, विराधना होइमा दुविहा ॥ वृ-आत्मादीनामत्राणादीनां वा अष्टानां पदानामष्टभिः 'पदैः' भङ्गैः प्रत्येकं 'भक्तानां' गुणितानां चतुःषष्टिसङ्ख्यानि भङ्गकपदानि भवन्ति । चतुःषष्टेश्च पदानामन्यतरेण गच्छत इयं 'द्विविधा' संयमाSSत्मलक्षणा विराधना भवति ॥ तामेवाह [भा. २७७०] छक्काय गहणकड्डण, पंथं भित्तूण चेव अइगमनं । सुन्नम्मिय अइगमणे, विराधना दुण्ह वग्गाणं ॥ वृ- अपथे- अशस्त्रोपहतपृथिव्यां गच्छन् पृथिवीकायम्, नद्यादिसन्तरणेऽवश्यायसम्भवे वाऽप्कायम्, दवानलसम्भवे सार्थिकप्रज्वालिताग्निप्रतापनेवा तेजः कायम्, “यत्राग्निस्तत्र नियमाद् वायुर्भवति" इति कृत्वा वायुकायम्, हरितादिमर्दने प्रलम्बासेवने वा वनस्पतिम्, पृथिव्युदकवनस्पतिसमाश्रितत्रसानां परितापनादौ त्रसकायम्, एवं षट्कायान् विराधयति इति संयमविराधना । तथा राजपुरुषा ग्रहणाकर्षणादिकं विदध्युरित्यात्मविराधना । अथ ते साधवः 'पन्थानं' मार्गं भितत्त्वोत्पथेन परनपदे ‘अतिगमनं' प्रवेशं कुर्वन्ति ततो गाढतरेऽपराधे लगन्ति । 'शून्ये वा' स्थानपालविरहिते मार्गेऽतिगमने विधीयमाने 'द्वयोरपि वर्गयोः संयतानां सहायानांच विराधना भवतीति ।। अथ षट्कायविराधनायां तावत् प्रायश्चित्तमाह [भा. २७७१] छक्काय चउसु लहुगा, परित्त लहुगा य गुरुग साहारे । संघट्टण रितावण, लगु गुरुगऽइवायणे मूलं ॥ वृ- अस्या व्याख्या प्राग्वत् ।। अथ ग्रहणाकर्षणापदं व्याचष्टे [भा.२७७२] संजय-गिहि-तदुभयभद्दया य तह तदुभयस्स वि य पंता । चउभंग गोम्मिएहिं, संजयभद्दा विसज्जेंति ॥ वृ- गोल्मिका नाम ये राज्ञः पुरुषाः स्थानकं बद्धवा प्थानं रक्षयन्ति तेषु चतुर्भङ्गी-संयतभद्रका गृहस्थप्रान्ताः १, गृहिणां भद्रकाः संयतप्रान्ताः २, संयतभद्रका अपि गृहस्थभद्रका अपि ३, न संयतभद्रका न गृहस्थभद्रकाः किन्तु तदुभयस्यापि प्रान्ताः ४ । अत्र ये संयतभद्रका गौल्मिकाः प्रथमतृतीयभङ्गवर्त्तिन इत्यर्थः ते साधून् गच्छतो विसर्जयन्ति न निरुन्धते ॥ [भा. २७७३] संजयभद्दगमुक्के, बीया घेत्तुं गिही वि गिण्हंति । जे पुन संजयपंता, गिण्हंति जई गिही मुत्तुं ॥ वृ- संयतभद्रकैर्मुक्तानपि साधून् 'द्वितीयाः' द्वितीयभङ्गवर्त्तिनः स्थानपालकास्ते संयतप्रान्तत्वाद् गृह्णन्ति, गृहीत्वा च ते 'गृहिणोऽपि' प्रथमस्थानपालकान् गृह्णन्ति, यस्माद् 'अमीभि समं यूयं गच्छतेत्यतो यूयमप्यपराधिनः' इति कृत्वा । ये पुनः संयतप्रान्ताः, पुनः शब्दो विशेषणे, किं विशिनष्टि ? ये गौल्मिकाः संयतानामेवातीव प्रद्विष्टास्ते गृहिणो मुक्त्वा यतीन् गृह्णन्ति, गृहीत्वा च बन्धनादिकं कुर्युः ।। [भा. २७७४] पढम- तइयमुक्काणं, रज्जे दिट्ठाण दोण्ह वि विनासो । Page #158 -------------------------------------------------------------------------- ________________ १५५ उद्देशक : १, मूलं-३७, [भा. २७७४] पररज्जपवेसेवं, जओ वि णिती तहिं पेवं ।। वृ-प्रथमतृतीयभङ्गयोः संयतभद्रकैर्मुक्ताः सन्तः साधवः परराज्ये प्रविष्टा दृष्टाश्च राजपुरुषः, ततः पृष्टाः-किमुत्पथेनायाताः? उतपथा? यदिसाधवो भणन्ति उत्पथेन' तत उन्मार्गगामित्वात् 'चारिका एते' इति कृत्वा ग्रहणाकर्षणादिकं प्राप्नुवन्ति । अथ ब्रुवते 'पथा वयमागताः' ततो द्वयोरपि वर्गयोर्विनाशो भवति,संयतानां स्थानपालकानांचेति भावः । एवं परराज्यप्रवेशे दोषा अभिहिताः । यतोऽपि राज्याद् निर्गच्छन्ति तत्राप्येत एव दोषा भवन्ति ॥ अथ “पंथं भित्तूण" इत्यादिपदं व्याख्यानयति[भा.२७७५] रक्खिजइ वा पंथो, जइ तं भित्तूण जनवयमइंति। गाढतरं अवराहो, सुत्ते सुने व दोण्हं पि॥ वृ-अथ चौर-हेरिकादिभयात् पन्था रक्ष्यते, न वा कस्यापि गमनागमनं कर्तुं स्थानपालकाः प्रयच्छन्ति, ततस्तं पन्थानं भित्त्वा यद्युत्पथेन परनृपतेर्जनपदम् ‘अतियन्ति' प्रविशन्ति ततो गाढतरमपराधोभवति, महान्दोषस्तेषां लगतीतिभावः ।अत्र साधूनामेवदोषोनस्थानपालकानाम्। अथ स्थानपालकाः सुप्ता भवन्ति शून्यं वा तत् स्थानकं वर्तते, स्थानपालकानामन्यत्र कुत्रापि गमनात्, तत्र यदि साधवो गच्छन्ति तदा 'द्वयोरपि वर्गयोः' स्थानपालकानां संयतानां चेत्यर्थःग्रहणाकर्षणादयो दोषा भवन्ति ॥ तानेव सप्रायश्चित्तान् दर्शयति[भा.२७७६] गेण्हणे गुरुगा छम्मास कड्डणे छेओ होइ ववहारे । पच्छाकडे य मूलं, उड्डहण विरुंगणे नवमं ॥ [भा.२७७७] उद्दावण निव्विसए, एगमनेगे पओस पारंची। अणवठ्ठप्पो दोसुय, दोसुय पारंचिओ होइ । वृ-गाथाद्वयस्यापि व्याख्या प्राग्वत् ।। एवमात्मनैवासहायानामनाणसहायानां वा गच्छतां दोषा अभिहिताः । अथ चौरादिसहाययुक्तानां दोषानतिदिशन्नाह[भा.२७७८] एमेव सेसएहि वि, चोराईहि समगंतु वच्चंते। सविसेसयरा दोसा, पत्थारो जाव भंसणया। वृ-एवमेव चौर-प्रतिचरकादिसहायैःशेषैरपिव्रजतांदोषास्तएव ग्रहणाकर्षणादयोवक्तव्याः, परं सविशेषतराः । तथाहि-तेषां साधूनां दोषेण यदन्येषामपि तद्गच्छीयानां परगच्छीयानां वा कुलस्य वागणस्य वा सङ्घस्य वा ग्रहणाकर्षणादिकम् एष प्रस्तार उच्यते । स वा भवेद् जीवितस्य वा चरणस्य वा भ्रंशनं स्यात् । यावच्छब्दोपादानात् शरीरविकर्तनभेदा द्रष्टव्याः । सविशेषदोषदर्शनार्थमाह[भा.२७७९] तेणट्ठम्मि पसज्जण, निस्संकिए मूल अहिमरे चरिमं । जइ ताव होंति भद्दय, दोसा तेतं चिमंचऽन्नं ।। वृ-स्तेनादिभिः सहगच्छन् स्तैन्यार्थे प्रसजनं करोति, स्तैन्यादिकं करोति कारयतिअनुमन्यते वा इत्यर्थः ।तथा यदि 'स्तेनोऽयम्' इति शङ्कयते तदा चत्वारो गुरुकाः । निशङ्किते मूलम् । 'अभिमरोऽयम्' इति निशङ्किते 'चरमं' पाराञ्चिकम् । अपि च यदि तावत् ते स्थानपालका भद्रका भवन्ति तथापि वैराज्यं सङ्क्रामतः साधून् दृष्ट्वा चिन्तयन्ति-एतेऽपि यदीदशानि कुर्वन्ति Page #159 -------------------------------------------------------------------------- ________________ १५६ बृहत्कल्प-छेदसूत्रम् -२-१/३७ तर्हिन किमप्यमीषां मध्ये शोभनम्, तीर्थकरेण वा किं न प्रतिषिद्धं वैराज्यसङ्क्रमणम् ? इत्यादि । एवं च तेऽपि प्रान्तीभवन्ति । अथवा यदि त स्थानपाला भद्रका भवन्ति तदा तैर्विसर्जिताना पराराष्ट्रं प्रविष्टानां त एव दोषाः, तदेव च चतुर्गुरुकादिकं प्रायश्चित्तम्, इदं चान्यत् प्रायश्चित्तावहं दोषजालम् ।। तदेव दर्शयति [भा. २७८० ] आयरिय उवज्झाया, कुल गण संघो य चेइयाइं च । सव्वे वि परिच्चत्ता, वेरज्जं संकमंतेणं ॥ वृ-‘आचार्या’ अर्थदातारः ‘उपाध्यायाः' सूत्रप्रदाः 'कुलं' नागेन्द्रादि ‘गणः’ परस्परसापेक्षानेककुलसमुदायः 'सङ्घः' गणसमुदायः 'चैत्यानि' भगवद्विम्बानि जिनभवनानि वा । एते आचार्यादयः सर्वेऽपि वैराज्यं सङ्कामता परित्यक्ताः । एतदेव भावयति [भा. २७८१] किं आगय त्थ ते बिंति संति ने इत्थ आयरियमादी । उघाम रुक्खे, मा एंतु फलत्थिणो सउणा ।। वृ- 'ते' साधवो राजपुरुषैः पृच्छयन्ते किमर्थं यूयमिहागताः स्थ ? | साधवो ब्रुवते - 'सन्ति' विद्यन्ते ‘“ने” अस्माकमिहाचार्यादयः अतो वयमागताः । ततो राजपुरुषा दृष्टान्तं वदन्ति - र - यस्मात् फलार्थिनः ‘शकुनाः' पक्षिणो वृक्षानागच्छन्ति तस्मात् तानेव वृक्षानुद्धातयामः, मा फलार्थिनः शकुना आगच्छन्तु । एतेन दृष्टान्तसामध्येर्न तानेवाचार्यादीनुद्धातयामो येन तदर्थमिह कोऽपि नागच्छति ॥ यत एते दोषा अतः [भा. २७८२] एयारिसे विहारो, न कप्पई समणसुविहियाणं तु । दो सीइक्क मई, जिनसीमं रायसीमं च ॥ वृ- एतादृशे वैराज्ये विरुद्धराज्ये विहारः श्रमणानां सुविहितानां न कल्पते । यस्तु करोति स सीमानावतिक्रामति, तद्यथा - 'जिनसीमानं' 'न कल्पते वैराज्यसङ्क्रमणं कर्तुम्' इति लक्षणां 'राजसीमानं च ' ' न कर्त्तव्यो मदीयराज्यात् परराज्ये गमागमः' इति रूपाम् ॥ किञ्च - बंधं वहं च घोरं, आवज्जइ एरिसे विहरमाणो । तम्हा उ विवज्जेज्जा, वेरज्ज-विरुद्धसंकमणं ॥ [भा. २७८३] वृ- 'बन्धं' निगडादिनियन्त्रणं 'वधं च ' कशाघातादिकं 'घोरं' भयानकमीद्दशे विहरमाणो यत आपद्यते तस्माद् वैराज्य विरुद्धराज्यसङ्क्रमणं विवर्जयेत् ।। अथ द्वितीयपदमाह[ भा. २७८४] दंसण नाणे माता, भत्तविसोही गिलाणमायरिए । अधिकरण वाद राय कुलसंगते कप्पई गंतुं ॥ वृ- दर्शनार्थं ज्ञानार्थं वैराज्यसङ्क्रमणमपि कुर्यात् । "माय" त्ति मातापितरौ कस्यापि प्रव्रजितुकामौ शोकेन म्रियेते तयोः समाधानार्थं गच्छेत्। “भत्तविसोहि "त्ति कश्चित् साधुर्भक्तं प्रत्याख्यातुकामः सविशोधिम् - आलोचनां दातुकामो गीतार्थस्यपार्श्वे पार्श्वे गच्छेत्, अजङ्गमस्य वा तस्य पार्श्वे गीतार्था गच्छन्ति । “गिलाण” त्ति ग्लानस्य वा प्रतिचरणार्थं प्रायोग्यौषधहेतवे वा गच्छेत् । “आयरिय’त्ति आचार्यसमीपे आचार्याणामादेशेन वा गच्छति । "अधिकरण" त्ति कस्यापि साधोः केनापि गृहिणा सहाधिकरणमुतपन्नम्, स च गृही नोपशाम्यति, ततः प्रज्ञापनालब्धिमान् तस्योपशमनाय गच्छति । “वाद” त्ति अन्यराज्ये परप्रवादी कश्चिदुत्थितः तस्य Page #160 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं- ३७, [भा. २७८४ ] निर्ग्रहार्थं वादलब्धिसम्पन्नेन गन्तव्यम् । “राय” त्ति राजा वा कश्चित् परराष्ट्रीयः साधूनामुपरि प्रद्विष्टस्तस्योपशमनार्थं सलब्धिकेन गन्तव्यम् । “कुलसंगय'त्तिउपलक्षणत्वात् कुल-गणसङ्घसङ्गतं किमपि कार्यमुत्पन्नं कुलादिविषयमित्यर्थः । अथवा “रायकुलसंगत "त्ति एकमेव पम्, राजकुलेन सह सङ्गतं-सम्बद्धं केनापि साधुना अधिकरणं कृतं तदुपशमनाय गच्छति । एवमादिषु कार्येषु वैराज्येऽपि गन्तुं कल्पते ॥ अथ दर्शन-ज्ञानपदद्वयं भाष्यकृद् व्याख्यानयति [भा. २७८५] सुत्त - ऽत्थ-तदुभयविसारयम्मि पडिवन्न उत्तिमट्ठम्मि । एतारिसम्म कम्पइ, वेरज्ज-विरुद्धसंकमणं ॥ १५७ वृ-दर्शनप्रभावकशास्त्राणामाचारादिश्रुतज्ञानस्य वा सम्बन्धि यदन्यत्राविद्यमानं सूत्रार्थतदुभयं तत्रविशारदः कश्चिदाचार्य स चोत्तमार्थमनशनं प्रतिपन्नः । यस्मिश्च क्षेत्रेऽसौ स्थितस्तत्र अपान्तराले वा वैराज्यं वर्त्तते, 'तौ च सूत्रार्थी मा व्यवच्छेदं प्रापताम्' इति कृत्वा एताद्दशे कारणे वैराज्यविरुद्धे सङ्क्रमणं कर्त्तुं कल्पते ॥ अथ येन विधिना तत्र गन्तव्यं तमभिधित्सुराह [भा. २७८६ ] आपुच्छिय आरक्खिय-सट्ठि-सेनावई - अमच्च - राईणं । अइगमने निग्गमने, एस विही होइ नायव्वो । वृ- आपृच्छयारक्षिकं ततः श्रेष्ठिनं ततः सेनापतिं ततोऽमात्यं ततो राजानमप्यापृच्छ्य निर्गन्तव्यं प्रवेष्टव्यं वा । एष विधि ‘अतिगमने' परराज्यप्रवेशे 'निर्गमने च' पूर्वस्माद् राज्याद् निर्गमने च ज्ञातव्यो भवति ।। अमुमेवार्थं प्रकटयन्नाह [भा.२७८७] आरक्खितो विसज्जइ, अहव भणिज्जा स पुच्छह तु सेट्ठि । जाव निवो ता नेयं, मुद्दा पुरिसो व दूतेणं ॥ वृ- वैराज्य विरुद्धं गच्छता प्रथमत एवारक्षिकः प्रष्टव्यः । यद्यसौ विसर्जयति ततो लष्टम् । अथासौ भणेत्-नाहं जानामि, 'श्रेष्ठिनं' श्रीदेवताऽध्यासितशिरोवेष्टनविभूषितोत्तमाङ्गं पृच्छत । ततः श्रेष्ठी प्रष्टव्यः, एवं यावद् 'नृपः' राजा तावद् 'नेयं' नेतव्यं वक्तव्यमित्यर्थः । तच्चैवम्-श्रेष्ठी पृष्टो यदि विसर्जयति ततः सुन्दरम् अथासौ ब्रूयात् - अहं न जानामि, सेनापतिं प्रश्नयत । ततः सेनापति प्रश्नितो यद्यनुजानीते ततः शोभनम्, अथासौ ब्रूयात् - अमात्यं पृच्छत । ततोऽसावमात्यः पृष्टो यदि विसर्जयति ततो लष्टम्, अथ ब्रूयात्-राजानं पृच्छत। ततो राजाऽपि प्रष्टव्यः । एते च राजादयो यदिविसर्जयन्ति तदा मुद्रापट्टकं दूतपुरुषं वा मार्गयितव्याः, येन 'राजादिना विसर्जिता एते' इति स्थानपालकाः प्रत्ययतः प्रथमवतारयन्ति; यो वा दूतस्तत्र राज्ये व्रजति तेन सार्द्ध गच्छन्ति ।। एवं तावद् यतो राज्यान्निर्गच्छन्ति तत्र विधिरुक्तः । अथ यत्र राज्ये गन्तुकामास्तत्र प्रविशतां विधिमाह [भा. २७८८] जत्थ वि य गंतुकामा, तत्थवि कारिति तेसि नायं तु । आरक्खियाइ ते वि य, तेनेव कमेण पुच्छंति ॥ यत्रापि राज्ये गन्तुकामास्तत्रापि ये साधवो वर्त्तन्ते तेषां लेखप्रेषणेन सन्देशकप्रेषणेन वा प्रागेव ज्ञातं कुर्वन्ति, यथा-वयमितो राज्यात् तत्रागन्तुकामाः, अतो भवद्भिस्तत्रारक्षिकादयः प्रष्टव्याः । ततस्तेऽपि 'तेनैव' पूर्वोक्तेन क्रमेण आरक्षिकादीन् पृच्छन्ति । यदा तैरनुज्ञातं भवति तदा तान् साधून् ज्ञापयन्ति-आरक्षिकादिभिरत्रानुज्ञातमस्ति भवद्भिरत्रागन्तव्यम् ॥ निर्गमने Page #161 -------------------------------------------------------------------------- ________________ १५८ बृहत्कल्प-छेदसूत्रम् -२-१/३७ प्रवेशे च विधिरुक्तः । अथ “आयरिय"त्ति पदं विशेषतो भावयन्नाह[भा.२७८९] राईण दोण्ह भंडण, आयरिए आसियावणं होइ। कयकरणे करणं वा, निवेद जयणाए संकमणं ॥ वृ-द्वयो राज्ञोः परस्परं 'भण्डन' कलहो वर्त्तते, तत्रैकस्य राज्ञः कोऽप्याचार्योऽतीव पूजासत्कारस्थानम्, ततश्च द्वितीयो नृपतिस्तत् परिज्ञायाऽऽत्मीयदक्षपुरुषैः “आसिआवणं" ति तस्याचार्यस्यापहरणं कारयति ‘अस्मिन् हि गृहीते सप्रतिपन्थिपार्थिवो गृहीत एव भवति' इति। अत्रचय-'कृतकरणः' धनुर्वेदादौगृहवासेकृतपरिश्रमस्तस्यतत्र करणंभवति, तेनाचार्यापहारिणा सहयुद्धंकर्तुमुपतिष्ठतइत्यर्थः । अथ नास्तिकोऽपिकृतकरणस्ततोयस्य राज्ञः सकाशादपहतस्तस्य निवेदनं कृत्वा यतनया शेषसाधवः सङ्कमणं कुर्वन्ति ।। इदमेव स्फुटतरमाह[भा.२७९०] अब्मरहियस्स हरणे, उज्जाणाईठियस्स गुरुणोउ। उव्वट्ठणासमत्थे, दूरगए वा वि सवि बोलं ।। [भा.२७९१] पेसवियम्मि अदेंते, रन्ना जइ विउ विसज्जिया जिस्सा। गुरुणो निवेइयम्मि, हारितगराइणो पुल्विं ।। वृ-'अभ्यर्हितस्य' राजमान्यस्य 'गुरोः' आचार्यस्योद्यान-सभा-प्रपादिषुस्थितस्य हरणंभवति। यदिचकोऽपि युद्धकरणेन विद्याप्रयोगेण वातस्योद्वर्तनायाः-वालनायाः समर्थो भवति ततःस तं निवार्याचार्य प्रत्याहरति । अथ नास्त्युद्वर्तनासमर्थ ततः क्षणमात्रं साधवस्तूष्णीका आसते। यदाआचार्यापहारी दूरंगतोभवति तदा “सवि"त्ति सर्वेऽपिसाधवोबोलंकुर्वन्ति-अस्माकमाचार्यों हृतो हतः, धावत धावत लोकाः ! इति । आसननस्थिते तु बोलं न कुर्वन्ति ‘मा भूत् परस्परं बहुजनक्षयकारी युद्धविप्लवः' इति।ततश्च राजा साधुभिरभिधातव्यः-अनाथा वयमाचार्यैर्विना, अत आचार्या यथाऽत्रागच्छन्ति तथा कुरुत । एवमुक्तोऽसौ द्वितीयस्य राज्ञो दूतं विसर्जयतिशीघ्रमाचार्य प्रेषणीय इति । यदि तेन प्रस्थापितस्ततो लष्टम् । अथासौ दूते प्रेषितेऽप्याचार्य न ददाति-न विसर्जयतीत्यर्थः ततःसाधवोद्वेत्रीणिवादिनानि राजानंष्ट्वाब्रुवते-अस्मान्विसर्जयत येन गुरूणामुपकण्ठं गच्छामः, कीशा वयं गुरुविरहिताअत्र तिष्ठन्तः? स्वाध्यायादिकंवाऽत्र नकिमपिनिर्वहतीत्यादि। एवमुक्तेयद्यपि तेशिष्या राज्ञा विसर्जितास्तथापिगुरूणांसन्देशकप्रेषणेन निवेदयन्ति-वयमागच्छन्तः स्मः । ततो गुरवः "हारितगराइणो पुदि"तिअपहर्तृराज्ञः पूर्वमेव निवेदयन्ति-अहं शिष्यानप्यानयामि, अतः स्थानपालानामादेशं प्रयच्छत येन ते तान्न गृह्णन्ति । एवं निवेदिते सति यतनया सङ्क्रमणं कुर्वन्ति ॥ मू. (३८) निग्गंथंचणंगाहावइकुलं पिंडवायपडियाएअणुप्पविलु केइ वत्येण वापडिग्गहेण वा कंबलेण वा पाय-पुंछणेण वा उवनिमंतिजा, कप्पड़ से सागारकडं गहाय आयरियपायमूले ठवित्ता दोच्चं पिउग्गहं अणुन्नवित्ता परिहारं परिहरित्तए। [भा.२७९२] अविरुद्धए भिक्खगतं, कोइ निमंतेज वत्थमाईहिं। कारण विरुद्धचारी, विगिंचितो वा विगेण्हेजा। वृ- 'अविरुद्ध' विरुद्धराज्यविरहिते ग्रामादौ 'भिक्षागतं' भिक्षायां प्रविष्टं साधु कश्चिदुपासकादिर्वस्त्रादिभिर्निमन्त्रयेत्, यद्वा 'कारणे' दर्शन-ज्ञानादौ विरुद्धराज्यचारी स्तेनादिभिः Page #162 -------------------------------------------------------------------------- ________________ 3 उद्देशक : १, मूलं - ३८, [ भा. २७९२] 'विविक्तः' मुषितः सन् वस्त्राणि गृह्णीयात्, अतो वस्त्रग्रहणविधि प्रतिपाद्यते ।। [भा. २७९३] अहवा लोइयतेण्णं, निवसीम अइच्छिए इमं भणितं । दोचमणणुन्नेवउं, उत्तरियं वत्थभोगादी ॥ वृ- अतवा नृपसीमानमतिक्रम्यविरुद्धराज्यसङ्क्रमणे लौकिस्तैन्यम्, इदमनन्तरसूत्रे भणितम् । अत्र तु सूत्रे द्वितीयं वारमवग्रहमाचार्यसमीपेऽननुज्ञाप्य यदा वस्त्रपरिभोगम् आदिशब्दाद् धारणं वा करोति तदा लोकोत्तरिकस्तैन्यं भवतीति प्रतिपाद्यते । एभिः सम्बन्धैरायातस्यास्य व्याख्या'निर्ग्रन्थं' पूर्वोक्तशब्दार्थं च शब्दोऽर्थान्तरोपन्यापतिं "ण" मितिवाक्यालङ्कारे गृहस्य पति-स्वामी गृहपतिस्तस्य कुलं - गृहं 'पिण्डपातप्रतिज्ञया पिण्डः - ओदनादिस्तस्य पातः-पात्रे प्रवेशस्तव्प्रतिज्ञयातत्प्रत्ययमनुप्रविष्टं ‘कश्चिद्’ उपासकादिर्वस्त्रेण वा प्रतिग्रहेण वा कम्बलेन वा पात्र - प्रोञ्छनेन वा उपनिमन्त्रयेत् । वस्त्रं सौत्रिकमिहगृह्यते, प्रतिग्रहः-पात्रकम्, कम्लम् - ओर्णिकः कल्पः, पात्रशब्देन तु पात्रबन्ध पात्रकेसरिकाप्रभृतिकः पात्रनिर्योगः, प्रोञ्छनशब्देन तु रजोहरणमुच्यते, आह च चूर्णिकृत्-पायग्गहणेणं पायभंडयं गहियं, पुंछणं रयहरणं ति । ततश्च पात्रं च प्रोञ्छनं चेतिपात्र - प्रोञ्छनम्, समाहारद्वन्द्वः, एतैः उप-सामीप्ये आगत्य निमन्त्रयेत् । उपनिमन्त्रितस्य च “से” तस्य निर्ग्रन्थस्य 'साकारकृतं' 'आचार्यसत्कमेतद् वस्त्रं न मम, अतो यस्मै ते दास्यन्ति अन्यस्मै वा मह्यं वा आत्मना वा परिभोक्ष्यन्ते तस्यैतद् भविष्यति' इत्येवं सविकल्पवचनव्यवस्थापितं सद् गृहीत्वा तत आचार्यपादमूले तद् वस्त्रं स्थापयित्वा यदि ते तस्यैव साधोः प्रयच्छन्ति तदा 'द्वितीयमप्यवग्रहम्' एकस्तावद् गृहस्थादवग्रहोऽनुज्ञापितो द्वितीयं पुनराचार्यपादमूलादवग्रहमनुज्ञाप्य धारणा-परिभोगरूपं द्विविधमपि परिहारं तस्य वस्त्रस्य 'परिहर्त्ती' धातूनामनेकार्थत्वाद् आचरितुं कल्पते इति सूत्रसङ्क्षेपार्थः । अथ विस्तरार्थं बिभणिषुराह[भा. २७९४] दुविहं च होइ वत्यं, जायणवत्थं निमंतणाए य । निमंतणवत्थं ठप्पं, जायणवत्थं तु वोच्छामि ॥ वृ- द्विविधं च भवति वस्त्रम् - याच्ञावस्त्रं निमन्त्रणावस्त्रं च । तत्र निमन्त्रणावस्त्रं 'स्थाप्यं' पश्चादभिधास्यते इत्यर्थः । याच्ञावस्त्रं पुनः साम्प्रतमेव वक्ष्यामि ॥ यथाप्रतिज्ञातमेव निर्वाहयतिनामं ठवणावत्थं, दव्वव्वत्थं च भाववत्थं च । १५९ एसो खलु वत्थस्सा, निक्खेवो चउव्विहो होइ । इत्यादिकाः । एवं तु गविट्ठेसुं, आयरिया देंति जस्स जं नत्थि । समभागेस कसु व, जहराइणिया भवे बीओ ।। इति पर्यन्ताः षट्चत्वारिंशद्गाथा यथा पीठिकायां वस्त्रकल्पिकद्वारे तथैवात्र द्रष्टव्याः ॥ उपसंहरन्नाह [भा. २७९५ ] एयं जाणवत्थं, भणियं एत्तो निमंतणं वोच्छं । पुच्छादुगपरिसुद्धं, पुनरवि पुच्छेजिमा मेरा ॥ वृ- एतद् याच्ञावस्त्रं भणितम् । इत ऊर्ध्वं निमन्त्राणावस्त्रं वक्ष्यामि । तच्च यदा 'कस्यैतद् वस्त्रम् ? किंवा नित्यनिसनीयादिकमिदमासीत् ? ' इति पृच्छाद्वयन परिशुद्धं भवति तदा 'पुनरपि' तृतीयया पृच्छया पृच्छेत् । तत्र च 'इयं' वक्ष्यमाणा 'मर्यादा' सामाचारी ॥ तामेवाह Page #163 -------------------------------------------------------------------------- ________________ १६० [ भा. २७९६] विउसग्ग जोग संघाइएण भोइयकुले तिविह पुच्छा । कस्स इमं किं व इमं, कस्स व कज्जे लहुग आणा ॥ वृ- 'व्युत्सर्गी नाम' उपयोगसम्बन्धी कायोत्सर्गस्तं कृत्वा, 'यस्य च योगः' इति भणित्वा, सङ्घाटकेन भिक्षार्थं निर्गतः । ततो भोगिककुले उपलक्षणत्वादन्यत्रापि यथाप्रधाने कुले प्रविष्टः कयाचिदीश्वरया महता सम्भ्रमेण भक्त पानेन प्रतिलाभ्य वस्त्रेण निमन्त्रितः, तत्र त्रिविधा पृच्छा प्रयोक्तव्या । तद्यथा- 'कस्य सत्कमिदं वस्त्रम् ? किं वा इदमासीत् ?' अनेन पृच्छाद्वयेन परिशुद्धं यदा भवति तदा प्रष्टव्यम् - कस्यवा कार्यस्य हेतोः प्रयच्छसि ? इति । यद्येवं न पृच्छति ततश्चत्वारो लघवः आज्ञादयश्च दोषाः ॥ अथ विशेषदोषानभिधित्सुराह बृहत्कल्प-छेदसूत्रम् -२- १/३८ [भा. २७९७] मिच्छत्त सोच्च संका, विराधना भोइए तहि गए वा । चरथं व विंटलं वा, वेंटल दाणं च ववहारो ॥ वृ- भोगिन्या दीयमानं वस्त्रं यदि 'केन कार्येण प्रयच्छसि ?' इति न पृच्छयते तदा भोगिको मिथ्यात्वं गच्छेत् । अथासौ देशान्तरं गतस्तत आगतस्य महत्तरादिमुखाच्छ्रुत्वा शङ्का भवति । भोगिके तत्र स्थिते 'गते वा' देसान्तरप्रापेत पश्चादायाते सति 'विराधना' वक्ष्यमाणा भवति सा चाविरतिका 'चतुर्थं वा' मैथुनमवभाषेत 'वेण्टलं वा' वशीकरणादिप्रयोगं पृच्छेत् ततश्च वक्तव्यम्वेण्टलमहं न जानामि, उपलक्षणत्वात् चतुर्थं च प्रतिसेवितुं न कल्पते । ततो यदि सा वस्त्रं याचते तदा दानं कर्त्तव्यम्, भूयोऽपि तद् वस्त्रं तस्या एव समर्पणीयमिति भावः । अथ तद् वस्त्रं छिन्नं वा प्राघुर्णकादीनां दत्तं वा भवेत् सा च तदेव वस्त्रं मार्गयेत् तदा राजकुलं गत्वा व्यवहारः कर्त्तव्य इति द्वारगाथासमासार्थः ॥ अथैनामेव विवरीषुराह [भा.२७९८] वत्थम्मि नीणियम्मिं, किं दलसि अपुच्छिऊण जइ गेहे । अन्नस्स भोयगस्स व, संका घडिया नु किं पुवि ।। वृ- वस्त्रे भोगिन्या निष्काशिते सति यदि 'किं' किमर्थं ददासि ? इत्यपृष्टवैव गृह्णाति तदा 'भोक्तुः' तदीयस्यैव भर्त्तु 'अन्यस्य वा' श्वशुर-देवरादेः शङ्का भवेत् । नुरिति वितर्के, किं मन्ये एतौ परस्परं पूर्वमेव घटितौ यदेवंतूष्णीको दान - ग्रहणे कुरुतः ? अथवा किमेषा मैथुनार्थिनी भूत्वा वस्त्रमस्मै प्रयच्छति ? उत वेण्टलार्थिनी ? इति ॥ [भा. २७९९] मिच्छत्तं गच्छेज्जा, दिजंतं दट्टु भोयओ तीसे । वोच्छेद पओसं वा, एगमनेगाण सो कुज्जा ॥ वृ- तद् वस्त्रं दीयमानं दृष्ट्वा तस्याः सम्बन्धी 'भोजकः ' भर्त्ता मिथ्यात्वं गच्छेत्, यथा- निस्सारं प्रवचनममीषामित्यादि । प्रतिपन्नमिथ्यात्वश्च तस्य वैकस्य साधोरनेकेषां वा साधूनां तद्दव्यान्यद्रव्यव्यवच्छेदं कुर्यात् प्रद्वेषं वा गच्छेत् ॥ गतं मिथ्यात्वद्वारम् । अथ 'श्रुत्वा शङ्का' द्वारं विराधनाद्वारं चाह[भा. २८०० ] एमेव पउत्थे भोइयम्मि तुसिनीयदान- गहणे तु । महतरगादीकहिए, एगतर पतोस वोच्छेदो ।। मेहुणसंकमसंके, गुरुगा मूलं च वेंटले लहुगा । संकमके गुरुगा, सविसेसतरा पउत्थम्मि ॥ [ भा. २८०१ ] Page #164 -------------------------------------------------------------------------- ________________ उद्देशकः १, मूलं-३८, [भा. २८०१] १६१ वृ-एवमेव प्रोषिते' देशान्तरगतेऽपिभोगिके दोषा वक्तव्याः। तथाहि-तेन भोगिकेनदेशान्तरं गच्छता ये महत्तरकाः स्थापितास्तैः आदिशब्दाद् महत्तरिकया व्यक्षरिकया कर्मकरेण वा तयोरविरतिका-संयतयोस्तूष्णीकदान-ग्रहणं दृष्ट्वा भोगिकस्यभूयः समागतस्य कथितम्। ततश्च सः “एकतरस्य' संयतस्याविरतिकाया वा उपरि प्रद्वेषं गच्छेत्, प्रद्विष्टश्चाविरतिकां संयतं वा हन्या निष्काशयेद्वा बध्नीयाद्वा निरुन्ध्याद्वा विमानयेद्वा, व्यवच्छेदं वैकस्यानेकेषांवा कुर्यात्। अत्रच मैथुनशङ्कायां चत्वारो गुरुकाः, निशङ्कितेमूलम्।वेण्टलशङ्कायांचत्वारो लघुकाः,निशङ्किते चत्वारो गुरवः । सविशेषतराश्च दोषाः प्रोषिते भोगिके भवन्ति, ते च यथास्थानं प्रागेवोक्ताः॥ [भा.२८०२] एवं ता गेण्हते, गहिए दोसा पुनो इमे होति। घरगयमुवस्सए वा, ओभासइ पुच्छए वा वि ।। वृ-एवं तावद् वस्त्रं गृह्णतो दोषा उक्ताः, गृहीते पुनर्वस्त्रे ‘एते' वक्ष्यमाणा दोषा भवन्तितस्मिन् गृहे यदा स एव साधुरन्यस्मिन् दिवसे गतो भवति सावाअविरतिका तस्य साधोरुपाश्रये आगता भवति तदा मैथुमवभाषते-त्वं ममोद्भ्रामको भव । वेण्टलंवा सा पृच्छति-कथय किमपि तादृशं वशीकरणं येन भोगिको मे वशीभवति ॥ इदमेव स्पष्टयति[भा.२८०३] पुच्छाहीणं गहियं, आगमनं पुच्छणा निमित्तस्स । छिन्नं पि हुदायव्वं, ववहारो लब्मए तत्थ ॥ वृ-ग्रहणकाले 'केन कार्येण मे प्रयच्छसि ?' इत्येवं पृच्छया हीनं वस्त्रं गृहीतम् । गृहीते च तस्याः संयतप्रतिश्रये आगमनम्, आगता च सा 'पुत्रो मे भविता? न वा?' इत्यादिकं निमित्तं पृच्छति, येन वाऽहं भोगिकस्याभिरुचिता भवामितत् किमप्युपदिश । ततः साधुना वक्तव्यम्न कल्पते मैथुनंप्रतिसेवितुं साधूनाम्, वेण्टलं निमित्तं वा नाहं जानामि । एवमुक्ते यदि सा वस्त्रं भूयोऽपि मार्गयेत् ततः प्रतिदातव्यम् । अथ तेन वस्त्रेण च्छित्त्वा पात्रबन्धादिकं किमप्यपरं कृतं ततश्छिन्नमपि तदेव दातव्यम् । अथ व्यवहारद्वारं व्याख्यायते- तत्र यदि सा छिन्नं न गृह्णाति, ब्रवीतिच-ममसकलमेवप्रयच्छ।ततो राजकुलं गत्वा व्यवहारेप्रारब्धकारणिकाअभिधातव्याः, यथा-केनचिद् वृक्षस्वामिना वृक्षो विक्रीतः, ऋयिकेण च मूल्यं दत्त्वा छित्त्वा च स्वगृहं नीतः, ततः स विक्रयिकः पश्चात्तापितो भणति-प्रतिगृहाण मूल्यम्, प्रत्यर्पय मदीयं वृक्षम् क्रयिकः प्राह-मया सवृक्षश्छित्त्वा पृथक्काष्ठानि कृतः, अतः कथं तमेववृक्षमखण्डमहं ते समर्पयामि ?; एवं विवदमानौ तौ राजकुलमुपस्थिती, ततः कथयत कारणिकाः । किं स क्रयिको युष्माभिवृक्षं दाप्यते? अथ दाप्यते ततः काष्ठान्येव, न पूर्वावस्थं वृक्षमिति व्यवहारो लभ्यते॥ भा.(२८०४] पाहुणएणऽन्नेण व, नीयं व हिय व होइ दर्द वा । तहियं अनुसट्ठाई, अन्नं वा दट्ट मोत्तूणं॥ वृ-अथ वस्त्रं प्राघुणकेनान्येन वा साधुनाऽन्यत्र नीतं भवेत् स्तेनेन वा हृतं प्रदीपनेन वा दग्धं तत्रचानुशिष्टयादिकं कर्त्तव्यम्।अनुशिष्टिर्नाम-सद्भावकथनपुरःसरंप्रज्ञापना।तथाऽप्यनुपरतायां धर्मकथा कर्तव्या, विद्यया मन्त्रेण वा निराकरणीया । तदभावेऽन्यद् वस्त्रं तस्या दातव्यम्, परं दग्धं वस्त्रं मुक्त्वा, दग्धे हृते वा न किञ्चिद् दीयत इति भावः । यदि सा राजकुलमुपतिष्ठते [19 11 Page #165 -------------------------------------------------------------------------- ________________ १६२ बृहत्कल्प-छेदसूत्रम् -२-१/३८ ततस्तत्रापि व्यवहारो लभ्यते, “दत्त्वा दानमनीश्वरः" इति ॥अथ दानकाले साधुना पृष्टम्-किं निमित्तं ददासि? तत्र सा तूष्णिका, स्थिता, बहिश्चेष्टया न तथाविधः कोऽपि भाव उपदर्शितः, परं ग्रहणानन्तरं काचिदुपाश्रयमागत्य वेण्टलं पृच्छति चतुर्थमवभाषते वा तत्राभिधातव्यम्भा.२८०५] न वि जाणामो निमित्तं, न य ने कप्पइ पउंजिउं गिहिणो। परदारदोसकहणं, तं मम माया य भगिनी य॥ वृ-वयं निमित्तं नजानीमः, न च “ने" अस्माकं जानतामपि गृहिणः पुरतो निमित्तं प्रयोक्तुं कल्पते, तपः-संयमादिक्षतिप्रसङ्गात् । या च चतुर्थमवभाषते तस्याःपरदारदोधकअनं क्रियते, यथा-परपुरुष-परदारप्रसक्तयोः स्त्री-पुंसयोरिहैव भवेदण्डन-मुण्डन-तर्जन-ताडनादयः, परभवे तु नरकगतौ गतानां तप्तायःपुत्तलिकालिङ्गनादयः, तत उदृत्तानां तिर्यग्मनुष्यभवग्रहणेषु भूयो भूयो नपुंसकत्व-दौर्भाग्यप्रभृतोय बहवः प्रत्यपायाः।अपिच त्वं मम माता वा भगिनी वा वर्तसे अतः कृतमनया वार्तयेति ॥ वस्त्रदानस्यैव कारणान्तरमाह[भा.२८०६] एक्कस्स व एक्कस्स व, कज्जे दिजंत गिण्हई जो उ । तेचेव तस्स दोसा, बालम्मिय भावसंबंधो॥ कृ'एकस्यवा' पूर्वसम्बन्धस्य एकस्य वा पश्चात्सम्बन्धस्य कार्येदीयमान वस्त्रयः साधुर्गृह्णाति तस्य 'तएव' प्रागुक्ताः शङ्कादयो दोषाः। बालेच बालविषयोभावसम्बन्धो वक्ष्यमाणो भवतीति समासार्थः ।। अथैनामेव गाथां विवृणोति[भा.२८०७] अहवण पुट्ठा पुवेण पच्छबंधेण वा सरिसमाह । संकाइया उ तत्थ वि, कडगा य बहू महिलियाणं ॥ वृ-अथवा सा दात्री पृष्टा सती 'पूर्वसम्बन्धेन' याशो मम भ्राता ताश एव त्वं वर्तसे, 'पश्चात्सम्बन्धेन तु' श्वशुरस्य देवरस्य भर्तुर्वा सशस्त्वं विलोक्यसे अतोऽहं भवते वस्त्रं प्रयच्छामीत्याह, एवमन्यतरेण सम्बन्धकार्येण दीयमान यदिगहातितदातएवशङ्कादयोदोषाः। यदि च तस्या अविरतिकाया बालमपत्यं किमपि विद्यते तदास साधुस्तया भ्रातृभावेन प्रतिपन्नः सन् चिन्तयति-इदं मे भागिनेयम्; अथ भर्तृतया प्रतिपन्नस्ततश्चिन्तयति-इदं मे पुत्रभाण्डम्; एवमादिको भावसम्बन्धो भवति, ततश्चप्रतिगमनादयोदोषाः।किञ्चमहेलिकानांबहूनि 'कृतकानि कैतवानि भवन्ति, तेन देवरादिग्रहणोषायेन सम्बन्धमानीय चारित्रात् परिभ्रशयन्तीति भावः। यत एवमतः.. [भा.२८०८] एयद्दोसविमुक्कं, वत्थग्गहणंतु होइ कायव्वं । खमउत्तिदुब्बलो त्तिय, धम्मोत्ति यहोति निद्दोस ।। • वृ-एतैः-अनन्तरोक्तैर्दोषैर्विमुक्तं वस्त्रग्रहणंसाधुना कर्तव्यं भवति। कथम्? इत्याह- “खमउ त्ति" इत्यादि।यदि सादात्री पृष्टा सतीब्रूयात्-'क्षपकः' तपस्वी त्वम्, अथवादुर्बलोऽसिक्षपकतया स्वभावेन वा ततस्तेप्रयच्छामि, यद्वा तपस्विनेदीयमाने धर्मोभवति' इति कृत्वा ददामीति, एवं ब्रुवति दायके तद् वस्त्रं लभ्यमानं निर्दोष भवति ।। किञ्च[भा.२८०९] आरंभनियत्ताणं, अकिणंताणं अकारविंताणं । ___धम्मट्ठा दायव्वं, गिहीहि धम्मे कयमणाणं ॥ Page #166 -------------------------------------------------------------------------- ________________ १६३ उद्देशक : १, मूलं-३८, [भा. २८०९] वृ- आरम्भः-षट्कायोपमर्द तस्मानिवृत्तानां तथा 'अक्रीणता' वस्त्रादिक्रयमकुर्वाणानाम् 'अकारयतां' आरम्भ-क्रयकरणे परमव्यापारयतामेवंविधानां धर्मे श्रुत-चारित्रभेदभिन्नेकृतमनसां साधूनांगृहिभिः सर्वारम्भप्रवृत्तैः ‘धर्मार्थ कुशलानुबन्धिपुण्योपार्जनार्थवस्त्र-पात्रादिकंयथायोग्यं दातव्यम् इति बुध्या य उपासकादिर्वस्त्रेणोपनिमन्त्रयति तस्य ग्रहीतव्यमिति प्रक्रमः ।। तदेवं वस्त्रमुत्पन्नं यावद् गुरूणां समीपे न गम्यते तावत् कस्यावग्रहे भवंति ? इति उच्यते[भा.२८१०] संघाडए पविटे, रायणिए तह य ओमरायणिए । जंलब्भइ पाओग्गं, रायणिए उग्गहो होइ॥ वृ-उपयोगकायोत्सर्गंकृत्वा भिक्षार्थसङ्घाटकः प्रविष्टः, तत्रैकोरालिको द्वितीयोऽवमरालिकः। तत्रचयत् प्रायोग्यंसङ्घाटकेन लभ्यतेतद्यावदाचार्यपादमूलंन गम्यते तावत्सर्वं 'रालिनकस्य' ज्येष्ठार्यस्यावग्रहो भवति, ज्येष्ठार्यस्तस्य स्वामीतिभावः ॥अथ यदुक्तम्-“कप्पइसे सागारकडं गहाय दोच्चं पि उग्गहं अणुनवित्ता परिहारं परिहरित्तए" तदेतद् यथा केचिदाचार्यदेशीयाः स्वच्छन्दबुध्या व्याचक्षते तथा प्रतिपादयति[भा.२८११] दोच्चं पिउग्गहो त्ति य, केइ गिहत्थेसु दोच्चमिच्छंति । साग! गुरुणो नयामो, अनिच्छे पच्चाहरिस्सामो।। कृ-'द्वितीयमपिवारामवग्रहोऽनुज्ञापयितव्यः' इतिसूत्रेयदुक्तंतत् केचिदाचार्या गृहस्थविषयं द्वितीयमवग्रहमिच्छन्ति । कथम्? इत्याह-“साग" इत्यादि।यः श्रावको वस्त्रंददाति स वक्तव्यःहे श्रावक ! वयमेतद्वस्त्रं गृहीत्वा गुरूणां समीपे तावन्नयामः, यद्याचार्या एतद् ग्रहीष्यन्तिततो भूयोऽप्यागम्यभवतः समीपे द्वितीयंवारमवग्रमनुज्ञापयिष्याम इति,अथाचार्यावस्त्रनग्रहीष्यन्ति ततस्तेषां वस्त्रस्यानिच्छायां भवत एवेदं प्रत्याहरिष्यामः ।अमुमेव पक्षं परः समर्थयन्नाह[भा.२८१२] इहरा परिट्ठवणिया, तस्स व पञ्चप्पिणंति अहिगरणं । गिहिगहणे अहिगरणं, सो वा दटूण वोच्छेदं । वृ. 'इतरथा' यद्येवं न विधीयते ततो दर्शितमपि वस्त्रं यदाऽऽचार्या न गृह्णीयुस्तदा पारिष्ठापनिकादोषः । अथ न परिष्ठापयन्ति ततोऽप्रातिहारिकं गृहीत्वा भूयस्तस्यैव गृहस्थस्यप्रत्यर्पयतांपरिभोग-धावनादिकमधिकरणमुपजायते। अथ तत्परिष्ठापितंवस्त्रंकोऽपि गृही गृह्णाति ततोऽप्यधिकरणमेव । सवा' दाता तद् वस्त्रं परिष्ठापितं श्रुत्वा अन्यगृहस्थगृहीतं वादृष्ट्वा तद्रव्यान्यद्रव्यव्यवच्छेदमेकस्यानेकेषांवासाधूनांकुर्यात्॥अथ सूरिपरोक्तं दूषयत्राह[भा.२८१३] चोयग! गुरुपडिसिद्धे, तहिं पउत्थे धरित दिनंतु। धरणुज्झणे अहिगरणं, गेण्हेज सयंवपडिणीयं ।। वृ-हे नोदक ! एवं क्रियमाणे त एव त्वदुक्ता दोषा भवन्ति । तथाहि-तद् वस्त्रमानीय गुरूणामर्पितम्, तेन चाचार्याणां न प्रयोजनं ततस्तैः प्रतिषिद्धम्, तच्च वस्त्रं यावत् तस्य दायकस्यप्रत्यर्यते तावदसौ ग्रामान्तरं प्रोषितः, प्रोषिते च तस्मिन् यदि तद् वस्त्रं धारयतिपरिभुङ्क्तेइत्यर्थः तदा अदत्तादानम् । अथ तस्य सत्कं भणित्वा धारयति तदाऽधिकरणम् । अथात्मार्थितं कृत्वा धारयति तथाप्यधिकरणम्, अतिरिक्तोपकरणस्यापरिभोग्यतया अधिकरणत्वात् । अथ तद् वस्त्रमुज्झति-परिष्ठापयतीत्यर्थः तथापि गृहिगृहीतेऽधिकरणं . Page #167 -------------------------------------------------------------------------- ________________ वृहत्कल्प-छेदसूत्रम् - २- १/३८ परिष्ठापनादोषाश्च । अथवा प्रतिनीतं तद् वस्त्रं 'स्वमेव' आत्मना गृह्णीयाद्, नप्रतिदद्यादिति भावः । तस्मादेष त्वदुक्तो द्वितीयावग्रहो न भवति, किन्तु गृहस्थहस्ताद् वस्त्रं गृहीत्वा गुरुमूलमागम्य तेषां समर्प्य यदि ते तस्यैव प्रयच्छन्ति तदा यत् ते भूयोऽप्यवग्रहमनुज्ञाप्यन्ते एष द्वितीयावग्रहः । मू. (३९) निग्गंथं च णं बहिया वियारबूमिं वा विहारभूमिं वा निक्खतं समाणं केइ वत्थेण वा पडिग्गहेण वा कंबलेण वा पायपुंछणेण वा उवनिमंतेज्जा, कंप्पइ से सागारकडं गहाय आयरियपायमूले ठवित्ता दोघं पि उग्गहमणुन्नवेत्ता परिहारं परिहरित्तए । १६४ वृ- अस्य व्याख्याप्राग्वत् ॥ अथ भाष्यम् [भा. २८१४] बहिया व निग्गयाणं, जायणवतथं तहेव जयणाए । निमंतणवत्थे तहेव, सुद्धमसुद्धं च खमगादी ॥ वृ- 'बहि' विचारभूमौ वा विहारभूमौ वा निर्गतानां याच्ञावस्त्रं तथैव यतनया ग्रहीतुं कल्पते यथा भिक्षाचर्यायामुक्तम् । निमन्त्रणावस्त्रमपि तथैव शुद्धमशुद्धं च वक्तव्यम् । शुद्धं नाम-यत् क्षपक इति वा धर्म इति वा कृत्वा दीयते । अशुद्धं यत् चतुर्थवेण्टलादिकार्येण दीयते ॥ मू. (४०) निग्गंथिं च णं गाहावइकुलं पिंडवायपडियाए अणुष्पविट्टं केइ वत्थेण वा पडिग्गहेण वा कंबलेण वा पयपुंछणेण वा उवनिमंतेज्जा, कप्पइ से सागारकडं गहाय पवत्तिनिपायमूले ठवित्ता दोघं पि उग्गहमणुन्नवित्ता परिहारं परिहरित्तए ॥ मू. (४१) निग्गंथिं च णं बहिया वियारभूमिं वा विहारभूमिं वा निक्खतिं समाणि केइ वत्थेण वा पडिग्गहेण वा कंबलेण वा पायपुंछणेण वा उवनिमंतेज्जा, कप्पइ से सागारकडं गहाय पवित्तिणिपायमूले ठवेत्ता दोच्चं पि उग्गहमणुण्णवित्ता परिहारं परिहरित्तए । वृ- अस्य सूत्रद्वयस्यापि व्याख्या प्राग्वत् ॥ अथ भाष्यविस्तरः[भा. २८१५ ] निग्गंथिवत्थगहणे, चउरो मासा हवंतऽनुग्धाया । मिच्छत्ते संकाई, पसज्जणा जाव चरिमपदं ॥ वृ-निर्ग्रन्थीनां गृहस्थेभ्यो वस्त्रग्रहणं कुर्वन्तीनां चत्वारो मासा अनुद्धाताः प्रायश्चित्तम् । ताश्च वस्त्रं गृह्णन्तीर्हष्ट्वा कश्चिदमिनवश्राद्धो मिथ्यात्वं गच्छेत्-अहो ! निर्ग्रन्थ्योऽपि माटिं गृह्णन्तीति । अथवा शङ्कां कुर्यात् किं मन्ये धर्मार्थं दत्तमियं गृह्णाति ? उत भाटिनिमित्तम् ? । एवं शङ्कायां चतुर्गुरु । निशङ्किते मूलम् । प्रसजना नाम भोजिका घाटिकादिप्रसङ्गपरम्परा, तत्र 'चरमपदं ' पाराञ्चिकं यावत् प्रायश्चित्तम् । इदमेव भावयति [भा. २८१६] पुरिसेहिंतो वत्थं, गिण्हंतिं दिस्स संकमादीया । ओभासणा चउत्थे, पडिसिद्धे करेज्ज उड्डाहं ॥ वृ- पुरुषेभ्यः सकाशाद् वस्त्रं गृह्णन्तीं निर्ग्रन्थीं दृष्ट्वा शङ्कादयो दोषाः । शङ्का नाम - किमेषा टिं गृह्णाति ? । एवं शङ्कायां चतुर्गुरु, भोजिकायाः कथिते षड्लघु, घाटिकस्य कथने षड्गुरु, ज्ञातीनां कथने च्छेदः, आरक्षिकेण श्रुते मूलम्, श्रेष्ठि-सार्थवाह-पुरोहितैः श्रुतेऽनवस्थाप्यम्, अमात्य - नृपतिभ्यां श्रुते पाराञ्चिकम् । स वा गृहस्थो वस्त्राणि दत्त्वा चतुर्थविषयामवभाषणां कुर्यात्, तया च प्रतिषिद्धे उड्डाहं कुर्यात् एषा मदीयां भाटं गृहीत्वा सम्प्रति मदुक्तं न करोतीति ॥ किञ्चान्यत् Page #168 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं-४१, [भा. २८१७] १६५ [भा.२८१७] लोभेअ आभिओगे, विराधना पट्टएण दिटुंतो। दायव्व गणहरेणं, तं पिपरिच्छित्तु जयणाए। वृ. "लोभेय"त्ति येन वा तेन वा वस्त्रादिना स्त्री सुखेनैव प्रलोभ्यते । “अभिओगे"त्ति कोऽप्युदारशरीरां संयती दृष्ट्वा तस्या वशीकरणार्थमभियोगं कुर्यात् । ततश्चारित्रविराधना । अत्रच पट्टकेन दृष्टान्तः ।यत एवमतः संयतीनां गणधरेण वस्त्राणि दातव्यानि । 'तदपि वस्त्रदानं सप्त दिवसानि 'परीक्ष्य' परीक्षां कृत्वा 'यतनया' वक्ष्यमाणलक्षणया कर्त्तव्यमिति सङ्ग्रहगाथासमासार्थः ॥अथ विस्तरार्थमाह[भा.२८१८] पगई पेलवसत्ता, लोभिजइ जेन तेन वा इत्थी। अवि यहु मोहो दिप्पइ, सइरं तासिं सरीरेसु॥ वृ-'प्रकृत्या' स्वभावेनैव स्त्रीप्रायः ‘पेलवसत्त्वा' तुच्छधृतिबला ततोयेनवातेन वावस्त्रादिना लोभ्यते । अपि च ताः स्वभावेनैव वहुमोहा भवन्ति अतस्तासांपुरुषैः सह संलापं कुर्वतीनां दानं च गृह्णतीनां 'स्वैरं' स्वेच्छया शरीरेषु मोहो दीप्यते । अभियोगं वा तस्या विद्याभिमन्त्रितवस्त्रप्रदानव्याजेन कुर्यात्, अभियोगिता च सती चारित्रं विराधयेत् ॥तथा चात्र पट्टकदृष्टान्तमाह[भा.२८१९] वियरग समीवारामे, ससरक्खे पुप्फदान पट्ट कया। निसि वेल दारपिट्टण, पुच्छा गामेन निच्छुभणं॥ वृ-एगत्थगामे कूविया, सायआरामसमीवे। ततो य इथिजणो पाणियं वहइ। तम्मि आरामे एगोससरक्खो । सो कूवियातडे उरालं अविरइयंदटुंतीए विजाभिमंतियाणिपुप्फाणि देइ । तीए घरं गंतुं नीसापट्टए तानि ठवियाणि । ततो ते पुप्फा पट्टगं आविसिउं अड्डरत्तवेलाए घरदारं - पिटेंति । ततो अगारो निग्गओ पेच्छइ पट्टगं सपुष्फगं । तेन अगारी पुच्छिता । तीए सब्मावो कहिओ। तेन विगामस्स कहियं । गामेन सोससरक्खोनिच्छूढो । अथाक्षरगमनिका-विदरकः' कूपिका, सा चारामस्य समीपे । ततः सरजस्कः कूपिकातटे काञ्चिदविरतिकां दृष्ट्वा विद्याभिमन्त्रितपुष्पदानं करोति । तया च गृहे गत्वा तानि पट्टके कृतानि । ततो 'निशि' रात्रौ 'वेलायाम्' अर्द्धरात्रे गृहद्वारस्य पिट्टनं तैः कृतम् । ततस्तेन तस्याः पृच्छा कृता। सद्भावेचकथिते ग्रामस्य कथयित्वा तेन निष्काशनं सरजस्कस्य कृतम् । यत एते दोषा अतो निर्ग्रन्थीभिरात्मना गृहस्थेभ्यो वस्त्राणिनग्रहीतव्यानि, किन्तुगणधरेण तासांदातव्यानि ।।कः पुनरत्र विधिः? इति अत आह[भा.२८२०] सत्त दियसे ठवेत्ता, थेरपरिच्छाऽपरिच्छणे गुरुगा। देइ गणी गणिणीए, गुरुगा सय दान अट्ठाणे॥ वृ-संयतीप्रायोग्यमुपधिमुत्पाद्य सप्त दिवसान् स्थापयति-परिवासयति । ततः स्थापयित्वा कल्पं च कृत्वा स्थविरो धर्मश्रद्धावान् प्रावार्यते । यदि नास्ति कोऽपि विकारः सुन्दरम् । एवं परीक्षाकर्तव्या। यद्यपरीक्ष्यप्रयच्छति ततश्चत्वारोगुरवः। एवंपरीक्षिते 'गणी गणधरः 'गणिन्याः' प्रवर्त्तिन्याः वस्त्राणि प्रयच्छति । साऽपि गणिनी संयतीनां यथाक्रमंददाति । अथाचार्यआत्मना प्रयच्छति ततश्चतुर्गुरुकम् । काचिद् मन्दधर्मा ब्रूयात्-एतस्याः सुन्दरतरं दत्तं न मम, तन्नूनमियमस्याभीष्टा । एवं स्वयंदाने विधीयमाने आचार्यस्यास्थाने स्थापनं भवति । यत एवमतो नात्मना दातव्यं किन्तु प्रवर्तिन्या तासां दापयितव्यम् ।।नोदकः प्राह-यद्येवंतर्हि सूत्रं निरर्थकम्, Page #169 -------------------------------------------------------------------------- ________________ १६६ बृहत्कल्प-छेदसूत्रम् -२-१/४१ तत्र निर्ग्रन्थ्या वस्त्रगरहणस्यानुज्ञातत्वात् । आचार्य प्राह[भा.२८२१] असइ समणाणचोयग! जाइय-निमंतणवत्थ तह चेव । जायंति थेरि असई, विमिस्सिया मोत्तिमे ठाणे॥ वृ-हेनोदक! सूत्रं निरर्थकंन भवति, किन्तु श्रमणानामसति यदा स्थविरा निर्ग्रन्थ्यो वस्त्राणि गृह्णन्ति तद्विषयमेतत् सूत्रम् । तत्र याच्यावस्त्रे निमन्त्रणवस्त्रे च तथैव सर्वोऽपि विधिद्रष्टव्यः । ताश्चप्रथमतः स्थविरा एव केवलायाचन्ते।तासामसतितरुणीविमिश्रिताः स्थविराः, परमेतानि स्थानानि मुक्त्वा ।। तान्येव दर्शयति- [भा.२८२२] कावालिए य भिक्खू, सुइवादी कुब्दिए अवेसित्थी। वाणियगतरुण संसठ्ठ मेहुणे भोइए चेव।। [भा.२८२३] माता पिया य भगिनी, माउग संबंधिए य तह सनी। भावितकुलेसु गहणं, असई पडिलोम जयणाए। वृ-'कापालिकः' अस्थिसरजस्कः, भिक्षुकः' सौगतः, 'शुचिवादी' दकसौकरिकः, 'कूर्चिकः' कूर्चन्धरः, वेश्यास्त्री वाणिजकाश्च प्रतीताः, 'तरुणः' युवा, ‘संसृष्टः' पूर्वपरिचित उद्रामकः, 'मैथुनः' मातुलपुत्रः, “भोक्ता' भर्ता, माता पिता भगिनी भ्राता एते चत्वारोऽपि प्रसिद्धाः, 'सम्बन्धी सामान्यतः सज्ञातिकः, 'संज्ञी' श्रावकः। एतान् कापालिकादीन्मुक्त्वा यानि भावितानियथाप्रधानानि मध्यस्थानि कुलानि तेषु संयतीभिर्वस्त्रग्रहणं कर्तव्यम् । अथ भावितकुलानिन प्राप्यन्ते ततस्तेषामभावे 'प्रतिलोमं प्रतीपक्रमेण प्रतिषिद्धस्थानेष्वेव यतनया यथा वक्ष्यमाणा दोषा न भवन्ति तथा गृह्णीयुरिति सङ्ग्रहगाथाद्वयसमासार्थः ॥अथैतदेव प्रतिपदं भावयति[भा.२८२४] अट्ठी विज्जा कुच्छित, भिक्खु निरुद्धा उ लज्जएऽन्नत्थ । एव दगसोय कुच्चिग, सुइगत्ति य बंभचारित्ता। वृ“अहि"त्ति अस्थिरसरजस्काः, ते विद्यया मन्त्रेण वा संयतीनां वस्त्रदानव्याजेनाभियोगं कुर्युः, अपिचते 'कुत्सिताः'जुगुप्सिता भवन्ति।येतु'भिक्षुकाः' सौगतास्तेप्रायोनिरुद्धबस्तयः 'अन्यत्र च' व्यक्षरिकादिषु गच्छन्तो लज्जन्ते, गाथायां प्राकृतत्वादेकवचननिर्देशः । एवं 'दकसौकरिकाः' परिव्राजकाः कूर्चिकाश्च' कूर्चन्धरा वक्तव्याः, तेचोभयेऽप्येवं मन्यन्ते- एताः श्रमण्यो ब्रह्मचारित्वादप्रसवाः, अप्रसवत्वाच 'शुचयः' पवित्रा एता इति ।। [भा.२८२५] अन्नठवण? जुन्ना, अभिओगेजा व रूविणी गणिया। भोइग चोरिय दिन्नं, दटुं समणीसु उड्डाहो ।। वृ-याजीर्णा गणिकासास्वयं विवपयितुमसमर्था रूपवतीं संयतीं दृष्ट्वा अन्यस्थापनार्थम्' अपरगणिकास्थापनार्थमभियोगयेत् । या वा रूपवती गणिका साऽप्येवमेवाभियोगं कुर्यात् । तथा यो मातुलपुत्रस्तेन स्वभोजिकाया वस्त्रं चौरिकया संयत्याः दत्तम्, तच्च तया प्रावृतं दृष्ट्वा सा भोगिनी बहुजनमध्ये उड्डाहं कुर्यात्-एषा मे गृहभङ्गं करोति ॥ [भा.२८२६] देसिय वाणिय लोभा, सई दिने न उ चिरं पि होहित्ति। तरुणुब्भामग भोयग, संका आतोभयसमुत्था ।। वृ-'देशिकः' देशान्तरायातो वाणिजश्चिन्तयति-'सकृद्' एकवारं 'दत्तेन' दानेनममेयंचिरमपिं Page #170 -------------------------------------------------------------------------- ________________ १६७ - उद्देशकः १, मूलं-४१, [भा. २८२६] भविष्यति इति विचिन्त्य लोभाद्भयांसि वस्त्राणिदत्त्वा प्रलोभयेत् । यस्तु तरुणः स विकारबहुल उत्कटमोहश्च भवति, संसृष्टः पूर्वोभ्द्रामकः, 'भोक्ता' प्राक्तनो भर्ता, एतेषां हस्तादादीयमाने वस्त्रे शङ्कादय आत्मोभयसमुत्थाश्च दोषा भवन्ति ॥ [भा.२८२७] दाहामो णं कस्सइ, नियया सो होहिई सहाओ ने। सन्नी वि संजयाणं, दाहिइ इति विप्परीणामे॥ वृ-मातृ-पितृप्रभृतयः 'निजकाः' स्वजनाश्चिन्तयन्ति-यस्य क स्याप्येनां वयं दास्यामः सः अस्माकं सहायो भविष्यति; यस्तु संज्ञी' श्रावकः सोऽपि-एषा मेधर्मसहाया भविष्यति, अन्यच्च संयतानामेषा विपुलं भक्तपानंमदीये गृहेवर्तमाना दास्यति; इति एवंचिन्तयित्वा विपरिणामयेत्, विपरिणाम्यचोन्निष्क्रमणंकारयेत् । यत एवमत एतानि स्थानानि वर्जयित्वायानि भावितकलानि तेषु ग्रहीतव्यम् । भावितकुलानामभावे प्रतिषिद्धस्यानेष्वेव पश्चानुपूर्व्या गृह्णीयात्-प्रथमं यः सभोगिनीकः श्रावकस्स्य सकाशाद् ग्रहीतव्यम्, तस्याभावेऽभोगिनीकश्रावकहस्तादपि, एवं प्रतीपक्रमेण तावद्वक्तव्यंयावद्भिक्षुकाणामभावेकापालिकानांसकाशादपियतनया वस्त्रग्रहणं कर्तव्यम् ।। यतनामेवाह[भा.२८२८] मग्गंति थेरियाओ, लद्धं पि य थेरियाउ गेहंति । आगार द? तरुणीण व देंते तं न गिण्हंति ॥ वृ-याः स्थविराधर्मश्रद्धालवो गीतार्थाश्च ता वस्त्राणिमार्गयन्ति । लब्धमपिच वस्त्रं दायकसकाशात् स्थविरा एव गृह्णन्ति । अथासौ दाता काणाक्षिप्रभृतीनाकारन् करोति, स्थविरयावा हस्ते प्रसारितेभणति-तवन ददामि, एतस्यास्तरुण्याःप्रयच्छामीति। एवमाकारान् दृष्ट्वा तरुणीनां वा ददतं दायकं विज्ञाय तद वस्त्रं न गृह्णन्ति॥ एवमादिदोषविप्रमुक्तं वस्त्रमुत्पाद्य वसति प्राप्तानामयं विधिः[भा.२८२९] सत्त दिवसे ठवित्ता, कप्पे कते थेरिया परिच्छंति । सुद्धस्स होइ धरणा, असुद्ध छेत्तुंपरिट्ठवणा ।। वृ-सप्तदिवसान् वस्त्रं स्थापयन्ति । यद्यथापयित्वा परिभुञ्जते तदा चत्वारो गुरव आज्ञादयश्च दोषाः । यत एवं ततः स्थापयित्व कल्पं-प्रक्षालनं कुर्वन्ति । कृते च कल्पे स्थविरास्तद् वस्त्रं प्रावृत्य परीक्षन्ते । यदि शुद्धं ततस्तस्य धारणम्, अथ 'अशुद्धम्' अशुद्धभावोत्पादकं तद् वस्त्रं ततस्तत् छित्त्वा परिष्ठापनं कर्त्तव्यम् ॥अथ वस्त्रोत्पादनविनिर्गतानां निर्ग्रन्थानां निर्ग्रन्थीनां च सामान्यतो लाभा-ऽलाभादिनिमित्तपरिज्ञानोपायमाह[भा.२८३०] जंपुन पढमं वत्थं, चउकोणा तस्स होति लाभाए। वितिरिच्छंऽता मज्झे, य गरहिया चउगुरू आणा ॥ वृ-यत् पुनः प्रथमं वस्त्रं लभ्यते तस्य ये चत्वारो कोणकास्ते वक्ष्यमाणाञ्जन-खञ्जनलेपादिचिह्नोपलक्षिता लाभाय भवन्ति, उपलक्षणमिदम्, तेन यौ अञ्चलमध्यभागौ तावपि लाभाय भवतः । यौ तु वितिरश्चीनौ कर्णपट्टिकाया अन्त्यौ विभागौ यश्च तयोर्मध्यवर्ती विभागः एते त्रयोऽप्यञ्जनलेपादिचिह्नोपलक्षिताः 'गर्हिताः' अप्रशस्ताः । एतेषु चात्मविराधनासद्भावाच्चतुर्गुरुकमाज्ञा च भगवतां विराधिता भवति । अयमेवार्थोऽन्याचार्यपरिपाट्याऽभिधीयते ___ Page #171 -------------------------------------------------------------------------- ________________ १६८ बृहत्कल्प-छेदसूत्रम् -२-१/४१ [भा.२८३१] नवभागकए वत्थे, चउसु वि कोणेसु होइ वत्थस्स । लाभो विनासमन्ने, अंते मज्झे य जाणाहि ॥ कृ-इहयतोवस्त्रमायतंततःप्रथमतस्त्रयोभागाः कल्प्यन्ते, भूयोऽप्येकैको भागस्त्रिधाविभज्यते, एवं नवभागीकृते वस्त्रे ये चत्वारः कोणका अपिसब्दात् कोणकमध्यवर्तिनौ च द्वौ भागौ तेषु वस्त्रस्याञ्जनलेपादिसम्भवे लाभो भवति । ये पुनः ‘अन्ये' अपरे वस्त्रमध्यवर्तिनस्त्रयो भागाः, तद्यथा-द्वावन्त्यविभागौ एकः सर्वमध्यवर्ती विभागः, तेषु 'विनाशं' ग्लानत्वादिकं जानीहि ॥ अथ यैश्चिकैस्तेषु विभागेषु लाभो विनाशो वाऽनुमीयते तान्येवाह[भा.२८३२] अंजन-खंजन-कद्दमलित्ते, मूसगभक्खिय अग्गिविदड्डे । तुन्निय कुट्टिय पज्जवलीढे, होइ विवाग सुहो असुहो वा ॥ वृ- अञ्जनं-सौवीराजनादि खञ्जनं-दीपमलः कर्दमः-पङ्कस्तैर्लिप्तेःखरण्टिते, तथा मूषकैः उपलक्षणत्वात् कंसारिकादिभिश्च भक्षिते, अग्निना वा विशेषेण दग्धे, तथा तुन्नकारेण ‘तुन्निते' स्वकलाकौशलतः पूरितच्छिद्रे, 'कुट्टिते च' रजककुट्टनेन पतितच्छिद्रे, पर्यवैः-पुराणादिभि पर्यायैढे-युक्ते, अतिजीर्णतया कुत्सितवर्णान्तरादिसंयुक्ते स्फटिते वा इत्यर्थः । एवंविधे वस्त्रे गृहीते सति शुभोऽशुभो वा विपाकः परिणामो भवति। तत्र ये शुभा विभागास्तेषु शुभो विपाको ये त्वशुभास्तेष्वशुभ इति ॥अथ नवानामपि विभागानां स्वामिनः प्रतिपादयति[भा.२८३३] चउरो य दिग्विया भागा, दुवे भागा यमानुसा। आसुरा यदुवे भागा, मज्झे वत्थस्स रक्खसो।। वृ- चत्वारः कोणकाः 'दैव्याः' देवसम्बन्धिनो भागाः द्वौ' अञ्चलमध्यभागौ 'मानुषी' मनुष्यस्वामिकौ। 'द्वौच भागौ' कर्णपट्टिकामध्यलक्षणौ ‘आसुरी' असुरसम्बन्धिनौ । सर्वमध्यगतः पुनरेको भागः 'राक्षसः' राक्षसस्वमिक इति ॥अथैतेषु विभागेषु शुभा-ऽशुभफलमाह[भा.२८३४] दिव्वेसु उत्तमो लाभो, मानुसेसु यमज्झिमो। आसुरेसुय गेलन्नं, मज्झे मरणमाइसे ॥ वृ-दैव्येषु भागेषु यद्यञ्जनादिभिर्दूषितं वस्त्रं भवति तदा तस्मिन् गृहीते साधूनामुत्तमो वस्त्र- . पात्रादीनां लाभो भवेत् । मानुषभागयोरञ्जनाधुपदूषिते च वस्त्रे मध्यमो लाभो भवति । आसुरभागयोरञ्जनादिदूषितयोग्ानत्वं भवति । राक्षसभागे पुनरञ्जनादियुक्ते यतीनां मरणादिशेदिति ।। अथाखण्डस्यैव वस्त्रस्य लक्षणमाह[भा.२८३५] जं किंचि होइवत्थं, पमाणवं सम रुइंथिरं निद्धं । परदोसे निरुवहतं, तारिसगंखू भवे धन्नं ।। वृ-यत्किञ्चिद् वस्त्रं 'प्रमाणवत्' सूत्रोक्तप्रमाणोपेतं 'समं नाम' नान्यत्रस्थूलमन्यत्र श्लक्ष्णं 'रुचि नाम' रुचिकारकं 'स्थिरं' दृढं 'स्निग्धं' सतेजः, एभि पञ्चभि पदैर्वात्रिंशद् भङ्गा भवन्ति, एषप्रथमो भङ्गो गृहीतः। तथा परदोषाः-आसुर-राक्षसभागेष्वञ्जन-खञ्जनप्रभृतयस्तैः 'निरुपहतं' वर्जितम्, यद्वा परः-दायकस्तस्ययेदोषाः क्रीत-कृतादयस्तैर्विवर्जितंताशं वस्त्रम्, खुरवधारणे, ताशमेव 'धन्यं' ज्ञानादिधनप्रपकलक्षणोपेतमित्यर्थः॥ मू. (४२) नो कप्पइ निग्गंथाण वा निग्गंथीण वा राओ वा वियाले वा असनं वा पानं वा Page #172 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं- ४२, [भा. २८३५] खाइमं वा साइमं वा पडिगाहित्तए । वृ- अस्य सम्बन्धं घटयन्नाह[भा. २८३६ ] वयअहिगारे पगए, राईभत्तवयपालणा इणमो । सुतं उदाहु थेरा, मा पीला होज सव्वेसिं ॥ " १६९ वृ-पूर्वसूत्रे द्वितीयावग्राहानुज्ञामन्तरेण वस्त्रं न परिभोक्तव्यमिति तृतीयव्रतस्याधिकारः प्रकृतः । तस्मिश्च प्रकृते रात्रिभक्तव्रतपालनार्थमिदं सूत्रं 'स्थविरा:' श्रीभद्रबाहुस्वामिन उदाहृतवन्ता । कुतः ? इत्याह- मा तस्मिन् षष्ठव्रते भग्ने 'सर्वेषामपि ' महाव्रतानां 'पीडा' विराधना भवेदिति कृत्वा ।। प्रकारान्तरेण सम्बन्धमाह [भा. २८३७] अहवा पिंडो भणिओ, न यावि तस्स भणिओ गहणकालो । तस्स गहणं खपाए, वारेइ अनंतरे सुत्ते ।। वृ- अथवा “निग्गंथं च णं गाहावइकुलं पिंडवायपडियाए" इत्यादिषु सूत्रेषु पिण्डो भणितः । न च तस्य पिण्डस्य अपिशब्दाद् वस्त्रादेर्वा ग्रहणकालो भणितः 'कदा गृह्यते ? कदा च न ?' इति, अतः पूर्वसूत्रेभ्यो यदनन्तरमिदमेव सूत्रं तत्र 'तस्य' पिण्डस्य ग्रहणं 'क्षपायां' रात्रौ निवारयतीति ॥ अनेन सम्बन्धेनायातस्यास्य व्याख्या-नो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा रात्रौ वा विकाले वा 'अशनं वा' ओदनादि 'पानं वा' आयामादि 'खादिमं वा' फलादि 'स्वादिमं वा ' शुण्ठयादि प्रतिग्रहीतुमिति सूत्राक्षरार्थः । अथ भाष्यविस्तरः [भा. २८३८] रातो व वियाले वा, संज्झा राई उ केसिइ विकालो । चउरो य अनुग्घाया, चोदगपडिघाय आणादी ।। वृ- " रात्रौ वा विकाले वा" इति यदुक्तं सूत्रे तत्र सन्ध्या रात्रिरुच्यते, राजते-शोभते इति निरुक्तिवशात् । शेषा सर्वाऽपि रजनी विगतः सन्ध्याकालोऽत्रेति कृत्वा विकाल उच्यते । केषाञ्चिदाचार्याणां दिवसलक्षणकालविगमात् सन्ध्या विकालः, शेषा तु रात्रि, रचंति (रञ्जन्ति] स्तेन-पारदारिकादयोऽत्रेति कृत्वा । एतयो रात्रि-विकालयोः सूत्रोक्तं चतुर्विधमाहारं गृह्णतो भुञ्जानस्य च चत्वारोऽनुद्धाता मासाः प्रायश्चित्तम् । नोदकः प्रेरयति - किमिति रात्रिभोजनं परिहियते ? उच्यते- बहुदोषदर्शनात्। पुनरपि परः प्राह- युष्माकं द्वाचत्वारिंशद्दोषपरिशुद्धः पिण्डः परिभुज्यते इति समयस्थिति, तेषु च द्वाचत्वारिंशद्दोषेषु रात्रिभोजनं न क्वापि प्रतिषिद्धम्, अप्रतिषिद्धत्वाच्चावश्यमेव निर्दोषमिति मे मति । अस्य नोदकवचनस्य प्रतिघातंप्रतिषेधमाचार्य करोति-नोदक ! भवत एवं ब्रुवाणस्याज्ञाभङ्गादयो दोषाः, तथाहि यत् त्वया प्रतिपादितं 'रात्रिभोजनप्रतिषेधः क्वाप्यस्माभिर्न दृष्टः' इत्यादि तदेतदज्ञानप्रलपितमिव लक्ष्यते ॥ यतः [ भा. २८३९ ] जइ विय न प्पडिसिद्धं, बायालीसाए राइभत्तं तु । छट्ठे महव्वयम्मी, पडिसेहो तस्स ननु वुत्तो ॥ वृ- यद्यपि च द्वाचत्वारिंशति दोषेषु रात्रिभक्तं न प्रतिषिद्धं तथापि षष्ठे महाव्रते षड्जीवनिकायां ननु तस्या प्रतिषेध उक्त एव । तथा च सूत्रम्- अहावरे छट्टे भंते ! वए राइभोयणाओ वेरमणं । इत्यादि । अपि च [भा. २८४०] जता दिया न कप्पइ, तमं ति काऊण कोट्टयाईसु । Page #173 -------------------------------------------------------------------------- ________________ १७० बृहत्कल्प-छेदसूत्रम् -२-१/४२ किं पुन तमस्सईए, कप्पिस्सइ सव्वरीए उ॥ वृ-यदितावत् 'तमः' अन्धकारमितिकृत्वा नीचद्वारकोष्ठकादिषु दिवाऽपि भक्तपानं ग्रहीतुं न कल्पते, “नीयदुवारं तमसं, कोट्टगं परिवजए।" इति वचनात् ततः किं पुनः 'तमस्वत्यां' बहलतमःपटलकलितायां 'शर्वर्या रात्रौ कलपिष्यते? नैवेति भावः॥यच्चोक्तम्-‘रात्रिभक्ते दोषान सन्ति' इति तदप्यपरिभावितभाषितम्, यतः साक्षादेवामी दोषास्तत्रोपलभ्यन्ते[भा.२८४१] मिच्छत्तम्मी भिक्खू, विराधना होइ संजमायाए। पक्खलण खाणु कंटग,विसम दरी वाल साणे य॥ वृ-भगवता प्रतिषिद्धंरात्रिभोजनं कुर्वताआज्ञाभङ्गः कृतो भवति।तं दृष्टवाऽन्येऽपि रात्रिभक्ते प्रवर्त्तन्ते इत्यनवस्थाऽपिस्यात्। मिथ्यात्वेतुभिक्षुद्दष्टान्तो वक्तव्यः-जहा-कालोदाई नामभिक्खुगो रयणीए एगस्स माहणस्स गिहं भिक्खट्टापविट्ठो। तओ माहणी तस्स भिक्खानिमित्तंजाव मज्झे पविसइ ताव अंधयारबहलयाए अग्गओखीलओ न दिट्ठो। तत्थावडियाए तीसे खीलएण कुछी फाडिओ। सा य गुम्विणी आसि । गब्भो फुरफुरंतो पडिओ मओ य । सा वि य मया । तं दटुं लोगेण भणियं-अदिट्ठधममाणो एए त्ति । एवं साधुरपि रात्रौ भिक्षामटन् भगवत्यसर्वज्ञत्वशङ्कामुत्पादयति । तथा विराधना द्विविधा-संयमे आत्मनि च । तत्रात्मविराधना भाव्यते-रात्रौ मार्गमपश्यतः प्रस्खलनं भवति, स्थाणु-कण्टकाभ्यां वा पादयोः परिताप्येत, विषम-निम्नोन्नतं दरी-गर्ता तयोर्वा प्रपतेत्, व्यालः-सर्पस्तेन वा दश्येत, श्वानो वा रात्रावुपद्रवं कुर्यात् ।। [भा.२८४२] गोणे य तेणमादी, उब्भामग एवमाइ आयाए। संजमविराधनाए, छक्काया पानवहमादी। वृ. 'गौः' बलीवर्दस्तेन अभिहन्येत, स्तेना आदिशब्दादारक्षिकादयो वा तमकाले पर्यटन्तं गृह्णीयुः । यद्वा स एव साधुरकाले पर्यटन स्तेन आदिशब्दाच्चारिको वा अभिमरोवा उद्भ्रामको वाआरक्षिकपुरुषैः शङ्कयेत, ततश्च प्रान्तापनादयो दोषाः। एवमादयोदोषाआत्मविराधनाविषया भवन्ति । संयमविराधनायां तु षट् काया निशि तमस्यद्दश्यमानाः स्फुटमेव विराध्यन्ते, अथवा प्राणवधादयो दोषा रात्रौ पिण्डं गवेषयतो भवन्ति ।। तानेव भावयति[भा.२८४३] पाणवह पाणगहणे, कप्पट्ठोद्दाणए असंका उ। भणिओ न ठाइ ठाणे, मोसम्मि उ संकणा साणे ।। वृ-दिवा बीजसंसक्तोदकार्द्रादीनि सुप्रत्युपेक्षतया सुखेनैव साधुः परिहर्तुमीष्टे, रात्रौ तु दुःप्रत्युपेक्षतया तेषां परिहारः कर्तुं न शक्यते, अतः प्राणिग्रहणे प्राणवधो भवति । कल्पस्थके चापद्राणेऽगारिणो वक्ष्यमाणनीत्याशङ्का भवेत्-नूनमेतेनापद्रावित इति।तथा कोऽपिसाधुरगारिणा भणितः-रात्रौ मा मदीयं गृहमायासीरिति । ततः श्वानस्ते गृहमायास्यन्ति' इति प्रतिज्ञां कृत्वा गतः, परमसौ 'स्थाने स्ववचने न तिष्ठति ततश्च मृषावादमसौ ब्रूत इति शङ्का गृहस्थस्य स्यात् । एतदुत्तरत्र भावयिष्यते ।। अथ कल्पस्थकेऽपद्राणे यथा शङ्का भवति तदेतदुपदर्शयति[भा.२८४०] हंतुं सवित्तिनिसुयं, पडियरई काउमऽग्गदारम्मि। समणेण नोल्लियम्मी, पवेदण जणस्स आसंका ।। काचिदविरतिका रजन्यां सपत्नीसुतं हत्वा ततस्तमग्रद्वारे कृत्वा कपाटस्य पृष्ठतस्तमवष्टभ्य Page #174 -------------------------------------------------------------------------- ________________ १७१ उद्देशक : १, मूलं-४२, [भा. २८४४] 'प्रतिचरति' प्रतिजाग्रती तिष्ठति । श्रमणश्च तदानीं भिक्षार्थमायातः तेन कपाटं प्रेरितम्, सच दारकः सहसैव भूमौ पतितः । ततस्तया प्रवेदनं कृतं पूत्कृतमित्यर्थः, यथा-आः ! कष्टं संयतेन दारको व्यापादित इति । ततश्च जनस्याशङ्का भवति-किं मन्ये सत्यमेवेदम् ? इति । तत्र ग्रहणाकर्षणादयो दोषाः॥अथ मृषावादे विराधनामाशङ्कांचाह[भा.२८४५] मा निसि मोकं एजसु, भणाइ एहिंति ते गिहं सुणगा। ___ पुनरिंतं सडिपई, भणाइ सुणओ सि किं जातो॥ [भा.२८४६] एवं चिय मे रत्तिं, कुसणं दिजाहि तंच सुणएण। खइयं ति य भणमाणे, भणाइ जाणामि ते सुणए । वृ-काचिदविरतिकाकस्यापि साधोरुपशान्ता, सातस्य रात्रावप्यागतस्य भक्त-पानंप्रयच्छति, तद् दृष्ट्वा तदीयेन भास साधुरभिहितः-मा 'निशि' रात्रौ मदीयम् 'ओकः' गृहमायासीः। ततः साधुणति-एष्यन्तित्वदीयं गृहं शुनकाइति।ततःससाधुर्जिह्वादण्डदोषेणाकृष्यमाणः पुनस्तदीयं गृहमागतवान् । तं पुनरायान्तं स श्राद्धिकापतिर्भणति-किमेवं त्वं श्वा नो जातः ? । एवं मृषावाददोषमापद्यते।अथवा एवमेव केनचिदगारिणा साधुनिशि समागच्छन्प्रतिषिद्धः 'स्वानस्ते गृहमागमिष्यन्ति' इति प्रतिज्ञां कृतवान् । अन्यदा च तेनाविरतिकेन दिवा भुआनेन महिला भणिता-मनिमित्तमद्य कुसणंस्थापयेः, पश्चाच्च मम रात्रौ भुञानस्य ‘दद्याः' परिवेषयेः । ततस्तया स्थापितम् । तच्च शुनकेन भक्षितम् । एवं भणन्त्यां तस्यां गाथायां पुंस्त्वनिर्देश प्राकृतत्वात् स प्राह-जानाभ्यहं 'ते' त्वदीयान् शुनकान् । एवं मृषावादविषया शङ्का भवेत् ।। अथ तृतीयचतुर्थव्रतयोर्विराधनामाशङ्कां च प्रतिपादयति[भा.२८४७] सयमेव कोइ लुद्धो, अवहरती तं पडुच्च कम्मकरी । वाणिगिणी मेहुन्नं, बहुसो व चिरंव संका या॥ कृ-कश्चिल्लुब्धो भिक्षार्थं प्रविष्टोरजन्यामाकीर्णविप्रकीर्णं वस्त्र-हिरण्यादिदृष्ट्वास्यमेवापहरेत्। अथवातं संयतंप्रतीत्य कर्मकरी काचिदपहरेत्, 'संयतेन हृतं भविष्यतीतिगृहपतिप्रभृतयश्चिन्तयिष्यन्ति' इति बुध्द्या सासुवर्णादिकं चोरयेदिति भावः । तथा काचिद्वाणिजिका प्रोषितभर्तृका मैथुनमवभाषेत, तद्वचनाभ्युपगमेचतुर्थव्रतविराधना ।तथा आहारनिमित्तंबहुशःप्रवेश-निर्गमौ कुर्वाणश्चिरं चालाप-संलापादिभिस्तिष्ठन् मैथुनप्रतिसेवायां जनैःशङ्कयेत ॥ अथ पञ्चमव्रतविषये विराधना-शङ्के दर्शयति[भा.२८४८] अनभोगेन भण व, पडिनीओम्मीस भत्तपानं तु । दिजा हिरनमादी, आवजण संकणा दिढे॥ वृ-कश्चिदनाभोगेन भक्त-पानोन्मिश्रितं हिरण्यादि दद्याद् भयेन वा । यथा-कयाचिद् व्यक्षरिकया हिरण्यादिकमपहृतम्, सा च तं न शक्नोति सङ्गोपयितुंवा प्रत्यर्पियितुंवा, ततः संयतस्य भक्षे समं दद्यात् । प्रत्यनीकतया वा दद्यात्, यथा काष्ठश्रेष्ठिसाधोर्वजानामिकया प्राक्तनभार्यया इति । एवं च हिरण्यादिके गृहीते सति कश्चित् तत्रैव मूर्छा कुर्यात्, मूर्छया चैकान्ते सङ्गोप्य धारयतः परिग्रहदोषस्यापत्तिर्भवति । तथा तत् सुवर्णादिकं भक्तपानसम्मिश्रं दीयमानं दत्तं वा प्रतिग्रहे जाज्वल्यमानं कश्चित् पश्येत्, हष्टे च तस्य शङ्का जायेत-किं मन्येऽयं Page #175 -------------------------------------------------------------------------- ________________ बृहत्कल्प-छेदसूत्रम् -२-१/४२ जानानो लुब्धतया गृह्णाति ? उताजानानः प्रमादात् ? इत्यादि । यत एते दोषा अतो रात्रौ न पर्यटितव्यम् ॥ अथ रात्रिभक्तमेव भेदतः प्ररूपयन्नाह - [भा. २८४९] तं पिय चउव्विहं राइभोयणं चोलपट्टमइरेगे । परियावन्न विगिंचण, दरगुलिया रुक्ख सुन्नघरे ॥ वृ- तदपि च रात्रिभोजनं चतुर्विधम्, तद्यथा - दिवा गृहीतं दिवा भुक्तं 9 दिवा गृहीतं रात्री भुक्तं २ रात्रौ गृहीतं दिवा भुक्तं ३ रात्रौ गृहीतं रात्रौ भुक्तं च ४ इति । एतेषु चतुर्ष्वपि भङ्गेषु यथाक्रमं तपःकाललघु १ कालगुरु २ तपोगुरुको ३ भयगुरुकरूपाश्चत्वारो गुरवः । तत्र प्रथमभङ्गो भाव्यते- “चोलपट्ट” त्ति कस्यापि संयतस्य संज्ञातकानां सङ्घडिरुपस्थिता, स च तस्मिन् दिवसे प्रातरेवा भक्तार्थं प्रत्याख्यातवान्, ततः 'मा मामेतेऽभक्तार्थिनं न ज्ञास्यन्ति' इति कृत्वा पात्रकैरनुद्ग्राहितैश्चोपलट्टकसिहतो गतः संज्ञातकगृहं पृष्ठश्च किं भवद्भिर्भाजनानि नानीतानि? ; ततस्तेनान्येन वा साधुना भणितम् - अद्याभक्तार्थिक इति; ततस्ते संज्ञातकाः 'कल्ये वयं दास्यामः' इति कृत्वा यत् तदर्थं स्थापयन्ति द्वितीयदिने च यद्यसौ तद् गृहीत्वा भुङ्क्ते तदा प्रथमभङ्गो भवति । “अइरेगे” त्ति सङ्खड्यामन्यत्र वा कचिदतिरिक्तमवगाहमादि लब्धम्, तच्च 'पर्यापन्नं' परिष्ठापनायोग्यता प्राप्तम्, ततस्तस्य 'विगिञ्चणं' परिष्ठापनं तदर्थं निर्गतः तच्चोत्कृष्टविनाशि द्रव्यं मत्वा द्वितीयदिने समुद्देशनार्थं दर-गुलिका- वृक्ष- शून्यगृहे सथापयति । दर:- बिलम्, गुलिका नाम-पिटकं बुसपुञ्ज वा, वृक्षकोटरमुच्यते, यद्वा “गुलिया रुक्ख "त्ति गुलिकाः - पिण्डकास्तान् कृत्वा वृक्षकोटरे स्थापयति, शून्यगृहं-प्रतीतम् । एतेषु स्थापयित्वा द्वितीयदिवसे भुञ्जानस्य प्रथमभङ्गो भवतीति निर्युकितगाथा समासार्थः ।। अथ भाष्यकार एवैनां व्याख्यानयति १७२ [भा.२८५०] खमणं मोहतिगिच्छा, पच्छित्तमजीरमाण खमओ वा । गच्छइ सचोलपट्टो, पुच्छ ट्ठवणं पढमभंगो ॥ वृ- एकेन साधुना क्षपणं कृतं उपवास इत्यर्थः तच्च मोहचिकित्सार्थं वा प्रायश्चित्तविशुद्धिहेतोर्वा अजीर्यमाणभक्तपरिणतिनिमित्तं वा, 'क्षपको वा' एकान्तरितादिक्षपणकर्त्ताऽसौ; तद्दिने च तस्य संज्ञातकानां सङ्घडिरुपस्थिता, तैश्च साधवो भिक्षाग्रहणार्थमामन्त्रिताः, क्षपकसाधुश्चानुद्राहितपात्रकः 'सचोलपट्टः' चोलपट्टकद्वितीयो 'मामेतेऽत्र स्थितमभक्तार्थिनं न ज्ञास्यन्ति, अजानानाश्च न मदर्थं संविभागं स्थापयिष्यन्ति' इति बुध्या प्रस्थितः, आचार्यान् प्रतिब्रवीति च ते स्वभावत एवातिप्रान्ता मां विना न पर्याप्तं प्रदास्यन्ति, न वा अवगाहिमादीन्युत्कृष्टद्रव्याणि ढौकयिष्यन्ति, ततोऽहं गच्छामीति । स च तत्र गतः सन्ननुद्राहितपात्रको दृष्ट्वा तैः पृष्टः- किमद्योपवासी ज्येष्ठार्य ? इति । स प्राह-आमम् । ततस्तदर्थमवगाहिमादिसंविभागमभणिता अपि ते स्थापयन्ति 'कल्ये पारणकदिवसे दास्यामः' इति कृत्वा । यद्यपि ते न स्थापयन्ति तथापि क्षपकस्य चत्वारो गुरुकाः, भावतस्तेन सन्निधिस्थापनायाः कारितत्वात् । द्वितीयदिवसे च तद् गृहीत्वा भुञ्जनस्य प्रथमभङ्गो भवति ।। अथातिरिक्तादिपदानि व्याचष्टे [भा.२८५१] कारणगहिउव्वरियं, आवलियविहीए पुच्छिऊण गओ । भक्खं सुए दराइसु, ठवेइ साभिग्गहऽन्नो वा ॥ वृ- इह साधूनां भिक्षामटतां क्वचिदतर्कितः प्रभूतभक्तस्य लाभोऽभवत् सङ्खड्यां वा Page #176 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं- ४२, [भा. २८५१ ] १७३ प्रचुरमवगाहिमादि लब्धम्, अनुपचितक्षेत्रे वा गुरु-ग्लानादीनां प्रायोग्यग्रहणाय सर्वैरपि सङ्घाटकैर्मात्रकाणि व्यापारितानि, एवमादिभि कारणैः प्रायोग्यद्रव्यमतिरिक्तंगृहीतं तच्चौद्वरितम् । तत आवलिका - आचाम्लिका-ऽभक्तार्थिकादिपरिपाटिरूपां विधिना प्रत्याख्याननिर्युक्त्यादिशास्त्रप्रसिद्धेन प्रकारेण 'पृष्वा' निमन्त्रय तथाप्यतिरिक्तं परिष्ठापनाय गत एकान्तमनापातं बहुप्राशुकं स्थण्डिलम् । तत्रचप्राप्त उत्कृष्टाविनाशिद्रव्यलोभेन "सुए "त्ति ' श्वः' कल्ये भोक्ष्येऽहमिति चिन्तयित्वा दरे आदिशब्दाद् गुलिका - वृक्षकोटर शून्यगृहेषु स्थापयति । स च साभिग्रहो वा स्याद्‘अन्यो वा' अनभिग्रहः । साभिग्रहो नाम 'यत् किञ्चिदाहारोपकारणादिकं परिष्ठापनायोग्यं भवति तत् सर्वं मया परिष्ठापयितव्यम्' इत्येवं प्रतिपन्नाभिग्रहः, तद्विपरीतोऽनभिग्रह इति ॥ अथैतेषु स्थापयतः प्रायश्चित्तमाह [भा. २८५२] बिले मूलं गुरुगा वा, अनंते गुरु लहुग सेस जं चऽन्नं । थेरीय उ निक्खित्ते, पाहुण-साणाइखइए वा ।। [भा. २८५३ ] आरोवणा उ तस्सा, बंधस्स परूवणा य कायव्वा । कुल नामऽट्ठिगमाउं, मंसाऽजिन्नं न जाऽऽउट्टो || वृ-बिले स्थापयतो मूलं गुरुका वा यदि वसिमे बिले स्थापयति तदा मूलम्, उद्वसे चत्वारो गुरवः । अनन्तवनस्पतिकोटरे स्थापयतश्चतुर्गुरवः । 'शेषेषु' प्रत्येकवनस्पतिकोटर - गुलिकाशून्यगृहेषु स्थापयतश्चतुर्लघवः, यच्च 'अन्यद्' आत्म-संयमविराधनादिकमापद्यते तन्निष्पन्नं प्रायश्चित्तम् । अथ स्थविरागृहे स्थापयति ततस्तत्र निक्षिप्ते चत्वारो लघवः । अथ तया तत् प्राघुणकाय दत्तं स्वयमेववा प्राघुणकेन भुक्तं श्वान - गवादिभिर्वा भक्षितं तदा 'तस्य' स्थापकस्यारोपणा कर्त्तव्या, चतुर्लघुकादिकं यथायोग्यं प्रायश्चित्तं दातव्यमिति भावः । तत्र चप्राघुणकादिना भुक्ते कियन्तं कालं यावत् कर्मबन्धो भवति ? इत्याशङ्कायां बन्धस्य प्ररूपणा कर्त्तव्या । सा चेयम्-“कुल" इत्यादि । केचिदाचार्यदेशीयाः ब्रुवते यावत् तस्य प्राघुणकस्य सप्तमः कुलवंशः तावदनुसमयं तस्य स्थापकस्य साधोः कर्मबन्धो मन्तव्यः । अपरे प्राहुः यावत् तस्य नाम-गोत्रं नाद्यापि प्रक्षीणम् । अन्ये भणन्ति यावत् तस्यास्थीनि ध्रियन्ते । इतरे ब्रुवते - यावदसावायुर्धारयति । तदपरे कथयन्ति यावत् तस्य तप्रत्ययो मांसोपचयो ध्रियते । अन्ये प्रतिपादयन्ति यावत् तस्य तद् भक्तमद्यापि न जीर्णम् । आचार्य प्राह-एते सर्वेऽप्यनादेशाः, सिद्धान्तसद्भावः पुनरयम् - यावदसौ स्थापकसाधुरद्यापि तस्मात् स्थानाद् 'नावृत्तः ' नालोचनाप्रदानादिना प्रतिक्रान्तः तावत् तस्य कर्मबन्धो न व्यवच्छिद्यते ॥ गतः प्रथमो भङ्गः । अथ शेषभङ्गत्रयीं भावयति [भा. २८५४ ] संखडिगमने बीओ, वीयारगयस्स तइयओ होइ । सन्नायगमण चरिमो तस्स इमे वन्निया भेदा ॥ वृ- अपराह्णे या सङ्घडी तस्यां गमने 'दिवा गृहीतं रात्रौ भुक्तम्' इति द्वितीयभङ्गो भवति । अनुद्गते सूर्ये बहिर्विचारभूमौ गतस्य बलिना निमन्त्रितस्य 'रात्रौ गृहीतं दिवा भुक्तम्' इति तृतीयो भङ्गः । संज्ञातककुलगमने संज्ञातकानामेव वचनेनात्मीयलौल्येन वा रात्रौ गृहीत्वा रात्रावेव भुञ्जानस्य 'चरमः' चतुर्थो भङ्गः । तस्य च चतुर्थभङ्गस्य 'इम' वक्ष्यमाणाः प्रायश्चित्तभेदा वर्णिता Page #177 -------------------------------------------------------------------------- ________________ १७४ इति नियुक्तिगाथासमासार्थः ।। अथैनामेव गाथां व्याख्यानयति[ भा. २८५५ ] गिरिजन्नगमाईसु व, संखडि उक्कोसलंभे बिइओ उ । अग्गिट्ठि मंगलट्ठी, पंथिंग- वइगाइसू तइओ ॥ वृ- गिरयज्ञो नाम-कोङ्कणादिदेशेषु सायाह्नकालभावी प्रकरणविशेषः । आह च चूर्णिकृत्गिरियज्ञः कोङ्कणादिषु भवति उस्सूरे तति । विशेषचूर्णिकारः पुनराह - गिरिजन्नौ मत्तवालसंखडी भन्नइ, सा लाडविसए वरिसारत्ते भवइ त्ति । गिरिकंजन्नत्ति भूमिदाहो त्ति भणितं होइ । तदादिषु सङ्घडिषु वा शब्दादन्यत्रवा क्वापि सूर्ये ध्रियमाणे उत्कृष्टम् - अवगाहिमादि द्रव्यं लब्ध्वा यावत् प्रतिश्रयमागच्छति तावदस्तमुपगतो रवि ततो रात्रौ भुङ्कत इति द्वितीयो भङ्गः । तथा दक्षिणापथे कुडवार्द्धमात्रया समितया महाप्रमाणो मण्डकः क्रियते स हेमन्तकालेऽरुणोदयवेलायां अग्निष्टिकायां पक्त्वा धूलीजङ्घाय दीयते, तंगृहीत्वा भुञ्जानस्य तृतीयो भङ्गः । श्राद्धोवा प्रातर्गन्तुकामः साधुं विचारभूमौ गच्छन्तं दृष्ट्वा मङ्गलार्थी अनुद्गते सूर्येनिमन्त्रयेत्, पथिका वा पन्थानं व्यतिव्रजन्तो निमन्त्रयेयुः, व्रजिकायां वाऽनुद्गते सूर्ये उच्चलितुकामाः साधुं प्रतिलाभयेयुः, एवमादिषु गृहीत्वा भुञ्जानस्य तृतीयो भङ्गो भवति ॥ अथ चतुर्थभङ्गं व्याख्यानयति [भा. २८५६] छन्दिय - सयंगयाण व, सन्नायगसंखडीइ वीसरणं । बृहत्कल्प-छेदसूत्रम् -२-१/४२ दिवसे गते संभरणं, खामण कल्लं न इण्हि ति ॥ वृ- केषाञ्चित् साधूनां संज्ञातकगृहे सङ्घडिरुपस्थिता, तत्र ते छन्दिताः- निमन्त्रिताः स्वयं वाअनिमन्त्रिता गताः। ततः संज्ञातकैस्ते संयता अभिहिताः अद्य यूयं मा भिक्षां पर्यटत, वयमेव पर्याप्तं प्रदास्याम इति । ते च संयता भोजनकाले परिवेषणादिकृत्यव्यग्राणां तेषां विस्मरणपथमुपागमन् । ततो यदा लोकस्य यद् दातव्यं तद्दत्तम्, यच्च कर्त्तव्यं तत्कृतम्, ततः क्षणिकीभूतैस्तैर्दिवसे 'गते' व्यतीते सति संयतानां संस्मरणं कृतम् । ततस्ते रात्रौ प्राञ्जलिपुटाः पादयोः पतित्वा क्षामणां कुर्वन्ति-परिवेषणव्यग्रैरस्माभिर्ययं न संस्मृताः, क्षमध्वमस्मदपराधम् गृह्णीध्वमस्मदनुग्रहाय भक्तपानमिति । संयता ब्रुवते - कल्ये ग्रहीष्यामः, नेदानीं रात्राविति ॥ गृहस्थाः प्रश्नयन्ति - किं कारणम् ? । संयताः प्रतिब्रुवते [भा. २८५७] संसत्ताइ न सुज्झइ, ननु जोण्हा वि य दो वि उसिणाइ । काले अमरए वा मणिदीवुद्दित्तए बेंति ॥ वृ-रात्रौ भक्तपानं कीटिकादिभि संसक्तमसंसक्तं वेति न शुध्यति, आदिशब्दाद् यूयमस्मदर्थं भिक्षामानयन्तो मार्गे कीटिकादिजन्तूनामाक्रमणं कुरुथ तच्च यूयं वयं च न पश्यामः । तदा च चन्द्रज्योत्स्ना वर्त्तते ततस्ते गृहस्था ब्रुवते - निन्वियमीशी ज्योत्स्ना या दिवसमपि विशेषयति, अपि च 'द्वे अपि' कूर-कुसणे भक्त पानकेवा उष्णे, नास्ति संसक्तिदोष इति । अथ 'कालः' कृष्णोऽसौ पक्षो वर्त्तते, शुक्लपक्षे वा भ्रच्छन्नो रजश्छन्नो वा चन्द्रोभवेत्, ततस्ते गृहस्थाः “बिंति” त्ति ब्रुवते - अस्माकं मणिरत्नमस्ति तेन दिवसोऽपि विशिष्यते, प्रदीपो वा उद्दीप्तं वा ज्योति पूर्वकृतं विद्यते तेन परिस्फुटः प्रकाशो भवति । एवमुक्ते यदि गृह्णन्ति भुञ्जते वा तत इदं नैसंस्थितंप्रायश्चित्तम् ॥ तदेव दर्शयति [ भा. २८५८ ] जोण्हा मणी पदीवा, उद्दित्त जहन्नागाईं ठाणाई । Page #178 -------------------------------------------------------------------------- ________________ उद्देश : १, मूलं - ४२, [भा. २८५८] १७५ चउगुरुगा छग्गुरुगा, छेओ मूलं जहन्नम्मि ॥ वृ- ज्योत्स्नाया उद्योते भुञ्जानस्य चत्वारो गुखः, मणिप्रकाशे षङ्गुरवः, प्रदीपप्रकाशे च्छेदः, उद्दीप्तोद्योते मूलम् । अमूनि प्रायश्चित्तानि ज्योत्स्ननादिपदोपलक्षितानि यथाक्रममद्योऽधः स्थापनीयानि । एतानि जधन्यानि स्थानानि । किमुक्तं भवति ? - प्रसङ्गमन्तरेण जधन्यतोऽप्येतानि प्रायश्चित्तानि द्रष्टव्यानि || अथ प्रसङ्गतो यत् प्रायश्चित्तं भवति तद् बिभणिषुराह [भा. २८५९ ] भोत्तूणय आगमनं, गुरुर्हि वसभेहि कुल गणे संघे । आरोवण कायव्वा, बिइया य अभिक्खगहणेणं ॥ वृ- रात्रौ ज्योत्स्नाप्रकाशादिषु भुक्त्वा गुरुणां समीपे तेषामागमनम् । आगतैश्चालोचनापरिणतैरन्यथा वा गुरुणां कथितम् । ततो गुरुभिरुक्तम्- दुष्ठु कृतं भवद्भिर्यनिशाभक्तमासेवितम् । इत्युक्ते यदि सम्यगावृत्ताः 'मिथ्यादुष्कृतम्, न भूय एवं करिष्यामः' इति ततश्चतुर्गुरवः । अथ नावृत्ताः किन्तु गुरुवचनातिक्रमं कुर्वन्ति-'को नाम दोषो यदि ज्योत्स्नाप्रकाशे दिवससङ्काशे भुक्तम् ? ' इति ततः षगुरुकाः । वृषभैरभिहिताः- आर्या ! किभेवं गुरुणां वचनमतिक्रामथ ?' यदि (इति) वृषभवचने सम्यगावृत्तास्ततः षड्गुरुका एव, अथ वृषभवचनातिक्रमं कुर्वन्ति ततश्छेदः । एवं कुलेन कुलस्थविरैर्वा नोदिता यद्यांवृत्तास्ततो मूलमेव, अथ नावृत्तास्ततोऽनवस्थाप्यम् । सङ्खेन सङ्घस्थविरैर्वा नोदिताः 'किमिति गणंगणस्थविरान् वा अतिक्रामथ ?' इत्युक्ते यद्यावर्त्तन्ते ततोऽनवस्थाप्यमेव, अनावर्त्तमानानां पाराञ्चिकम् । एषा च 'आरोपणा' प्रायश्चित्तवृद्धिर्गुरुवृषभादिवचनातिक्रमनिप्पन्ना प्रागुक्तजधन्यप्रायश्चित्तस्थानेभ्यो दक्षिणतः कर्त्तव्या । द्वितीया तु रात्रिभक्तस्यैव यद् अभीक्ष्णग्रहणं-पुनः पुनरासेवा तन्निष्पन्ना वामपार्श्वतः कर्त्तव्या । तद्यथाएकं वारं ज्योत्स्नाप्रकाशे भुञ्चतश्चत्वारो गुखः, द्वितीयं वारं षङ्गुरवः, तृतीयं वारं छेदः, चतुर्थं वारं मूलम्, पञ्चमं वारमनवस्थाप्यम्, षष्ठं वारं भुञ्चानस्य पाराञ्चिकम्, एषा ज्योत्स्नाप्रकाशे प्रायश्चित्तवृद्धिरुक्ता । एवं मणिष्काशेऽपि, नवरं गुरुभि प्रतिनोदिता यद्यावृत्तास्ततः षङ्गुरुकम्, अथ गुरुवचनमतिक्रामन्ति ततश्छेदः; एवं वृषभवचनातिक्रमे मूलम्, कुलस्थविरातिक्रमेऽनवस्थाप्यम्, गणस्थविर-सङ्घस्थविरातिक्रमे पाराश्चिकम्, अभीक्ष्णसेवायां तु पञ्चभिवरिः पाराञ्चिकम् । एवं प्रदीपेऽपि दक्षिणतो वामतश्चारोपणा, नवरमाचार्यातिक्रमे मूलम्, वृषभातिक्रमेऽनवस्थाप्यम्, कुल-गण-सङ्घस्थविरातिक्रमे पाराञ्चिकम्, अभीक्ष्णसेवायां तु चतुर्भिवरिः पाराञ्चिकम् । एवमुद्दीप्तप्रकाशेऽपि, नवरमाचार्यातिक्रमेऽनवस्थाप्यम्, वृषभ-कुल-गण-सङ्घस्थविराणां चतुर्णामप्यतिक्रमे पाराञ्चिकम्, अभीक्ष्णसेवायां तु त्रिभिवरैिः पाराञ्चिकम, एषा प्रथमा नौरवसातव्या । द्वितीयादयोऽपि वक्ष्यामाणा एवमेव स्थाप्याः ॥ शिष्यः, प्राह-कुल-गण-सङ्गस्थविर- वचनमतिक्रामतां यद् गुरुतरं प्रायश्चित्तमुक्तं तदत्र किं कारणाम् ? अत्रोच्यते-एते त्रयोऽपि स्थविरा आचार्यादपि गरीयांसो मन्तव्याः, प्रमाणपुरुषतया स्थापितत्वात् । कथं पुनरेते प्रमाणपुरुषाः ? उच्यते [ भा. २८६०] तिहिं थेरेहिं कयं जं, सट्ठाणे तं तिगं न वोलेइ । हेट्ठिल्ला वि उवरिमे, उवरिमथेरा उ भइयव्वा ॥ वृ- 'त्रिभिः' कुल-गण-सङ्घस्थविरैः यद् आभवद्व्यवहारादिविषयं कार्यं कृतं तत् कार्य स्वस्थाने Page #179 -------------------------------------------------------------------------- ________________ १७६ बृहत्कल्प-छेदसूत्रम् -२-१/४२ ‘त्रिकं’ कुल-गण-स्वलक्षणं ‘न वोलयति' न व्यतिक्रामतीत्यर्थः । किमुक्तं भवति ? - कुलस्थविरेण कृतं कुलं नातिक्रामति, गणस्थविरेण कृतं गणोनातिक्रामति, सङ्घस्थविरेण कृतं सङ्घये नातिक्रामति' । "हेट्ठिल्ला वि उवरिमे" त्ति 'अधस्तनाः' कुलस्थविरास्तेऽप्युपरितनैः - गणस्थ - विरैः सङ्घस्थविरैश्च कृतं नातिक्रामन्ति तथा गणस्थविरा: सङ्घस्थविरेभ्योऽधस्तनास्ततो यत् सङ्घस्थविरैः कृतं तद् गणस्थविरा नातिक्रामन्ति । उपरितनास्तु स्थविरा: 'भक्तव्याः' विकल्पयितव्याः कथम् ? इति चेद् उच्यते- कुलस्थविरैररक्तद्विष्टैर्यत् कृतं तद् गणस्थविराः सङ्घस्थविराश्च नान्यथा कुर्वन्ति, अथागमोक्तविधिमन्तरेण रक्तद्विष्टैः कृतं ततस्तन्न प्रमाणयन्ति । एवं गणस्थविरैरपि यदरक्तद्विष्टैः कृतं तत् सङ्घस्थविरा नातिक्रामन्ति, अथ रक्तद्विटैः कृतं ततो न प्रमाणयन्ति । अत एतेषु गुरुतरं प्रायश्चित्तम् ॥ अथ द्वितीयतृतीयचतुर्थनौदर्शनार्थमाहचंदुज्जोवे को दोसो, अप्पप्पाणे य फासुए दव्वे । भिक्खू वसभाऽऽयरिए, गच्छम्मि य अट्ठ संघाडा | [भा. २८६१] वृ- ज्योत्स्नाप्रकाशे भुक्त्वा समागत्य गुरुणामालोचयन्ति ततो भिक्षुभि प्रतिनोदिता यदि सम्यगावर्त्तन्ते ततश्चतुर्गुरुकमेव । अथ ब्रुवते 'चन्द्रोद्योते को नाम दोषः ? को वा अल्पप्राणेऽवगाहिमादौ प्राशुके द्रव्ये ?' एनं भणतां षड्लघवः । ततो वृषभैरभिधीयन्ते- 'आर्या ! भिक्षूणामतिक्रमं कुरुत्त' यद्यावर्त्तन्ते ततः षङ्गुरुका एव, अथ वृषभानतिक्रामन्ति ततः षङ्गुरुकाः। तत आचार्यैरभिहिता यद्यावृत्तास्ततः षङ्गुरुका एव, अनावृत्तानां छेदः । “गच्छम्मिय” त्ति कुल-गुण-सङ्घा इह गच्छशब्देनोच्यले, ततः कुलेन भणिता यदि सम्यगुपरतास्ततरछेद एव, अथ नोपरमन्ते ततो मूलम् । गणेनाप्यभिहिता यद्यावृत्तास्ततो मूलम्, अथ नावृत्तास्ततोऽनवस्थाप्यम् । ततः सङ्खेनाभिहिता यद्युपरमन्ते ततोऽनवस्थाप्यम्, अथ नोपरमन्ते ततः पाराञ्चिकम् । एषा प्रायश्चित्तवृद्धिर्दक्षिणतः कर्त्तव्या । अभीक्ष्णसेवायाम्-द्वितीयं वारं ज्योत्यसनाप्रकाशे भुञ्चानस्य षड्लघुकम्, तृतीयं वारं षङ्गुरुकम्, चतुर्थं छेदः, पञ्चमं मूलम्, षष्ठमनवस्थाप्यम्, सप्तमं वारं पाञ्चिकम् एषा प्रायश्चित्तवृद्धिर्वामतः स्थापयितव्या । एवं मणि-प्रदीपोद्दीप्तप्रकाशेष्वपि भिक्षु-वृक्षभाद्यतिक्रमनिष्पन्ना दक्षिणतोऽभीक्ष्णसेवानिष्पन्ना तुवामतो यथाक्रमं प्रायश्चित्तवृद्धि स्थापनीया । एषा द्वितीया नौरभिधीयते । तृतीयाऽपि नौरेवमेव कर्त्तव्या, नवरं तस्यां ज्योत्स्नादिप्रकाशेषु भुक्त्वा न कस्याप्याचार्यादेः कथयन्ति किन्तु भिक्षुप्रभृतयस्तेषां परस्परं संलापं श्रुत्वाऽन्यस्य वा श्रावकादेर्मुखादाकर्ण्य तान् प्रतिनोदयन्ति, शेषं सर्वमपि द्वितीयनौवद् द्रष्टव्यम् । चतुर्थी पुनरियम्-भिक्षूणामतिक्रमे चतुर्गुरु, वृषभाणामतिक्रमे षड्लघु, आचार्याणामतिक्र मे षङ्गुरु, गच्छस्य साधुसमूहरुपस्यातिक्रमे छेदः, कुलस्यातिक्रमे मूलम् गणस्यातिक्रमेऽनवस्थाप्यम्, सङ्घस्यातिक्रमे पाराञ्चिकम्, एषा दक्षिणतः प्रायश्चित्तवृद्धिः । द्वितीया त्वभीक्ष्णसेवानिष्पन्ना चतुर्गुरुकादारभ्य सप्तभिवरिः पाराश्ञ्चिकं यावद् वामतः स्थापनीया, एवं ज्योत्स्नायामुक्तम्। मणि- प्रदीपोद्दीप्तेष्वपि यथाक्रमं षड्लघुक-षङ्गुरुकच्छेदानादौ कृत्वा पाराञ्चिकान्ता दक्षिणतो वामतश्चैवमेव प्रायश्चित्तलते भवतः, तद्यथा-दक्षिणपार्श्ववर्त्तिनी वामपार्श्ववर्त्तिनीच; ततश्चतसृषु नौषु सर्वसङ्ख्ययाऽष्टौ लता लभ्यन्ते, ताश्चाष्टौ सङ्घाटका मन्तव्याः । यत आह चूर्णिकृत् “अट्ठ संघाड" त्ति जो जोण्हा-मणि-पदीवुद्दित्तेसु मूलपच्छित्तपत्थारो तस्स Page #180 -------------------------------------------------------------------------- ________________ उद्देशकः १, मूलं-४२, [भा. २८६१] १७७ इतो विचत्तारि पच्छित्तलयाओइतो विचत्तारि, सव्वेतेअट्ठ संघाडगा।संघाड त्ति वा लयत्तिवा पगारो ति वा एगट्ठति । अथ ज्योत्स्नादिविवक्षारहितं सामान्यतः प्रायश्चित्तमाह[भा.२८६२] सन्नायग आगमने, संखडि राओ अभोयणे मूलं । बिइए अणवठ्ठप्पो, तइयम्मिय होइ पारंची ॥ वृ-संज्ञातककुले आगमनं कृत्वा सङ्घड्यावागत्वा रात्रौ यदि भुङ्क्ते तदा मूलव्रतविराधनानिष्पन्नं मूलं नाम प्रायश्चित्तम्, द्वितीयं वारं रात्रौ भुञ्चानस्यानवस्थाप्यम्, तृतीयं वारं पाराञ्चिकम् । अथवा भिक्षोरात्रौ भुञ्चानस्य मूलम्, द्वितीयः-उपाध्यायस्तस्यानवस्थाप्यम्, तृतीयः-आचार्यस्तस्य रात्री भुञ्चानस्य पाराञ्चिकम्॥ अथ यदुक्तम् ‘अल्पप्राणे प्राशुकद्रव्ये को दोषः?' इति तदेतत् परिहरन्नाह[भा.२८६३] जइ वियफासुगदव्वं, कुंथू-पनगाइ तह विदुष्पस्सा । पच्चक्खनाणिणो विहु, राईभत्तं परिहरंति॥ वृ- यद्यपि तत् प्राशुकद्रव्यमवगाहिमादि तथापि 'कुन्थु-पनकादयः' आगन्तुक-तदुद्भवा जन्तवो रात्रौ दुर्दर्शा भवन्ति । किञ्च येऽपि तावत् 'प्रत्यक्षज्ञानिनः' केवलिप्रभृतयस्ते यद्यपि ज्ञानालोकेन तदुद्भवाऽऽगन्तुकसत्त्वविरहितं भक्तपानं पश्यन्ति तथापि हुनिश्चितं रात्रिभक्तं परिहरन्ति, मूलगुणविराधनामाभूदिति कृत्वा अथ यदुक्तम् ‘चन्द्र-प्रदीपादिप्रकाशे को दोषः?' इति तत्र परिहारमाह[भा.२८६४] जइ विय पिपीलियाई, दीसंति पईव-जोइउज्जोए। तह विखलु अणाइन्नं, मूलवयविराधना जेणं ॥ वृ-यद्यपि प्रदीप-ज्योतिषोः उपलक्षणत्वात् चन्द्रस्य चोद्योते पिपीलिकादयो जन्तवो दृश्यन्ते तथापि ‘खलु' निश्चयेन अनाचीर्णमिदं रात्रिभक्तम् । कृतः ? इत्याह-'मूलव्रतानां' प्राणातिपातविरमणादीना महाव्रतानांप्रागुक्तनीत्या विराधना येन रात्रिभक्ते भवति अतो रात्री न भोक्तव्यम् ।। अथ “गच्छम्मिय" त्ति पदं व्याचेष्ट[भा.२८६५] गच्छगहणेण गच्छो, भणाइ अहवा कुलाइओ गच्छो। गच्छग्गहणे व कए, गहणं पुन गच्छवासीणं ॥ वृ-गच्छग्रहणेन गच्छ:' साधुसमूहरुपोरात्रिभक्तप्रतिसेवकान् ‘भणति'नोदयतीतिमन्तव्यम्, यथा चतुर्थ्या नावि चतुर्थे पदे । अथवा गच्छग्रहणेन 'कुलादिकः' कुल-गण-सङ्घपो ग्रहणं विज्ञेयम्, तषामेवेदं प्रायश्चित्तनिकुरुम्बन जिनकल्पिकादीनाम् ।। इह पूर्वं भाष्यकारेण प्रथमा नौः परिस्पष्टमुपदर्शिता न द्वितीयादयः, अतो यथाक्रमंतासां व्याख्यानमाह[भा.२८६६] बिइयादेसे भिक्खू, भणंति दुटु भे कयं ति वोलेंति। छल्लहु वसभे छग्गुरु, छेदो मूलाइ जा चरिमं ।। वृ-'द्वितीयादेशो नाम' द्वितीयनौसंस्थितः प्रायश्चित्तप्रकारः, तत्र तथैव रात्रौ भुक्त्वा गुरुणां निवेदिते भिक्षवो भणन्ति-दुष्ठु “भे" भवद्भिः कृतमिति । तच्च वचनं यदि ते 'वोलयन्ति' न प्रतिपद्यन्ते तदा षड्लघुकम्, वृषभवचनातिक्रमे षड्गुरुकम्, आचार्याणामतिक्रमे च्छेदः, [19] 12 Page #181 -------------------------------------------------------------------------- ________________ १७८ बृहत्कल्प-छेदसूत्रम् -२-१/४२ कुलस्थविरस्याप्रमाणीकरणेमूलम्, गणस्थविरस्याप्रमाणनेऽनवस्थाप्यम्, सङ्घस्थविरस्यातिक्रमणे पाराञ्चिकम् । एवं मणिप्रकाशादिष्वपि मन्तव्यम्, नवरं मणिप्रकाशे षङ्गुरुकात् प्रदीपप्रकाशे छेदाद् उद्दीप्ते मूलादारब्धव्यम् । अभीक्ष्णसेवायां तु सप्तभिवरिः पाराञ्चिकम् । भावना तुप्रागेव कृतेति ॥ तृतीया भाव्यते[भा.२८६७] तइयादेसे भोत्तूण आगया नेव कस्सइ कर्हिति । तेसऽन्नतो व सोचा, खिंसंतऽह भिक्खुणो तेउ॥ वृ- 'तृतीयदेशे' तृतीयायां नावि तथैव भुक्तवा समागताः सन्तो नैव कस्यापि कथयन्ति । नवरंभिक्षवस्तेषां परस्परं संलापं श्रुत्वा, तैर्वाऽन्यस्य कस्यापि श्रावकादेः कथितं ततो वा श्रुत्वा भिक्षवस्तान् ‘अथ' श्रवणानन्तरं 'खिसंति' खरण्टयन्तीत्यर्थः ।। खरण्टिताश्च यद्यतिक्रामन्ति तत इयं प्रायश्चित्तवृद्धि[भा.२८६८] भिक्खुणो अतिक्कमंते, छल्लहुगा वसभे होंति छग्गुरुगा। गुरु-कुल-गण-संधाइक्कमे यछेदाइ जा चरिमं॥ वृ-भिक्षूनतिक्रामति षड्लघुकाः, वृषभाणामतिक्रमे षड्गुरुकाः, गुरुणामतिक्रमे छेदः कुलस्यातिक्रमे मूलम्, गणस्यातिक्रमेऽनवस्थाप्यम्, सङ्घस्यातिक्रमे पाराञ्चिकम् ॥ अथ चतुर्थी नावमुपदर्शयति[भा.२८६९] भिक्खु वसभाऽऽयरिए, वयणं गच्छस्स कुल गणे संघे। गुरुगादऽइक्कमंते, जा सपद चउत्थ आदेसो । वृ-ज्योत्स्नाप्रकाशादिषुभुक्त्वा गुरुणामालोचितेभिक्षुभिनोदिता यद्यावृत्तास्ततश्चतुर्गुरुकाः। अर्थ भिक्षूणां वचनमतिकामन्ति ततोऽपि चतुर्गुरु, वृषभाणां वचनमतिक्रामतः षड्लघुकाः, आचार्यानतिक्रामतः षड्गुरुकाः, गच्छममन्यमानस्यच्छेदः, कुलमप्रभाणीकुर्वतोमूलम्, गणमप्रमाणयतोऽनवस्थाप्यम्, सङ्घ व्यतिक्रामतः ‘स्वपदं' पाराञ्चिकम् ।अभीक्षणसेवायामपिप्रथमे द्वितीये च वारे चतुर्गुरुकम्, तृतीयादिष्वष्टमान्तेषु वारेषु षड्लघुकादि पाराञ्चिकान्तम् । एषः 'चतुर्थ आदेशः' चतुर्थी नौः इत्यर्थः ।। अथ पूर्वोक्तानेव प्रायश्चित्तवृद्धिहेतून सन्दर्शयति[भा.२८७०] पेच्छह उ अनायारं, रत्तिं भुत्तुं न कस्सइ कहति । एवं एक्केवनिवेयनेन वुड्डी उ पच्छित्ते।। वृ-'पश्यताममीषामनाचारंयदेवंरात्रौ भुक्त्वान कस्यापि कथयन्ति' एवं भिक्षुभिखरण्टिता यदि नावर्तन्ते ततो भिक्षवो वृषभाणां कथयन्ति, वृषभा गुरूणाम्, गुरवोऽपि कुलस्येत्यादि । एवमेकैकस्य-वृषभादेर्निवेदनेन प्रायश्चित्तस्य वृद्धिर्भवति॥ [भा.२८७१] को दोसो को दोसो, त्ति भणंते लग्गई बिइयठाणे। . अहवा अभिक्खगहणे, अहवा वत्थुस्स अइयारो॥ वृ-चन्द्रोद्योतादिषको दोषः? को दोषः? इत्युत्तरप्रदानेन द्वितीयं प्रायश्चित्तस्थानं 'लगति' प्राप्नोति।अथवा 'अभीक्ष्णग्रहणे पुनःपुनरासेवायाम्, अथवा वस्तुनः' आचार्योपाध्यायादिरूपस्य यः अतिचारः' रात्रिभक्तलक्षणस्तस्मात् प्रायश्चित्तवृद्धिर्भवति।यत एवंप्रायश्चित्तजालम् अतो न कल्पते चतुर्विधमपि रात्रिभक्तम् । कारणसद्भावे पुनः कल्पते॥तान्येव कारणानिदर्शयति Page #182 -------------------------------------------------------------------------- ________________ १७९ उद्देशकः १, मूलं-४२, [भा. २८७२] [भा.२८७२] बिइयपयं गेलने, पढमे बिइए य अणहियासम्मि । फिट्टइचंदगवेझं, समाहिमरणं व अद्धाणे॥ . · वृ-'द्वितीयपदं नाम' 'दिवा गृहीतं दिवा भुक्तम्' इत्यादिचतुर्भङ्गीप्रतिसेवनात्मकं तदागाढे ग्लानत्वेआसेवितव्यम्। प्रथमद्वितीयपरीषहातुरतायांवा, “अणहियासम्मि"त्तिअसहिष्णुतायां वा, चन्द्रकवेधं नामानशनं तदसमाधिमुपगतस्य 'स्फिटति' न निर्वहतीति भावः, अतस्तस्य यथा समाधिमरणंतथा चतुर्भङ्गयाऽपियतितव्यम्।अध्वनि वाचतुर्वपि भङ्गेषुग्रहणंकर्तव्यमिति द्वारगाथासमासार्थ ॥अथैनामेव विवरीषुग्लानत्वद्वारं व्याख्यानयति[भा.२८७३] पइदिनमलब्ममाणे, विसोहि समइच्छिउं पढम भंगो। दुल्लभ दिवसंते वा, अहि-सूलरुयाइसुं बिइओ॥ . [भा.२८७४] एमेव तइयभंगो, आइ तमो अंतए पगासो उ । दुहओ वि अप्पगासो, एमेव य अंतिमो भंगो।। वृ- यदा ग्लानस्य प्रतिदिनं विशुद्धं भक्तपानं न लभ्यते तदा पञ्चकपरिहाण्या ये विशोधिकोट्यादयोदोषास्तेषु प्रतिदिवसंग्रहीतव्यम्, यावच्चतुर्लघुकाःप्रायश्चित्तम्; यदातदपि समतिक्रान्तस्तदा प्रथमभङ्गो भवति, रात्रौ परिवास्य दिवा दातव्यमित्यर्थः । तथा 'दुर्लभं' ग्लानप्रायोश्यमशनादि द्रव्यं तच्च गृहीत्वा यावत् प्रतिश्रयमागच्छति तावदस्तमुपगतः सविता अतो दिवा गृहीत्वा रात्रौ ग्लानस्य दातव्यम्; अथवा कश्चिद् दिवसान्ते 'अहिना' सर्पण खाघेत, शूलरुग् वा कस्यापि तदानीमुद्धावेत, आदिग्रहणाद् विष-विसूचिकादिष्वागाढेषु समुत्पन्नेषु सर्पडकाद्युपशमनलब्धप्रत्ययमगदाद्यौषधमानीययावद्दीयते तावदस्तंगतो रविअतोरात्रावपि दातव्यम्, एषद्वितीयो भङ्गः । एवमेवतृतीयोभङ्गो वक्तव्यः, यानिप्रथम-द्वितीयभङ्गयोः कारणानि तानि तृतीयभङ्गेऽपि भवन्तीति भावः । अत्र च भङ्गे आदौ 'तमः' अन्धकारं रात्रिपदमित्यर्थः, अन्तेच 'प्रकाशः' दिवापदम्। अन्तिमः' चतुर्थो भङ्गः सोऽपि एवमेव' अहिदष्टादावागढकारणे प्रतिसेवितव्यः, नवरमसौ द्विधाऽप्यप्रकाशो मन्तव्य इति ॥ गतं ग्लानद्वारम् । अथ प्रथम-द्वितीया-ऽसिष्णुपदानि व्याचष्टे[भा.२८७५] पढमबिइयाउरस्सा, असहुस्स हवेज अहव जुअलस्स। कालम्मि दुरहियासे, भंगचउक्केण गहणंतु॥ . वृ- प्रथमः-क्षुधापरीषहो द्वितीयः-पिपासापरीषहस्ताभ्यामातुरस्य, 'असहिष्णोर्वा' स्थूलभद्रस्वामिलघुभ्रातृश्रीयककल्पस्य, युगलं-बाल-वृद्धरूपं तस्य वा असहिष्णोः, काले वा 'दुरधिसहे' अवमौदर्यलक्षणे भङ्गचतुष्केणापिग्रहणं कर्तव्यम् ॥ [भा.२८७६] एमेव उत्तिमढे, चंदगवेज्झसरिसे भवे भंगा। उभयपगासो पढमो, धई अंते य सव्वतमो॥ वृ-चन्द्रो नाम-चक्राष्टकोपरिवर्त्तिन्याः पुत्तलिकायावामाक्षिगोलकः तस्यवेधः-ताडनंतत्सदृशेतद्वद्दुराराधे 'उत्तमार्थे' अनशने प्रतिपन्ने सतियदि कदाचिदसमाधिरुत्पद्यते तदा ‘मा नमस्कार नाराधयिष्यति, असमाधिमृत्युना वा मा म्रियताम्' इति कृत्वा चत्वारोऽपि भङ्गाः प्रयोक्तव्या भवेयुः । तत्र च प्रथमो भङ्ग उभयप्रकाशः, द्वितीयो भङ्ग आदौ प्रकाशवान् अन्ते तमस्वान्, Page #183 -------------------------------------------------------------------------- ________________ १८० बृहत्कल्प-छेदसूत्रम् -२-१/४२ तृतीयो अन्ते प्रकाशवान् आदौ तमस्वान्, चतुर्थो भङ्गः ‘सर्वतमः' उभयथाऽपि तमोयुक्तः, रात्रौ गृहीत्वा रात्रावेव भोगभावादिति ॥अथाध्वद्वारं सविस्तरं व्याचिख्यासुराह[भा.२८७७] अद्धाणम्भिव होज्जा, भंगा चउरो उतंन कप्पइ उ । दुविहाउ होंति उदरा, पोट्टे तह धन्नभाणे य॥ वृ-अध्वनि वा वर्तमानानां चत्वारोऽपि भङ्गा भवेयुः, परं 'तद्' अध्वगमनं कर्तुमूवंदरे साधूनां न कल्पते । ते च दरा द्विविधाः, तद्यथा-पोट्टदरा धान्यभाजनदराश्च । तत्र पोट्टम्-उदरं तद्रूपा दराः पोट्टदराः, धान्यभाजनानि-कटपल्यादयस्तान्येव दराधान्यभाजदराः। ते दराऊर्ध्वं यत्र पूर्यन्ते तदूर्ध्ववदरमुच्यते ।। अमुमेवार्थं सविशेष भणन् प्रायश्चित्तं दर्शयन्नाह[भा.२८७८] उद्दद्दरे सुभिक्खे, अद्धाणपवजणं तु दप्पेण । लहुगा पुण सुद्धपए, जंवा आवजई जत्थ ।। वृ-ऊर्ध्वदरम्-अनन्तरोक्तंसुभिक्ष-सुलभभैक्षम्।अत्रचत्वारोभङ्गाः-ऊर्ध्वदरमपि सुभिक्षमपि १वंदरमसुभिक्षं २ सुभिक्षनोर्ध्वदरं३ नोर्ध्वदरंनसुभिक्षम्४।अत्र द्वितीयचतुर्थभङ्गयोरध्वगमनं कर्तव्यम् । अथ प्रथमतृतीयभङ्गयोरध्वप्रतिपत्तिंदर्पतः करोतितदाशुद्धपदेऽपिचत्वारो लघुकाः। यद्वा यत्र संयमविराधनादिकमापद्यते तन्निष्पन्नं तत्र प्रायश्चित्तं द्रष्टव्यम्॥ प्रथमतृतीयभङ्गयोरप्येतैः कल्पत इति दर्शयति[भा.२८७९] नाण? दंसणट्ठा, चरितट्ठा एवमाइ गंतव्वं । उवगरणपुष्पडिलेहिएण सत्येण गंतव्वं ।। वृ-ज्ञानार्थदर्शनार्थंचारित्रार्थमेवमादिभि कारणैर्गनतव्यम्। गच्छद्भिश्चतलिकादिकमुपकरणं ग्रहीतव्यम् । पूर्वप्रन्टुपेक्षितेन च सार्थेन सह गन्तव्यमिति नियुक्तिगाथासमासार्थः॥ अथैनामेव व्याख्यानयति[भा.२८८०] सगुरु कुल सदेसे वा, नाणे गहिए सई य सामत्थे । वच्चइ उ अन्नदेसे, दंसणजुत्ताइअत्थो वा ॥ वृ-ज्ञानम्-आचारादिश्रुतंतद्यावत्स्वगुरूणांसमीपे सूत्रतोऽर्थतश्चविद्यते तावतिसम्पूर्णेऽपि गृहीते, यद्यपरस्यापि श्रुतस्य ग्रहणे सामर्थ्यमस्ति ततः स्वदेशे तथाविधः कोऽपि बहुश्रुत आचार्यस्ततोऽन्यदेशं गच्छति । तत्रापि ये आसन्नतरा एकवाचनाकाश्चाचार्यास्तेषां समीपेड़वशिष्यमाणं श्रुतं गृह्णाति । यदाच परिपूर्णमपि विवक्षितयुगसम्भवि श्रुतं गृहीतं तदा यद्यात्मनः प्रतिभादिकंसामर्थ्यमस्तिततः “दंसणजुत्ताइअत्थोव"तिदर्शनविशुद्धिकारणीया गोविन्दनियुक्ति आदिशब्दात् सम्मन्तति-तत्त्वार्थप्रभृतीनि च शास्त्राणि तदर्थ-तत्प्रयोजनः प्रमाणशास्त्रकुशलानीमाचार्याणां समीपे गच्छेत् ।। अथ चारित्रार्थमिति द्वारमाह[भा.२८८१] पडिकुट्ट देस कारण गया उ तदुवरमि निति चरणट्ठा । असिवाई व भविस्सइ, भूए व वयंति परदेसं ॥ वृ-सिन्धुदेशप्रभृतिको योऽसंयमविषयः स भगवता 'प्रतिक्रुष्टः' नतत्र विहर्ततव्यम् । परंतं प्रतिषिद्धदेशमशिवादिभिः कारणैर्गताः ततो यदा तेषां कारणानाम् ‘उपरमः' परिसमाप्तिर्भवति तदा चारित्रार्थं ततोऽसंयविषयाद् निर्गच्छन्ति, निर्गत्य च संयमविषयं गच्छन्ति । यद्वा तत्र Page #184 -------------------------------------------------------------------------- ________________ १८१ उद्देशकः १, मूलं-४२, [भा. २८८१] क्षेत्रेवसतां निमित्तबलेन ज्ञातम्, यथा-अशिवादिकमत्र भविष्यति, अथवा 'भूतम्' उत्पन्मत्राशिवादि, अतः परदेशं व्रजन्ति । एवमादिभि कारणैरध्वानं गन्तव्यतया निश्चित्य गच्छोपग्रहकरमिदमुपकरणं गृह्णन्ति ।। किं पुनस्तत्? इति अत आह[भा.२८८२] चम्माइलोहगहणं, नंदीभाणे य धम्मकरए य। परउत्थियउवकरणे, गुलियाओ खोलमाईणि॥ वृ-चर्मशब्देन चर्ममयंतलिकाद्युपकरणंगृह्यते, आदिशब्दासिक्ककादिपरिग्रहः । लोहग्रहणेन पिप्पलकादिलोहमयोपकरणानां च ग्रहणमध्वानं गच्छता कर्त्तव्यम्, । नन्दीमाजनं धर्मकरकश्च तथा 'पररतीर्थिकोपकरणं' वक्ष्यमाणरूपं तथा 'गुलिका नाम' तुवरवृक्षचूर्णगुटिकाः खोलाःगोरसभावितानि पोतानि । एवमादीन्युपकरणानि ग्रहीतव्यानीति द्वारगाथासमासार्थः॥ अथास्या एवाद्यपदं व्याचिख्यासुः प्रतिद्वारगाथामाह[भा.२८८३] तलिय पग वज्झे या, कोसग कत्ती य सिक्काए काए। ___ पिप्पलग सूइ आरिय, नक्खच्चणि सत्थकोसे य।। वृ-तलिकाः-उपानहः, पुटकाः-खल्लकानि, वनः-प्रतीतः, कोशकः-नखभङ्गरक्षार्थंयत्राङ्गुल्यः प्रक्षिप्यन्ते, कृत्ति-चर्म, सिक्ककं-प्रतीतम्, कायो नाम-कापोतिका, पिप्लकःसूची आरिका च प्रतीताः, नखार्चनी-नखहरणिका, 'शस्त्रकोशः' शिरावेधादिशस्त्रसमुदाय इति प्रतिद्वारगाथासङ्केपार्थः ।। अथैनामेव गाथांप्रतिपदं विवृणोति[भा.२८८४] तलियाउ रत्तिगमणे, केंटुप्पहतेण सावए असहू। पुडगा विवच्चि सीए, वज्झोपुन छिन्नसंघठ्ठा ।। वृ-तलिका:-क्रमणिकास्ताश्च रात्रौ गमने कण्टकरक्षणार्थंपादेषुबध्यन्ते।सार्थवशाद्वापन्थानं मुक्त्वोत्पथेन गच्छतां स्तेन-श्वापदभयेन वा त्वरितं गम्यमाने दिवाऽपि बध्यन्ते । 'असहिष्णुः' सुकुमारपादः सकण्टकसंरक्षणार्थं क्रमणिकाः पादयोर्बजाति।ताश्चप्रथममेकतलिकाः, तदप्राप्तौ यावच्चतुस्तलिका अपि गृह्यन्ते । 'पुटकानि' खल्लकानि तानि शीतेन पादयोः 'विवर्चिकासु' विपादिकासुस्फटन्तीषु बध्यन्ते । 'वनः' पुनस्तलिकादीनां छिन्नानां-त्रुटितानां सन्धान-सट्टनं तदर्थं गृह्यते ।। [भा.२८८५] कोसग नहरक्खट्टा, हिमा-ऽहि-कंटाइसु उखपुसादी। कत्ती वि विकरणट्ठा, विवित्त पुढवाइरक्खट्ठा ।। वृ-“कोसग"त्तिअङ्गुलीकोशको नखभङ्गरक्षार्थंगृह्यते, तत्र पादयोरगुल्योऽङ्गुष्ठकश्च प्रक्षिप्यन्ते। तथा हिमं-शीतम् अहि-कण्टकौ-प्रतीतौतदादिप्रत्यपायरक्षणार्थं खपुसा आदिशब्दादर्द्धजधिकाजचिकादयश्चगृह्यन्ते । 'कृत्ति' चर्मतत् प्रलम्बादिविकरणार्थं गृह्यते, माधूल्या लोलीभावमनुभूय मलिनानि भवन्निति कृत्वा । तथा “विवित्त"त्ति ते साधवः कदापि स्तेनैः 'विविक्ताः' मुषिता भवेयुस्ततोवस्त्राभावेकृत्तिंप्रावृण्वन्ति।यत्रवापृथिवीकायो भवति तत्र कृत्तिं प्रस्तीर्यसमुद्दिशन्ति, एवंपृथिवीकायरक्षा।आदिशब्दात्प्रतिलोमेवनदवेतृणरहितप्रदेशाभावेकृत्तिंप्रस्तीर्य तिष्ठन्तीति कृत्वा तेजःकायरक्षाऽपि कृता स्यात् ॥ __ गतं चर्मद्वारम् । अथादिग्रहणलब्धे सिक्कक-कापोतिके व्याख्यानयति Page #185 -------------------------------------------------------------------------- ________________ १८२ बृहत्कल्प-छेदसूत्रम् -२-१/४२ [भा.२८८६] तहि सिक्कएहि हिंडति, जत्थ विवित्ता व पल्लिगमनं वा । परलिंगग्गहणम्मि वि, निक्खिवणट्ठा व अनत्थ ॥ वृ-यत्र 'विविक्ताः' मुषितास्तत्र पात्रबन्धाभावे चौरपल्यां वा भिक्षार्थं गमनं विदधाना अलाबुकानि सिक्केषु कृत्वा हिण्डन्ते । चक्रचरादिसम्बन्धिपरलिङ्गेन वा भक्त-पानग्रहणे प्राप्ते सिक्ककेनपर्यटितव्यम्।अध्वकल्पादेर्वा सिक्कके निक्षेपणं कार्यम् ।प्रलम्बादिकंवा सिक्ककेष्वानीय 'अन्यत्र' स्थविरागृहादौ निक्षिप्यते । तदर्थं सिक्ककं ग्रहीतव्यम् ।। [भा.२८८७] जे चेव कारणा सिक्कगस्स ते चेव होंति काए वि। कप्पुवही बालाइव, वहति तेहिं पलंबे वा ।। वृ-यान्येव कारणानि सिक्ककस्योक्तानि तान्येव 'कायेऽपि' कापोतिकायामपि भवन्ति । यद्वा सिक्कक-कापोतिकयोरयमुपयोगः-'कल्पम् अध्वकल्पम् उपधिमाचार्या-ऽसहिष्णुप्रभृतीनां बालादीन्वा प्रलम्बानि वा उपलक्षणत्वादाकस्मिकशूलविद्धंवा 'ताभ्यां सिक्कक-कापोतिकाभ्यां वहन्ति ॥अथ लोहग्रहणद्वारं भावयति[भा.२८८८] पिप्पलओ विकरणट्ठा, विवित्त जुने व संघणं सूई। आरितलिसंघणट्ठा, नक्खच्चण नक्ख-कंटाई॥ वृ-'पिप्पलकः' प्रलम्बविकरणार्थं गृह्यते । तथा 'विविक्तानां' मुषितानां यदवशिष्यमाणं वस्त्रं यद् वा स्वभावजीर्णं तस्य सन्धानार्थं सीवनार्थं वा सूची ग्रहीतव्या । त्रुटिततलिकानां सन्धानार्थमारागृह्यते । 'नखार्चनं नखहरणिका सा नखच्छेदनार्थं कण्टकादिशल्योद्धरणार्थं वा गृह्यते ॥ शस्त्रकोशः पुनरयम्-शिरावेधशस्त्रकं पच्छणशस्त्रकं कल्पनशस्त्रकं लोहकण्टिका सन्दंशकः । एवमादिकस्य शस्त्रकोशस्योपयोगं दर्शयति[भा.२८८९] कोसाऽहि-सल्ल-कंटग, अगदोसहमाइयं तु चग्गहणा। अहवा खेत्ते काले, गच्छे पुरिसे यजंजोग्गं॥ - "कोस" त्ति शस्त्रकोशेनेदं प्रयोजनम्-अहि-सर्पस्तेन यावन्मात्रमङ्गं दष्टं तावच्छिद्यते, शल्यं वा कण्टको वा नखहरिणकया हर्तुमशक्यस्तेनोद्रियते । इह प्रतिद्वारगाथायां “सत्यकोसे .य" त्ति यश्च शब्दस्तद्रहणादगदौषधादिकं ग्रहीतव्यम् । तत्र यदनेकद्रव्यैर्निष्पन्नं तदगदम्, यत् पुनरेकाङ्गिकंतत्सर्वमप्यौषधम्।अथवाचशब्दोपादानात् 'क्षेत्रे' दक्षिणापथादौ यद्यत्र दुर्लभम्, 'काले' ग्रीष्मादौ यत् सक्तुप्रभृतिकं शीतलद्रव्यमुपयोगि, महति गच्छे वा यत् केवइयादिकं साधारणम्, 'पुरुषस्य वा' आचायदिर्यस्य य योग्यं तद् यथायोगं ग्रहीतव्यम् ।। नन्दीभाजन-धर्मकरकयोरुपयोगमाह[भा.२८९०] एक्कं भरेमि भाणं, अनुकंपा नंदिभाण दरिसंति । निति वतं वइगाइसु, गालिंति दवंतु करएणं ।। वृ. "अनुकंपत्ति अध्वप्रतिपन्नानं कोऽप्यनुकम्पया ब्रूयात्- अहं युष्मभ्यं दिने दिने एकं भाजनं 'बिभर्मि' पूरयामि, ततस्तत्रनन्दीभाजनंदर्शयन्ति।अथवा 'तद्' नन्दीभाजनंभिक्षाचर्यया वजिकादिषु नयन्ति । तथा प्रासुकमप्रासुकंवा 'द्रवं' पानकं करकेण' धर्मकरकेणगालयन्ति । परतीर्थिकोपकरणमाह Page #186 -------------------------------------------------------------------------- ________________ १८३ उद्देशक : १, मूलं-४२, [भा. २८९१] [भा.२८९१] परउत्थियउवगरणं, खेत्ते काले य जंतु अविरुद्धं । तरयणि-पलंबट्ठा, पडिनीए दिया व कोट्टादी॥ वृ-परयूथिकाः-तचन्निकादयस्तेषां सम्बन्धि यद् उपकरणं यत्र क्षेत्रे काले वा 'अविरुद्धम्' अर्चितं तद्जन्यां भक्त-पानग्रहणार्थं प्रलम्बानयनार्थं वा कर्त्तव्यम् । यत्र वा प्रत्यनीका भवन्ति तत्र परतीर्थिकवेषच्छन्नागच्छन्ति भक्तपानं वोत्पादयन्ति ।म्लेच्छकोट्टंवा गताः परतीर्थिकवेषण दिवा पुद्गलादिकं गृह्णन्ति । आदिशब्दात् प्रत्यन्तकोट्टादिपरिग्रहः ।। अथ गुलिका-खोलद्वारे व्याख्यानयति[भा.२८९२] गोरसभाविय पोत्ते, पुव्वकय दवस्सऽसंभवे धोवे । असईय उ गुलिय मिए, सुन्ने नवरंगदइयादी॥ वृ-गोरसभावितानि पोतानि' वस्त्राणि खोलानि भण्यन्ते । तेषु पूर्वकृतेष्वध्वानं प्रविष्टानां यदा प्राशुकद्रवस्यासम्भवस्तदा तानि पोतानि धावेयुः' प्रक्षालयेयुः । अगीतार्थप्रत्ययोत्पादनार्थं च आलोच्यते-गोकुलादिदं संसृष्टपानकमानीतम् । अथ न सन्ति खेलानि ततो गुलिकाःतुवरवृक्षचूर्णगुटिकास्तद्भावनया पानकं प्राशुकीकृत्य 'मृगाः' अगीतार्थास्तेषां चित्तरक्षणार्थं 'शून्ये ग्राम प्रतिसार्थिकादीनां नवरङ्गतिकादेरिदं गृहीतम्' इत्यालोचयन्ति । विशेषचूर्णी तु गुलिका-खोलपदे इत्थं व्याख्याते-जत्थ पव्वयकोट्टाइसुपंडरंगादी पुजंति संजयाण ते पडिनीया होज तत्थ 'गुलिय' त्ति वक्कलाणि घेति । 'खोल'त्ति सीसखोला, तीए सिरं वेढियव्वं जहा न नज्जइ लोयहयं सीसं, सीससंरक्खणट्ठाए वा ।। अथैषामुपकरणानां ग्रहणं न करोति ततः[भा.२८९३] एक्कक्कम्मि य ठाणे, चउरो मासा हवंतऽनुग्घाया। आणाइणो य दोसा, विराधना संजमाऽऽयाए॥ वृ-'एकैकस्मिन् स्थाने एकैकस्योपकरणस्याग्रहणे इत्यर्थःचत्वारोमासाः 'अनुद्धाताः' गुरवो भवन्ति, आज्ञादयश्च दोषाः, विराधना च संयमा-ऽऽत्मविषया ।। अमुमेवार्थं स्पष्टतरमाह[भा.२८९४] एमाइअनागयदोसरक्खणट्टा अगेण्हणे गुरुगा। अनुकूले निग्गमओ, पत्ता सत्थस्स सउणेणं ॥ वृ-एवमादीनामुपकरणानामनागतमेव संयमात्मविराधनादिदोषरक्षणार्थं ग्रहणं कर्तव्यम्। अथ न गृह्णाति ततः प्रत्येकं चत्वारो गुरवः । गतमुपकरणद्वारम् । अथ पूर्वप्रत्युपेक्षितेन सार्थेन गन्तव्यमिति व्याख्याति-"अनुकूले" इत्यादि । अनुकूलं चन्द्रबलं ताराबलं वा यदा सूरीणां भवति तदा 'निर्गमकः प्रस्थानं क्रियते। निर्गताश्चोपाश्रयाद्यावत्सार्थं न प्राप्नुवन्ति तावदात्मनैव शकुनं गृह्णन्ति । सार्थं प्राप्तास्तु सार्थसत्केन शकुनेन गच्छन्ति । इदमेव सविशेषमाह[भा.२८९५] अप्पत्ताण निमित्तं, पत्ता सत्थम्मि तिन्नि परिसाओ । सुद्धे त्ति पत्थियाणं, अद्धाणे भिक्खपडिसेहो॥ वृ-सार्थेऽप्राप्तानां 'निमित्तं' शकुनग्रहणंभवति।प्राप्तानांतुयःसार्थस्य शकुनः ससंयतानामपि भवति । सार्थं च प्राप्ताः । सन्तस्तिः परिषदः कुर्वन्ति, तद्यथा-सिंहपर्षदं वृषभपर्षदं मृगपर्षदम्। तथा सार्थ 'शुद्धः' निर्दोष इति कृत्वा प्रस्थिताः परं यदा ‘अध्वनि' अटवीं प्राप्ता भवन्ति तदा कोऽपिप्रत्यनीकोभिक्षायाःप्रतिषेधं कुर्यादिति नियुक्तिगाथासमासार्थ ।।अथ एनामेव विवरीषुः Page #187 -------------------------------------------------------------------------- ________________ १८४ बृहत्कल्प-छेदसूत्रम् -२-१/४२ प्रथमपदव्याख्यानं सुगमत्वादनाद्दत्य सिंहादीनांपर्षदां व्याख्यानमाह[भा.२८९६] कडजोगि सीहपरिसा, गीयत्थ थिरा य वसभपरिसा उ । सुत्तकडमगीयत्था, मिगपरिसा होइ नायव्वा ।। वृ-कृतयोगिनो नाम-गीतार्था परंन तथा समर्थास्ते सिंहपर्षदुच्यन्ते, ये तु गीतार्था अपरंच 'स्थिराः' बलवन्तस्ते वृषभपर्षद्, येतु ‘कृतसूत्राः' सूत्रेऽधीतिनः परमगीतार्थास्ते मृगपर्षदिति ज्ञातव्या भवति ॥ अथ "सुद्धि त्ति पत्थियाणं"ति पदं व्याख्यायते-साधुभि प्रथमत एव सार्थाधिपतिरभिधातव्यः-वयं युष्माभिः समं व्रजामो यद्यस्माकमुदन्तमुद्वहथ । एवमुक्ते यद्यसावभ्युपगच्छति ततः शुद्धः सार्थ इति मत्वा प्रस्थिताः, परमटवीप्राप्तानां कोऽप्येवं कुर्यात्[भा.२८९७] सिद्धत्थग पुप्फे वा, एवं वुत्तु पि निच्छुभइ पंतो। भत्तं वा पडिसेहइ, तिण्हऽणुसट्टाइ तत्य इमा ।। वृ-यथा 'सिद्धार्था' सर्षपाश्चम्पकपुष्पाणिवा शिरसिस्थापितानि काञ्चिदपिपीडांन कुर्वन्ति, एवं यूयमपिमम कमपि भारंन कुरुथ। एवमुक्त्वाऽपि कश्चित् 'प्रान्तः' भिक्षूपासकादिरटवीमध्ये सार्थाद् निष्काशयति-मा यूयमस्माभि सार्द्धमागच्छतेति; भक्तपानं वा प्रतिषेधयति-माऽमीषां कोऽपि किञ्चिदपि दद्यात् ततः 'त्रयाणां' सार्थ-सार्थवाहा-ऽऽयत्तिकानामनुशिष्टयादिका इदं यतना कर्तव्या॥तामेवाह[भा.२८९८] अनुसट्ठी धम्मकहा, विज निमित्ते पभुत्तकरणं वा । परउत्थिगा व वसभा, सयंव थेरी व चउभंगो॥ वृ- यद् इहलोकापायप्रदर्शनं क्रियते साऽनुशिष्टिरुच्यते, यत् पुनरिह परत्र च सपरपञ्चं कर्मविपाकोपदर्शनं सा धर्मकथा, तयाऽनुशिष्टया धर्मकथया वा सार्थसार्थवाह आयत्तिका वा उपशमयितव्याः, विद्यया मन्त्रेण वाते वशीकर्तव्याः, निमित्तेन वा आवर्तनीयाः ।यो वा साधुः प्रभुः-सहयोधी बलवान्ससार्थवाहंबद्धवास्वयमेव सार्थमधिष्ठायप्रभुत्वंकरोति।एषा निष्काशने यतना । भिक्षाप्रतिषेधे पुनरियम्-सर्वथा भिक्षाया अलाभे वृषभाः परयूथिका भूत्वा भक्तपानमुत्पादयन्ति, सातवाहं वा प्रज्ञापयन्ति । यदि च सर्वेऽपि गीतार्थास्ततः 'स्वयं वा' स्वलिङ्गेनैव रात्रिभक्तविषययाचतुर्भङ्गया यतन्ते।अथागीतार्थमिश्रास्ततः स्थविरायागृहे निक्षिपन्ति ॥ अमुमेवान्त्यपादं व्याख्यानयति[भा.२८९९] पडिसेह अलंभे वा, गीयत्थेसु सयमेव चउभंगो। थेरिसगासंतुमिए, पेसे तत्तो व आनीयं ।। वृ- सार्थाधिपतिना भक्तपानस्य प्रतिषेधः कृतः, यद्वा न कृतः प्रतिषेधः परं स्तेनैः सार्थ सर्वोऽपि विलुलितः अतो भक्तपानं न लभ्यते, ततो यदि सर्वेऽपि गीतार्थास्तदा ‘स्वयमेव' परलिङ्गमन्तरेण रात्रिभक्तचतुर्भङ्गी यतनया प्रतिसेवितव्या । गाथायां पुंस्त्वं प्राकृतत्वात् । अथागीतार्थमिश्रास्ततो यदि तत्र सार्थे भद्रिका स्थविरा विद्यते तदा तस्याः समीपे निक्षिपन्ति । ततः स्थविरायाः सकाशं मृगान् प्रेष्य तेषां पार्वादानाययेत्, 'ततो वा' स्थविरासमीपादानीतमित्यगीतार्थानां पुरतो भणन्ति ॥ अथवा [भा.२९००] कुओ एयं पल्लीओ, सड्डा थेरि पडिसत्थिगाओ वा। Page #188 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं-४२, [भा. २९००] १८५ नायम्मिय पन्नवणा, न हु असरीरो भवइ धम्मो ।। वृ-वृषभैः स्थविरासमीपादानीते सति यदि ते मृगाः प्रश्नयेयुः-कुत एतदानीतम् ?, ततो वक्तव्यम्-पल्लयाः सकासादिदमानीतम्, दानादिश्राद्धैर्वा दत्तम्, स्थविरया वा वितीर्णम्, प्रतिसार्थिकाद् वा लब्धम् । एवमपि यदि तैमूंगैतिं भवति ततस्तेषां प्रज्ञापना कर्तव्या- भो भद्राः ! नास्ति अशरीरः' शरीरविरहितो धर्म अत इदं शरीरं सर्वप्रयत्नेन रक्षणीयम्, उक्तञ्च शरीरं धर्मसंयुक्तं, रक्षणीयं प्रयत्नतः। शरीराच्छ्रवते धर्म, पर्वतात् सलिलं यथा ॥ अतः प्रतिसेवध्वमिदम्, पश्चादिदं चान्यच्च प्रायश्चित्तेन विशोधयिष्याम इति ।। अथ पूर्वोक्तानां तिसृणामपि पर्षदां गमनविधिमाह[भा.२९०१] पुरतो वच्चंति मिगा, मज्झे वसभा उ मग्गओ सीहा। पिट्ठओ वसभऽन्नेसिं, पडियाऽसहुरक्खगा दोण्हं ।। अध्वनि गच्छतां पुरतः ‘मृगाः' अगीतार्था मध्ये 'वृषभाः' समर्थ-गीतार्था 'मार्गतः' पृष्ठतः 'सिंहाः' गीतार्था व्रजन्ति । अन्येषामाचार्याणां मतेन-पृष्ठतो वृषभाव्रजन्ति। किं कारणम् ? इति अत आह-'द्वयानां' मृग-सिंहानांबाल-वृद्धानां वा ये 'पतिताः' परिश्रान्ता येच 'असहिष्णवः' क्षुधा-पिपासापरीषहाभ्यां पीडितास्तेषां रक्षका वृषभाः पृष्ठतः स्थिता व्रजन्ति ॥अथवा[भा.२९०२] पुरतो यपासतो पिट्ठतोय वसभा हवंति अद्धाणे । गणवआसे वसभा, मिगमझे नियम वसभेगो॥ वृ-अध्वनि व्रजतां वृषभाः पुरतः पार्श्वतः पृष्ठतश्च व्रजन्ति । तथा गणपति-आचार्यस्तस्य पार्वे नियमादेव वृषभा भवन्ति । मृगाणां च मध्ये नियमादेको वृषभो भवति॥ तेच वृषभाः किं कुर्वन्ति? इत्याह[भा.२९०३] वसभा सीहेसु मिगेसु चेव थामावहारविजढा उ । जो जत्थ होइ असहू, तस्स तह उवग्गह कुणंति ।। वृ-वृषभाः ‘स्थामापहारविमुक्ताः' अनिगृहितबल-वीर्यासन्तोमृगेषुसिंहेषुवायो यत्र येषां मध्ये असहिष्णुर्भवति तस्य तथोपग्रहं कुर्वन्ति ॥कथम्? इत्याह[भा.२९०४] भत्ते पाने विस्सामणेय उवगरण-देहवहणे य। थामावहारविजढा, तिन्नि वि उवगिण्हए क्सभा॥ वृ-मृगाणां सिंहानांवृषभाणांचमध्ये यः क्षुधातॊ भवति तस्यभक्तंप्रयच्छन्ति, पिपासितस्य पानकं ददति, परिश्रान्तस्य विश्राममां कुर्वन्ति । य उपकरणं देहं वा वोढुं न शक्नोति तस्य तयोर्वहनं कुर्वन्ति । एवं स्थामापहारविमुक्ता वृषभाः 'त्रीनपि' मृग-सिंह-वृषभानुपगृह्णन्ति ।। [भा.२९०५] जो सो उवगरणगणो, पविसंताणं अनागयं भणिओ। सट्टाणे सहाणे, तस्सुवओगो इहं कमसो॥ वृ- अध्वनि प्रविशतां योऽसौ तलिकादिरुपकरणगणोऽनागतं ग्रहीतव्यो भणितः तस्येह स्वस्थाने स्वस्थाने अचक्षुर्विषय स्वादावुपस्थिते 'क्रमशः' क्रमेणोपयोगः कर्तव्यः, येन यदा प्रयोजनं भवति तत् तदा तत्र प्रयोक्तव्यमिति भावः। जा Page #189 -------------------------------------------------------------------------- ________________ १८६ बृहत्कल्प-छेदसूत्रम् -२-१/४२ अथाध्वनि गच्छतामेव भक्तपानालाभे विधिमाह[भा.२९०६] असई य गम्ममाणे, पडिसत्थे तेण-सुनगामे वा। रुक्खाईण पलोयण, असई नंदी दुविह दव्वे ॥ वृ-तत्राध्वनि गम्यमाने भक्तपानस्य 'असति' अलाभे प्रतिसाथै वास्तेनपल्लयां वा शून्यग्रामे वा भक्तपानादि गवेषयन्ति, वृक्षादीनां वा प्रलम्बादिनिमित्तं प्रलोकनं कर्त्तव्यम् । सर्वथा वा संस्तरणस्यासति द्विविध-परीत्तानन्तादिभेदाद्विप्रकारं यद्रव्यंतेनयथा 'नन्दि' तपःसंयमयोगानां स्फातिर्भवति तथा विधेयमिति नियुक्तिगाथासमासार्थः॥ अथैनामेव विवरीषुराह[भा.२९०७] भत्तेन व पानेन व, निमंतएऽनुग्गए व अत्थमिए। आइच्चो उदित्तिय गहणं गीयत्थसंविग्गे॥ वृ-अध्वानं गच्छतां यदि कोऽपि प्रतिसार्थो मिलितः, तत्र च केचि दानरुचयो भक्तेन का पानेन वा रात्रावनुद्गते वाऽस्तमितेवा सूर्ये निमन्त्रयेयुः ततोयदि सर्वेऽपिगीतार्थासत्दा गृह्णन्ति; अथागीतार्थमिश्रास्ततो गीतार्था ब्रुवते-गच्छत यूयम्, वयमुदित एवादित्ये भक्तपानं गृहीत्वा पश्चादागमिष्याम इति । ततः प्रस्थितेषु मृगेषु गीतास्तत्क्षणमेव गृहीत्वा सार्थमनुगच्छन्ति । स्थिते सार्थे मृगाणां शृण्वतामालोचयन्ति-आदित्य उदित इति मत्वा वयं ग्रहणं कृत्वा समागताः। एवंविधां यतनां गीतार्थ संविग्नः करोति ।। अथ किमर्थं गीतार्थसंविग्नग्रहणम् ? इत्याह[भा.२९०८] गीयत्थग्गहणेणं, सामाए गिण्हए भवे गीओ। संविग्गग्गहणेणं, तंगेण्हंतो विसंविग्गो॥ वृ-गीतार्थग्रहणेनेदमावेदितम्-योगीतार्थोभवतिसएव 'श्यामायां रात्रौ गृह्णाति नागीतार्थः। संविग्नग्रहणेनतुतद् रात्रिभक्तंगृह्णन्नप्यसौ संविग्न एव, यथोक्तयतनाकारित्वेन मोक्षाभिलाष्येव मन्तव्य इत्युक्तं भवति ।। गतं प्रतिसार्थद्वारम् । अथ स्तेनपल्लीद्वारम्-तस्यां चपिशितं सम्भवति तत्रायं विधिः[भा.२९०९] बेइंदियमाईणं, संथरणे चउलहू उ सविसेसा । तेचेव असंथरणे, विविरीय सभाव साहारे॥ वृ-यदि 'संस्तरणे' इतरभक्तपाननिवहि सतिद्वीन्द्रियादीनांपुद्गलं गृह्णन्ति तदा चतुर्लघवः 'सविशेषाः' तपः-कालविशेषिताः। तद्यथा-द्वीन्द्रियपुद्गलं गृह्णातिचत्वारो लघवस्तपसाकालेन चलघुकाः, त्रीन्द्रियपुद्गलेतएव कालेन गुरुकाः तपसा लघुकाः, चतुरिन्द्रियपुद्गले तपोगुरुकाः काललघुकाः, पञ्चेन्द्रियपुद्गले द्वाभ्यामपि तपः-कालाभ्यां गुरुकाः । अथासंस्तरणं भवति ततो यदि द्वीन्द्रियादिक्रममुल्लङ्ग्य 'विपरीतम्' उत्क्रमेण गृह्णाति ततस्त एव चत्वारो लघवः । अथापवादस्याप्यपवाद उच्यते-द्वीन्द्रियादीनांपुद्गलमधिकतरेन्द्रियपुद्गलादल्पतरबलंततो यत् स्वभावेनैव साधारणं तद् गृह्णन्ति ।। [भा.२९१०] जत्थ विसेसं जाणंति तत्थ लिंगेण चउलहू पिसिए। अन्नाएण उगहणं, सत्थम्मि विहोइ एसेव ॥ वृ-यत्र ग्रामे विशेषं जानन्ति यथा “साधवः पिशितं न भुञ्जते' तत्र यदि स्वलिङ्गेन पिशितं गृह्णन्ति तदा चतुर्लघवः ।अतोऽज्ञातेनैवतत्र ग्रहणंकार्यम्, परलिङ्गेनेत्यर्थः । स्तेनपल्लयादीनामभावे Page #190 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं- ४२ [भा. २९१०] सार्थेऽपि पुद्गलग्रहणे एष एव क्रमो विज्ञेयः ॥ अथ शून्यग्रामद्वारमाह[भा. २९११] अद्धाणासंथरणे, सुन्ने दव्वम्मि कप्पई गहणं । लहुओ लहुया गुरुगा, जहन्नए मज्झिमुक्कोसे ॥ वृ- अध्वप्रतिपन्नानामसंस्तरणे जाते 'शून्यग्रामे' तं सार्थमायान्तं दृष्ट्वा 'चौरसेना समागच्छति' इति शङ्कयोद्वसिते ग्रामे जघन्यमध्यमोत्कृष्टभेदभिन्नस्य 'द्रव्यस्य' आहारादेर्ग्रहणं कर्त्तुं कल्पते । अत्र “दव्वम्मि’”त्ति षष्ठयर्थे सप्तमी । अथ संस्तरणे गृह्णाति तत इदमोघतः प्रायश्चित्तम्- जघन्ये मासलघु, मध्यमे चत्वारो लघवः, उत्कृष्टे चत्वारो गुरवः ॥। आह जघन्यमध्यमोत्कृष्टान्येव वयं न जानीमः अतो निरूप्यतामेतत्स्वरूपम्, उच्यते [भा. २९१२] उक्कोसं विगईओ, मज्झिमगं होइ क्रूरमाईणि । दोसीणाइ जहन्नं, गिण्हंते आयरियमादी ॥ वृ- उत्कृष्टं द्रव्यं 'विकृतयः' दधि- दुग्ध-घृतादयः, मध्यमं द्रव्यं कूर-कुसणादीनि, जघन्यं द्रव्यं दोषान्नादि । एतानि गृह्णतामाचार्यादीनामाज्ञादयो दोषाः ॥ अथ पुरुषविभागेन प्रायश्चित्तमाह[भा. २९१३] अद्धा संथरणे, सुन्ने गामम्मि जो उ गिण्हेज्जा । छेदादी आरोवण, नायव्वा जाव मासलहू ॥ वृ-अध्वनि संस्तरणे शून्यग्रामे विकृत्यादि द्रव्यं यो गृह्णीयात् तस्य च्छेदमादौ कृत्वा मासलघुकं यावदारोपणा ज्ञातव्या ॥ इदमेव स्फुटतरमाह [भा. २९१४] छेदो चग्गुरु छल्लहु, चउगुरु चउलहु य गुरु लहू मासो । आयरिय वसभ भिक्खू, उक्कोसे मज्झिम जहन्ने ॥ १८७ वृ- आचार्यस्य विकृत्यादिकमुत्कृष्टद्रव्यं शून्यग्रामेऽन्तर्द्दष्टं गृह्णतश्छेदः, अन्तरेवाद्दष्टं गृह्णतः षड्गुरुकाः, बहिष्टे षड्गुरुकाः, बहिरद्दष्टे षड्लघुकाः; 'मध्यमम्' ओदनादिद्रव्यमन्तर्द्दष्टं गृह्णतः षड्गुरुकाः, अदृष्टे षड्लघुकाः, बहिर्दृष्टे षड्लघुकाः, अध्ष्टे चतुर्गुरवः; जघन्यं दोषान्नादिकमन्तर्दृष्टं गृह्णतः षड्लघुकाः, अद्दष्टे चतुर्गुरवः, बहिध्ष्टे चतुर्गुरवः, अध्ष्टेचतुर्लघुकाः एवमाचार्यस्योक्तम्। वृषभस्यानयैव चारणिकया षड्गुरुकादारब्धं मासगुरुके, भिक्षोस्तु षड्लघुकादारब्धं मासलघुके तिष्ठति । यत एवमतः संस्तरणे न ग्रहीतव्यम् ॥ असंस्तरणे गृह्णतां यतनामाह [भा. २९१५] विलओलए व जायइ, अहवा कडवालए अणुन्नव । इयरेण व सत्यभया, अन्नभया वुट्ठिते कोट्टे ॥ वृ- ‘“विलओलग’त्ति देशीपदत्वाद् लुण्टाकाः, यैः स ग्रामो मुषित इत्यर्थः, तान् वा तत्र शून्यग्रामे विकृत्यादिद्रव्यं याचते । अथवा कटपालकाः- ये तत्र वृद्धादयोऽजङ्गमा गृहपालकाः स्थिता न नष्टास्ताननुज्ञापयेत् । "इयरेण व "त्ति स्वलिङ्गेनालभ्यमाने 'इतरेण' परलिङ्गेनापि गृह्णन्ति । तथा कोट्टं नाम-यदटव्यां चतुर्वर्णजनपदमिश्रं भिल्लदुर्गं वसति तस्मिन्नपि सार्थभयाद्वा ‘अन्यभयाद्वा’ परचक्रागमादिलक्षणाद् 'उत्थिते' उद्वसीभूते सति जघन्यादिद्रव्यस्य ग्रहणं कल्पते ॥ तत्रेयं यतना[भा. २९१६] उढसेस बाहिं, अंतोवी पंत गिण्हमद्दिनं । बहि अंत तओ दिट्टं, एवं मज्झे तदुक्कोसे ॥ Page #191 -------------------------------------------------------------------------- ________________ १८८ बृहत्कल्प-छेदसूत्रम् -२-१/४२ वृ-“उढूढ"ति देशीवचनत्वाद् मुषितं तस्य यत् शेषं-लुण्टाकैर्मुक्त्वा ग्रामादेर्बहि परित्यक्तं तद् जघन्यमदृष्टं प्रथमतो गृह्णन्ति, तस्यासति ग्रामादेरन्तः प्रान्तमेवादृष्टम्, तदभावे ग्रामादेहि प्रान्तं दृष्टम्, ततो ग्रामादेरन्तरपि प्रान्तं दृष्टं गृह्णन्ति । तदभावे मध्यममप्येवमेव चारणीयम् । तदप्राप्तावुत्कृष्टमप्यनयैवचारणिकयाग्रहीतव्यम्॥अथवा किमनेनजघन्यादिविकल्पप्रदर्शनेन?. [भा.२९१७] तुल्लम्मि अदत्तम्मी, तंगिण्हसुजेण आवइं तरसि । तुल्लो तत्थ अवाओ, तुच्छबलं वजए तेणं ।। वृ-जघन्यमध्यमोत्कृष्टेषु 'तुल्ये' समानेऽदत्तदोषे सति ‘तद्' विकृत्यादिकं द्रव्यं गृहाण येन 'आपदम्' असंस्तरणलक्षणां 'तरसि' पारं प्रापयसि, यतस्तुल्य एव तत्र संयमात्मविराधनारूपोऽपायः तेन हेतुना 'तुच्छबलं' दोषान्नादिद्रव्यं वर्जयेत् ॥ गतं शून्यग्रामद्वारम् । अथ “रुक्खाईण पलोयण"त्ति पदं व्याख्यानयति[भा.२९१८] फासुगजोनिपरित्ते, एगट्ठि अबद्ध भिन्न भिन्ने य। बद्धट्ठिए वि एवं, एमेव य होइ बहुबीए॥ वृ-'प्राशुकम्' अचित्तीभूतम्, परीत्ता योनिरस्येति परीत्तयोनिकम्, गाथायां प्राकृतत्वाद् व्यत्यासेन पूर्वापरनिपातः, “एकास्थिकम् एकबीजम्, 'अबद्धास्थिकं नाम' अद्याप्यबद्धबीजम् अनिष्पन्नमित्यर्थः, भिन्नं' विदारितम्, एतेन प्रथमो भङ्गः सूचितः, “अभिन्ने य"त्ति 'अभिन्नम्' अविदारितम्, अनेन द्वितीयो भङ्ग उपात्तः । उच्चारणविधि पुनरेवम्-प्राशुकंपरीत्तयोनिकमेकास्थिकमबद्धास्थिकं भिन्नम् १, प्राशुकं परीत्तयोनिकमेकास्थिकमबद्धास्थिकमभिन्म २, एवं बद्धास्थिकेऽपि द्वौ भनौ वक्तव्यौ ४ । एते एकास्थिके चत्वारो भङ्गा लब्धाः, बहुबीजेऽप्येवमेव चत्वारोलभ्यन्ते,जाताअष्टौभङ्गाः। एतेपरीत्तयोनिपदममुञ्चता लब्धाः, एवमेवानन्तयोनिपदेनाप्यष्टौ भङ्गाःप्राप्यन्ते, जाताः षोडशभङ्गाः। एतेप्राशुकपदेन लब्धाः, एवमेवाप्राशुकपदेनापिषोडशावाप्यन्ते, सर्वसङ्ख्ययाजाताद्वात्रिंशद् भङ्गाः।एतेचवृक्षस्याधस्तात्पतितंप्रलम्बमधिकृत्यमन्तव्याः।। [भा.२९१९] एमेव होइ उवरिं, एगट्ठिय तह य होइ बहुबीए । साहारणं सभावा, आदीए बहुगुणं जंच ॥ वृ-एवमेव वृक्षस्योपर्यपिएकास्थिकपदेतथैव बहुबीजपदे उपलक्षणत्वात्प्राशुकादिशेषपदेषु च द्वात्रिंशद् भङ्गाः कर्त्तव्याः । अत्र च यो यः पूर्वो भङ्गकः स स प्रथममासेवितव्यः । सर्वथा वाऽधस्तात् पतितानां प्रलम्बानामप्राप्तौ वृक्षोपरिवर्तिप्रलम्बविषया अपि द्वात्रिंशद् भङ्गका यथाक्रममेवासेवितव्याः । अथापवादस्याप्यपवाद उच्यते-‘स्वभावात्' प्रकृत्यैव ‘साधारणं' शरीरोपष्टम्भकारकंद्रव्यमेकास्थिकमनेकास्थिकंवा बद्धास्थिकमबद्धास्थिकंवा परीत्तमनन्तंवा तद् उत्क्रमेणापि 'आदत्ते' गृह्णाति, 'यद्' यस्मात् तस्यामवस्थायां तदेव 'बहुगुणं' संयमादीनां बहूपकारकमिति ॥ अथ द्वारगाथाऽन्तर्गतं नन्दिपदं व्याख्यानयति[भा.२९२०] नंदति जेन तव-संजमेसु नेव य दर त्ति खिजंति। जायंति न दीना वा, नंदि अतो समयतो सन्ना ॥ वृ- अध्वनि वर्तमानाः साधवो येन द्रव्येणाभ्यवहृतेन तपः-संयमयोः 'नन्दन्ति' समाधिसमृद्धिमनुभवन्ति तद् नन्दि । यद्वा येन द्रव्येणोपमुक्तेन नैव "दर"त्ति द्रुतं 'क्षीयन्ते' न Page #192 -------------------------------------------------------------------------- ________________ १८९ उद्देशक ः १, मूलं-४२, [भा. २९२०] कृशीभवन्तीत्यर्थः तद् नन्दि । अथवा येनोपयुक्तेन न दीना जायन्ते तदपि निरुक्तिवशाद् नन्दि । अत्र पाठान्तरम्-"जायंति नंदिया व"त्ति नन्द्या-ज्ञान-दर्शन-चारित्रात्मिकया समृध्या युक्ताःसाधवो यतस्तेनद्रव्येणजायन्तेअतस्तस्य नन्दिरिति समयतः संज्ञा' आगमतः परिभाषा।। तच्च द्रव्यं द्विविधम्, तद्यथा[भा.२९२१] परिनिट्ठिय जीवजढं, जलयं थलयं अचित्तमियरंच । परित्तेतरं च दुविहं, पानगजयणं अतो वोच्छं। वृ-द्विधा द्रव्यम्-परिनिष्ठितं जीवविप्रमुक्तं च । परिनिष्ठितं नाम-यत् परार्थमचित्तीकृतम् । जीवविप्रमुक्तं तु-साध्वर्थमचित्तीकृतम्, आधाकर्मेति ह्रदयम् । आह च चूर्णिकृत्-परिनिट्टियं तिजंपरकडमचित्तं, जीवजढं ति आहाकम्मं । यद्वा द्विविधंद्रव्यम्-जलजंस्थलजंचेति ।अथवा अचित्तेतरभेदाद् द्विधा । तत्राचित्तं नाम-यद् न परार्थमचित्तीकृतं नापि संयतार्थं केवलमायुः क्षयेणाचित्तीभूतम्। तथाचाहचूर्णिकृत्-अचित्तंतिजनाविपरट्ठाए अचित्तीभूयं, नाविसंजयट्ठाए, केवलं आउक्खएण अचित्तंति । यत् पुनरायुर्धारयति तत् सचित्तम् । अथवा 'परीत्तं' प्रत्येकम् 'इतरद्' अनन्तमिति वा द्विविधम् । एवमादिकं द्विविधं द्रव्यमसंस्तरणे ग्रहीतव्यम् । तदेवमुक्ता तावदाहारयतना । अथ पानकयतनामत ऊर्द्धव वक्ष्ये ॥ यथाप्रतिज्ञातमेव निर्वाहयति[भा.२९२२] तुवरे फले अपत्ते, रुक्ख-सिला-तुप्प-मद्दनाईसु । पासंदणे पवाए, आयवतत्ते वहे अवहे ।। कृ-अध्वनिवर्तमानैः कालिकादिप्राशुकपानकाप्राप्तावीशानिपानकानि ग्रहीतव्यानि। तद्यथातुवरफलानि-हरितकीप्रभृतीनितुवरपत्राणि-पलाशपत्रादीनितैः परिणामितंपानकंप्रथमतो ग्राह्यम्। तथा 'रुक्खे"त्ति वृक्षकोटरे कटुकफल-पत्रादिपरिणामितम्, एवंविधस्याभावे “सिल''त्ति सिलाजतुभावितम्, तदभावे "तुप्प"त्ति मृतक-केवर-वशा-घृतादिभि परिणामितम्, तदप्राप्ती “मद्दणाईसु"त्तिहस्त्यादिमर्दनेनाक्रान्तम्, ततः प्रपातोदकम्, प्रपातो नाम-यत्र पर्वतात् पानीयं निपतति, यथा उज्जयन्तादिगिरौ, तदभावे आत्पेन यत् तप्तं तत् प्रथमम् 'अवहं' अवहमानकं पश्चात् तदेव 'वहं' वहमानकं ग्राह्यम् । गाथायां बन्धानुलोम्याद् वहपदस्यपूर्वं पाठ इति । अथ “मद्दणाईसु"त्ति पदं व्याचष्टे[भा.२९२३] जड्डे खग्गे महिसे, गोणे गवए य सूयर मिगे य । उप्परिवाडी गहणे, चाउम्मासा भवे लहुगा ।। वृ-'जड्डः' हस्ती, खगो नाम-एकश्रङ्ग आटव्यतिर्यग्विशेषः, 'गो-महिषौ' प्रसिद्धौ, गवयः' गवाकृतिराटव्यजीवविशेषः, सूकर-मृगौ' प्रसिद्धौ । एतैर्जड्डादिभिर्मर्दनेन परिणामितं पानकं यथाक्रममध्वनि ग्रहीतव्यम्। अथ उत्परिपाट्या' यथोक्तक्रममुल्लङ्घय ग्रहणं करोति ततश्चत्वारो मासा लघुका भवेयुः॥ मू. (४३) नऽन्नत्थ एगेणं पुव्वपडिलेहिएणं सेज्जा-संथारएणं ॥ वृ“न कल्पते रात्रौ वा विकाले वा" इति योऽयं प्रतिषेधः स एकस्मात् पूर्वप्रत्युपेक्षितात् शय्या-संस्तारकादन्यत्र । इहान्यत्रशब्दः परिवर्जनार्थ, यथा-अन्यत्र द्रोण-भीष्माभ्यां, सर्वेयोधाः पराङ्मुखाः। द्रोण-भीष्मौ वर्जयित्वेत्यर्थः । ततश्चैकं शय्या-संस्तारकं विहायापरं किमपि रात्रौ Page #193 -------------------------------------------------------------------------- ________________ - १९० बृहत्कल्प-छेदसूत्रम् -२-१/४३ ग्रहीतुंन कल्पत इति सूत्रसङ्केपार्थः॥अथ नियुक्तिविस्तरः[भा.२९२४] रातो सिज्जा-संथारग्गहणे, चउरो मासा हवंति उग्घाया। आणाइणो य दोसा, विराधना संजमाऽऽयाए॥ वृ-शेरतेऽस्यामिति शय्या-वसति, सैव संस्तारकः शय्यासंस्तारकः; यद्वा शय्या-वसतिरेव, संस्तारको द्विधा-परिशाटी अपरिशाटी चेति, ततः शय्योपलक्षितः संस्तारकः शय्यासंस्तारकः, शय्या च संस्तारकश्चेत्यर्थः । तस्य च यद्यपि सूत्रे रात्रौ ग्रहणमनुज्ञातं थाप्युत्सर्गतो न कल्पते। यदि गृह्णाति ततश्चत्वारो मासा उद्धाताः प्रायश्चित्तम्, आज्ञादयश्च दोषाः, विराधना च संयमात्मविषया ।। तामेव भावयति[भा.२९२५] छक्कायाण विराधन, पासवनुच्चारमेव संथारे। पक्खलण खाणु कंटग, विसम दरी वाल गोणे य॥ वृ-रात्रावप्रत्युपेक्षितायांभूमावुच्चारंप्रश्रवणंवाव्युत्सृजतः षट्कायानां पृथिव्यादीनांविराधना। अथैतद्दोषभयान व्युत्सृजति ततआत्मविराधना।यत्रवाव्युत्सृजतितत्र बिलान्निर्गत्य दीर्घजातीयेन भक्ष्येत, एवमप्यात्मविराधना । “संथारे "त्ति अप्रतुय्पेक्षितायां भूमौसंस्तारकंप्रक्षिपतः एवमेव' षट्कायविराधना, बिलादावात्मविराधनाऽपि । तथा 'स्थाणुः कीलकस्तत् प्रस्खलनं भवेत्, कण्टकैविध्येत, 'विषमे निम्नोन्नते 'दरीषुवाबिलेषुप्रस्खलेत्प्रपतेद्वा, 'व्यालाः सस्तैिर्दश्येत, 'गौः' बलीवर्दस्तेनाभिघातो भवेत् ।। किञ्च[भा.२९२६] एरंडइए साणे, गोम्मिय आरक्खि तेनगा दुविहा। एए हवंति होसा, वेसित्थि-नपुंसएसुंवा॥ वृ- “एरंडइए साणे"त्ति हडक्कयितः श्वा तेन खाद्येत । 'गौल्मिकैः' बद्धस्थानकै रक्षपालैः 'आरक्षकैर्वा' चौरग्राहैगुह्येत । स्तेनका द्विविधाः-शरीरस्तेना उपधिस्तेनाश्च, तैरुपधिपह्रियेत साधवो वा हियेरन् । एते दोषा रात्रौ शय्या:संस्तारकग्रहणे भवन्ति । तथा 'वेश्यास्त्री-नपुंसकेषु वा' वेश्यापाटके नपुंसकपाटके वा स्थितानां रात्रौ परिवर्तयतां स्वाध्यायशब्दं श्रुत्वा लोकः प्रवचनावर्णवादं कुर्यात्-अहो ! साधवस्तपोवनमासेवन्ते । यत एते दोषाअतो न रात्रौ शय्यासंस्तारको ग्रहीतव्य इति ।। आह यद्येवं ततः[भा.२९२७] सुत्तं निरत्थगं कारणियं, इणमो अद्धाणनिग्गया साहू। मरुगाण कोट्ठगम्मी, पुव्वद्दिट्टम्मि संज्झाए । वृ-सूत्रं निरर्थकं प्राप्नोति । सूरिराह-न भवति सूत्रं निरर्थकं किन्तु कारणिकम् । किं पुनस्तत् कारणम् ? इत्याह-'इदम्' अनन्तरमेवोच्यमानम्-अध्वनिर्गताः केचन साधवोऽस्तमनवेलायां ग्रामंप्राप्ताः, तत्र तैर्मरुकाणां कोष्ठकः' अध्ययनापवरको ईष्टः परं तदीयः स्वामी तत्र सन्निहितो नविद्यते, ततस्तेसाधवस्तं मरुककोष्ठकमुचार-प्रश्रवणभूमिकाञ्चप्रत्युपेक्ष्य स्वामिनम्-अध्यापकं समागतं याचन्ते; याचयित्वा च तत्र कोष्ठके पूर्वदृष्टे सन्ध्यायां गृह्यमाणे सूत्रनिपातो द्रष्टव्यः ।। एवं सन्ध्यालक्षणां रात्रिमङ्गीकृत्योक्तम्, न केवलं सन्ध्यायां किन्तु विकालेऽपि शय्यासंस्तारकस्यामीभि कारणैर्ग्रहणं कल्पते- । [भा.२९२८] दूरेव अन्नगामो, उव्वाया तेन सावय नदी वा। Page #194 -------------------------------------------------------------------------- ________________ १९१ - उद्देशकः १, मूलं-४३, [भा. २९२८] दुल्लभ वसहि ग्गामे, रुक्खाइठियाण समुदानं ।। वृ-यतो ग्रामात् प्रस्थिताः ततो यत्र गन्तुमीप्सितं सोऽन्यग्रामो दूरे, अथवा 'उद्वाताः' परिश्रान्तास्ततो विश्राम्यन्तः समायाताः, स्तेन-श्वापदभयाद्वा सार्थमन्तरेणागन्तुं न शक्यते स चसार्थश्चिरेणलब्धः, नदी वाप्रव्यूढा; एतैः कारणैर्यस्मिन्ग्रामेप्रस्थितास्तमसम्प्राप्ताअपान्तरालग्रामे भिक्षावेलायां प्राप्ताः, तत्रच वसतिदुर्लभा, अतो मार्गयद्भिरपि तत्क्षणंन लब्धा, ततोवृक्षादिमूले बहिः स्थित्वा सर्वेऽपि 'समुदानं' भैक्षं हिण्डितवन्तः॥ तैश्च हिण्डमानैरमूषां वसतीनामेकतरा दृष्टा भवति[भा.२९२९] कम्मार-नंत-दारग-कलाय-सभ भुजमाणि दिय दिट्ठा । तेसुगएसु विसंते, जहि दिट्ठा उभयभोमाई॥ वृकर्माराः-लहकारास्तेषां शाला कारशाला, नन्तकानि-वस्त्राणि तानि यत्र व्यूयन्ते सा नन्तकशाला, दारकाः-बालकास्ते यत्र दिवसतः पठन्तिसादारकशाला लेखशालेत्यर्थः, कलादाःसुवर्णकारास्तेषां शाला कलादशाला, सभा-बहुजनोपवेशनस्थानम् । यद्वा सभाशब्दः शालापर्यायोऽतः प्रत्येकमभिसम्बध्यते-कर्मारसभा नन्तकसभा इत्यादि । एतासामेकतरा दिवा भुज्यमानाष्टा, ततोव्यतीतायांसन्ध्यायां तेषु लोहकारादिषुगतेषुताननुज्ञाप्यतत्र कर्मरारशालादौ प्रविशन्ति । तत्रापि यत्र दिवसत एव 'उभयभूमिके' उच्चार-प्रश्रवणभूमिकालक्षणे आदिशब्दात् कालभूमिश्च यत्र दृष्टाः' प्रत्युपेक्षिता भवन्ति तत्र रजन्यामपिगन्तुंकल्पते, अत्रच सूत्रनिपातः ।। एवमापवादिके सूत्रे भूयोऽप्यर्थतो द्वितीयपदमुच्यते-पूर्वमप्रत्युपेक्षितास्वपि संस्तारकोच्चारप्रश्रवणभूमिषु तिष्ठन्ति । कथम् ? इत्याह[भा.२९३०] मज्झे व देउलाई, बाहिं व ठियाण होइ अइगमनं । सावय मक्कोडग तेन वाल मसयाऽयगर साणे ।। वृ-'मध्ये वा' ग्रामादेमध्यभागे यद् देवकुलम् आदिग्रहणात् कोष्ठकशाला वा तत्र दिवसतो विधिना स्थिताः, अथवा ग्रामादेः 'बहि' देवकुलादौ सकलमपि दिवसं स्थिताः, ततो लोकस्तत्र स्थितान् दृष्टवा ब्रूयात्-“सावय" इत्यादि, अत्रदेवकुलादौ रात्रौ श्वापदः-सिंह-व्याघ्रादिस्तभयं भवति अतोनात्र भवतां वस्तुं युज्यते; अथवा-मर्कोटका अत्र रात्रावृत्तिष्ठन्ते, स्तेना वा द्विविधा अत्र रजन्यामभिपतन्ति, व्यालो वा सर्पस खादति, मशका वा निशायामत्राभिद्रवन्ति, अजगरो वाऽत्ररात्रोगिलति,श्वानोवासमागत्यदशति; एतैव्यार्घातकरणैरात्रावन्यस्यांवसतौ 'अतिगमनं' प्रवेशो भवति ॥ इदमेव स्फुटतरमाह[भा.२९३१] दिवसट्ठिया विरत्तिं, दोसे मक्कोडगाइए नाउं । अंतो वयंति अन्न, वसहिं बहिया व अंतो उ । कृ-देवकुलादौदिवसतःस्थिताअपिरात्रौमर्कोटकादीन्दोषान् ज्ञात्वायदि अन्तः' ग्रामाभ्यन्तरे स्थितास्ततो ग्रामान्तवर्तिनीमेवान्यांवसतिव्रजन्ति, तदप्राप्तौबाहिरिकायांगच्छन्ति।अथदिवसतो बहिर्देवकुलादिषु स्थिताः ततस्तत्रापि रात्रौ पूर्वोक्तान् दोषान् मत्वा 'बहि' बाहिरिकाया अन्तः समागच्छन्ति॥अथोक्तमेवार्थमन्याचार्यपरिपाट्या प्रतिपादयति [भा.२९३२] पुवट्टिए य रत्तिं, दह्ण जनो भणाइ मा एत्थं । Page #195 -------------------------------------------------------------------------- ________________ १९२ बृहत्कल्प-छेदसूत्रम् -२-१/४३ निवसह इत्थंसावय-तक्करमाइ उ अहिलिंति॥ वृ-देवकुलादौ पूर्वस्थितान् साधून रात्रौ दृष्ट्वा जनो भणति, यथा-माऽत्र निवसत, यतोऽत्र रात्रौ श्वापद-तस्करादयः 'अभिलीयन्ते समागच्छन्ति॥ [भा.२९३३] इत्थी नपुंसओ वा, खंधारोआगतो त्ति अइगमनं । गामानुगामि एहि वि, होज्ज विगालो इमेहिं तु ॥ वृ-लोको ब्रूयात्-अत्रदेवकुलादौ रात्रौस्त्रीवा नपुंसको वासमात्योपसर्गंकरोति, स्कन्धावारो वाआगतः, एवमादिभिकारणैर्बाहिरिकायाः सकाशादन्तः 'अतिगमनं प्रवेशं कुर्युग्रामाभ्यन्तराद्वा बहिर्गच्छेयुः । एवं तावदध्वनिर्गतानां यतनोक्ता । अथ विहरतां प्रतिपाद्यते- “गामानुगामि" इत्यादि, ये मासकल्पविधिना ग्रामानुग्रामं विहरन्ति तेषामपि 'एभि' वक्ष्यमाणैः कारणैर्विकालो भवेत् ॥तान्येवाह[भा.२९३४] वितिगिट्ठ तेन सावय, फिडिय गिलाणे व दुब्बल नई वा। पडिनीय सेह सत्थे, न उ पत्ता पढमबिइयाई॥ वृ- यत्र क्षेत्रे मासकल्पः कृतस्तस्माद् यमन्यं ग्राम प्रस्थिताः सः 'व्यतिकृष्टः' दूरदेशवर्ती, स्तेना वा द्विविधाः श्वापदा वा पथि वर्तन्ते तद्भयात् चिरलब्धसार्थेन सह आगताः, 'स्फिटिता वा' सार्थात्परिभ्रष्टास्ततो यावन्मार्गमवतीर्णास्तावदुत्सूरंसमजनि, यद्वा साधुः कोऽपिस्फिटितः स यावदन्वेषितस्तावच्चिरीभूतम्, ग्लानो वा साधुरधुनोत्थितः शनैः शनैः समागच्छति, दुर्बलो वा स्वभावेनैव कश्चित् सोऽपि न शीघ्रं गन्तुं शक्नोति, नदी वा पूर्णा यावदवरिच्यते तावत् प्रतीक्षमाणाः स्थिताः, यद्वा नदी यावत्परिरयगमनेन परिहियतेतावद्विलम्बोलग्नः, प्रत्यनीकैर्वा पन्थाः समन्ततोरुद्धः ततो यवदपरेण मार्गेणागम्यतेतावदुत्सूरंजातम्, शैक्षो वा कश्चिदुत्पन्नःस पथि प्रतीक्षितः, अथवा तस्य दिवा व्रजतः सागारिकं सार्थो वा शनैः शनैरागच्छति, यद्वा तं सार्थं. प्रतीक्षमाणानांविकालः सञ्जातः। एतैः कारणैःप्रथमद्वितीयपौरुष्योःआदिग्हणात्तृतीयचतुथ्योरपि पौरुष्योः ‘नतु' नैव प्राप्ता भवेयुः, अर्थादापन्नं विकाले रात्रौप्राप्ताः, ततश्च तदानीं प्राप्तैस्तैर्विधिना ग्रामे प्रवेष्टव्यं नाविधिना ।। यत आह[भा.२९३५] अइगमने अविहीए, चउगुरुगा पुव्ववन्निया दोसा। आणाइणो विराधन, नायव्वा संजमाऽऽयाए॥ वृ- यद्यविधिना 'अतिगमनं' प्रवेशं कुर्वन्ति ततश्चत्वारो गुरुकाः ‘पूर्ववर्णिताश्च' षट्कायविराधना-प्रस्खलन-प्रपतनादयो दोषाअत्रावसातव्याः,आज्ञादयश्च दोषाः, विराधना . चसंयमात्मविषया ज्ञातव्या, यत एवमतो विधिना प्रवेष्टव्यम् ।। कः पुनर्विधिः? इति अत आह[भा.२९३६] सव्वे वा गीयत्था, मीसा वा अजयणाए चउगुरुगा। आणाइणो विराधन, पुट्विं पविसंति गीयत्था ।। कृ-तेसाधवः यदि सर्वेऽपिगीतार्थास्ततःसर्वएवप्रविशन्ति।अथमिश्रास्ततोयदि अयतनया' वक्ष्यमाणयतनामकृत्वा प्रविशन्ति तदा चतुर्गुरुकाः; आज्ञादयो दोषाः, विराधना च संयमाऽऽत्मविषया।कापुनर्यतना? इतिअतआह-'पूर्व प्रथमंतावद्गीतार्थाप्रविशन्ति, पश्चादगीतार्था इति सङ्ग्रहगाथासङ्केपार्थः ।। अथैनामेव विवृणोति Page #196 -------------------------------------------------------------------------- ________________ उद्देशकः १, मूलं-४३, [भा. २९३७] १९3 [भा.२९३७] जइ सव्वे गीयत्था, सव्वे पविसंति ते वसहिमेव । विहि अविहीए पवेसो, मिस्से अविहीइ गुरुगा उ । वृ- यदि ते साधवः सर्वे गीतार्थास्ततः सर्वेऽपि ते समकमेव वसतिं प्रविशन्ति । अथागीतार्थमिश्रास्ते ततो द्विधा प्रवेशः-विधिना अविधिना च । यद्यविधिना प्रविशन्ति ततश्चतुर्गुरुकाः । अविधिर्नाम-यद्यगतार्थमिश्राः सर्वेऽपि प्रविशन्ति ॥ कः पुनस्तत्र दोषो भवति? इति उच्यते[भा.२९३८] विप्परिणामो अप्पच्चओ यदुक्खं च चोदणा होइ । पुरतो जयणाकरणे, अकरणे सव्वे वि खलु चत्ता ।। वृ-यदि मृगाणांपुरतोज्योतिरानयनादिकां वक्ष्यमाणां यतनां कुर्वन्तिततस्तेषां विपरिणामो भवेत्-न वर्तते अग्निकायसमारम्भः कर्तुमित्युपदिश्य सम्पति तमेव स्वयं समारभन्ते इति । अप्रत्ययोऽपितेषामुपजायेत यथैतदलीकं तथा सर्वमप्यमीषामेवंविधमिति; ततश्च प्रतिगमनादयो दोषाः । तथा तेषां मृगाणां पश्चादग्निकायसङ्घट्टादि कुर्वतामपरां वा समाचारी वितथामाचरतां दुःखं नोदना भवति, तदा स्वयमन्येनवाअग्निकायसमारम्भंकृत्वा सम्प्रत्यस्मान्वारयत' इत्यादि सम्मुखवलनतः सम्यक् शिक्षांनप्रतिपद्यन्त इत्यर्थः । अथैतद्दोषभयादेनांज्योतिर्यतनां न कुर्वन्ति ततः 'सर्वेऽपि' आचार्यादयः परित्यक्ताभवन्ति,तेषांसर्प-श्वानादिभिरात्मविराधनासद्भावात्। तस्माद् विधिना प्रवेष्टव्यम् । तमेव विधिमाह[भा.२९३९] बाहिं काऊण मिए, गीया पविसंति पुंछणे घेत्तुं । देउल सभ परिभुत्ते, मग्गंति सजोइए चेव ।। वृ-मृगान् बहि 'कृत्वा' स्थापयित्वा ‘प्रोञ्छनानि' दारुदण्डकानि गृहीत्वा गीतार्था प्रथमतो ग्रामंप्रविशन्ति । प्रविश्य च देवकुल-सभादीनि 'परभुक्तानि' परिभुज्यमानानि 'सज्योतीषिच' स्वयोगेनैवज्योतिसहितानिमार्गयन्ति।अथ पूर्वकृतंज्योतिस्तत्रनप्राप्यतेततः स्वयमेवतदानयन्ति आनाययन्ति वा । एवमुच्चारादिभूमिकाः प्रत्युपेक्ष्य मृगानानयन्ति॥ [भा.२९४०] परिभुज्जमाण असई, सुत्रागारे वसंति सारविए। अहुनुव्वासिय सकवाड निब्बिले निच्चले चेव ।। वृ- परिभुज्यमाना वसतिर्यदि न लभ्यते तदा 'शून्यागारं शून्यगृहं गवेषयन्ति । तच्च 'अधुनोद्वासितं' साम्प्रतमेवोद्वसीभूतं सकपाटं कपाटयुक्तं 'निर्बिलं' सादिबिलरहितं 'निश्चलं' टेढं नपतितुकामम् एवंविधं वेषणीयम् । अत्र चतुर्भिपदैः षोडश भङ्गाभवन्ति । एषांचमध्ये यः प्रथमो भङ्गस्तदुपेतेशून्यगृहे 'सारविते' प्रमार्जिते वसन्ति॥अत्रसर्वेषुगीतार्थेषुतावविधिमाह[भा.२९४१] जइ नाणयंति जोइं, गिहिणो तो गंतु अप्पणा आणे। ... कालोभयसंथाराण भूमिओ पेहए तेणं॥ वृ-यदि गृहिणः प्रेरिता अपिज्योति नयन्ति तत आत्मनाऽपि गत्वा गीतार्था आनयन्ति। ततस्तेन ज्योतिषा कालोभयसंस्ताराणां भूमीः प्रत्युपेक्षेत, कालभूमी संज्ञाभूमी कायिकीभूमी संस्तारकभूमीं चेत्यर्थः ।। [19] 13 Page #197 -------------------------------------------------------------------------- ________________ १९४ बृहत्कल्प-छेदसूत्रम् -२-१/४३ [भा.२९४२] असई य पईवस्सा, गोवालाकंचु दारुदंडेणं । विल पुंछणेण ढक्कण, मंतेण व जा पभायं तु॥ वृ-अथ प्रदीपोन प्राप्यते ततः प्रदीपस्यासतिगोपालकञ्चुकंपरिधाय तेन स्वशरीरं सुस्थगितं कृत्वा दारुदण्डकेन वसतिंप्रमार्जयन्ति ।यानिच तत्र बिलानि तेषां पादप्रोञ्छनेन “ढक्कणं"ति स्थगनं कुर्वन्ति, मन्त्रेण वा तान्यभिमन्त्रयन्ति यावत् प्रभातं सातम् । प्रभाते तु पादप्रोज्छनादिकमपनयन्ति॥एवंसर्वेषां गीतार्थानां विधिरुक्तः । अथ गीतार्थमिश्राणांतमेवातिदिशति[भा.२९४३] एमेव य भूमितिए, हरियाई खाणु-कंट-बिलमाई। दोसदुगवजणट्ठा, पेहिय इयरे पवेसंति ॥ वृ- यथा सर्वेषां गीतार्थानां विधिरुक्तस्तथा अगीतार्थमिश्राणामप्येवमेव ज्ञातव्यः । नवरं तानगीतार्थान् बहि स्थापयित्वा गीतार्था प्रविश्य वसतिंगृहीत्वा तत्र 'भूमित्रिके' संज्ञाकायिकीकालभूमिलक्षणेहरित-बीजादीन्जन्तूनु स्थाणु-कण्टक-बिलादींश्चप्रत्यपायान् ‘दोषद्वयवर्जनार्थ संयमा-ऽऽत्मविराधनालक्षणदोषद्वयपरिहारार्थं प्रत्युपेक्ष्यततः 'इतरान् मृगान्वसतिंप्रवेशयन्ति।। [भा.२९४४] ठाणासई य बाहिं, तेनगदोच्चा व सव्वे पविसंति । गुरुगा उ अजयणाए, विप्परिणामाइते चेव ।। वृ-यदि बहि स्थानं नास्ति यत्र मृगाः स्थाप्यन्ते "तेनगदोच्चा व"त्तिस्तेनकभयंवा बहिर्वर्तते ततः सर्व एव प्रविशन्ति । प्रविष्टाश्च यद्ययतनां कुर्वन्ति ततश्चतुर्गुरुकाः, त एव च विपरिणामाऽप्रत्ययादयो दोषाः॥अथ यतनामेव वयं न जानीम इति प्रश्नावकाशमाशङ्कय तत्स्वरूपमाह[भा.२९४५] अविगीयविमिस्साणं, जयण इमा तत्थ अंधकारम्मि। आननऽनाभोगेणं, अणागयं कोइ वारेइ॥ वृ-अंगीतार्थमिश्राणां 'तत्र' वसतावन्धकारे इयं यतना-"आणणऽणाभोगेणं"ति यथा ते मृगा नाभोगयन्ति-न जानते तथाप्रदीपस्यान्यव्यपदेशेनानयनं विधेयम् । अथ गृहस्थोऽन्यव्यपदेशेनोक्तोऽपिदीपंगृहीत्वा नागच्छन्तिततस्तमनागतं गृहमपिगत्वाप्रज्ञापयन्ति यथा दीपमानयति । तथा तं चानीयमानं यदि कश्चिद् वारयति ततस्तस्य शिक्षा प्रदातव्या । विशेषचूर्णौ तु“अन्नाणणे कोइ वारेइ"त्तिपाठः, अन्येन-गृहस्थेनाग्नेरानयने विधीयमाने यदि कोऽप्यगीतार्थो वारयति ततस्तस्य नोदना कर्तव्या ।। इदमेव भावयति[भा.२९४६] अम्हेहि अभणिओ अप्पणो नुआओ नु अम्ह अट्ठाए। आनेइ इहं जोइं, अयगोलं मा निवारेह ॥ वृ-यदा गृहीदक्षतयास्वयमेवज्योतिरानयतितंचकोऽप्यगीतार्थोवारयति तदास वक्तव्यःअस्माभिरभणितः स्वयोगेन यद्येषगृहस्थ आत्मनोऽर्थं 'नुः' इति संशये उताहो नुअस्मदर्थं 'इह' अस्मिन् स्थाने ज्योतिरानयति ततः किमस्माकमेतदीयया चिन्तया? । अत एनमयोगोलकल्पं मा निवारयतेति॥ [भा.२९४७] गिहिणंभणंति पुरओ, अइतमसमिणं न पस्सिमो किंचि । __ आणंति जइ अवुत्ता, तहेव जयणा निवारंते॥ वृ-अथ ते गृहस्थाः स्वयं नानयन्ति ततो गीतार्था अन्यव्यपदेशेन तेषांगृहिणांपुरतो भणन्ति Page #198 -------------------------------------------------------------------------- ________________ १९५ उद्देशक ः १, मूलं-४३, [भा. २९४७] 'अतितमः' अतीवान्धकारमिदम्, न पश्यामो वयं किञ्चिदपीति । यद्येवम् ‘अनुक्ताः' साक्षादभणिताः सन्तोज्योतिरानयन्तिततः सुन्दरमेव । यश्चतत्र निवारयति तस्य 'यतना'तथैव नोदना कार्या ॥अथ ते गृहस्था अन्यव्यपदेशेनोक्तं नावबुध्यन्ते ततः किं कर्त्तव्यम् ? इत्याह[भा.२९४८] गंतूण य पनवणा, आनन तह चेव पुव्वभणियंतु। भणण अदायण असई, पच्छायण मल्लगाईसु॥ वृ-गीतार्थैर्गत्वा चशब्दादगत्वाऽपि तत्र स्थितैर्गृहिणां प्रज्ञापना विधेया, यथा-न पश्यामो वयमत्र बिलादिकं स्थाणु-कण्टकादिकं वा, अत उद्योतो यथा भवति तथा कुरुत । एवं परिस्फुटमभिहिताः सन्तस्ते प्रदीपस्यानयनं कुर्वन्ति । यश्चागीतार्थो निवारयति तस्य तथैव' नोदनायाम् “अयगोलं मा निवारेह" इत्यादिकं पूर्वभणितमेव द्रष्टव्यम् । “भणण" ति गृहिषु 'प्रदीपमानय' इति प्रज्ञाप्यमानेषु यो ब्रवीति 'किमेव सावधप्रवृत्तिं कारयसि ?' इति तस्याग्रे मिथ्यादुष्कृतभणनं कर्त्तव्यम् । “असई"त्ति अथ गृहस्थः प्रदीपमानेतुं नेच्छति ततः “अदायण पच्छायण मल्लगाईसु"त्ति मृगाणामदर्शनाय मल्लकादिभि प्रच्छाद्य प्रदीपः स्वयमानेतव्यः॥ अथेदमेवोत्तरार्द्धं विवरीषुराह[भा.२९४९] गिहि जोइं मग्गंतो, मिगपुरओ भणइ चोइओ इणमो। नाभोगेण मउत्तं, मिच्छाकारं भणामि अहं ।। वृ-गृहिणांसमीपे 'ज्योति' प्रदीपं 'मृगपुरतः' मृगाणांश्रण्वतांमार्गयन्यदिकेनचिन्नोदितःकिमेवं सावधं कायसि? इति; ततोऽसौ गीतार्थ इत्थं भणति-अनाभोगेन मयेदमुक्तम्, अतोऽहं मिथ्याकारं भणामि, मिथ्यादुष्कृतं प्रयच्छामीत्यर्थः ।। [भा.२९५०] एमेव जइ परोक्खं, जाणंति मिगा जहेइमा भणिओ। तत्थ विचोइज्जतो, सहसाऽनाभोगओ भणइ॥ वृ-एवमेव यदि मृगाणां परोक्षं गृहे गत्वा गृहस्थो भणितः तदाऽपि यदि ते मृगाः कथमपि जानन्ति, यथा-एतेन साधुना गृहस्थः 'भणितः' प्रदीपानयनाय प्रेरितः; तत्राप्यपरेण नोद्यमानः सन् भणति-सहसाकारेणानाभोगतो वा मयेदमुक्तम्, मिथ्या मे दुष्कृतमिति।। [भा.२९५१] गिहिगम्मि अणिच्छंते, सयमेवाणेइ आवरित्ताणं । जत्थ दुगाई दीवा, तत्तो मा पच्छकम्मं तु॥ वृ-अथ गृही प्रदीपमानेतुं नेच्छति ततः स्वयमेव मल्लकसम्पुटेन वा कपरण वा कल्पेन वा प्रदीपमावृत्यानयति । तत्रापि यत्र गृहे 'द्विकादयः' द्वित्रिप्रभृतयः दीपाः ततो गृहादानयति । कुतः? इत्याह-“मापच्छकम्मंतु"त्तियत्रैक एव दीपो भवतितत्रापरप्रदीपकरणलक्षणंपश्चात्कर्म मा भूदिति कृत्वा ततः प्रदीपो नानेतव्यः ।। ततश्च[भा.२९५२] उज्जोविय आयरिओ, किमिदं अहगं मिजीवियट्ठीओ। आयरिए पन्नवणा, नट्ठो यमओ य पव्वइओ॥ उद्योतितेप्रतिश्रयेसतिआचार्योभणति-हन्त! किमिदंभवता कृतम्? ।सप्राह-क्षमाश्रमणाः! अहमद्यापि जीवीतार्थी अतो बिलादिपरिज्ञानार्थंमयेत्थं कृतम्। तत आचार्यो मातृस्थानेन तस्य प्रज्ञापनां करोति-हन्त! मृतएव त्वम्, कुतो भवतो जीवीतम्? यत एवं कुर्वन्प्रव्रजितः 'नष्टश्च' Page #199 -------------------------------------------------------------------------- ________________ १९६ बृहत्कल्प-छेदसूत्रम् -२-१/४३ सन्मार्गपरिभ्रष्टो 'मृतश्च' संयमजीवितविरहितो भवतीति ॥ अथ पूर्वोक्तमेवार्थं विशेषयन्नाह[भा.२९५३] तस्सेव य मग्गेणं, वारणलक्खेण निति वसभा उ । भूमितियम्मि उ दिढे, पञ्चप्पिय मो इमा मेरा ॥ वृ-'तस्यैव' ज्योतिरानेतुः साधोः 'मार्गेण' पृष्ठतः 'वारणालक्ष्येण' निवारणव्याजेन वृषभा निर्गच्छन्ति। ततः 'भूमित्रिके उच्चार-प्रश्रवण कालभूमिलक्षणे द्दष्टे सतिप्रदीपे प्रत्यर्पिते “मो" इति निपातः पादपूरणे इयं 'मर्यादा' सामाचारी ॥ तामेवाह[भा.२९५४)खरंटण वेंटिय भायण, गहिए निक्खिवण बाहि पडिलेहा। वसभेहि गहियचित्ता, इयरे पसाइंति कल्लाणं॥ वृ-येन प्रदीपानयनायाविरतकःप्रेरितोयेनवाप्रदीपआनीतः तस्य गुरुभिखरण्टना कर्तव्या। ततोऽसौ वेण्टिकां भाजनानिच गृहीत्वा "निक्खिवण"तिबहिस्थाप्यते, निर्गच्छास्माकंगच्छाद् नत्वयाकार्यमिति।ततोऽसौ कैतवनिष्काशितोबहिस्थितःप्रतिलेखयति प्रतिक्रमणंच विदधाति। ततोवृषभैर्गृहीतचित्ताः 'इतरे मृगा गुरुं 'प्रसादयन्ति प्रसन्न कुर्वन्ति।ततोगुरवस्तंभूयोऽप्यानाय्य पञ्चकल्याणकं प्रायश्चित्तं प्रयच्छन्ति ॥अथ कथं वृषभा मृगाणां चित्तग्रहणं कुर्वन्ति? इत्याह[भा.२९५५] तुम्ह य अम्ह य अट्ठा, एसमकासी न केवलं सभया। खामेमुगुरुं पविसउ, बहुसुंदरकारओ अम्हं॥ वृ-आर्या! युष्माकमस्माकंचसदिप्रत्यपायरक्षणार्थमेषएवमकार्षीत्, न केवलंस्वभयादेव, अत आगच्छत येन सर्वेऽपि 'गुरुं' क्षमाश्रमणं क्षमयामः, प्रविशतु 'बहुसुन्दरकारकः' प्रत्यपायरक्षकतया बहुकल्याणकरोऽस्माकंभूयः प्रतिश्रयम्। एवमुक्तामृगावृषभैः सह समागत्य गुरुप्रसादयन्ति ततो गुरवः क्षाम्यमामा ब्रुवते-आर्या ! यूयमपि निर्धाणः सजाताः? ।। [भा.२९५६] अन्ने वि विद्दवेहिइ, अलमजो! अहव तुम मरिसेमि । तेसि पि होइ बलियं, अकजमेयं न यतुदंति॥ वृ- एष एवं कुर्वनन्यानपि साधून 'विद्रावयिष्यति' विनाशयिष्यति अत आर्या ! 'अलं' पर्याप्तमस्माकमेतेन।साधवो ब्रुवते-क्षमाश्रमणाः!नभूय एवं करिष्यति, एकवारमपराधं क्षमयन्तु भगवन्तः ।गुरवोभणन्ति-यद्येवंततोऽहं युष्माकंमर्षयामि, परमेतस्य पञ्चकल्याणकंप्रायश्चित्तं प्रदीयते । एवमुक्ते तेषामपि' अगीतार्थानां बलिकम् अत्यर्थंहृदये भवति, यथा-ननूमकार्यमेतदिति।नच पश्चाद्ज्योतिस्पर्शनादौनोद्यमानास्तुदन्ति,प्रतिनोदनयान व्यथामुत्पादयन्तीत्यर्थः।। [भा.२९५७] एसो विही उ अतं, बाहि निरुद्धे इमो विही होइ । सावय तेनय पडिनीय देवयाए विही ठाणं॥ वृ- एष विधि 'अन्तः' ग्रामाभ्यन्तरे प्रविष्टानामुक्तः । अथ बहिस्तिष्ठतां विधिरुच्यतेतत्राध्वप्रतिपन्नास्ते साधवो विकाले तं ग्रामं प्राप्ताः, परं द्वाराणि तत्र स्थगितानि, ततो 'निरुद्ध' स्थगितद्वारे ग्रामादौ विकाले वा तत्रापूर्व प्रवेशं न लभते इत्यादिकारणसम्भवे बहिस्थितानां यदि श्वापदभयं स्तेनकमयं प्रतनीकभयं वा भवति तदा वक्ष्यमाणो विधि कर्तव्यो भवति, यावद् देवताया आकम्पनार्थं विधिना 'स्थानं' कायोत्सर्लक्षणं क्षपेण कर्तव्यमिति ।। यतनामेवाह[भा.२९५८] भूमिघर देउले वा, सहियावरणे व रहियआवरणे। Page #200 -------------------------------------------------------------------------- ________________ उद्देशक ः १, मूलं-४३, [भा. २९५८] १९७ रहिए विजा अच्चित्त मीस सच्चित्त गुरु आणा॥ वृ-बहिस्तिष्ठतां यदि श्वापदादिभयं तदा भूमिगृहे देवकुले वा आवरणं-कपाटं तेन सहिते तिष्ठन्ति । गाथायां प्राकृत्वाद् व्यत्यासेन पूर्वापरनिपातः । अथ सकपाटं न प्राप्यते तत आवरणरहितेऽपि तिष्ठन्ति, तत्र विद्यया द्वारं स्थगयन्ति, दिशां वा विद्याप्रयोगेण बन्धं विदधति यथा श्वापदादयोनप्रविशन्ति । विद्यायाअभावे अचित्तकण्टिकाभि, तदप्राप्तौ मिश्रकण्टिकाभि, तदलाभे सचित्तकण्टिकाभिरपि स्थगयन्ति । तदभावे "गुरु आण"त्ति गुरवो भागवतीमाज्ञां प्ररूपयन्ति, यथा-आचार्यादीनां मारणान्तिके उपसर्गे उपस्थिते सति यः समर्थो भवति तेन यथासामर्थ्य तन्निवारणे पराक्रमणीयमिति नियुक्तिगाथासमासार्थः ॥अथैनामेव विवरीषुराह[भा.२९५९] सकवाडम्मि उ पुस्विं, तस्सऽसई आणइंति उ कवाडं। _ विजाए कंटियाहि व, अचित्त-चित्ताहि वि ठयंति॥ वृ-पूर्वं सकपाटे भूमिगृहे देवकुले वा स्थातव्यम् । तस्यासति अकपाटे तिष्ठन्तः कपाटमन्यत आनयन्ति।अथ नास्तिकपाटंततोविद्ययाद्वारस्थगयन्ति। तदभावेकण्टिकाभिप्रथममचित्ताभिः ततो मिश्राभिः ततः सचित्ताभिरपि स्थगयन्ति ।। [भा.२९६०] एएसिं असईए, पागार वई व रुक्ख नीसाए। परिखेव विज्ज अच्चित्त मीस सच्चित् गुरु आणा ।। वृ-'एतेषां' भूमिगृहादीनामसति प्राकरं वा वृतिं वा वृक्षं वा 'निश्राय' निश्रां कृत्वा तिष्ठन्ति। तत्रापि विद्ययापरिक्षेपं कुर्वन्ति। तदभावे कण्टिकाभिर्यथाक्रममचित्त-मिश्र-सचित्ताभिः परिक्षिपन्ति । गुरवश्चाज्ञाप्ररूपणां वक्ष्यमाणां कुर्वन्ति ।। [भा.२९६१] गिरि-नइ-तलागमाई, एमेवागम ठएंति विजाई। एग दुगे तिदिसिं वा, ठएंति असईए सव्वत्तो॥ वृ-गिरिं वा नदी वा तडागं वा आदिग्रहणाद् गर्तादिकं वा निश्रां कृत्वा तिष्ठन्ति । तेषां च यत्रैक एव प्रवेशस्तत्र प्रथमतस्तिष्ठन्ति, तदभावे यत्र द्वयोर्दिशोः प्रवेशः, तदप्राप्तौ यत्र तिसृषु दिक्षु प्रवेशस्तत्रापि तिष्ठन्ति । तेषां च आगमं प्रवेशमुखम् ‘एवमेव' विद्यादिभि स्थगयन्ति । "असईयसव्वत्तो"त्तिप्राकारादिनिश्रायाएकप्रवेशादीनां वा गिरिप्रभृतीनामप्राप्तावाकाशे वसन्तः सर्वतोविद्याप्रयोगेण स्थगयन्ति दिशां वा बन्धं कुर्वन्ति । विद्याया अभावे कण्टिकाभिः सर्वतो वृतिं कुर्वन्ति । तदभावे गुरव आज्ञाप्ररूपणां कुर्वन्ति ॥ केन विधिना? इति चेद् उच्यते[भा.२९६२] नाउमगीयं बलिणं, अविजाणंता व तेसि बलसारं । घोरे भयम्मि थेरा, भणंति अविगीयथेज्जत्थं ।। वृ-ज्ञात्वा कमप्यगीतार्थं 'बलिनं समर्थम्, यद्वा अविजानन्तः 'तेषां' स्वसाधूनां 'बलसारं' पराक्रममाहास्यम्, कस्य कीशः पराक्रमो विद्यतेइत्येवमजानन्त इत्यर्थः, घोरे रौद्रेश्वापदादिभये 'स्थविराः' आचार्या अविगीतस्थैर्यार्थम्' अगीतार्थस्थिरीकरणार्थ भणन्ति ।।कथम् ? इत्याह[भा.२९६३] आयरिए गच्छम्मिय, कुल गण संघे यचेइय विनासे । आलोइयपडिकंतो, सुद्धो जं निजरा विउला । वृ-षष्ठीसप्तम्योरर्थं प्रत्यभेदाद् आचार्यस्य वा गच्छस्य वा कुलस्य वा गणस्य वा सङ्घस्य वा Page #201 -------------------------------------------------------------------------- ________________ १९८ बृहत्कल्प-छेदसूत्रम् -२-१/४: चैत्यस्य वा विनाशे उपस्थिते सति सहयोधिप्रभृतिनास्ववीर्यमहापयता तथा पराक्रमणीयं यथा तेषामाचार्यादीनां विनाशोनोपजायते।सचतथा पराक्रमणामो यद्यपराधमापन्नस्तताप्यालोचितप्रतिक्रान्तः शुद्धः, गुरुसमक्षमालोच्य मिथ्यादुष्कृतप्रदानमात्रेणैवासौ शुद्ध इति भावः । कुतः? इत्याह-'यद्' यस्मात् कारणाद् ‘विपुला' महती 'निर्जरा' कर्मक्षयलक्षणा तस्य भवति, पुष्टालम्बनमवलम्ब्य भगवदाज्ञया प्रवर्तमानत्वादिति ।। [भा.२९६४] सोऊण य पन्नवणं, कयकरणस्सा गयाणो गहणं । सीहाई चेव तिगं, तवबलिए देवयट्ठाणं ।। वृ एवंविधां प्रज्ञापनां श्रुत्वा यः कृतकरणः-सहयोधिप्रभृतिकस्तस्य गदाया आदिशब्दाद् लगुडस्य वा ग्रहणं भवति । गहीत्वा च गदादिकमसौ गुरून् ब्रवीति-भगवन् ! शेरतां विश्वस्ताः सर्वेऽपि साधवः, अहं सिंहादीनां निवारणां करिष्यामि । ततः सुप्ताः साधवः । स पुनरेकाकी गदाहस्तः प्रतिजाग्रदवतिष्ठते । तस्य च प्रतिजाग्रतः सिंहत्रिकं समागच्छेत्, आदिशब्दाद् व्याघ्रादिपरिग्रहः । तत्र च वृद्धसम्प्रदायः-सो साहू गयाहत्थो पडियरमाणो चिट्ठइ । नवरं सीहो आगतो। तेन ईसि त्ति आहतो नाइदूर गंतुंमओ। अन्नो सीहो आगओ। सो चिंतेइ-सोचेव पुणो आगओ। तओ गाढतरं आहओ।सो नस्संतो पढमस्स आरओमओ। अन्नो वि सीहो आगओ। सो चिंतेइ-तइयं पि वारं सो चेव पूणो आगओ। ताहे बिइयाओ बलिययरं आहओ । नस्संतो बीयस्स आरओमओ। तओ वोलिया खेमेण रयणि त्ति ।। ईशस्य कृतकरणस्याभावे यः 'तपोबलिकः विकृष्टतपसाबलीयान्त्रपकःसदेवताया आकम्पननिमित्तं स्थानं' कायोत्सर्गं करोति। एतदग्रतो भावयिष्यते ॥ अथ तेन कृतकरणसाधुना प्राभातिकप्रतिक्रमणवेलायां यथा गुरुसमक्षमालोचितं तथा प्रतिपादयति[भा.२९६५] हंत म्मि पुरा सीहं, खुडयाइ इदानि मंदथामो मि । तिन्नाऽऽवाए सीहो, रत्तिं पहओ मया न मओ॥ वृ-क्षमाश्रमणाः! 'पुरा' पूर्वमहं प्रबलशरीरतयाखुडुक्कामात्रेणैव सिंहं हन्ताऽस्मि, इदानींतु मन्दस्थामाऽस्मिततः “तिनाऽऽवाए"तिविभक्तिव्यत्ययात् त्रिष्वापातेषु आगमनेषुगदाघातेन सिंहो रात्रौ मयाप्रहतः परं 'नमृतः' नापद्राणः। एवमालोच्य मिथ्यादुष्कृतं दत्तवान् । एतावतैव चासौ शुद्धः, अदुष्टपरिणामत्वात् ।। [भा.२९६६] नितेहि तिनि सीहा, आसन्ने नाइदूर दूरे य। निग्गयजीहा दिट्ठा, स चावि पुट्ठो इमं भणइ ।। वृ-प्रभाते निर्गत्य पन्थानं गच्छद्भिते त्रयः सिंहा निर्गतजिह्वा दृष्टाः । तत्रैक आसन्ने, द्वितीयो नातिदूरे, तृतीयस्तु दूरे। सच आचार्ये पृष्टः-आर्य! किमेवं सिंहत्रयं विपननमवलोक्यते? । ततः स इदं भणति॥ [भा.२९६७] मा मरिहिइ त्ति गाढं, न आहओ तेन पढमओ दूरे। ___ गाढतर बिइय तइओ, न य मे नायं जहऽन्नन्नो ।। वृ-भगवन् ! यदाप्रथमः सिंह आयातस्तदामया ‘मा मरिष्यति' इति कृत्वा गाढं नाहतस्तेनासौ दूरे गत्वा विपन्नः । द्वितीयस्तु ‘स एवायं भूयोऽप्यायातः' इति बुध्या गाढतरमाहतः तेनासौ Page #202 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं-४३, [भा. २९६७] १९९ नासन्ने नातिदूरे । तृतीयस्तु द्वितीयादपि गाडतरमाहतस्तेनासौ प्रत्यासन्न एव भूभागे गत्वा मृतः। न च मया ज्ञातम्, यथा-अयमन्यान्यः सिंहः समागतो न स एवेति ॥ ईशस्य कृतकरणस्याभावे देवतायाः कायोत्सर्ग कर्त्तव्यः, स च केन कियन्तं वा कालं यावत् ? इति अत्रोच्यते[भा.२९६८] खमओ व देवयाए, उस्सग्ग करेइ जाव आउट्टा। . रक्खामि जा पभायं, सुवंतु जइणो सुवीसत्था ।। वृ-क्षपको वा देवताया आकम्पननिमित्तं कायोत्सर्गं करोति यावदसौ ‘आवृत्ता' आराधिता सती ब्रूते-भगवन् ! पारय कायोत्सर्गम्, यावत् प्रभातं तावदहं श्वापदाधुपसर्ग रक्षामि, स्वपन्तु यतयः सुविश्वस्ता इति ॥ मू. (४४) नो कप्पइ निग्गंथाण वा निग्गंथीण वा रातो वा वियाले वा वत्थं वा पडिग्गहं वा कंबलं वा पायपुंछणं वा पडिगाहित्तए॥ वृ-अथास्य सूत्रस्य कः सम्बन्धः? इत्याह[भा.२९६९] जह सेज्जाऽनाहारो, वत्थाददेमेव मा अइपसंगा। दियदिट्ठवत्थगहणं, कुजा उ निसिं अतो सुत्तं ।। कृयथा शय्या-वसतिअनाहारइति कृत्वा रात्रौ ग्रहीतुंकल्पते, एवमेव वस्त्रादिकमपिकल्पिष्यते इत्यतिप्रसङ्गाद् दिवाष्टस्य वस्त्रस्य 'निशि' रात्रौ ग्रहणंमा कुर्यादित्यत इदं सूत्रमारभ्यत इति ।। अनेन सम्बन्धेनायातस्यास्य व्याख्या-नो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा रात्रौ वा विकाले वा वस्त्रं वा प्रतिग्रहं वा कम्बलं वा पादप्रोञ्छनं वा प्रतिग्रहीतुमिति सूत्राक्षरगमनिका ।। अथ भाष्यविस्तरः[भा.२९७०] रातो वत्थग्गहणे, चउरो मासा हवंति उग्घाया। आणाइणो य दोसा, आवजण संकणा जाव । वृ-रात्रौ वस्त्रग्रहणे चत्वारो मासा उद्धाताः प्रायश्चित्त आज्ञादयश्च दोषाः । तथा यथा रात्री भक्तग्रहणे मिथ्यात्व-षट्कायविराधनादयो दोषा उक्ताः यावत् पञ्चस्वपिप्राणातिपातादिष्वापत्तिस्तद्विषया च शङ्का एतत् सर्वमपि दोषजालं रात्रौ वस्त्रग्रहणेऽपि तथैव वक्तव्यम् ।। यतश्चैवमतो न ग्रहीतव्यं रात्रौ वस्त्रम्, कारणे तु गृह्णीयादपीति दर्शयति[भा.२९७१] बिइयं विहे विवित्ता, पडिसत्थाई समिच्च रयणीए । तेय पए च्चिय सत्था, चलिहिंतुभए व इक्को वा ॥ वृ-द्वितीयपदमत्रोच्यते-'विहे' अध्वनि 'विविक्ताः' मुषिताः सन्तःप्रतिसादिकं समेत्य' प्राप्य रजन्यामपि वस्त्र-प्रतिग्रहादिकं गृह्णन्ति । तत्रापि कथम् ? इत्याह-तावुभावपि सार्थी प्रगे' प्रातरेवानुद्गते सूर्ये चलिष्यतः, “एको वा' अन्यतरः सार्थप्रतिसार्थयोर्मध्ये चलिष्यतीति मत्वा रात्रावपि ग्रहणं कुर्वन्ति । अत एव चोत्सर्गपदेऽध्वा गन्तुमेव न कल्पते यत्रैते दोषा उत्पद्यन्ते । तथा चाह[भा.२९७२] उद्दद्दरे सुभिक्खे, अद्धाणपवजणं तु दप्पेण । लहुगा पुन सुद्धपदे, जं वा आवजई जत्थ ।। वृ-इयं रात्रिभक्तसूत्रे व्याख्यातार्था ।। द्वितीयपदमाह Page #203 -------------------------------------------------------------------------- ________________ २०० [भा. २९७३] वृ- इयमपि गतार्था । [भा. २९७४ ] बृहत्कल्प-छेदसूत्रम् -२-१/४४ ना दंसणट्टा, चरित्तट्ठा एवमाइ गंतव्वं । उवगरण पुव्वपडिलेहिएण सत्थेण गंतव्वं ॥ सत्ये विविच्चमाणे, असंजए संजए तदुभए य । मग्गंते जयण दानं, छिन्नं पि हु कप्पई घेत्तुं ॥ वृ-ज्ञानाद्यर्थमध्वानं प्रतिपन्नानामपान्तराले चतुर्विधाः स्तेना भवेयुः एके असंयतप्रान्ताः १ अन्ये संयतप्रान्ताः २ अपरे तदुभयप्रान्ताः ३ अन्ये तदुभयभद्रकाः ४ । तत्रासंयतप्रान्तैः स्तेनैः सार्थे ' विविच्यमाने' मुष्यमाणेऽत एव साधूनां पाशर्वाद् वस्त्राणि मार्गयति यतनया दानं कर्त्तव्यम् । प्रत्यर्प्यमाणं च च्छिन्नमपि तदेव वस्त्रं ग्रहीतुं कल्पते नान्यदिति सङ्ग्रहगाथासमासार्थः।। अथैनामेव विवरीषुराह[भा. २९७५] संजयभद्दा गिहिभद्दगा य पंतोभए उभयभद्दा । तेना होंति चउद्धा, विगिंचणा दोसु तू जइणं ॥ वृ- एके स्तेनाः संयतभद्रकाः गृहस्थथप्रान्ताः, अपरे गृहस्थभद्रकाः परं संयतप्रान्ताः, अन्ये उभयेषामपि प्रान्ताः, अपरे उभयेषामपि भद्रकाः, एवं स्तेनाश्चतुर्विधा भवन्ति । अत्र च द्वितीयतृतीययोर्द्वयोर्भङ्गयोर्यतीनां 'विवेचनं' वस्त्रेभ्यः पृथक्करणं भवति ॥ अथ यत्र संयता न विविक्ताः गृहस्थास्तु विविक्ताः तत्र विधिमाह [भा. २९७६] जइ देतऽजाइया जाइया व न वि देंति लहुग गुरुगा य । सागार दान गमणं, गहणं तस्सेव नऽन्नस्स ॥ वृ- साधवो यद्ययाचिताः सन्तो वस्त्राणि गृहिणां प्रयच्छन्ति तदा चतुर्लघु । अथ याचिताः सन्तो न प्रयच्छन्ति तदा चत्वारो गुरवः । अतः 'साकारं ' प्रातिहारंक भणित्वा प्रयच्छन्ति, यथाभवद्भि प्रत्यर्पणीयमिदमस्माकं यद्यर्वाग्विर्त्तमाना गृहं वा गता अन्यद् वस्त्रं लभध्वे । 'गमनं नाम' येषां गृहस्थानां तद् वस्त्रं प्रदत्तं ते यद्यन्येन पथा गच्छन्ति ततः साधुभिरपि तेनैव पथा गन्तव्यम्; यद्यन्येन व्रजन्ति ततश्चतुर्लघु । यदा तेऽध्वनो निर्गता भवन्ति तदा छिन्नस्यापि तस्यैव वस्त्रस्य ग्रहणं कर्त्तव्यं नान्यस्य । ततः पुनर्वस्त्रं कीध्शं दातव्यम् ? इत्याहदंडपडिहारवज्जं, चोल - पडल-पत्तबंधवज्रं च । परिजुण्णाणं दानं, उड्डाह-पओसपरिहरणा ।। [भा. २९७७ ] वृ - महती जीर्णकम्बलिका दण्डपरिहार उच्यते, तद्वर्जम्, चोलपट्ट - पडलक- पात्रबन्धवर्जं च यानि शेषाणि परिजीर्ण वस्त्राण तेषामुड्डाह-प्रद्वेषपरिहरणार्थं दानं कर्त्तव्यम् । उड्डाहो नामअहो ! अमीषामनुकम्पा ये विविक्तानामप्यस्माकंचीवराणि न प्रयच्छन्ति, प्रद्वेषो नाम- अप्रीतिकम्; तद्वशाचच प्रान्तापनादयो दोषास्तत्परिहरणार्थं दातव्यम् ॥ अथ “छिन्नं पि"त्ति योऽयम-पिसब्दस्तत्सूचितमिदमपरमाह [भा.२९७८] धोयस्स व रत्तस्स व, अन्नस्स वऽगिण्हणम्मि चउलहुगा । तं चेव घत्तुं धोउं परिभुंजे जुण्णमुज्झेजा ॥ वृ-यदि तैर्गृहस्थैस्तद् वस्त्रं धौतं वा रक्तं वा तथापि तस्यैव ग्रहणं कर्त्तव्यम् । अथासाधुप्रायोग्यं Page #204 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं-४४, [भा. २९७८] २०१ कृतमिति मत्वा न गृह्णन्ति अन्यस्य वा ग्रहणं कुर्वन्ति तदा चतुर्लघवः । अतस्तदेव वस्त्रं गृहीत्वा क्षारादिना धीत्वा च साधुप्रायोग्यं कृत्वा परिभुञ्जते । अथातीव जीर्णं ततः 'उज्झेयुः' परिष्ठापयेयुरित्यर्थः ॥गतःप्रथमो भङ्गः । अथ 'गृहस्थभद्रकाः संयतप्रान्ताः' इति द्वितीयो भङ्गो भाव्यते तत्र भूयश्चतुर्भङ्गी-संयत्यो विविक्ता न संयताः १ संयता विविक्ता न संयत्यः २ संयत्योऽपि विविक्ताः संयताअपिविविक्ताः३नसंयत्योनापिसंयता विविक्ताः४।अत्र विधिमभिधित्सुराह[भा.२९७९] सट्ठाणे अनुकंपा, संजय पडिहारिए निसिढे य। असईअ तदुभए वा, जयणा पडिसत्थमाईसु॥ वृ-यत्र संयता गृहिणश्च विविक्ता न संयत्यः तत्र संयतीनां स्वस्थानं साधवः तत्रानुकम्पा कर्तव्या, साधूनांवस्त्रं दातव्यमित्यर्थः, साधुभिरपितत्प्रातिहारिकंग्राह्यम्।यत्रसंयत्यो गृहस्थाश्च मुषिता न संयताः तत्र साधूनां संत्यः स्वस्थानं तासां वस्त्रदानेनानुकम्पा कर्तव्या, तच्च 'निसृष्टं' निदेजं दातव्यं न प्रातिहारिकम् । “असईय"त्ति अथात्मनोऽप्यधिकमुपकरणं नास्ति ततः प्रातिहारिकमपि तासां दातव्यम् । तथा तदुभयं-साधुसाध्वीवर्ग तस्य विविक्तस्य वस्त्राभावे प्रतिसार्थादिषु यतना' वस्त्रान्वेषणविषयाकर्त्तव्येति सङ्गहगाथासमासार्थ॥अथैनामेव विवृणोति[भा.२९८०] न विवित्ता जत्थ मुनी, समणीय गिही यजत्थ उद्दूढा । सट्ठाणऽनुकंप तहिं, समणुनियरासु वितहेव ।। वृ-यत्र मुनयो न विविक्ताः श्रमण्यश्च गृहिणश्च यत्र “उद्दूढ"त्ति मुषिताः तत्र 'स्वस्थाने' संयतीवर्गेऽनुकम्पा कर्त्तव्या। ताश्च संयत्यो द्विविधाः-संविग्ना असंविग्नाश्च । यदि सन्ति ततः सर्वासामपि दातव्यानि । अथन सन्ति तावन्ति वस्त्राणि ततः संविग्नसंयतीनांदेयानि । ताअपि द्विविधाः-समनोज्ञाः-साम्भोगिन्य इतराश्च-असाम्भोगिन्यः । यदि पूर्यन्तेततोद्वयोरपिवर्गयोस्तथैव दातव्यानि । अथ न पूर्यन्ते ततः स्वस्थाने दातव्यानि, समनोज्ञानामित्यर्थः । अपिशब्दाद्या धृतिदुर्बलास्ताः संविग्ना असंविग्ना वा स्थविरास्तरुण्यो वा भवन्तु नियमात् तासां दातव्यम् । यत्र साधवो विविक्तास्तत्रेयं यतना[भा.२९८१] लिंगट्ठ भिक्ख सीए, गिण्हंती पाडिहारियमिमेसु । अमणुन्नियरगिहीसुं, जलद्धं तन्निभं दिति ॥ वृ-लिङ्गार्थं तावदवश्यं रजोहरण-मुखवस्त्रिके ग्रहीतव्ये, भिक्षार्थं तु पात्रबन्ध-पटलकादि, शीतत्राणार्थं तु प्रावरणादि, एतत् सर्वमपि प्रातिहारिकमेतेषु गृह्णन्ति । तद्यथा-अमनोज्ञाःअसाम्भोगिकाः इतरे-पार्श्वस्थादयः गृहिणः-प्रतीताः, एतेषुयदि प्राप्यतेततः सुन्दरमेव, अर्थतेषु न प्राप्यते ततः संयतीनामपि हस्तात् प्रातिहारिकं ग्राह्यम् । ततो अध्योत्तीर्णे यत् चोलपट्टादिकं यदा लब्धं भवतितदा ‘तन्निभं' तत्सदृशं प्रातिहारिकम् असाम्भोगिकादीनां ददति' प्रत्यर्पयन्ति। इह द्वितीयभङ्गे व्याख्यायमाने प्रथम-तृतीय-चतुर्थभङ्गा अपिलेशतः स्पृष्टा अवगन्तव्याः॥ गतो द्वितीयभङ्गः । अथ तृतीयभङ्गं व्याख्यानयति[भा.२९८२] उद्दूढे व तदुभए, सपक्खपरपक्ख तदुभयं होइ । अहवा वि समण समन, समणुनियरेसु एमेव॥ वृतदुभये वा 'अझुढे' मुषिते सत्येवमेव यतना ज्ञातव्या । अथ तदुभयमिति किमुच्यते? Page #205 -------------------------------------------------------------------------- ________________ २०२ बृहत्कल्प-छेदसूत्रम् -२-१/४४ इत्याह-स्वपक्षः परपक्षश्चेति तदुभयं भवति, स्वपक्षः-संयताः परपक्षः-गृहस्थाः अथवा तदुभयं नाम श्रमणाः श्रमण्यश्च । यद्व तदुभयं समनोज्ञाः 'इतरे' अमनोज्ञाश्च । अपिशब्दाद् व्यवहितसम्बन्धादत्रयोजिता यदि वा संविग्ना असंधिग्नाश्चेति तदुभयम् ।। तत्र मुषिते सतिविधिमाह[भा.२९८३] अमणुन्नेतर गिहि-संजईसु असइ पडिसत्थ-पल्लीसु। तिण्हऽट्ठाए गहणं, परिहारिय एतरे चेव॥ वृ- अमनोज्ञाः-असाम्भोगिकाः इतरे-पार्श्वस्थादयः, गृहिणः संयत्यश्च प्रतीताः, एतेषु विविक्ततया वस्त्राभावे प्रतिसार्थे वा पल्लयां वा पञ्चकपरिहाण्या वस्त्रं मार्गयितव्यम् । संयतीनां तु नास्ति पञ्चकपरिहाणि, यदैव लभ्यते तदैव गृहीत्वा गात्राच्छादनं ताभि कर्तव्यम् । तच्च वस्त्रं 'त्रयाणां' लिङ्ग-भिक्षा-शीतत्राणानामर्थाय प्रातिहारिकं वा 'इतरद् वा' निसृष्टं ग्राह्यम् ।। [भा.२९८४] एवं तु दिया गहणं, अहवा रत्तिं मिलेज पडिसत्थो। गीएसुरत्ति गहणं, मीसेसुइमा तहिं जयणा ॥ वृएवं दिवा ग्रहणमभिहितम्।अथ रात्रौप्रतिसार्थो मिलेत् तत्र च यदि सर्वेऽपिगीतास्ततो रात्रावेव गृह्णन्ति । अथागीतार्थमिश्रास्ततस्तेषु मिश्रेष्वियं यतना॥ तामेवाह[भा.२९८५] वत्थेण व पाएण व, निमंतएऽनुग्गए व अत्थमिए। आइचो उदिउ त्तिय, गहणं गीयत्थसंविग्गे॥ वृ-प्रतिसार्थेकश्चिद्दानश्राद्धादिरनुद्गतेवाऽस्तमितेवासूर्येवस्त्रेणवा पात्रेणवानिमन्त्रयेत्, तत्र च यदि सार्थो रात्रावेव चलितुकामस्तदा गीतार्था गुरुन् भणन्ति-यूयं व्रजत, वयमुदिते आदित्ये गृहीत्वा समागमिष्यामः । ततो रजन्यामेव गृहीत्वा सार्थस्य पृष्ठतो नातिदूरासन्ने समागच्छन्ति। स्थितेच सार्थे गुरूणामालोचयन्ति-उदिते सूर्ये वस्त्रग्रहणं कृत्वा समायाताः । एवं गीतार्था संविग्ना गृह्णन्ति॥ अथ प्रतिसार्थे पल्लयां वा न लभ्येतन वा प्रतिसादिकं दृश्येत ततः किम् ? इत्याह[भा.२९८६] खंडे पत्ते तह दब्मचीवरे तह य हत्थपिहणंतु। अद्धाणविवित्ताणं, आगाढं सेसऽनागाढं। वृ-चर्मखण्डानि संयतीनां विविक्तानां परिधानाय दातव्यानि । तदभावे शाकादिपत्राणि । तदप्राप्तौ दर्भेश्चीवरं घनं ग्रथित्वसमर्पयन्ति । सर्वथा परिधानाभावे हस्तेनापि गुह्यदेशस्य पिधानं ताभिः कर्त्तव्यम् । एवमध्वनि विविक्तानामागाढं कारणं मन्तव्यम् । शेषं तु सर्वमप्युपकरणाभावेऽनागाढम्॥ [भा.२९८७] असईय निग्गया खुड्डगाइ पेसंति चउसु वग्गेसु । अप्पाहिति वऽगारं, साहुं व वियारमाइगयं ॥ वृ-प्रतिसार्थपल्लयादौ वस्त्राणाम् 'असति' अप्राप्तौ अध्वनो निर्गता उद्यानं प्राप्ताः सन्तः 'क्षुल्लकादि' क्षुल्लकं क्षुल्लिकांवा विवक्षितंग्रामनगरंवाचत्वारः-संयत-संयती-श्रावक-श्राविकालक्षणा ये वर्गास्तेषु-तेषां समीपे प्रेषयन्ति; यद्वा साम्भोगिकाः संयता एको वर्ग, अन्यसाम्भोगिका इति द्वितीयः, साम्भोगिकाः संयत्य इति तृतीयः, अन्यसाम्भोगिकाइति चतुर्थ, एतेषां वा समीपे प्रेषयन्ति । अथ नास्ति क्षुल्लकः क्षुल्लिका वा ततो यस्ततो ग्रामाद् नगराद्वा ‘अगारः' गृहस्थः Page #206 -------------------------------------------------------------------------- ________________ २०३ उद्देशक : १, मूलं-४४, [भा. २९८७] समायातः योवासाधुर्विचारभूम्यादावागतस्तं “अप्पाहिति" सन्दिशन्ति, यथा-साधु-साध्वीप्रभृतीनां साम्भोगिकसंयतादीनां वा भवता कथयितव्यम्-साधवः साध्व्यश्च बहिरग्रोद्याने स्थिताः सन्ति, ते चाध्वनि स्तेनैर्विविक्ताः, अतस्तेषां योग्यानिचीवराणि प्रेषणीयानि।अत्र चायं विधि-संयतैः संयतानां वस्त्राणि दातव्यानि, संयतीनां तुसंयतीभि । अथ तत्र संयताः संयत्यो वा न सन्ति तदा श्रावकाः श्राविका वा प्रयच्छन्ति ॥ यत्र तु संयत्यः संयतानां संयता वा संयतीनां प्रयच्छन्ति तत्र विधिमाह[भा.२९८८] खुड्डी थेराणऽप्पे,आलोगितरी ठवित्तु पविसंति । ते वि य घेत्तुमइगया, समणुनजघे जयंतेवं ।। वृ-क्षुल्लिकाउद्यानं गत्वा स्थविरसाधूनां वस्त्राण्यर्पयन्ति;अथन सन्ति क्षुल्लिकाः ततः ‘इतराः' मध्यमास्तरुण्यो वा गत्वास्थविराणामालोके स्थाययित्वा भूयोऽपि ग्रामंप्रविशन्ति । यत्र संयतैः संयतीनांदातव्यं तत्र क्षुल्लकाः स्थविरसाध्वीनामर्पयन्ति; क्षुल्लकाभावेशेषाअपि साधवः स्थविराया आलोकेस्थापनस्ति। तेऽपिच' संयताः संयतीदत्तानि वस्त्राणिगृहीत्वा प्रावृत्य नगरम् 'अतिगताः' प्रविष्टाः सन्त आत्मयोग्यमुपकरणमुत्पाद्य संयतीसत्कवस्त्राणि प्रत्यर्पयन्त । एवं समनोज्ञेषु विधिरुक्तः । “समणुनजढे जयंतेवं"ति यत्र समनोज्ञाः-साम्भोगिका न भवन्ति तत्र ‘एवं' वक्ष्यमाणनीत्या यतन्ते॥ [भा.२९८९] अद्धाणनिग्गयाई, संविग्गा सन्नि दुविह अस्सण्णी। ___संजई एसणमाई, असंविग्गा दोन्नि वी वग्गा ।। वृ- अध्वनो निर्गता यत्र ग्रामादौ प्राप्तास्तत्रेमे भवेयुः-'संविग्नाः' उद्यतविहारिणः, ते चेहान्यसाम्भोगिका गृह्यन्ते। 'संज्ञिनः' श्रावकास्ते द्विविधाः-संविग्नभाविताअसंविग्नभाविताश्च। असंज्ञिनोऽपि द्विविधाः-आभिग्रहिका-ऽनाभिग्रहिकमिथ्याद्दष्टिभेदात् । “संजइ"त्ति अमनोज्ञसंयत्यः । असंविग्ना अपि द्वौ वर्गों, तद्यथा-साधुवर्ग साध्वीवर्गश्च । अत्र विधिरुच्यते"एसणमाइ"त्ति संज्ञिप्रभृतिषु शुद्धं वस्त्रमप्राप्नुवन्तः पञ्चकपरिहाणिक्रमेणैषणादोषेषु यतन्त इति ॥अथैतदेव सविस्तरं व्याख्यानयति[भा.२९९०] संविग्गेतरभाविय, सन्नी मिच्छा उ गाढऽनागाढे । असंविग्ग मिगाहरणं, अभिग्गहमिच्छेसु विस हीला ।। वृ-संज्ञिनो द्विविधाः-संविग्नभाविता इतरभाविताश्च । मिथ्याद्दष्टयोऽपि द्विविधाः-आगाढा अनागाढाश्च । तत्र प्रथम संविग्नभावितेषु संज्ञिषु, तदप्राप्तावनागाढमिथ्याईष्टिषु शुद्धं वस्त्रमन्वेषणीयम् । असंविग्नभावितेष्वागाढमिथ्याष्टिषु च न गृह्णन्ति, कुतः ? इत्याहअसंविग्नभाविताः 'मृगाहरणं' लुब्धकदृष्टान्तं चेतसि प्रणिधाय साधुनामकल्प्यं प्रयच्छन्ति । ये त्वाभिग्रहिकमिथ्याष्टयस्ते साधुदर्शनप्रद्वेषतो विषं प्रयुञ्जीरन् हीलांवा कुर्यु-अहो ! अदत्तदाना अमी वराका इत्थं क्लिश्यन्तीत्यादि। अथानगाढमिथ्याष्टिषु शुद्धं न प्राप्यते ततः किं विधेयम्? इत्याह[भा.२९९१] असंविग्गभाविएसुं, आगाढेसुंजयंति पनगादी। __उवएसो संघाडग, पुव्वग्गहियं व अन्नेसु॥ Page #207 -------------------------------------------------------------------------- ________________ बृहत्कल्प-छेदसूत्रम् -२-१/४४ वृ- असंविग्नभावितेषु यद् उद्गमादिदोषविशुद्धं वस्त्रं तद् ग्रहीतव्यम् । तदभावे आगाढमिध्यादृष्टिष्वपि यद्यात्म-प्रवचनोपघातो न स्यात् । अथ तेष्वपि शुद्धं न प्राप्यते ततः संविग्नभावितादिष्वेव पञ्चकादिपरिहाण्या तावद् यतन्ते यावद् भिन्नमासं प्राप्ता भवन्ति । ततो अन्यसाम्भोगिकैर्येषु कुलेषूपदेशो दत्तः तेषु याचितव्यम् । तथाप्यप्राप्तौ तेषां सङ्घाटकेन । एवमप्यलाभे तेषामेव यत् पूर्वगृहीतं वस्त्रादि तद् ग्रहीतव्यम् ॥ अमुमेवार्थं सविशेषज्ञापनाय पुनरप्याह[भा. २९९२] उवएसो संघाडग, तेसिं अट्ठाए पुव्वगहियं तु । अभिनव पुराण सुद्धं, उत्तर मूले सयं वा वि ।। वृ- अन्यसाम्भोगिकोपदेशेन प्रथमतः प्रयटन्ति । ततस्तदीयसङ्घाटकेन । तथाप्यप्राप्ती तेषामर्थायान्यसाम्भोगिकाः पर्यटन्ति । तथापि यदि न लभ्यते ततस्तेषामेव यत् पूर्वगृहीतं वस्त्रं तद् ग्रहीतव्यम् । तच्चाभिनवं वा स्यात् पुराणं वा, पूर्वमभिनवं पश्चात् पुराणमपि गृह्यते । तदपि यद्युततरगुण-मूलगुणशुद्धं तत उपादेयं नान्यथा । अथ सर्वथाऽपि न प्राप्यते ततो यः कृतकरणो भवति तेन स्वयमेव व्यूत्यम् । एतच्च यथावसरमुत्तरत्र भावयिष्यते । तदेमन्यसाम्भोगिकानामपि पूर्वगृहीतं यदा न प्राप्यते तदा मासलघुकादारभ्य तावद् यतन्ते यावत् चतुर्लघुकं प्राप्ताः । ततः किं कर्त्तव्यम् ? इत्याह[भा. २९९३] २०४ उवएसो संघाडग, पुव्वग्गहियं व निइयमाईणं । अभिनव पुराण सुद्धं, पुव्वमभुत्तं ततो भुत्तं ॥ वृ- चतुर्लघुप्राप्ताः सन्तो नित्यवासि-पार्श्वस्थादीनामुपदेशेन वस्त्रमुत्पादयन्ति । तदभावे तेषामेव सङ्घाटकेन । तथाऽप्यलाभे यत् तेषां पूर्वगृहीतं मूलोत्तरगुणशुद्धमभिनवमपरिभुक्तं तत् प्रथमतो ग्रहीतव्यम्, ततः परिभुक्तमपि । तदप्राप्तौ पुराणमपि मूलोत्तरगुणशुद्धमपरिभुक्तम्, ततः परिभुक्तमपि ग्राह्यम् । इह निशीथचूर्ण्यभिप्रायेणास्यैव कल्पस्य विशेषचूर्ण्यभिप्रायेण चान्यसाम्भोगिकान् यावन्नास्ति पञ्चकपरिहाणि किन्तु तत ऊर्ध्वं पञ्चकपरिहाण्या यतित्वा यदा मासलघुप्राप्ताः तदा पार्श्वस्थादीनामुपदेशादिना गृह्णन्तीति द्वयोरपि चूण्योरभिप्रायः परमेतच्चूर्णिकृता भिन्नमासप्राप्ता अन्यसाम्भोगिकानां चतुर्लघुप्राप्ताश्च पार्श्वस्थादीनामुपदेशादिना वस्त्रग्रहणे यतन्त इति प्रतिपादितम् अतस्तदनुरोधेनास्माभिरपि तथैव व्याख्यातमित्यवगन्तव्यम् ॥ अथोक्तमप्यर्थं विशेषज्ञापनार्थं भूयोऽप्याह [भा. २९९४] उत्तरमूले सुद्धे, नवे पुराणे चउक्क भयणेवं । परिकम्मण परिभोगे, न होंति दोसा अभिनवम्मि ।। वृ- इह मूलोत्तरगुणशुद्धयोश्चतुर्भङ्गी, तद्यथा मूलगुणशुद्धमप्युत्तरगुणशुद्धमपि १ मूलगुणशुद्धं नोत्तरगुणशुद्धम् २ न मूलगुणशुद्धमुत्तरगुणशुद्धम् ३ न मूलगुणशुद्धं नोत्तरगुणशुद्धम् ४ । एतेषु चतुर्षु भङ्गेषु प्रत्येकं नव-पुराणपदविषयं यद् भङ्गचतुष्कं तस्य भजना सेवा यथाक्रममेवं कर्त्तव्या । तथाहि यत् तावद् मूलोत्तरगुणविशुद्धं तत् प्रथमतो नवमपरिभुक्तं ग्रहीतव्यम्, तदभावे नवं परिभुक्तम् । तदप्राप्ती पुराणमपरिभुक्तम्, तदलाभए पुराणं परिभुक्तम् । एवं द्वितीयतृतीयचतुर्थेष्वपि भङ्गेषु चत्वारश्चत्वारो विकल्पा भवन्ति, यथाक्रमं चैते आसेवितव्याः । कुतः ? इत्याहपरिकर्मणादोषाः-अविधिसीवनादयः परिभोगदोषाश्च-मलिनीभूत-प्रक्षित सुगन्धिगन्धभावित्वा Page #208 -------------------------------------------------------------------------- ________________ , उद्देशक : १, मूलं-४४, [भा. २९९४] २०५ दयोऽभिनवेऽपरिभुक्ते च वस्त्रे न भवन्ति । अथ पार्श्वस्थादिष्वपि न प्राप्यते ततोऽमनोज्ञसंयतीनामप्युपदेशेन गृह्णाति तेषां वा अर्थाय ताः पर्यटन्ति, पूर्वगृहीतं वा तासां ग्रहीतव्यम् । तदभावेऽसंविग्नसंयतीनामप्युपदेशादिना गृह्णन्ति ।। अथैवमपि न प्राप्यते ततः किं कर्त्तव्यम् ? इत्याह[भा. २९९५ ] असईय लिंगकरणं, पन्नवणट्ठा सयं व गहणट्ठा । आगाढे कारणम्मी, जहेव हंसाइणो गहणं ॥ वृ- एवमपि 'असति' अलभ्यमाने शाक्यादिवेषेण तदीयोपासकानां यतिभ्यो वस्त्रदापनाय प्रज्ञापनार्थं स्वयं वा ग्रहणं-वस्त्रस्योत्पादनं तदर्थं परलिङ्गं कर्त्तव्यम् । किं बहुना ? ईशे आगाढे कारणे यथैव हंसतैलादरनुज्ञापितस्यापि ग्रहणं दृष्टं तथैव वस्त्रस्यापि द्रष्टव्यम् । तथाप्यलाभे सूत्रं मार्गयित्वाऽन्यैर्वाययति । तदभावे स्वयमेवाल्पसागारिके वयति ॥ अथ सूत्रं न लभ्यते ततः को विधि ? इत्याह [भा. २९९६ ] सेडय रूए पिंजिय, पेलु ग्गहणे य लहुग दप्पेणं । तव कालेहि विसिट्ठा, कारणे अकमेण ते चेव ॥ वृ- 'सेडुगो नाम' कर्पासः, स एव लोढितः सन् बीजरहितो रूतम्, तदेव रूतं पिञ्जनिकया ताडितं पिचितम्, तदेव पूणिकया वलितं पेलुरिति भण्यते । एतेषां यदि दर्पेण ग्रहणं करोति तदा चत्वारो लघुकास्तपः-कालाभ्यां विशिष्टाः । तत्र सेडुके उभयगुरुकाः, रूते तपोगुरुकाः, पिजिते कालगुरुकाः, पेलुके द्वाभ्यां लघुकाः । कारणे पुनः प्रथमं पेलुकं पश्चात् पिचितं ततो रूतं ततः सेडुकमपि गृह्णाति । अथाक्रमेण गृह्णाति ततस्त एव चत्वारो लघुकाः । सेडुकं च त्रिवर्षातीतं विध्वस्तयोनिकमेव ग्रहीतुं कल्पते न सचित्तम् ।। ततश्च सेडुकादीनि गृहीत्वा किं करोति ? इत्याह[भा. २९९७] कडजोगि एक्कओ वा, वसईए नालबद्धसहिओ वा । निप्फाए उवगरणं, उभओपक्खस्स पाओग्गं ॥ वृ- कृतयोगी नाम-यो गृहवासे कर्त्तनं वयनं वा कृतवान् । स गच्छस्य वस्त्राभावे एकको वा नालबद्धसंयतीसहितो वा विजने भूभागे कर्त्तनं वयनंच कृत्वा 'उभयपक्षस्य 'संयत-संयतीलक्षणस्य प्रायोग्यमुपकरणं निष्पादयति । ततः संयताः संयत्यश्च यथायोगमुपकरणं परिभुञ्जते ॥ ततः किम् ? इत्याह [भा.२९९८] अगीयत्थेसु विगिंचे, जहलाभं सुलभउवहिखेत्तेसु । पच्छित्तं च वहंति, अलंभे तं चेव धारेंति ।। वृ- यद्यगीतार्थमिश्रास्ततः सुलभोपधिक्षेत्रेषु गताः सन्तः 'यथालाभं' यद् यद् वस्त्रं लभन्ते तत्तत्सदृशमपरं व्यूतवस्त्रं 'विविचन्ति' परिष्ठापयन्तीत्यर्थः, अगीतार्थप्रत्ययनिमित्तं च यथालघु प्रायश्चित्तं वहन्ति । अथापरं न लभ्यते ततः 'तदेव' स्वयंव्यूतं वस्त्रं वस्त्रं धारयन्ति । अथ सर्वेऽपि गीतार्थास्ततोऽपरस्य लाभे प्राक्तनं परित्यजन्ति वा न वा, न कोऽपि नियमः ॥ अथ “अद्धाणनिग्गयाई” इत्यत्र योऽयमादिशब्दस्तस्य फलमुपदर्शयन्नाह[भा. २९९९] एमेव य वसिमम्मि वि, झामिय ओम हिय वृढ परिजुने । पुव्वुट्ठिएव सत्थे, समइच्छंता व ते वा वि ॥ Page #209 -------------------------------------------------------------------------- ________________ २०६ बृहत्कल्प-छेदसूत्रम् -२-१/४४ वृ- न केवलमध्वनि विविक्तानामेष विधि, किन्तु ग्रामादौवसिमेऽपि वसतांयत्रोपधिरग्निकार्यन 'ध्यामितः' दग्धः, अवमौदर्ये वा विक्रीतः, चौरैर्वा हृतः, वर्षासु वा पानीयपूरेण व्यूढः, 'परिजीर्णो वा' पुराणतया दुर्बलीभूतो विवक्षितं कार्यं कर्त्तुमसमर्थ, तत्रापि 'एवमेव ' अनन्तरोक्तो विधिर्मन्तव्यः । अत्र चापरो विशेष उपदर्श्यते यत्र ग्रामे साधवः स्थिता सन्ति तत्र सार्थ कश्चित् प्राप्तः, चादित्योदयात् पूर्वमेवोत्थितः उच्चलितुमारब्धो वर्त्तते, यत्र च गतस्य तस्य रविरुदेष्यति तत्र गच्छतामपान्तराले स्तेनभयम्, “समइच्छंता व ते वा वि" त्ति 'ते वा' साधवो दग्ध-हृताद्युपधयः समतिक्रामन्तः- गच्छन्तः तं सार्थं रात्रौ प्राप्तः, अतो रात्रावेव तत्र वस्त्रादिकं यतनया गृह्णन्ति ॥ स अथेदमेवोत्तरार्द्ध व्याचष्टे [भा. ३०००] सो वि य नत्तं पत्तो, नत्तं चिय चलिउमिच्छइ भयं च । ते वा नत्तं पत्ता, गिण्हिज्ज पए चलिउकामा ॥ वृ-‘सोऽपिच' सार्थ 'नक्तं' रात्रौ तत्र ग्रामे प्राप्तः, नक्तमेव च ततश्चलितुमिच्छति, अपान्तराले चस्तेनादिभयम्; 'ते वा' साधवो दग्धाद्युपद्ययः तं सार्थं 'नक्तं' रात्रौ प्राप्तः, 'प्रगे' प्रभातेऽनुद्गत एव सूर्येऽग्रतश्चलितुकामाः, अतो रात्रावेव यथोक्तनीत्या वस्त्रादि गृह्णीयुः ॥ मू. (४५) नऽन्नत्थ एगाए हरियाहडियाए । सा वि य परिभुत्ता वा धोया वा रत्ता वा घट्टा वा मट्ठा वा संपधूमिया वा ॥ [भा. ३००१] सुत्तेणेवय जोगो, हरियाहडि कप्पए निसिं घेत्तुं । हरिऊण य आहडिया, छूढा हरिएसु वाऽऽहट्टु ॥ वृ- 'सूत्रेणैव' सूत्रस्य 'योगः' सम्बन्धोऽत्रास्ति । अनन्तरसूत्रे रात्रौ वस्त्रादिकं ग्रहीतुं न कल्पते इत्युक्तम् । अत्र तु या हृताहृतिका 'निशि' रात्रौ ग्रहीतुं कल्पते इति प्रतिपाद्यते । अनेन सम्बन्धेनायातस्यास्य व्याख्या- "न कल्पते रात्रौ वस्त्रं ग्रहीतुम्" इति प्रतिषेधः अन्यत्रैकस्या हृताहृतिकाया हरिताहतिकाया वा । तत्र पूर्वं हृतं पश्चादाहृतम् - आनीतं वस्त्रं हताहतम्, तदेव हताहतिका, स्वार्थे कप्रत्ययः, “अतिवर्त्तन्ते स्वार्थिकप्रत्ययाः प्रकृति- लिङ्ग-वचनानि" इति वचनाद् अत्र रुढितः स्त्रीलिङ्गनिर्देशः । एवं हरितेष-वनस्पतिष्वाहृतं हरिताहृतं वस्त्रम्, तदेव हरिताहृतिका । 'साऽपि च' हृताहृतिका 'परिभुक्ता' परिधानादौ व्यापारिता, 'धौता' अप्कायेन प्रक्षालिता, ‘रक्ता’विचित्रवर्णकैरुपरञ्चिता, 'घृष्टा' घट्टकादिना घट्टिता, 'मृष्टा' सुकुमारीकृता, 'सम्प्रधूमिता' धूपद्रव्येण समन्ततः प्रकर्षेण धूपिता । वाशब्दाः सर्वेऽपि विकल्पार्था । एवंविधाऽपि सा स्वीकर्तव्या, न पुनरसाधुप्रायोग्या कृतेति कृत्वा परिहर्त्तव्येति सूत्रार्थः । अथ भाष्यम् - "हरिऊणय” इत्यादि पश्चार्द्धम् । स्तेनैः पुर्वं ह्रत्वा पश्चाद् यद् वस्त्रमाहृतम्-आनीतं तदेव हृताहृतिकेत्युच्यते । यद्वा हत्वा हरितेषु प्रक्षिप्ता या सा हरिताहृतिका ॥ सा पुनः कथं भवति ? इत्याह [भा.३००२] अद्धाणमनद्धाने, व त्रिवित्तानं तु होज्ज आहडिया । अविहे वसंति खेमे, विहं न गच्छे सइ गुणेसु ॥ वृ- अध्वनि अनध्वनि वा 'विविक्तानां' मुषितानां हताहतिका सम्भवति । तत्र 'अविहे ' अनध्वनि मासकल्पेन विहरन्तः 'क्षेमे' निरुपद्रवे ग्रामादौ वसन्ति । अंतः 'सत्सु' विद्यमानेषु ज्ञानादिगुणेषु 'विहम्' अध्वानं 'न गच्छेत्' नानुप्रविशेत् ॥ तथा चाह Page #210 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं- ४५, [भा. ३००३] [भा. ३००३] [भा. ३००४] वृ-गाथाद्वयमपि प्राग् व्याख्यातम् ।। तत्राध्वनि प्रविशतां विधिमाह[भा. ३००५ ] अद्धाण पविसमाणा, गुरुं पवादिंति ते गता पुरतो । अह तत्थ न वादेंती, चाउम्मासा भवे गुरुगा ॥ . वृ-अध्वानं प्रविशन्तः प्रथममेव 'गुरुम्' आचार्य प्रवादयन्ति, गुरोः प्रवादमुत्थापयन्तीत्यर्थः । यथा- 'ते' अस्माकमाचार्या 'पुरतः ' पूर्वमेवान्येन सार्थेन सह गताः अत एव वयं त्वरामहे, कथं नाम तेषां समीपं क्षिप्रमेव प्राप्नुयाम ? । अथ तत्राध्वनि प्रविशन्त एवं न प्रवादयन्ति ततश्चतुर्मासा गुरुकाः प्रायश्चित्तम् ॥ [भा. ३००६] उद्दद्दरे सुभिक्खे, अद्धाणपवज्जणं तु दप्पेणं । लहुगा पुन सुद्धपए, जंवा आवज्जई जत्थ ॥ नाट्ठ दंसणट्टा, चरित्तट्ठा एवमाइ गंतव्वं । उवगरण पुव्वपडिलेहिएण सत्थेण गंतव्वं ॥ २०७ गुरसारक्खहेउं, तम्हा थेरो उ गणधरो होइ । विहरइ य गणाहिवई, अद्धाणे भिक्खुभावेणं ॥ वृ-तस्माद् गुरुणां संरक्षणहेतोर्य 'स्थविरः' वयोवृद्धः स गणधरो भवति, गणधराकारधारकः क्रियत इत्यर्थः । यस्तु गणाधिपति सः 'अध्वनि' मार्गे स्वयं 'भिक्षुभावेन' सामान्यसाधुवेषेण विहरति ॥ कुतः ? इति चेद् उच्यते-कदाचिदध्वनि साधवः स्तेनकैर्विविक्ताः क्रियेरन् ततस्ते स्तेनकाश्चिन्तयेयु:[भा. ३००७] हयनायगा न काहिंति उत्तरं राउले गणे वा वि । अम्हं आहिपइस्स व, नायग-मित्ताइएहिं वा ॥ वृ- हतो नायकः-आचार्यो येषां ते हतनायकास्तथाभूताः सन्त एते व्रतिनो राजकुले वा गणे वागत्वा न किमपि ‘उत्तरम्' उपकरणापहाररावात्मकं करिष्यन्ति, अस्वामिकतया निराशीभूतत्वात्। तथाऽस्माकं योऽधिपति तस्य वा तदीया वा ये ज्ञातकाः स्वजना यानि च तदीयानि मित्राणि तदादीनां तत्प्रभृतीनामन्तिके गतास्तैः पृष्टाः सन्तो न किमप्युत्तरं प्रदास्यन्ति आचार्यस्यैव तत्प्रदानप्रगल्भत्वादिति भावः । तस्मादाचार्यमेवापद्रावयाम इति विचिन्त्य तथैव कुर्युः । ततो यथोक्तनीत्या गुरवः प्रवादयितव्याः । ते च स्तेनाश्चतुर्विधाः [भा. ३००८] संजयपंता य तहा, गिहिभुद्दा चेव साहुभद्दा य । तदुभयभद्दा पंता, संजयभद्देसु आहडिया ॥ वृ- एके संयतप्रान्ता गृहस्थभद्रकाः १ अन्ये साधूनां भद्रका गृहस्थप्रान्ताः २ अपरे तदुभयभद्रकाः ३ अपरे तदुभयप्रान्ताः ४ । अत्र ये संयतभद्रकास्तेपु हृताहृतिका भवेत्, हृत्वाऽपि ते भूयो वस्त्रमर्पयेयुरित्यर्थः । इदमेव स्पष्टति - [भा. ३००९ ] सत्थे विविच्चमाणे, आहिपई भद्दओ व पंतो वा । भद्दो दट्ठूण निवारणं व गहियं व पेसेइ ॥ वृ- सार्थे स्तेनैः 'विविच्यमाने' मुष्यमाणे साधवोऽपि विविच्येरन् । तत्र च यः 'अधिपति' चौरसेनाधिपति स साधूनां भद्रको वा स्यात् प्रान्तो वा । यदि भद्रकस्तदा साधून् विविच्यमानान् Page #211 -------------------------------------------------------------------------- ________________ २०८ बृहत्कल्प-छेदसूत्रम् -२-१/४५ दृष्ट्वा निवारणं करोति, मैतेषांवस्त्राण्यपहरत' इति । अथ नासौ तत्र सन्निहितस्ततः स्तेनैगृहितं सदुपकरणं भूयोऽपि प्रेषयति ॥अमुमेव गाथाऽवयवं व्याचष्टे[भा.३०१०] नीयं दट्ठण बहि, छिन्नदसं सिव्वणीहि वा नाउं । पेसे उवालभित्ताण तक्करे भद्दओ अहिवो॥ वृ- स चौरसेनाधिपति साधूनामुपधिं 'नीतम्' उपढौकितं दृष्ट्वा छिन्नदशाकत्वेन साधुसम्बन्धिनीभिः सीवनीभिः सीवितत्वेन वा 'साधूनां सत्कमेतद् वस्त्रम्' इति ज्ञात्वा तान् तस्करानुपालभते-आःपापाः! विनष्टाः स्यूयं यदेवं महात्मनांसाधूनां वस्त्राण्यपहृतानीत्यादि। एवमुपालभ्य भूयोऽपि तस्योपधेः साधूनामर्पणार्थं तानेव तस्करान् साधूनामन्तिके प्रेषयति ॥ [भा.३०११] वीसत्थमप्पिणंते, भएणछड्डित्तु केइ वचंति। बहिया पासवण उवस्सए व दिट्ठम्मिजा जयणा ॥ वृ-स्तेना द्विविधाः-आक्रान्तिका अनाक्रान्तिकाश्च । तत्र ये आक्रान्तिकास्ते कुतोऽपि न बिभ्यति, अतएव ते चौरसेनापतिनावस्त्रप्रत्यर्पणार्थ प्रेषिताः सन्तः 'विश्वस्ताः'निर्भया दिवसत एवआनीयवस्त्रं संयतानामर्पयन्ति । अनाक्रान्तिकास्तुभयेन ‘माकेनाप्यारक्षकादिनाग्रहीष्यामहे' इतिपरिभाव्य रात्रावानीयोपाश्रयाबहि प्रश्रवणभूमावुपाश्रयमध्ये वावस्त्रंछर्दयित्वा'व्रजन्ति' पलायन्ते। तस्मिन् वस्त्रे दृष्टे सति या वक्ष्यमाणा यतना सा करणीया ॥तामेवाह[भा.३०१२] गीयमगीया अविगीयपच्चयट्ठा करिति वीसुंतु। जइ संजई वितहियं, विगिंचिया तासि वि तहेव ।। वृ-यदि सर्वेऽपि गीतास्तितस्तदुपकरणं मौलोपकरणेन सह मीलयित्वा यथास्वरुचि तं परिभुञ्जते । अथ ते केचिद् गीतार्था केचित्रागीतार्था ततो गीतार्था अविगीतप्रत्ययार्थं हृताहृतिकोपकरणं 'विष्वक् पृथक्स्थापयन्ति। ते ह्यगीतार्था एवं चिन्तयेयुः-एषस्तेनप्रत्यर्पित उपधिस्तावदुपहतः, उपहतेन च सह मिश्रित इतरोऽप्युपहत एव, अतस्तेषां प्रत्ययार्थं हृताहृतिकोपकरणं पृथक् स्थापयन्ति । अथ संयत्योऽपि विविक्ताः ततस्तासामप्युकरणं तथैव पृथक् कुर्वन्ति॥ [भा.३०१३] जो विय तेसिं उवही, अहागडऽप्पो य सपरिकम्मो य। तंपिय करिति वीसुं, मा अविगीयाइ भंडेज्जा ।। वृ-योऽपिच तेषां साधूनांयथाकृतोऽल्पपरिकर्मासपरिकर्माचोपधिस्तमपि विष्वक्परस्परं कुर्वन्ति । कुतः? इत्याह-मा ‘अविगीतादयः' अगीतार्थादयः परस्परं 'भण्डेयुः' कलहं कुर्युः, यथा-किमिति त्वया मदीयो यथाकृतोपधि सपरिकर्मणा सह मीलितः ? इत्यादि । एवं तावद् भद्रकसेनापतौ विधिरमिहितः । अथ प्रान्तविषयं विधिमाह[भा.३०१४] पंतोवहिम्मिलुद्धो, आयरिए इच्छए विवादेउं । कयकरणे करणं वा, आगाढें किसो सयं भणइ ॥ वृ-प्रान्तश्चौरसेनापति 'उपधौ' उपकरणे लुब्धः सन् आचार्यान् व्यापादयितुमिच्छति । ततो यस्तत्र 'कृतकरण' धर्मकथालब्धिमान्धनुर्वेदादिकृताभ्यासोवास तत्र करणंकरोति, धर्मकथादिना स्वभुजबलप्रकटनेन वा तमुपशमयतीत्यर्थः । अथवा ईशे आगाढे कार्ये यः ‘कृशः' दुर्बलदेहः Page #212 -------------------------------------------------------------------------- ________________ २०९ उद्देशकः १, मूलं-४५, [भा. ३०१४] सः ‘स्वयम्' आत्मनैवात्मानमाचार्य भणति ॥ एनामेव गाथां भावयति[भा.३०१५] को तुभं आयरितो, एवं परिपुच्छियम्मि अद्धाणे । जो कहयइ आयरियं, लग्गइ गुरुए चउम्मासे ।। वृ-प्रान्तः सेनापति पृच्छति-को युष्माकंमध्ये आचार्या ? । एवमध्वनि गच्छतां परिपृष्टे सति यः कश्चिदाचार्य निर्धार्य कथयति सः 'लगति' प्राप्नोति चतुरो मासान् गुरुकानिति ।। किं तर्हि वक्तव्याम् ? इत्याह-. [भा.३०१६] सत्थेणऽन्नेण गया, एहिंति व मग्गतो गुरु अम्हं। सथिल्लए व पुच्छह, हयं पलायं व साहिति ।। वृ-येऽस्माकं गुरवस्तेऽन्येन सार्थेन सह प्रागेव गताः, 'मार्गतो वा' पृष्ठतस्ते एष्यन्ति, यदि वा न प्रतीतिर्भवतां ततः सार्थिकान् पृच्छत, यद्वा ‘हतोऽसावस्माकमाचार्य पलायितो वा, वयं साम्प्रतमनाथा वत्तामहे' एवं कथयन्ति । अत्रैव प्रकारान्तरमाह[भा.३०१७] जो वा दुब्बलदेहो, जुंगियदेहो असब्मवक्को वा । गुरु किल एएसि अहं, नय मि पगब्मो गुरुगुणेहिं ।। कृ-अथवायोदुर्बलदेहोयोवा 'जुङ्गितदेहः' विकलाङ्गःयोवा असभ्यवाक्यः' असमञ्जसप्रलापी स सेनापतिं प्रति वक्ति-अहं किलैतेषां सर्वेषामपि गुरु परं 'नच' नैवाम्यहं 'प्रगल्भः' सम्पूर्णः 'गुरुगुणैः' शरीरसम्पदादिभिः॥ [भा.३०१८] वाहीण व अभिभूतो, खंज कुणी कानओ व हं जातो। मा मे बाहह सीसे, जं इच्छह तं कुणह मज्झं । वृ-'व्याधिना वा' रोगेणाहमतीवाभिभूतः तथा 'खञ्जः' पादविकलः 'कुणिः' पाणिविकलः 'काणः' चक्षुर्विकलः ईशो वाऽहं जातोऽस्मि, अतो मा मदीयान् शिष्यान् बाधध्वम्, यद् मारणादिकं कर्तुमिच्छथ तद् ममैव कुरुध्वम् ।। [भा.३०१९] इहरा विमरिउमिच्छं, संतिं सिस्साण देह मंहणह। मयमारगत्तणमिणं, जं कीरइ मुंचह सुते मे ॥ -इतरथाऽपितावदहमर्तुमिच्छामिअतोमदीयशिष्याणांशान्तिप्रयच्छत, मांपुनः यथास्वरुचि 'हत' विनाशयत; यतो यदिदं मम मारणं भवद्भिः क्रियते तद् मृतस्यैव मारकत्वं भवति, अतो मुञ्चत मदीयान् ‘सुतान्' शिष्यान् ।। अपि च[भा.३९२०] एयं पिताव जाणह, रिसिवज्झा जह न सुंदरी होइ । इह य परत्थ य लोए, मुंचंतऽनुलोमिया एवं ।। वृ-भो भद्राः! एतदपितावद्यूयं जानीथ, यथा-ऋषिहत्या विधीयमानाइह च परत्र च लोके सुन्दरान भवति। एवम् अनुलोमिताः' प्रज्ञापिताः सन्तस्ते तस्कराः साधून मुञ्चन्ति ॥अथैवमपि न मुच्येरन् ततः किं कर्त्तव्यम् ? इत्याह[भा.३०२१] धम्मकहा चुण्णेहि व, मंत निमित्तेण वा वि विजाए। नित्थारेइ बलेण व, अप्पाणं चेव गच्छं च ।। | 19/14 Page #213 -------------------------------------------------------------------------- ________________ २१० बृहत्कल्प-छेदसूत्रम् -२-१/४५ वृ-यो धर्मकथालब्धिमान् सधर्मकथयातं सेनापतिमुपशमयति, चणैर्वा मन्त्रेण वानिमित्तेन वाविद्ययावा तमावर्तयेत् ।यो वा धनुर्वेदादौ कृतपरिश्रमः स भुजबलेनतंसेनापतिं निर्जित्यात्मानं गच्छंच निस्तारयति । अथैषामेकमपि न विद्यते ततः[भा.३०२२] वीसज्जिया व तेणं, पंथं फिडिया व हिंडमाणा वा। गंतूण तेनपल्लिं, धम्मकहाईहिं पन्नवणा॥ वृ- 'तेन' प्रान्तेन सेनापतिनोपधिमपहत्य साधवः ‘विसर्जिताः' मुक्ता इत्यर्थः, मुक्ताश्च यद्युपधिं न गवेषयन्ति ततश्चतुर्लघुकाः । ततः स्तेनपल्ली गत्वा गवेषयितव्य उपधि । गच्छतां चापान्तराले यदिकोऽपिप्रश्नयेत्-कुतो भवन्तइहागताः? ततो वक्तव्यम्-'पथः'मार्गात् परिभ्रष्टाः 'हिण्डमानावा' विहारक्रमेणविहरन्तएव वयमिह सम्प्राप्तः। ततश्चस्तेनपल्लीं गत्वाधर्मकथादिभिः सेनापतेः प्रज्ञापना कर्तव्या।। अथेदभेव भावयति[भा.३०२३] भद्दमभद्दे अहिवं, नाउं भद्दे विसंतितं पल्लिं । फिडिया मुत्तियपंथं, भणंति पुट्ठा कहिं पल्लिं । वृस्तेनपल्लीं गच्छद्भिः प्रथमत एवैतद् ज्ञातव्यम्-किमत्र सेनापतिर्भद्रकोऽभद्रको वा?। यदि भद्रकस्ततस्तां पल्ली प्रविशन्ति । अथाभद्रकस्ततः ‘मा प्रान्तापना-ऽपद्रावणादीनि कार्षीद्' इति कृत्वा न तत्र गन्तव्यम् । अथ गच्छन्ति ततश्चत्वारो गुरवः । अथ कोऽप्युपशमनायोत्सहते ततस्तं गृहीत्वा गन्तव्यम् । गच्छन्तश्च कृतः किमर्थं भवन्त इहायाताः ? कुत्र वा व्रजिष्यथ?' इति पृष्टा भणन्ति-पथः 'स्फिटिताः' परिभ्रष्टा वयमिह पल्लयामाहारान्वेषणं कुर्महे ।। [भा.३०२४] मुसिय त्ति पुच्छमाणं, को पुच्छइ किं व अम्ह मुसियव्वं । अहिवं भणंति पुट्विं, अनिच्छे सन्नायगादीहिं॥ वृ-'किं मुषिता यूयम् ?' पृच्छन्तं ब्रुवते-को नामास्मान् पृच्छति? किंवा निर्ग्रन्थानामस्माकं मुषितव्यम् ? इति । ततश्च स्तेनपल्लीं गत्वा यस्तत्र सेनाया अधिपस्तं 'पूर्व प्रथमतः ‘भणन्ति' धर्मकथादिना प्रज्ञापयन्ति । प्रज्ञापितश्च यद्यावृत्तस्ततो वक्तव्यम-अस्माकमुपधिं प्रयच्छेति । यदि प्रयच्छति ततः सुन्दरम्।अथ नेच्छति प्रदातुंततोयेतस्य संज्ञातकाः-स्वजनाःआदिशब्दाद् मित्रादयश्च ते तथैव धर्मकथादिना प्रज्ञापयितव्याः। ततस्तद्दूरेण स सेनापतिरुपशमयितव्यः॥ [भा.३०२५] उवसंतो सेनावइ, उवगरणं देइ वा दवावेइ। गीयत्थेहि य गहणं, वीसुंच से करणं॥ वृ-उपशान्तः सन् सेनापति स्वयमेवोपकरणं ददाति, स्वमानुषैर्वा दापयति, ततो यदि ते सर्वेऽपिगीतार्थास्तत उपकरणं मिश्रयन्ति वानवा अथागीतार्थमिश्रास्ततोगीतार्थस्तस्योपक्तरणस्य ग्रहणंकर्तव्यम्।यञ्च संयत-संयतीनामुपकरणंतद् ‘विष्वग्विष्वक् पृथक्पृथग्विधेयम्।। अथ सेनापतिद्र्यात्[भा.३०२६] सत्यो बहू विवित्तो, गिण्हह जंजत्थ पेच्छह अडता। इहइं पडिपल्लीसुय, रुसेह बिइज्जओ हं भे॥ वृ-सार्थोऽस्मन्मानुषैः ‘बहुः' प्रभूतो विविक्तः अतो न ज्ञायते कस्य कुत्र वस्त्रादिकमस्ति? इति, ततो गृह्णीत यूयं स्वकीयमुपकरणं यद् यत्र पर्यटन्तः पश्यथ । ततः साधुभिर्वक्तव्यम् ___ Page #214 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं-४५, [भा. ३०२६] २११ यद्येवंततः स्वमानुषमस्माभि सह विसर्जयत । ततस्तदीयमानुषेण सह गच्छन्ति।तञ्च ब्रूते-'इह' अस्याभेव पल्लयां प्रतिपल्लीषु वा यद् यद् भवताभुपकरणं तत् तद् “रुसेह" त्ति देशीवचनत्वाद् . गवेषयत, अहं भवतां द्वितीयोऽस्मीति । ततो यद् यत्र पश्यन्ति तत् तत्र सेनानुशिष्टयादिभि प्रज्ञाप्य गृह्णन्ति ॥ [भा.३०२७] अम्हं ताव न जातो, जह एएसिं पि पावइ न हत्थं । तह कुणिमो मोसमिणं, छुभंति पावा अह इमेसु॥ वृ- अस्माकं तावदयं 'मोषः' मुषितवस्त्रादिलक्षणो न जातः, अतो यथैतेषामपि हस्तं न प्राप्नोतितथा वयमेनंमोषं कुर्महे इतिविचिन्त्य केचित् 'पापाः' स्तेनकाः अथ' इतिचिन्तानन्तरमेतेषु प्रक्षिपन्ति॥ तद्यथा[भा.३०२८] पुढवी आउक्काए, अगड-वणस्सइ-तसेसु साहरई। सुत्तत्थजाणएणं, अप्पाबहुयं तु नायव्वं ।। वृ-पृथिवीकाये वा अप्कायेवाअगडे वा-गयामित्यर्थः वनस्पतिषुवात्रसेषुवा 'संहरन्ति' निक्षिपन्तीतियावत्, गाथायामेकवचननिर्देशःप्राकृतत्वात्, एतेषुनिक्षिप्तममीषांग्रहीतुंन कल्पत इति बुद्धा । अत्र व 'सूत्रार्थज्ञेन' गीतार्थेन 'पृथिव्यादिनिक्षिप्ते तत्रोपकरणे गृह्यमाणे स्वल्पतरमेवाधिकरणम्, अगृह्यमाणेतु बहुतरमसंतपरिभोगा-ऽप्कायप्रक्षालनादिकम् इति एवमल्पबहुत्वं ज्ञातव्यम्, ज्ञात्वा च ग्रहीतव्यं तद् वस्त्रम् । अथ न गृह्याति ततश्चतुर्लघुकाः, अनवस्था चैवं भवति, भूयोऽपि हृत्वा ते वा अन्ये वा एवमेम पृथिव्यादिषु निक्षिपन्तीति भावः॥ अथ “सा विय परिभुत्ता वा" इत्यादि सूत्रावयवं विवृणोति[भा.३०२९] हरियाहडिया सुविहिय!, पंचवन्ना वि कप्पई घेत्तुं। परिभुत्तमपरिभुत्ता, अप्पाबहुगं वियाणिता॥ वृ-हे सुविहित ! हताहृतिका यद्यपि तैः स्तेनकैः पञ्चवर्णा कृता तथापि ग्रहीतुंकल्पते । तथा परिभुक्ता अपरिभुक्ता वा, उपलक्षणत्वाद्धौता घृष्टा मृष्टा सम्प्रधूमितावाभवतुपरंतथाप्यल्पबहुत्वं विज्ञाय स्वीकर्तव्यैव, न परिहर्त्तव्या ॥अत्रैव विशेषमाह[भा.३०३०] आधत्ते विक्कीए, परिभुत्ते तस्स चेव गहणंतु। अन्नस्स गिण्हणं तस्स चेव जयणाए हिंडंति॥ वृ-स्तेनकैस्तद् वस्त्रं 'आधत्तं' ग्रहणके मुक्तं भवेद् विक्रीतं वा परिभुक्तं वा ततस्ते ब्रूयुःवयमन्यद्वस्त्रं प्रयच्छाम इति।ततोवक्तव्यम्-तदेवास्माकंप्रयच्छत नान्येन केनापिप्रयोजनमिति भणित्वा तदेव ग्रहीतव्यम् । यदि न लभ्यते ततोऽनवस्थाप्रसङ्गनिवारणार्थमन्यस्यापि ग्रहणं कुर्वन्ति।तञ्चयदि संस्तरति ततः परिष्ठापयितव्यम्, असंस्तरणेतुपरिभोक्तव्यम्।तथा तस्यैव' सेनापतेर्मानुषैः सह वस्त्रान्वेषणाय यतनया 'हिण्डन्ते' पर्यटन्ति ।। इदभेव भावयति[भा.३०३१] अन्नं च देइ उवहिं, सो वियनातो तहेव अत्रातो। सुद्धस्स होइ गहणं, असुद्धि धेत्तुं परिट्ठवणा॥ वृ-अथासौ सेनापतिः ‘अन्यम्' अन्य साधुसम्बन्धिनमुपधिं ददातिततः सोऽपिच' उपधिः - 'ज्ञातोवास्यात्' संविग्नाऽ संविग्न सम्बन्धितयोपलक्षितः 'अज्ञातोवा' तद्विपरीतः तत्रयःशुद्धिः Page #215 -------------------------------------------------------------------------- ________________ २१२ बृहत्कल्प-छेदसूत्रम् -२-१/४५ विधिपरिकर्मितो यथोक्त प्रमाणोपेतश्च स संविग्न सम्बन्धी ते गृहीत्वा तेषामेव संविग्नानामपर्यन्ति । अथ ते देशान्दरं गतास्ततो यदि संस्तरति ततः परिष्ठापयन्ति । अथ न संस्तरति ततः परिभुञ्जतो यः पुनः ‘अशुद्धः' एतद् विपरीतः सोऽसंविग्नानां सम्बन्धी तमप्यन वस्थाऽधिकरण परिहरणार्थं गृहीत्वा पश्चात् परिष्ठापयन्ति ॥ इदमेव व्याचष्टे[भा.३०३२] तं सिव्वणीहि नाउं, पमाण हीनाहियं विरंगं वा । इत्तरोवहिं पि गिण्हइ, मा अहिगरणं पसंगो वा ।। 'तद्' उपकरणमविधिसीवनिकाभिः सीवितं प्रमाणतश्च हीनाधिकं तथा 'विरङ्ग' विचित्रवर्णकरक्तम् एवंविधं दृष्ट्वा ज्ञातव्यम्, यथा-एष इतरेषाम्-असंविग्नानामुपधि, तमपि ज्ञात्वा गृह्णात्येव । कृतः ? इत्याह-मा तस्मिन्नगृह्यमाणेऽधिकरणमसंयतपरिभोगादिना 'प्रसङ्गो वा' भूयोऽप्युपकरणहरणलक्षणो भवत्विति कृत्वा ।। [भा.३०३३] अनस्स व पल्लीए, जयणा गमनं तु गहण तह चेव । गामानुगामियम्मि य, गहिए गहणे य जं भणियं ।। वृ- अथान्यस्य सेनापतेः पल्ल्यां हृतोपकरणस्यार्द्ध नीतं भवेत ततस्तत्रापि यतनया गमनं ग्रहणं च 'तथैव' अनुशिष्टि-धर्मकथादिना विधेयम् । एवमध्वनि विविक्तानां विधिरुक्तः । अथानध्वनितमेवातिदिशति- “गामानुगामि" इत्यादि,ग्रामानुग्रामिकेऽपि विहारेमासकल्पविधि कुर्वन्तो यदा विविक्ता भवन्ति तदा ‘गृहीते' स्वहस्त चटिते “गहणे" ति गृह्यमाणे चोपकरणे उपधिपृथक्करणादिकं धर्मकथादिकं च यत् पूर्वं भणितं तदेवात्रापि द्रष्टव्यम् ॥ इदभेव व्याचिख्यासुराह[भा.३०३४] तत्थेव आणवावेइ तं तु पेसेइ वा जहिं भद्दो । सत्येण कप्पियारं, व देइ जो णं तहिं नेइ । वृ-यधुपकरणमन्यस्यांपल्लयांनीतंतदा यदि मूलपल्लीपतिर्भद्रकस्ततउपकरणं तत्रैव' आत्मनो मूले तत्पल्लीवास्तव्यमानुषैरानाययति ।अथवा 'तम्' इत्यात्मीयमनुष्यंतत्रप्रेषयति यत्रासावन्यस्य सेनापतेः पल्लयामुपधिर्वर्तते । अथासौ न समर्थ-स्वसमीपे आनाययितुंततः सार्थेन सह तस्यां पल्लयां गन्तव्यम्।अथ सार्थो न प्राप्यते ततो मूलपल्लीपतिर्मानुषं मार्गयितव्यः । सच कल्पितारं' मार्गदर्शयितारं स्वमनुष्यं ददाति यः 'तत्र' पल्ल्यां “ण" मिति तान् साधून नयति ।। [भा.३०३५] अनुसट्ठाई तत्थ वि, काउ सपल्लि इतरीसुवा घेत्तुं। सत्थेणेव जनवयं, उविंति अह भद्दए जयणा ।। वृ- 'तत्रापि' पल्लयामनुशिष्टि-धर्मकथादिप्रयोगं कृत्वा गृहीत्वा च स्वकीयमुपकरणजातम्, यदि ततः सार्थो न लभ्यते ततस्तेनैव मनुष्येण सह स्वपल्लयामागच्छन्ति, मूलपल्लयामित्यर्थः । तत्र चागत्य सार्थेन सह जनपदमुपयान्ति । अथ तस्याः पल्लयाः सकाशादितरासांजनपदप्रत्यन्तपल्लीनां सार्थो लभ्यते तासु चोपकरणं नीतं भवेत्,ततस्तदर्थे तत्र गत्वा तच्च गृहीत्वा तत एव सार्थेन सार्द्ध जनपदमुपयान्ति । 'अथ' एषा भद्रकेऽन्यपल्लीपतौ यतना भनिता ॥ अथ प्रान्तविषयां तामेवाह[भा.३०३०] फड्डगपइए पंते, नंति सेनावई तहिं पंते। Page #216 -------------------------------------------------------------------------- ________________ उद्देश : १, मूलं- ४५, [ भा. ३०३६ ] २१३ उत्तरउत्तर माडंबियाई जा पच्छिमो राया ॥। - इह मूलपल्ली मुक्त्वा या अन्याः पल्लूयस्तासामधिपतयो मूलपल्लीपतिवशवर्त्तिनः स्पर्द्धकषतय उच्यन्ते। तेषामेकतरेण साधवो विविक्ताः, स च प्रकृत्यैव प्रान्तः, ततस्तस्मिन् प्रान्ते बहुशोऽपि मार्गिते उपकरणमप्रयच्छति मूलसेनापतिं 'भणन्ति' धर्मकथादिना परज्ञापयन्ति, स च प्रज्ञापितः सन् दापयति । अथ सोऽपि प्रान्तः ततो यः कोऽपि माडम्बिकः- छिन्नमडम्बाधिपति स प्रज्ञाप्यते । तत उत्तरोत्तरं तावन्नेतव्यं यावद् 'अपश्चिमः' सर्वान्तिमो राजा, तमपि प्रज्ञाप्योपकरणं ग्रहीतव्यमिति भावः । अथ प्रामादाद्युपहतो न मार्गयति न वा घौत-रक्तादिकमसंयतप्रायोग्यमिति कृत्वा गृह्णाति ततश्चतुर्लघवः ॥ [भा.३०३७] वसिमे वि विवित्ताणं, एमेव य वीसुकरणमादीया । वोसिरणे चउलहुगा, जं अहिगरणं च हानी जा ।। वृ- न केवलमध्वनि विविक्तानां किन्तु 'वसिमेऽपि जनपदे विविक्तानामुपकरणविष्वक्करणादीनि कार्याण्येवमेव मन्तव्यानि । यस्तु स्वोपकरणं व्युत्सृजति, 'को नामात्मानमायासयिष्यति ?' इति कृत्वा न गवेषयतीति भावः, तस्य चत्वारो लघवः । यच्च 'अधिकरणम्' अप्कायप्रक्षालनादिकं या च तेनोपकरणेन विना सूत्रार्थयोः संयमयोगानांवा परिहाणिस्तन्निष्पन्नमपि प्रायश्चित्तम् । यत एवमतः सर्वप्रयत्नेन गवेषणीयम् ।। मू. (४६) नो कप्पइ निग्गंधाण वा निग्गंधीण वा राओ वा वियाले वा अद्धाणगमणं एत्तए । वृ- अथास्य सूत्रस्य कः सम्बन्धः ? इत्याह [भा. ३०३८] हरियाहहियट्ठाए, होज्ज विहेमाइयं न वारेमो । जं पुन रत्तिं गमणं, तदट्ठ अन्नट्ठ वा सुत्तं ॥ वृ-विहे-अध्वनि गच्छतां हताहतिकार्थम् 'एवमादिकं' पल्लीगमनप्रभृतिकं भवेद् न वयं तद् वारयामः । यत्पुना रात्रावध्वनि गमनं 'तदर्थं' हताहतिकानिमित्तम् अथवा 'अन्यार्थम्' अन्येषांज्ञानादिकारणानामर्थाय तत्र सूत्रमवतरति, तद् न कल्पत इति भावः ॥ [भा. ३०३९] अहवा तत्थ अवाया, वच्चंते होज्ज रत्तिचारस्स । जइ ता विहं पि रत्तिं, वारेतऽ विहं किमंग पुणो ॥ वृ- अथवा 'तत्र' अध्वनि व्रजतां यो रात्रिचारी - रात्रौ गमनशीलस्तस्य संयमा-ऽऽत्मप्रवचनविषया बहवः प्रत्यपाया भवेयुरिति रात्रौ गमनं वार्ये । यदि च 'विहमपि' अध्वानमपि रात्रौ गन्तुं वारयति ततः किमङ्ग पुनः 'अविहम्' अनध्वानम् ? जनपदे सुतरां रात्रौ गन्तुं वारयति इति भावः ।। अनेन सम्बन्धेनायातस्यास्यव्याख्या-नो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा रात्रौ वा विकाले वाऽध्वगमनं 'एतुं' गन्तुमिति सूत्रार्थ ॥ अथ भाष्यविस्तरः [भा. ३०४०] इहरा विता न कप्पइ, अद्धाणं किं तु राइविसयम्मि । अत्थावत्ती संसइ, कप्पइ कज्जे दिया नूनं ॥ वृ- इतरथाऽपि तावन्न कल्पतेऽध्वानं गन्तुं 'किन्तु' किं पुना रात्रिविषये ? तत्र सुतरां न कल्पते । यतश्च सूत्रं रात्रिविषयं प्रतिषेधं विधत्ते अतः 'अर्थापत्ति' सामर्थ्यगम्यता सैव 'शंसति' कथयति-नूनं ज्ञायते दिवा 'कार्ये' ज्ञानादौ समुत्पन्नेऽध्वानमपि गन्तुं कल्पते ॥ Page #217 -------------------------------------------------------------------------- ________________ २१४ बृहत्कल्प-छेदसूत्रम् -२-१/४६ अथाध्यानमेव भेदतः पररूपयन्नाह[भा.३०४१] अद्धाणं पि य दुविहं, पंथो मग्गो य होइ नायव्यो । पंथम्मि नत्थि किंची, मग्गो सग्गामो गुरु आणा॥ वृ-“अद्धाणं"ति नपुंसकनिर्देशः प्राकृतत्वात्, ततो अध्वा द्विविधः, तद्यथा-पन्था मार्गश्च । पन्था नाम-यत्र ग्राम-नगर-पल्ली-वजिकानां किञ्चिद्' एकतरमपि नास्ति । यत्र पुनामानुग्रामपरम्परया वसिमं भवति स सग्रामो मार्ग उच्यते। द्वयोरपि रात्रौ गच्छतश्चत्वारो गुरुकाः; दिवा तु पथि चतुर्गुरवः, मार्गे चतुर्लघवः, आज्ञादयश्च दोषाः ।। [भा.३०४२] तुंपुन गम्भिज्ज दिवा, रत्तिं वा पंथ गमन मग्गे वा । रत्तिं आएसदुगं, दोसु विगुरुगाय आणादी । वृ-स पुनरध्वा दिवा गम्येत रात्रौ वा, तच्चोभयमपि गमनं पथि वा मार्गे वा स्यात् । तत्र रात्रिशब्दे आदेशद्वयम् । केचिदाचार्या ब्रुवते-सन्ध्या यतो राजते-शोभते तेन निरुक्तिशैल्या रात्रिरुच्यते, यस्तु सन्ध्याया अपगमः स विकालः । अन्ये तुब्रुवते-यतः सन्याया अपगमे चौरपारदारिकादयो रमन्ते ततोऽसौ रात्रिरिति परिभाष्यते, सन्ध्यायां तु यत एते विरमन्त ततः सा विकालः पन्थानंवामार्गवायदिरात्रौ विकाले वा गच्छतितदा द्वयोरपि चत्वारोगुरवः आज्ञादयश्च दोषाः। इयमन्याचार्यपरिपाट्या गाथा ततोनपौरुक्त्यम्॥तत्रमार्गेतावद्दोषानुपदिदर्शयिषुराह[भा.३०४३] मिच्छत्ते उड्डाहो, विराधना होइ संजमा-ऽऽयाए। रीयाइ संजमम्मी, छक्काय अचक्खुविसयम्मि ।। वृ-रात्रौमार्गेगच्छतःसाधूनुद्दष्टवाकश्चिदभिनवधर्मा मिथ्यात्वं गच्छेत् । उड्डाहोवाप्रवचनस्य भवति । विराधना वासंयमा-ऽऽत्मविषया भवेत्। तत्रसंयमविराधनायामीर्यासमितिप्रभृतिकाः समितीनं शोधयति, रात्रौ वाऽचक्षुर्विषये षट्काया विराध्यन्ते । एष द्वारगाथासङ्ग्रेपार्थं ॥ साम्प्रतमेनामेव सविस्तरं विवृणोति[भा.३०४४] किं मन्ने निसि गमनं, जतीण सोहिंति वा कहं इरियं । जइवेसेन व तेना, अडंति गहणाइ उड्डाहो ॥ वृ-अमीषां परलोककार्योधतानां यतीनां किमर्थं निशि' रात्रौ गमनम् ? किं मन्ये दुष्टचित्ता अमी? कथंवा रात्रावटन्तोऽमी ईर्यांशोधयन्ति? यथा चैतदसत्यंतथासर्वमप्यमीषामसत्यमिति मिथ्यात्वं स्थिरीकृतमुत्पादितं वा भवति । तथा 'यतिवेषेण नूनममी स्तेनाः पर्यटन्ति' इति कृत्वा ग्रहणा-ऽऽकर्षणादिषुपदेषु विधीयमानेषु महान् प्रवचनस्योड्डाहो भवेत् ।। [भा.३०४५] संजमविराधनाए, महव्वया तत्थ पढमछक्काया। बिइए अतेण तेनं, तइए अदिन्नं तु कंदाई। वृ-संयमविराधना द्विविधा-मूलगुणविषया उत्तरगुणविषया च । 'तत्र' मूलगुणविषयायां महाव्रतानि विराध्यन्ते । तत्र प्रथमे महाव्रते रात्रावचक्षुर्विषयतया 'षट्कायाः' पृथिव्यादयो विनाशमश्नुवते, द्वितीये रजन्यामस्तेनमपि स्तेनमिति भाषेत, तृतीये कन्दमूलादिकम् ‘अदत्तं' स्वामिना अवितीर्णं गृह्णीयात् ।। अथवा [भा.३०४६] दियदिने वि सचित्ते, जिनतेनं किमुय सव्वरीविसए। Page #218 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं- ४६, [भा. ३०४६] २१५ जेसिं वते सरीरा, अविदिन्ना तेहि जीवेहिं ।। वृ- यद्यपि कन्दादिकं स्वामिना दत्तं गृह्णाति तथापि सचित्तमिति कृत्वा 'जिनैः ' तीर्थकरैर्नानुज्ञातमिति दिवाऽपि स्तैन्यं भवति किं पुनः शर्वरी-रात्रिस्तद्विषये तद्गोचरे गृह्णतः ? येषां वा जीवानां तानि कन्दादीनि शरीराणि तैरवितीर्णानि गृह्णतस्तृतीयव्रतभङ्गो भवति ॥ [भा. ३०४७] पंचमे अनेसणादी, छट्ठे कप्पो व पढम बिइया वा । भग्गवउ त्ति य जातो, अपरिणतो मेहुणं पि वए । वृ- पञ्चमे महाव्रते अनेषणीयम्, आदिशब्दादाकीर्णविकीर्णं हिरण्यादिकं च गृह्णतः परिग्रहो भवति । ‘षष्ठे' रात्रिभक्तव्रते "कप्पो व” त्ति विभक्तिव्यत्ययाद् अध्वकल्पं भुञ्जीत, “पढम बीया व "त्ति प्रथम-द्वितीयपरीषहातुरो वा रजन्यां भुञ्जीत वा पिबेद्वा, एवं षष्ठव्रतविराधना । ततश्च 'भग्नव्रतोऽहम्' इति बुध्या मैथुनमपि 'व्रजेत्' सेवेत, यद्वा योऽद्याप्यपरिणतः स सार्थे व्रजति सति कायिक्यदिनिमित्तमपसृतः सन् काञ्चिदविरतिकामप्यपसृतां विलक्याल्पसागारिके प्रतिसेवेत ।। भाविता मूलगुणविराधना । अथोत्तरगुणविराधनां भावयतियादS सोहि रत्तिं, भासाए उच्चसद्दवाहरणं । नय आदाणुस्सग्गे, सोहए कायाइ ठाणाई ॥ [भा. ३०४८] वृ-रात्रावीर्यादीनां समितीनाम् 'अशोधि' शोधिर्न भवति । तत्राचक्षुर्विषयत्वेनेर्यासमितिम्, पथो विप्रणष्टानां साधूनामुच्चशब्देन व्याहरणं कुर्वन् भाषासमितिम् उपलक्षणत्वादुदकार्द्रादिकमपश्यन्त्रेषणासमितिम् तथाऽप्रत्युपेक्षिते भूभगे "ठाणाइ "त्ति स्थान-निषदनादीनि कुर्वन्नादाननिक्षेपसमितिम्, अस्थण्डिले “कायाइ "त्ति कायिक्यादि व्युत्सृजन् उत्सर्गसमितिं च न शोधयति । एषा सर्वा संयमविराधना । अथात्मविराधनामुपदर्शयति [भा. ३०४९] वाले तेने तह सावए य विसमे य खाणु कंटे य । अकमहाभयं आयसमुत्थं, रत्तिं मग्गे भवे दोसा ॥ - रात्रौ मार्गे गच्छत एते दोषाः 'व्यालेन' सर्पादिना दश्येत, स्तेनैरुपकरणं संयतो वा हियेत, सिंहादिभिर्वा श्वापदैरुपद्रूयेत, 'विषमे वा' निम्नोन्नते प्रपतेत्, स्थाणुना वा कण्टकैर्वा विध्येत, अथवा 'आत्मसमुत्थं' स्तेनादिबाह्यहेतुविरहेण खचित्तकल्पनोठप्रेक्षितमकस्माद्भयं रात्री मार्गे गच्छतो भवेत् ॥ अथात्रैव द्वितीयपदमाह [भा. ३०५०] कप्पइ गिलाणगट्ठा, रत्तिं मग्गो तहेव संझाए । पंथीय पुव्वदिट्ठो, आरक्खिओ पुव्वभणिओ य ॥ वृ- अथ ग्लाः- रोगार्त्तः स एकस्माद् ग्रामाद् ग्रामान्तरं नेतव्यः, यद्वा ग्लानः कश्चिदपरत्र ग्रामादौ सञ्जातः तदर्थं तत्र गन्तव्यम्, एवं ग्लानार्थं रात्रौ वा सन्ध्यायां वा मार्गे गन्तुं कल्पते । येन च पथा गन्तव्यं स पूर्वमेव-अर्वाग्दिने दृष्टः-प्रत्युपेक्षितो यथा भवति तथा कर्त्तव्यम् । आरक्षिकश्च पूर्वमेव भणितो विधेयः, यथा-वयं ग्लानकारणेन रात्रौ गमिष्यामः भवद्भिर्न किमपि च्छलं ग्रहीतव्यम् । एवमुक्ते तेनानुज्ञाते सति गच्छन्ति ।। गतं मार्गद्वारम् । अथ पथिद्वारमाह [भा. ३०५१] दुविहो य होइ पंथो, छिन्नद्धानंतरं अछिन्नं च । छिन्नम्मि नत्थि किंची, अछिन्न पल्लीहि वइगाहिं ।। Page #219 -------------------------------------------------------------------------- ________________ २१६ बृहत्कल्प-छेदसूत्रम् -२-१/४६ वृ- द्विविधश्च भवति पन्थाः, तद्यथा - छिन्नाध्वान्तरमच्छिन्नाध्वान्तरं च । छिन्नं-ग्रामादिरहितमध्वलक्षणं यदन्तरम् - अपान्तरालं यत् छिन्नाध्वान्तरम्, तद्विपरीतमच्छिन्नाध्वान्तरम् । तत्र च्छिन्ने पथि ग्राम-नगर-पल्ली-व्रजिकानां किञ्चिदेकतरमपि नास्ति, सर्वथैव शून्यत्वात् । यः पुनरच्छिन्नः पन्थाः स पल्लीभिर्व्रजिकाभिर्वा युक्तो भवति ॥ [भा. ३०५२] छिन्त्रेण अछित्रेण व, रत्तिं गुरुगा य दिवसतो लहुगा । उद्दद्दरे पवज्जण, सुद्धपदे सेवती जंच ॥ वृ- अनन्तरोक्तेन च्छिन्नेनाच्छिन्नेन वा पथा व्रजतो रात्रौ चतुर्गुरुकाः, दिवा गच्छतश्चतुर्लघुकाः । अत एव यत्रोर्ध्वदराः पूर्यन्ते तत्र यद्यध्वानं प्रतिपद्यन्ते तदा शुद्धपदेऽप्येतत् प्रायश्चित्तम्, यच्चाकल्पनीयादिकं किमपि सेवते तन्निष्पन्नं पृथक् प्रायश्चित्तमापद्यते ।। इदमेव स्फुटतरमाहउद्दद्दरे सुभिक्खे, खेमे नरुवद्दवे सुहविहारे । जइ पडिवजति पंथं, दप्पेण परं न अन्नेणं ॥ [भा. ३०५३] वृ- ‘ऊर्ध्वदरे’ अनन्तरोक्ते ‘सुभिक्षे' सुलभभैक्षे 'क्षेमे' स्तेन-परचक्रादिभयरहिते 'निरुपद्रवे' आशिवाद्युपद्रववर्जिते 'सुखविहारे' सुखेनैव मासकल्पविधिना विहर्तुं शक्ये, एवंविधे जनपदे सति यदि पन्थानं छिन्नमच्छिन्नं वा प्रतिपद्यते । कथम् ? इत्याह- 'परं' केवलं 'दर्पेण' देशदर्शनादिनिमित्तं न ‘अन्येन' ज्ञानादिना पुष्टालम्बनेन । ततः किं भवति ? इत्याह[भा. ३०५४] आणा न कप्पइ त्ति य, अणवत्थ पसंगताए गणणासो । वसणादिसभावम्णे, मिच्छत्ताराधना भणिया । वृ- 'आज्ञा' 'न कल्पतेऽध्वानं गन्तुम्' इति ल७णा भगवतां विराधिता भवति । 'अनवस्था' 'यद्येष बहुश्रोतऽप्येवमध्वानं प्रतिपद्यते ततः किमहं न प्रतिपद्ये ? ' एवमनवस्था । अतः ‘'प्रसङ्गेन' परम्परया सर्वस्यापि गणस्य 'नाशः ' चारित्रव्यवच्छेदः प्राप्नोति । तथाऽध्वानं प्रतिपन्नः सन् यदा 'व्यसनं' द्रव्याद्यापदम् आदिशब्दादपरं वा कमपि प्रत्यपायं समापन्नः - प्राप्त भवति तदा मिथ्यात्वस्याराधना- अनुसजना भणिता । तथाहि साधूनध्वनि व्यसनादिसमापन्नान् दृष्टवा लोको ब्रूयात्- अहो ! अमीषां तीर्थकरेणैतदपि न दृष्टम्, यदेवंविधो बहुप्रत्यपायः पन्था न प्रतिपत्तव्यः ॥ अथ विराधना भाव्यते, सा च द्विधा- आत्मनि संयमे च । तत्रात्मविराधनामाह [भा. ३०५५ ] वाय खलु वाय कंडग, आवडणं विसम-खाणु-कंटेसु । वाले सावय तेणे, एमाइ हवंति आयाए । वृ-अध्वानं गच्छतः ‘खलुकाः' जानुकादिसन्धयो वातेन गृह्यन्ते, “वाय कंडय” त्ति जङ्घायां वातेन कण्डकान्युत्तिष्ठन्ते, विषमे वा स्थाणौ वा 'आपतनं' प्रस्खलनं बवति, कण्टका वा पादयोर्लगेयुः, व्याला वा श्वापदा वा स्तेना वा उपद्रवेयुः । एवमादिका आत्मविराधना मन्तव्या ॥ संयमविराधनामाह [भा. ३०५६ ] छक्कायाण विराधन, उवगरणं बाल- वुड्ढ - सेहा य । पढमेण व बिइणव, सावय तेने य मिच्छा य ॥ वृ- अस्थण्डिले स्थान-निषदनादि कुर्वन् पृथिव्यादीनां षण्णां कायानां विराधनां करोति । 'उपकरणम्' अध्वप्रायोग्यं नन्दीप्रतिग्रहादि यदि गृह्णन्ति ततो मारेण वेदनादयो दोषाः । अथ न Page #220 -------------------------------------------------------------------------- ________________ उद्देशक : : १, मूलं - ४६, [भा. ३०५६] २१७ गृह्णन्ति तत उपकरणेन विना यत् प्राप्नुवन्ति तन्निष्पन्नं प्रायश्चित्तम् । बाल-वृद्ध-शैक्षाश्च प्रथमेन वा द्वितीयेन वा परीषण परिताप्यन्ते । साधवो वा श्वापदैर्भक्ष्यन्ते । स्तेनैरुपकरणमपहियते । म्लेच्छा वा क्षुल्लकादीनपहरेयुर्जीविताद्वा व्यपरोपयेयुः ।। अथोपकरणपदं विशेषतो व्याख्यानयति[भा. ३०५७] उवगरणगेण्हणे भारवेदणा तेन गुम्मि अहिगरणं । रीयादि अनुवओगो, गोम्मिय भारवाह उड्डाहो । वृ-उपकरणं-नन्दीप्रतिग्रहा -ऽध्वकल्प-गुलिकादि यदि गृह्णन्ति ततो भारेण महती वेदना जायते । बहूपकरणाश्च स्तेनानां गौल्मिकानां वा गम्या भवन्ति । हृतेषु चोपकरणेष्वसंयतेन परिभुज्यमानेष्वधिकरणम् । भाराक्रान्तानां चेर्यादावनुपयोगो भवति । बहूपकरणान् वाध्ष्ट्वा 'गौल्मिकाः’ स्थानपाला उपद्रवेयुः । लोको वा ब्रूयात् - अहो ! बहुलोभा भारवाहाश्चैते एवमुड्डाहो भवति । अथैतद्दोषभयादुपकरणमुज्झन्ति ततो यत् तेन विना प्राप्नुवन्ति तन्निष्पन्नम् ॥ [भा. ३०५८] चम्मकरग सत्थादी, दुलिंग कप्पे अ चिलिमिणिअगहणे । तस विपरिणमुड्डाहो, कंदाइवधो य कुच्छा य ॥ वृ-इह पूर्वार्द्ध-पश्चार्द्धपदानां यथासङ्घयेन योजना कार्या । तद्यथा चर्मकरकं यदि न गृह्णन्ति ततः 'त्रसानां' पूतरकादीनां विराधना भवति । शस्त्रकोशस्य आदिशब्दाद् गुलिकाखोलादीनामग्रहणे कण्टकादिशल्यविद्धानां शैक्षादीनां च विपरिणामो भवति । “दुलिंग "त्ति लिङ्गद्वयं-गृहिलिङ्ग अन्यपाषण्डिकलिङ्गं च तयोरुपकरणेऽगृह्यमाणे स्वलिङ्गेनैव रात्री भक्तग्रहणे पिशितादिग्रहणे वा उड्डाहः स्यात् । अध्वकल्पं विना कन्दमूलादीनां वधो भवति । चिलिमिलिकाया अग्रहणे मण्डल्या भुञ्जानान् विलोक्य जनः 'कुत्सां' जुगुप्सां कुर्यात् ॥ [भा. ३०५९ ] अप्परिणामगमरणं, अइपरिणामा य होंति नित्यक्का । निग्गय गहणे चोइय, भांति तइया कहं कप्पे ॥ वृ-तत्राध्वनि गच्छतामेषणीयालाभे पञ्चकादियतनयाऽनेषणीयमपि गृह्यते तच्चापरिणामको न गृह्णाति, अगृह्णानस्य च तस्य भरणं भवेत् । ये पुनरतिपिणामकास्तेऽकल्पनीयग्रहणं दृष्ट्वा ‘नित्थक्काः’ निर्लज्जा भवन्ति, ततश्चाध्वनो निर्गताः सन्तोऽ कल्प्यग्रहणं कुर्वाणा गीतार्थैः प्रतिनोदिताः-‘आर्या! मा गृह्णीध्वमकल्यम्' ततस्ते ब्रुवते तदाऽध्वनि वर्त्तमानानां 'कथमकल्प्यत ?' कथं कल्पनीयमासीत् ? ॥ [भा. ३०६०] तेनभयोदककज्जे, रत्तिं सिग्घगति दूरगमने य । वहणावहणे दोसा, बालादी सल्लविद्धेय ॥ वृ- स्तेनभये दण्डकचिलिमिलिकां विना, उदककार्ये चर्मकरकं गुलिकां खोलकानि वा विना यत्प्राप्नुवन्ति तन्निष्पन्नंप्रायश्चित्तम् । रात्रौ सार्थवशेन शीघ्रगतौ दूरगमने वोपस्थिते तलिकाभिर्विना बल-वृद्धादयः प्रपतन्ति तान् यदि कापोतिकया वहन्ति तदा स्वयं परिताप्यन्ते अथ कापोतिकाया अभावान्न वहन्ति ततस्ते परिताप्यन्ते । शल्यविद्धाः शस्त्रकोशकेन विना शल्येऽनुद्रियमाणे यत् परितापनादिकं प्राप्नुवन्ति तन्निष्पन्नम् ॥ यत एवमतो निष्कारणेऽध्वा न प्रतिपत्तव्यः । कारणे तु प्रतिपद्यमानानामयं क्रमः [भा. ३०६१] बिइयपय गम्ममाणे, मग्गे असतीय पंथे जतणाए । Page #221 -------------------------------------------------------------------------- ________________ २१८ बृहत्कल्प-छेदसूत्रम् -२-१/४६ परिपुच्छिऊण गमनं, अछिन्ने पल्लीहि वइगाहिं । वृ-द्वितीयपदे अध्वनि गम्यमाने प्रथमं मार्गेण, मार्गस्यासति पथाऽपि यतनया गन्तव्यम् । तत्र च जनं परिपृच्छय यः पल्लीभिजिकाभिर्वा अच्छिनः पन्थास्तेन गमनं विधेयम् । तदभावे छिन्नेनापि ॥अथ यैः कारणैर्गन्तुंकल्पते तानि दर्शयति[भा.३०६२] असिवे ओमोदरिए, रायडुढे भये वआगाढे। गेलन उत्तिमढे, नाणे तह दंसण चरित्ते ।। वृ-आगाढशब्दःप्रयेकमभिसम्बध्यते-आगाढेऽशिवेऽवमौदर्येराजद्विष्टेबोधिक-स्तेनादिभये वा; यद्वा आगाढं नाम-शैक्ष-सागारिकादिकमन्यतरकारणम्, तथा ग्लान उत्तमार्थप्रतिपन्नो वा क्वचिद्देशान्तरे श्रुतोऽपान्तराले चतत्र च्छिन्नः पन्था अतस्तप्रतिचरणार्थं गन्तव्यम्, उत्तमार्थं वा प्रतिपित्सुः संविग्नगीतार्थसमीपे छिनेनापि पथा गच्छति । 'ज्ञानम्' आचारादि 'दर्शन' दर्शनविशुद्धिकारकाणि शास्त्राणि तदथमध्वानं गच्छेत् । चारित्रार्थं नाम-यत्र देशे स्त्रीदोषा एषणादोषा वा भवन्ति तं परित्यज्य देशान्तरं गन्तव्यम् ।। [भा.३०५३] एएहि कारणेहिं, आगाढेहिं तु गम्ममाणेहिं । उवगरणपुवपडिलेहिएण सत्येण गंतव्वं ॥ वृ-'एतैः' अशिवादिभिः कारणैरागाढरेव 'गम्यमानैः' प्राप्यमाणैरुपकरणमध्वप्रायोग्यंगृहीत्वा पूर्व-गमनात् प्राक् प्रत्युपेक्षितः-सम्यक् शुद्धाशुद्धतया निरूपितो यः सार्थस्तेन सह गन्तव्यम् ॥ अथेदमेव स्पष्टयति[भा.३०६४] असिवे अगम्ममाणे, गुरुगा नियमा विराधना दुविहा । तम्हा खलु गंतव्वं, विहिणा जो वन्निओ हिट्ठा ।। वृ-अशिवे समुत्पन्ने सति यदिनगम्यते ततश्चत्वारो गुरवः । तत्रच तिष्ठतां नियमाद् 'द्विविधा' संयमा-ऽऽत्मनोः अथवाऽऽत्मनः परस्य चेति विराधना । यत एवं तस्मात् ‘खलु' निश्चितं विधिना गन्तव्यम् । कः पुनर्विधिः ? इत्याह-यः 'अधस्ताद्' ओघनिर्युक्ती- “संवच्छरबारसएण, होही असिवं ति ते तओ निति।" इत्यादिगाथाभिर्वर्णितः। शेषाण्यप्यवमौदर्यादीनि पदानि यथैवीधनियुक्तौ तथैव वक्तव्यानीति॥ [भा.३०६५] उवगरण पुव्वभणियं, अप्पडिलेहिंते चउगुरू आणा। ओमाण पंत सत्थिय, अतियत्तिय अप्पपत्थयणो । वृ- उपकरणं 'पूर्वभणितं' रात्रिभक्तसूत्रोक्तं नन्दीभाजन- चर्मकरकादिकं तदगृह्णानस्य चतुर्गुरुकाः । सार्थं वा यदि न प्रत्युपेक्षन्ते तदापि चतुर्गुरवः आज्ञादयश्च दोषाः । तथा सार्थं कदाचिदवमानेन स्वपक्ष-परपक्षकृतेनातीवोद्वेजितो भवेत्, यद्वा सार्थिकाः ‘आतियात्रिका वा' सार्थचिन्तकाःप्रान्ता भवेयुः, ‘अल्पपथ्यदनोवा' स्वल्पशम्बलःससार्थ।।अत एतद्दोषपरिहारार्थं सार्थ प्रत्युपेक्षितव्यः । कथं पुनः? इति अत्रोच्यते[भा.३०६६] राग-द्दोसविमुक्को, सत्थं पडिलेहे सो उ पंचविहो । भंडी बहिलग भरवह, ओदरिया कप्पडिय सत्थो । वृ-'राग-द्वेषविमुक्तो नाम' यस्य गन्तव्ये न रागोन वा द्वेषः स सार्थं प्रत्युपेक्षते । स च सार्थः Page #222 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं - ४६, [ भा. ३०६६ ] पञ्चविधः, तद्यथा-भण्डी - गन्त्री तदुपलक्षितः प्रथमः सार्थ । बहिलकाः करभी- वेसर- बलीवर्दप्रभृतयः तदुपलक्षितो द्वितीयः । भारवहाः - पोट्टलिकावाहकास्तेषां सार्थ तृतीयः । औदरिका नाम-यत्र गताः तत्र रूपकादिकं प्रक्षिप्य समुद्दिशन्ति, समुद्देशनानन्तरं भूयोऽप्यग्रतो गच्छन्ति, एष चतुर्थः । कार्पटिकाः- भिक्षाचरास्ते भिक्षां भ्रमन्तो व्रजन्ति तेषां सार्थ पञ्चमः ॥ अथैनामेव गाथां विवृणोति[भा. ३०६७ ] गंतव्वदेसरागी, असत्थ सत्थं पि कुणति जे दोसा । इअरो सत्थमसत्यं, करेइ अच्छंति जे दोसा ।। २१९ वृ- यो गन्तव्ये देशे रागी स सार्थप्रत्युपेक्षकः कृतोऽसार्थमपि सार्थं करोति, ततः कुसार्थेन गच्छतां ये दोषास्तानापद्यन्ते, तन्निष्पन्नं प्रायश्चित्तं सूरयः प्राप्नुवन्तीति भावः । 'इतरो नाम' गन्तव्यदेशद्वेषवान् स सार्थमप्यसार्थं करोति, ततस्तत्राशिवादिषु सन्तिष्ठमानानां ये दोषास्तान् प्राप्नुवन्ति । तस्माद् राग-द्वेषविमुक्तः सार्थप्रत्युपेक्षकः सूरिभि प्रस्थापनीयः ।। अथ सार्थपञ्चकेऽपि गमनक्रमं गुणागुणविभागं च दर्शयति [भा. ३०६८ ] उप्परिवाडी गुरुगा, तिसु कंजियमादिसंभवो होज्जा । परिवहमं दोसु भवे, बालादी सल्ल गेलने ॥ वृ- 'उत्परिपाट्या' यथोक्तक्रममुल्लङ्घय यदि सार्थेन सह गच्छन्ति तदा चतुर्गुरुकाः । किमुक्तं भवति ? -भण्डीसार्थे विद्यमाने यदि बहिलकसार्थेन गच्छन्ति तदा चतुर्गुरुकाः, अथ भण्डीसार्थो न प्राप्यते ततो बहिलकसार्थेनापि गन्तव्यम्, तत्र विद्यमाने भारवहसार्थेन गच्छन्ति तदापि चतुर्गुरवः, एवं भारवहादिसार्थेष्वपि भावनीयम् । अत्र चाद्येषु त्रिषु' भण्डी - बहिलकभारवहसार्थेषु काञ्चिकादिपानकानां सम्भवो भवेत्, 'द्वयोस्त' भण्डी - बहिलकसार्थयोर्बालानाम् आदिशब्दाद् वृद्धानं दुर्बलानां शल्यविद्धानां ग्लानानां च परिवहनं भवेत् ॥ किं पुनः सार्थे प्रत्युपेक्षणीयम् ? इत्याह[भा. ३०६९ ] सत्यं च सत्यवाहं, सत्थविहाणं च आदियत्तं च । दव्वं खेत्तं कालं भावोमानं च पडिलेहे ॥ वृ-सार्थं सार्थवाहं सार्थविधानम् आतियात्रिकं द्रव्यं क्षेत्रं कालं भावम् अवमानं च प्रत्युपेक्षेत इति द्वारगाथासङ्क्षेपार्थं ॥ साम्प्रतमेनामेव विवृणोति [भा. ३०७०] सत्थि त्ति पंच भेया, सत्थाहा अट्ठ आइयत्तीया । सत्थस्स विहाणं पुन, गणिमाई चउव्विहं होइ ॥ वृ- सार्थ इति पदेन भण्डीसार्थादयः पूर्वोक्ताः पञ्च भेदा गृहीताः । सार्थवाहाः पुनरष्टौ, आतियात्रिका अप्यष्टी, उभयेऽप्युत्तरत्र वक्ष्यन्ते । सार्थविधानं पुनर्गणिमादिभेदाच्चतुर्विधं भवति । तत्र गणिमं-यदेकद्व्यादिसङ्घयया गणयित्वा दीयते, यथा - हरीतकी - पूगफलादि । धरिमं यत् तुलायां धृत्वा दीयते, यथा-खण्ड-शर्करादि । भेयं यत् पलादिना सेतिकादिना वा मीयते, यथाघृतादिकं तन्दुलादिकं वा । पारिच्छेद्यं नाम यच्चक्षुषा परीक्ष्यते, यथा- वस्त्र - रत्न मौक्तिकादि । एतच्चतुर्विधमपि द्रव्यं भण्डीसार्थादिषु प्रत्युपेक्षणीयम् । तथा द्रवय-क्षेत्रकाल - भावैरपि सार्थः प्रत्युपेक्षणीयः ॥ तत्र द्रव्यतः प्रत्युपेक्षणां तावदाह [भा. ३०७१] अनुरंगाई जाणे, गुंठाई वाहणे अणुन्नवणा । धम्मुत्ति वा भई व बालादि अनिच्छे पडिकुट्ठा ।। Page #223 -------------------------------------------------------------------------- ________________ २२० बृहत्कल्प-छेदसूत्रम् -२-१/४६ वृ-अनुरङ्गा नाम-धंसिकास्तदादीनि यानानिगवेषणीयानि, आदिशब्दात् शकटादिपरिग्रहः। वाहनानि ‘गुण्ठादीनि' गुण्ठो नाम-घोटको महिषो वा, आदिशब्दात् करभ-वृषभादिपरिग्रहः । एतेषांयानानां वाहनानांचानुज्ञापना कर्तव्या, यथा-अस्माकं कोऽपि बालो वृद्धो दुर्बलो ग्लानः शल्यविद्धो वा गन्तुं न शक्नुयात् स युष्माभिरनुरङ्गादौ वा तुरङ्गादौ वा आरोहयितव्यः । यदि "एवम्, धर्म' इति कृत्वाऽनुजानन्ति ततः सुन्दरम् । अथ नानुजानन्ति ततः 'भृत्या' मूल्येनापि यथाऽऽरोहयन्ति तथा प्रज्ञापयितव्याः । अथ मूल्येनापि बालादीनामारोहणं नेच्छन्ति ततः 'प्रतिक्रुष्टाः' प्रतिषिद्धाः, तैः सह न गन्तव्यमित्यर्थः । अपिच[भा.३०७२] दंतिक-गोर-तिल्ल-गुल-सप्पिएमादिभंडभरिएसु । ____अंतरवाघातम्मिव, तं दितिहरा उ किं देति॥ वृ-मोदक-मण्डका-ऽशोकवतयादिकं यद् बहुविधं दन्तखाद्यकं तद् दन्तिकम्, “गोर"त्ति गोधूमाः, 'तैल-गुडौ' प्रतीतो, 'सर्पि' घृतम्, एवमादीनां भक्ष्यभाण्डानां यत्र शकटानि भृतानि प्राप्यन्ते स सार्थो द्रव्यतः शुद्धः । यत एवमादिभाण्डभृतेषु शकटादिषु सत्सु यद्यपि अन्तराअपान्तराले व्याघातः-वर्षा-नदीपूरादिक उत्पद्यते तथापि तद्'दन्तिकादिकं ते सार्थिकाः स्वयमपि भक्षयन्ति साधूनामपि च प्रयच्छन्ति । 'इतरथा' तेषामभावे किं ददति?, किमपीत्यर्थः॥ व्याघातकारणान्येव दर्शयति[भा.३०७३] वासेण नदीपूरेण वा वि तेनभय हस्थि रोधे य। खोभे व जत्थ गम्मति, असिवं वेमादि वाघाता। कृ-सार्थस्यगच्छतोऽपान्तरालेआगाढवर्षेणवानदीपूरेणवाबहुतरदिवसान्व्याघात उपस्थितः, अग्रतो वा स्तेनानां भयमुत्पन्नम्, दुष्टहस्तिना वा मार्गो निरुद्धः, 'यत्र वा' नगरादौ 'गम्यते' गन्तुमिष्यते तत्र रोधको वा राज्यक्षोभो वा अशिवं वा उत्पन्नम्, एवमादयो गमनस्य व्याघाता भवन्ति। तेषूपस्थितेषु यद्यपान्तराले सार्थः सन्निवेशं कृत्वा तिष्ठतितथापिदन्तिक्कादिबहुविधखाद्यद्रव्यभृतासुगन्त्रीषु सुखेनैव साधवः संस्तरन्ति । अतस्तेन सह गन्तव्यम् ।। न पुनरीशेन[भा.३०७४] कुंकुम अगुरुंपत्तं, चोयं कत्थूरिया य हिंगुं च । संखग-लोणभरितेण, न तेन सत्थेण गंतव्वं ।। वृ-कुङ्कुमं अगुरु तगरपत्रं "चोयं"तित्वक् कस्तूरिका हिङ्गुरेवमादिकमखाद्यद्रव्यं यत्र भवति, यश्च शङ्खन लवणेन वा भृतः-पूर्ण, तत्रान्तरा व्याघाते समुत्पन्ने निष्ठितशम्बलाः सार्थिकाः किं प्रयच्छन्तु ? यत एवमतः तेन' ताद्दशेन सार्थेन सह न गन्तव्यम् ॥ गता द्रव्यतः प्रत्युपेक्षणा । अथ क्षेत्र-काल-भावैस्तामाह[भा.३०७५] खेत्तेजंबालादी, अपरिस्संता वयंति अद्धाणं । काले जो पुव्वण्हे, भावे सपक्खादणोमाणं ।। वृ-यावन्मात्रमध्वानं बाल-वृद्धादयऽपरिश्रान्ताः 'व्रजन्ति' गन्तुं शक्नुवन्ति तावन्मात्रं यदि सार्थो व्रजति तदास सार्थ क्षेत्रे' क्षेत्रतः शुद्धः । तथा यः सूर्योदयवेलायांप्रस्थितः पूर्वाह्ने तिष्ठति सकालतः शुद्धः । यत्र तु स्वपक्ष-परपक्षिभिक्षाचरैरनवमानं स भावतः शुद्धः ।। [भा.३०७६] एक्किको सो दुविहो, सुद्धो ओमानपेल्लितो चेव । Page #224 -------------------------------------------------------------------------- ________________ २२१ उद्देशक : १, मूलं-४६, [भा. ३०७६] मिच्छत्तपरिग्गहितो, गमनाऽऽदियणे य ठाणे अ॥ वृ- भण्डीसार्थ-बहिलकसार्थयोर्मध्यादेकैको द्विविधः-शुद्धोऽशुद्धश्च । शुद्धो नाम-यो नावमानप्रेरितः, अवमानप्रेरितोऽशुद्धः । तथा सार्थवाह आदियात्रिको वा योवा तत्र प्रधानःस यदि मिथ्याप्टिस्तदास सार्थो मिथ्यात्वपरिगृहीत इति कृत्वा नानुगन्तव्यः । “गमनाऽऽइयणे य ठाणेय"त्तिगमने यःसार्थमृदुगति अच्छिन्नेन वा पथाव्रजति, आदनं-भोजनं तवेलायांयस्तिष्ठति, 'स्थानेच' स्थण्डिले यो निवेशं करोति ईशः शुद्धः ।। अथ स्वपक्ष-परपक्षावमानं व्याख्यानयति[भा.३०७७] समणा समणि सपक्खो, परपक्खो लिंगिणो गिहत्था य। आया-संजमदोसा, असईय सपक्खवजेण ॥ वृ-स्वपक्षःश्रमणाः श्रमण्यश्च द्रष्टव्याः।परपक्षो लिङ्गिनो गृहस्थाश्च । इह लिङ्गिनोऽन्यतीर्थिका द्रष्टव्याःईशेन भिक्षाचरवर्गेणाकीर्णेपर्याप्तमलभमानानामात्म-संयदोषाभवन्ति। तत्रात्मदोषाः परितापनादिना, संयमदोषास्तु कन्दादिग्रहणेनेति । अथानवमानं सर्वथैव न प्राप्यते ततोऽनवमानस्यासति ‘स्वपक्षवर्जेन' स्वपक्षावमानं वर्जयित्वा य परपक्षावमानं भवति तेन गन्तव्यम् । तत्र जनो भिक्षाग्रहणे विशेषं जानाति-इमे श्रमणाः, एते तु तच्चन्निकादय इति ॥ "गमनाऽऽदियणे य ठाणे य"त्ति पदत्रयं व्याचष्टे[भा.३०७८] गमनं जो जुत्तगती, वइगा-पल्लीहिं वा अछिन्नेनं । थंडिल्लं तत्थ भवे, भिक्खग्गहणे य वसही य। [भा.३०७९] आदियणे भोत्तूणं, न चलति अवरण्हे तेन गंतव्वं । तेन परं भयणा ऊ, ठाणे थंडिल्लठाई उ ।। वृ-गमनशुद्धो नाम यः सार्थ ‘युक्तगति' मन्दगमनः, न शीघ्रं गच्छतीत्यर्थः; यो वा व्रजिकापल्लीभिरच्छिन्नः पन्थास्तेन गच्छति, यतस्तत्राच्छिन्ने पथि स्थण्डिलं भवति,जिकादौ च सुखेनैव भिक्षाग्रहणं वसतिश्च प्राप्यते ।। आदनं-भोजनं तद्वेलायां यस्तिष्ठति, भुक्त्वा चापराह्णेन चलति तेन सह गन्तव्यम् । “तेन परं भयणा उत्ति प्राकृतत्वात् पञ्चम्यर्थे तृतीया, 'ततः परं भोजनादनन्तरमपराह्ने यश्चलति तत्र भजना कर्तव्या-यदि सर्वेऽपि साधवः समर्थास्तदानीं गन्तुं ततः शुद्धः, अथ न शक्नुवन्ति ततोऽशुद्ध इति । स्थानं नाम-गमनादुपरम्य निवेशं कृत्वा कचित् प्रदेशेऽवस्थानम्, तत्र यः स्थण्डिलस्थायी सशुद्धः, अस्थण्डिले तिष्ठन्त्रशुद्ध इति ॥अथयदुक्तम् 'अष्टौ सार्थवाहा आदियात्रिकाच' इति तदेतद् व्याख्यानयति[भा.३०८०] पुराण सावग सम्मद्दिछि अहाभद्द दानसड्ढे य । अनभिग्गहिए मिच्छे, अभिग्गहे अन्नतित्थी य ।। वृ-'पुराणः' पश्चात्कृतः १ श्रावकः' प्रतिपन्नाणुव्रतः २ ‘सम्यग्दृष्टिः' अविरतसम्यग्दर्शनी ३ 'यथाभद्रकः' सामान्यतः साधुदर्शनपक्षपाती ४ 'दानश्राद्धः' प्रकृत्यैव दानरुचिमान ५ अनभिगृहीतमिथ्याष्टिः ६ अभिगृहीतमिथ्याष्टिः ७अन्यतीर्थिकः ८ एते त्रयोऽपि प्रतीताः। एवमष्टौ सार्थाधिपतयः । आदियात्रिका अप्येवमेवाष्टौ भवन्ति ॥ साम्प्रतमध्वानं प्रतीत्य भङ्गानुपदर्शयति[भा.३०८१] सत्थपणए य सुद्धे, य पेल्लिओ कालऽकालगम-भोगी। Page #225 -------------------------------------------------------------------------- ________________ २२२ बृहत्कल्प-छेदसूत्रम् -२-१/४६ कालमकालट्ठा, सत्थाहऽट्ठाऽऽदियत्तीया ॥ वृ- सार्थपञ्चके भण्डीसार्थो बहिलकसार्थश्चावमाने शुद्धो वा स्यात् प्रेरितो वा यः शुद्धस्तेन गन्तव्यम् । तथा कालगामिनोऽकालगामिनो वा कालभोजिनोऽकालभोजिनो वा कालनिवेशिनोऽकालनिवेशिनो वा स्थण्डिलस्थायिनोऽस्थण्डिलस्थायिनो वा ते पञ्चापि सार्था भवेयुः । तथा अष्टौ सार्थवाहा अष्टौ चाऽऽदियात्रिकाः ॥ एभि पदैः कियन्तो भङ्गा उत्तिष्ठन्ते ? इत्याह[भा. ३०८२] एतेसिं तु पयाणं, भयणाए सयाई एक्क पन्नं तु । वीसं च गमा नेया, एत्तो य सयग्गसो जयणा ॥ वृ-एतेषां पदानां संयोगेन ‘भजनयां' भङ्गरचनायां विधीयमानायामेकपञ्चाशत्सङ्ख्यानि शतानि विंशतिश्च ‘गमाः’ भङ्गका ज्ञेयाः । "एत्तो य सयग्गसो जयण' त्ति आर्षत्वाद् 'एषु' सार्थेषु शुद्धाऽशुद्धेषु सार्थवाहा ऽऽ दियात्रिकेषुच भद्रक- प्रान्तेषु अल्पबहुत्वचिन्तायां 'शताग्रशः' शतसङ्ख्यभेदा यतना भवति ।। अमुमेवार्थं भाष्यकारः प्रकटयन्नाह [भा. ३०८३] कालुट्ठाई कालनिवेसी, ठाणट्ठाती य कालभोगी य । उग्गतऽनत्थमि थंडिल, मज्झण्ह धरंत सूरे य ॥ वृ-इह पूर्वार्द्ध-पश्चार्द्धपदानां यथासङ्ख्यं योजना, तद्यथा- कालोत्थायी नाम सा सार्थो य उद्गते सूर्ये उत्तिष्ठते, चलतीत्यर्थः । कालनिवेशी योऽनस्तमिते रवौ प्रथमायां वा पौरुष्यां निवेशं कृत्व तिष्ठति । स्थानस्थायी यः स्थण्डिले व्रजिकादौ तिष्ठति । कालभोजी यो मध्याह्ने सूर्ये वा ध्रियमाणे भुङ्क्ते ॥ [भा. ३०८४] एतेसिं तु पयाणं, भयणा सोलसविहा उ कायव्वा । सत्थपणएण गुणिया, असिती भंगा तु नायव्वा ।। वृ- 'एतेषां ' चतुर्णां पदानां षोडशविधा भजना कर्त्तव्या, तद्यथा - कालोत्थायी कालनिवेशी स्थानस्थायी कालभोजी १ कालोत्थायी कालनिवेशी स्थानस्थायी अकालभोजी २ कालोत्थायी कालनिवेशी अस्थानस्थायी कालभोजी ३ कालोत्थायी कालनिवेशी अस्थानस्थायी अकालभोजी ४ । एवमकालनिवेशिपदेनापि चत्वारो भङ्गा अवाप्यन्ते, लब्धा अष्टौ भङ्गाः । एतेऽकालोत्थायिपदेनाप्यष्टौ प्राप्यन्ते, जाताः षोडश भङ्गाः । एते च सार्थपञ्चकेऽपि प्राप्यन्त इति पञ्चभिर्गुण्यन्ते, गुणिताश्चाशीतिर्भङ्गका भवन्ति ॥ [भा. ३०८५ ] सत्थाह अट्ठगुणिया, असीति चत्ताल छस्सता होंति । ते आइयत्तिगुणिया, सत एक्कावन्न वीसहिया वृ-पूर्वलब्धा अशीतिर्भङ्गकाः प्रतिसार्थवाहं प्राप्यन्ते इति कृत्वा अशीतिरष्टभि सार्थवाहैर्गुणिताः षट् शतानि चत्वारिंशानि भवन्ति । एतानि चाष्टभिरादियात्रिकैर्गुण्यन्ते जातानि भङ्गकानामेकपञ्चाशच्छतानि विंशत्यधिकानि । एषामन्यतरस्मिन् सार्थे यथायोगमल्पबहुत्वं परिभाव्य यत्र बहुतरा गुणा भवन्ति तमभिरोच्य गुरुपादमूलमागत्य सार्थप्रत्युपेक्षका आलोचयन्ति ॥ अथ सार्थवाहस्यानुज्ञापनायां विधिमाह [भा. ३०८६] दोण्ह वि चियत्त गमणं, एगस्सऽचियत्त होति भयणा उ । अप्पत्ताण निमित्तं, पत्ते सत्यम्मि परिसाओ ।। Page #226 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं-४६, [भा. ३०८६] . २२३ . वृ-यत्रैकः सार्थवाहस्तत्र तमनुज्ञापयन्ति, येवा प्रधानपुरुषास्तेऽनुज्ञापयितव्याः । अथ द्वौ सार्थाधिपती ततोद्वावप्यनुज्ञापयितव्यौ, यदि प्रीतिकं ततोगमनं कर्तव्यम् । अथैकस्याप्रीतिकम् अपरस्य प्रीतिकंततोभजना भवति, यस्तयोःप्रेरकः प्रमाणभूतस्तस्य प्रीतिकेगन्तव्यम् अप्रीतिके न गन्तव्यम्।सार्थं चाप्राप्तानां 'निमित्तं' शकुनग्रहणं भवति । सार्थं प्राप्ताः पुनःसार्थस्यैव शकुनेन गच्छन्ति । सार्थप्राप्ताश्च तिः परिषदः कुर्वन्ति, तद्यथा-पुरतो मृगपरिषदं मध्ये सिंहपरिषदं पृष्ठतो वृषभपरिषदम् ।। अथ "दोण्ह वि"त्ति पदं विवृणोति[भा.३०८७] दोनि वि समागया सत्थिगो य जस्स व वसेण वच्चति तु । अणनुन्नविते गुरुगा, एमेव य एगतरपंते ।। वृ-सार्थवाह आदियात्रिकश्च द्वावपिमिलितोसमागतौसमकमनुज्ञापयन्ति।अथवा 'सार्थिकः' सार्थो विद्यते यस्येति व्युत्पत्त्या सार्थवाह एक एवानुज्ञाप्यते । यस्य वा वशेन सार्थो व्रजति सोऽनुज्ञाप्यः ।अथाननुज्ञापिते सार्थवाहादौ व्रजन्ति तदा चत्वारोगुरुकाः । अथ द्वौ सार्थावेकत्र मिलितौ स्याताम्, तत्र च द्वौ सार्थाधिपती, द्वावप्यनुज्ञापयितव्यौ । अथैकमनुज्ञापयन्ति तत्र 'एवमेव' चतुर्गुरुकाः ।अथैकतरः प्रान्तः ततश्चिन्तनीयम्-स प्रेरको वा स्याद् अप्रेरको वा । यदि प्रेरकस्ततो न गन्तव्यम् । अथ गच्छन्ति ततः एवमेव' चतुर्गुरुकाः॥ ' कथं तहिं गन्तव्यम् ? इत्याह[भा.३०८८] जो होइ पेल्लतो तं, भणंति तुह बाहुछायसंगहिया। वच्चामऽनुग्गहो त्तिय, गमनं इहरा उगुरु आणा ।। वृ- यस्तत्र 'प्रेरकः' प्रमामभूतो भवति तं धर्मलाभयित्वा भणन्ति-यद्यनुजानीत ततो वयं युष्माभिः समं युष्मद्बाहुच्छायासङ्गहीताव्रजामः। एवमुक्तेयद्यसौ ब्रूयात्-भमवन्! अनुग्रहोऽयं मे, अहं सर्वमपि भगवतामुदन्तमुद्वहामीति; एवमनुज्ञाते गमनं विद्येयम् । 'इतरथा' यद्यसौ तूष्णीकस्तिष्ठतिब्रवीति वा ‘मा समागच्छत' इति ततोयदि गच्छन्तिततश्चत्वारोगुख आज्ञादयश्च दोषाः ।। यदि सार्थवाहस्यापरस्यवा प्रेरकस्याप्रीतिके गम्यते तत एते दोषाः. [भा.३०८९] पडिसेहण निच्छुभणं, उवकरणं बालमादि वा हारे। अतियत्त गुम्मिएहि व, उड्डुभंते न वारेति॥ वृ-स सार्थवाहादिः प्रान्तः सन्नटवीमध्यप्राप्तानांसाधूनांभक्त-पानप्रतिषेधंसार्थाद्वा निष्काशनं विदध्यात्, उपकरणं वा बालादीन् वा अन्येन स्तेनादिना 'हारयेत्' अपहरणं कारयेदित्यर्थः, आदियात्रिकैर्वा' सार्थारक्षकैः ‘गौल्पिकैर्वा' स्थानरक्षपालैः 'उद्दह्यमानान्’ मुष्यमाणान् साधून 'न वारयति' उदासीन आस्ते इत्यर्थः । यत एवं ततः किं कर्तव्यम् ? इत्याह[भा.३०९०] भद्दगवयणे गमनं, भिक्खे भत्तट्ठणाए वसधीए। थंडिल्ल असति मत्तग, वसभा य पदेस वोसिरणं ।। वृ-सार्थवाहादिर्भद्रको ब्रूयात् ययूयमादिशत तदहंसर्वमपि सम्पादयिष्यामि, सिद्धार्थकवत् चम्पकपुष्पवद्वा शिरसि स्थिता अपि मे भारं न कुरुथ । एवं वचने भणिते सप्ति गमनं कर्तव्यम्। गच्छद्भिश्चाध्वनि भैक्षविषया भक्तार्थना-समुद्देशनं तद्विषया वसतिविषया च यतना कर्त्तव्य। संज्ञांकायिकी वा स्थण्डिलेव्युत्सृजेयुः। स्थण्डिलस्यासतिमात्रके व्युत्सुज्य तावद् वहन्ति यावत् ____ Page #227 -------------------------------------------------------------------------- ________________ २२४ बृहत्कल्प-छेदसूत्रम् -२-१/४६ स्थण्डिक प्राप्नुवन्ति, एवं वृषभायतन्ते, यद्वा वृषभाः पुरतो गत्वा यत्र स्थण्डिलं तत्र प्रथमत एव तिष्ठन्ति।अथसर्वथैव स्थण्डिलं न प्राप्यते ततो धर्मा-ऽधर्माऽऽकाशास्तिकायप्रदेशेष्वपिव्युत्सृजन्ति ।।अमुमेवार्थमतिदेशद्वारेणाह[भा.३०९१] पुव्वं भणिया जयणा, भिक्खे भत्तट्ट वसहि थंडिल्ले । साचेव य होति इहं, नाणत्तं नवरि कप्पम्मि।। वृ-भिक्षा-भक्तार्थ-वसति-स्तण्डिलविषया यतना या पूर्वम्' अधस्तनसूत्रेषु ओघनियुक्ती वा भणिता सैवेहाध्वनि वर्तमानानां मन्तव्या, स्थानाशून्यार्थं तु किञ्चिदत्रापि वक्ष्यते । तत्र भैक्षद्वारे 'नवरं' केवलमिह 'कल्पे' अध्वकल्पविषयं नानात्वम् ।। तदेवाह[भा.३०९२] अग्गहणे कप्पस्स उ, गुरुगा दुविधा विराधना नियमा। पुरिसऽद्धाणं सत्थं, नाउंवा वी न गिण्हिज्जा ।। वृ-छिन्नेऽच्छिन्नेवापथियद्यध्वकल्पं नगृह्णन्ति तदाचतुर्गुरवः, 'द्विविधाच' आत्म-संयमभेदाद् विराधना नियमाद् मन्तव्या । तत्रात्मविराधना भक्ताद्यलाभे क्षुधातस्य परितापनादिना, संयमविराधना तुक्षुधातः सन्नध्वकल्पं विना कन्दादिग्रहणं कुर्यात् । अतो ग्रहीतव्योऽध्वकल्पः। एभिः कारणैर्न गृह्णीयादपि-यदि पुरुषाः सर्वेऽपि संहनन-धृतिबलवन्तः,अध्वाऽप्येकदैवसिको द्विदैवसिको वा, सार्थेऽपि प्रभूतभैक्षमवाप्यते तदपि ध्रुवलाभम्, सार्थश्च भद्रकः कालभोजी कालस्थायी च । एवमादीनि कारणानि ज्ञात्वा च्छिन्नपथेऽप्यध्वकल्पं न गृह्णीयात् ।। स पुनरध्वकल्पः कीशो ग्रहीतव्यः? इत्युच्यते[भा.३०९३] सक्कर-घत-गुलमीसा, अगंठिमा खज्जूरा व तम्मीसा । सत्तू पिन्नागोवा, घत-गुलमिस्सो खरेणं वा॥ वृ-शर्करया धृतेन च मिश्राणि 'अग्रन्थिमानि' कदलीफलानि खण्डीकृतानि गृह्यन्ते । अथ शर्करा न प्राप्यते ततो गुडेन धृतेन च मिश्रितानि । तेषामभावे खजूराणि धृतगुडमिश्राणि । तदप्राप्तौ सक्तुकान् धृत-गुडमिश्रान् । तदलाभे पिण्याकोऽपि धृत-गुडमिश्रो ग्रहीतव्य । अथ धृतं न प्राप्यते ततः खरसंज्ञकेन तैलेन मिश्रितः पिण्याकः॥ एतेषां ग्रहणे गुणमुपदर्शयति[भा.३०९४] थोवा वि हणंति खुहं, न य तह करेंति एते खजंता। सुक्खोदणं वऽलंभे, समितिम दंतिक्क चुण्णं वा ॥ वृ- “एतानि' अग्रन्थिमादीनि खाद्यमानानि स्तोकान्यपि क्षुधं घ्नन्ति, न चैतानि भुक्तानि सन्ति तृष्णां कुर्वन्ति, अत ईशोऽध्वकल्पो गृह्यते । ईशस्यालाभे 'शुष्कौदनः' शुष्ककूरः, तदलाभे 'समितिमाः' शुष्कमण्डकाः, तदप्राप्तौ 'दन्तिक्कचूर्ण तन्दुललोट्टः, यद्वा दन्तिक्वं-तन्दुलचूर्णः, चूर्णं तु-मोदकादिखाधकचूरि; एतत् सर्वमपि धृत-गुडेन मिश्रयित्वा स्थापनीयम् । यदि शुद्धं भक्तं लभन्ते ततो नाध्वकल्पं भुजते, यावन्मात्रेण वा न्यूनं शुद्धं लभन्ते तावन्मात्रमध्वकल्पात् परिमुअते, अनुपस्थापितेभ्यो वा प्रयच्छन्ति। अध्वानं प्रविशद्भिरपरमपि यद् ग्रहीतव्यं तद् दर्शगति[भा.३०९५] तिविहाऽऽभयभेसज्जे, वणभेसज्जे य सप्पि-मुह-पट्टे । सुद्धाऽसति तिपरिरए, जा कम्मं नाउबद्धाणं॥ Page #228 -------------------------------------------------------------------------- ________________ उद्देशक ः १, मूलं-४६; [भा. ३०९५] २२५ वृ-त्रिविधाः-त्रिप्रकाशवातज पित्तज-श्लेष्मजभेदायेआमयाः-रोगास्तेषां यानि भैषज्यानि, यानिच व्रणस्य भैषज्यानि सर्पिमिश्राणि मधुमिमाणि वाव्रणेषु दत्त्वा पट्टैध्यन्ते तानि गृह्णन्ति। सर्वमप्येतदध्वकल्पादिकंप्रथमतः पुनरध्वानं स्तोकंवा बहुंवा ज्ञात्वा तदनुसारेणाध्वकल्पोऽपि ग्रहीतव्यः । एवं यदा सर्वमप्युत्पादितं भवति तदा किं विधेयम् ? इत्याह[भा.३०९६] अद्धाण पविसमाणो, जाणगनीसाए गाहए गच्छं। अह तत्थ न गाहिज्ज, चाउमासा भवे गुरुगा॥ वृ-अध्वानं प्रविशन् सूरि प्रथमत एव ज्ञस्य-गीतार्थस्य निश्रया-तं पुरस्कृत्य गच्छमध्वकल्पं ग्राहयति । अथ 'तत्र' अध्वप्रवेशे गच्छंन ग्राहयति ततश्चतुर्मासा गुरुका भवेयुः । अतो गीतार्थं पुरस्कृत्यागीतार्थप्रत्ययनिमित्तमन्तराऽन्तरा कानिचिद्रर्थपदानि परित्यजन् सूरिर्गच्छमध्वकल्पं ग्राहयेत् ।। एवंविधेन विधिना निर्गतानामयं विधिः[भा.३०९७] सभए सरभेदादी, लिंगविओगंच काउ गीयत्था। खरकम्मिया व होउं, करेंति गुत्तिं उभयवग्गे॥ वृ-यत्र सभयंतत्र वृषभाः स्वरभेद-वर्णभेदकारिणीभिर्गुलीकाभिरन्याशं स्वरं वर्णच कृत्वा गच्छन्ति । अथवा यथा 'एते संयताः' इति न ज्ञायते तथा लिङ्गवियोगंकृत्वा गीतार्था गच्छन्ति । खरकर्मिकावासनद्धपरिकरा यथासम्भवंगृहीतायुधाभूत्वा वृषभाः 'उभयवर्गे साधु-साध्वीलक्षणे 'गुप्तिं रक्षां कुर्वन्ति ।। किञ्च[भा.३०९८] जे पुट्विं उवकरणा, गहिया अद्धाण पविसमाणेहिं। जंजंजोग्गंजत्थ उ, अद्धाणे तस्स परिभोगो॥ . वृ-यानि पूर्वधर्मकरकादीन्युपकरणानिअध्वानं प्रविशद्भिर्गृहीतानि तेषांमध्ये यद्यस्मिन् काले योग्यं तस्य तदा अध्वनि परिभोगः कर्त्तव्यः ।।अथाध्वकल्पभोगे विधिमाह[भा.३०९९] सुक्खोदणो समितिमा, कंजुसिणोदेहि उण्हविय मुंजे। मूलुत्तरे विभासा, जतिऊणं निग्गते विवेगो॥ वृ-"कंजुसिणोदेहि"त्तिइह चलाटदेशेऽश्रावणं काञ्जिकंभण्यते।यदाह चूर्णिकृत्अवसावणं लाडाणंजियं भण्णइत्ति।ततोऽवश्रावणेनोष्णोदकेनवाशुष्कौदनंशुष्कसमितिमांश्च उणयित्वा' मृदुभवनार्थमुष्णीकृत्य भुञ्जीत । “जइऊणं निग्गए विवेगो" त्ति एवमादिकया यतनया यतित्वा यदाअध्वनो निर्गतास्तदा तमध्वकल्पमभुक्तं भुक्तोद्वरितंवा विविचन्ति, परिष्ठापयन्तीत्यर्थः। "मूलुत्तरेविभास"त्तिमूलोत्तरगुणविषया विभाषाकर्तव्या। तद्यथा-शिष्यः पृच्छति-योअध्वकल्प आधाकर्मिकः परिवासितश्च स तावदाधाकर्मिकत्वेनोत्तरगुणोपघाती परिवासितत्वेन तु मूलगुणोपघाती ततः किमेष भुज्यताम् ? उत प्रतिदिवसं लभ्यमानमाधाकर्म ? अत्रोच्यतेअध्वकल्पो भुज्यतां नाधाकर्म ॥ ननु दोषद्वयदुष्टोऽसौ ? सूरिराह• [भा.३१००] कामं कम्मुंतु सो कप्पो, निसिं च परिवासितो। तहा विखलु सो सेओ, न य कम्मं दिने दिने॥ कृ'कामम् अनुमतम्-यदसावध्वकल्प एकतावदाधाकर्मअपरंच 'निशि' रात्रौपरिवासितः, [1915 Page #229 -------------------------------------------------------------------------- ________________ २२६ बृहत्कल्प-छेदसूत्रम् -२-१/४६ तथापि 'खलु' निश्चितं ‘स एव' अध्वकल्पः श्रेयान्, न चाधाकर्म दिने दिने लभ्यमानं वरम् ।। कुतः? इति चेद् उच्यते[मा.३१०१] आधाकम्माऽसतिं घातो, सई पुव्वहते त्तिय। जे उ ते कम्ममिच्छंति, निग्धिणा तेन मे मता ॥ वृ-यदाधाकर्म दिने दिने लभ्यते तत्र 'असकृद्' अनेकवारं जीवोपघातः, अध्वकल्पे तु यदाधाकर्म तत्र ‘सकृद्' एकमेव वारं जीवोपघातः, पूर्वहताश्च ते जीवा न दिने दिने हन्यन्ते, अतोऽध्वकल्प एव वरं नाधाकर्म । ये पुनः 'ते' अविदितप्रवचनरहस्या अध्वकल्पं मूलोत्तरगुणोपघातिनं मत्वान भुञ्जते, आधाकर्म तु केवलोत्तरगुणोपघातकमिति मत्वा दिने दिने भोक्तुमिच्छन्ति, तेऽत्यन्तनिघृणाः सत्त्वेषु, अत एव न ते मम सम्मता इति ॥ भैक्षद्वार एवं विशेषं दर्शयति[भा.३१०२] कालुट्ठाईमादिसु, मंगेसुजतंति बितियभंगादी। लिंगविवेगोकते, चुडलीए मग्गतो अभए। कृ-कालोत्थायिप्रभृतिषु भङ्गेषुद्वितीयभङ्गमादीकृत्वायतन्ते।तथाहि-कालोत्यायीकालनिवेशी स्थानस्थायी कालभोजी इत्यत्र प्रथमभङ्गे नास्ति यतना, सर्वथाऽपि शुद्धत्वात; द्वितीयादिषु तु सम्भवति।तत्र द्वितीयमङ्गे अकालभोजीतिकृत्वाखलिङ्गविवेकंविधाय रात्रौपरलिङ्गेन गृह्णन्ति। तृतीयचतुर्थभङ्गयोरस्थायीति कृत्वा यद् गवादिभिराक्रान्तंस्थानंतत्र तिष्ठन्तिापजमादिषुचतुर्ष भङ्गेष्वकालनिवेशीति कृत्वा कालिकायां तिष्ठन्तश्चडलिकया संस्तारकभूम्यादिषु बिलादिकं गवेषयन्ति । नवमादिषु षोडशान्तेष्टसु भङ्गेषु अकालोत्थायीति कृत्वा रात्रौ गन्तव्ये उपस्थिते 'मार्गतः' पृष्ठतः स्थिता गच्छन्ति । क्वसति? इत्याह-'अभये यदि पृष्ठतो गच्छतांस्तेनादिभयं न भवेत् । भक्तार्थनंतु यः सार्थोऽकालस्थायी तत्र निर्भये पुरतो गत्वा समुद्दिशन्ति यथा समुद्दिष्टे सार्थस्तत्र प्राप्नोति, वसतिं च मध्ये गृहन्ति॥तथा[भा.३१०३] सावय अन्नट्ठकडे, अट्ठासुक्खे सय जोइजतणाए। तेने वयणचडगरं, तत्तो व अवाउडा होति ॥ -श्रवापदभयेऽन्यैः-सार्थिकैरात्मार्थ यो वृतिपरिक्षेपः कृतस्तत्र तिष्ठन्ति। तदभावे "अट्ट" त्ति साधूनामर्थाय कृते वृतिपरिक्षेपे तिष्ठन्ति । तदभावे "सुक्खे सय" त्ति शुष्ककण्टिकाभिः स्वयमेव वृतिपरिक्षेपं कुर्वन्ति । “जोइ जयणाए" ति यदिश्वापदभयेज्योतिषा-अग्निना कार्य ततः परकृतमग्निसेवन्ते।अथतेतंसेवितुंनप्रयच्छन्ति ततः परकृतमेवाग्निंगृहीत्वाप्राशुकदारुभिः प्रज्वालयन्ति । यत्र तु स्तेनभयं तत्र तथा 'वचनचटकर' वागाडम्बरं कुर्वन्ति यथा ते स्तेना भयादेव शीघ्रं नश्यन्ति । अथवा यतः-यस्या दिशस्ते समागच्छन्ति तदभिमुखीभूय अप्रावृता भवन्ति ॥एवंविधं विधिं कुर्वाणा अध्वनो निस्तरन्ति । अथायं व्याघातो भवेतू[भा.३१०४] सावय-तेनपरद्धे, सत्ये फिडिया ततो जति हवेजा। अंतिमवइगा विंटिय, नियट्टनय गोउलं कहणा॥ महाटव्यांसिंहादिभिःश्वापदैः स्तेनैर्वासार्थप्रारब्धःसन्दिशोदिशिविप्रणष्टः, साधवोऽप्येकां दिशंगृहीत्वा विप्रणष्टाः 'ततः' सार्यास्फिटितायदिभवेयुः, ततोदिग्भागमजानन्तोवनदेवतायाः Page #230 -------------------------------------------------------------------------- ________________ उद्देश : १, मूलं- ४६, [भा. ३१०४] कायोत्सर्गं कुर्वन्ति सा च व्रजिका विकुर्वति, अन्तिमायां च व्रजिकायामुपकरणविण्टिकां विस्मायति, तस्या ग्रहणार्थं साधूनां निवर्तनम्, यावत् तत्रागताः तावद् गोकुलं न पश्यन्ति, ततो गुरुणां समीपे कथनम्, यथा-नास्ति सा व्रजिकेति । इदभेव स्पष्टयतिअद्धाणम्मि महंते, वट्टंतो अंतरा तु अडवीए । सत्थ तेनपरद्धो, जो जत्तो सो ततो नट्ठी ॥ [भा. ३१०५ ] वृ- अध्वनि महति वर्त्तमानः सार्थ सर्वोऽप्यन्तरा महाटव्यां स्तेनैः प्रारब्धः, ततश्व यो यत्र वत्तेते स तत एव 'नष्टः' पलायितः ॥ [भा. ३१०६ ] संजयजणो य सव्वो, कंची सत्थिल्लुयं अलभमाणो । पंथं अजाणमाणो, पविसेज महाडविं भीमं ॥ २२७ वृ-संयतजनश्च सर्व कञ्चिदपि सार्थिकमलभमानः पन्थानं चाजानन् भीमां महाटर्वी प्रविसेत्।। ततः किं कर्त्तव्यम् ? इत्याह [ भा. ३१०७] सव्वत्थामेण ततो वि सव्वकज्जुज्जया पुरिससीहा । वसभा गणीपुरोगा, गच्छं धारिति जतणाए ॥ वृ- ततः 'सर्वस्थाम्ना' सर्वादरेण वृषभाः 'सर्वकार्योद्यताः' सकलगच्छकार्यैकबद्धकक्षाः 'पुरुषसिंहाः' सातिशयपराक्रमतया पुरुषाणं मध्ये सिंहकल्पाः 'गणिपुरोगाः' आचार्यपुरस्सस ईदृश्यां विषमदशायां प्रपतन्तं गच्छं यतनया धारयन्ति ॥ तामेवाह [भा. ३१०८] जइ तत्थ दिसामूढो, हवेज्ज गच्छो सबाल - वुड्डो उ । वनदेवयाए ताहे, नियमपगंपं तह करेति ॥ वृ-यदि 'तत्र' अटव्यां सबाल-वृद्धोऽपि गच्छो दिङ्गूढो भवेत् ततो नियमेन-निश्चयेन प्रकम्पःदेवताया आकम्पो यस्मादिति नियमप्रकम्पः- कायोत्सर्गस्तं वनदेवताया आकम्पनार्थं तथा कुर्वन्ति यथा सा आकम्पिता सती दिग्भागं वा पन्थानं वा कथयति ॥ यतः [मा. ३१०९] सम्मद्दिट्ठी देवा, वेयावच्चं करेति साहूणं । गोकुलवउव्वणाए, आसास परंपरा सुद्धा ॥ वृ-ये सम्यग्दृष्टयो देवास्ते साधूनां 'वैयावृत्त्यं' भक्तपानोष्टम्भादिना द्रव्यापदाद्युद्धरणात्मकं कुर्वन्तीति स्थिति । ततः सम्यग्धष्टिदेवता काचिद् गोकुलं विकुर्वति । साधूनां तद्दर्शनेनाश्वासः । ततस्तया देवतया साधवो गोकुलपरम्परया तावद् नीता यावज्जनपदं प्राप्ताः । तया एवं नीता अपि ते 'शुद्धाः' निर्दोषाः ॥ अमुमेवार्थं सविशेषमाह [ भा. ३११०] सावय-तेनपरद्धे, सत्ये फिडिया तो जइ हविज्जा । अंतिमवईगा विंटिय, नियट्टणय गोउलं कहणा ॥ बृ- श्वापदैः स्तेनैश्व प्रारब्धे नष्टे च सार्थे 'ततः ' सार्थात् स्फिटिता यदि भवेयुः ततः कायोत्सर्गेण देवताकम्पयेत् । आकम्पिता च काचित् पन्थानं कथयेत्, काचिद् व्रजिकाः परम्परया विकुर्व्य जनपदं प्रापयेत् । अन्तिमायां च व्रजिकायामुपकरणविण्टिकामुपधिं (वा) विस्मारयेत् । तदर्थं साधूनां निवर्त्तना । यावत् तत्रागतास्तावद् गोकुलं न पश्यन्ति । ततो गुरुणां समीपे कथनम्, यथा-नास्ति सा व्रजिकेति । गुरुभिश्च ज्ञातम्, यथा- एतत् सर्वं देवताकृतमिति ॥ Page #231 -------------------------------------------------------------------------- ________________ २२८ बृहत्कल्प-छेदसूत्रम् -२-१/४६ [भा. ३१११] भंडी बहिलग-भरवाहिगेसु एसा तु वण्णिया जतणा । ओदरिय विवित्सु य, जयण इमा तत्थ नातव्वा ॥ वृ-भण्डी - बहिलक - भारवाहिसार्थेषु 'एषा' अनन्तरोक्ता यतना वर्णिता । अथौदरिकेषु 'विविक्तेषु च ' कार्पटिकेष्वियं यतना ज्ञातव्या ।। तामेवाह[ भा. ३११२] ओदरिपत्थयणाऽसइ, पत्थयणं तेसि कंद-मूल-फला । अग्गहणम्मिय रज्जू, वलिंति गहणं च जयणाए । वृ- आगाढे राजद्विष्टादिकार्ये औदरिकादिभिः सह गम्यमाने 'पथ्यदनस्य' शम्बलस्याऽभावे यदि तेषाम्' औदरिकादीनां कन्द-मूल-फलान्याहरो भवेत् ततः साधूनामपि तमेवाहारं स्वयं प्रयच्छन्ति । ये च तत्रापरिणतास्ते कन्दादि न गृह्णन्ति । अग्रहणे च ते सार्थिका अपरिणतानां भीषणार्थं रज्जुर्वलयन्ति, ततो यतनया ग्रहणं कुर्वन्ति ॥ इदमेव स्पष्टयतिकंदाइ अभुंजंते, अपरिणए सत्धिगाण कहयंति । [भा. ३११३] पुच्छा वेधासे पुन, दुक्खिहरा खाइउं पुरतो ।। वृ- अपरिणते कन्दादिकमभुञ्जने वृषभाः सार्थिकानां कथयन्ति एतान् तथा भापयत यथा खादन्ति । ततस्ते सार्थिका रज्जुवलनं कुर्वन्ति । ततो गीतार्था कृतसङ्केताः पृच्छन्ति - कथयत, किमेताभी रज्जुभि प्रयोजनम् ? । सार्थिका भणन्ति - वयमेकनाचारूढाः, अतो योऽस्माकं कन्दादीनी न भक्षयति तं वयमेताभिर्विहायसि लम्बयामः, 'इतरथा' तस्य बुभुक्षार्त्तस्य पुरतः खादितुं 'दुःख' दुष्करम्, न वयं भक्षयितुं शक्नुम इति भावः ॥ [भा. ३११४] इहरा वि भरति एसो, अम्हे खायामो सो वि तु भएन । कंदादि जगहणे, इमा उ जतणा तहिं होति ।। वृ- कन्दादीन्यभक्षयन्नितरथाऽप्यस्यामटव्यामवश्यमेष म्रियते अतो विहायसि लम्बनेन तं मारयित्वा सुखेनैव वयं भक्षयामः इत्युक्ते 'सोऽपि ' अपरिणतो भयेन कन्दादिभक्षणं करोति । एवमादिपु कार्येषु कन्दादिग्रहणे प्राप्ते इयं यतना भवति ॥ तामेवाह [भा. ३११५] फासुग जोनिपरित्ते, एगट्ठिगऽबद्ध भिन्न भिन्ने अ । बद्धट्ठिए वि एवं एमेव य होइ बहुबीए ॥ एमेव होइ उवरिं, एगट्ठिय तह य होइ बहुबीए । साहारणरसभावा, आईए बहुगुणं जंच ॥ [मा. ३११६] वृ-द्वे अपि व्याख्यातार्थे ।। पानकयतनामाह [भा. ३११७] तुवरे फले य पत्ते, रुक्ख-सिला-तुप्प-मद्दणादीसु । पासंदणे पवाते, आतवतत्ते वहे अवहे ॥ वृ- एषाऽपि गतार्था ।। गता अशिवविषया यतना । अथावमौदर्यविषयां यतनामाह[भा. ३११८] ओमे एसणसोहिं, पजहति परितावितो दिगिंच्छाए । अलभंते वि य मरणे, असमाही तित्थवोच्छेदो ॥ वृ- अवमौदरिकं विज्ञायानागतमेव द्वादशभिर्वर्षे निर्गन्तव्यम् । अथ न निर्गच्छन्ति ततश्चतुर्गुरु आज्ञादयश्च दोषाः । तत्र च तिष्ठन् 'दिगिञ्छया' क्षुधा परितापितः सन्नेषणाशुद्धिं प्रेजहाति, Page #232 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं- ४६, [भा. ३११८] अथवा भक्त पानमलभमानो मरणमाप्नोति । असमाधिना च म्रियमाणो देवदुर्गतिं दुर्लभबोधिकत्वं च प्राप्नोति । एवं चान्याऽन्यसाधुषु म्रियमाणेषु तीर्थस्य व्यवच्छेदो भवति ।। यत एवमतः[भा. ३११९] ओमोदरियागमने, मग्गे असती य पंथे जयणाए । परिपुच्छिऊण गमनं, चउब्विहं रायदुदुं च ॥ २२९ वृ- अवमौदरिकायां गमने प्राप्ते पूर्वं मार्गेण गन्तव्यम्। मार्गस्याभावे पथाऽपि 'किं छिन्नोऽच्छिन्नो वाऽयं पन्थाः ?' इति परिपृच्छ्य 'यतनया' अशिवद्वारोक्तया गमनं विधेयम् । अथ राजद्विष्टद्वारम्तच्च निर्विषयादिभिर्वक्ष्यमाणभेदैश्चतुर्विधम् ।। तत्र स राजा कथं प्रद्वेषमापन्नः ? इत्याशङ्कावकाशमवलोक्येदमाह [ भा. ३१२०] ओरोहधरिसणाए, अब्भरहितसेहदिक्खणाए वा । अहिमर अनिट्ठदरिसण, वुग्गाहणया अनायारे ॥ वृ- अवरोधः - अन्तःपुरं तस्य लिङ्गस्थेन केनाप्याघर्षणा कृता, राज्ञो वाऽभ्यर्हितः - गौरविको राजा - ऽमात्यादिपुत्रः शैक्षो दीक्षितो भवेत्, साधुवेषेण वा केचिदभिमराः प्रविष्टाः, अनिष्टं वा साधुदर्शनं स्वयमेव पुरोहितप्रभृतिभिर्वा व्युद्ग्राहितो मन्यते, संयतो वा कयाचिदविरतिकया सममनाचारं प्रतिसेवमानो दृष्टः । एवमादिभि कारणैः प्रद्विष्ट इत्थं चतुर्विधं दण्डं प्रयुञ्जीत ॥ [ भा. ३१२१] निव्विसउ त्ति य पढमो, बितिओ मा देह भत्त - पानं से । ततितो उवकरणहरो, जीय चरित्तस्स वा भेतो ॥ वृ- प्रथमो राजदण्डो निर्विषयाऽऽज्ञापनलक्षणः । द्वितीयो मा भक्तपानममीषां प्रयच्छतेत्येवंलक्षणः । तृतीयः पुनरुपकरणहरः । चतुर्थो जीवितस्य चारित्रस्य वा भेदः कर्त्तव्यः ॥ एवंविधे चतुर्विधे राजद्विष्टे आज्ञातिक्रमं कुर्वाणानां प्रायश्चित्तमाह [ भा. ३१२२] गुरुगा आणालोवे, बलियतरं कुप्पे पढमए दोसो । गिण्हंत-देंतदोसा, बितिय - तिए चरिमे दुविह भेतो ॥ वृ-येन राज्ञा निर्विषया आज्ञप्तास्तदाज्ञालोपं विधाय तिष्ठतां चत्वारो गुरुकाः । अन्यच्चाज्ञातिक्रमे राजा 'बलिकतरं' गाढतरं कुपयति, एष प्रथमभेदे दोषोऽभिहितः । द्वितीयतृतीयभेदयोर्येन राज्ञा ग्राम-नगरादिषु भक्त-पानमुपकरणं वा वारितं तत्र ये साधवो गृह्णन्ति ये च गृहस्थास्तेषां प्रयच्छन्ति तेषामुभयेषामपि दोषाः - ग्रहणा - SSकर्षणादयो भवन्ति । चरमः चतुर्थो भेदः तत्र द्विविधो भेदो भवति, जीवितभेदश्चारित्रभेदश्चेत्यर्थः ॥ अथ निर्विषयाज्ञप्तानां गमनविधिमाह[भा. ३१२३] सच्छंदेण य गमनं, भिक्खे भत्तट्ठणे य वसहीए । दारे व ठितो संभति, एगट्ठ ठितो व आणावे ॥ वृ-यत्र राज्ञा भणिताः - स्वच्छन्दं गच्छन्तु भवन्तः, नाहं गच्छतां कमपि निरोधं कुर्वे; तत्र भैक्षे भक्तार्थने वसतिविषयां च सामाचारीं न परिहापयन्ति । अथ 'द्वारे' ग्रामादिप्रवेशमुखे स्थितो राजपुरुषवर्ग साधून् भिक्षागतान् निरुणद्धि 'एकत्र वा' सभा-देवकुलादौ स्थितः साधून् भोक्तुमात्मसमीपे आनाययति ततो वक्ष्यमाणां यतनां कुर्वन्तीति निर्युक्तिगाथासमासार्थः ॥ साम्प्रतमिदमेव व्यक्तीकुर्वन्नाह [भा. ३१२४] सच्छंदेण उ गमनं, सयं व सत्थेण वा विपुव्युत्तं । Page #233 -------------------------------------------------------------------------- ________________ २३० २३० वृहत्कल्प-छेदसूत्रम् -२-१/४६ तत्थुग्गमादिसुद्धं, असंथरे वा पनगहानी ।। वृ-यत्र राज्ञा स्वच्छनेदन गमनमनुज्ञातं तत्र स्वयं वा सार्थेन वा सहिता गच्छन्तः 'पूर्वोक्तम्' इहैवाशिवद्वारेओघनियुक्तीवाभणितंभैक्ष-षटकाययतनादिकंकर्त्तव्यम्।नवरंतत्रस्वच्छन्दगमने उद्गमादिशुद्धं भक्तपानं ग्राह्यम् । असंस्तरणे पञ्चकपरिहाण्या गृह्णन्ति । अथ राजा ‘मा अत्रैव जनपदे कचित् प्रदेशे निलीय स्थास्यन्ति' इति बुध्या पुरुषान् सहायान् प्रयच्छति, ततस्ते पुरुषा भणन्ति-यूयं ग्रामं प्रविश्य तत्र भिक्षामटित्वा भुक्त्वा च प्रत्यागच्छत, वयमिहैव ग्राद्वारे स्थिताः प्रतीक्षामहे; ततस्ते तत्र स्थिता यो य साधुः समागच्छति तं तथा निरुन्धते यावता सर्वेऽपि मिलिताः । अथवा ते राजपुरुषाः सभायां देवकुले वा स्थिता ब्रुवते-यूयं भिक्षामटित्वा गृहीत्वा चेह समागच्छत, अस्माकं समीपे समुद्दिशतेति । ततश्च[भा.३१२५] तिण्हेगयरे गमने, एसणमादीसु होति जतियव्वं । भत्तट्टण थंडिल्ले, असती वसहीए जं जत्थ ।। वृ-त्रयाणांप्रकाराणामेकतरस्मिन्गमने एषणायाम्आदिशब्दादुद्गमोत्पादनयोश्चयतितव्यम्। भक्तार्थनं तु द्वयोराधगमनयोर्मण्डल्यादिविधिनैव कुर्वन्ति, तृतीये तु गमने राजपुरुषसमीपे भुञानानांनमण्डल्यादिनियमः। स्थण्डिलसामाचारीतुत्रिष्वपिनहापयन्ति, राजपुरुषसमीपस्थिता वाकुरुकुचांकुर्वन्ति।यदिते ब्रवीरन्-‘अस्मत्समीपेवस्तव्यम्'ततोवसतावसत्यांयद्यत्राल्पदोषतरं कार्यं तत् तत्र कर्तव्यम् ॥ अथ प्रकारत्रयमेव व्यक्तीकुर्वनाह[भा.३१२६] सच्छंदओ य एक्तं, बितियं अन्नत्थ भोत्तिहं एह । ततिए भिक्खं घेत्तुं, इह भुंजह तीसुवी जतणा।। वृ-एकं स्वच्छन्दतगमनम्, द्वितीयं पुनरन्यत्रभुक्त्वेह समागच्छत, तृतीयं भिक्षां गृहीत्वा इह समागत्य भोजनं कुरुत, एषु त्रिष्विप भैक्षादियतना कर्तव्या ।।अत्रैव विशेषं दर्शयति[भा.३१२७] सबिइज्जए व मुंचति, आणावेत्तुं वचोल्लए देति । अम्हुग्गमाइसुद्धं, अनुसट्ठि अनिच्छे जं अंतं ॥ वृ- वाशब्दाः प्रकारान्तरोपन्यासे । कश्चिदतिप्रान्तः सद्वितीयान् साधून मुञ्चति । किमुक्तं भवति?-साधूनां भिक्षामटतां राजपुरुषान् पृष्ठतः स्थितान् हिण्डापयति, तेच यधुत्सुकायमाना अनेषणीयं ग्राहयन्ति; यदि वास राजपुरुष एकत्रस्थाने साधून निरुध्य 'चोल्लकं भोजनमानाय्य ददाति, यथा-सर्वेऽप्येतदाहारयत; ततोऽसौ वक्तव्यः-अस्माकमुद्गमादिशुद्धंग्रहीतुं कल्पते । एवमुक्तो यधुस्सङ्कलयति ततो भिक्षां हिण्डन्ते । अथ नोत्सङ्कलयति ततोऽनुशिष्टि कर्तव्या। तथापि मोक्तुमनिच्छति यत् चोलकं 'अन्त' पिण्याक-दोषान्नादि तद् गृह्णन्ति॥ [भा.३१२८] पुव्वं व उवक्खडियं, खीरादी वा अनिच्छे जं दिति। कमढग भुत्ते सण्णा, कुरुकुय दुविहेण वि दवेण ॥ वृ-अथवा चोल्लके आनीते तन्मध्याद् पूर्वमात्मार्थं तैः ‘उपस्कृतं' राद्धं क्षीर-दध्यादि वा तद् भुञ्जते । यदि पूर्वराद्धं नेच्छित प्रदातुम्, ब्रवीति च-यदहं भोजयामि भणामि वा तत् समुद्दिशत; ततःशुद्धमशुद्धं वायत्ते प्रयच्छन्तितद्भुञ्जते।तत्रचेयंयतना-कमढकेषुपरस्परंसान्तरमुपविष्टाः सन्तो भुञ्जते, भुक्तोत्तरकालं संज्ञाव्युत्सर्जनानन्तरं च प्राशुकमृत्तिकया द्रवेमच 'द्विविधेनापि' Page #234 -------------------------------------------------------------------------- ________________ an उद्देशकः १, मूलं-४६, [भा. ३१२८] २३१ सचित्ता-ऽचित्तभेदभिन्नेन संज्ञाव्युत्सर्जनानन्तरं च प्राशुकमृत्तिकया द्रवेण च 'द्विविधेनापि' सचित्ता-ऽचित्तभेदभिन्नेन कुरुकुचांकुर्वन्ति।तत्रपूर्वमचित्तेन, पश्चात् सचित्तेनापि; पूर्वमिश्रेण, पश्चाद् व्यवहारसचित्तेनेति (वा) ॥गतं निर्विषयाज्ञपनद्वारम् । अथ भक्त-पाननिवारणाद्वारं व्याचष्टे[भा.३१२९] बिइए वि होइ जयणा, भत्ते पाने अलममाणम्मि। दोसीण-तक्क-पिंडी, एसणमादीसु जतितव्वं ॥ वृ-द्वितीयेऽपि राजद्विष्टे भक्त-पानेऽलभ्यमानेइयंयतनाभवति-यावदद्यापिजनोनसञ्चरति तावत् प्रत्यूषेवेलायां दोषान्नं तवं च गृह्णन्ति, पिण्याकपिण्डिकां वायसपिण्डिकां वा गृह्णन्ति, ततः पञ्चकपरिहाणिक्रमेणएषणादिषु यतितव्यम् ॥ केषु पुनस्तद् गृह्यते ? इत्याह[भा.३१३०] पुराणादिं पन्नवेडे, निसि पि गीतत्थे होति गहणंतु। अग्गीते दिवा गहणं, सुण्णघरे वा इमेहिं वा ।। वृ-पुराणं वा श्रावकंवा साधुसामाचारीकुशलं प्रज्ञाप्य यदि सर्वेऽपिगीतार्थास्ततः 'निश्यपि' रात्रावपिग्रहणं कुर्वन्ति। अगीतार्थमिश्रेषुतुपुराणादिप्रज्ञापितः सन्शून्यगृहे वाशब्दादवकुलादौ बलिनिवेदनलक्ष्येण पौद्गलिकादिकं स्थापयति तस्य दिवा ग्रहणं कर्तव्यम् । एतेषु वा स्थानेषु स्थापितं गृह्णन्ति ॥ तान्येवाह[भा.३१३१] उंबर कोटिंबेसु व, देवउले वा निवेदनं रन्नो। कतकरणे करणं वा, असती नंदी दुविहदव्वे ॥ वृ-देवकुलादिषुये उदुम्बरास्तेष्वनिकालक्ष्येणोपढौकितं कूरादिकंगृह्णन्ति।कोट्टिम्बानामयत्र गोभक्तं दीयते तत्र गोभक्तलक्ष्येण स्थापितं गृह्णन्ति । अरण्ये वा यद् देवकुलं तत्र बलिनिवेदनं गृहणन्ति । राजानं च सदैव स्वयं परेण वा भणन्तो भाणयन्तश्च तिष्ठति (न्ति), यदि राजा बहुभिरप्युपायैरुपशम्यमानोऽपि नोपशाम्यति ततो यः संयतः ‘कृतकरणः' इषुशास्त्रेकृताभ्यासः सहयोधी वास करणंकरोति, तंराजानंबद्धवा शास्तीत्यर्थः। विद्याबलेन वा वैक्रियलब्धिसम्पन्नो वाविष्णुकुमारादिरिवतस्यशिक्षांकरोति। “असई"त्तियदा कृतकरणादयोनप्राप्यन्ते तदाऽध्वानं गच्छभि नन्दि' प्रमोदोयेनद्रव्येण गृहीतेन स्यात्त द्विविधमपिग्रहीतव्यम्तद्यथा-प्राशुकमप्राशुकं वा, परीत्तमनन्तं वा, परिवासितमपरिवासितं वा, एषणीयमनेषणीयं वेति ॥ गतं भक्तपानप्रतिषेधद्वारम् । अथोपकरणहरद्वारं व्याख्यानयति[भा.३१३२] तइए विहोति जतण, वत्थेपादे अलब्भमाणम्मि। उच्छुद्ध विप्पइण्णे, एसणमादीसु जतितव्वं ।। वृ-'तृतीयं राजद्विष्टं नाम' यत्र राज्ञा प्रतिषिद्धम्-'माऽमीषां वस्त्रं पात्रं वा कोऽपि दद्याद् अपहर्त्तव्यं वा; तत्र वस्त्रे वा पात्रे वाअलभ्यमाने यतना कर्तव्या। कथम्? इत्याह-देवकुलादिषु कार्पटिकैर्यद् वस्त्रादिकम् ‘उच्छुद्धं' परित्यक्तं यच्च ‘विप्रकीर्णम्' उत्कुरुटिकादिस्थापितं तद् गृह्णन्ति । एषमादिदोषेषु वा यतितव्यम्, वस्त्रग्रहणे पञ्चकपरिहाण्या यतना कर्तव्येति ॥ [भा.३१३३] हियसेसगाण असती, तण अगनी सिक्कगा व वागावा। पेहुण-चम्मरगहणं, भत्तं तु पलास पाणिसुवा ।। Page #235 -------------------------------------------------------------------------- ________________ २३२ बृहत्कल्प-छेदसूत्रम् -२-१/४६ वृ- राज्ञा साधूनामुपकरणानि हृतानि, ततः तच्छेषाणां-तदुद्धरितानामभावः संवृत्तः किञ्चिदप्यवशिष्यमाणं नास्तीति भावः । ततः शीताभिभूताः सन्तस्तृणानि गृह्णन्ति अग्नि वा सेवन्ते । पात्रकबन्धाभावे सिक्केकानि, प्रावरणाभावे तु शणादिवल्कानि गृह्णन्ति । “पेहुणं" ति मयूराङ्गमयी पिच्छिका रजोहरणस्थाने कर्तव्या । चर्मणो वा प्रस्तरण-प्रावरणार्थं ग्रहण कार्यम्। भक्तं तु पलाशपत्रादिषु, तेषामभावे पाणिष्वपि गृह्णीयाद्वा भुशीत वा ।। [भा.३१३४] असई यलिंगकरणं, पन्नवणट्ठा सयंव गहणट्ठा। आगाढे कारणम्मिं, जहेव हंसादिणं गहणं ।। वृ-यदि राजा खलिङ्गेनोपशाम्यमानोऽपि नोपशाम्यति, उपकरणं वास्वलिङ्गेन मृग्यमाणं न लभ्यते, ततः परलिङ्गं कुर्वन्ति । किमर्थम् ? इत्याह-प्रज्ञापनार्थं स्वयं वा ग्रहणार्थम् । किमुक्तं भवति ? -बौद्धादिना राज्ञोऽनुमतेन परलिङ्गेन स्थिताः स्वसमय-परसमयवेदिनो वृषभायुक्तियुक्तैर्वचोभिस्तं राजानं प्रज्ञापयन्ति, तेन वा परलिङ्गेन स्थिता उपकरणं स्वयमेवोत्पादयन्ति । ईशेआगाढेकारणेयथैव हंसतैलादीनांग्रहणंतथावस्त्र-पात्रादेरप्यवस्वापन-तालोद्घाटनादिप्रयोगः कर्तव्यमिति ।। गतमुपकरणहरद्वारम् । अथ जीवित-चारित्रभेदद्वारं भावयति[भा.३१३५] दुविहम्मि भेरवम्मिं, विज निमित्ते य चुण्ण देवी य। सेडिम्मि अमच्चम्मि य, एसणमादीसु जतितव्वं ॥ वृ-'द्विविधे' जीवित-चारित्रव्यपरोपणात्मके भैरवे समुत्पन्ने तं राजानं विद्यया निमित्तेन वा चूर्णैर्मा वशीकुर्यात्, या वा देवी तस्य राज्ञा इष्टा सा विद्याभिरावर्तयते । एवमप्यनुपशान्तौ श्रेष्ठिनममात्यं वा उपलक्षणत्वात्पाषण्डिगणं वा प्रज्ञापयन्ति, ततस्तदारेणोपशमयन्ति । अथवा यावद् नृपतिमुपशमयन्ति तावत् श्रेष्ठिनोऽमात्यस्य वाअवग्रहे तिष्ठन्ति । एषणादिषुच प्राग्वदेव यतितव्यम् ॥ [भा.३१३६] आगाढे अन्नलिंगं, कालक्खेवो व होति गमनं वा। कयकरणे करणं वा, पच्छादण थावरादीसु ।। वृ-आगाढे राजद्विष्टेऽन्यलिङ्ग विधायाज्ञायमानस्तत्रैव कालक्षेपः कर्त्तव्यः विषयान्तरगमनं वा कर्तव्यम्।योवा कृतकरणःस करणं करोति, विष्णुकुमारादिरिव नृपतेः शिक्षांकरोतीत्यर्थः। अथ तदपि नास्ति ततः स्थावराः-वृक्षास्तेषां गहनेषु आदिशब्दात् पद्मसरःप्रभृतिषु वा आत्मानं प्रच्छाद्य दिवा निलीना आसते रात्रौ च व्रजन्ति । गतं राजद्विष्टद्वारम् । अथ भयादिद्वाराणि युगपदाह[भा.३१३७] बोहिय-मिच्छादिभए, एमेव य गम्ममाण जतणाए। दोण्हऽट्ठा व गिलाणे, नाणादट्ठा व गम्मते॥ वृ-बोधिकाः-मालवस्तेनाः, म्लेच्छाः-पारसीकादयः, तदादीनांभये समुपस्थितेशीघ्रं देशान्तरं गन्तव्यम् । तत्र च गम्यमाने 'एवमेव' अशिवादिद्वारवद् भैक्षादिकं यतनया कर्तवम् । आगाढं गन्तव्यम् ।ग्लानत्वेवा द्वयोराय गम्यते, वैद्यस्यौषधानांचहेतोरित्यर्थः। उत्तमार्थे तुनिर्यापणार्थं प्रतिचरको गच्छेत् । उत्तमार्थं प्रतिपित्सु विशोधिकरणार्थं गीतार्थसमीपं गच्छेत् । ज्ञान-दर्शन Page #236 -------------------------------------------------------------------------- ________________ उद्देश : १, मूलं - ४६, [भा. ३१३७] २३३ चारित्रार्थं वा गन्तव्यम् । एतैः कारणैर्गम्यमाने पूर्वं मार्गेण पश्चादच्छिन्नेन च्छिन्नेन वा पथाऽपि गन्तव्यम् । अत्र यतनामाह [भा. ३१३८] एपागन्नं च सता, वीसं चऽद्धाणनिग्गमा नेया । एत्तो एक्क्कम्मिय, सतग्गसो होइ जतणाओ ॥ वृ-सार्थपञ्चकेन कालोत्थायिप्रभृतिमिश्चतुर्भिः सार्थवाहैरष्टभिश्चादियात्रिकैरेकपञ्चाशच्छतानि विंशत्यधिकानि अध्वनिर्गमप्रकारा भवन्ति । एते च प्राक् सप्रपञ्चं भाविताः । एतेषु भङ्गकेष्वेकैकस्मिन् भङ्गकेऽ शिवादिकारणेऽध्वनि गच्छतां शताग्रशः प्रागुक्तनीत्या यतना भवन्ति ॥ मू. (४७) संखडिं वा संखडियपडिया इत्तए । वृ- अथास्य सूत्रस्य कः सम्बन्धः ? इत्याह [ भा. ३१३९] दुविहाऽवाता उ विहे, वुत्ता ते होज्ज संखडीए तु । तत्थ दिया विन कप्पति, किमु रातिं एस संबंधो ॥ वृ- 'विहे' अध्वनि गच्छतां संयमा-ऽऽत्मविराधनाभेदाद् द्विविधाः प्रत्यपाया उक्ताः । सङ्घड्यामपि गच्छतांत एव प्रत्यपाया भवेयुः । अतस्तत्र दिवाऽपि गन्तुं न कल्पते किमुत रात्रौ ? एष सम्बन्धः ।। अनेन सम्बन्धेनायातस्यास्य व्याख्या - "संखडिं वा ” इति वाशब्दाद् “न कल्पते” इत्यादिपदान्यनुवर्त्तनीयानि । तद्यथा- न केवलमध्वानं रात्रौ वा विकाले वा गन्तुं न कल्पते, किन्तु सङ्घडिमपि रात्री वा विकाले वा सङ्घडिप्रतिज्ञया 'एतुं' गन्तुं न कल्पते । एष सूत्रसङ्क्षेपार्थः ॥ अथ भाष्यकारो विस्तरार्थं बिभणिषुराह [भा. ३१४०] संखंडिजंति जहिं, आऊणि जियाण संखडी स खलु । तप्पडिता न कप्पति, अन्नत्थ गते सिया गमणं । वृ- सम्-इति सामस्त्येन खण्डयन्ते - त्रोटयन्ते, 'जीवानां' वनस्पतिप्रभृतीनामायूंषि प्राचुर्येण 'यत्र' प्रकरणविशेषे सा खलु सङ्घडिरित्युच्यते, “स्वरेभ्य इः" इत्यौणादिक इप्रत्ययः, पृषोदरादित्वादनुस्वारलोपः, तां सङ्घडिं 'तत्प्रतिज्ञया' 'सङ्घडिमहं गमिष्यामि इत्येवंलक्षणया गन्तुं न कल्पते। एवं ब्रुवता सूत्रेणेदं सूचितम् -'अन्यार्थम्' अपरकार्यनिमित्तं सङ्घडिग्रामं गतस्य सङ्घड्यामपि गमनं स्यादिति । अथात्रैव प्रायश्चित्तमाह [ भा. ३१४१ ] राओ व दिवसतो वा, संखडिगमणे हवंतऽनुग्घाया । संखड एगमनेगा, दिवसेहि तहेव पुरिसेहिं ॥ वृ-रात्रौ वा दिवसतो वा सङ्घड्यां सङ्घडिग्राममुद्दिश्य गमने चत्वारोऽनुद्धाताः प्रायश्चित्तम् । सा च सङ्घडी दिवसैः पुरुषैश्चैका अनेका च भवति ॥ इदमेव स्पष्टयतिएगो एगदिवसियं, एगो ऽनेगाहियं व कुज्जाहि । नेगा व एगदिवसिं, नेगा व अनेगदिवसं तु ॥ [भा. ३१४२ ] वृ- एकपुरुष एकदैवसिकीं सङ्खडीं कुर्यात्, एकः 'अनेकाहिकाम्' अनेकदैवसिकीम्, अनेके पुरुषाः सम्भूयैकदैवसिकीम्, अनेके पुरुषा अनेकदैवसिकीं सङ्घडीं कुर्वन्ति ॥ एक्केक्का सा दुविहा, पुरसंखडि पच्छसंखडी चेव । पुव्वा ऽवरसूरम्मिं, अहवा वि दिसाविभागेणं ॥ [भा. ३१४३] Page #237 -------------------------------------------------------------------------- ________________ २३४ बृहत्कल्प-छेदसूत्रम् -२-१/४७ वृ-'एकैका' एकदैवसिकी अनेकदैवसिकीच 'सा' सङ्खडि प्रत्येकंद्विधा-पुरःसङ्खडीपश्चात्सङ्खडी चीया पूर्वसूर्ये पूर्वदिग्विभागमध्यासीनेरवौक्रियतेसापुरःसङ्खडी, या पुनरपरसूर्येसा पश्चात्सङ्घडी। अथवा दिग्विभागेनानयोः पुरः-पश्चाद्विभागो विज्ञेयः-या विवक्षितग्रामादेः सकाशात् पूर्वस्यां दिशि भवति सा पूर्वसङ्खडी, या तु तस्यैवापरस्यां दिशि सा पश्चात्सङ्खडी । अत्र प्रायश्चित्तमाह[भा.३१४४] दुविहाए विचउगुरू, विसेसिया भिक्खुमादिणं गमने। गुरुगादि व जा सपदं, पुरिसेगा-ऽनेग-दिन-रातो॥ वृ-द्विविधायामप्यनन्तरोक्तायां सङ्खड्यां गमने चतुर्गुरुकाः । एते च भिक्षुप्रभृतीनां तपःकालविशेषिताः-भिक्षोस्तपसा कालेन च लघवः, वृषभस्य तपसा लघवः, उपाध्यायस्य कालेन लघवः, आचार्यस्य तपसा कालेन च गुरवः । अथवा चतुर्गुरुकमादौ कृत्वा एकानेकपुरुषकृतैकानेकदैवसिकसङ्खडीषुरात्री गच्छतः स्वपदं छेदादिकंयावन्नेतव्यम् । तद्यथा-भिक्षुरेकपुरुषकृतामेकदैवसिकी सङ्खडी व्रजति चतुर्गुरवः, एकपुरुषकृतानेकदैवसिक्यां षड्लघवः, अनेकपुरुषकृतायामेकदैवसिक्यां षड्गुरवः, अनेकपुरुषकृतानेकदैवसिक्यां छेदः । एवं भिक्षुविषयमुक्तम् । वृषभस्य षड्लघुकादारब्धं मूले, उपाध्यायस्य षड्गुरुकादारब्धमनवस्थाप्ये, आचार्यस्य च्छेदादारब्धं पाराञ्चिके निष्ठामुपयाति ।। प्रकारान्तरेण प्रायश्चित्तमेवाह[भा.३१४५] आयरियगमने गुरुगा, वसभाण अवारणम्मि चउलहुगा। दोण्ह विदोन्नि वि गुरुगा, वसभ बला तेतरे सुद्धा ।। वृ-आचार्यस्य “सङ्खड्यां गच्छामः' इति ब्रुवाणस्य चत्वारो गुरवः । तमेवंब्रुवाणं वृषभा न वारयन्ति चतुर्लघुकाः । अथाचार्येण सङ्घडीं व्रजामः' इत्युक्ते वृषभा अपि 'व्रजामः' इति भणन्ति ततः 'द्वयोरपि वृषभा-ऽऽचार्ययोर्ये चत्वारो मासास्ते द्वयेऽपि गुरुकाः कर्तव्याः, वृषभाणामपि चतुर्गुरुका भवन्तीति भावः । अथ वृषभैारिता अप्याचार्या बलामोटिकया गच्छन्ति ततः 'ते' आचार्या प्रायश्चित्ते लग्नाः, 'इतरे' वृषभास्ते 'शुद्धाः' न प्रायश्चित्तभाज इति॥ [भा.३१४६] सव्वेसि गमने गुरुगा, आयरियअवारणे भवे गुरुगा। . वसभे गीता-ऽगीए, लहुगा गुरुगोयलहुगोय॥ वृ-यदि सर्वेऽपि साधवो भणन्ति “सङ्खड्यां गच्छामः' इति ततस्तेषां चत्वारो गुरुकाः । आचार्यास्तान वारयति चतुर्गुरवः । वृषभो न वारयति चतुर्लघवः । गीतार्थो भिक्षुर्न वारयति गुरुको मासः। अगीतार्थो न वारयति लघुको मासः॥। [भा.३१४७] एगस्स अनेगाणव, छंदेन पहाविया तु ते संता। वत्तमवत्तं सोचा, नियत्तणे होंति चउगुरुगा। वृ- 'एकस्य' आचायदिः 'अनेकेषां वा' बहूनां 'छन्देन' अभिप्रायेण 'ते' सङ्खड्या उपरि प्रधाविताः सन्तोवृत्तामवृत्तां वा सङ्खडीं श्रुत्वा यदि निवर्तन्ते ततश्चतुर्गुरुका भवन्ति ॥ इदमेव भावयति[भा.३१४८] वेलाए दिवसेहि व, वत्तमवत्तं निसम्म पञ्चेति । होहिइ अमुगं दिवसं, सा पुन अन्नम्मि पक्खम्मि। वृ-वेलया दिवसैर्वा प्रतिनियतां सङ्घडीं श्रुत्वा प्रस्थिताः, गच्छद्भिश्चापान्तराले श्रुतम्, यथा Page #238 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं-४७, [भा. ३१४८ ] २३५ सासवडी 'वृत्ता' समाप्ता 'अवृत्तावा' अन्यस्यां वेलायामन्यस्मिन् दिवसे भाविनी; एवं वृत्तामवृत्तां वा 'निशम्य' श्रुत्वा 'प्रत्यायान्ति' प्रतिनिवर्त्तन्ते । तत्र वेलामङ्गीकृत्य यथा कैश्चिदपि साधुभिः श्रुतम् - अद्यामुकगृहे पूर्वाह्णवेलायां सङ्घडी भविष्यति; ततस्ते पात्राण्युद्ग्राह्य तस्यां गन्तुं प्रस्थिताः, अपान्तराले च तैः श्रुतम्, यथा - अतिक्रान्ता सा सङ्घडी । एवमपराह्णवेलाभाविनीं सङ्घडीं श्रुत्वा प्रस्थिताः, अपान्तराले चाकर्णितम्, यथा- नाद्यापि तत्र वेला; एवं श्रुत्वा प्रतिनिवर्त्तन्ते । दिवसमधिकृत्य पुनरित्थम्- “होहिइ" इत्यादि पश्चार्द्धम् । कचिद् ग्रामे स्थितैः श्रुतम्-अमुकग्रामे 'अमुकदिवसे' पञ्चमीप्रभृतिके सङ्घडिर्भविष्यति; इत्याकर्ण्य ते तं ग्रामं प्रस्थिताः, तत्र च गच्छद्भिरन्तरा श्रुतम्, यथा-वृत्ता सा सवडी भविष्यति वा । कथम् ? इत्याह-“सा पुन अन्नम्मि पक्खम्मि' ति यस्यां पञ्चम्यां भाविनी सङ्घडी साधुभिः श्रुता सा पुनः 'अन्यस्मिन्' अतीतेऽनागते वा पक्षे भता वा भविष्यति वा, न तत्पक्षवर्तिनीति भावः ॥ अथ सङ्घडी कथं कुत्र वा भवति ? इत्युच्यते [भा. ३१४९] आदेसो सेलपुरे, आदानऽट्ठाहियाए महिमाए । तोसलिविसए विन्नवणट्ठा तह होति गमणं वा ॥ वृ- 'आदेशः' सङ्घडिविषये दृष्टान्तोऽयम्-तोसलिविषये शैलपुरे नगरे ऋ षितडागं नाम सरः । वर्षे वर्षे भूयान् लोकोऽष्टाहिकामहिमां करोति । तत्रोत्कृष्टावगाहिमादिद्रव्यस्यादानं ग्रहणं तदर्थं कोऽपि लुब्धो गन्तुमिच्छति । ततः स गुरूणां विज्ञपनां सङ्घडिगमनार्थं करोति । आचार्या वारयन्ति । तथापि यदि गमनं करोति ततस्तस्य प्रायश्चित्तं दोषाश्च वक्तव्या इति पुरातनगाथासमासार्थः ॥ अथैनामेव विवणोति [भा. ३१५० ] सेलपुरे इसितलागम्मि होति अट्ठाहिया महामहिमा । कोंडलमेंढ पभासे, अब्बुय पादीणवाहम्मि || 'वृ-तोसलिदेशे शैलपुरे नगरे ऋषितडागे सरसि प्रतिवर्षं महता विच्छर्देनाऽष्टाहिंकामहामहिमा भवति । तथा कुण्डलमेण्ठनाम्नो वानमन्तरस्य यात्रायां भरुकच्छपरिसरवर्ती भूयान् लोकः सङ्घडिं करोति । प्रभासे वा तीर्थे अर्बुदे वा पर्वते यात्रायां सङ्घडि क्रियते । 'प्राचीनवाहः' सरस्वत्याः सम्बन्धीपूर्वदिगभिमुखः प्रवाहः, तत्राऽऽनन्दपुरवास्तव्यो लोको गत्वा यथाविभवं शरदि सङ्घडिं करोति ।। एवमादिषु सङ्घडीषु कोऽप्युत्कृष्टद्रव्यलुब्धो गुरून् सङ्घडिगमनार्थं विज्ञपयति । गुरवो ब्रुवते - आर्य! न कल्पते सङ्घडिं गन्तुम्, ततोऽसौ मायया ब्रवीति [भा. ३१५१] अत्थिय में पुव्वदिट्ठा, चिरदिट्ठा ते अवस्स दट्ठव्वा । मायागमने गुरुगो, तहेव गामाणुगामम्मि ॥ वृ- सन्ति मे तत्र ग्रामे 'पूर्वष्टाः' पूर्वपरिचिताः सुहृदादयः, ते च 'चिरद्दष्टाः' प्रभूतकालस्तेषां मिलितानमभवदिति भावः, अत इदानीमवश्यं द्रष्टव्यास्ते मया । एवं मायया गुरूनापृच्छय यदि गच्छति तदा गुरुको मासः । ग्रामानुग्रामेऽपि विहरतां सङ्घडिं श्रुत्वा गच्छतां तथैव मासगुरुकम्॥ इदमेव व्याचष्टे[भा. ३१५२] गामानुगामियं वा, रीयंता सोउ संखडिं तुरियं । छडेंति व सति काले, गामं तेसिं पि दोसा उ ।। Page #239 -------------------------------------------------------------------------- ________________ २३६ बृहत्कल्प-छेदसूत्रम् -२-१/४७ वृ- ग्रामानुग्रामिकं वा 'रीयमाणाः' विहरन्तः क्वापि ग्रामे सङ्घडिं श्रुत्वा ये त्वरितं गच्छन्ति; सति वा भिक्षाकाले तं ग्रामं परित्यजन्ति, परित्यज्य च सङ्घडिग्रामं गच्छन्ति, तेषामपि 'दोषाः' वक्ष्यमाणा भवन्ति ॥ [ भा. ३१५३ ] गंतुमणा अन्नदिसिं, अन्नदिसि वयंति संखडिनिमित्तं । मूलग्गामे व अडं, पडिवसभं गच्छति तदट्ठा ॥ वृ- भिक्षाचर्यायामन्यस्यां दिशि गन्तुमनसः सङ्घडिं श्रुत्वा तन्निमित्तमन्यस्यां दिशि व्रजन्ति । मूलग्रामे वा अटन् सङ्घडिमाकर्ण्य प्रतिवृषभग्रामे 'तदर्थं' सङ्घडिहेतोर्गच्छति ।। एतेषु सर्वेष्वपि गमनप्रकारेषु दोषानुपदिदर्शयिषुराह [भा. ३१५४ ] एगाहि अनेगाहिं, दिया व रातो व गंतु पडिसिद्धं । आणादि य दोसा, विराधना पंथि पत्ते य ॥ वृ- एकाहिकीमनेकाहिकीं वा तां सवडीं गन्तुं दिवा रात्रौ वा प्रतिषिद्धां यदि गच्छति तत आज्ञादयो दोषाः, विराधना च संयमा-ऽऽत्मविषया पथि वर्त्तमानानां तत्र प्राप्तानां च भवति ॥ तत्र पथि वर्त्तमानानां तावद् दोषानभिधित्सुराह भा (३१५५ ] मिच्छत्ते उड्डाहो, विराधना होति संजमाऽऽयाए । रीयादि संजमम्मिय, छक्काय अचक्खुविसयम्मि ।। वृ- सङ्घडिं गच्छतः साधून् ध्ष्ट्वा यथाभद्रकादयो मिथ्यात्वे स्थिरतरीभवेयुः, उड्डाहो वा भवेत्। तथा संयमा-ऽऽत्मविराधना भवति । तत्र संयमविराधना भाव्यते-'मा सङ्घडिदिवसो व्यतिक्रामतु' इति कृत्वा रात्रौ गच्छन् ईर्यादिसमितीर्न शोधयति । अचक्षुर्विषये च गच्छतां षट्कायविराधना । आत्मविराधना तु पुरस्ताद् वक्ष्यते ॥ अथ मिथ्यात्वोड्डाहद्वारे व्याचष्टे - जीहादोसनियत्ता, वयंति लहेहि तज्जिया भोजे । [भा. ३१५६ ] थिरकरणं मिच्छत्ते, तप्पक्खियखोभणा चैव ॥ वृ-लोको ब्रूयात्- अहो ! अमी श्रमणाः 'जिह्वादषनिवृत्ताः' रसगृद्धिरहिता अपि 'रूक्षैः' वल्लचणकादिभिराहारैस्तर्जिताः सन्तः सम्प्रति 'भोज्यार्थं ' सङ्घडिहेतोर्गच्छन्ति इत्युड्डाहो भवेत् । तथा यथैतदमीषामसत्यं तथा अन्यदपि मिथ्या प्रलपितमिति मिथ्यात्वे स्थिरीकरणं भवति । ये च तत्पाक्षिकाः-साधुपक्षबहुमानिनः श्रावकास्तेषां क्षोभना-मिथ्यादृष्टिभिः सम्यक्त्वाच्चालना भवति ।। अथाऽऽत्मविराधनामाह [भा. ३१५७] वाले तेने तह सावते य विसमे य खाणु कंटे य । अकमहाभयं आतसमुत्थं रत्तेमादी भवे दोसा ।। वृ- रात्रौ सङ्घडिगमने 'व्यालः' सर्पस्तेन दश्येत, स्तेनैरुपकरणमपहियेत, 'श्वापदैः ' सिंहादिभिरुपद्रूयेत्, ‘विषमेच' निम्नोन्नते प्रपतेत्, स्थाणुना वा कण्टकेन वा विध्येत, अकस्माद्भयं चात्मसमुत्थं भवति । रात्रावेवमादयो दोषा भवेयुः ॥ एवं तावत् पथि गच्छतां दोषा अभिहिताः । अथ तत्र प्राप्तानामाह[भा. ३१५८] वसहीए जे दोसा, परउत्थियतज्जणा य बिलधम्मो । आतोज्ज-गीतसद्दे, इत्थीसद्दे य सविकारे ॥ Page #240 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं-४७, [भा. ३१५८] २३७ वृ-वसतेः सम्बन्धिनो ये आधाकर्मादयो दोषास्तेषु लगन्ति । परतीर्थिकाश्च तत्र गतानां तर्जनां कुर्वन्ति । 'बिलधर्मो नाम' एकस्यामेव वसतौ गृहस्थैः समं संवर्त्तयैकत्रावस्थानम्, तत्रासबडं स्यात् । तत्र च सङ्खड्यामातोद्य-गीतशब्दाद्यान् स्त्रीशब्दांश्च सविकारान् श्रुत्वा चशब्दादविरतिका अलङ्कृता दृष्ट्वा स्मृतिकरणादयो दोषा इति द्वारगाथासमासार्थः ॥ साम्प्रतमेनामेव विवृणोति[ मा. ३१५९ ] आहाकम्मियमादी, मंडवमादीसु होति अणुमन्ना । रुक्खे अमावासे, उवरिं दोसे परूवेस्सं ॥ वृ सङ्खडीकर्ता दानश्राद्धो यथाभद्रको वा साधूनां निमित्तमाधाकर्मिकान् मण्डपान् कारयेत्, आदिशब्दाद् यावन्तिकादिपरिग्रहः । तेषु मण्डपेषु आदिशब्दात् पटकुटीप्रभृतिषु च तिष्ठतामनुमतिदोषः प्राप्नोति । अथैतद्दोषभयान तत्र तिष्ठन्ति ततोऽन्यत्र वसतिमलभमाना वृक्ष मूलेऽभ्रावकाशे वा वसन्ति । तत्र च वसतां ये दोषास्तानुपरिष्टादस्मिन्नेव सूत्रे प्ररूपयिष्यामि ॥ परतीर्थिकतर्जनाद्वारमाह [भा. ३१६०] इंदियमुंडे मा किंचि बेह मा ने इहेज्ज सावेगं । हा- सोयादीसु य, असंखडं हेउवादो य ॥ वृ-ये तत्र सङ्घडीं श्रुत्वा शाक्य-भौत-भागवतादयः परतीर्थिकाः समायातास्ते साधून् तर्जयन्त इत्थं ब्रुवते - इन्द्रियमुण्डा अमी सङ्घडिप्राप्ताः श्रमणाः, 'मा किञ्चिदमून् ब्रूत' न किमप्यमीषां सम्मुखं विरूपकं भाषणीयम्, मा “ने” युष्मान् अमी तपस्विन आक्रुष्टाः सन्तः शापेन दहेयुः । एवं तर्जनामसहमाना अपरिणतास्तैः सहासङ्घडं कुर्युः । तथा प्रेक्षा - प्रत्युपेक्षणा तां कुर्वतो दृष्ट्वा शौचं वा स्वल्पकलुषादिना पानकेन विधीयमानं दृष्ट्वा आदिशब्दात् संयतभाषया भाषमाणान् श्रुत्वा परतीर्थिका उड्डञ्चकान् कुर्वन्ति, तत्र तथैवासङ्घडं भवेत् । हेतुना वा ते परतीर्थिका वादं मार्गयेयुः । यदि दीयते ततस्तेषामात्मनो वा पराजये यथाक्रमं प्रद्वेषगमन-प्रवचनलाघवादयो दोषाः । अथ न दीयते ततस्ते लोकसमक्षवर्णवादं कुर्यु-बठरशिरः शिखरा एते न किमपि जानन्तीत्यादि ॥ बिलधर्मद्वारमाह [ भा. ३१६१] भिंगारेण न दिन्ना, न य तुज्झं पेतिगी सभा एसा । अतिबहुओ ओवासो, गहितो णु तुए कलहो एवं ॥ वृ- साधारणे सभादौ पिण्डीभूय साधवो गृहस्थाश्च यदेकत्रावतिष्ठन्ते स बिलधर्मः । तेन वसतां साधुभिः परभूतेऽवकाशे मालिते सति गृहस्था ब्रुवते भो श्रमण ! एषा सभा तुभ्यं न भृङ्गारेण दत्ता, उदकेन न कल्पितेति भावः; न च तवेयं 'पैतृकी' पितृपरम्परागता, अतः किन्नु नाम अतिबहुकोऽवकाशस्त्वया गृहीतः ? एवं कलहो भवति ॥ [ भा. ३१६२] तत्थ य अतिंत नेतो, संविट्ठो वा छिवेज्ज इत्थीओ। इच्छमनिच्छे दोसा, भुत्तमभुत्ते य फासादी ॥ वृ- 'तत्र च ' सभादौ कोऽपि साधुरतिगच्छन् निर्गच्छन् वा समुपविष्टो वा स्त्रीः स्पृशेत् तत आत्मपरोभयसमुत्था दोषाः । तत्र च यदि तामविरतिकां प्रतिसेवितुमिच्छति तदा संयमविराधना । अथ नेच्छति ततः सा उड्डाहं कुर्यात् । स्त्रीणांच स्पर्शादिषु तथा आतोद्य-गीतशब्दान् स्त्रीसम्बन्धिनश्च हसित - कूजितादिशब्दान् श्रुत्वा भुक्ता-भुक्तसमुत्था दोषाः । भूयोऽपि दोषदर्शनार्थमाह Page #241 -------------------------------------------------------------------------- ________________ बृहत्कल्प-छेदसूत्रम् -२-१/४७ २३८ [भा. ३१६३ ] आवासग सज्झाए, पडिलेहण भुंजणे य भासाए । वीयारे गेलणे, जा जहि आरोवणा भणिया || वृ- आवश्यके 9 स्वाध्याये २ प्रत्युपेक्षणायां ३ भोजने ४ च भाषायां ५ विचारे ६ ग्लानत्वे च ७ या यत्रारोपणा भणिता सा तत्र ज्ञातव्येति द्वारगाथासमासार्थः ॥ साम्प्रतमेनामेव प्रतिपदं विवृणोति [भा. ३१६४ ] आवासगं तत्थ करेंति दोसा, सज्झाय एमेव य पेहणम्मि । उडुंच वारेंतमवारणे य, आरोवणा तानि अकुव्वओ जा ॥ वृ- 'तत्र' सभादौ गृहस्थैः सह वसन्तो यद्यावश्यकं स्वाध्यायं वा कुर्वन्ति तदा ते कर्णाघाटकेनागमयन्ति उड्डुञ्चकान् वा कुर्वन्ति, एवमादयो दोषाः । प्रत्युपेक्षणायामपि 'एवमेव' उड्डुञ्चकान् कुर्वन्ति । यदि वार्यन्ते तदा साधुभि सहासङ्घडं कुर्यु । अथन वार्यन्ते ततो भगवत्प्रवचनस्य भक्ति कृता न स्यात् । अथैतद्दोषभयादावश्यकादीनि न कुर्वन्ति ततस्तान्यकुर्वतो या काचिदारोपणा सा द्रष्टव्या । तद्यथा-कायोत्सर्गं न करोति, वन्दनकं न ददाति, स्तुतिप्रदानं न करोति, सूत्रपौरुषीं न करोति, सर्वेष्वपि मासलघु । अर्थपौरुषीं न करोति मासगुरु । जघन्यमुपधिं न प्रत्युपेक्षते रात्रिन्दिवपञ्चक् । मध्यमं न प्रत्युपेक्षते मासलघु । उत्कृष्टंन प्रत्युपेक्षते चतुर्लघु ।। व्याख्यातमावश्यकस्वाध्याय-प्रत्युपेक्षणालक्षणं द्वारत्रयम् । अथ भोजनभाषाद्वारे विवृणोति [भा.३१६५] जं मंडलिं भंजई तत्थ मासो, गारत्थिभासासु य एवमेव । चत्तारि मासा खलु मंडलीए, उड्डाहो भासासमिए वि एवं ॥ वृ- भोजनं कुर्वन् सागारिकमिति मत्वा यद् मण्डलीं भनक्ति तत्र मासलघु । अगारस्थभाषासु च भाष्यमाणासु 'एवमेव' मासलघु । अथैतव्प्रायश्चित्तभयाद् मण्डल्यां समुद्दिशन्ति तदा चत्वारो मासा लघवः, 'उड्डाहश्च' प्रवचोपघातो मण्डल्यां समुद्देशने भवति । एवं भाषासमितेऽपि मन्तव्यम्, संयतभाषया भाषमाणस्य चत्वारो लघुमासा भवन्तीति भावः ॥ अथ विचारद्वारं विवृणोति [भा. ३१६६] थोवे घणे गंधजुते अभावे, दवस्स वीयारगताण दोसा । वायसंलोगगया य दोसा करेंतऽकुव्वं परितावणादी ॥ वृ-विचारभूमौ गतानां 'स्तोके' स्वल्पे 'घने' कलुषे 'गन्धयुते' दुर्गन्धिनि द्रवेऽभावे वा सर्वथैव द्रवस्य 'दोषाः' अवर्णवाद - भक्तपानप्रतिषेधादयो भवन्ति । तथा पुरुषादीनामापाते संलोके वा संज्ञां कायिकीं वा कुर्वन्ति तदा तद्गता दोषा यथां पीठिकायां विचारकल्पिकद्वारे उक्तास्तथा द्रष्टव्याः । अथैतद्दोषभयात् कायिकीं वा संज्ञां वा न करोति किन्तु धारयति तदा परितापनामहादुःख-मूर्च्छादयो दोषाः ।। अथ ग्लानद्वारं व्याख्याति [भा.३१६७] गिलाणतो तत्थऽतिभुंजणेण, उच्चारमादीण वा सन्निरोधा । अगुत्तसिज्जा व सन्निवासा, उड्डाह कुव्वंतिमकुव्वतो य ॥ वृ- 'तत्र' सङ्घड्यात्कृष्टद्रव्यलोभादतिमात्रभोजनेन यद्वा सागारिकाकीर्णतया तत्रोच्चारादीनां सन्निरोधाद् ग्लानो भवेत् । अथवा अगुप्ताः - असंवृता याः शय्याः वसतयस्तासु सन्निवासाद् ग्लानत्वमुपजायते, प्रतिश्रयशीतलया भक्तस्थाजीर्यमाणत्वात् । स चग्लानोयदि तत्रोच्चारप्रश्रवणादि करोति तदा सागारिका उड्डाहंकुर्युः । अथ न करोति ततः परितापनादयो दोषाः ॥ अथैतद्दोषभयाद् Page #242 -------------------------------------------------------------------------- ________________ २३९ उद्देशक ः १, मूलं-४७, [भा. ३१६७] ग्रामाद् बहिर्वसन्ति ततः को दोषः स्यात् ? इति प्रश्नावकाशमाशङ्कयाह[भा.३१६८] बहिया य रुक्खमूले, छक्काया साण-तेन-पडिनीए। मतुम्मत्त विउव्वण, वाहण जाणे सतीकरणं॥ कृग्रामादेर्बहिर्वक्षमूलेआकाशेवापृथिवीकायः सचित्तरजःप्रभृतिकः, अप्कायः स्नेहकणिकादि, तेजःकायो विद्युदादि, वायुकायो महावातादि, वनस्पतिकायो विवक्षितवृक्षसत्कपुष्प-फलादि, त्रसकायो वृक्षनिश्रितद्वीन्द्रियादिरूपः सम्भवति; एतेषटकायास्तत्र तिष्ठतां विराध्यन्ते, असंवृते चतत्र श्वानोभाजनमपहरेत्, स्तेनावा उपद्रवेयुः, प्रत्यनीको वा विजनं मत्वा हन्याद्वा मारयेद्वा। तथा 'मत्ताः' मदिरामदभाविताः 'उन्मत्ताः' मन्मथोन्मादयुक्ता विटा इत्यर्थः ते 'विकुर्वणां' भूषणादिभिरलङ्करणंविधायतत्रागच्छन्ति, वाहनानि हस्त्यश्वादीनि यानानि शिबिका-रथादीनि, तानि दृष्ट्वा भुक्तभोगिनां स्मृतिकरणमभुक्तभोगिनां तु कौतुकमुपजायत इति नियुक्तिगाथासमासार्थः ॥अथैनामेव भाष्यकारो विवृणोति[भा.३१६९]मा होज्ज अंतो इति दोसजालं, तो जाति दूरं बहि रुक्खमूले। अभुञ्जमाणे तहियं तु काया, अवाउते तेन सुणा य नेगे॥ वृ-'अन्तः' ग्रामाभ्यन्तरे सभादौ वसताम् ‘इति' अनन्तरोक्तं दोषजालंमा भूदित्यभिसन्धाय 'ततः' ग्रामाद् बहिदूरे वृक्षमूले याति।तत्रच अभुज्यमाने' अव्याप्रियमाणे प्रदेशे पूर्वोक्तनीत्या षडपि काया विराध्यन्ते । अपावृतेच तत्र स्तेनाः श्वानश्वानेके उपद्रवं विदधति ।। [भा.३१७०]उम्मत्तगा तत्थ विचित्तवेसा, पढंति चित्ताऽभिनया बहूनि । कीलंति मत्ता य अमत्तगाय, तत्थित्थि-पुंसा सुतलंकिता य॥ वृ-'तत्र' उद्याने उन्मत्ताः'विटाः 'विचित्रवेषाः' विविधवस्त्रादिनेपथ्यधारिणः 'चित्राभिनयाः' नानाप्रकारहस्ताघभिनया बहूनि शृङ्गारकाव्यानि पठन्ति । तथा मत्ता अमत्ता वा तत्र स्त्रीपुरुषाः सुष्ठु-वस्त्रा-ऽऽभरणैरलङ्कृताः सन्तः क्रीडन्ति ॥ [भा.३१७१] आसे रहे गोरहगेय चित्ते, तत्थाभिरूढाडगणे य केइ। विचित्तरूवा पुरिसा ललंता, हरंति चित्ताणऽविकोविताणं ॥ वृ-'तत्र' उद्याने केचित् पुरुषाअश्वान्अपरेरथान्तदन्ये 'गोरथकान् कल्होडकान् केचित् 'चित्राणि' नानाप्रकाराणि युग्यादीनि यानानि 'डगणानि च' यानविशेषरूपाण्यधिरूढाः सन्तो विचित्ररूपाः पुरुषाः श्रेष्ठिपुत्रादयः ललन्तः क्रीडन्तो अविकोविदानाम् अगीतार्थानां चित्तानि हरन्ति । ततश्च भुक्ता-ऽमुक्तसमुत्था दोषाः॥ [भा.३१७२] सामिद्धिसंदसणवावडेन, विपस्सता तेसि परेसि मोक्ने । तत्थोतपोतम्मि समंततेणं, भिक्खा-वियारादिसुदुप्पयारं॥ वृ-समृध्याः-वस्त्रा-ऽऽभरणादिरूपायाः सम्-इति सामस्त्येन यद् दर्शनम्-अवलोकनं तत्र व्यापृतेन-'इदं पश्यामि, इदं वा पश्यामि' इति व्याक्षिप्तचेतसा, तथा तेषांपरेषां' श्रेष्ठिप्रभृतीनां यान-वाहनादीनि 'मुख्यानि' प्रधानानि विविधम्-अनेकप्रकारं पश्यता सूत्रार्थयोः परिमन्थः कृतः स्यादिति शेषः । तत्र च स्त्री-पुरुषैः समन्ततः 'उअपोते' देशीपदत्वाद् आकीर्णे भिक्षायां विचारभूमौ आदिशब्दाद् विहारभूम्यादौ च दुष्प्रचारं भवति । यत एते दोषा अतः सङ्घड्यां न Page #243 -------------------------------------------------------------------------- ________________ २४० गन्तव्यम् ॥ अथ परः प्राह[भा. ३१७३] बृहत्कल्प - छेदसूत्रम् -२-१/४७ दोसेहि एत्तिएहिं, अगेण्हंता चेव लग्गिमो अम्हे । गेहामु य भुंजामु य न य दोस जहा तहा सुणसु । - सङ्घडिगमने यावन्त एते भवद्भिर्दोषा उक्ता एतावद्भिर्वयं सङ्घडिभक्तमगृह्णाना एव लगामः, ततो न कार्यमस्माकं ग्रामादिमध्याध्यासनेन । सूरिराह वयं सङ्घडिभक्तं गृह्णीमो वा भुमहे वा न च 'दोषाः ' पूर्वोक्ता यथा भवन्ति तथाऽभिधीयमानं शृणु । इयं पुरातना गाथा ॥ अथैनामेव व्याख्यानयति [भा. ३१७४] होहिंति न वा दोसा, ते जाण जिनो न चेव छउमत्थो । पाणियसद्देण उवाहणाउ नाविब्भलो मुयति ॥ वृ- हे नोदक ! नायं नियमो यत् सङ्घडिं गच्छतामवश्यमनन्तरोक्ता दोषा भवन्ति, कारणे यतनया गच्छतस्तेषामसम्भवात्; ततः 'ते दोषा भविष्यन्ति वा' इत्येवं जिनो जानाति नैव छद्मस्थो भवादृशः । अतो यदुक्तं भवता- "इत्थं गते सुविहिता अरण्ये गत्वा वसन्तु तदेतदज्ञानविजृम्भितम्, यतः पानीयशब्देनोपानहौ न 'अविह्वलः' अमूर्खो मुञ्चति, यो मूर्खो भवति स एव मुञ्चतीति भावः; एवं भवानपि सङ्घडिगमनमात्रे दोषोपप्रदर्शनं श्रुत्वा यदेवं ग्रामादीन् परित्यज्यारण्यवासमभयुपगच्छति तद् नूनमबुधचक्रवर्तीति हृदयम् ।। अपि च [भा. ३१७६ ] दोसे चेव विमग्गह, गुणदेसित्तेन निच्चमुजुत्ता । नहु होति सप्पलोद्धी, जीविउकामस्स सेयाए । वृ-हे नोदक ! यद्यपि कारणे वक्ष्यमाणयतनया सङ्घडिगमने प्रत्युत बहवो गुणा भवन्ति तथापि गुणद्वेषित्वेन यूयं नित्यमुद्युक्ताः सन्तो गुणान्वेषणबुध्या दोषानेव विमार्गयथ न गुणान्; भवन्ति चेध्शा अपि केचिदस्मिन् जगति ये दोषानेव केवलान् पश्यन्ति न गुणनिवहम् । उक्तञ्चगुणये सत्यपि सुप्रभूते दोषेषु यत्नः सुमहान् खलानाम् । क्रमेलकः केलिवनं प्रविश्य, निरीक्षते कण्टकजालमेव ॥ यतः 'न हि' नैव 'सर्पलुब्धिः' सर्पग्राहकत्वं जीवितुकामस्य पुरुषस्य श्रेयसे भवति, किन्तु प्रत्युत मरणाय एवं भवतोऽपि संयमगुणान्वेषणबुध्या अरण्यवसनं तत्र श्रेयसे सम्पद्यते, प्रत्युताहाराभावेनार्त्तध्यानादिपरिणामसम्भवात् कन्द-मूल-फलादिभक्षणाद्वा तस्यैव संयमस्योपघातं जनयति ।। आह यद्येवं ततो निरूप्यतां कथमत्र दोषा भवन्ति ? कथं वा न भवन्ति ? इति उच्यते[भा. ३१७७] भण्णति उवेच्च गमने, इति दोसा दप्पदो य जहि गंतुं । कम गहण भुंजणे या, न होंति दोसा अदप्पेणं ।। वृ- भण्यतेऽत्र प्रतिवचनम् - यदि 'उपेत्य' आकुट्टिकया साड्यां गच्छति, 'दर्पतश्च' गुरुग्लानादिकारणाभावेन यत्र गत्वा गृह्णाति भुङ्क्ते वा तत्रानन्तरोक्ता दोषा मन्तव्याः । अथ 'क्रमेण' गृहपरिपाट्या सङ्घडिगृहं प्राप्तः ततस्तत्र ग्रहणं भोजनं वा कुर्वाणस्य न दोषा भवन्ति । 'अदर्पेण वा' पुष्टालम्बनेन सङ्घडिप्रतिज्ञयाऽपि गच्छतो न दोषा भवन्ति । इदमेव भावयति[भा. ३१७८ ] पडिलेहियं च खेत्तं, पंथे गामे व भिक्खवेलाए । गामानुगामियम्मिय, जहि पायोग्गं तहिं लभते ॥ Page #244 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं-४७, [भा. ३१७८ ] २४१ वृ-मासकल्पस्य वर्षावासस्य वा योग्यं क्षेत्रं प्रत्युपेक्षितम्, तत्र च गन्तुं प्रस्थितानां 'पथि मार्गे वर्त्तमानानां यद्वा तस्मिन्नेव ग्रामे प्राप्तानां सङ्घडिरुपस्थिता, उभयत्रापि यदि भिक्षावेलायां भक्तपानं प्राप्यते तदा कल्पते गन्तुम् । ग्रामानुग्रामिकेऽप्यनियतविहारे विहरतां यत्र भिक्षावेलायां प्रायोग्यं प्राप्यते तत्र ग्रहीतुं लभते नान्यत्रेति ॥ अथैनामेव गाथां व्याचष्टेवासाविहारखेत्तं वच्चंताऽनंतरा जहिं भोजं । अत्तठिताण तहिं भक्खमडंताण कप्पेज्जा ।। [भा. ३१७९] वृ-वर्षाविहारो नाम-वर्षावासस्तव्यायोग्यं क्षेत्रं व्रजताम् 'अन्तरा' पथि यत्र 'भोज्यं' सङ्खडी भवति । आह च चूर्णिकृत्-भोजं ति वा संखडि त्ति वा एगडं । 'तत्र' ग्रामादौ 'आत्मार्थस्थितानां' स्वार्थमवस्थितानां न तु सङ्घडिनिमित्तं गृहपरिपाट्या च भिक्षामटतां सङ्घडिं गत्वा भक्त-पानं ग्रहीतुं कल्पते । कुतः ? इति चेद् उच्यते [भा. ३१८० ] नत्थि पवत्तणदोसो, परिवाडीपडित मो न याऽऽइन्ना । परसंसकं अविलंबियं च गेण्हंति अनिसन्ना ।। वृ- नास्ति तत्र सङ्खड्यां गमने प्रवर्त्तनादोषः, 'परिपाट्यापतितं' प्राप्ताबसरं यतस्तत्र भक्तपानं गृह्णाति, न तदेवैकं गृहमुद्दिश्य गत्वेति । “मो" इति पादपूरणे । न च सा सङ्घडी 'आकीर्णा' जनाकुला, 'परसंसृष्टं च' गृहस्थादिपरिवेषणनिमित्तं हस्तो वा मात्रकं वा संसृष्टम्, अविलम्बितं चतत्रानिषण्णाः सन्तो गृह्णन्ति, भिक्षावेलायां गमनात्तत्क्षणादेव भक्त-पानं लभन्ते, नपुनरुपविष्टाः प्रतीक्षन्ते इति भावः ॥ किञ्च [भा. ३१८१] संतऽनने वऽवराधा, कज्जम्मि जतो न दोसवं जेसु । जो पुन जतनारहितो, गुणो वि दोसायते तस्स ।। वृ- 'सन्ति' विद्यन्ते 'अन्येऽपि' अनेषणीयग्रहणादयोऽपराधा येषु 'कार्ये' ज्ञानादौ यतः ' प्रयत्नं कुर्वन् प्रतिसेवमानोऽपि न दोषवान् भवति, यः पुनर्यतनारहितः प्रवर्त्तते तस्य गुणोऽपि 'दोषायते' दोष इव मन्तव्य इत्यर्थः । इदमेव सविशेषमाह [भा. ३१८२ ] असढस्सऽ प्पडिकारे, अत्थे जततो न कोई अवराधो । - सप्पडिकार अजतो, दप्पेण व दोसु वी दोसो ॥ वृ- 'अशठस्य' राग-द्वेषरहितस्य 'अप्रतिकारे' प्रतिसेवनां बिना नास्त्यन्यो यस्य प्रतिकार इत्येवंलक्षणे 'अर्थे' सङ्घडिगमनादौ ' यतमानस्य' यतनां कुर्वतो न कोऽप्यपराधो भवति । यस्तु 'सुप्रतिकारे' परिहर्त्तु शक्येऽर्थे 'अयतः' न यतनां करोति दर्पेण वा प्रतिसेवते तस्य 'द्वयोरपि' अयतना-दर्पयोर्दोषो भवति, कर्मबन्ध इत्यर्थः ॥ यत एवमतः [भा. ३१८३] निद्दोसा आदिन्ना, दोसवती संखडी अणाइन्ना । सुत्तमणाइन्नाते, तस्स विहाणा इमे होंति । वृ- 'निर्दोषा' वक्ष्यमाणदोषरहिता सङ्घडी 'आचीर्णा' साधूनां गन्तुं कल्पनीया । या तु दोषवती सा अनाचीर्णा । तत्र सूत्रमनाचीर्णायामवतरति, न तत्र सङ्घडिप्रतिज्ञया रात्रौ वा विकाले वा गन्तव्यम् । ‘तस्याश्च' अनाचीर्णाया अमूनि ' विधानानि' भेदा भवन्ति ॥ तानेवाह 19 16 Page #245 -------------------------------------------------------------------------- ________________ २४२ बृहत्कल्प-छेदसूत्रम् -२-१/४७ [भा. ३१८४] जावंतिया पगणिया, सक्खित्ताऽखित्त बाहिराऽऽइण्णा । अविसुद्धपंथगमना, सपच्चवाता य मेदाय ॥ वृ- 'यावन्तो भिक्षाचरा आगमिष्यन्ति तावतां दातव्यम्' एवमादिगणनया यत्र दीयते सा यावन्तिका । ‘दश शाक्या दश परिव्राजका दश श्वेतपटाः' एवमादिगणनया यत्र दीयते सा प्रगणिता । "सक्खेत्ते 'ति सक्रोशयोजनक्षेत्राभ्यन्तरवर्तिनी । “अक्खेत्ते 'ति सचित्तपृथिव्यादावक्षेत्रेअस्थण्डिले स्थिता । " बाहिर "त्ति सक्रोशयोजनक्षेत्रबहिर्वर्त्तिनी । 'आकीर्णा नाम' चरकपरिव्राजकादिभिराकुला । अविशुद्धेन पृथिव्यप्कायादिसंसक्तेन पथा गमनं यस्यां साऽ विशुद्धपथगमना । तथा यत्र स्तेन श्वापदादयो दर्शनादिविषयाश्च प्रत्यपाया भवन्ति सा सप्रत्यपाया । साच जीवितभेदाय चरणभेदाय वा भवेदिति द्वारगाथासमासार्थः ।। अथैनामेव प्रतिपदं विवृणोति[भा. ३१८५ ] आचंडाला पढमा, बितिया पासंडजाति - नामेहिं । सक्खेत्ते जा सकोस, अक्खित्ते पुढविमाईसु ।। वृ- 'प्रथमा' यावन्तिकी सा 'आचण्डाला' यावन्तः केचन तटिका- कार्पटिकादयो भिक्षाचरा यावदपश्चिमश्चाण्डालस्तावतां दातव्यमिति लक्षणा । 'द्वितीया' प्रगणिता प्रकर्षेण पाषण्डिनो नाम्ना वा गणयित्वा यत्र दीयते । तत्रजातिं प्रतीत्य गणना यथा-दश भौता दश भागवता दश श्वेताम्बरा इत्यादि । नाम प्रतीत्य गणना यथा-अमुकः श्वेतपटोऽमुकश्च रक्तपट इत्यादि । स्वक्षेत्रसङ्घडी नाम या सक्रोशयोजनक्षेत्राभ्यन्तरे भवति । अक्षेत्रसङ्घडी तु या सचित्तपृथिवीवनस्पतिकायादिष्वनन्तरं परम्परं वा प्रतिष्ठिता ।। एतासु गच्छतः प्रायश्चित्तमाह [भा. ३१८६] जावंतिगाए लहुगा, चउगुरु पगणीए लहुग सक्खेत्ते । मीसग - सचित्त - Sनंतर - परंपरे कायपच्छित्तं ॥ वृ- यावन्तिकायां चतुर्लघवः । प्रगणितायां चतुर्गुरवः । स्वक्षेत्रसङ्खड्यां गच्छतश्चतुर्लघु । अक्षेत्रसङ्खड्यां मिश्र- सचित्ता - ऽनन्तर- परम्परप्रतिष्ठितायां कायप्रायश्चित्तम् । तत्र पृथिव्यादिषु प्रत्येकवनस्पतिपर्यन्तेषु मिश्रेषु परम्परप्रतिष्ठितायां लघुपञ्चकम्, अनन्तरप्रतिष्ठितायां मासलघुः एतेष्वेव सचित्तेषु परम्परप्रतिष्ठितायां मासलघु, अनन्तरप्रतिष्ठितायां चतुर्लघुः अनन्तवनस्पतिष्वेतान्येव प्रायश्चित्तानि गुरुकाणि कर्त्तव्यानि ॥ अथ सक्रोशयोजनबहिर्वर्त्तिनीप्रभृतिषु सङ्घडीषु प्रायश्चित्तमाह [भा. ३१८७ ] बहि वुड्डि अद्धजोयण, गुरुगादी सत्तहिं भवे सपदं । चरगादी आइण्णा, चउगुरु हत्थाइभंगो य ॥ वृ- क्षेत्राद् बहि सङ्खड्यां गच्छतश्चतुर्लघु, ततः परमर्द्धयोजनवृध्या चतुर्गुरुकमादौ कृत्वा सप्तभिर्वृद्धिभिः 'स्वपदं' पाराञ्चिकं भवेत् । तद्यथा- क्षेत्राद् बहिरर्द्धयोजने चतुर्गुरु, योजने षड्लघु, सार्द्धयोजने षड्गुरु, द्वयोर्योजनयोश्छेदः, अर्द्धतृतीययोजनेषु मूलम्, त्रिषु योजनेषु नवमम्, अर्द्धचतुर्थयोजनेषु पाराञ्चिकम्। तथा या चरक परिव्राजक कार्पटिकादिभिराकुलासा आकीर्णा तां गच्छतश्चतुर्गुरुकम् । तत्र चातिसम्मर्देन हस्त-पाद-पात्रादिभङ्गो भवेत् ॥ अथाविशुद्धपथगमनादीनि द्वाराणि व्याख्याति [भा. ३१८८ ] काएहऽविसुद्धपहा, सावय-तेना पहे अवाया उ । Page #246 -------------------------------------------------------------------------- ________________ उद्देशकः १, मूलं-४७, [भा. ३१८८] २४३ सण-बंभवता-ऽऽता, तिविधा पुन होति पत्तस्स ॥ वृ-'कायैः' पृथिव्यादिभिरविशुद्धः पन्थाः-मार्गोयस्याः सङ्खडेः सातथा, अस्यांचकायनिष्पन्नं प्रायश्चित्तम् । प्रत्यपायाश्च द्विविधाः- पथि वर्तमानस्य तत्र प्राप्यस्य च । तत्र पथि वर्तमानस्य श्वापद-स्तेन-कण्टकादयः । तत्र प्राप्तस्य तु त्रिविधाः प्रत्यपाया भवन्ति-दर्शन-ब्रह्मव्रताऽऽत्मापायभेदात् । तत्र सङ्घडिं गतस्य चरक-शाक्यादिभिर्युद्वाहणा दर्शनापायः । चरिकातापसीप्रभृतिभिरन्याभिर्वा मत्तप्रमत्ताभि स्त्रीभिर्ब्रह्मव्रतापायः । आत्मापायस्तु पूर्वोक्त एव हस्तभङ्गादिकः । एवंविधापायसहिता सप्रत्यपाया॥ [भा.३१८९] सणवादे लहुगा, सेसावादेसु चउगुरू होति। जीविय-चरित्तभेदा, विस-चरिगादीहि गुरुका उ॥ वृ-अत्रचदर्शनापायेचतुर्लघुकाः। शेषेषु-स्तेन-श्चापदादिषुब्रह्मव्रता-ऽऽत्मविषयेषु प्रत्यपायेषु चतुर्गरवो भवन्ति । तथा सौगतोपासकादिसङ्घडिकर्ता विषंवा गरंवाप्रहद्यात्, एवं जीवितभेदः। चरिकादिभिश्चारित्रभेदः । एतयोर्जीवित-चारित्रभेदयोःप्रत्येकंचतुर्गुरवः । एषायावन्तिकादिदोषदुष्टा सङ्खडिरनाचीर्णा । एतद्विपरीता आचीणेति ॥ द्वितीये पदे एतैः कारणैः सङ्घडिमपि गच्छेत्[भा.३१९०] कप्पइ गिलाणगट्ठा, संखडिगमणं दिया व रातो वा। दव्वम्मि लब्भमाणे, गुरुउवदेसी त्ति वत्तव्वं ॥ वृ-ग्लानार्थ सङ्खडिगमनंदिवा रात्रौ वा कल्पते।तत्रच द्रव्ये ग्लानप्रायोग्येलभ्यमाने यावन्मात्रं ग्लानस्योपयुज्यते तावति प्रमाणप्राप्ते सति प्रतिषेधयन्ति। यद्यसौदाता ब्रूयात्-किमितिन गृह्णीथ? ततः 'वक्तव्यं' भणनीयम्-गुरु-वैद्यस्तस्योपदेशोऽयम्-यदेतावतःप्रमाणादूर्ध्वग्लानस्य पथ्यादिकं न दातव्यम् । इदमेव भावयति[भा.३१९१] पुट्विं ता सक्खेत्ते, असंखडी संखडीसुवी जतति । पडिवसभमलब्भंते, ता वच्चति संखडी जत्थ ॥ वृ-ग्लानस्य प्रायोग्यं पूर्वं तावत् 'स्वक्षेत्रे स्वग्रामेऽसङ्खडयां गवेषयितव्यम् । यद्यसङ्घयां न प्राप्यतेततः स्वग्राम एव याः सङ्घड्यस्तासुग्लानप्रायोग्यग्रहणाय यतते।तदभावेप्रतिवृषभग्रामेष्वपि प्रथममसङ्खड्यांततः सङ्खड्यामपि । अथ तत्रापि न लभ्यते ततो यत्र ग्रामादौ सङ्खडी भवति तत्र व्रजन्ति॥ताश्च सङ्घडयो द्विधा-सम्यग्दर्शनभाविततीर्थविषया मिथ्यादर्शनभाविततीर्थविषयाश्च। तत्र प्रथममाद्यासुगन्तव्यम्, यत आह[भा.३१९२] उज्जेत नायसंडे, सिद्धिसिलादीनचेव जत्तासु। सम्मत्तभाविएसुं, न हुंति मिच्छत्तदोसा उ॥ वृ-उज्जयन्तेज्ञातखण्डे सिद्धशिलायामेवमादिषुसम्यक्त्वभावितेषुतीर्थेषुयाः प्रतिवर्ष यात्राःसङ्खडयो भवन्ति तासु गच्छते मिथ्यात्वस्थिरीकरणादयो दोषा न भवन्ति ।। [भा.३१९३] एतेसिं असईए, इतरीउ वयंति तत्थिमा जतणा। __पुट्ठो अतिक्कमिस्सं, कुणति व अन्नावदेसंतु॥ वृ- ‘एतेषां' सम्यसक्त्वभावितानामभावे 'इतरा अपि' मिथ्यास्वभाविततीर्थविषयाः साडीव्रजन्ति । तत्र च गच्छत इयं यतना-यदि केनापि पृच्छयते किं सङ्खडीं गमिष्यथ?' इति । Page #247 -------------------------------------------------------------------------- ________________ २४४ बृहत्कल्प-छेदसूत्रम् -२-१/४७ ततः पृष्टः सन्नेवंब्रूयात्-अतिक्रमिष्याम्यहं सङ्घडीम्, अग्रतोगमिष्यामीत्यर्थः; अथवा अन्यायपदेशं करोति, अन्यत् किमपि प्रतिवचनं ब्रूत इति भावः॥ [भा.३१९४] तहियं पुव्वं गंतुं, अप्पोवासासु ठाति वसहीसु। जेय अविपक्कदोसा, न नेति ते तत्थ अगिलाणे॥ वृ-'तत्र' सङ्खडिग्रामे पूर्वमेवगत्वायाअल्पावकाशावसतयस्तासु तिष्ठन्ति ।गाथायां "ठाइ" त्ति एकवचननिर्देशः प्राकृतत्वात्, एवमन्यत्रापि वचनव्यत्ययो यथायोगं द्रष्टव्य इति । विस्तीर्णावकाशासु पुनः स्थितानां गृहस्थादिभिः पश्चादागतैः सह त एवासङ्खडादयो दोषाः । ये च तत्र ‘अविपक्वदोषाः' इन्द्रिय-कषायान् निग्रहीतुमसमर्था अविकोविदा वा साधवः, आह च चूर्णिकृत्- अविपक्वदोसा नाम जे असमत्था निगिहिउं इंदिय-कसाए अविकोविया वा । ते तत्रालङ्कृतस्त्रीदर्शनादिसमुत्थदोषपरिजिहीर्षया 'अग्लाने' ग्लानकार्याभावे न निर्गच्छन्ति॥ अथ ग्लान्सय प्रायोग्यग्रहणे विधिमाह[भा.३१९५]विना उ ओभासित-संथवेहि, जंलब्मती तत्थ उ जोग्गदव्वं । गिलाणभुत्तुवरियं तगंतु, न भुंजमाणा वि अतिक्कमंति॥ वृ-अवभाषणमवभाषितं-याचनमित्यर्थः, संस्तवनं संस्तवः-दातुर्गुणविकत्यनं तेन सहात्मनः सम्बन्धविकत्थनं वा, ताभ्यां विनाऽपि 'तत्र' सङ्खड्यां यत् प्रायोग्यद्रव्यं लभ्यते तत् प्रथमतो ग्लानस्य दातव्यम् । ततो ग्लानेन तन्मध्याद् यद् भुक्तं तत उद्वरितं भुजाना अपि साधवः 'नातिक्रामन्ति' न भगवदाज्ञां विलम्पन्ति। [भा.३१९६] ओभासियं जंतु गिलाणगट्ठा, तंमानपत्तंतु निवारयति । तुझे व अन्ने व जया तुति, मुंजेत्थ तो कप्पति नऽन्नहा तू ॥ कृ-'यत्तु यत्पुनःप्रायोग्यद्रव्यंग्लानार्थमवभाषितंतद्यदा'मानप्राप्त वैद्योपदिष्टपथ्यमात्राप्राप्त भवति तदा 'निवारयन्ति' पर्याप्तमायुष्मन् । एतावता अतः परं ग्लानस्य नोपयोक्ष्यते । एवमुक्ते यदातेगृहस्थाएवंब्रूवते-'यूयं वाअन्येवासाधवोभुञ्जीध्वम् तदाग्लानप्रायोग्यप्रमाणादधिकमपि ग्रहीतुंकल्पते नान्यथा।तुः पादपूरणे ॥ इदमेव स्फुटतरमाह[भा.३१९७]दिने दिने दाहिसि थोव थोवं, दीहा रुया तेन न गिण्हिमोऽम्हे। ... न हावयिस्सामो गिलाणगस्सा, तुब्भेवता गिण्हह गिण्हणेवं ॥ वृ-भोः श्रावक ! ग्लानस्य 'दीर्धा' चिरकलस्थायिनी 'रुग्' रोगः समस्ति, अतो दिने दिने स्तोकं स्तोकमिद ग्लानयोग्यं द्रव्यं दास्यसि, तेन कारणेन वयमिदं न गृह्णीमः । ततो यदि ते गृहस्था ब्रूवेत-वयं प्रतिदिनं ग्लानस्य प्रायोग्यं न हापयिष्यामः, यूयमपि च तावत् प्रसादं कृत्वा गृह्णीत । एवमुक्तेप्रमाणप्राप्त दधिकस्यापि ग्रहणं कर्त्तव्यम्॥एवंतावत्साधूनांप्रवेशे लभ्यमाने विधिरुक्तः । अथ यत्र साधवः प्रवेशं न लभन्ते नद्विषयं विधिमाह[भा.३१९८] न विलब्भई पवेसो, साधूणं लब्भएत्थ अज्जाणं । वावारण परिकिरणा, पडिच्छणा चेव अजाणं ॥ वृ- यत्रान्तःपुरादौ 'नापि' नैव साधूनां प्रवेशो लभ्यते किन्तु लभ्यते तत्रार्यिकाणां प्रवेशः, · कर्मकर्तर्ययं प्रयोगः ततः षष्ठी विभाक्तिरदुष्टा, तत्रार्यिकाणां व्यापारणा विधेया। ततस्ता अन्तः Page #248 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं- ४७, [भा. ३१९८ ] २४५ पुरादौ प्रविश्य प्रज्ञापयन्ति । तथापि चेन्न प्रवेशो लभ्यते ततः “परिकिरण" त्ति ता आर्थिका ग्लानप्रायोग्यं गृहीत्वा साधूनां पात्रेषु चेत्र परिकिरन्ति प्रक्षिपन्ति । तत आर्यिकाणा हस्ताद् ग्लानप्रायोग्यं प्रतीच्छन्ति ।। इदमेव स्पष्टयति [भा. ३१९९] अलब्भमाणे जतिणं पवेसे, अंतेपुरे इब्मधरेसु वा वि । उज्जाणाई व संठियाणं, उज्जाउ कारिंति जतिप्पवेसं ॥ वृ- राजादिनामन्तःपुरे वा इभ्यगृहेषु वा यतीनां प्रवेशेऽलभ्यमाने उद्यानादिषु वा संस्थितानां साधूनामनागन्तुकानामित्यर्थः, आर्यास्तत्र यतीन् प्रवेशं कारयन्ति । कथम् ? इति चेद् उच्यतेता आर्यिका अन्तःपुरादौ गत्वा प्रज्ञापयन्ति यथैते भगवन्तो महातपस्विनो निस्पृहाः, एतेभ्यो दत्तं बहुफलं भवति । एवमादिप्रज्ञापनया यदा तानि कुलानि भावितानि भवन्ति तदा साधवः प्रविशन्ति ।। अथ तथापि प्रवेशो न लभ्यते ततः किं कत्तुव्यम् ? इत्याह [भा. ३२०० ] पुराणमाईसु व नीणवेंति, गिहत्थभाणेसु सयं व ताओ । अंगारिकाए जतिच्चएही, हिट्ठोवभोगेहि अ आनवेंती ॥ वृ- आर्यिका गृहस्तभाजनेषु ग्लानप्रायोग्यं गृहीत्वा पुराणादिभिर्गृहस्थैः साधुसमीपं 'नाययन्ति' प्रापयन्तीत्यर्थः । अथ ताशो गृहस्थो न प्राप्यते ततः स्वयमेव ता आर्यिका गृहिभाजनेषु गृहीत्वा साधुसमीपं नयन्ति । अथागारिणः शङ्कां कुर्युः - 'नूनमेता गृहस्थभाजनेष्वेवंविधमुत्कृष्टद्रव्यं गृहीत्वा केषाञ्चिदविरतिकानां प्रयच्छन्ति' ततो यतीनां सत्कानि यानि अधस्तादुपभोग्यानि - असम्भोग्यानि भाजनानि उपहतानीत्यर्थः तेषु गृहीत्वा साधूनां समीपमानाययन्ति आनयन्ति वा ॥ अथ न सन्ति साधूनामसम्भोग्यानि माजनानि ततः [भा.३२०१] तेसामभावा अहवा वि संका, गिण्हंति मानेसु सएसु ताओ । भोमासु उ तस्स भोगो, गारत्थि तेसेव य भोगिसू वा ॥ वृ- 'तेषां' संयतभाजनानामभावात्, अथवा तेषु गृह्यमाणे गुहस्थानां 'शङ्का भवेत्' 'एतानि संयतभाजनानि, तदवश्यमेताः संयतानां प्रयच्छन्ति' ततः 'ताः' आर्यिका स्वकेषु भाजनेषु गृह्णन्ति । ततः साधवोऽसम्भोग्यभाजनेषु गृहीत्वा 'तस्य' प्रायोग्यद्रव्यस्य मोगं कुर्वते । असम्भोग्यभाजनाभावे गृहस्थभाजनेषु । अथ तान्यपि न सन्ति ततः 'तेष्वेव' संयतीभाजनेषु भुञ्जते । अथ संयतीनां तैर्भाजनैः शीघ्रं प्रयोजनं ततः साम्भोगिकेष्वपि भाजनेषु प्रतिप्यते । एवं तावद् ग्लाननिमित्तं यथा गृह्यते तथा भणितम् ॥ अथ सङ्घडीगमने कारणान्तराण्याह[भा. ३२०२ ] अद्धाणनिग्गयादी, पविसंता वा वि अहव ओमम्मि । उवधिस्स गहण लिंपण, भावम्मि य तं पि जयणाए । वृ- अध्वनो निर्गताः आदिशब्दादशिवादिनिर्गता वा, अध्वनि वा प्रविशन्तः, अथवा 'अवमे' दुर्भिक्षे वर्त्तमानाः सङ्घडिं गच्छेयुः । अथवा यत्र ग्रामोदौ सङ्घडिस्तत्र 'उपधिः' वस्त्रपात्रादिकः सुलभस्तस्य ग्रहणार्थं गन्तव्यम्; पात्रकाणि वा लेपनीयानि सन्ति, तत्र च लेपः प्रचुरः सुप्रापश्च; भावो वा शैक्षस्य सङ्घडिगमने समुत्पन्नः; एतैः कारणैः 'तदपि ' सङ्घडिगमनं यतनया कर्त्तव्यमिति सङ्ग्रहगाथासमासार्थः ।। साम्प्रतमेनाभेव विवृणोति [भा.३२०३] पविद्रुकामा व विहं महंतं, विनिग्गया वा वि ततोऽधवोमे । Page #249 -------------------------------------------------------------------------- ________________ २४६ बृहत्कल्प-छेदसूत्रम् -२-१/४७ अप्पायणट्ठाय सरीरगाणं, अत्ता वयंती खलु संखडीओ ।। वृ- 'विहम्' अध्वानं 'महान्तं' विप्रकृष्टं प्रवेष्टुकामाः, 'ततो वा' अध्वनो निर्गता जनपदं प्राप्ताः, अथवा 'अव दुर्भिक्षे चिरमटन्तोऽपि न पर्याप्तं लभन्ते, अतस्ते शरीराण्येव दुर्बलाहारदग्धान्त्रतया कुत्सितत्वात् शरीरकाणि तेषामाप्यायनार्थम् 'आत्ता' प्रथम द्वितीयपरीषहपीडिताः, अथवा ‘आप्ताः' राग-द्वेषरहिताः, यद्वा "भीमो भीमसेनः" इति न्यायत् आत्तः - गृहीतः सूत्रार्थो यैस्ते आत्ता :- गीतार्था सङ्घीर्व्रजन्ति ॥ [भा. ३२०४] वत्थं व पत्तं व तहिं सुलंभं, नाणादिसिं पिंडियवाणिएसु । पवत्ति तत्थ कुलादिकज्जे, लेचं व घेच्छामो अतो वयंति ॥ वृ- 'तत्र' क्षेत्रे नानाप्रकाराभ्यो दक्षिणापथादिरुपाभ्यो दिग्भ्यो वस्त्रादिविक्रयार्थं समागत्य पिण्डिताः- मिलिता ये वणिजस्तेषु वस्त्रं वा पात्रं वा सुलभम् । अथवा तत्र क्षेत्रे प्राप्ताः 'कुलादिकार्याणि' कुल-गण-सङ्घप्रयोजनानि प्रवर्त्तयिष्यामः, लेपं वा तत्र प्राप्ताः सन्तो ग्रहीष्यामः। अत एवंविधं पुष्टालम्बनमवलम्ब्य सङ्घडीं व्रजन्ति ॥ अथ "शैक्षस्य सङ्घडिगमने भावः समुत्पन्न” इति पदं विवृणोति - [भा. ३२०५] सेहं विदित्ता अतितिव्वभावं, गीया गुरुं विन्नवयंति तत्थ । जे तत्थ दोसा अभाविंसु पुव्विं, दिवेत्तु ते तस्स हिता वयंति ॥ वृ- 'शैक्षम्' अभिनवप्रव्रजितम् 'अतितीव्रभावं' सङ्घडिग्रामे गमनेऽतीवतीव्राभिलाषं विदित्वा गीतार्था गुरुं विज्ञपयन्ति, तत आचार्यास्तं शैक्षं भणन्ति एते वृषभास्ते सहायाः समर्पिताः, एतैः समं भवता सङ्घड्यां गन्तव्यमिति । ततस्ते वृषभाः 'तत्र' सङ्खड्यां गच्छतां पथि वर्त्तमानानां तत्र प्राप्तानां च दोषाः पूर्वमभवन् अभिहिता इति भावः तान् ‘तस्य' शैक्षस्य 'हिताः' मातृवदनुकुलाः सन्तो दीपयन्ति । दीपयित्वा च ततस्तं गृहीत्वा व्रजन्ति ॥ [भा. ३२०६ ] पुव्वोदितं दोसगणं च तं तू, वज्जेंति सेज्जाइजुतं जताए । पुणमेवं तु भवे गणित्तं, जं कंखियाणं पविणेति कंखं ॥ वृ-‘पूर्वोदितं' प्राग्भणितं शय्या वसति तदादिभिर्युतं सम्बद्धं दोषगणं 'यतनया' प्रागुक्तलक्षणया वर्जयन्ति । आह किमेवं शैक्षस्यानुवर्त्तनां कृत्वा सङ्घडिगमनमाचार्या अनुजानन्ति ? इत्याह'सम्पूर्णम्' अखण्डमेवंविदधानस्याचार्यस्य 'गणित्वम्' आचार्यकं भवति, यत् 'काङ्क्षतानां' सङ्घडिगमनाद्यभिलाषवतां शिष्याणां काङ्क्ष प्रकर्षेण-तदीप्सितसम्पादनलक्षणेन विनयति-स्फेटयति । उक्तञ्च दशाश्रुतस्कन्धे गणिसम्पद्वर्णनाप्रक्र मे - कंखियस्स कंखं पविणित्ता भवइ त्ति । मू. (४८) नो कप्पइ निग्गंथस्स एगानियस्स राओ वा वियाले वा बहिया वियारभूमिं वा बिहारभूमिं वा निक्खमित्तए वा पविसित्तए वा । कप्पइ से अप्पबिइयस्स वा अप्पतइयस्स वा राओ वा वियाले वा बहिया वियारभूमिं वा विहारभूमिं वा निक्खमित्तए वा पविसित्तए वा ॥ वृ- अथास्य सूत्रस्य कः सम्बन्धः ? इत्याह[भा. ३२०७] आहारा नीहारो, अवस्समेसो तु सुत्तसंबंधो। तुं पुन न प्पडिसिद्धं, वारे एगस्स निक्खमणं ॥ वृ- पूर्वसूत्रे सङ्घडिप्ररुपणाद्वारेणाहार उक्तः, तस्माच्चाहरादवश्यम्भाव नीहार इत्यतस्तद्विषयो Page #250 -------------------------------------------------------------------------- ________________ उद्देशकः १, मूलं-४८, [भा. ३२०७] २४७ विधिरनेनसूत्रेणोपवायते। कथम्? इत्याह-'तत्पुनः' नीहारकरणमाहारानन्तरमवश्यम्भावित्वान्न प्रतिषिद्धमे, किन्तु तदर्थं यद् ‘एकस्य' एकाकिनो निष्क्रमणं तदत्र सूत्रे वारयतीति । एष सूत्रसम्बन्धः। अनेन सम्बन्धेनायातस्यास्य व्याख्या-नो कल्पते 'निर्ग्रन्थस्य' साधोरेकाकिनो रात्री वा विकाले वा बहिर्विचारभूमिं वा विहारभूमि वा उद्दिश्य प्रतिश्रयाद् निष्कमितुं वा प्रवेष्टुं वा । कल्पते "से" तस्य निर्ग्रन्थस्यात्मद्वितीयस्य वाआत्मतृतीयस्य वा रात्रौवा बिकालेवा बहिर्विचारभूमि वा विहारभूमिं वा निष्कमितुं वा प्रवेष्टुं वा इति सूत्रसमासार्थ ॥अथ नियुक्तिविस्तरः[भा.३२०८] रत्तिं वियारभूमी, निग्गंथेगाणियस्स पडिकुट्ठा। लहुगो य होति मासो, तत्थ वि आणाइणो दोसा॥ वृ-रात्रौ उपलक्षणत्वा विकाले वा विचारभूमी निर्ग्रन्थस्यैकाकिनो गन्तव्ये प्रतिकुष्टा । साच द्विविधा-कायिकीभूमि उच्चारभूमिश्च । कायिकीभूमिं यदि रात्रावेकाकी गच्छति ततो लघुमासः प्रायश्चित्तम्, तत्राप्याज्ञादयो दोषाः ।। तथा[भा.३२०९] तेना-ऽऽरकिखय-सावय-पडिनीए थी-नपुंस-तेरिच्छ। ओहाणपेहि वेहानसे य वाले य मुच्छा य॥ वृ-स्तेनैरुपधि संयतो वा हियते । आरक्षिका एकाकिनं दृष्ट्वा चौर इति बुद्धा ग्रहणाऽऽकर्षणादिकं कुर्युः । श्चापदा वा-सिंह-व्या-दयो भक्षयेयुः । प्रत्यनीको वा तमेकाकिनं मत्वा प्रान्तापनादिकं कुर्यात् । स्त्री वा नपुंसको वा तमेकाकिनमुदारशरीरं दृष्ट्वा बलादपि गृह्णीयात्। तिर्यञ्चो वा दुष्टगवादयस्तमभिघातयेयुः, तिर्यग्योनिकां वा स एकाकी प्रतिसेवेत । यो वा अवधावनप्रेक्षी स एकाकी निर्गतः सन्तत एव पलायेत । स्त्रिया वा पण्डकेन वा प्रतिस्खलितः सन् ‘भग्नव्रतोऽहं जातः' इति बुद्ध्या 'वैहायसम्' उद्वन्धनं कुर्यात् । 'व्यालेन वा' सर्पण वा दश्येत। मूच्छा वातत्र गतस्य भवेत्, तद्वशेन भूमौ प्रपतितस्यपरिताप-महादुःखप्रभृतयो दोषाः। अस्या एव गाथाया लेशतो व्याख्यानमाह[भा.३२१०] थी पंडे तिरिगीसु व, खलितो वेहानसं व ओधावे। सेसोवधी-सरीरे, गहणादी मारणंजोए॥ वृ-स्त्रियां पण्डके तिर्यग्योनिकायां वा 'स्खलितः' मैथुनप्रतिसेवनया अपराधमापन्नः सन् 'भग्नव्रतस्य किं मे जीवितेन ?' इति बुद्धया वैहायसमभ्युपगच्छेत् । यो वा अवधावनप्रेक्षी स ततएवावधावेत्। शेषाणि' सप्त द्वाराणितेषु यथाक्रमभेते दोषाः। तद्यथा-स्तेनेषूपधि-शरीरहरणम्, आरक्षिकेषु ग्रहणा-ऽऽकर्षणादि, शेषेषु तु श्चापदादिषु 'मारणम्' उपघातः संयतस्य भवतीति ‘यजयेत्' योजनं कुर्यात् ।। यत एवमतः[भा.३२११] दुप्पभिई उ अगम्मा, न य सहसा साहसं समायरति। वारेति च णं वितिओ. पंच य सक्खी उधम्मस्स ॥ वृ-द्विप्रभुतयः साधवो रात्रौ कायिकीभूमौ गच्छन्तः स्तेना-ऽऽरक्षिकादीनामगम्या भवन्ति। न च द्वितीये साधौ तटस्थे सति सहसा 'साहसं' मैथुनप्रतिसेवन-वैहायसादि समाचरति । समाचरितुकाममपिच “णं" एनं द्वितीयः साधुर्वारयति। यतः 'धर्मस्य' पञ्चमहाव्रतरुपस्यपञ्च साक्षिणो भवन्ति, तद्यथा-अर्हन्तः सिद्धाः साधवः सम्यग्दृष्ट्यो देवा आस्मा चेति । अतः साधौ Page #251 -------------------------------------------------------------------------- ________________ बृहत्कल्प-छेदसूत्रम् -२-१/४८ तृतीयसाक्षिणि पार्श्ववर्त्तिनि न सहसा साहसं समाचरति । एवं तावत् कायिकीभूमिमङ्गीकृत्योक्तम् । अथोच्चारभूमिमधिकृत्याह[भा. ३२१२] २४८ एए चेव य दोसा, सविसेसुच्चारमायरंतस्स । सबितिज्जगनिक्खमणे, परिहरिया ते भवे दोसा ॥ वृ- 'एत एव' स्तेना -ऽऽरक्षिकादयो दोषाः सप्रायश्चित्ताः 'सविशेषाः' समधिका रजन्यामेकाकिनमुञ्चारमाचरतो मन्तव्याः । यदा तु विचारभूमो गच्छन् सद्वितीयः प्रतिश्रयाद् निष्क्रमणं करोति तदा 'ते' स्तेनादयो दोषाः परिह्यता भवेयुः ॥ कथम् ? इत्याह [भा.३२१३] जति दोन्नि तो निवेदित्तु नेति तेनभए ठाति दारेक्को । सावयभयम्मि एक्को, निसिरति तं रक्खती वितिओ ॥ वृ-यदि द्वौ संयती कायिकी भूमौ निर्गच्छतः तदा यस्तत्र जागर्त्ति तस्य निवेद्य द्वावपि निर्गच्छतः। स्तेनभये तु तयोर्द्वयोर्मध्यादेको द्वारे तिष्ठति द्वितीयः कायिकीं व्युत्सृजति । अथ श्वापदभयं त एकस्तत्र कायियीं निसृजति, द्वितीयो दण्डकहस्तः 'तं' कायिकीं व्युत्सृजन्तमात्मानं च रक्षति ॥ अथैकाकिनो यतना प्रतिपाद्यते [भा. ३२१४] सभयाऽसति मत्तस्स उ, एक्को उपओग डंडओ हत्थे । वति कुडतेण कडी, कुणति य दारे वि उपयोगं ।। वृ-यदि सभयं द्वितीयस्य च संयतस्य तत्राभावस्ततो मात्रके व्युत्सर्जनीयम् । अथ मात्रकं न विद्यते तत उपयोगं कृत्वा दण्डकं हस्ते गृहीत्वा वृतेर्वा कुडयस्य वा अन्तेत- पार्श्वेन कटीं कृत्वा कायिकीं व्युत्सृजति । द्वारेऽपि च स्तेनादिप्रवेशविषयमुपयोगं करोति ॥ [भा. ३२१५] बितियपदे उ गिलाणस्स कारणा अहव होज एगागी । पुव्व ट्ठिय निद्दोसे, जतणाए निवेदिउच्चारे ॥ वृ- द्वितीयपदेन तु ग्लानस्य कारणादेकोऽपि निर्गच्छेत्, अथवा स साधुरशिवादिभि कारणैरेकाकी भवेत्, यद्वा तत्र पूर्वं निर्दोष-निर्भयमिति मत्वा स्थिताः पश्चात् सभयं सञ्जातं तत्रापि यतनया निवेद्य तथैवोच्चारभूमौ प्रश्रवणभूमौ वा गच्छन्ति ॥ अथ “ग्लानस्य कारणात्” इति पदं व्याख्यानयति [भा. ३२१६ ] एगो गिलाणपासे, बितिओ आपुच्छिऊण तं नीति । चिरगते गिलाणमितरो, जग्गंतं पुच्छिउं नीति ॥ वृ- इह ते त्रयो जनाः, तेषां च मध्ये एको ग्लानो विद्यते, एकश्च तस्य ग्लानस्य पार्श्वे तिष्ठति, द्वितीयस्तमापृच्छय कायिक्यादिभूमौ निर्गच्छति । स च यदि चिरगतो भवति ततः 'इतरः ' ग्लानपार्श्वस्थितो ग्लानं जाग्रतमापृच्छय निर्गच्छति ॥ एवं स्तेनादीनां सम्भवे विधिरुक्तः । अथ तदम्भवे विधिमाह [भा. ३२१७] जहितं पुन ते दोसा, तेनादीया न होज पुव्वुत्ता । एक्को वि निवेदेतुं, निंतो वि तहिं नऽतिक्कमति ।। वृ-यत्र पुनः 'ते' पूर्वोक्ताः स्तेनादयो दोषा न भवन्ति तत्रैकोऽपि शेषसाधूनां जाग्रतां निवेद्य निर्गच्छत् न भगवदाज्ञामतिक्रामति ॥ Page #252 -------------------------------------------------------------------------- ________________ २४ उद्देशक ः १, मूलं-४८, [भा. ३२१७] एवं विचारभूमिविषयो विधिरुक्तः । अथ विहारभूमिविषयमाह[भा.३२१८] बहिया वियारभूमी, दोसा ते चेव अधिय छक्काया। पुवद्दिढे कप्पइ, बितियं आगाढ संविग्गो॥ वृ- प्रतिश्रयाद् बहि 'विहारभूमौ' स्वाध्यायभूमौ रात्रावेकाकिनो गच्छतः ‘त एव' स्तेनाऽऽरक्षिकादयो दोपा भवन्ति, 'अधिकाश्च' अतिरिक्ताः षट्कायविराधनानिष्पन्नाः । 'द्वितीयम्' अपवादपदमत्रोच्यते-कल्पते रात्रावपिस्वाध्यायभूमौ 'पूर्वदृष्टायां' दिवाप्रत्युपेक्षितायां गन्तुम् । गाथायांपुस्त्वनिर्देशःप्राकृतत्वात्, एवमन्यत्रापिलिङ्गव्यत्ययो द्रष्टव्य इति । तत्राप्यागाढे कारणे यः ‘संविग्नः' मोक्षाभिलाषीअत एव वक्ष्यमाणजितेन्द्रियादगुणोपेतः साधुः स गच्छति॥ अथागाढपदं व्याचष्टे[भा.३२१९]ते तिन्नि दोन्नी अह विक्कतो उ, नवंच सुत्तं सपगासमस्स । सज्झातियं नत्थि रहं च सुत्तं, न यावि पेहाकुसलो स साहू ॥ वृ. 'ते' साधवो रात्रौ विहारभूमौ गच्छन्त उत्सर्गतयो जना गच्छन्ति । त्रयाणामभावे द्वौ गच्छतः। अथ ग्लानादिकार्यव्यापृततयाद्वितीयोऽपिनप्राप्यते एवमेकाक्यपि गच्छेत् । किमर्थम्? इत्याह-'अस्य' विवक्षितसाधोः 'नवम्' अधुनाऽधीतं 'सप्रकाशं' सूत्रस्पर्शिकनियुक्तिरूपेणार्थेन सहितंपरावर्तनीयंवर्तते, स्वाध्यायिकंच वसतौ तदानीं नास्ति।अथवा रहस्यसूत्र' निशीथादिकं तद् यथा द्वितीयो न श्र णोति तथा परावर्तयितव्यम्, न चासौ साधुरनुप्रेक्षाकुशलः । एतेनागाढकारणेन रात्रावपि विहारभूमौ गन्तुं कल्पते ॥ तत्र कीशे गृहे कीशेन वा साधुना गन्तव्यम् ? इति दर्शयति[भा.३२२०] आसन्नगेहे दियदिट्ठभोम्मे, घेत्तूण कालं तहि जाइ दोसं। वसिदिओ दोसविवज्जितो य, निद्दा-विकारा-ऽऽलसवज्जितप्पा ।। वृ- कालं गृहीत्वा “दोसं"ति प्रादोषिकं स्वाध्यायं कर्तुमासन्नगेहे 'दिवादृष्टभौमे' दिवाप्रत्युपेक्षितोच्चार-प्रश्रवणभूमिके 'याति' गच्छति । स च 'वश्येन्द्रियः' इष्टा-ऽनिष्टविषयेषु वर्तमानानामिन्द्रियाणां निग्रहीता, दोषाः-क्रोधादयस्तैर्विवर्जितः, तथा निद्रया विकारेण चहास्यादिना आलस्येन च वर्जित आत्मा यस्य स तथा एवंविधस्तत्र गन्तुमर्हति नानीशः। [भा.३२२१] तब्भावियं तं तु कुलं अदूरे, किच्चाण झायं निसिमेव एति। वाघाततो वा अहवा विदूरे, सोऊण तत्थेव उवेइ पादो।। वृ-यस्मिन् श्रावकादिकुलेसगच्छतितत्तस्यां वेलायांप्रविशद्भिसाधुभिर्भावितंतद्भावितम्, तदपि 'अदूरे' न दूरदेशवर्ति, एवंविधे गृहे प्रादोषिकं स्वाध्यायं कृत्वा' परिवर्त्तय निशायामेव प्रतिश्रयमागच्छति । अथ रजन्यामागच्छतोऽपान्तराले दुष्टश्वान-गवादिभिस्तेनादिभिर्वा व्याघातः अथवा 'दूरे' दूरदेशवर्तिनी सा विहारभूमि ततस्तत्रैवगृहे सुप्तवा ‘प्रातः'प्रभाते प्रतिश्रयमुपैति।। मू. (४९) नो कप्पइ निग्गंथीए एगाणियाए राओ वा वियाले वा बहिया वियारभूमिं वा विहारभूमिं वा निक्खमित्तए वा पविसित्तए वा । कप्पइ से अप्पबिइयाए वा अप्पतइयाए वा अप्पचउत्थीए वा राओ वा वियाले वा बहिया वियारभूमिं वा विहारभूमिं वा निक्खमित्तए वा पविसित्तए वा।। Page #253 -------------------------------------------------------------------------- ________________ २५० बृहत्कल्प-छेदसूत्रम् -२-१/४९ वृ-अस्य व्याख्या प्राग्वत्॥अथ भाष्यम्[भा.३२२२] सोचेवय संबंधो, नवरिपमाणम्मि होइ नाणत्तं । . जे यजतीणं दोसा, सविसेसतरा उ अजाणं ॥ वृ-'स एव' निर्ग्रन्थसूत्रोक्तः सम्बन्ध इहापिसूत्रे ज्ञातव्यः । 'नवरं' केवलंप्रमाणे निर्ग्रन्थेभ्यो निर्ग्रन्थीनां नानात्वम्, निर्ग्रन्थानां द्वयोस्त्रयाणां वा निर्गन्तुं कल्पते, निर्ग्रन्थीनां तु द्वयोस्तिसृणां चतसृणां वा इत्ययं सङ्ख्याकृतो विशेष इति भावः । 'ये च' स्तेना-ऽऽरक्षिकादयो यतीनामेकाकिनिर्गमने दोषाः पूर्वसूत्रे उक्ताः आर्याणामपि त एव सविशेषतरा मन्तव्याः, तरुणाधुपद्रवसहिता इति भावः ॥ [भा.३२२३] बहिया वियारभूमी, निग्गंथेगाणियाए पडिसिद्धा। चउगुरुगाऽऽयरियादी, दोसा ते चेव आणादी। वृ-रात्रौ बहिर्विचारभूमौ गमनमेकाकिन्या निर्ग्रन्थ्याः प्रतिषिद्धम् । अत एवैतत् सूत्रमाचार्य प्रवर्त्तिन्या न कथयति चतुर्गुरवः । प्रवर्तिनी भिक्षुणीनां न कथयति चतुर्गुरवः । भिक्षुण्यो न प्रतिशृण्वन्तिमासलघु। प्रवर्तिनीवचनमतिक्रम्य भिक्षुण्यो बलामोटिकया एकाकिन्यो गच्छन्ति चतुर्गुरवः । दोषाश्च त एवाज्ञादयो द्रष्टव्याः ॥ [भा.३२२४]भीरू पकिच्चेवऽबला चलाय, आसंकितेगा समणी उ रातो। मा पुप्फभूयस्स भवे विनासो, सीलस्स थोवाण न देंति गंतुं॥ वृ-इह स्त्री प्रकृत्यैव' स्वभावेनैव भीरु' अल्पसत्त्वा, पुरुषंचप्राप्यसा अबला' अकिञ्चित्करी, अत एव तस्या अबलेति नाम, अबला चस्वभावादेव चञ्चला, अत एव एकाकिनी श्रमणी रात्री विचारभूमौ गच्छन्ती आशङ्किता स्यात्-अवश्यमेषा व्यभिचारिणीति । अतो म 'पुष्पभूतस्य' शिरीषपुष्पसुकुमारस्य शीलस्य विनाशो भवेदिति कृत्वा स्तोकानामार्याणां रात्रौ विचारभूमौ गन्तुंभगवन्तः 'न ददति' नानुजानन्तीत्यर्थः ॥उपाश्रयेऽपि ताभिरीशे वस्तव्यमिति दर्शयति[भा.३२२५] गुत्ते गुत्तदुवारे, कुलपुत्ते इत्थिमज्झे निदोसे। भीतपरिस मद्दविदे, अज्जा सिज्जायरे भणिए ।। वृ-'गुप्तोनाम' वृत्यादिपरिक्षिप्तः, 'गुप्तद्वारः' सकपाटः, ईशेउपाश्रयेस्थातव्यम्।शय्यातरश्च तासां कुलपुत्रको गवेषणीयः। तस्यैव शय्यातरस्यया भगिनीप्रभृतयः स्त्रियस्तासां सम्बन्धि यद् गृहं तन्मध्यवर्ती संयतीनामुपाश्रयो भवति । सोऽपि 'निर्दोषः' पुरुषसागारिकादिदोषरहितः । कुलपुत्रकश्च भीतपर्षद् मार्दविकश्चान्वेषणीयः । भीतपर्षद् नाम-यद्भयात् तदीयः परिवारोन कमप्यनाचारं कर्तुमुत्सहते।मार्दविको नाम-मधुरवचनः । ईशआर्यायाः शय्यातरो भणितः॥ रात्रौ च प्रतिश्रये ताभिरियं यतना कर्तव्या[भा.३२२६] पत्थारो अंतो बहि, अंतो बंधाहि चिलिमिली उवरिं। तंतह बंधति दारं, जहणं अन्ना न याणाई॥ वृ-'प्रस्तारः' कटः स एकः प्रतिश्रयाभ्यन्तरे द्वितीयस्तु प्रतिश्रया बहि कर्तव्यः । 'अन्तश्च' अभ्यन्तरे कटस्योपरि चिलिमिलिकां 'बधान' नियन्त्रय । तत्र च प्रतिहारी तथा बघ्नाति द्वारं यथा “णं" इति ‘तान्’ बन्धान् नान्या संयती मोक्तुं जानाति ।। Page #254 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं-४९, [भा. ३२२७] २५१ [भा.३२२७] संथारेगंतरिया, अभिक्खणाऽऽउज्जणा य तरुणीणं । पडिहारि दारमूले, मज्झे अपवत्तिनी होति ।। वृ-'संस्तारकः' प्रस्तरणमेकान्तरितानांतरुणी-वृद्धानां भवति।अभीक्ष्णंचतरुणीनांयतनया प्रवर्त्तिन्या प्रतिहारिकया च 'उपयोजना' सङ्घटना कर्तव्या। प्रतिहारी च द्वारमूले स्वपिति । 'मध्ये' सर्वमध्यवर्तिनि प्रदेशे प्रवर्तिनी भवति॥ [भा.३२२८] निक्खमण पिंडियाणं, अग्गद्दारे य होइ पडिहारी। दारे पवत्तिणी सारणा य फिडिताण जयणाए॥ कृ-रात्रौ विचारभूमौ निष्क्रमणं 'पिण्डितानां समुदितानां त्रि-चतुःप्रभृतीनामित्यर्थः । प्रतिहारी द्वारमुद्धाट्य प्रथमत एवाग्रद्वारे तिष्ठति । प्रवर्तिनी पुनद्वरि स्थिता संयती या यदा प्रविशति तां शिरसि कपोलयोर्वक्षसि च स्पृष्टवा प्रवेशयति । याश्च तत्र स्फिटिताः-द्वारविप्रनष्टा इतस्ततः परिभ्रमन्तितासांयतनया यथा अप्रीतिकं न भवति तथा स्मारणा कर्तव्या, यथा-आर्ये! इहागच्छ, इतो न भवति द्वारम् ।। अथ द्वितीयपदमाह[भा.३२२९] बिइयपद गिलाणाए, तुकारणा अहव होज एगागी। आगाढे कारणम्मिं, गिहिनीसाए वसंतीणं ।। वृ-द्वितीयपदे ग्लानाया-संयत्याः कारणादेकाकिन्यपि विचारभूमौ गच्छेत् । कथम् ? इति चेद् उच्यते-इह प्रवर्तिनी यदा आत्मतृतीया भवति, तत्राप्येका ग्लाना तत एका ग्लानायाः पार्वे तिष्ठति, द्वितीया तु निवेद्य निर्गच्छति । अथवा सा अशिवादिभिः कारणैरेकाकिनी भवेत् । तत्र च 'आगाढे' आत्यन्तिके कारणे गृहिनिश्रया वसन्तीनामेकाकिनीनां संयतीनां विधिरभिधीयते॥ [भा.३२३०] एगा उ कारण ठिया, अविकारकुलेसु इस्थिबहुलेसु । तुब्भवसीहं नीसा, अज्जा सेजातरं भणति ॥ वृ. एका आर्यिका 'कारणेन' पुष्टालम्बनेन ‘अविकारकुलेषु हास्यादिविकारविरहितेषु स्त्रीबहुलेषु कुलेषु स्थिता सती शय्यातरमित्थं भणति-अहंयुष्मन्निश्रयावसामि, यच्च मम किञ्चित् सूणमायाति तत्राहं भवद्भि स्मारणीया ॥ इदमेव स्फुटतरमाह[भा.३२३१] अपुव्वपुंसे अवि पेहमाणी, वारेसि धूतादि जहेव भजं। ... तहाऽवराहेसु ममं पि पेक्खे, जीवो पमादी किमु जोऽबलाणं॥ वृ-भोः श्रावक ! यथा त्वम् 'अपूर्वपुंसः' अष्टपूर्वपुरुषान् पश्यन्तीमपि, आस्तां तैः सह सम्भाषणादि कुर्वाणामित्यपिशब्दार्थः, दुहितरम् आदिशब्दाद् भगिनीप्रभृतिकां भार्यां वा यथा वारयसि; तथा 'अपराधेषु' स्खलितेष्वनुचितसन्दर्शनादिषु ‘मामपि प्रेक्षस्व' अहमपि तथैव वारणीया, यतो जीवः सर्वोऽपि प्रायः 'प्रमादी' अनादिभवाभ्यस्तप्रमादबहुलः, किं पुनर्यः 'अबलानां' स्त्रीणां सम्बन्धी ? स चपलस्वभावतया सुतरांप्रमादीति भावः । किञ्च[भा.३२३२] पायं सकजग्गहणालसेयं, बुद्धी परत्थेसु उजागरूका। ___ तमाउरो पस्सति नेह कत्ता, दोसं उदासीनजनो जगंतु॥ वृ- येयं प्रतिप्राणि स्वसंवेदनप्रत्यक्षा बुद्धि सा प्रायः स्वं-स्वकीयं यत् कार्य-हिताऽहितप्रवृत्तिनिवृत्तिरूपं तद्रहणे-तत्परिच्छेदेऽलसा-जडा, परार्थेषुतु' परप्रयोजनेषु 'जागरूका' Page #255 -------------------------------------------------------------------------- ________________ बृहत्कल्प-छेदसूत्रम् -२-१/४९ जागरणशीला, अत एव 'तं' दोषम् 'उदासीनजनः ' मध्यस्थलोकः तटस्थः पश्यति । अतोऽहं भवतां पार्वादात्मनमहितेषु प्रवर्त्तमानं निवारयामीति प्रक्रमः ॥ २५२ [भा.३२३३] तेनिच्छिए तस्स जहिं अगम्मा, वसंति नारीतो तहिं वसेज्जा । ता बेति रत्तिं सह तुब्भ नीहं, अनिच्छमाणीसु बिभेमि बेति ॥ वृ- एवमुक्ते सति यद्यसौ श्रावक इच्छति तदुक्तं प्रतिपद्यते तदा 'तस्य' शय्यातरस्य यत्र 'अगम्याः' माता-भगिनीप्रभृतयो नार्यो वसन्ति तत्र सा एकाकिनी संयती वसेत् । ताश्च स्त्रियो ब्रूते रात्रौ युष्माभिः सहाहं कायिक्याद्यर्थं निर्गमिष्यामि, अतो यदा भवत्य उत्तिष्ठन्ते तदा मामप्युत्थापयत । यदि ता इच्छन्ति ततो लष्टम्, अथ नेच्छन्ति ततः 'अहं रात्रावेकाकिनी निर्गच्छन्ती बिभेमि' इत्येवं ब्रवीति ।। एवमप्युक्ता यदि ता द्वितीया नागच्छन्ति तदा किं कर्त्तव्यम् ? इत्याह[भा. ३२३४] मत्तासईए अपवत्तणे वा, सागारिए वा निसि निक्खमंती । तासिं निवेदेतु ससद्द-दंडा, अतीति वा नीति व साधुधम्मा ॥ वृ - रात्री मात्रके कायिकी व्युत्सर्जनीया, तत उद्गते सूर्ये सा मात्रककायिकी बहिश्छर्दनीया । अथ मात्रकं नास्ति, यद्वा तस्या मात्रके कायिक्याः प्रवर्तनम् आगमनं न भवति, सागारिकबहुलं वा तद् गृहम्, एतैः कारणैः 'निशि' रात्रावेकाकिनी निष्क्रामन्ती 'तासां' शय्यातरीणां निवेद्य सशब्दा-कासितादिशब्दं कुर्वती दण्डकं हस्ते कृत्वा 'साधुधर्मा' शोभनसमाचारा 'अत्येति वा' प्रविशति वा ‘निरेति वा' निर्गच्छति वा ॥ एवं तावद् विचारभूमिविषयो विधिरुक्तः । अथ विहारभूमिविषयमाह [भा. ३२३५ ] एगाहि अनेगाहि व, दिया व रातो व गंतु पडिसिद्धं । चउगुरु आयरियादी, दोसा ते चेव जे भणिया ॥ वृ- एकाकिनीनाम् 'अनेकाकिनीनां वा' बह्वीनामपि, गाथायां षष्ठयर्थे तृतीया, दिवा वा रात्री वा विहारभूमौ संयतीनां गन्तुं 'प्रतिषिद्धं' न कल्पते । अत एव यद्येनमर्थमाचार्या प्रवर्त्तिन्या न कथयन्ति तदा चतुर्गुरवः । प्रवर्त्तिनी भिक्षुणीनां न कथयति चतुर्गुरवः । भिक्षुण्यो न प्रतिश्र ण्वन्ति लघुमासः । दोषाश्च त एव द्रष्टव्या ये पूर्वं विचारभूमौ भणिताः ॥ द्वितीयपदे गन्तव्यमपीति दर्शयति [भा. ३२३६] गुत्तदुवार, दुणवनिवेसणस्संतो । संबंधि निसणी, बितियं आगाढ संविग्गे ।। वृ- गुप्ते गुप्तद्वारे 'दुर्जनवर्जे' दुःशीलजनरहिते गृहे स्वाध्यायकरणार्थं गन्तव्यम्, तच्च गृहं यदि 'निवेशनस्य' पाटकस्य 'अन्तः' अभ्यन्तरवर्त्ति भवति । अथ निवेशनान्तर्न प्राप्यते ततोऽन्यस्मिन्नपि पाटके यः संयतीनां पितृ-भ्रात्रादिरशङ्कनीयः सम्बन्धी, यो वा शय्यातरस्य 'निजः' सुहृदादि, यो वा 'संज्ञी' श्रावको माता- पितृसमानस्तस्य गृहे गन्तव्यम् । एतच्च द्वितीयपदमागाढे संविग्नाया आर्यिकाया मन्तव्यम् । किमुक्तं भवति ? - व्याख्याप्रज्ञप्तिप्रभृतिश्रुतसम्बन्धिनमागाढयोगं काचिदार्यिका प्रतिपन्ना, साच यदि 'संविग्ना' हास्यादिविकारवर्जिता, ततस्तस्या आत्मतृतीयाया आत्मचतुर्थाया आत्मपञ्चमाया वा पूर्वोक्तगुणोपेतं गृहं गत्वा स्वाध्यायः कर्त्तु कल्पते ॥ तत्रैव गमने विधिं दर्शयति Page #256 -------------------------------------------------------------------------- ________________ उद्देशक ः १, मूलं-४९, [भा. ३२३७] २५३ [भा.३२३७] पडिवत्तिकुसल अज्जा, सज्झायज्झाणकारणुज्जुत्ता। मोतूण अब्भरहितं, अजाण न कप्पती गंतुं॥ वृ-प्रतिपत्ति-उत्तरप्रदानं तत्र कुशला-निपुणा या काचिदार्या सा तस्याः सहाया समर्पणीया। तथायासा आगाढयोगं प्रतिपन्ना सा स्वाध्यायस्य यद्ध्यानम्-एकाग्रतया करणंतत्रेशे कारणे उद्युक्ता भवेत्। “मोत्तूणअब्मरहियं"ति येषुकुलेषु यथाभद्रकादिषुसंयतीनामागमनम् अभ्यर्हित' गौरवाहँ तानि मुक्त्वाऽन्यत्र कुले आर्यिकाणां न कल्पते गन्तुम् ।। एवंविधे कुले गत्वा स्वाध्यायं कुर्वतीनां यद्यसौ गृहपति प्रश्नयेत्-किमर्थं भवत्य इहागताः? ततः प्रतिपत्तिकुशलया वक्तव्यम्[भा.३२३८]सज्झाइयं नत्थि उवस्सएऽम्हं, आगाढजोगंच इमा पवण्णा। तरेण सोहद्दमिदं च तुब्भं, संभावणिजातो न अन्नहा ते ।। वृ-हे श्रावक ! योऽयमस्माकमुपाश्रयः तत्र स्वाध्यायिकं नास्ति । इयं च संयती आगाढयोगं प्रतिपन्ना वर्तते । “तरेण"त्ति शय्यातरेण सह युष्माकम् ‘इदम्' ईशं सकलजनप्रतीतं सौहार्द तद् मत्वा वयमत्र समागताः । अतो नान्यथा त्वया वयं सम्भावनीयाः॥अपि च[भा.३२३९]खुद्दो जनो नत्थि न याविदूरे, पच्छण्णभूमी य इहं पकामा। तुब्भेहि लोएणय चित्तमेतं, सज्झाय-सीलेसुजहोज्जमो ने॥ वृ- 'क्षुद्रो जनः' दुर्जनलोक इह नास्ति, न चेदं युष्मद्धहं 'दूरे' अस्मप्रतिश्रयाद् दूरवर्ति, प्रच्छन्नभूमिश्च ‘इह' युष्मद्गृहे 'प्रकामा विस्तृता, अतोऽत्रास्माकंस्वाध्यायो निव्यार्घातं निर्वहति। किश्च युष्माकंलोकस्यच 'चित्तं' प्रतीतमेतत, यथा-"ने"अस्माकं स्वाध्याय-शीलयोर्गाढतरः 'उद्यमः' प्रयत्नो भवति ॥ मू. (५०) कप्पइनिग्गंधाण वा निग्गंथीण वा पुरस्थिमेणंजावअंग-मगहाओएतए, दक्खिणेणं जाव कोसंबीओ, पञ्चत्थिमेणं जाव थूणाविसयाओ, उत्तरेणं जाव कुणालाविसयाओ एत्तए। एताव ताव कप्पइ । एताव ताव आरिए खेते । नो से कप्पइ एत्तो बाहिं । तेन परं जत्थ नाणदंसण-चरित्ताई उस्सप्पंति त्ति बेमि ॥ वृ-अथास्य सूत्रस्य कः सम्बन्धः? इत्याह[भा.३२४०] इति काले पडिसेहो, परूवितो अह इदानि खेत्तम्मि। चउदिसि समणुन्नायं, मोत्तूण परेण पडिसेहो। वृ-'इति' अमुना प्रकारेण रात्रिलक्षणो यः कालस्तद्विषयः प्रतिषेधः पूर्वसूत्रेप्ररूपितः, अथ' अन्तरमिदानी क्षेत्रविषयःप्ररूप्यते । कथम् ? इत्याह-चतसृषु दिक्षुयावत् क्षेत्रमत्रसूत्रे समनुज्ञातं तावद् मुक्त्वा ‘परेण' बहि-क्षेत्रेषु विहारस्य प्रतिषेधो मन्तव्यः । किञ्च[भा.३२४१] हेट्ठा वि य पडिसेहो, दव्वादी दव्वे आदिसुत्तं तु। घडिमत्त चिलिमिणीए, वत्थादी चेव चत्तारि ॥ [भा.३२४२] वगडा रच्छा दगतीरगं च विह चरमगंच खित्तम्मि। . सारिय पाहुड भावे, सेसा काले य भावे य॥ : वृ.अधस्तनसूत्रेष्वपि 'द्रव्यादि' द्रव्य-क्षेत्र-काल-भावविषयः प्रतिषेधो मन्तव्यः । तत्र द्रव्यप्रतिषेधपरम् ‘आदिसूत्र' प्रलम्बप्रकृतमित्यर्थः तथा घटीमात्रसूत्रं चिलिमिलिकासूत्रं च । ___ Page #257 -------------------------------------------------------------------------- ________________ २५४ बृहत्कल्प-छेदसूत्रम् -२-१/५० वस्त्रादिप्रतिषेधकानि च चत्वारि सूत्राणि-एकंतावत् "निग्गंथं चणंगाहावइकुलं० अनुप्पविलु केइवत्थेण वा पाएण वा०" इत्यादिलक्षणम्, द्वितीयमिदमेव “बहिया वियारभूमिं वा विहारभूमि वा०" इति विशेषितम्, तृतीय-चतुर्थे त्वेवमेव निर्ग्रन्थीविषये, एतान्यपि द्रव्यप्रतिषेधपराणि । तथा वगडासूत्रं रथ्यामुखाऽऽपणगृहादिसूत्रं दकतीरसूत्रं 'विहं' अध्वा तद्विषयं सूत्रं एतदेव च प्रस्तुतं चरमसूत्रं एतानि क्षेत्रप्रतिषेधपराणि । तथा यान्योघतो विभागतश्च सागारिकसूत्राणि यच्च ‘प्राभृतम्' अधिकरणं तद्विषयं सूत्रं एतानि भावप्रतिषेधपराणि । 'शेषाणि तु' मासकल्पप्रकृतप्रभृतीनि सर्वाण्यपि सूत्राणि 'काले च भावे च उभयोरपि प्रतिषेधकानि भवन्ति । [भा.३२४३] अहवण सुत्ते सुत्ते, दव्वादीणं चउण्हमोआरो। सोय अधीनो वत्तरि, सोतरिय अतो अनियमोऽयं ॥ वृ- अथवा न पृथग् द्रव्यादिविषयाणि सूत्राणि, किन्तु सूत्रे सूत्रे 'चतुर्णा' द्रव्य-क्षेत्रकालभावानामवतारः प्रदर्शयितव्यः । 'सच' अवतारो वक्तरि श्रोतरि च 'अधीनः' आयत्तः, यदि वक्ता तथाविधप्रतिपादनशक्तिसमन्वितः श्रोताच ग्रहण-धारणालब्धिसम्पन्नः तदा भवति सूत्रे सूत्रे चतुर्णा द्रव्यादीनामवतारः, अन्यदातुनेति भावः । अतो नायं नियमो यदवश्यं प्रतिसूत्रं द्रव्यादिचतुष्टयमवतारणीयमिति॥अनेन सम्बन्धेनायातस्यास्य व्याख्या-कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनांवा पूर्वस्यां दिशियावदङ्ग-मगधान् ‘एतुं' विहर्तुम्।अङ्गा नाम-चम्पाप्रतिबद्धोजनपदः। मगधा-राजगृहप्रतिबद्धोदेशः । दक्षिणस्यांदिशियावत् कौशाम्बीमेतुम्।प्रतीच्यां दिशिस्थूणाविषयं यावदेतुम् । उत्तरस्यां दिशि कुणालाविषयं यावदेतुम् । सूत्रे पूर्व-दक्षिणादिपदेभ्यस्तृतीयानिर्देशो लिङ्गव्यत्ययश्च प्राकृतत्वात् । एतावत् तावत् क्षेत्रमवधीकृत्य विहर्तुं कल्पते । कुतः ? इत्याहएतावत्तावद्यस्मादाय क्षेत्रम्। नो "से" तस्य निर्ग्रन्थस्य निर्ग्रन्थ्यावाकल्पते ‘अतः' एवंविधात् आर्यक्षेत्राबहिर्विहर्तुम् । ततः परं' बहिर्देशेषु अपि सम्प्रतिनृपतिकालादारभ्य यत्र ज्ञान-दर्शनचारित्राणि ‘उत्सर्पन्ति' स्फातिमासादयन्ति तत्र विहर्त्तव्यम् । ‘इति' परिसमाप्तौ । ब्रवीमि इति तीर्थकर-गणधरोपदेशेन, न तु स्वमनीषिकयेति सूत्रार्थः ॥ अथ नियुक्तिविस्तरः[भा.३२४४] जो एतं न विजाणइ, पढमुद्देसस्स अंतिमं सुत्तं । अहवण सव्वऽज्झयणं, तत्थ उ नायं इमं होइ॥ वृ- 'यः' आचार्य 'एतत्' प्रस्तुतं प्रथमोद्देशकस्यान्त्यं सूत्रं न जानाति, अथवा सर्वमपीदं कल्पाध्ययनं यो न जानाति, 'तत्र' आचार्येतद्विषयमित्यर्थः 'इदं वक्ष्यमाणं 'ज्ञातम्' उदाहरणं भवति ॥आह किमर्थं प्रथमोद्देशकस्यान्त्यं सूत्रं न जानातीत्युक्तम् ? उच्यते[भा.३२४५] उज्जालितो पदीवो, चाउस्सालस्समज्झयारम्मि। पमुहे वातं सव्वं, चाउस्सालं पगासेति॥ वृ-'चतुःशालस्य गृहस्य मध्यारे' मध्यभागे 'प्रमुखेवा' प्रवेश-निर्गममुखे प्रदीप उज्ज्वालितः सन् ‘तत्' चतुःशालं सर्वमपि प्रकाशयति; एवमत्रापि सकलाध्ययनमध्यवर्तिनि प्रस्तुतसूत्रे यदिदं प्रथमोद्देशकस्यान्त्यसूत्रं न जानातीत्युक्तं तद् मध्यदीपकमवगन्तव्यम् । यद्वा यस्मादत्र प्रथमोद्देशके समासतः सर्वाऽपि सामाचारी समर्थिता ततश्चतुःशालप्रमुखोज्वालितप्रदीप इवेदमन्त्यदीपकमवसात्यम् । ततश्चेदमुक्तं भवति ?-य एतत् कल्पाध्ययनं प्रथमोद्देशकं वा न Page #258 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं - ५०, [भा. ३२४५] जानाति स गणपरिवर्ती भगवद्भिर्नानुज्ञातः ॥ इदमेव प्रचिकटयिषुः “तत्राचार्ये ज्ञातमिदं भवति' इति पदं व्याख्यानयति [भा. ३२४६ ] जो गणहरो न याणति, जाणंतो वा न देसती मग्गं । सो सप्पसीसगं पिव, विनस्सती विजपुत्तो वा ॥ वृ-यः कश्चिद् गणधरः ‘मार्गं' यथोक्तसामाचारीरूपं न जानाति, जानाति वा परं न शिष्याणां तं मार्गमुपदिशति स सर्पशीर्षकमिब वैद्यपुत्र इव वा विनश्यति ॥ तत्थ इमं कप्पियं उदाहरणंएगो सप्पो निचं पलोएंतो अप्पणो जहासुहं विहरइ । ताहे से पुंछडा भणति तुमं निद्यमेव पुरतो गच्छसि । अन्यच्च २५५ [भा.३२४७]सी-उण्ह-वासे य तमंधकारे, निच्चं पि गच्छामि जतो मि नेसी । गंतव्वए सीसग ! कंचि कालं, अहं पि ता होज पुरस्सरा ते ॥ वृ- भोः शीर्षक ! नित्यमप्यहं भवत्पृष्ठलग्ना सती यतो यतो मां नयसि तत्र तत्र शीते वा उष्णे वा वर्षे वा निपतति 'तमोऽन्धकारे वा' बहलतमःपटलविलुप्ते प्रदेशे गच्छामि, किं करोमि ? परं साम्प्रतं कञ्चित् कालं 'गन्तव्ये' गमनेऽहमपि तावत् 'ते' तव पुरस्सरा भवेयम् ॥ शीर्षकं प्राह[भा. ३२४८] ससक्करे कंटइले य मग्गे, वज्जेमि मोरे नउलादिए य । बिले य जाणामि अदुट्ठ दुट्ठे, मा ता विसूराहि अजाणि एवं ॥ - पुच्छिके ! अहं पुरस्सरं गच्छन् सन् 'सशर्करान्' कर्करयुक्तान् कण्टकाकुलाँश्च मार्गान् वर्जयामि । यत्र च मयूरान् नकुलादीँश्चात्मोपद्रवकारिणः पश्यामि तत्र न गच्छामि । बिलानि चामूनि अदुष्टानि अमूनि च दुष्टानि इत्येवमहं सम्यग् जानामि । त्वं पुनरेतेषां मध्यादेकमपि न जानासि । अतस्त्वमेवमज्ञा सती मा तावत् “ विसूराहि" त्ति "खिदेर्जूर - विसूरौ” इति प्राकृतलक्षणबलाद् मा खेदमनुभवेत्यर्थः ।। पुच्छिका प्राह [भा.३२४९] तं जाणगं होहि अजाणिगा हं, पुरस्सरं ताव भवाहि अज्ज । एसा अहं नंगलिपासएणं, लग्गा दुअं सीसग ! वच्च वच्च ॥ वृ- शीर्षक ! त्वं ज्ञायकं भव, अहमज्ञायिकाऽपि स्थास्यामि, 'पुरस्सरम्' अग्रगामुकं तावत् त्वमद्य भव, अहं पुनरेषा नङ्गलिपाशकेन लग्ना अत्रैव स्थिता, त्वं पुनः 'द्रुतं' शीघ्रं व्रज व्रजेति ॥ शीर्षकमाह [भा.३२५०] अकोविए ! होहि पुरस्सरा मे, अलं विरोहेण अपंडितेहिं । वंसस्स छेदं अमुने ! इमस्स, दट्टु जतिं गच्छसि तो गता सि ।। बृ- 'अकोविदे !' मूर्खे ! भव 'मे' मम पुरस्सरा, अलमपण्डितैः सह विरोधेन चलितेन, परं 'हे अमुने!' अज्ञे ! अस्य मदीयवंशस्य च्छेदमपि दृष्ट्वा यदि गच्छसि ततस्त्वमपि 'गताऽसि ' विनष्टाऽसीत्यर्थः, अस्य कार्यस्य पर्यवसानं पश्चात् त्वमपि द्रक्ष्यसीति भावः । अपि च [भा. ३२५१] कुलं विनासेइ सयं पयाता, नदीव कुलं कुलडा उ नारी । निब्बंध एसो नहि सोभनो ते, जहा सियालस्स व गाइतव्वे ॥ वृ-‘स्वयम्' आत्मच्छन्देन ‘प्रयाता' प्रवृत्ता 'कुलटा' स्वैरिणी नारी 'कुलं' पितृकुलं श्वशुरकुलं च विनाशयति । केव किम् ? इत्याह- नदीव कुलम्, यथा नदी स्वैरं महापूरप्रवृत्ता सती कुलमुभयमपि Page #259 -------------------------------------------------------------------------- ________________ २५६ बृहत्कल्प-छेदसूत्रम् -२-१/५० पातयति तथैषाऽपि कुलद्वयमित्यर्थः । न चायमीशः 'निर्बन्धः' कदाग्रहः 'ते' तव 'शोभनः' परिणामसुन्दरो भविता । यथा श्र गालस्य ‘गातव्ये' उन्नदितव्ये निर्बन्धो न शोभनः सञ्जात इति। अत्रखसद्रुमाख्यानकम्-एक्कोसियालो रत्तिंघरंपविट्ठो। घरमानुसेहिचेतितोनिच्छुभउमाढत्तो। सो सुणगाईहिं पारद्धो नीलीरागरंजने पडितो, किह वि ततो उत्तिण्णो, नीलवण्णो जातो । तं अनेनसरभतरक्ख-सियालाईपासिउंभणंति-को तुमंएरिसो? ।सोभणइ-अहंसव्वाहि मिगजाईहिं खसहुमो नाम मिगराया कतो, ततो अहं एत्थमागतो, पासामि ताव को मं न नमति ? । ते जाणंति-अपुव्वोएयस्सवण्णो, अवस्संएस देवेहि अणुग्गहितो।तओभणंति-अम्हे तव किंकरा, संदिसह, किं करेमो? , खसढुमो भणति-हत्थिवाहणं देह । दिन्नो, विलग्गो वियरति । अन्नया सियालेहिं उण्णईयं । ताहे खसहुमेणं तं सियालसहावमसहमाणेण उण्णईयं । ततो हत्थिणा 'सो सियालो तिनाउंसोंडाएघेत्तुंमारितो।जहा सो सियालो उन्नईयं सोउं उन्नईए विनट्ठो एवं तुमंपि विनस्सिहिसि त्ति । किञ्च[भा.३२५२] उल्लत्तिया भो! मम किं करेसी, थामं सयं सुटु अजाणमाणी। __सुतं तया किण्ण कताइ मूढे !, जं वाणरो कासि सुगेहियाए॥ वृ-हे पुच्छिके ! यदि नामत्वं 'उल्लत्तिता' मम सम्मुखं वलिता ततः स्वकं 'स्थाम' वीर्यमजानती मम किं करिष्यसि? न किमपीति भावः। परं मूढे ! त्वया किं न कदाचिदप्येतत् संविधानकं श्रुतं यद्वानरः सुगेहिकायाः शकुनिकायाः सम्मुखमावृतः सन् कृतवान् ? । अत्र कथानकम् वासेण झडिजंतं, रुक्खग्गे वानरं थरथरेंतं। सुघरा नाम सउणिया, भणति तयं निड्डए संती॥ छेत्तूण मे तणाइ, आनेऊणंच रुक्खसिहरम्मि। वसही कता निवाता, तत्थ वसामि निरुब्बिग्गा ॥ एत्थहसामि रमामि य, वासारत्तेय न वि य उल्लामि। ___ अंदोलयामि वानर!, वसंतमासं विलंबेमि॥ हत्था तव मानुसगस्स जारिसा हिदयए य विन्नाणं । हत्था विन्नाणं जीवितंच मोहप्फलं तुज्झ॥ विसहसि धारपहारे, न य इच्छसि गेहमप्पणो काउं। वानर ! तुमे असुहिते, अम्हे वि रतिं न विंदामो॥ तह दोच्चं तह तच्चं, रोसवितो तीए वानरो पावो। रोसेण धमधमेंतो, उप्फिडितो तंगतो सालं ।। आकंपितम्मि तो पादवम्मि फिरडि त्ति निग्गता सुघरा । अन्नम्मि दुमम्मि ठिता, झडिज्जते सीत-वातेणं॥ इतरो वियतं नेहुं, घेत्तूणं पादवस्स सिहराओ। तणय एक्कक्कं अंछिऊण तो उज्झती कुवितो।। भूमीगतम्मि तो निड्डयम्मि अह भणति वानरोपावो। सुघरे ! अवहितहिदए!, सुण ताव जहा अहिरिया सि॥ Page #260 -------------------------------------------------------------------------- ________________ उद्देशकः १, मूलं-५०, [भा. ३२५२] ૨૦૭ वसि ममंमयहरिया, न वसि ममं सोहिया व निद्धा वा। . सुघरे! अच्छसु विघरा, जा वट्टसि लोगतत्तीसु॥ जहा सो वानरो सुघराए पडिचोइओ समाणो तीसे चेव पडिनीऊभूओ, एवं तुमं पि मए हितोवएसेनानुसासियाविमम चेवोपरि भूयत्ति । अत एवोक्तम् उपदेशो न दातव्यो, याशे ताशेजने । पश्य वानरमूर्खण, सुगृही निगृही कृता ।। -किञ्चान्यत्[भा.३२५३] न चित्तकम्मस्स विसेसमंधो, संजाणते नाविमंयककंति । किं पीढसप्पी कह दूतकम्मं, अंधो कहिं कत्थ य देसियत्तं ॥ वृ-यथाअन्धश्चित्रकर्मणः 'विशेष' रामणीयकंनजानीते, नापि मृगाङ्कस्य-चन्द्रमसः कान्तिम्, एवं त्वमपि चक्षूरहिततया मार्गे गन्तुंनजानासीति भावः । तथाकपीठेन सर्पितुं-गन्तुंशीलमस्येति पीठसी-पङ्गु? क्व च 'दूतकर्म' सन्देशहारकत्वम्?, क्वचान्धः? क्व च 'देशकत्वं मार्गदर्शकत्वम् ?, यथा सर्वथैवाघटमानकमिदं तथा भवत्या अपि निष्प्रत्यहं गमनमिति भावः॥ . एवं शीर्षकेणोक्ते सति वा ब्रवीति[भा.३२५४] वुद्धीबलं हीनबला वयंति, किं सत्तजुत्तस्स करेइ बुद्धी । ___ किं ते कहा नेव सुता कतायी, वसुंधरेयं जह वीरभोज्जा ॥ वृ-बुद्धिलक्षणं यद् बलं तद् ‘हीनबलाः' निसत्त्वा एव वदन्ति । यतः सत्त्वयुक्तस्य बुद्धि किं करोति ? सत्त्वेनैव सर्वकार्यसिद्धेः । किं वा त्वया कदाचिदियं कथा नैव श्रुता-यथा वसुन्धरेयं वीरभोज्या। तदुक्तम् नेयं कुलक्रमायाता, शासने लिखिता न वा। खङ्गेनाक्रम्य भुञ्जीत, वीरभोज्या वसुन्धरा ॥ -अथ शीर्षकमाह[भा.३२५५] असंसयंतं अमुणाण मग्गं, गता विधाने दुरतिक्कमम्मि। इमं तु मे बाहति वामसीले!, अन्ने विजं काहिसि एक्कघातं॥ वृ-'असंशयं निस्संदेहं त्वम् अज्ञानां मूर्खाणां 'मार्गम् आत्मोपघातरूपंगता । क्व सति? इत्याह-विधाने दुरतिक्रमे सति । विधानं नाम-यद् येन यदा प्राप्तव्यं तद् दुरतिक्रमम्, नान्यथा कर्तुं शक्यते । उक्तञ्च ___ बुद्धिरुत्पद्यते ताग, व्यवसायश्च तादृशः । सहायास्ताशा ज्ञेयाः, याशी भवितव्यता॥ अत एव तद् अवश्यम्भावितया नास्मन्मतो दुनोति, परं 'वामशीले!' प्रतिकूलपथगामिनि ! मामिदमेव बाधते यद् 'अन्यानपि' आत्मव्यतिरिक्तानस्माध्शानेकघातं करिष्यसि, आत्मना सह मारयसीति भावः॥ [भा.३२५६] सा मंदबुद्धी अह सीसकस्स, सच्छंद मंदा वयणं अकाउं। [1917 Page #261 -------------------------------------------------------------------------- ________________ २५८ बृहत्कल्प-छेदसूत्रम् -२-१/५० पुरस्सरा होतु मुहुत्तमेत्तं, अपेयचक्खू सगडेण खुण्णा ॥ वृ- 'सा' पुच्छिका 'मन्दबुद्धि' सद्बुद्धिविकला 'अथ' अनन्तरं शीर्षकस्य वचनमकृत्वा 'स्वच्छन्दा' स्वमतिप्रवृत्ता ‘मन्दा' गमनक्रियायामलसा बलामोटिकया पुरस्सरा भूत्वा गन्तुं प्रवृत्ता । ततः किमभूत् ? इत्याह- 'अपेतचक्षु' लोचनरहिता सा पुरो गच्छन्ती मुहूर्तमात्रेण शकटेन 'क्षुण्णा' आक्रान् विपत्तिमुपागता । एष ध्ष्टान्तः, अयमर्थोपनयः [भा. ३२५७] जे मज्झदेसे खलु देस गामा, अतिपपितं तेसु भयंतु ! तुज्झं । लक्खण-हिंडीहि सुताविया मो, अम्हं पि ता संपइ होउ छंदो ॥ वृ- 'ये' अगीतार्था शिष्यास्ते आचार्यान् भणन्ति-भदन्त ! ये खलु 'मध्यदेशे' आर्यक्षेत्रे देशाःमगधादयो ग्रामाश्च तव्प्रतिबद्धास्तेषु भगवताम् 'अतिप्रियम्' अतीव विहर्त्तु रोचते, परं वयमेषु दिवसेषु रूक्षान्नमात्रलाभेन हिण्ड्या च इतस्ततः परिभ्रमणरूपया सुष्ठु अतिशयेन तापिताःदग्धान्त्रदेहाः सञ्जाताः, अतोऽस्माकमपि तावत् सम्प्रति च्छन्दो भवतु, स्वच्छन्देन यत्र यत्र रोचते तत्र तत्र विहरिष्याम इति ।। गुरवो ब्रुवते [भा. ३२५८ ] देहोवहीतेणग-सावतेहिं, पदुट्ठमेच्छेहि य तत्थ तत्थ । जता परिब्भस्सध अंतदेसे, तदा विजानिस्सह मे विसेसं ॥ वृ- भो भद्राः ! यूयं प्रत्यन्तदेशे विहरन्तो यदा देहस्तेनैः - शरीरहरैः उपधिस्तेनैः - उपकरणहरैः श्वापदैः-सिंह-व्याघ्रादिभिः प्रद्विष्टम्लेच्छैश्च तत्रतत्रोपहृताः सन्तः संयमा-ऽऽत्मविराधनादिना परिभ्रंशमाप्स्यथ तदा विज्ञास्यथ 'मे' मदीयं विशेषम्, यथा- हा ! न शोभनं कृतमस्माभि यदेवं गुरूणां वचनमवगणय्य स्वच्छन्दसा विहारः कृत इति । यस्तु गणधरो न जानाति, जानानो वा शिष्याणां मार्गं नोपदिशति, स तेषामनुवृत्त्या सन्मार्गमतिक्रम्यानार्यदेशे विहरन् तैरेव शिष्यैः सह विनाशमाविशति; यथा सर्पशीर्षकं पुच्छिकासहितं विनष्टमिति । अथ वैद्यपुत्रदृष्टान्तमाह[भा.३२५९] वेज्जस्स एगस्स अहेसि पुत्तो, मतम्मि ताते अनधीयबिज्जो । गंतुं विदेसं अह सो सिलोगं, घेत्तूणमेगं सगदेसमेति ॥ वृ- एकस्य वैद्यस्य पुत्र आसीत् । स च 'ताते' पितरि मृते सति अनधीतविद्य इति कृत्वा राज्ञः 'सकाशाद् वृत्तिं न लभते । ततो वैद्यकशास्त्रपठनार्थं विदेशं गत्वा तत्र कस्यापि वैद्यस्य पार्श्वे एकं श्लोकं शृणोति स्म पूर्वाह्णे वमनं दद्यादपराह्ने विरेचनम् । वातिकेष्वपि रोगेषु, पथमाहुर्विशोषणम् ॥ ततस्तेन चिन्तितम्-हुंज्ञातं वैद्यकरहस्यम्, अतः किमर्थमत्र तिष्ठामि ? इति । 'अथ' अनन्तरमसौ श्लोकं गृहीत्वा 'स्वकम्' आत्मीयं देशमुपैति ॥ [भा.३२६०] अहाऽऽगतो सो उ सयम्मि देसे, लद्धूण तं चैव पुराणवित्तिं । रन्नो नियोगेण सुते तिगिच्छं, कुव्वंतु तेनेव समं विनट्ठो ॥ वृ- 'अथ' अनन्तरं 'सः' वैद्यपुत्रः स्वके देशे समागतः संन् राज्ञः समीपे तामेव पुराणां वृत्तिं लब्ध्वा अन्यदा राज्ञो नियोगेन 'सुतस्य' राज्ञः पुत्रस्य पूर्वोक्त श्लोकप्रमाणेन चिकित्सां कर्त्तुमारब्धवान्। ततोऽसौ राजपुत्रस्तदीयया अपप्रयोगक्रियया विनष्टः । राज्ञा चापरे वैद्याः पृष्टाः - किमेतेन Page #262 -------------------------------------------------------------------------- ________________ २५९ उद्देशक : १, मूलं-५०, [भा. ३२६०] सम्यक्प्रयोगेण क्रियाकृता? उतापप्रयोगेण? । तैरुक्तम्-अपप्रयोगेणेति। ततोऽसौ तेन राज्ञा शारीरेण दण्डेन दण्डितः। एवमसावपि 'तेन' राजपुत्रेण समं विनष्ट इति उक्तम् । एष दृष्टान्तः, अयमर्थोपनयः-यथाऽसौ वैद्यपुत्र एकभविकं मरणमनुप्राप्तः एवं य आचार्य इदं कल्पाध्ययनंन जानाति एकदेशं वाजानन् गणं परिवर्तयति स गम्भीरसंसारसागरंपरिभ्रमन्ननेकानिजनितव्यमर्तव्यानि प्राप्नोति ।। अथेदं सूत्रं भगवता यत्र क्षेत्रे यंच कालं प्रतीत्य प्रज्ञप्तं तदेवाह[भा.३२६१] साएयम्मि पुरवरे, सभूमिमागम्मि वद्धमाणेण । . सुत्तमिणं पन्नत्तं, पडुच्च तं चेव कालंतु॥ वृ-साकेते पुरवरे सभूमिभागे उद्याने समवसृतेन भगवता वर्द्धमानस्वामिना सूत्रमिदं तमेव' वर्तमानं कालं प्रतीत्य निर्ग्रन्थ-निर्ग्रन्थीनां पुरतः प्रज्ञप्तम् ॥ कथम् ? इत्याह[भा.३२६२] मगहा कोसंबी या, थूणाविसओ कुणालविसओ य। एसा विहारभूमी, एतावंताऽऽरियं खेतं ॥ वृ-पूर्वस्यां दिशि मगधान् दक्षिणस्यां दिशि कौशाम्बी अपरस्यां दिशि स्थूणाविषयं उत्तरस्यां दिशि कुणालाविषयं यावद्द्ये देशा एतावदार्यक्षेत्रमन्तव्यम् । अत एव साधूनामेषा विहारभूमी। इतः परं निर्ग्रन्थ-निर्ग्रन्थीनां विहर्तुन कल्पते ॥अथार्यपदस्य निक्षेपनिरूपणायाह[भा.३२६३] नामं ठवणा दविए, खेत्ते जाती कुले य कम्मे य । भासारिय सिप्पारिय, नाणे तह दंसण चरिते॥ वृ-नामार्या स्थापनार्या द्रव्यार्या क्षेत्रार्या जात्यार्याकुलार्या कार्या भाषार्या शिल्पार्या ज्ञानार्या दर्सनार्याश्चारित्रायश्चेिति । तत्र नाम-स्थापने सुप्रतीते । द्रव्यार्यानामनादियोग्याः तिनिशवृक्षवृतयः। क्षेत्रार्या अर्द्धषड्विशतिर्जनपदाः तद्वासिनो वा ।तेचजनपदाराजगृहादिनगरोपलक्षिता मगधादयः । उक्तञ्च रायगिह मगह १ चंपा, अंगा २ तह तामलित्ति वंगा य३। कंचनपुरं कलिंगा ४, वाणारसि चेव कासी य ५॥ साकेत कोसला ६ गयपुरं च कुरु ७सोरियं कुसट्टा य ८। कंपिल्लं पंचाला ९, अहिछत्ता जंगला चेव १०॥ बारवईय सुरट्ठा ११, विदेह मिहिला य १२ वच्छ कोसंबी १३। नंदिपुरं संडिब्भा १४, भद्दिलपुरमेव मलया य १५॥ वेराड वच्छ १६ वरणा, अच्छा १७ तह मत्तियावइ दसन्ना १८।. सुत्तीवई य चेदी १९, पाव भंगी य २२, मास पुरिवट्टा २३ । सावत्थी य कुणाला २४, कोडीवरिसंच लाढा य २५॥ सेयविया विय नगरी, केगइअद्धं च आरियं भणियं । जत्थुप्पत्ति जिणाणं, चक्कीणं राम-कण्हाणं॥ -सम्प्रति जात्यानाह[भा.३२६४] अंबट्ठा य कलंदा, विदेहा विदका ति य । हारिया तुंतुणा चेव, छ एता इब्भजातिओ॥ ___ Page #263 -------------------------------------------------------------------------- ________________ २६० बृहत्कल्प-छेदसूत्रम् -२-१/५० -इहयद्यप्याचारादिषुशास्त्रान्तरेषुबहवोजातिभेदाउपग्यन्तेतथापिलोकेएता एवाम्बष्ठकलिन्द-वैदेह-विदक-हारित-तुन्तुणरूपाः 'इभ्यजातयः' अभ्यर्चनीया जातयः प्रसिद्धाः । तत एताभिर्जातिभिरुपेता जात्यार्या, न शेषजातिमिरिति ॥अथ कुलार्यान् निरूपयति[भा.३२६५] उग्गा भोगा राइण्ण खत्तिया तह य नात कोरव्वा। इक्खागा वियछट्ठा, कुलारिया होंति नायव्वा ॥ . 'उग्राः' उग्रदण्डकारित्वादारक्षिकाः । भोगाः'गुरुस्थानीयाः। राजन्याः' वयस्याः। क्षत्रियाः' सामान्यतो राजोपजीविनः । 'ज्ञाताः' उदारक्षत्रियाः, 'कौरवाः' कुरुवंशोद्भवाः, एते द्वयेऽप्येक एव भेदः । 'इक्ष्वाकवः' ऋषभनाथवंसजाः षष्ठाः । एते कुलार्या ज्ञातव्याः ॥ 'भाषा' अर्धमागधभाषाभाषिणः। शिल्पार्या तुण्णाक-तन्तुवायादयः । ज्ञानार्यापञ्चधा-आभिनिबोधिकश्रुता-ऽवधि-मनः पर्यय-केवलज्ञानार्यभेदात् । दर्शनार्या द्विधा सरागवीतरागदर्शनार्यभेदात् । तत्र सरागदर्शनार्या क्षायोपशमिकौपशमिकसम्यग्दृष्टिभेदाद् द्विधा । वीतरागदर्शनार्या उपशान्तमोहादयः । चारित्रार्या पञ्चविधाः-सामायिक-च्छेदोपस्थाप्य-परिहारविशुद्धिकसूक्ष्मसम्पराय-यथाख्यातभेदात् । अत्र च क्षेत्रार्यैरधिकारः॥अथार्यक्षेत्रविहारे कारणमाह[भा.३२६६] जम्मण-निक्खमणेसु य, तित्थकराणं करेंति महिमाओ। भवणवइ-वाणमंतर-जोइस-वेमाणिया देवा॥ वृ- इहार्यक्षेत्रे भगवतां तीर्थकृतां जन्म निष्क्रमणयोः चशब्दाद् ज्ञानोत्पत्तौ च भवनपतिवानमन्तर-ज्योतिष्क-वैमानिका देवाः 'महिमाः' सातिशयपूजाः कुर्वन्ति । ताश्च दृष्ट्वा बहवो भव्या विबुध्यन्ते, प्रव्रज्यां च प्रतिपद्यन्ते, चिरप्रव्रजिता अपि स्थिरतरा भवन्ति॥ [भा.३२६७] उप्पन्ने नाणवरे, तम्मि अनंते पहीणकम्माणो । तो उवदिसंतिधम्म, जगजीवहियाय तित्थकरा॥ वृ-'तस्मिन्' तद्देशे 'अनन्ते' अपर्यवसिते 'ज्ञानवरे मति-श्रुतादिशेषज्ञानप्रधाने केवलाख्ये 'उत्पन्ने तदावारककर्मक्षयादाविर्भूते सति 'प्रहीणकर्माणः' प्रक्षीणघातिकाशास्तीर्थकराः 'ततः' ज्ञानोत्पत्त्यनन्तरं 'धर्म' श्रुत-चारित्ररूपंजगजीवहितायोपदिशन्ति॥ [भा.३२६८] लोगच्छेरयभूतं, ओवयणं निवयणं च देवाणं । संसयवाकरणाणि य, पुच्छंति तहिं जिनवरिदे॥ वृ-लोकस्य-मनुष्यलोकस्यआश्चर्यभूतं-विस्मयकारिदेवानामुत्पतनं निपतनंच दृष्ट्वा बहवो जीवाःप्रतिबुध्यन्ते । तथा देव-मनुष्य-तिर्यग्रूपाअसङ्खयेयाः संज्ञिनःस्वस्वसंशयानांव्याकरणानिनिर्वचनानि जिनवरेन्द्रान् 'तत्र' आर्यजनपदे पृच्छन्ति । भगवन्तोऽपि च सातिशयत्वात् तेषामसङ्घयेयानामपि युगपदेव संशयानुन्मूलयन्ति ।अपिच[भा.३२६९] समणगुणविदुऽत्थ जनो, सुलभो उवधी सतंतमविरुद्धो। आरियविसयम्मि गुणा, नाण-चरण-गच्छवुड्डी य॥ वृ. श्रमणगुणाः-मूलोत्तरगुणरूपाः, तत्र पञ्च महाव्रतानि मूलगुणाः, उद्गमोत्पादनैषणादोषविशुद्धि अष्टादश शीलाङ्गसहस्राणि चोत्तरगुणाः, तान् वेत्ति-जानातीति श्रमणगुणविद्, ईशः 'अत्र' आर्यजनपदे ‘जनः' लोकः । अत्र च 'उपधि' औधिक औपग्रहिकश्च ‘स्वतन्त्रेण' Page #264 -------------------------------------------------------------------------- ________________ २६१ उद्देशक : १, मूलं-५०, [भा. ३२६९] स्वसिद्धान्तोक्तेन प्रकारेण 'अविरुद्धः' अदूषितः 'सुलभः' सुखेनैव लभ्यते । एते आर्यविषये विहरतां गुणा भवन्ति । तथा ज्ञानस्य चरणस्य उपलक्षणत्वाद् दर्शनस्य चात्र वृद्धिर्भवति, व्याघाताभावाद्ज्ञान-दर्शन-चारित्राणि स्फातिमुपगच्छन्तीतिभावः गच्छस्य चात्रवृद्धिर्भवति, बहूनां भव्यजन्तूनां प्रव्रज्याप्रतिपत्ति (तेः)॥ [भा.३२७०] एत्थकिर सण्णि सावग, जाणंति अभिग्गहे सुविहियाणं। एतेहि कारणेहिं, बहिगमने होतिऽनुग्घाया॥ वृ-'अत्र किल' आर्यक्षेत्रे संज्ञानं संज्ञा-देव-गुरु-धर्मपरिज्ञानं सा विद्यते येषां ते संज्ञिनःअविरतसम्यग्दृष्टयः, 'श्रावकाः' प्रतिपन्नाणुव्रताः, एते सुविहितानां साधूनामभिग्रहान्जानन्ति। अभिग्रहा नाम-यथेत्थमाहारादिकममीषां कल्पतेइत्थंचन कल्पते, अथवा अभिग्रहाः-द्रव्यक्षेत्रकालभावविषयाः प्रागुक्तस्वरूपाः तान् ज्ञात्वा ते संज्ञि-श्रावकास्तथैव प्रतिपूरयन्ति । एतैः कारणैरार्यजनपदे विहारः कर्तव्य इतिवाक्यशेषः। यद्यार्यक्षेत्राबहिर्गच्छति ततश्चत्वारोअनुद्धाता मासाः प्रायश्चित्तम्॥ [भा.३२७१] आणादिणो य दोसा, विराधना खंदएण दिटुंतो। एतेण कारणेणं, पडुच कालं तु पन्नवणा॥ वृ-आज्ञादयश्च दोषाः । विराधना चात्म-संयमविषया । तत्र च स्कन्दकाचार्येण दृष्टान्तः कर्तवयः । अत एतेन कारणेन बहिर्न गन्तव्यम् । एतद् भगवद्वर्धमानस्वामिकालं प्रतीत्योक्तम्। इदानीं तु सम्प्रतिनृपतिकालं प्रतीत्य प्रज्ञापना क्रियते-यत्र यत्र ज्ञान-दर्शन-चारित्राण्युत्सर्पन्ति तत्र तत्र विहर्तव्यम् ।। अथ स्कन्दकाचार्यदृष्टान्तमाह[भा.३२७२] दोच्चेण आगतो खंदएण वादे पराजितो कुवितो। खंदगदिक्खा पुच्छा, निवारणाऽऽराध तव्वजा ।। [भा.३२७३] उज्जाणाऽऽयुध नूमण, निवकहणं कोव जंतयं पुव्वं । बंध चिरिक्क निदाने, कंबलदाने रथोहरणं॥ [भा.३२७४] अग्गिकुमारुववातो, चिता देवीय चिण्ह रयहरणं । खिजण सपरिसदिक्खा, जिन साहर वात डाहोय॥ वृ-सावत्थी नयरी । जियसत्तू राया। धारिणी देवी । तेसिं पुत्तो खंदतो कुमारो जुवराया। भगिणी से पुरंदरजसा । सोय खंदतो सावतो अभिगतो। इओय उत्तरावहे पच्चंते कुंभकारकडं नगरं । दंडती राया। तस्स पुरोहितो पालतो । सा पुरंदरजसा दंडतिस्स रन्नो दिन्ना । अन्नया पालओ दूतोआगतो।खंदयकुमारेण रायपरिसाएवाए पराजिओ पदुट्ठो सविसयं गतो।खंदतो पंचहिं सएहिं सद्धिं पव्वतिओ मुनिसुव्वयसामिणो अंतिए । तस्सेव ते सीसा जाया । अन्नया तित्थयरंआपुच्छति-पंचहिंसएहिं सद्धिं कुंभकारकडं वच्चामि? |भगवया वारितो सोवसग्गं'ति। पुनो पुच्छति-आराहया ? विराहया ? । तुम मोत्तुं सेसा आराहया। एवं सो गतो कुंभकारकडं । तस्सअग्गुजाणे ठितो।पालगेणयदिट्ठो।ताहेतेनंपुव्ववेरेणंदंडतीवुग्गाहितो-एस परीसहपरातितो पंचहिं सएहिं सद्धिं तव रजं घेच्छिहिति । सो य न पत्तियाइ । ताहे नेन आउहाणि अग्गुजाणे ठवियाणि दंसेऊण वुग्गाहितो । तओ भणति-तुमंचेव से जंजानसितं करेहि । तेन पुरिसजंतं पानामाह. Page #265 -------------------------------------------------------------------------- ________________ २६२ बृहत्कल्प-छेदसूत्रम् -२-१/५० कयं । सव्वे आरद्धा पिल्लिउं । खंदएण भणियं ममं पढमं मारेहि । ताहे सो भणति तुमं पिच्छाहि ताव सीसे वहिज्जुंते । एवं ते सव्वे वहिया सिद्धा य । पच्छा खंदयस्स बद्धस्स रुहिरचिरिक्काहि य सिच्यमाणस्स सीसेसु य खंडिज्जंतेसु असुहो परिणामो जातो। तेन नियाणं कयं । अग्गिकुमारेसु उववन्नो । भगिनीय से कंबलरयणं दिन्नयं, ततोहिंतो रयहरणं कयं । तं रुहिरावलित्तं सेणाय 'मंसं'ति काउं गहियं । देवीए अग्गतो पडियं । 'कतो एयं रयहरणं ? किं मम भाया मारिउ ?' त्ति ताए राया भणितो- अहो ! विनट्ठो सि । ताहे सो अग्गिकुमारेसु पजत्तो जातो । ताहे नगरस्स सव्वतो जोयणपरिमंडले जं किंचि तणं वा कट्टं वा तं साहरिडं दडुं सजणवयं नगरं । सोय पालओ अनेन सपुत्त-दारओ सह सुणएणं कुंभीए पक्को । पुरंदरजसा य मुनिसुव्वयतित्थयरपायमूले साहरिया सपरिसा ॥ अथ गाथात्रयस्याक्षरयोजना -श्रावस्त्यां पालको दौत्येनागतः । स च वादे स्कन्दकेन पराजितः । ततोऽसौ तस्योपरि कुपितः । इतश्च स्कन्दकस्य सुव्रतस्वामिपार्श्वे दीक्षा । अधीतसूत्रार्थस्य च तस्यान्यदा भगवतः समीपे पृच्छा-व्रजाम्यहं कुम्भकारकृतं नगरम् । भगवता तु 'सोपसर्गम्' इति भणित्वा निवारणा कृता, तथा 'त्वद्वर्जा सर्वेऽप्याराधकाः' इति च भणितम् । ततस्तं कुम्भकारकृतपुरमागच्छन्तं पालकेन श्रुत्वा यत्रोद्यानेऽसौ स्थितः तत्रायुधानां "नूमन "त्ति प्रच्छन्नं स्थापना । ततो नृपस्य कथना, यथा- एष परीषहपराजितस्त्वां मारयित्वा त्वदीयं राज्यमधिष्ठास्यतीत्यादि । ततो राज्ञः कोपोऽभवत्, भणितं च यत् ते रोचते तदमीषां कुरुष्वेति । ततस्तेन पुरुषयन्नत्रं कृत्वा पीडयितुमारब्धाः साधवः । स्कन्दकेनोक्तम् पूर्वं मां यन्त्रमध्ये प्रक्षिप । ततस्तेन पापात्मना स्कन्दकस्य स्तम्भे गाढतरं बन्धनम् । ततो निष्पीड्यमानसाधुसम्बन्धिनीभिः शोणितचिरक्काभिः सिक्तेन स्कन्दकेन निदानं कृतम् । भगिन्या च तस्य कम्बलरत्नदानं कृतमासीत्, तेन च रजोहरणं कृतम् । स्कन्दकस्य विपद्याग्निकुमारेषूपपातः । ततो रजोहरणं शोणितलिप्तं चिह्नमवलोक्य देव्याश्चिन्ता - नूनमपद्राविताः साधवः पापात्मनेति । ततः प्रभूतं राज्ञः पुरतः खेदनम् । ततः ‘सपरिषदः' सपरिवारायास्तस्या दीक्षादापनार्थं जिनसमीपे 'संहरणं' नयनम् । संवर्त्तकवातं विकुर्व्य सकलस्यापि पुरस्य 'दाहः' दहनम् । यत एवमादयो दोषास्ततो नानार्यक्षेत्रे विहर्त्तव्यम् । अथ “यत्र ज्ञान-दर्शन- चारित्राण्युत्सर्पन्ति तत्र विहर्त्तव्यम्” इति यदुक्तं तद्विषयमभिधित्सुः सम्प्रतिनृपतिध्ष्टान्तमाह [भा. ३२७५ ] कोसंबाऽऽहारकते, अञ्जसुहत्थीण दमगपव्वज्जा । अव्वत्तेणं सामाइएण रन्नो घरे जातो ॥ वृ - कौशाम्ब्यामाहारकृते आर्यसुहस्तिनामन्तिके द्रमकेण प्रव्रज्या गृहीता । स तेनाऽव्यक्तेन सामायिकेन मृत्वा राज्ञो गृहे जात इत्यक्षरार्थः । भावार्थस्तु कथानकगम्यः । तच्चेदम्-कोसंबीए नयरीए अज्जसुहत्थी समोसढा । तया य अंचितकालो। साधुजणो य हिंडमाणो फव्वति । तत्थ एगेन दमएण ते दिट्ठा। ताहे सो भत्तं जायति । तेहिं भणियं अम्हं आयरिया जाणंति । ताहे सो गतो आयरियसगासं । आयरिया उवउत्ता । तेहिं नायं-एस पवयणउवग्गहे वट्टिहिति । ताहे भणिओ-जति पव्वयसि तो दिजए भत्तं । सो भणइ-पव्वयामि त्ति । ताहे पव्वाइतो, सामाइयं कारिओ । तेन अतिसमुद्दिट्ठं, तओ कालगतो । तस्स अव्वत्तसामाइयस्स पभावेण कुणालकुमारस्स Page #266 -------------------------------------------------------------------------- ________________ २६३ उद्देशक ः १, मूलं-५०, [भा. ३२७५] अंधस्स रन्नोपुत्तो जातो ॥को कुणालो? कहिं वा अंधो? त्ति-पाडलिपुत्ते असोगसिरी राया। तस्सपुत्तो कुणालो । तस्स कुमारभुत्तीए उज्जेनी दिन्ना ।सोय अट्ठवरिसो।रन्नालेहो विसज्जितोशीघ्रमधीयतां कुमारः । असंवत्तिए लेहे रन्नो उद्वितस्स माइसवत्तीए कतं-अन्धीयतां कुमारः । सयमेव तत्तसलागाए अच्छीणि अंजियाणि । सुतंरन्ना । गामो से दिन्नो । गंधव्वकलासिक्खणं। पुत्तस्स रज्जत्थी आगतो पाडलिपुत्तं।असोगसिरिणोजवनियंतरिओ गंधव्वं करेइ।आउट्टो राया भणइ-मग्गसुजं ते अभिरुइयं ति। तेण भनियं[भा.३२७६] चंदगुत्तपपुत्तोय,बिंदुसारस्स नत्तुओ। असोगसिरिणो पुत्तो, अंधो जायति काकणिं ।। वृ-चन्द्रगुप्तस्य राज्ञःप्रपौत्रोबिन्दुसारस्य नृपतेः ‘नप्ता' पौत्रोऽशोकश्रियोनृपस्यपुत्रःकुणालनामा अन्धः 'काकणीं' राज्यं याचते ॥ तओ राइणा भणितो-किं ते अंधस्स रज्जेणं? । तेन भणियंपुत्तस्स मे कज्जंति । राइणा भणियं-कहिं ते पुत्तो? त्ति।तेन आनित्ता दाइओ-इमो मे संपइजाओ पुत्तो त्ति । तं चेव नामं कयं । तओ संवडिओ। दिनं रज्जं । तेन संपराइणा उज्जेनिं आई कार्ड दक्खिणावहो सव्वो तत्थ ट्ठिएणं ओअविओ। सव्वे पच्चंतरायाणो वसीकया । तओ सो विउलं रज्जसिरिं भुंजइ । किञ्च[भा.३२७७] अज्जहत्थाऽऽगमणं, दटुं सरणं च पुच्छणा कहणा। पावयणम्मि य भत्ती, तो जाता संपतीरन्नो ।। वृ-जीवन्तस्वामिप्रतिमावन्दनार्थमुजयिन्यामार्यसुहस्तिन आगमनम् । तत्र च रथयात्रायां राजाङ्गणप्रदेशे रथपुरतः स्थितानार्यसुहस्तिगुरून् दृष्ट्वा नृपतेातिस्मरणम् । ततस्तत्र गत्वा गुरुपदकमलमभिवद्य पृच्छा कृता-भगवन् ! अव्यक्तस्य सामायिकस्य किं फलम् ? । सूरिराहराज्यादिकम् । ततोऽसौ सम्भ्रान्तः प्रगृहीताञ्जलिरानन्दोदकपूरपूरितनयनयुगः प्राह-भगवन् ! एवमेवेदम्, परमहं भवद्भि कुत्रापि दृष्टपूर्वो न वा ? इति । ततः सूरय उपयुज्य कथयन्तिमहाराज! दृष्टपूर्व, त्वंपूर्वभवेमदीयः शिष्य आसीदित्यादि । ततोऽसौ परमंसंवेगमापनस्तदन्तिके सम्यग्दर्शनमूंपञ्चाणुव्रतमयं श्रावकधर्मंप्रपन्नवान्।ततश्चैवंप्रवचनेसम्प्रतिराजस्य भक्ति सजाता।। किञ्च [भा.३२७८] जवमज्झ मुरियवंसे, दाने वणि-विवणि दारसंलोए। तसजीवपडिक्कमओ, पभावओ समणसंघस्स ।। वृ-यथा यवो मध्यभागे पृथुल आदावन्ते च हीनः एवं मौर्यवंशोऽपि। तथाहि-चन्द्रगुप्तस्तावद् बल-वाहनादिविमूत्या हीन आसीत्, ततो बिन्दुसारो बृहत्तरः, ततोऽप्यशोकश्रीबृहत्तमः, ततः सम्प्रतिसर्वोत्कृष्टः, ततोभूयोऽपितथैव हानिवसातव्या, एवं यवमध्यकल्पः सम्प्रतिनृपतिरासीत्। तेन च राज्ञा ‘द्वारसंलोके' चतुर्वपि नगरद्वारेषु दानं प्रवर्तितम् । “वणि-विवणि"त्ति इह ये बृहत्तराआपणास्तेपणय इत्युच्यन्ते, येतुदरिद्रापणास्ते विपणयः; यद्वाये आपणस्थिता व्यवहरन्ति ते वणिजः, ये पुनरापणेन विनाऽप्यस्थिता वाणिज्यं कुर्वन्ति ते विवणिजः । एतेषु तेन राज्ञा साधूनां वस्त्रादिकं दापितम् । स च राजा वक्ष्यमाणनीत्या त्रसजीवप्रतिक्रामकः प्रभवकश्च श्रमणसङ्खस्यासीत् ॥ अथ “दाने वणि-विवणिदारसंलोए" इति भावयति Page #267 -------------------------------------------------------------------------- ________________ २६४ बृहत्कल्प-छेदसूत्रम् -२-१/५० [भा. ३२७९] ओदरियमओ दारेसुं पि महानसे स कारेति । निताऽऽनिंते भोयण, पुच्छा सेसे अभुत्ते य ॥ वृ- औदरकः-द्रमकः पूर्वभवेऽहं भूत्वा मृतः सन् इहायात इत्यात्मीयं वृत्तान्तमनुस्मरन् नगरस्य चतुर्ष्वपि द्वारेषु स राजा सत्रकारमहानसानि कारयति । ततो दीना - ऽनाथादिपथिकलोको यस्तत्र निर्गच्छन् वा प्रविशन् वा भोक्तुमिच्छति स सर्वोऽपि भोजनं कार्यते । यत् तच्छेषमुद्धरति तद् महानसिकानामाभवति, । ततोराज्ञा ते महानसिकाः पृष्टाः यद् युष्माकं दीनादिभ्यो ददतामवशिष्यते तेन यूयं किं कुरुथ ? । ते ब्रुवते - अस्माकं गृहे उपयुज्यते । नृपतिराह-यद् दीनादिभिरभुक्तं तद् भवद्भि साधूनां दातव्यम् । एतदेवाह - [भा. ३२८० ] साहूण देह एयं, अहं भे दाहामि तत्तियं मोल्लं । च्छंति घरे घेत्तुं समणा मम रायपिंडो त्ति ॥ वृ- साधूनामेतद् भक्तपानं प्रयच्छत, अहं "मे" भवतां तावन्मात्रं मूल्यं दास्यामि, यतो मम श्रमणा राजपिण्ड इति कृत्वा ग्रहीतुं नेच्छन्ति ॥ [भा. ३२८१] एमेव तेल्लि गोलिय-पूविय- मोरंड - दुस्सिए चेव । देह तस्समोल्लं, दलामि पुच्छा य महगिरिणो ॥ वृ-एवमेव तैलिकास्तैलम्, गोलिकाः - गथितविक्रायिकास्तक्रादिकम्, पौपिका अपूपादिकम्, मोरण्डकाः- तिलादिमोदकाः तद्विक्रायिकास्तिलादिमोदकान्, दौष्यिका वस्त्राणि च दापिताः । कथम्? इत्याह-यत्तैल-तक्रादि यूयं साधूनां दत्थ तस्य मूल्यमहं भवतां प्रयच्छामीति । ततश्चाहारवस्त्रादौ किमीप्सिते लभ्यमाने श्रीमहागिरिरार्यसुहस्तिनं पृच्छति-आर्य ! प्रचुरमाहार-वस्त्रादिकं प्राप्यते ततो जानीष्व मा राज्ञा लोकः प्रवर्त्तितो भवेत् ॥ [भा. ३२८२ ] अञ्जसुहत्थि ममत्ते, अनुरायाधम्मतो जणो देती । संभोग बीसुकरणं, तक्खण आउट्टणे नियत्ती ॥ वृ- आर्यसुहस्ती जानानोऽप्यनेषणामात्मीयशिष्यममत्वेन भणति क्षमाश्रमणाः । 'अनुराजधर्मतः ' राजधर्ममनुवर्तमान एष जन एवं यथेप्सितमाहारादिकं प्रयच्छति । तत आर्यमहागिरिणा भणितम्-आर्य ! त्वमपीदृशो बहुश्रुतो भूत्वा यद्येवमात्मीयशिष्यममत्वेनेत्थं ब्रवीपि, ततो मम तव चाद्यप्रभृति विष्वकसम्भोगः- नैकत्र मण्डल्यां समुद्देशनादिव्यवहार इति; एवं सम्भोगस्य विष्वककरणमभवत् । तत आर्यसुहस्ती चिन्तयति 'भया तावदेकमनेषणीयमाहारं जानताऽपि साधवो ग्राहिताः, स्वयमपि चानेषणीयं भुक्तम्, अपरं चेदानीमहमित्थमपलपामि, तदेतद् मम द्वितीयं बालस्य मन्दत्वमित्यापन्नम्; अथवा नाद्यापि किमपि विनष्टं भूयोऽप्यहमेतस्मादर्थात् प्रतिक्रमामि' इति विचिन्त्य तत्क्षणादेवावर्त्तनमभवत् । ततो यथावदाचना दत्त्वा स्वापराधं सम्यक् क्षामयित्वा तस्या अकल्पप्रतिसेवनायास्तस्य निवृत्तिरभूत् । ततो भूयोऽपि तयोः साम्भोगिकत्वमभवत् ॥ अथ “त्रसजीव्रतिक्रामकः" इत्थस्य भावार्थमाह [भा. ३२८३] सो रायाऽवंतिवती, समणाणं सावतो सुविहिताणं । पच्चंतियरायाणो, सव्वे सद्दाविया तेणं ॥ वृ- 'सः' सम्प्रतिनामा राजा अवन्तीपति श्रमणानां 'श्रावकः' उपासकः पञ्चाणुव्रतधारी Page #268 -------------------------------------------------------------------------- ________________ उद्देशकः १, मूलं-५०, [भा. ३२८३] २६५ अभवदितिशेषः । तेच शाक्यादयोऽपि भवन्तीत्यत आह-सुविहितानां' शोभनानुष्ठानानाम् । ततस्तेन राज्ञा ये केचित् प्रात्यन्तिकाः-प्रत्यन्तदेशाधिपतयो राजानस्ते सर्वेऽपि 'शब्दापिताः' आकारिताः॥ ततः किं कृतम् ? इत्याह[भा.३२८४] कहिओ य तेसि धम्मो, वित्थरतो गाहिता य सम्मत्तं । अप्पाहिता य बहुसो, समणाणं भद्दगा होह॥ वृ-कथितश्च तेषां' प्रात्यन्तिकराजानां तेन विस्तरतो धर्म । ग्राहिताश्च ते सम्यक्त्वम् । ततः स्वदेशं गता इपे त बहुशस्तेन राज्ञा सन्दिष्टाः, यथा-श्रमणानां 'भद्रकाः' भक्तिमन्तो भवत ॥ अथ कथमसौ श्रमणसङ्खप्रभावको जातः ? इत्याह[भा.३२८५] अनुजाने अनुजाती, पुप्फारुहणाइ उक्किरणगाई। पूयं च चेइयाणं, ते विसरज्जेसु कारिंति ॥ वृ-अनुयानं-रथयात्रा तत्रासौ नृपति ‘अनुयाति' दण्ड-भट-मोजिकादिसहितो रथेन सह हिण्डते । तत्र च पुष्पारोपणम् आदिशब्दाद् माल्य-गन्ध-चूर्णा-ऽऽभरणारोपणं च करोति । 'उक्किरणगाई"ति रथपुरतो विविधफलानि खाद्यकानि कपर्दक-वस्त्रप्रभृतीनि चोत्किरणानि करोति । आह च निशीथचूर्णिकृत्- रहग्गतो य विविहफले खज्जगे य कवड्डग-वत्थमादी य ओकिरणेकरेइ त्ति॥अन्येषांचचैत्यगृहस्थितानां चैत्यानां' भगवद्विम्बानां पूजांमहता विच्छर्दैन करोति । तेऽपि च राजान एवमेव स्वराज्येषु रथयात्रामहोत्सवादिकं कारयन्ति । इदं च ते राजानः सम्प्रतिनृपतिना भणिताः॥ [भा.३२८६] जति मंजाणह सामि, समणाणं पणमहा सुविहियाणं । दव्वेण मे न कज्जं, एयंखु पियं कुणह मज्झं ।। वृ-यदि मां स्वामिनं यूयं 'जानीथ' मन्यध्वे ततः श्रमणेभ्यः सुविहितेभ्यः 'प्रनमत' प्रणता भवत । 'द्रव्येण' दण्डदातव्येनार्थेन मे न कार्यम्, किन्त्वेतदेव श्रमणप्रणमनादिकं मम प्रियम्, तदेतद् यूयं कुरुत॥ [भा.३२८७] वीसज्जिया य तेनं, गमनं घोसावणं सरज्जेसु । साहूण सुहविहारा, जाता पञ्चंतिया देसा॥ वृ-एवं 'तेन' राज्ञा शिक्षां दत्त्वा विसर्जिताः । ततस्तेषां स्वराज्येषु गमनम् । तत्र च तैः स्वदेशेषु सर्वत्राप्यमाघातघोषणं कारितम्, चैत्यगृहाणि च कारितानि । तथा प्रात्यन्तिका देशाः साधूनांसुखविहाराः सजाताः। कथम्? इतिचेदुच्यते-तेनसम्प्रतिना साधवोभणिताः-भगवन्तः! एतान्प्रत्यन्तदेशान्गत्वा धर्मकथयाप्रतिबोध्य पर्यटत।साधुभिरुक्तम्-राजन्! एतेसाधूनामाहारवस्त्र-पात्रादेः कल्प्या-ऽकल्प्यविभागंन जानन्तिततः कथं वयमेतेषु विहरामः? ।ततः सम्प्रतिना साधुवेषेण स्वभटाः शिक्षां दत्त्वा तेषुप्रत्यन्तदेशेषु विसर्जिताः॥ ततः किमभूत् ? इत्याह[भा.३२८८] समणभडभाविएसुं, तेसू रज्जेसु एसणादीसु। साहू सुहं विहरिया, तेनं चिय भद्दगा ते उ॥ वृ-श्रमणवेषधारिभिर्बटैरेषणादिभिः शुद्धमाहारादिग्रहणं कुर्वाणैः साधुविधिना भावितेषु तेषु राज्येषु साधवः सुखं विहृताः । तत एव च सम्प्रतिनृपतिकालात् 'ते' प्रत्यन्तदेशा भद्रकाः Page #269 -------------------------------------------------------------------------- ________________ २६६ बृहत्कल्प-छेदसूत्रम् -२-१/५० साताः॥ इदमेव स्पष्टयति[भा.३२८९] उदिन्नजोहाउलसिद्धसेणो, स पत्थिवो निज्जियसत्तुसेनो। समंततो साहुसुहप्पयारे, अकासि अंधे दमिले य घोरे । वृ-उदीर्णा-प्रबला ये योधास्तैराकुला-सङ्कीर्णा सिद्धा-प्रतिष्ठिता सर्वत्राप्यप्रतिहता सेना यस्य स तथा, अत एव च 'निर्जितशत्रुसेनः' स्ववशीकृतविपक्षनृपतिसैन्यः एवंविधः स सम्प्रतिनामा पार्थिवः अन्धान् द्रविडान् चशब्दाद् महाराष्ट्र-कुडुक्कादीन्प्रत्यन्तदेशान् ‘घोरान् प्रत्यपायबहुलान् समन्ततः ‘साधुसुखप्रचारान्’ साधूनां सुखविहरणान् ‘अकार्षीत् कृतवान् ।। कल्पे माणिक्यकोशे जिनपतिनृपतेः सूरिभिस्तनियुक्तैस्तस्यैवाहकतानैर्नयपथनिपुणैश्चिन्त्यमानाधिकारे। पेटा उद्देशकाः स्युः षडिह गहनतामुद्रिता अर्थरनैः, पूर्णास्तत्राऽऽद्यपेटा प्रकटनविधये कुञ्चिकैषाऽस्तु टीका ॥ उद्देशकः-१ समाप्तः मुनि दीपरत्नसागरेण संशोधिता सम्पादिता बृहतकल्पसूत्रे प्रथमोद्देशकस्य (भद्रबाहुस्वामि रचिता नियुक्ति युक्त) संघदासगणिविरचितं भाष्यं एवं मलयगिरि क्षेमकीर्ति आचार्याभ्यां विरचिता टीका परिसमाता। (उद्देशकः-२) वृ-व्याख्यातः प्रथम उद्देशकः, समप्रति द्वितीयः प्रारभ्यते, तस्य चेदमादिसूत्रम् म. (५१) उवस्सयस्स अंतोवगडाए सालीणि वा वीहीणि वा मुग्गाणि वा मासाणि घा तिलाणि वा कुलत्थाणि वा गोहूमाणि वा जवाणि वा जवजवाणि वा उक्खित्ताणि वा विक्खित्ताणि विइकिनाणि वा विपकिन्नाणि वा, नो कप्पइ निग्गंथाण वा निग्गंथीण वा अहालंदभवि वत्थए। वृ-अथास्य सूत्रस्य कः सम्बन्धः ? इत्याह[भा.३२९०] एरिसए खेत्तम्मी, उवस्सए केरिसम्मि वसितव्वं । पुव्वुत्तदोसरहिते, बीयादिजढेस संबंधो॥ वृ-'ईशे प्रथमोद्देशकान्त्यसूत्रवर्णिते आर्यक्षेत्रे विहरभिरुपाश्रये कीशे वस्तव्यम् ? इति चिन्तायामनेन सूत्रेणोपवर्ण्यते । पूर्वम्-आद्योद्देशके ये उपाश्रयस्य दोषाः-सागारिकत्वादय उक्ताः तैः रहितो बीजादिपरित्यक्तश्च य उपाश्रयस्तत्र वस्तव्यमिति । एष पूर्वसूत्रेण सहास्य सम्बन्धः।। [भा.३२९१] अहवा पढमे सुत्तम्मि पलंबा वनिया न भोत्तव्वा । तेसिं चिय रक्खडा, तस्सहवासं निवारेति ॥ वृ-'अथवा' इति सम्बन्धस्य प्रकाशन्तरताद्योतकः। प्रथमोद्देशके 'प्रथमे प्रलम्बसूत्रे सविस्तरं प्रलम्बान्युपवर्णितानि, तानि च न भोक्तव्यानीति प्रतिषिद्धानि; अतो द्वितीयोद्देशकेऽपि प्रथमसूत्रे 'तेषामेव' प्रलम्बानां रक्षार्थं तैः-बीजाख्यैः प्रलम्बैः सह वासम्-अवस्थानं निवारयति ।। [भा.३२९२] अवि य अनंतरसुत्ते, उवस्सतो अधिकतो निसिं जत्थ । समणाण न निग्गंतुं, कप्पति अह तेन जोगो उ॥ Page #270 -------------------------------------------------------------------------- ________________ उद्देशक ः २, मूलं-५१, (भा. ३२९२] २६७ वृ. 'अपि च' इत्यभ्युचये, न केवलं पूर्वोक्तं सम्बन्धद्वयम्, तृतीयोऽपि सम्बन्धोऽस्तीति भावः । पूर्वसूत्रस्याधस्ताद् ‘अनन्तरसूत्रे' “नो कप्पइ निग्गंथम्स एगानियस्य राओ वा वियाले वा" इत्यादिलक्षणे उपाश्रयोऽधिकृतः, यत्रैकाकिनां श्रमणानां निशि' रात्रौ विचारभूग्याद्यर्थं न निर्गन्तुं कल्पते । 'अथ' अयं तेन सूत्रेण सह 'योगः' सम्बन्धः ।। इत्यनेकैः सम्बन्धैरायातस्यास्य व्याख्या-उपाश्रयस्य या 'अन्तर्वगडा' वगडाया अभ्यन्तरम्, तच्च प्रतिश्रयमध्यं वा स्यात् प्राङ्गणं वा । तत्र “सालीणि व" ति शालिवीजानि वा “वीहीणि व" त्ति व्रीहिवीजानि वा, एवं मुद्भ-भाष-तिल-कुलत्थ-गोधूम-(यव) यवयवैरपि तत्तद्वीजान्युच्यन्ते,यवयवाः-यवविशेषास्तद्वीजानि वा। एतानि बीजानि यत्रोपाश्रये उत्क्षिप्तानि वा विक्षिप्तानि वा व्यतिकीर्णानि वा विप्रकीर्णानि वा तत्र नो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा यथालन्दमपि वस्तुम् । इह यथालन्द्रं त्रिधा-जधन्यं मध्यममुत्कृष्टं च । यावता कालेनोदकार्डो हस्तः शुष्यति तद् जधन्यम्, पञ्चरात्रिन्दिवान्युत्कृष्टम, तयोरपान्तराले सर्वमपि मध्यम् । अत्र जघन्य-मध्यमयोः सूत्रावतारः। अपिशब्दः सम्भावनायाम् । जधन्यमपि मध्यममपि वा यथालन्दं नो कल्पते वस्तुम्, किं पुनरुत्कृष्टम् ? इति भावः । अत्र चोक्षिप्तादीनि पदानि भाष्यगाथयैव व्याख्यास्यन्त इत्यभिप्रायेणात्र न व्याख्यातानीति सूत्रझेपार्थः ॥ अथ नियुक्तिविस्तरः[भा.३२९३] नामं ठवणा दविए, भावे य उवस्सओ मुनेयव्यो । एएसिं नाणत्तं, वोच्छामि अहानुपुव्वीए । वृ-नामोपाश्रयः स्थापनोपाश्रयो द्रव्योपाश्रयो भावोपाश्रयश्चेति उपाश्रयश्चतुर्द्धा मन्तव्यः । एतेषामुपाश्रयाणां 'नानात्वं' विशेषमहमानुपूव्यी वक्ष्यामि ॥ तत्र नाम-स्थापने क्षुन्नत्वादनाध्त्य द्रव्य-भावोपाश्रयौ प्रतिपादयति[भा.३२९४] दवम्मि ऊ उवस्सओ, कीरइ कड चुत्थमेव सुन्नम्मि। भावम्मि निसिढे संजएसु दव्वम्मि इयरेसु॥ वृ-'द्रव्ये तु' द्रव्यविषयः पुनरुपाश्रयो यः संयतार्थं क्रियते' क्रियगाणो वर्तते, कृत्वो वा परमद्यापिन संयतेभ्यो वितीर्यते, अथवा यो गृहस्थैरात्मार्थं निष्पादितः परंतत्र संयता मासकल्प वर्षाकल्पं वा “वृत्य" त्ति उषित्वा अन्यत्र गताः, साम्प्रतं स उपाश्रयः शून्यस्तिष्ठति एष द्रव्योपाश्रयः । भावोपाश्रयो नाय यः संयतेभ्यः 'निसृष्टः' प्रदत्तः, तैः परिभुज्यमान इत्यर्थः । यः पुनः 'इतरेषां' पार्श्वस्थादीनां निसृष्टः सोऽपि द्रव्योपाश्रयो विज्ञेयः । आह च बृहद्भाष्यकृत् जो समणट्ठाए कतो, बुत्था वा आसि जत्थ समणा उ। अहवा दव्वउवस्सओ, पासत्यादीपरिग्गहिओ। अथोपाश्रयस्यैकार्थिकान्याह[भा.३२९५] उवसग पडिस सेज्जा, आलय वसधी निसीहिया ठाणे । एगट्ठ वंजणाई, उवसग वगडाय निक्खेवो ।। वृ-उपेत्य-आगत्य साधुभिराश्रीयत इत्युपाश्रयः । एवं प्रतिश्रीयत इति प्रतिश्रयः । शेरते साधवोऽस्यामिति शय्या। आलीयन्ते साधवोऽत्रेत्यालयः । वसन्ति साधवोऽस्यामिति वसति। निषेधः-गमनादिव्यापारपरिहारः सप्रयोजनमस्याः तमर्हतीति वा नैषेधिकी। तिष्ठन्ति साधवोऽत्रेति Page #271 -------------------------------------------------------------------------- ________________ २६८ बृहत्कल्प-छेदसूत्रम् -२-२/५१ स्थानम् । एतान्येकार्थानि नानाव्यञ्जनानि' पृथगक्षराण्युपाश्रयस्य नामानि । अथवगडाया निक्षेपः कर्तव्यः॥ तमेवातिदेशेनाह[भा.३२९६] एमेव होति वगडा, चउव्विहा सा उ वतिपरिक्खेवो । दव्वम्मि तिप्पगारा, भावे समणेहि भुजंती ॥ वृ. 'एवमेव' उपाश्रयवद् वगडा अपि नामादिभेदात् चतुर्विधा भवति । तत्र द्रव्यवगडा गृहसम्बन्धी वृतिपरिक्षेपो मन्तव्यः । स च त्रिप्रकारा, तद्यथा-सचित्ता अचित्ता मिश्रा च । इयं त्रिप्रकाराऽपि यथा मासकल्पप्रकृते द्रव्यपरिक्षेपः उक्तस्तथैव वक्तव्या । 'भावे' भाववगडा 'श्रमणैः' साधुभिर्यो वृतिपरिक्षेपः परिभुज्यते सा मन्तव्या॥ अथ कोऽसावुपाश्रयो यस्यैषा वगडा वर्णिता ? उच्यते[भा.३२९७] वलया कोट्ठागारा, हेट्ठा भूमी य होइ रमणिज्जा । वीएहिं विष्पमुक्को, उवस्सओ एरिसो होइ॥ वृ-'वलयानि' कटपल्यादीनि 'कोष्ठागाराणि च' सुप्रतीतानि यत्र भवन्ति, अधस्ताच्च तत्र भूमिर्भवति 'रमणीया' बीजायभावेन प्रशस्या, ईद्दश उपाश्रयो बीजैविप्रभुक्तो भवति । इदमेव व्याख्यानयति[भा.३२९८] कडपल्लाणं सन्ना, तणपल्लाणं च देसितो वलया। निप्परिसाडिमभुजंतगा य कयभूमिकम्मंता ॥ वृ- 'देशीत' देशीभाषामाश्रित्य कटपल्यानां तृणपल्यानांच वलयानीति संज्ञा । तेषां मालेषु बद्धेषु धान्यानि क्रियन्ते । तानि च यत्र 'निपरिशाटीनि' परिशाटिरहितानी, 'अभुज्यमानानि' अव्यापार्यमाणानि, तथा कृतं भूमिकर्म-छगणलेपनादिकम् अन्तेषु-प्रान्तप्रदेशेषु येषां तानि कृतभूमिकर्मान्तानि, अधस्ताच्च भूमिका बीजादिविप्रभुक्ता, ईशे प्रतिश्रये वस्तुं कल्पते ।। अथ कोष्ठागाराणि व्याचष्टे[भा.३२९९] चाउस्सालघरेसुव, जत्थोब्वर-कोट्ठएसु धन्नाई। निचट्ठइतमभोगा, तेसु निवासं न वारेइ॥ कृ-अथवा चतुःशालादिगृहेषु यत्रोपाश्रयेऽपवरकेषुवाइष्टकादिमयेषु कोष्ठकेषुवा मृत्तिकामयेषु धान्यानि 'नित्यस्थगितानि' सदापिहितानी 'अभोग्यानि' परिभोगरहितानी तिष्ठन्ति तत्र ये शेषा अपवरकाः कोष्ठका वा तेषु निवासं न वारयति ॥क्व पुनस्तर्हि वस्तुं न कल्पते? इत्याह[भा.३३००] सालीहिं वीहीहिं, तिल-कुलत्थेहिं विप्पकिन्नेहिं । आदिन्ने वितिकिन्ने, अहलंद न कप्पती वासो॥ वृ- शालिभि/हिभिस्तिलैः कुलत्थैः उपलक्षणत्वाद् मुद्ग-माषादिभिश्च विप्रकीर्णैराकीर्णैर्व्यतिकीर्णे उपलक्षणत्वाद् विकीर्णैश्च सङ्खले उपाश्रये निर्ग्रन्थानां निर्ग्रन्थीनांच यथालन्दमपि काल न कल्पते वासः । एषा श्रीभद्रबाहुस्वामिकृता गाथा । अनया सूत्रपदानि संगृहीतानिआकीर्णग्रहणेन च उत्क्षिप्तपदं विकीर्णग्रहणे तु विक्षिप्तपदं गृहीतं मन्तव्यम् ।। अत्र परः प्राहननुजातिवाचकाः शब्दाः ‘सम्पन्नः शालि' इत्यादिवदेकवचननिर्देशेन व्यवहियमाणा उपलभ्यन्ते, ततः किमर्थमत्र "शालिभि/हिभिः" इत्यादी बहुवचनेन निर्देशः कृतः उच्यते Page #272 -------------------------------------------------------------------------- ________________ २६९ उद्देशकः २, मूलं-५१, [भा. ३३०१] [भा.३३०१] सालीहिं व वीहीहिं व, इति उत्ते होति एतदुत्ते तु । सालीमादीयाणं, होति पगारा बहुविहाउ । वृ-शालिभिर्वा व्रीहिभिर्वा 'इत्युक्ते' एवं बहुवचननिर्देशे कृते एतद् ‘उक्तम्' अभिहितं भवतिशाल्यादीनांधान्यानां बहुविधाः प्रकाश भवन्ति । तद्यथा-कलमशालि रक्तशालिमहाशालिरित्यादि। उत्क्षिप्तादिपदानां व्याख्यानमाह- [भा.३३०२] उक्खित्त भिन्नरासी, विकिक्खत्ते तेसि होति संबंधो। वितिकिने सम्मेलो, विपइन्ने संथडं जाणे ॥ वृउत्क्षिप्तानि नाम येषां धान्यानां राशयो भिन्नाः । विक्षिप्तानि नाम त एव धान्यराशयो भिन्नाः परमेकतः सम्बद्धाः, अत एवाह-विक्षिप्तपदे व्याख्यायमाने 'तेषां' भिन्नराशीनां सम्बन्धो भवति । व्यतिकीर्णानि तु तानि सर्वाण्यपिधान्यान्येकतः सम्मिलितानि, आह च-व्यतिकीर्णपदे तेषां धान्यानांसम्मीलको भवति। व्यतिकीर्णानि तु तानि सर्वाण्यपिधान्यान्येकतः सम्मिलितानि, आह च-व्यतिकीर्णपदे तेषां धान्यानां सम्मीलको भवति । विप्रकीर्णानि तु सर्वतः संस्तृतानि पुष्पप्रकरवत्, अत एवाह-विप्रकीर्णपदे ‘संस्तृत' विप्रकिरणं जानीयात् ॥ अथ यथालन्दपदं व्याचष्टे[भा.३३०३] तिविहं च अहालंदं, जहन्नयं मज्झिमं च अक्कोसं । उदउल्लं च जहन्नं, पनगं पुन होइ उक्कोसं॥ वृ-'त्रिविधं च त्रिप्रकारं यथालन्दम्, तद्यथा-जघन्यं मध्यममुत्कृष्टं च । तत्रोदकाः करो यावत कालेन शुष्यति तावन्मात्रंजधन्यम् । पञ्चकं पञ्चरात्रिन्दिवानिपुनरुत्कृष्टम् । अर्थादापनं तयोरपान्तरालवर्ति सर्वमपि मध्यमम् ।। अथात्र बीजाकीर्णे प्रतिश्रये तिष्ठतां प्रायश्चित्तमाह[भा.३३०४] बीयाईआइन्ने, लहुओ मासो उठायमाणस्स । आणादिणो अदोसा, विराधना संजमाऽऽताए । वृ- “बीयाई" त्ति आदिशब्दः स्वगतानेकभेदसूचकः । ततश्च बीजैः- शाल्यादिभेदादनैकप्रकारैराकीर्णे उपाश्रये तिष्ठत आचायदिलघुको मासः प्रायश्चित्तम्, अयंचतपः-कालविशेषितः। तद्यथा-आचार्यस्य तपसा कालेनचगुरुकः, उपाध्यायस्य तपसा गुरुकः, वृषभस्य कालेन गुरुकः, भिक्षोस्तपसा कालेन च लघुकाः । एतत् प्रत्येकबीजविषयं प्रायश्चित्तमुक्तम्। अनन्तबीजेष्वप्येवभेव । नवरं मासलघुस्थाने मासगुरुकम् । संयतीनामपि प्रवर्तिनी-गणावच्छेदिन्यभिषेकाभिक्षुणीनाभेवमेव वक्तव्यम् । आज्ञादयश्च दोषा अत्र भवन्ति । तथा विराधना संयमे आत्मनि च मन्तव्या । इयं द्विधाऽपि पुरस्तादभिधास्यते ॥ प्रकारान्तरेण प्रायश्चित्तमेवाह[भा.३३०५] उक्खित्तमाइएसुं, थिरा-ऽथिरेसुंतु ठायमाणस्स । पनगादी जा भिन्नो, विसेसितो भिक्खुमाईणं ॥ वृ-उत्क्षिप्तादिषुपदेषु स्थिरा-ऽस्थिरभेदभिन्नेषु तिष्ठतांभिक्षुप्रभृतीनां पञ्चकादारभ्य भिन्नमासं यावत् तपः-कालिवशेषितं प्रायश्चित्तम् । तद्यथां-उत्क्षिपेक्षु स्थिरसंहननिषु बीजेषु तिष्ठति लघुदशरात्रिन्दिवानि, अस्थिरसंहननिषु लघु दशरात्रिन्दिवानि; विक्षिप्तेषु स्थिरेषु तिष्ठति लघुदशरात्रिन्दिवानि, अस्थिरेषु लघुपञ्चदशरात्रिन्दिवानि; व्यतिकीर्णेषु स्थिरेषु तिष्ठति Page #273 -------------------------------------------------------------------------- ________________ २७० बृहत्कल्प-छेदसूत्रम् -२-२/५१ लघुपञ्चदशरात्रिन्दिवानि, अस्थिरेषु लघुविंशतिरात्रिन्दिवानि; विप्रकीर्णेषु स्थिरेपु तिष्ठति लघुविंशतिरात्रिन्दिवानि, अस्थिरेषु लघुपञ्चविंशतिरात्रिन्दिवानि । एतत् सर्वमपि प्रायश्चित्तं भिक्षोस्तपसा कालेनचलघुकम्, वृषभस्य कालेन गुरुकम्, उपाध्यायस्य तपसा गुरुकम्, आचार्यस्य तपसा कालेन च गुरुकम् । एतत् प्रत्येकबीजविषयं प्रायश्चित्तमुक्तम् ।। [भा.३३०६] साहारणम्मि गुरुगा, दसादिगं मासे ठाति समणीणं । मासो विसेसिओ वा, लहुओ साहारणे गुरुगो॥ वृ-साधारणबीजेषुत्वेतदेव गुरुकं कर्तव्यम्, गुरुपञ्चकादारभ्य गुरुपञ्चविंशतिकान्तीमित्यर्थः। श्रमणीनां तु लघुदशरात्रिन्दिवेभ्यः प्रारब्धं लघुमासे तिष्ठति । तत्रापि भिक्षुण्या उभयघुकम्, अभिषेकायाः कालगुरुकम्, गणावच्छेदिन्यास्तपोगुरुकम्, प्रवर्त्तिन्या उभयगुरुकम् । एवंप्रत्येकबीजवियमुक्तम् । अनन्तबीजेषु त्वेवभेव गुरुदशरात्रिन्दिवेभ्यः प्रारब्धंगुरुमासान्तं वक्तव्यम्। अथवा भिक्षुप्रभृतीनांचतुर्णामप्यविशेषेणोत्कीर्णादिषु चतुर्वपितपः-कालविशेषितोमासलधुकः, तद्यथा-उत्कीर्णेषु तपसा कालेन च लघुकः, विकीर्णेषु कालेन गुरुकः,व्यतिकीर्णेषु तपसा गुरुकः, विप्रकीर्णेषु तपसा कालेन च गुरुकः । अनन्तबीजेष्वप्युत्कीर्णादिष्वेवमेव तपः-कालविशेषितं मासगुरुकम् । द्विविधा च विराधना संयमा-ऽऽत्मविषयाऽत्र मन्तव्या । तत्र संयमविराधना निर्गच्छन् वा प्रविशन् वा बीजानां सट्टनं परितापनमपद्रावणं वा कुर्यात्, ये च तदाश्चिताः प्राणिनस्तेषामपि सट्टनादिकं कुर्यात् तन्निप्पन्नं प्रायश्चित्तम् । अथात्मविराधनां भावयति[भा.३३०७] सालि-जव अच्छि सालुग, निस्सरणं मास-मुग्गमादीसु। सस्सू गुज्झ कुतूहल, विप्पइरण मास निस्सरणं ॥ वृ-तत्र स्थितानां साधूनां शालि-यवानां शालुकान्यक्ष्णोः प्रविशन्ति । तैश्च प्रविष्टैश्चक्षुपी अनागाढमागाढं वा परिताष्येते। तथा मुद्भ-माषादिषु विप्रकीर्णेषुगमना-ऽऽगमने विदधानानां 'निस्सरणं' प्रस्खलनं भवति, ततश्च हस्तभङ्गादयो दोषाः । अत्र श्वश्रूदृष्टान्तः-एगोअगारो चिंतेइजइ सस्सुगाए गुज्झोरुगाइ पेच्छामि । ताहे मासा अइग्गमननिग्गमणपहे विप्पकिना । सा तत्थ वञ्चंती फिल्लसिया गलियवसणा उत्तानियापडिया ।।इदमेवाह-"सस्सू" इत्यादि । श्वश्वाः सम्बन्धि यद् गुह्यं तदवलोकने यत् कुतूहलं तद्वशा माषाणां विप्रकिरणम्, ततस्तस्याःश्चश्वाः निस्सरणं' प्रस्खलनमभवत् । एवं तत्र स्थितानां साधूनामप्यात्मविराधना भवेत् ॥ द्वितीयपदमाह[भा.३३०८] बिइयपय कारणम्मिं, पुट्विं वसभा पमज्ज जतणाए। विक्खिरणम्मि वि लहुओ, तत्थ वि आणादिणो दोसा ।। वृ-द्वितीयपदे 'कारणे' अध्वनिर्गमनादौ शुद्धौपाश्रयालाभे बीजाकीर्णेऽप्युपाश्रये तिष्ठन्ति। कथम् ? इत्याह-पूर्वं वृषभा दण्डप्रोज्छनकं गृहीत्वा तत्र गत्वा यतनया यथा तेषां बीजानां परितापनादि न भवति तथा प्रमृज्य ततः सबाल-वृद्धमपि गच्छमानीय यथालन्दं कालं तिष्ठन्ति। यदि प्रमार्जनां विदधाना बीजानां विकिरणम्-इतस्ततो विक्षपेणं कुर्वतै तदा लघुमासः प्रायश्चित्तम्। तत्राप्यविधिप्रमार्जने आज्ञादयो दोषाः । अथैतदेव स्पष्टयति[भा.३३०९]गीया पुरा गंतु समिक्खिखयम्मि, थिरे पमज्जित्तुमहाथिरे वा। साहट्टमेगंति वसंति लंद, उक्कोसयं जाणिय कारणं वा ॥ Page #274 -------------------------------------------------------------------------- ________________ उद्देशकः २, मूलं-५१, [भा. ३३०९] २७१ वृ-केचिदध्वनिर्गतादयः साधवो विवक्षितं ग्रामंप्राप्ताः, तत्र च गीतार्था पुरतो गत्वा त्रिकृत्वः शुद्धां वसतिं समीक्षन्ते-प्रत्युपेक्षन्ते । यदि तथासमीक्षितेन प्राप्यते तदा शाल्यादिबीजेषूत्कीर्णेषु प्रथमं स्थिरसंहननिषु तिष्ठन्ति, तदभावेऽस्थिरसंहननिष्वपि । तानिच बीजानि यतनया प्रमृज्य तत एकान्ते संहरन्ति-संस्थापयन्ति । संह्त्य च तत्र जधन्यं वा मध्यमं वा यथालन्दं वसन्ति । 'कारणं वा' अध्वपरिश्रमादिकं ज्ञात्वोत्कृष्टमपि यथालन्दं वसन्ति । अत्र पाठान्तरम्-“साहट्टमेगं तु" ति तानि बीजानि संहृत्य ततः ‘एकम्' इति जघन्यं यथालन्दं वसन्ति, शेषं प्राग्वत् । उत्कीर्णानामभावे विकीर्णेषु, तेषामभावेव्यतिकीर्णेषुतदप्राप्तौ विप्रकीर्णेष्वपि तिष्ठन्ति । तत्रापि प्रथमं प्रत्येकेषु, ततः साधारणेष्वपि । अथोक्रमेण तिष्ठन्ति ततो मासलघु । संयतीनामप्येवमेव द्वितीयपदं मन्तव्यम् ॥ म. (५२) अह पुन एवंजाणिजा-नो उक्खित्ताइं नो विक्खित्ताईनो विइकिन्नाइं नो विपकिन्नाई रासिकडाणि वा पुंजकडाणि वा भित्तिकडाणि वा कुलियाकडाणि वा लंछियाणि वा मुद्दियाणि वा पिहिताणि वा कप्पइ निग्गंथाण वा निग्गंथीण वा हेमंतगिम्हासु वत्थए। वृ-अथ पुनरेवंजानीयात्-तानि शाल्यादीनि बीजानि तत्रोपाश्रये नोउत्क्षिप्तानि नो विक्षिप्तानि नो विकीर्णानि नो विप्रकीर्णानि, किन्तु राशीकृत्वानी वा पुजीकृतानि वा भित्तिकृतानि वा कुलिकाकृतानि वा लाञ्छितानि वा मुद्रितानि वा पिहितानि वा, तत एवं कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा हेमन्त-ग्रीष्मेषु वस्तुमिति सूत्राक्षरार्थः ।। अत्र भाष्यम्[भा.३३१०] रासीकडा य पुंजे-कुलियकडा पिहित मुद्दिते चेव । ठायंतगाण लहुगा, कास अगीतत्थ सुत्तं तु ॥ वृ. यत्रोपाश्रये राशीकृतानि पुञ्जीकृतानि पिहितानि मुद्रितानी चशब्दार्द भित्तिकृतानि लाञ्छितानि च बीजानितत्र तिष्ठतां चतुर्लघुकाः। कस्य पुनरेतत् प्रायश्चित्तम् ? उच्यते-अगीतार्थस्य। 'सूत्रंतु' सूत्रं पुनर्गीतार्थविषयं द्रष्टव्यमिति वाक्यशेषः॥अथ राशीकृतादिपदानां व्याख्यानमाह- [भा.३३११] पुंजो य होति वट्टो, सो चेव य ईसिआयतो रासी। कुलिया कुड्डल्लीणा, भित्तिकडा संसिया भित्ती॥ वृ-'वृत्तः' वृत्ताकारो धान्योत्करः पुञ्ज इत्युच्यते । स एव 'ईषदायतः' मनाग दीर्थो राशिः । अपुञ्जः पुनः कृतानीति व्युत्पत्त्या पुजीकृतानि, एवं राशीकृतानीत्यपि। तथा कुलिका कुड्यमुच्यते, ततः कुलिकाकृतानि नाम कुड्यालीनानि कृत्वा स्थापितानि । भित्तिकृतानि तु मित्तौ संश्रितानि, भित्तिनिश्रया स्थापितानीत्यर्थः । अथ कुड्य-भित्त्योः कः प्रतिविशेषः? उच्यते-इष्टकादिरचिता भित्तिः, मृत्पिण्डादिनिर्मितं कुड्यम् ।। [मा.३३१२] छारेण लंछिता, मुद्दा पुन छाणपानियं दिन्नं । परिकल्लाई करेत्ता, किलिंजकडएहि पिहिताई। वृ-लाञ्छितानि नाम ‘क्षारेण 'भस्मना चिह्नितानि । तथा मुद्रा पुनः छगणपानीयं तद् यत्र प्रदत्तं तानि मुद्रितानि । “परिकल्लाइं" ति यानि नापि लाञ्छितानि नापि मुद्रितानि तानि पिहितान्युच्यन्ते । एवंविधेषु बीजेषु हेमन्त-ग्रीष्मयोर्गीतार्थस्य वस्तुं कल्पते नागीतार्थस्येति ।। परःप्रेरयति Page #275 -------------------------------------------------------------------------- ________________ २७२ बृहत्कल्प-छेदसूत्रम् -२-२/५२ [भा.३३१३] नत्थि अगीतत्थो वा, सुत्ते गीतो व वनितो कोइ। जा पुन एगाणुना, सा सेच्छा कारणं किं वा ।। वृ-सूत्रे अगीतार्थो वा गीतार्थो वा न कश्चिद् निर्धार्य 'वर्णितः' निर्दिष्टोऽस्ति, अतो येयं भवद्भिः एकस्य-गीतार्थपक्षस्यानुज्ञा अपरस्यागीतार्थपक्षस्य प्रतिषेधः क्रियते सैषा युष्माकं व्याख्यातॄणां स्वेच्छा, नपुनर्भगवदुक्तमिति भावः । अथ कारणं किमप्यत्रास्ति ततोऽभिधीयताम्।। सूरिराह[भा.३३१४] एयारिसम्मि वासो, न कप्पती जति वि सुत्तऽणुन्नातो। अव्वोकडो उ भणितो, आयरिओ उवेहती अत्यं ।। वृ- ‘एताशे' उपाश्रयेवासो यद्यपि सूत्रेऽनुज्ञातस्तथापि न कल्पते, यतः 'अव्याकृतः' अविशेषित एवार्थ सूत्रे भणितः, परमाचार्यस्तमर्थम् उत्प्रेक्षते विषयविभागप्रकटनेनोन्मीलयति। यथा किलैकस्माद् मृत्पिण्डात् कुलालोऽनेकानि घट-शरावादिरूपाणि निष्पादयति, एवमाचार्योऽप्येकस्मात् सूत्रपदादभ्यह्यानेकेषामर्थविकल्पानामुपदर्शनं करोति । यथा वा सान्धकारे गृहादौ विद्यमाना अपि घटादयः पदार्था प्रदीपं विना न विलोक्यन्ते, तथा सूत्रेऽप्यर्थविशेषा आचार्येणाप्रकाशिताः सन्तोऽपि नोपलभ्यन्ते ॥ किञ्च[भा.३३१५] जंजह सुत्ते भणितं, तहेव तं जइ वियालणा नत्थि। किं कालियानुओगो, दिह्रो दिटिप्पहाणेहिं ॥ वृ. 'यद्' वस्तु 'यथा' येन विधिरूपेण प्रतिषेधरूपेण वा प्रकारेण सूत्रे भणितं तत् तथैव यदि प्रतिपत्तव्यं 'विचारणा' विषयविभागव्यवस्थापना युक्ता-ऽयुक्तविमर्शो वा 'नास्ति' न क्रियते ततः किं' केन हेतुना कालिकश्रुतस्यानुयोगः 'दृष्टः' विधेयतयोपलब्धः दृष्टिप्रधानैः' केवलज्ञान-श्रुतज्ञानरूपलोचनप्रवरैस्तीर्थकर-गणधरैः?; अथवा 'ष्टिप्रधानैः' नैगमादिनयमतविशारदैः श्रीभद्रबाहुस्वामिभि किमिति नियुक्तिकरणद्वारेण कालिकश्रुतानुयोगो ‘दृष्टः' प्रतिपादितः? ॥ अपि च[भा.३३१६] उस्सग्गसुतं किंची, किंची अववातियं भवे सुत्तं । तदुभयसुत्तं किंची, सुत्तस्स गमा मुनेयव्वा ।। वृ-किञ्चिदुत्सर्गसूत्रम् १, किञ्चित् पुनरापवादिकं सूत्रम् २, किञ्चित् तदुभयसूत्रम्, तच्च द्विधाउत्सर्गापवादिकम् अपवादौत्सर्गिकम् ३-४ । एते सूत्रस्य 'गमाः' प्रकाराश्चत्वारो ज्ञातव्याः । अथवा 'गमा नाम' द्विरुचारणीयानि पदानि । तद्यथा-उत्सर्गीत्सर्गिकम् ५ अपवादापवादिकम् ६ एवमेतौ द्वौ भेदौ चत्वारश्च प्रागुक्ता इत्येवं सूत्रस्य षड् भेदाः साताः । एते च पुरस्ताददाहरिष्यन्ते । अन्येऽपि च सूत्रस्य भेदा भवन्तीति दर्शयति[भा.३३१७] नेगेसु एगगहणं, सलोम निल्लोम अकसिणे अइणे। विहिभिन्नस्स य गहणं, अववाउस्सग्गियं सुत्तं ॥ ‘अनेकेषु' कषायेन्द्रिया-ऽऽश्रवादिष्वर्थेषु क्वापि सूत्रे एकस्य-अन्यतरस्य ग्रहणं भवेत्, यथायत्र सूत्रे क्रोधनिग्रहः साक्षादुपदिष्टस्तत्र माननिग्रहादयोऽप्यर्थत उक्ता द्रष्टव्याः । एवमिन्द्रियाऽऽश्रवादिष्वपि भावनीयम् । Page #276 -------------------------------------------------------------------------- ________________ उद्देशकः २, मूलं-५२, [भा.३३१७] २७३ । कानिचित्तु सूत्राणि साधूनां साध्वीनां च प्रत्येकविषयाणि । यथेहैव कल्पाध्ययने सलोमसूत्रं निर्लोमसूत्रं वा । तद्यथा-"नो कप्पइ निग्गंथाणं अलोमाइं चम्माइंधारित्तए । कप्पइ निग्गंथाणं सलोमाइंचम्माइंधारित्तए । नो कप्पइ निग्गंथीणं सलोमाइंचम्माइंधारित्तए । कप्पइ निग्गंथीणं अलोमाइंचम्माइंधारित्तए।कानिचित्तु सामान्यसूत्राणि भवन्ति, यथा अकृत्स्नाजिनविषयं सूत्रम्। तच्चेदम्-“कप्पइनिग्गंथाण वा निग्गंथीणवाअकसिणाइंचम्माइंधारित्तए"।अथ "अनानुपूर्व्यपि व्याख्याङ्गम्" इति न्यायोपदर्शनार्थं प्रागुक्तसूत्रषट्कमध्यात् चतुर्थभेदमुदाहरति-"विहिभिन्नस्स य" इत्यादि । इहैव ग्रन्थे यद् विधिभिन्नस्य ग्रहणमुक्तं तदपवादौत्सर्गिकं सूत्रम् । तच्चैदम्-“कप्पइ निग्गंथीणं पक्वे तालपलंबे भिन्ने पडिगाहित्तए, से विय विहिभिन्ने नो चेव नं अविहिभिन्ने"। आह यद्यपवादेनानुज्ञातं तर्हि भूयः कथं प्रतिषिध्यते ? इत्याह[भा.३३१८] उस्सग्गठिई सुद्धं, जम्हा दव्वं विवज्जयं लभति । नयतं होइ विरुद्धं, एमेव इमं पि पासामो । वृ-'उत्सर्गस्थितौ' उत्सर्गपदे 'शुद्धम्'उद्गमादिदोषरहितं यत् भक्त-पानादिद्रव्यं ग्रहीतुंकल्पते तदेवापवादपदे यस्माद् ‘विपर्ययं' वैपरीत्यं लभते, अशुद्धमप्युपादातुं कल्पते इत्यर्थः । 'न च' नैव तत् तथा गृह्यमाणं विरुद्धं भवति, ज्ञानादिगुणोपकारकत्वादविरुद्धमेवेति भावः । एवमेव 'अमुमपि प्रकृतमर्थं "कल्पते निर्ग्रन्थीनां पक्वं तालप्रलम्बं भिन्न प्रतिग्रहीतुम्" इत्यपवादेनानुज्ञातस्याप्यविधिभिन्नप्रतिषेधरूपमविरुद्धमेव पश्यामः ।। अथोत्सर्गसूत्रादीनामुदाहरणान्याह[भा.३३१९] उस्सग्ग गोयरम्मी, निसेज्ज कप्पाऽववादतो तिण्हं। मंसं दल मा अट्ठी, अववादुस्सग्गियं सुत्तं ॥ वृ-उत्सर्गसूत्रं गोचरंपर्यटतः साधोर्गृहद्वयापान्तराले या 'निषद्या' निषदनं तद्विषयम् । तच्चेदम्"नो कप्पइ निग्गंधाण वा निग्गंथीण वा अंतरगिहंसि आसइत्तए वा जाव काउस्सग्गंवा ठाणं वाठाइत्तएत्ति।" यत्तु 'त्रयाणां जराभिभूतादीनां निषद्या कल्पते इत्येवंलक्षणं सूत्रंतदापवादिकम्। तन्त्रेदम्- “अह पुन एवं जाणिज्जा जराजुने १ वाहिए २ तवस्सी ३ मुच्छिन्न वा पवडिज्ज वा एवण्ठं कप्पइअंतरगिहंसि आसइत्तए।" इदं पुनरपवादौत्सर्गिकम्-“मंसंदलमा अहि"त्ति पुद्गलं प्रयच्छ मा अस्थीनीति॥ [भा.३३२०] नो कप्पति व अभिन्नं, अववातेनं तु कप्पती भिन्नं । कप्पति पक्कं भिन्नं, विधीय अववायउस्सग्गं । “नो कल्पतेऽभिन्नमामप्रलम्बप्रतिग्रहीतुम्" एतद्वा उत्सर्गसूत्रम्।यत्पुनः 'अपवादपदेन' अध्वा-ऽवमौदर्यादिषु भिन्नं प्रतिग्रहीतुंकल्पते इत्येवंरूपं तदापवादिकम् । यत् पुनः “निर्ग्रन्थीनां कल्पते पक्वंप्रलम्बं विधिभिन्नं नाविधिभिन्नम्" इति सूत्रंतदपवादौत्सर्गिकम् । एतत्प्रागुक्तमपि स्पष्टीकरणार्थमिहाभिहितम् । इदं त्वौत्सर्गापवादिकम्-“नो कप्पइ० राओवा वियाले वा सेजासंथारयंपडिगाहित्तए । नऽन्नत्थ एगेणंपुव्वपडिलेहिएणंसिज्जा-संथारएणं । इदंपुनरुत्सर्गौत्सर्गिकम्"नो कप्पइ० असणं वा एक पढमाए पोरिसीए पडिगाहित्ता पच्छिमं पोरिसिं उवाइणावेत्तए । से यआहच्च उवाइणाविएसिया, जोतंभुंजइ जंतंवा साइजइसे आवजइचाउम्मासियंपरिहारट्ठाणं [19/181 Page #277 -------------------------------------------------------------------------- ________________ २७४ बृहत्कल्प-छेदसूत्रम् -२-२/५२ उग्घाइयं। तथा येषु सूत्रेष्वपवादो भणितस्तेष्वेवार्थतः पुरनुज्ञा प्रवर्तते तान्यपवादापवादिकानि॥ किञ्चान्यत्[भा.३३२१] कत्थइ देसग्गहणं, कत्थति भन्नति निरवसेसाई। उक्कम-कमजुत्ताई, कारणवसतो निजुत्ताई। वृ-क्वचित् सूत्रेऽभिधेयपदानां देशतो ग्रहणं क्रियते, कुत्रापिच निरवशेषाण्यभिधेयपदानि भण्यन्ते, तथा कानिचित् सूत्राण्युक्रमयुक्तानि, कानिचित्तुं क्रमयुक्तानि 'कारणवशतः' कारणविशेषमाश्रित्य 'नियुक्तानि' गणधरादिभि श्रुतधरैर्विरचितानि ॥ एतदेव विवृणोति[भा.३३२२] देसग्गहणे वीएहि सूयिया मूलमादिणो हुंति । कोहादिअनिग्गहिया, सिंचंति भवं निरवसेसं ॥ वृ-देशग्रहणे कृते सति तज्जातीयानां सर्वेषामपि ग्रहणं भवति, यथा-“सालीणि वा वीहीणि वा" इत्यादावस्मिन्नेव सूत्रे बीजैगृहीतैर्मूलादयोऽपि भेदाः सूचिता भवन्ति । कुत्रापि च सूत्रे निरवशेषाण्यभिधेयपदानि गृह्यन्ते, यथा दशवैकालिके क्रोधादयोऽनिगृहीताः सन्तः भवं' संसारं 'निरवशेष' चतुर्गतिकमपि सिञ्चन्तीत्युक्तम् । तथा च तत्सूत्रम् कोहो य मानो य अनिग्गहीया, माया य लोभो अपवड्डमाणा। ___चत्तारि एए कसिणा कसाया, सिंचंति मूलाई पुनब्भवस्स ।। अथोक्रम-क्रमयुक्तानि सूत्राणि दर्शयति[भा.३३२३] सत्यपरिनादुक्कमे, गोयर पिंडेसणा कमेणं तु । जंपि य उक्कमकरणं, तमभिनवधम्ममादऽट्ठा । वृ-शस्त्रपरिज्ञाध्ययने तेजःकायोद्देशकानन्तरं वायुकायोद्देशकः क्रमप्राप्तोऽपि नोक्तः, किन्तु वनस्पति-त्रसकायोद्दोशकौ प्ररूप्यपर्यन्तेऽसौ भणितः, एवमादिकमुक्रमयुक्तंसूत्रमुच्यते। क्वचितु सूत्रे क्रमेणैवार्थपदानि भवन्ति, यथा-अष्टौ गोचरभूमयः, तद्यथा-"पैडा अद्धपेडा गोमुत्तिया पतंगवीहिया अंतोसंवुक्का बाहिसंवुक्का उज्जुगी गंतुंपञ्चागता ।" तथा सप्तपिण्डैषणासूत्रमपि क्रमनिबद्धं मन्तव्यम् । तद्यथा-"असंसट्ठा संसट्ठा उद्धडा अप्पलेवा उग्गहिता पग्गहिता उज्झितधम्मिया ॥' अथवा 'पिण्डैषणा' इतिप्रथमंपिण्डपदंतत एषणापदंयत्रओघनिर्युक्त्यादी सूत्रे यथाक्रमं प्ररूप्यते तत् क्रमनिबद्धम् । यदपि चोक्रमकरणं शस्त्रपरिज्ञादावध्ययने तदभिनवधर्माद्यर्थम् । किमुक्तं भवति ?. अभिनवधर्मा शैक्षः, स ह्यद्याप्यपरिणतजिनवचनतया वायुकायं परिस्फुटमनुपलभ्यमानतया प्रथमतः प्ररूप्यमाणं न सम्यक्प्रतिपद्यते, अतो वनस्पति-त्रसान्प्ररूप्य यदा तेषु सम्यग्जीवत्वं प्रतिपन्नस्तदा वायुकायं जीवत्वेन प्ररूप्यमाणं सुखेनैव श्रद्धत्ते, एवमादिभि कारणैरुक्रमकरणं मन्तव्यम् ।। अथ “बीएहि सूइया मूलमाइणो" ति पदं व्याचष्टे[भा.३३२४] बीएहि कंदमादी, वि सूयिया तेहिं सव्व वणकाओ। . भोम्मादिगा वणेण तु, सभेद सारोवणा भणिता ।। वृ- इहैव सूत्रै बीजैर्गृहीतैः कन्द-मूलादयोऽपि भेदाः सूचिताः, तेष्वपि तिष्ठतः प्रायश्चित्तं भवतीति भावः । 'तैश्च' कन्दादिभिः सर्वोऽपि वनस्पतिकायः' परीत्ता-ऽनन्तभेदभिन्नः सूचितः। Page #278 -------------------------------------------------------------------------- ________________ उद्देशक ः २, मूलं-५२, [भा. ३३२४] २७५ 'वनेन तु वनस्पतिना 'भौमादयः' पृथिव्यप्कायादयः कायाः सूचिताः । एवं सभेदाः' भेदप्रभेदसहिताः षडपि कायाः ‘सारोपणाः' सप्रायश्चित्ता भणिता अवसातव्याः ॥ [भा.३३२५] जत्थ उ देसग्गहणं, तत्थऽवसेसाई सूइयवसेणं । मोत्तूणं अहिगारं, अनुयोगधरा पभासंति ॥ वृ- एवमत्रापि यत्र देशग्रहणं तत्रावशेषाण्यार्थपदानि, सूचितं सूचा, भावे क्तप्रत्ययः, तद्वशेनावगन्तव्यानि । तथा कुत्रापि सूत्रेऽनुयोगधराः 'अधिकार' प्रस्तुतार्थं मुक्त्वा सूत्रानुपाति प्रसङ्गागतमर्थं प्रथमतः प्रभाषन्ते, यथा पिण्डाधिकारे प्रस्तुते _ "पुढवी आउक्काए, तेऊ वाऊ वणस्सई चेव । बिइ तिय चउरो पंचिंदिया य लेवो दसमओ अ॥" इत्यादिनौधनियुक्तौ सविस्तरं कायप्ररूपणा कृता । एवं विचित्राणि सूत्राणि भवन्ति, अत एव यावदमीषामर्थ सूरिणा न व्यक्तीकृतस्तावन्न सम्यगवगमपथमुपगच्छति॥ अथौत्सर्गिका-ऽऽपवादिकसूत्रयोर्विषयविभागमाह[भा.३३२६] उस्सग्गेणं भणियाणि जानि अववादतो तु जानि भवे । कारणजातेन मुनी!, सव्वाणि वि जाणितव्वाणि ।। वृ-उत्सर्गेण यानि सूत्राणि भणितानि यानि चापवादतः सूत्राणि तानि हे मुने! कारणजातेन सर्वाण्यपि ज्ञातव्यानि । किमुक्तं भवति?-प्रतिषिद्धस्य आचरणहेतुः कारणम्, तच्च ज्ञानादि, तत्र चोत्सर्गसूत्रेषु साक्षादुत्सर्गविषयो निबन्धः, अर्थतस्तु कारणजाते तत्राप्यनुज्ञा मन्तव्या; अपवादसूत्रेषुपुनः कारणजातमुद्दिश्य साक्षादपवादविषयो निबन्धः, अर्थतस्तुतत्राप्युत्सर्गोद्रष्टव्यः। एवंसर्वसूत्रेषुतत्त्व उत्सर्गा-ऽपवादावुभावपिनिबद्धाववगन्तव्यौ ॥अथ किं पुनरनयोः स्वस्थानम्? इत्याह[भा.३३२७] उस्सग्गेण निसिद्धाइं जाई दव्वाइं संथरे मुणिणो । कारणजाते जाते, सव्वाणि विनि कप्पंति ॥ वृ-'उत्सर्गेण' संस्तरणमाश्रित्य यानि 'द्रव्याणि' प्रलम्बादीनि 'मुनेः' संयतस्य प्रतिषिद्धानि तान्येव ‘कारणजाते' विशुद्धालम्बनप्रकारे 'जाते' समुत्पन्ने सति सर्वाण्यपि कल्पन्ते ॥ अत्र परः प्रश्नयति[भा.३३२८] जं चिय पए निसिद्धं, तं चिय जति भूतो कप्पती तस्स। एवं होतऽनवत्था, न य तित्यं नेव सच्चं तु॥ वृ-'यदेव' प्रलम्बादिकं प्राक्' पूर्वं निषिद्धं तदेव यदि ‘भूयः पुनरपि तस्य' साधोः कल्पते, तत एवं सूत्रार्थस्य यदृच्छाप्रवृत्तौ चरण-करणस्यानवस्था भवति। ततश्च न तीर्थमनुस(ष]जति, नैव च प्रतिषिद्धं समाचरतः 'सत्य' संयमो भवति, तदभावे दीक्षा निरर्थिका, तन्निरर्थकतायां मोक्षस्याप्यभावः प्राप्नोति ॥ अपि च[भा.३३२९] उम्मत्तवायसरिसं, खुदंसणं न वि य कप्पऽकप्पं तु। अध ते एवं सिद्धी, न होज सिद्धी उ कस्सेवं ॥ ___ वृ-आचार्य! पूर्वमेकत्र सूत्रे प्रतिषिध्य पुनस्तदेवानुजानत इदं भवतो दर्शनमुन्नत्तवाक्यसशं Page #279 -------------------------------------------------------------------------- ________________ २७६ बृहत्कल्प-छेदसूत्रम् -२-२/५२ प्राप्नोति, तथा नापि च 'इदं कल्प्यम्, इदमकल्प्यम्' इति व्यवस्था भवति, यदि चैवमपि ब्रुवतस्तवाभिप्रेतार्थसिद्धिर्भवति तर्हि कस्य न सा भवेत् ? चरक परिव्राजकादीनामप्यसमञ्जस प्रलापिनां सा भविष्यतीति भावः । सूरिराह [भा. ३३३०] न वि किंचि अनुन्नायं, पडिसिद्धं वा वि जिनवरिदेहिं । एसा तेसिं आणा, कजे सच्चेण होतव्वं ॥ वृ- हे नोदक ! यदेतद् भवता प्रलपितं तत् प्रवचनरहस्यानभिज्ञतासूचकम्, यतो जिनवरेन्द्रैस्तथाविधकारणाभावे नापि 'किञ्चिद्' अकल्पनीयमनुज्ञातम्, कारणे च समुत्पन्ने नापि किञ्चित् प्रतिषिद्धम्, किन्तु एषा 'तेषां' तीर्थकृतां निश्चय-व्यवहारनयद्वयाश्रिता सम्यगाज्ञा मन्तव्यायदुत 'कार्ये' ज्ञानादावालम्बने 'सत्येन' सद्भावसारेण साधुना भवितव्यम्, न मातृस्थानतो यत्किञ्चिदालम्बनीयमित्यर्थः । अथवा सत्यं नाम-संयमः तेन कार्ये समुत्पन्ने भवितव्यम्, यथा यथा संयम उत्सर्पति तथा तथा कर्त्तव्यमिति भावः । आह च बृहद्भाष्यकारः क नाणादीयं, सच्चं पुन होइ संजमो नियमा । जह जह सो होइ थिरो, तह तह कायव्वयं होइ || इदमेव भावयति [भा. ३३३१] दोसा जेन निरुब्भंति जेन खिज्जति पुव्वकम्माई । सो सो मोक्खोवाओ, रोगावत्थासु समणं वा ॥ वृ- 'येन' अनुष्ठानविशेषेण 'दोषाः' रागादयो निरुध्यन्ते, पूर्वोपचितानि च कर्माणि येन क्षीयन्ते, 'स सः' अनुष्ठानविशेषो मोक्षोपायो ज्ञातव्यः । 'रोगावस्थासु' ज्वरादिरोगप्रकारेषु 'शमनमिव' उचितौषधप्रदानापथ्यपरिहाराद्यनुष्ठानमिव; यथा तेन विधीयमानेन ज्वरादिरोगः क्षयमुपगच्छति, एवमुत्सर्गे उत्सर्गमपवादेऽपवादं समाचरतो रागादयो दोषा निरुध्यन्ते पूर्वकर्माणि चक्षीयन्ते । अथवा यथा कस्यापि रोगिणः पथ्यौषधादिकं प्रतिषिध्यते कस्यापि पुनस्तदेवानुज्ञायते, एवगत्रापि यः समर्थस्तस्याकल्प्यं प्रतिषिध्यतेऽ समर्थस्य तु तदेवानुज्ञायते । उक्तञ्च भिषग्वरशास्त्रेउत्पद्येत हि साऽवस्था, देश - काला SSमयान् प्रति । यस्यामकार्यं कार्यं स्यात्, कर्म कार्यं च वर्जयेत् ॥ एवंविधं चोत्सर्गा ऽपवादविभागमगीतार्थो न जानाति । अतः [भा.३३३२] अग्गीयस्स न कप्पइ, तिविहं जयणं तु सो न जाणाइ । अनुन्नवणाए जयणं, सपक्ख- परपक्खजयणं च ॥ वृ- अगीतार्थसय प्रस्तुतसूत्रविषयभूतं वस्तुं न कल्पते, यतोऽसौ त्रिविधां यतनां न जानीते। तद्यथा-अनुज्ञापनायतनां स्वपक्षयतनां परपक्षयतनां चेति । तिस्रऽप्येता वक्ष्यमाणस्वरूपाः । परः प्राह-अगीतार्थेनापि तावत् सूत्रमधीतम् अतः कथमस न जानीते ? उच्यते - इह सर्वेषामप्यागमानामर्थपरिज्ञानमाचार्यसहायकादेवोपजायते, न यथाकथञ्चित् । उक्तञ्च - सत्स्वपि फलेषु यद्वन्न ददातिफलान्यकम्पितो वृक्षः । तद्वत् सूत्रमपि बुधैरकम्पितं नार्थवद् भवति ॥ इदमेवाह Page #280 -------------------------------------------------------------------------- ________________ उद्देशकः २, मूलं-५२, [भा. ३३३३] २७७ [भा.३३३३] निउणो खलु सुत्तत्थो, न हु सक्को उपडिबोधितो नाउं । ते सुणह तत्थ दोसा, जे तेसिं तहि वसंताणं ॥ वृ-'निपुणः' सूक्ष्मः खलु सूत्रस्यार्थो भवति, अत एव न शक्योऽसवाचार्येणाप्रतिबोधितः सम्यक् परिज्ञातुम् अतोऽगीतार्थ सूत्रमात्रेण पठितेन न यतनामवबुध्यते, अतः ‘तेषाम्' अगीतार्थानां 'तत्र' बीजाकीर्णोपाश्रये वसतां ये दोषा भवन्ति तान् शृणुत ॥ [भा.३३३४] अगीयत्था खलु साहू, नवरिं दोसे गुणे अजाणंता । रमणिज्जभिक्ख गामो, ठायंतऽह धन्नसालाए॥ वृ-अगीतार्थाः खलु, के ? 'साधवः' साधुक्रियासु उद्यताः 'नवरं केवलं सदोषाया निर्दोषाया वा वसतेरनुज्ञापने दोषान् गुणाँश्चाजानन्तः क्वापि ग्रामे भैक्षं प्रभूतं लब्ध्वा भिक्षया रमणीयोऽयं ग्रामः' इति कृत्वा ‘अथ' अनन्तरं धान्यशालायां तिष्ठन्ति ॥ इदमेव स्पष्टतरमाह[भा.३३३५] रमणिज्जभिक्ख गामो, ठायामो इहेव वसहि झोसेह । धन्नधराणुन्नवणा, जति रक्खह देमु तो भंते ! ॥ वृ-कश्चिदगीतार्थगच्छो ग्रामानुग्रामिकं विहरन् कमपि ग्रामं सम्प्राप्तः । तत्र बहिर्देवकुलादौ स्थित्वा भिक्षां पर्यटन् प्रभूतम् इष्टं च भैक्षं लब्धवान् । ततस्तैः साधुभि परस्परमुक्तम्-रमणीयोऽयं ग्रामः अत इहैव मासकल्पं तिष्ठामः, परं वसतिरद्यापि न गवेषिता अतस्तां “झोसेह"त्ति देशीवचनत्वाद् गवेषयत । ततस्तैर्वसतिं प्रत्युपेक्षमाणैः कस्याप्यगारिणो धान्यगृहं दृष्टम्, ततस्तस्यानुज्ञापना कृता । गृहपति प्राह-यदि भदन्त ! मदीयं धान्यगृहं तस्कर-गवादिभिरुपद्रूयमाणं • रक्षत ततोऽहं प्रयच्छामि नान्यथा ॥ अपि च[भा.३३३६] वसहीरक्खणदग्गा, कम्मं न करेमो नेव पवसामो । निच्चिंतो होहि तुमं, अम्हे रत्तिं पि जग्गामो ॥ वृ-वयमस्या वसतेः-धान्यशालारूपाया रक्षणे व्यग्राः सन्तः कृप्यादिकं कर्मापि न कुर्महे, न च सुहृदादिभिरामन्त्रिताः क्वापि विवाहादौ कार्ये ग्रामान्तरे प्रवसामः । ततस्तेऽगीतार्था वसत्यनुज्ञापनाविधिमजानन्तो ब्रुवते-निश्चिन्तस्त्वमत्रार्थे भव, वयं रात्रिमपि प्रहरकेण जागरिष्यामः॥ [भा.३३३७] जोतिस-निमित्तमादी, छंदं गणियं व अम्ह साधेत्था । अक्खरमादी डिंभे, गाधेस्सह अजतणा सुणणे ॥ वृ-ज्योतिष निमित्तम् आदिशब्दादन्यदपि गन्धर्वविद्यादिकं तथा छन्दःशास्त्रं गणितशास्त्रं वा यद्यस्माकं कथयिष्यथ, अक्षराणि नाम-लिपिविज्ञानं तद् आदिशब्दाद् व्याकरणादिकं वा यद्यस्माकं 'डिम्भानि' बालकानि ग्राहयिष्यथ ततस्तिष्ठन्तु भवन्त इति । एवं वसतिस्वामिनोक्ते सति यदि तेऽगीतार्थास्तत् प्रतिशृण्वन्ति' 'आमम्, कथयिष्यामो ग्राहयिष्यामोवा' इत्यनुमन्यन्ते ततोऽनुज्ञापनाया अयतना कृता भवति ।। तत्र चामी दोषाः[भा.३३३८] अनुन्नवण अजतणाए, पउत्थ सागारिए घरे चेव । तेसि पि य चीयत्तं, सागारियवज्जियं जातं ।। वृ-एवमयतनानुज्ञापनया तत्र तेषु स्थितेषु सागारिकश्चिन्तयति-‘एते साधवस्तावद् मदीयं धान्यगृह रक्षन्ति अतः कस्मादहं स्वजनादिकार्ये न गच्छामि?' इति परिभाव्य कुत्रचिद् ग्रामादौ ____ Page #281 -------------------------------------------------------------------------- ________________ २७८ बृहत्कल्प-छेदसूत्रम् -२-२/५२ प्रवसति ।प्रोषितेच तस्मिन् गृह एव वा निश्चिन्ततया धान्यानां व्यापारमवहमाने तेषामपि संयतानां प्रीतिकं भवति-साधु साधु सागारिकवर्जितं जातम् ॥ अस्या एव गाथायाः पूर्वार्द्ध व्याचष्टे[भा.३३३९] तेसु ठिएसु पउत्थो, अच्छंतो वा वि न वहती तत्तिं । जति वि य पविसितुकामो, तह वि य न चएति अतिगंतुं॥ वृ-'तेषु' संयतेषु तत्र स्थितेषु स सागारिको निश्चिन्ततया प्रोषितो गृहे वा तिष्ठन् धान्यानां 'तप्ति' व्यापारं न वहति । यद्वा धान्यं सम्भालयितुं यद्यप्यसौ तत्र प्रवेष्टुकामः तथापि 'नातिगन्तुं' न प्रवेष्टुं शक्नोति ॥ कुतः ? इति चेद् उच्यते[भा.३३४०] संथारएहि य तहिं, समंततो आतिकिन्न विइकिन्न । सागारितो न एती, दोसे य तहिं न जाणाती॥ वृ-संस्तारकैः ‘तत्र' उपाश्रये समन्ततः ‘अतिकीर्ण' परिपाट्या प्रसृतैर्मालितं 'व्यतिकीर्णं' तैरेवानानुपूर्व्या प्रसृतैव्याप्तं दृष्ट्वा सागारिकः 'नैति' नागच्छति, ततो ये तत्र धान्यपरिशटनादयो दोषास्तानसौनजानीते॥गता अनुज्ञापनायाअयतना।अथ संयतलक्षणस्वपक्षविषयांयतनामाह[भा.३३४१] ते तत्थ सन्निविट्ठा, गहिया संथारगा जधिच्छाए। नानादेसी साधू, कासइ चिंता समुप्पन्ना ।। कृ'ते' अगीतार्था तत्र' उपाश्रये सन्निविष्टाः' स्थिताः, यदृच्छया चतैस्तत्र संस्तारका गृहीताः, न गणावच्छेदिकेन यथारनाधिकं प्रदत्ता इति भावः, नानादेशीयाश्च तत्र साधवः, तेषां मध्ये “कासई"त्ति कस्यचिद् मन्दधर्मणश्चिन्ता समुत्पन्ना ॥ यथा[भा.३३४२] अनुहूया धन्नरसा, नवरं मोत्तूण सेडगतिलाणं । काहामि कोउहल्लं, पासुत्तेसु समारद्धो । वृ-अनुभूतास्तावदपरेषां धान्यानां रसाः, 'नवरं' केवलं “सेडगतिलाणं"ति श्वेतकतिलानां रसं मुक्त्वा, अत एतद्विषयं 'कौतुकम्' अभिलाषं करिष्यामि' पूरयिष्यामीत्यर्थः । एवं विचिन्त्य शेषसाधुषु रात्रौ प्रसुप्तेषु समारब्धस्तान् तिलान् भक्षयितुम् । ततश्च[भा.३३४३] विगयम्मि कोउहल्ले, छट्ठवतविराधन त्ति पडिगमनं । वेहानस ओहाणे, गिलाण सेधेण वा दिट्ठो॥ वृ-'विगते' व्यतीते सति कौतुके षष्ठव्रतस्य विराधना ममाभूत्, एकव्रतभङ्गे च सर्वव्रतभङ्गः' इति कृत्वा ‘प्रतिगमनं' भूयोऽपि गृहवासाश्रयणं कुर्यात्, वैहायसं वा मरणमभ्युपगच्छेत्, 'अवधावनं वा' संविग्नविहारं कुर्वीत, पार्श्वस्थादिविहारमाद्रियेत इत्यर्थः । अथवा स संयतस्तिलभक्षणं विदधानो ग्लानेन वा शैक्षेण वा दृष्टो भवेत् । ततश्च[भा.३३४४] दटूण वा गिलाणो, खुधितो भुंजेज जा विराधनत । एणेव सेधमादी, भुंजे अप्पच्चयो वा सिं ॥ वृ- तं साधुं तिलान् भक्षयन्तं दृष्ट्वा ग्लानः क्षुधितः सन् तांस्तिलान् भुञ्जीत्, ततश्चापथ्यप्रतिसेवनेन या तस्य परितापनादिका विराधना तन्निष्पन्नं प्रायश्चित्तम् । एवमेव शैक्षादयोऽपि तं तिलान् भुञ्जानं दृष्ट्वा तथैव भुञ्जीरन्, अप्रत्ययो वा तेषां भवेत्-यथैतद् मृषा तथाऽन्यदप्यमीषामेवंविधमिति ॥ Page #282 -------------------------------------------------------------------------- ________________ २७९ उद्देशकः २, मूलं-५२, [भा. ३३४५] [भा.३३४५] उड्डाहं व करेजा, विप्परिणामो व होज्ज सेहस्स। गेण्हतेन व तेनं, सव्वो पुंजो समारद्धो॥ वृ-स शैक्षस्तं तिलान् भक्षयन्तं विलोक्यापरापरजनेभ्यः कथयन्नुड्डाहं वा कुर्यात्, विपरिणामो वा शैक्षस्य भवेत्, विपरिणतश्च सम्यक्त्वं चारित्रं लिङ्गं वा परित्यजेत् । तेन च साधुना 'गृह्णता' भक्षयता सर्वोऽपि तिलपुञ्जः खादितुं समारब्धः ॥ ततश्च[भा.३३४६] फेडिय मुद्दा तेनं, कज्जे सागारियस्स अतिगमनं । केन इमं तेनेहि, तेनाणं आगमो कत्तो॥ कृतिलपुञ्जस्य या छगणपानीयादिना मुद्रा कृताऽऽसीत् सा तेन तिलान् भक्षयता ‘स्फेटिता' अपनीता। तत्र च क्वचित् कार्ये 'सागारिकस्य' शय्यातरस्य 'अतिगमनं' प्रवेशो भवेत् । दृष्टश्च तेन खण्डितस्तिलपुजः । ततः पृष्टाः-केनेदं धान्यं विलुप्तम् ? । साधवो भणन्ति-स्तेनैः । सागारिकः प्राह-स्तेनानामागमः कुतो नामास्मद्गृहे सञ्जातो येनास्माभिर्न ज्ञातः ? इति । ततः सागारिकेण चेतसि निश्चितम्-नूनमेतैरेव भक्षितमिदं धान्यमिति । स च भद्रको वा स्यात् प्रान्तो वा । भद्रकस्तावदिदं ब्रूयात्[भा.३३४७] इहरा वि ताव अम्हं, भिक्खं व बलिं व गिण्हह न किंचि । एण्हि खु तारितो मी, गिण्हह छंदेन जा अट्ठो । वृ-इतरथाऽपि तावदस्माकं गृहे भिक्षां वा 'बलिं वा' देवतानिवेदनमुद्वरितं गृह्णीथ, अत इदानीं संसारसागरात् तारतोऽसम्यहम्, अन्येनापि येन भवताम् 'अर्थ' प्रयोजनं तद् भगवन्तः 'छन्देन' स्वेच्छया गृह्णीध्वम् ॥ [भा.३३४८] लहुगा अनुग्गहम्मी, अप्पत्तिंग धम्मकंचुए गुरुगा । कडुग-फरुसं भयंते, छम्मासा करभरे छेदो । वृ-यद्येवं भद्रकोऽनुग्रहं मन्यते तदा चतुर्लघवः । अथ प्रान्तोऽसौ ततोऽप्रीतिकं कुर्यात्-एते धर्मकञ्चुकप्रविष्टा लोकं मुष्णन्ति; एवमप्रीतिके चतुर्गुरवः । अथासौ 'कटुक-परुषं' 'चौरस्त्वम्, धिग् मुण्ड !, दुरात्मन् !' इत्यादि वचनं भणति तदा षड्गुरवः । अथैवं ब्रूयात्-अहो ! राजकरभरभग्नैरस्माभिरिदानीं श्रमणकरो वोढव्यः; तदा छेदः प्रायश्चित्तम् ।। [भा.३३४९] मूलं सएज्झएसुं, अनवट्ठप्पो तिए चउक्के य । रच्छा-महापथेसु य, पावति पारंचियं ठाणं ॥ वृ- सइज्झका नाम-सहवासिनः, प्रातिवेश्मिका इत्यर्थः, तैः परिज्ञातम् यथा-श्रमणैर्धान्यं स्तैन्येन भक्षितम्। ततो मूलम् । अथ त्रिके चतुष्के व साधूनां स्तेनवादः प्रसरमुपगतः ततोऽनवस्थाप्यम् । अथ रथ्यासु महापथेषु वा स्तैन्यापयशः समुच्छलितं ततः पाराञ्चिकं स्थानमाचार्यादि प्राप्नोति ॥अथ कटुक-परुष-करभरपदानि व्याचष्टे[भा.३३५०] चोरु त्ति कडुय दुब्बोडितो त्ति फरुसं हतो सि पव्वावी ! । समणकरो वोढव्वो, जातो ने करभरहताणं॥ वृ- 'चौरस्त्वम्' इत्यादि वचनं कटुकम् । यत्तु 'दुर्मुण्डः' इति वा 'हतोऽसि प्रव्रजित !' इति वा वचनं तत् परुष मन्तव्यम् । तथा स शय्यातरो ब्रूयात्-अस्माकंकरभरहतानां सम्प्रति श्रमणानां Page #283 -------------------------------------------------------------------------- ________________ २८० बृहत्कल्प-छेदसूत्रम् - २-२/५२ करो वोढव्यः सञ्जातः । एषा स्वपक्षविषया अयतनाऽभिहिता । अथ परपक्षविषयामयतनामाह[भा. ३३५१] परपक्खम्मि अजयणा, दारे उ अवंगुतम्मि चउलहुगा । पिहणे वि होंति लहुगा, जंते तसपाणघातो य ॥ वृ- मनुष्य- गवादयो येऽसंयतास्ते परपक्षः तद्विषया अयतना भाव्यते - इह कोलिकादिजीवविराधनाभयाद् यदि द्वारमपावृतं करोति-न स्थगयतीत्यर्थः ततश्चतुर्लघवः । अथ द्वारस्य पिधानं कुर्वन्ति तदापि चतुर्लघवः । 'यन्त्रे' चचुइआरकाख्ये सञ्चारिमानामुद्देहिकादीनां त्रसप्राणिनां घातो भवतीति तन्निष्पन्नं प्रायश्चित्तम् ॥ [भा. ३३५२] गोणे य साणमादी, वारण लहुगा य जं च अधिकरणं । खरए तेन या, गुरुगा य पदोसओ जं च ॥ वृ- अपिहिते द्वारे गौः प्रविष्टो धान्यं भक्षयेत्, श्वानो वा आदिशब्दाद् मार्जारो वा प्रविश्य धान्यं विकिरेत् खादेद्वा, ते च यदि वार्यन्ते तदा चतुर्लघवः । ते च वारिताः प्रतिनिवृत्य व्रजन्तो हरितमर्दनादिरूपं यदधिकरणं कुर्वन्ति तन्निष्पन्नम्; चशब्दादन्तरायं च तेषां कृतं भवति । तथ शय्यातरस्य यद् व्यक्षरकं-दास-दासीरूपं ये च स्तेनकास्ते धान्यं हर्तुकामा यदि वार्यन्ते तदा चतुर्गुरुकाः । ते च वारिताः प्रद्वेषतो यदभ्याख्यान- परितापनादिकं करिष्यन्ति तन्निष्पन्नं प्रायश्चित्तम् [भा. ३३५३] तेसि अवारणे लहुगा, गोसे सागारियस्स सिट्ठम्मि । लहुगा य जं च जत्तो, असिट्टे संकापदं जंच ॥ वृ- अथैतद्दोषभयात् 'तेषां ' व्यक्षरकादीनां वारणं न करोति तदा चतुर्लघवः । ते चावारिताः सन्तः प्रविश्य धान्यं भक्षयेयुरपहरेयुर्वा ततो यदि 'गोसे' प्रत्यूषे सागारिकस्य कथयन्ति यथा 'अमुकेनामुकेन च रात्रौ धान्यमपहृतम्' ततश्चतुर्लघुकाः । 'शिष्टे' कथिते सति स रुष्टः सन् यद् द्व्यक्षरकादीनां परितापनादि 'यतः' बन्धन- घातनविशेषतः करिष्यति तन्निष्पन्नं प्रायश्चित्तम् । अथ न कथयन्ति ततोऽपि चतुर्लघुकाः । यच्च साधूनामुपरि शङ्कापदं शय्यातरः करोति - 'नूनमेतैरपहृतं यदेवं न कथयन्ति' तत्र चतुर्लघु । निशङ्किते चतुर्गुरु ॥ गवादीनां वारणे दोषानुपदर्शयति [भा. ३३५४] तिरियनिवारण अभिहनन मारणं जीवघातो नासंते। खरिया छोभ विसाऽगणि, खरए पंतावणादीया ॥ वृ-गवादीनां तिरश्चां निवारणे शृङ्गादिना संयतानामभिघातो मारणं वा भवेत् । ते च निवारिता नश्यन्त जीवघातं कुर्युः । द्व्यक्षरिका च निवारिता संयताना 'छोभम्' अभ्याख्यानं दद्यात् एष श्रमणो मां प्रार्थयते; विषं वा दद्यात्, वसतिं वाऽग्निना प्रज्वालयेत् । द्व्यक्षरको वा प्रद्विष्टः प्रान्तापनादिकं कुर्यात् ।। अथ स्तेनका येन कारणेन धान्यमपहरन्ति तत् प्रतिपादयति[भा. ३३५५ ] आसन्नो य छनूसवो, कजं पि य तारिसेण धनेणं । तेनाण य आगमनं, अच्छह तुण्डिक्कका तेना ॥ वृ- क्षणः - एकदैवसिकः, उत्सवः - बहुदैवसिकः, क्षणयुक्त उत्सवः क्षणोत्सवः, शाकपार्थि'वादिवद् मध्यपदलोपी समासः, क्षण उत्सवो वा इत्यर्थः । स स्तेनानां प्रत्यासन्नो वर्त्तते, तत्र च तेषां ताध्शेन धान्येन कार्यमस्ति ततः स्तेनानामागमनम्, ततश्चागीतार्था भणन्ति-भदन्त ! स्तेनाः Page #284 -------------------------------------------------------------------------- ________________ २८१ उद्देशक ः २, मूलं-५२, [भा. ३३५५] समायाताः सन्ति अतस्तूष्णीकास्तिष्ठथ । न कल्पते साधूनामेवमाख्यातुम्-अयं स्तेनः, अयं चोपचरक इति । अथवा संयतैः ‘स्तेना आयाताः सन्ति' इत्युक्ते स्तेना ब्रुवते- संयताः ! तूष्णीकास्तिष्ठथ, अन्यथा युष्मानपद्रावयिष्यामः ॥ एवमुक्त्वा तैः किं कृतम् ? इत्याह[भा.३३५६] गहियं च नेहि धनं, घेत्तूण गता जहिं सि गंतव्वं । सागारिओ य भणती, सउणी वि य रखए नेड्डे ।। वृ- गृहीतं च 'तैः' स्तेनकैर्धान्यम्, गृहीत्वा च ते गतास्तत्र स्वस्थाने यत्र तेषां गन्तव्यम् । सागारिकश्चात्मीयकार्येण प्रभाते समागतो मुद्राभेदं दृष्ट्वा भणति-भगवन् ! 'शकुनिकाऽपि' पक्षिण्यपि तावदात्मनः 'नीडम्' आश्रयं रक्षति, भवद्भि पुनरेतदपि न रक्षितमिति भावः ॥ [भा.३३५७] रासी ऊने दुटुं, सव्वं नीतं व धन्नखेरिं वा । केन इमं तेनेहि, असिढे भद्देतर इमं तु ॥ वृ-स सागारिकस्तत्र धान्यराशीन् 'ऊनान्' तुच्छान् दृष्ट्वा, सर्वं वा धान्यं 'नीतम्' अपहृतं विलोक्य, यद्वा धान्यस्य खेरिं-परिशाटिं दृष्ट्वा पृच्छति-केनेदमपहृतम् ? । साधवो ब्रुवते-स्तेनैः। स भूयः पृच्छति-के पुनः स्तेनाः ? । ततो यदि नाम्ना वर्णेन वयसा वा निर्दिश्य कथयन्ति ततः स्तेनानां ग्रहणा-ऽऽकर्षणादयो दोषाः । 'अशिष्टे' अकथिते ‘एतैरेव हृतम्' इति शङ्का स्यात् तत्र भद्रकेतरदोषा भवन्ति । यद्यसौ सागारिको भद्रकस्तदा अनुग्रहं मन्येत । अथ 'इतरः' प्रान्तस्ततोऽप्रीतिकादयो दोषाः ।। तेषु च भद्रक-प्रान्तदोषेष्विदं प्रायश्चित्तम्[भा.३३५८] लहुगा अनुग्गहम्मि, गुरुगा अप्पत्तियम्मि कायव्वा । . कडुग-फरुसं भणंते, छम्मासा करभरे छेदो ॥ [भा.३३५९] मूलं सएज्झएसुं, अणवठ्ठप्पो तिए चउक्के य । रच्छा-महापहेसु य, पावति पारंचियं ठाणं ॥ वृ-गाथाद्वयस्य व्याख्या प्राग्वत् । [भा.३३६०] एगमनेगे छेदो, दिय रातो विनास-गरहमादीया। जं पाविहिंति विहनिग्गतादि वसधिं अलभमाणा। वृ-सागारिकः प्रद्विष्टः सन् एकेषां तेषामेव अनेकेषां वा-सर्वसाधूनाम्, यद्वा एकस्य-तद्रव्यस्य अनेकेषां वा-तद्रव्या-ऽन्यद्रव्याणां व्यवच्छेदं विदध्यात् । अथवा दिवा निष्काशयति चतुर्लघु, रात्रौ निष्काशयति चतुर्गुरु । निष्काशिताश्च स्तेन-श्वापदादिभिर्विनाशं लोकाद्वा गर्हामासादयन्ति, 'एते स्तेनाः' इति कृत्वा निष्काशिताः, आदिग्रहणेन ग्रहणा-ऽऽकर्षणादयो दोषाः । यच्च विधंअध्वा ततो निर्गता आदिशब्दादशिवादिनिर्गता वा तदीयदोषेण वसतिमलभमाना आत्मविराधनादिकं प्राप्स्यन्ति तनिष्पन्नम् । एतेऽगीतार्थानां दोषा उक्ताः । अथ गीतार्थानधिकृत्य विधिमाह[भा.३३६१] गीयत्थेसु वि एवं, निकारण कारणे अजतणाए। कारणे कडजोगिस्सा, कप्पति तिविहाए जतणाए । वृ-गीतार्था अपि यदि निष्कारणे धान्यशालायां तिष्ठन्ति, कारणे वा स्थिता यतनां न कुर्वन्ति ततस्तेष्वप्येवमेव दोषाः । अथ ‘कृतयोगी' गीतार्थ कारणे तिष्ठति तदा तस्य 'त्रिविधया यतनया' अनुज्ञापनादिविषयया वक्ष्यमाणया तन्त्र स्थातुं कल्पते ।। इदमेव स्पष्टतरमाह Page #285 -------------------------------------------------------------------------- ________________ २८२ बृहत्कल्प-छेदसूत्रम् -२-२/५२ [भा.३३६२] निकारणम्मि दोसा, पडिबद्धे कारणम्मि निद्दोसा । ते चेव अजतणाए, पुनो वि सो लग्गती दोसे ॥ वृ-धान्यप्रतिबद्धे गृहे निष्कारणे तिष्ठतामेते दोषा मन्तव्याः । कारणे तु यतनया तिष्ठन्तो निर्दोषाः । अथ कारणे स्थितो यतनां न करोति तदा 'तानेव' पूर्वोक्तान् दोषान् ‘लगति' प्राप्नोति। किं पुनस्तत् कारणम् ? इत्याह[भा.३३६३] अद्धाणनिग्गतादी, तिक्खुत्तो मग्गिऊण असतीए । गीतत्था जतणाए, वसंति तो धन्नसालाए॥ अध्वनिर्गतादयः 'त्रिकृत्वः' त्रीन् वारान् विशुद्धां वसतिं मार्गयित्वा यदि न प्राप्नुवन्ति तदा गीतार्था यतनया धान्यशालायां वसन्ति ।। तामेव यतनामाह[भा.३३६४] तुस-धन्नाई जहियं, निप्परिसाड-परिसाडगाइं वा। तेसु पढमं तु ठायति, तेसऽसती दंतखज्जेसु ॥ वृ-येषूपाश्रयेषु 'तुषधान्यानि' व्रीहि-यवादीनि निष्परिशाटीनि परिशाटीनि वा भवन्ति तेषु प्रथमतस्तिष्ठन्ति । तषामभावे यत्र ‘दन्तखाद्यानि' तिलादीनि धान्यानि तत्र तिष्ठन्ति ॥ तिष्ठतां च यदि वसतिस्वामी ब्रूयात्-यद्यस्माकम् अस्मद्वालकानां वा ज्योतिषादिकमक्षरादिविज्ञानं वा कथयिष्यथ गृहादिकं वा रक्षिष्यथ ततो वसतिं प्रयच्छाम इति । तत्र साधुभिर्वक्तव्यम्[भा.३३६५]न वि जोइसं न गणियं, न अक्खरे न वि य किंचि रक्खामो । ___अप्पस्सगा असुणगा, भातणखंभोवमा वसिमो॥ वृ-वयं नापि ज्योतिषं न गणितं नाक्षराणि वा शिक्षयामो न वा जानीमः, नापि च किञ्चिद् गृहादिकं रक्षामः, किन्तु भाजनस्तम्भोपमा वसामः । यथा भवतांभाजन-स्तम्भ-कुड्यादीनि सौस्थ्यदौःस्थ्यव्यापारं न वहन्ति, एवं वयमपि भवद्भिर्मन्तव्याः । अत एव भवद्हे कस्यापि कार्यस्य विपत्तिं पश्यन्तोऽप्यपश्यकाः । यदा च कोऽपि ब्रूयात्-इदं शय्यातरस्य कथयत तदा वयं शृण्वन्तोऽप्यश्रोतारो मन्तव्याः । यदेयवमभ्युपगच्छति तदा स्थातव्यम् ।। अत एवाह[भा.३३६६] निकारणम्मि एवं, कारणे दुलभे भणंतिमं वसभा। अम्हे ठितेल्लग च्चिय, अधापवत्तं वहह तुब्भे ॥ वृ-'निष्कारणे' कारणाभावे एवं तिष्ठन्ति । अथाशिवादौ कारणे शुद्धा वसतिर्दुर्लभा ततो धान्यशालायां तिष्ठन्त इत्थं साधारणवचनं वृषभा भणन्ति-वयं तावदत्र स्थिता एव, यूयमपि यथाप्रवृत्तं दिवसदैवसिकं व्यापार वहथैव ।। गता अनुज्ञापनायतना । अथ स्वपक्षयतनामाह[भा.३२६७] आमंति अब्भुवगते, भिक्ख-वियारादि निग्गत मिएसु । भणति गुरू सागारिय, नाउं जे कत्थ किं धन्नं ।। वृ-'आमम्' इत्यनुमतार्थद्योतकमव्ययम् । यदि सागारिकेणानुमतम्-मम निष्प्रत्युपकारिणो भूत्वा यूयं तिष्ठत; ततस्तत्र स्थातव्यम् । स्थितानांच तत्रायं विधि-यदा सर्वेऽपि मृगाः-अगीतार्था भिक्षायां विचारभूम्यादौ वा निर्गता भवन्ति तदा 'गुरु' आचार्य सागारिकमन्यव्यपदेशेन भणति। किमर्थम् ? इत्याह-कुत्र किं धान्यं वर्तते ? इति ज्ञातुम् । “जे'' इति पादपूरणे ।। [भा.३३६८] सालीणं वीहीणं, तिल-कुलत्थाण मुग्ग-मासाणं । Page #286 -------------------------------------------------------------------------- ________________ २८३ उद्देशक : २, मूलं-५२, [भा. ३३६८] दिट्ठ मए सन्निचया, अन्ने देसे कुटुंबीणं ॥ ' वृ-शालीनां व्रीहीणां तिल-कुलत्थानां मुद्गानां माषाणां च सन्निचया अन्यस्मिन् देशे कुटुम्बिनां गृहेषु मया दृष्टाः ॥ [भा.३३६९] एवं च भणितमित्तम्मि कारणे सो भणाति आयरियं । अस्थि महं सन्निचया, पेच्छह नानाविहे धन्ने । वृ-एवं चाचार्येण भणितमात्रेऽपिस सागारिकः कथनकारणे क्रमप्राप्ते सति आचार्य भणतिभगवन् ! सन्ति मे बहवः सन्निचयाः, पश्यत नानाविधानि धान्यानि । एवं ब्रुवन् हस्तसंज्ञया निर्दिशति, यथा-अत्र शालयः सन्ति, अत्र गोधूमाः, अत्र तिला इत्यादि । [भा.३३७०] उवलक्खिया य धन्ना, संथाराणं जहाविधि ग्गहणं । जो जस्स उ पाउग्गो, सो तस्स तहिं तु दायव्वो॥ वृ-आचार्येणोपलक्षितानि तानि धान्यानि, ततः संस्तारकाणां 'यथाविधि' यथारत्नाधिकं ग्रहणे प्राप्तेऽपि तत्र सूरय औत्पत्तिकी सामाचारी स्थापयन्ति । कथम् ? इत्याह-यः ‘यस्य' शैक्षग्लानादेगीताथदिर्वाधान्यस्य दूरेऽदूरेवा यत्र संस्तारकः प्रायोग्यः स तस्य तत्रावकाशेदातव्यः॥ [भा.३३७१] निक्खम-पवेसवज्जण, दूरेण अभाविया तु धन्नाणं । धनंतेन परिणता, चिलिमिणि दिवरत्तऽसुन्नं तु ॥ वृ- यत्र सागारिको धान्यग्रहणार्थं निष्कामति प्रविशति वा तमवकाशं वर्जयित्वा साधुभिरासितव्यं शयितव्यं वा । ये पुनः ‘अभाविताः' अगीतार्थास्त धान्यानां दूरेण स्थाप्यन्ते । ये तु परिणताः' धर्मश्रद्धालवः स्थिरचेतसश्च ते धान्यानाम् अन्तेन-पार्श्वेन क्रियन्ते । धान्यानां चापान्तराले चिलिमिलिका दातव्या । गीतार्थपरिणामकैश्च दिवा च रात्रौ चाशून्यं कर्तव्यम् ।। [भा.३३७२] ते तत्थ सन्निविट्ठा, गहिया संथारगा विहीपुव्वं । जरमाण वसंती, सपक्खजतणाए गीयत्था । वृ-'ते' साधवः 'तत्र' उपाश्रये सन्निविष्टाः सन्तः स्वाध्यायादिकं कुर्वन्तीति वाक्यशेषः । तैश्च संस्तारकाः 'विधिपूर्वं यथा पूर्वोक्ता दोषा न भवन्ति तथा गृहीताः । तत्र च गीतार्था 'स्वपक्षयतनायै' स्वपक्षविषयरक्षार्थं 'जाग्रतः' सजागराः 'वसन्ति' स्वपन्ति ॥ [भा.३३७३] ठाणं वा ठायंती, निसिज्ज अहवा सजागर सुवंति। बहुसो अभिद्दवेंते, वयणमिणं वायणं देमि ॥ वृ-ये वा ढिसंहननास्ते 'स्थानं तिष्ठन्ति' कायोत्सर्गं कुर्वन्तीत्यर्थः । अथवा “निसिज्ज"त्ति निषन्नाः ते सूत्रार्थमनुप्रेक्षमाणास्थिष्ठन्ति । यश्च शैक्षादिरपरिणतस्तेषां धान्यराशीनां समीपे व्रजति तत्र गुरवो वृषभा वा सजागराः स्वपन्तस्तथा काशितादिसब्दं कुर्वन्ति यथाऽसौ प्रतिनिवर्तते । अथासौ 'बहुशः' भूयो भूयोऽभिद्रवति ततो गुरुभि सामान्यत इदं वचनं वक्तव्यम्-आर्या ! उत्तिष्ठत येन युष्मभ्यं वाचनां प्रयच्छामि । यद्वा तमेव साधु भणन्ति- आर्य ! तुभ्यमहं वाचनां प्रयच्छामि? ॥ [भा.३३७४] फिडियं धन्नद्रं वा, जतणा वारेंति न उ फुडं बेंति । . मा नं सोही अन्नो, नित्थक्को लज्ज गमनादी ।। Page #287 -------------------------------------------------------------------------- ________________ २८४ बृहत्कल्प-छेदसूत्रम् -२-२/५२ वृ-'स्फिटितं' दिङ्मूढतया द्वारात् परिभ्रष्टं धान्यार्थिनं वा' धान्यभक्षणाभिलाषिणं साधुं यतनया वारयन्ति, न पुनस्तस्य सम्मुखं 'स्फुटं' रूक्षवचनं ब्रुवते । कुतः ? इत्याह-मा स्फुटमभिधीयमानमन्यः श्रोष्यति, स च श्रुत्वा अन्येषां कथयेत्, ततश्च परम्परया सर्वैरपि साधुभिज्ञति नित्थक्कः' निर्लज्जो भवेत्। यद्वा ज्ञातोऽस्यहम्' इति लज्जयाप्रतिगमन-वैहायसादीनि विदध्यात् ।। कथं पुनर्वारयन्ति? इत्याह[भा.३३७५] दारं न होइ एत्तो, निद्दामत्ताणि पुंछ अच्छीणि । भण जं व संकियं ते, गिण्हह वेरत्तियं भंते!॥ वृ- यः स्फिटितो धान्यार्थी वा साधुः स वक्तव्यः-आर्य ! यत्र भवान् गच्छति इतो द्वारं न भवति, निद्राप्रमत्ते वाऽक्षिणी 'प्रोञ्छ' हस्तेन परिस्पृश्योन्मीलयेत्यर्थः, यच्च किमपि ते सूत्रेऽर्थे वा शङ्कितं तदस्माकमग्रे भण यएन निःशङ्कितं कुम्रहे । यद्वा साधवो वक्तव्याः-'भदन्ताः!' आर्या! गृहीध्वं वैरात्रिकं कालं येन स्वाध्यायः क्रियते ॥गता स्वपक्षयतना । अथ परपक्षयतनामाह[भा.३३७६] परपक्खम्मि वि दारं, पिहंति जतणाए दो वि वारेति । तह वि य अठायमाणे, उवेह पुट्ठा व साहिति ॥ कृ'परपक्षे गो-श्वान-मार्जारादौ प्रतिश्रयं प्रविशति यतनया द्वारंपिदधति।अथ द्वारंपिधातव्यं न भवति ततः 'द्वावपि' तिर्यङ्-मनुष्यौ दासी-दासौ वा स्त्री-पुरुषौ वा आक्रान्तिकाऽनाक्रान्तिकस्तेनौ वा प्रविशन्तौ निवारयन्ति । यदि तथापि न तिष्ठन्ति' धान्यग्रहणाद् नोपरमन्ते तत उपेक्षां कुर्वन्ति, तूष्णीकास्तिष्ठन्तीति भावः । सागारिकेण च ‘केनेदं धान्यं नीतम् ?' इति पृष्टाः सन्तः कथयन्ति-अमुकेनामुकया वा इति सङ्ग्रहगाथासमासार्थः ॥ अथैनामेव विवरीषुराह[भा.३३७७] पेहिय पमज्जिया नं, उवओगं काउंसणिय ढक्केति । तिरिय नर दोन्नि एते, खर-खरि पुं-थी निसिडितरे ॥ वृ-चक्षुषा प्रत्युपेक्ष्य रजोहरणेन प्रमृज्य शनैर्यथा जीवानां विराधना न स्यात् तथा 'तं' द्वारं 'ढक्कयन्ति' स्थगयन्ति । अथ तदानीमचक्षुर्विषयं ततः श्रोत्रादिभिरिन्द्रियैरुपयोगंकृत्वा द्वारपिधानं कुर्वन्ति । तथा द्वौ नाम-तिर्यङ्-नरौ, अथवा खरः-दासःखरिका-दासी एतौ, यद्वा पुरुष-स्त्रीरूपौ, अथवा निसृष्टः इतरश्च-अनिसृष्टः । निसृष्टो नाम-यस्य शय्यातरेण प्रवेशोऽनुज्ञातः, अनिसृष्टस्तद्विपरीतः । अथवा निसृष्टाः-आक्रान्तिकाः स्तेनाः, अनिसृष्टाः अनाक्रान्तिकाः । एते धान्यग्रहणं कुर्वन्तो वारणीयाः । कथम् ? इत्याह[भा.३३७८] गेण्हतेसु य दोसु वि, वयणमिणं तत्थ बिंति गीयत्था । बहुगं च नेसि धन्नं, किं पगतं होहिती कल्लं ॥ वृ-स्त्री-पुरुषादिरूपयोर्द्वयोरपि धान्यं गृह्णानयोर्गीतार्था इदं वचनं ब्रुवते-भो भद्र ! बह्विदं धान्यमद्य नयसि किं कल्ये 'प्रकृतं' प्रकरणं भविष्यति ? ॥ __ [भा.३३७९] नीसढेसु उवेहं, सत्थेण व तासिता उ तुहिक्का । बहुसो भणाति महिलं, जह तं वयणं सुणति अन्नो । वृ- निसृष्टाः-आक्रान्तिकस्तेनाः ये बलादपि हरन्ति तेषु समागतेषु उपेक्षां कुर्वन्तितूष्णीकास्तिष्ठन्ति । अथवा खड्गादिना शस्त्रेण त्रासिताः सन्त इतरेष्वप्यनाक्रान्तिकेषु तूष्णीका Page #288 -------------------------------------------------------------------------- ________________ उद्देशक : २, मूलं - ५२, [ भा. ३३७९] २८५ भवन्ति । अथ महिला काचित् तत्र धान्यं नयति ततस्तां महिलां तथा भणन्ति यथा तद् वचनमन्यः शृणोति ॥ इदमेव व्यक्तीकरोति [भा. ३३८० ] साहूणं वसहीए, रत्तिं महिला न कप्पती एंती । बहुगं च नेसि धन्नं, किं पाहुणगा विकालो य ॥ वृ- साधूनां वसतौ रात्रौ 'महिला' स्त्री न कल्पते “एंती” आगच्छन्ती, त्वं च बह्निदं धान्यं गृह्णासि किं प्राघुणकाः समायाताः ? विकालश्च सम्प्रति वर्त्तते ततो नेदानीं ते ग्रहीतुमवसर इति ।। [भा. ३३८१] तेनेसु निसट्टेसुं, पुव्वा ऽवररत्तिमल्लियंतेसु । तेनबियरक्खणट्ठा, वयणमिणं बेंति गीतत्था ।। वृ- 'निसृष्टेषु' आक्रान्तिकेषु स्तेनेषु पूर्वरात्रमपररात्रं वा तत्राऽऽलीयमानेषु स्तेनेभ्यः सकाशाद् बीजानां रक्षणार्थं गीतार्था उच्चशब्देनेदं वचनं ब्रुवते ॥ किं तत् ? इत्याहजागरह नरा ! निच्चं, जागरमाणस्स वढते बुद्धी । जो सुवति न सो धन्नो, जो जग्गति सो सया धन्नो ॥ [भा. ३३८२ ] वृ- भो नराः ! नित्यं 'जागृत' जाग्रतस्तिष्ठत, यतो जाग्रतो बुद्धि सूत्रा ऽर्थानुप्रेक्षादिना वर्द्धते, अत एव यः स्वपिति नासौ 'धन्यः' ज्ञानादिधनार्हः, यस्तु जागर्त्ति स सदा धन्यः ॥ [भा. ३३८३ ] सीतंति सुवंताणं, अत्था पुरिसाण लोगसारत्था । तम्हा जागरमाणा, विधुनय पोराणयं कम्मं ॥ वृ-स्वपतां पुरुषाणाम् 'अर्था' ज्ञानादयः 'लोकसारार्था' त्रैलोक्यप्रधानप्रयोजनभूताः 'सीदन्ति’ हानिमुपगच्छन्ति । यत एवं तस्माद् जाग्रतः सन्तः पुरातनं कर्म विधूनयत ॥ [भा. ३३८४] सुवति सुवंतस्स सुतं, संकित खलियं भवे पमत्तस्स । जागरमाणस्स सुतं, थिर-परिचितमप्पमत्तस्स ।। वृ- 'स्वपतः' निद्रायमाणस्य 'श्रुतम्' आचारादिकं 'स्वपिति' विस्मरति । 'प्रमत्तस्य' विकथादिप्रमादनिमग्नस्य 'शङ्कितं' 'किमत्र प्रदेशे इदमालापकपदमर्थपदं वा भवति ? उत न?' इति संशयक्रोडीकृतम्; स्खलितं वा भवति, न परावर्त्तयतः शीघ्रमागच्छति किन्तु संस्मरणेनेति भावः । 'जाग्रतस्तु' विकथादिप्रमादेनाप्रमत्तस्य श्रुतं स्थिर-परिचितं भवति । स्थिरं नाम-निशङ्कितम् अविस्मरणधर्मकं वा, परिचितं नाम-परावर्त्तयमानं क्रमेणोत्क्रमेण वा समागच्छति द्रुतं वा समाप्तिं याति ॥ [भा. ३३८५] नालस्सेण समं सुक्खं, न विज्जा सह निद्दया । न वेरग्गं ममत्तेणं, नारंभेण दयालुया ॥ वृ- नालस्येन समं सौख्यं, न विद्या सह निद्रया । न वैराग्यं ममत्वेन, नारम्भेण दयालुता ।। इति ।। अपि च[भा. ३३८६ ] जागरिया धम्मीणं, आहम्मीणं च सुत्तया सेया । वच्छाहिव भगिणीए, अकहिंसु जिनो जयंतीए । वृ- धार्मिकाणां जागरिका श्रेयसी, अधार्मिकाणां तु सुप्तता श्रेयसी, एवं वच्छाधिपस्यशतानीकनृपतेर्भगिन्याः जयन्तीनामिकायाः 'जिनः' वर्द्धमानस्वामी कथितवान् । Page #289 -------------------------------------------------------------------------- ________________ २८६ बृहत्कल्प-छेदसूत्रम् -२-२/५२ अत्र कथानकम्-वच्छाजनवए कोसंबी नयरी । सयानिओ राया।तस्स जयंती नाम भगिनी परमसाविया । अन्नया तत्थ भगवं वद्धमाणसामी समोसढो । यंती हट्ठ-तुट्ठा निग्गया भगवंतं वंदित्ता पुच्छइ-सुत्तया भंते ! सेया ? जागरिया सेया ? । भगवया वागरियं-जयंती ! धम्मियाणं जागरिया सेया न सुत्तया, अधम्मियाणं सुत्तया सेयान जागरिया । एवं पन्नत्तीए आलावगा भाणियव्व । किञ्च[भा.३३८७] सुवइ य अयगरभूओ सुयं च से नासई अमयभूयं । होहिइ गोणब्भूओ, नट्ठम्मि सुए अमयभूए । वृ-यः खलु अजगरभूतः स निश्चिन्तः निर्भरं स्वपिति नान्यः । तस्य च एवंस्वपतः श्रुतमपि 'अमृतभूतं' साधुर्यादिगुणैः सुधासहोदरं नश्यति ।नष्टेच श्रुतेऽमृतभूते गोभूतः बलीवर्दकल्पोऽसौ भविष्यति । एवमादीनि वाक्यानि गीतार्थास्तत्र महता शब्देनोद्धोषयन्ति । यद्येवमुपरताः स्तेनास्ततो लष्टम्, अथ नोपरतास्ततः किं कर्तव्यम् ? इत्याह[मा.३३८८] तासेऊण अवहिए, अचेइय हिए व गोसि साहति । जाणंता वि य तेनं, साहति न वन्न-रूवेहिं ।। ख-यद्याक्रान्तिकस्तेनैः साधनखड्गादिशस्त्रेण त्रासयित्वाधान्यमपहृतम्, अनाक्रान्तिकस्तेना वा समागच्छन्तः संयतैः न चेतिताः-न ज्ञाताः एवं तैरप्यपह्वते गोसे परभातेशय्यातरस्य कथयन्ति, यथा-स्तेनैर्धान्यमपहृतम् । अथासौ भूयः प्रश्नयेत्-के पुनः स्तेनाः ? । ततो यद्यपि तान् वर्णरूपादिभिर्जानन्ति तथापि न कथयन्ति, मा भूवन् ग्रहणा-ऽऽकर्षणादयस्तेषामुपद्रवाः । अथ वर्णादिभिरकथितेषु तेषु साधवः स्तैन्यार्थकारितया शङ्कयन्ते ततो यतनया कथयितव्याः॥ इदमेव भावयति[भा.३३८९] सुन सावग ! जं वत्तं, तेनाणं संजयाण इह अज्ज । तेनेहि पविटेहिं, जाहे नीएक्कसिं धनं ॥ [भा.३३९०] ताहे उवगरणाणिं, भिन्नाणि हियाणि चेव अन्नाणि । हरिओवही वि जाहे, तेमा न लभंति ते पसरं ॥ [मा.३३९१] गहियाऽऽउह-प्पहरणा, जाधे वधाए समुढ़िया अम्हं । नत्थि अकम्मं ति ततो, एतेसि ठिता मुतुण्हिक्का ॥ वृ-हे श्रावक! शृणुस्तेनानां संयतानां च इह अद्य यद् वृत्तम्-यदा किल स्तेनैः प्रविष्टेरेकशो धान्यं 'नीतं' बहिर्निष्काशितं तत उपकरणान्यप्यस्मत्सम्बन्धीनि तैः कानिचि भिन्नानि, अन्यानि पुनरपहृतानि । ततो हृतोपधयोऽपि तेस्तेना यदा द्वितीयं वारं धान्यं हर्तुकामा अप्यस्माकं पार्श्वतः प्रसरं न लभन्ते तदा गृहीतायुध-प्रहरणाअस्माकं वधाय ते समुत्थिताः।अभिहितं च तैः-श्रमणाः! तूष्णीम्भावमास्थायापसरत यूयम्, अन्यथा सर्वानपद्रावयिष्याम इति । ततश्चिन्तितमस्माभिनास्त्यमीषां पापकर्मकारिणामकर्मेति । ततो वयमेतेषु तूष्णीकाः स्थिताः ॥ एवमाचार्येणोक्ते सति शय्यातरः किमुक्तवान् ? इत्याह[भा.३३९२] सेज्जायरो य भणती, अन्नं धन्नं पुनो वि होहिति ने । एसो अनुग्गहो मे, जं साधु न दुक्खविओ को वि ॥ Page #290 -------------------------------------------------------------------------- ________________ उद्देशकः २, मूलं-५२, [भा. ३३९२] २८७ · वृ-शय्यातरः सूरीन् भणति-भगवन् ! अस्माकमन्यदपि धान्यं पुनरपि भविष्यति, परमेष महाननुग्रहो मे संवृत्तः, यत् कोऽपि युष्मदीयः साधुः स्तेनैर्न दुःखापित इति ॥ मू. (५३)अह पुन एवंजाणिज्जा नोरासिकडाइंनो पुंजकडाइंनो भित्तिकडाइंनो कुलियकडाई कोट्ठाउत्ताणि वा पल्लाउत्ताणि वा मंचाउत्ताणि वा मालाउत्ताणि वा ओलित्ताणि वा लित्ताणि वा पिहियाणि वा लंछियाणि वा मुद्दियाणि वा, कप्पइ निग्गंथाण वा निग्गंथीण वा वासावासं वत्थए।। -अथ पुनरेवंजानीयात्-नो राशीकृतानिनो पुजीकृतानि नो भित्तिकृतानि नो कुलिकाकृतानि कोष्ठागुप्तानि वा पल्यागुप्तानि वा मञ्चागुप्तानि वा मालागुप्तानि वा अवलिप्तानि वा लिप्तानि वा पिहितानि वा लाञ्छितानि वा मुद्रितानि वा । तत्र कोष्ठे-कुशूले आगुप्तानि-प्रक्षिप्य रक्षितानि कोष्ठागुप्तानि । एवमुत्तरत्रापि भावनीयम् । नवरं पल्यं-वंशकटकादिकृतो धान्याधारविशेषः, मञ्च-स्थूणानामुपरिस्थापितवंशकादिमयो लोकप्रसिद्धः, मालकः-गृहस्योपरितनो भागः, 'अवलिप्तानि नाम' द्वारदेशे पिधानेन सह गोमयादिना कृतोपलेपानि, 'लिप्तानि' मृत्तिकया सर्वतः खरण्टितानि, 'पिहितानि' स्थगितानि, 'लाञ्छितानि' रेखा-ऽक्षरादिभिः कृतलाञ्छनानि, 'मुद्रितानि' मृत्तिकादिमुद्रायुक्तानि । एवंविधेषु धान्येषु कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा वर्षावासं वस्तुमिति सूत्रार्थ ।। अथ भाष्यम्[भा.३३९३] कोट्ठाउत्ता य जहिं, पल्ले माले तधेव मंचे य । ओलित्त पिहिय मुद्दिय, एरिसए न कप्पती वासो । वृ-यत्रोपाश्रये कोष्ठागुप्तानि पल्यागुप्तानि मालागुप्तानि मञ्चागुप्तानि अवलिप्तानि पिहितानि मुद्रितानि, उपलक्षणत्वाद् लिप्तानि लाञ्छितानि वा धान्यानि सम्भवन्ति, ईशे न कल्पते वासः । अथ सूत्रस्यैव विषमपदानि व्याचष्टे[भा.३३९४] छगणादी ओलिसा, लित्ता मट्टियकता उ ते चेव । कोट्ठियमादी पिहिता, लित्ता वा पल्ल-कडपल्ला ॥ [भा.३३९५] ओलिंपिऊण जहि अक्खरा कया लंछियं तयं बिंति। जहियं मुद्दा पडिया, होति तगं मुद्दियं धन्नं ।। द्वारदेशे यानिछगणादिना लिप्तानि तान्यवलिप्तानि । यातितुमृत्तिकया कृतानि-खरण्टितानि तानि लिप्तानि । कोष्ठिकादीनि यानि द्वारदेशे स्थगितानि तानि पिहितानि । पल्यकटपल्यानितु लिप्तानि भवन्ति । इह पल्यात्कटपल्यमुच्चतरं भवतीति विशेषः।।अवलिप्य 'यत्र' धान्येऽक्षराणि कृतानि तद् लाञ्छितमिति ब्रुवते । यत्र तु धान्ये मुद्रा पतिता तद् मुद्रितं भवति ।। [भा.३३९६] उडुबद्धम्मि अतीए, वासावासे उवहितै संते। ___ठायंतगाण लहुगा, कास अगीयस्थ सुत्तं तु॥ वृ-ऋतुबद्धे कालेऽतीते वर्षावासे उपस्थिते सति यदि कोष्ठागुप्तादिधान्यकुक्तेप्रतिश्रये तिष्ठन्ति तदा चतुर्लघवः । कस्य पुनरेतत् प्रायश्चित्तम् ? । सूरिराह-अगीतार्थस्य ‘सूत्रं तु' "कल्पते कोष्ठागुप्तादिधान्येषु वर्षावासे वस्तुम्” इतिलक्षणं गीतार्थविषयं मन्तव्यमिति वाक्यशेषः । इत ऊर्ध्वम्- “नथि अगीयत्थो वा, गीतो वा कोऽपि वन्निओ सुत्ते।" पादिका गाथाः पूर्वोक्ता एव तावदध्येतव्याः यावत् Page #291 -------------------------------------------------------------------------- ________________ २८८ बृहत्कल्प-छेदसूत्रम् -२-२/५३ ते तत्थ सन्निविट्ठा, गहिता संथारगा जहिच्छाए। नानादेसी साधू, कासइ इच्छा समुप्पन्ना ।। कीशी पुनरिच्छा तस्य समुद्भूता ? इत्युच्यते[भा.३३९७] अनुभूता धन्नरसा, नवरं मुत्तूण गंधसालीणं । काहामि कोउहल्लं, थेरीए परंधनं भणियं ॥ वृ-अनुभूतास्तावत् सर्वेषामपि धान्यानां रसाः, नवरं गन्धशालीनां रसं मुक्त्वा, तेऽद्यापि नास्वादिता इति भावः। अतः ‘करिष्यामि' पूरयिष्यामि कौतूहलमिति विचिन्त्य तेन कोष्ठपल्यादेः शालीनाकृष्य स्थविराया अग्रे 'प्ररन्धन' 'पाकं कुरुष्व' इति वचो भणितम् ॥ इदमेव स्पष्टयति[भा.३३९८] इहरा कहासु सुणिमो, इमे हु ते कलमसालिणो सुरभी। थोवे वि नत्थि तित्ती, को य रसो अन्नमन्नाणं ॥ वृ- 'इतरथा' अद्यदिनात् पूर्वं वयं गन्धशालीन् ‘कथासु' वार्तान्तरेषु शृणुमः, इमे तु प्रत्यक्षमुपलभ्यमानाः 'ते' कथान्तरश्रुताः कलमशालयः सुरभयः, तथा स्तोकेऽप्यत्र कलमशालौ नास्ति तृप्तिः, कश्च ‘रसः' आस्वादोऽन्योऽन्यमिश्रितानाममीषाम् ? । इत्थं विचिन्त्य पल्यात् तान शालीनाकृष्य स्थविरायाः समर्पयति । साऽप्युपस्कृत्य तस्य संयतस्य दत्त्वा शेषमात्मना भुङ्क्ते । ततोऽसौ लब्धास्वादो दिवसे दिवसे एवमेव विदधाति ॥ ततः किमभूद् ? इत्याह[भा.३३९९] निग्घोलियं च पल्लं, कज्जे सागारियस्स अतिगमनं । सागारिओ विसन्नो, भीतो पुन पासए कूरं॥ वृतेन संयतेनैवं शालीनपहरता तत् पल्यं 'निर्घोलितं' रिक्तीकृतम्। ततः कचिदात्मीयकार्ये सागारिकस्य तत्र 'अतिगमन' प्रवेशोऽभवत् । ततः सागारिकः पल्यं रिक्तीकृत दृष्ट्वा 'विषन्नः' विषादमुपगतवान् । भीतश्च ‘मा स्तेनादयोऽत्र प्रविष्टा भवेयुः' इति शङ्या तत्र परिभ्रमन् शालिकूरमानीतं पश्यति॥ [भा.३४००] सो भणइ कओ लद्धो, एसो अम्हं खु लद्धिसंपन्नो । ओभावणं व कुजा, धिरत्यु ते एरिसो लाभो ॥ क्सः' सागारिको भणति-कतएष शालिकरोलब्धः?।ततः साधवस्तदीयं वृत्तान्तमजानाना ब्रुवते-एष साधुरस्माकंलब्धिसम्पन्नोऽतः प्रतिदिनमीशं शालिकूरमानयति । ततः सागारिकस्तं साध्वाभासं ब्रूते-धिगस्तु मुण्ड ! तवेशं लाभं येन प्रतिदिवसं शालीनपहृत्यास्माकं पल्यं रिक्तीकृतमिति । अपभ्राजनां वाऽसौ लोकमध्ये कुर्यात्, यथा-स्तेनका अमी । अत्र च भद्रकप्रान्तकृता दोषा भवन्ति ॥ भद्रकस्तावदिदमभिदध्यात्[भा.३४०१]इहरह वि ताव अम्हं, भिक्खं व बलिं व गिण्हह न किंचि । इण्हि खु तारिओ मि, ठवेमि अन्ने विजा धन्ने । कृ-उक्तार्था ।।यस्तुप्रान्तो भवति सब्रूयात्-अहो! धर्मकञ्चुकप्रविष्टा अमी लोकं मुष्णन्तीत्यादि। अत्र- "लहुगा अनुग्गहम्मी, अप्पत्तिय धम्मकंचुए गुरुगा।" इत्यारभ्य ___ “सेज्जायरो पभणई, अन्नं धन्नं पुनो वि होहिइ ने । एसो अनुग्गहो मे, जा साहु न दुक्खविओ कोइ ॥ Page #292 -------------------------------------------------------------------------- ________________ उद्देश : २, मूलं-५३, [भा. ३४०१] इति पर्यन्ता गाथास्तदवस्था एवात्र द्रष्टव्याः ॥ मू. (५४) उवस्सयस्स अंतोवगडाए सुरावियडकुंभे वा सोवीरकवियडकुंभे वा उवनिक्खित्ते सिया, नो कप्पइ निग्गंथांण वा निग्गंथीण वा अहालंदमवि वत्थए। हुरत्था य उवस्सयं पडिलेहमाने नो लभेजा, एवं से कप्पइ एगरायं वा दुरायं वा वत्थए। जे तत्थ एगरायाओ वा दुरायाओ वा परं वसइ से संतरा छेए वा परिहारे वा ।। वृ- एवमुदकादिसूत्राण्यप्युच्चारणीयानि । अथामीषां कः सम्बन्धः ? इत्याह[भा. ३४०२] पगयं उवस्सएहिं, वाघाया तेसि होंति अन्नोन्ना । साहारण पत्तेगा, जा पिंडो एस संबंधो ॥ २८९ वृ- इहोपाश्रयैः 'प्रकृतम्' अधिकारो वर्त्तते । 'तेषां च ' उपाश्रयाणां 'व्याघाताः' दोषाः 'अन्योऽन्ये' अपरापरे बीज-विकटोदकप्रतिबद्धतादयो भवन्ति । तेषु च यत्राल्पतरा दोषाः भवन्ति तत्र स्थातव्यम् इति ज्ञापनार्थं साधारणसूत्र- प्रत्येकसूत्राणामारम्भः क्रियते "जा पिंडो "त्ति “उवस्सयस्स अंतोवगडाए पिंडए वा लोयए वा०" इत्यादिकं वक्ष्यमाणं पिण्डसूत्रं यावद् एष सम्बन्धो मन्तव्यः । साधारणसूत्राणि नाम-यत्रैकसूत्रे द्व्यादिप्रभृतीनि बहूनि पदानि भवन्ति । प्रत्येकसूत्राणि तु यत्रैकसूत्रे एकमेव पदम् । ततश्चात्र विकटसूत्रमुदकसूत्रं पिण्डसूत्रमित्येतानि त्रीणि साधारणसूत्राणि, प्रदीपसूत्रं ज्योतिसूत्रं च प्रत्येकसूत्रे ।। एष पञ्चानामपि सूत्राणां सम्बन्धः सामान्यत उक्तः । अथ विशेषतः सम्बन्धमाह [भा. ३४०३] सालुच्छूहि व कीरति, विगडं भुत्त तिसितोदयं पिबति । आहारिमम्मि दोसा, जह तह पिज्जे वि जोगोऽयं ॥ वृ-शालिभिरिक्षुभिर्वा विकटं क्रियते, अतो धान्यसूत्रानन्तरमिदं विकटसूत्रमारभ्यते । शालिकूरादिकमाहारं भुक्त्वा तृषितो भवेत्, तृषितश्चोदकं पिबतीति उदकसूत्रं निरूपणीयम् । यद्वा 'आहारिमे' तिलादौ भुक्ते सति यथा दोषा भवन्ति तथा 'पेयेऽपि ' मद्यादौ पीयमाने दोषा भवन्त्येवेति तव्प्रतिबद्धे प्रतिश्रयेऽपि न स्थातव्यमिति । अनेन सम्बन्धेनायातस्यास्य व्याख्या-सुराविकटं पिष्टनिष्पन्नम्, सौवीरकविकटं तु पिष्टवर्जेर्गुडादिद्रव्यैर्निष्पन्नम् । ततः सुराविकटकुम्भोवा सौवीरकविकटकुम्भ वा यत्रोपाश्रयस्यान्तर्वगडायामुपनिक्षिप्तः स्यात् तत्र नो कल्ते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा यथालन्दमपि कालं वस्तुम् । “हुरत्था य'त्ति देशीपदं बहिरर्थाभिधायकम्, चशब्दो वाक्यभेदद्योतकः, ततोऽयमर्थः अथ बहिरन्योपाश्रयं प्रत्युपेक्षमाणोऽपि नो लभेत तत एवं "से" तस्य साधोः कल्पते एकरात्रं वा द्विरात्रं वा तत्र वस्तुम् । यस्तत्रैकरात्राद्वा द्विरात्राद्वा 'परम्' ऊर्ध्वं वसति "से" तस्य संयतस्य 'खान्तरात्' स्वस्वकृतं यदन्तरं - त्रिरात्रचतूरात्रादिकालावस्थानरूपं तस्मात् 'छेदो वा' पञ्चरात्रिन्दिवादि 'परिहारो वा' मासलघुकादिस्तपोविशेपो भवतीति सूत्रार्थः ॥ अथ विस्तरार्थं भाष्यकृद् बिभणिषुराह[भा. ३४०४] देसीभासाई कयं, जा बहिया सा भवे हुरत्था उ । बंधऽनुलोभेण कथं, परिहारो होइ पुव्वं तु ।। वृ- "हुरत्था" इति यत् पदं तद् देशीभाषया 'कृतं' निबद्धं बहिरर्थाभिधायकम् । ततो या 19 19 Page #293 -------------------------------------------------------------------------- ________________ बृहत्कल्प-छेदसूत्रम् -२-२/५४ विवक्षितोपाश्रयाद् वहिर्वर्तिनी वगडा सा "हुरत्था” इति शब्देनोच्यते । अथ परः प्राहपरिहारस्तावत् तपोविशेष उयते, छेदस्तु पर्यायच्छेदरूपः, ततः सूत्रे " से संतरा परिहारे वा छेए वा " इति पठितुमुचितम्, किमर्थं व्यत्यासेन पाठः ? इत्याशङ्कयाह-बन्धानुलोभ्येन सूत्रे परिहारपदात् पूर्वं छेदपदं कृतम् । किमुक्तं भवति ? - एवंविधो हि पाठः सुललितपदविन्यासतया सुश्चिलष्टो भवतीति कृत्वा सूत्रकृता प्रथमं छेदपदमुपन्यस्तम् ॥ [ भा. ३४०५ ] अहवण वारिजंतो, निक्कारणओ व तिण्ह व परेणं । छेयं चिय आवज्जे, छेयमओ पुव्वमाहंसु ॥ वृ- अथवा यदि तत्र विकटयुक्तोपाश्रये गुर्वादिना वार्यमाणः 'निष्कारणतो वा' दर्पतस्तिष्ठति, त्रयणां वाऽहोरात्राणां परतस्तिष्ठति, तदा छेदाख्यमेव प्रायश्चितमसावापद्यते, अतश्चेदपदं 'पूर्व' प्रथममुक्तवन्तो भगवन्तो भद्रबाहुखामिनः । अथ सुरा-सौवीरकपदे व्याचष्टेपिट्ठेण सुरा होती, सोवीरं पिट्ठवज्जियं जाणे । [ भा. ३४०६ ] २९० ठायंतगाण लहुगा, कास अगीयत्थ सुत्तं तु ॥ वृ-. व्रीह्यादिसम्बन्धिना पिष्टेन यद् विकटं भवति सा सुरा । यत्तु पिष्टवर्जितं द्राक्षाखर्जूरादिभिर्द्रव्यैर्निष्पाद्यते तद् मद्यं सौवीरकविकटं जानीयात् । एतद् द्विविधमपि यत्रोपनिक्षिप्तं भवति तत्रोपाश्रये तिष्ठतां चतुर्लधुकाः । कस्य पुनरेतत् प्रायश्चित्तम् ? इत्याह- अगीतार्थस्य । 'सूत्रं तु' "कप्पइ एगरायं वा दुरायं वा वत्थए" इत्यादिलक्षणं गीतार्थविषयं मन्तव्यम् ॥ इत ऊर्ध्वं "नत्थि अगीयत्थो वा०" इत्यादिकाः “कासइ इच्छा समुप्पन्ना" इतिपर्यन्ता गाथास्तदवस्था एवात्र द्रष्टव्याः । अथ कीदृशी तस्येच्छा समुत्पन्ना ? इत्याह [भा. ३४०७] अनुभूआ मज्जरसा, नवरिं मुत्तूनिमेसि मज्जनं । काहामि कोउहलं, पासुत्तेसुं समारद्धो ॥ वृ- अनुभूता मया बहवो मद्यरसाः परममीषां मद्यानां रसान् मुक्त्वा, अतः 'करिष्यामि' पूरयिष्यामि कौतूहलमिति विचिन्त्य प्रसुप्तेषु शेषसाधुषु समारब्धोऽसौ तद्भाजनमुद्घाट्य विकटपानं कर्तुम् ॥ ततश्च [भा. ३४०८] इहरा कहासु सुणिभो, इमं खु तं काविसायणं मज्जं । पीते वि जायति सती, तजुसिताणं किमु अपीते ।। वृ- 'इतरथा' अद्यदिनात् पूर्वं कथास्वेव शृणुमः, परमिदं 'तत्' कथान्तरश्रुतं कापिशायनं नाम मद्यम् । एवं तद्-मद्य जुषितं-सेवितं यैस्ते तज्जुषिताः, गृहवासे विकटपायिन इत्यर्थः, तेषां पीतेऽपि विकटे स्मृतिरुपजायते, किं पुनरपीते ? ॥ [ भा. ३४०९ ] विगयम्मि कोउहल्ले, छट्टवयविराधन त्ति पडिगमनं । वेहानस ओहाणे, गिलाणसेहेण वा दिट्ठो ॥ गतार्था ॥ भा३४३०१ उड्डाहं व करिज्जा, विष्परिणामो व हुज्ज सेहस्स । गिण्हंतेन व तेनं, खंडिय विद्धे व भिन्ने वा ॥ अझस्तं संयतं विकटपानं कुर्वाणं दृष्ट्वा लोकस्य पुरत उड्डाहं कुर्यात्, विपरिणामो वा Page #294 -------------------------------------------------------------------------- ________________ उद्देशक : २, मूलं- ५४, [भा. ३४१०] २९१ शैक्षस्य भवेत्, विपरिणतश्च सम्यग्दर्शनं चारित्रं लिङ्गं वा परित्यजेत् । तथा 'तेन' संयतेन विकटभाजनं गृह्णता वाशब्दाद् मुञ्जता वा तद् भाजनं 'खण्डितम्' एकदेशभग्नं 'विद्धं वा' पातितच्छिद्रं 'भिन्नं वा' द्विधाकृतं भवेत् ॥ इत ऊर्ध्वं "फेडिय मुद्दा तेनं" इत्यारभ्य “अम्हे ठिएल्लम च्चिय, अहापवत्तं वहह तुभे" इतिपर्यन्तं गाथाकदम्बकं तथैवाध्येतव्यम् । नवरं मद्याभिलापः कर्त्तव्यः । ततश्च [भा. ३४११] आमंति अब्भुवगए, भिक्ख-वियाराइनिग्गयमिएसु । भइ गुरु सागारिय, कहि मज्जं जाणणट्ठाए । वृ-यदि शय्यातरेण 'आमम्' इत्यभ्युपगतं 'यूयं निश्चिन्तास्तिष्ठथ, वयं यथाप्रवृत्तं व्यापारं चिन्तयिष्यामः' इति ततः ‘गुरु' आचार्यो भिक्षाचर्या विचारभूम्यादिनिर्गतेषु मृगेषु-अगीतार्थसाधुषु सागारिकं भणति 'कुत्र मद्यमस्ति ?' इत्येवं परिज्ञानार्थम् । किं भणति ? इत्याहगोडी पिट्ठीणं, वंसीणं चेव फलसुराणं च । दिट्ठ मए सन्निचया, अन्ने देसे कुटुंबीणं ॥ [ भा. ३४१२] वृ- ‘गौडीनां' गुडनिष्पन्नानां 'पैष्टीनां' व्रीह्यादिधान्यक्षोदनिष्पन्नानां 'वांशीनां' वंशकरीलकनिष्पन्नानां ‘फलसुराणां च' तालफल द्राक्षा-खर्जूरादिनिष्पन्नानाम् एवंविधानां सुराणां सन्निचया अन्यस्मिन् देशे मया कुटुम्बिनां गृहेषु दृष्टाः ।। " एवं च भणियमित्तम्मि कारणे सो भनाइ आयरियं । अत्थि महं सन्निचया, पिच्छह नानाविहे मजे ॥” इत्यादिकाः “ दारं न होइ इत्तो ० " इतिपर्यन्ता गाथाः प्राग्वदत्र सव्याख्याना द्रष्टव्याः । अथात्रैव या विशेषतो यतना कर्त्तव्या तामभिधित्सुराह [ भा. ३४१३] गहियम्मि व जा जयणा, गेलने अधव तेन गंधेनं । सागारियादिगहणं, नेयव्वं लिंगभेयाई ॥ वृ- शैक्षकेण विकटे 'गृहीत' पीते सति या यतना कर्त्तव्या सा वक्तव्या । ग्लानत्वे वा वैद्योपदेशेन विकटं ग्रहीतव्यम्, अथवा 'तेन' विकटसम्बन्धिना गन्धेन कस्यापि गृहवासे विकटभावितस्याध्युपपातो भवेत्, ततः सागारिकः शय्यातरः स आदिशब्दात् श्रावको वा यो मातापितृसमानस्ततो विकटस्य ग्रहणं कर्त्तव्यम् । यदि खलिङ्गेन न प्राप्यते उड्डाहो वा भवति ततो लिङ्गभेदादिकमपि 'नेतव्यं' कर्त्तव्यमिति यावत् । एष निर्युक्तिगाथासमासार्थः । अथैनामेव विवरीषुराह[भा. ३४१४] पीयं जया होजऽ विगोविएणं, तत्थाऽऽनइत्ताण रसं छुभंति । भन्ने उ गोणादिपए करेंति, तेसिं पवेसस्स उ संभवम्मि ॥ वृ- यदा किल 'अविकोविदेन' शैक्षकेण शेषसाधुषु प्रसुप्तेषु तद् विकटं पीतं भवेत् तदा गीतार्था 'तत्र' विकटभाजने 'रसम्' इक्षुरसादिकमानीय प्रक्षिपन्ति । अथ कथमपि तद् भोजनं गृह्यमाणं मुच्यमानं वा भिन्नं ततो भिन्ने सति तस्मिन् गवादीनां पदानि प्रतिश्रयप्राङ्गणे प्रविशन्ति निर्गच्छन्ति च 'कुर्वन्ति' आलिखन्तित्यर्थः, येन सागारिका जानीते, यथा- गवादिना प्रविश्य भग्नमिदं भाजनमिति । परं यदि 'तेषां' गवादीनां तत्र प्रवेशः सम्भवति; अन्यथा हि सागारिकः प्रद्वेषं यायात् एकं तावदमी इत्थं स्तेनकर्मकारिणः अपरं च तदपह्नवनायेत्थं प्रपञ्चमुपरचयन्ति, Page #295 -------------------------------------------------------------------------- ________________ बृहत्कल्प-छेदसूत्रम् -२-२/५४ २९२ धिगमीषां पाषण्डिनां धर्ममिति ॥ [भा. ३४१५ ] बंधित्तु पीए जयणा ठवेंति, मुद्दा जहा चिट्ठइ अक्खुया से । ऊणम्मि दिट्ठम्मि भर्णेति पुट्ठा, नूनं परिस्संदति भाणमेयं ॥ वृ- विकटे पीते तद् भाजनं द्वारदेशे वस्त्रादिना बद्धघा 'जतुना' लाक्षया स्थगयन्ति, यथा “से” तस्य भाजनस्य मुद्रा अक्षता तिष्ठति । अथ सागारिकः तद् भाजनमूनं दृष्ट्वा पृच्छतिकिमर्थमिदं न्यूनमवलोक्यते ? । एवं पृष्टाः सन्तो भणन्ति नूनं भाजनमिदं परिस्यन्दति ।। [भा. ३४१६] सव्वम्मि पीए अहवा बहुम्मि, संजोगपढी व ठयंति अन्नं । अन्नं व मग्गित्तुं छुहंति तत्था, कीयंकयं वा गिहिलिंगमाई ॥ वृ- सर्वस्मिन् अथवा बहुके विकटे पीते सति ये 'संयोगपाठितः ' विकटनिष्पत्तियोग्यद्रव्यसंयोगवेदिनस्ते तथाविधानि द्रव्याणि संयोज्य अन्यद् विकटं स्थापयन्ति । अथ न सन्ति संयोगपाठिनस्ततोऽन्यद् विकटं मार्गयित्वा तत्र प्रक्षिपन्ति । तच्च प्रथमतः शुद्धम्, तदभावे पञ्चकपरिहाण्या चतुर्लघुकं प्राप्तेन क्रीतकृतमपि ग्रहीतव्यम् । यदि स्वलिङ्गेन गृह्णतामुड्डाहो भवति, न वा तेन प्राप्यते ततो गृहिलिङ्गम् आदिशब्दादन्यतीर्थिकलिङ्ग वा कर्त्तव्यम् ।। अथ "गेलने अहव तेन गंधेनं" इत्यादिपदानि व्याख्याति [भा. ३४१७] तब्भावियट्ठा व गिलाणए वा, पुराण सागारिय सावए वा । संभणीण कुलाभावा, गिण्हंति रुवस्स विवज्जएणं ॥ वृतेन - विकटेन पूर्वं भावितस्तद्भावितः स तत्र विकटेनाध्युपपन्नो भवति; ग्लानो वा कश्चित् तनैवोपयुक्तेन प्रगुणीभवति नान्यथा; ततस्तदर्थं 'पुराणस्य' पश्चात्कृतस्य सकाशात्, तदभावे माता- पितृसमानो यः सागारिकस्तस्य हस्तात्, तदप्राप्तौ प्रतिपन्नाणुव्रतस्य माता- पितृसमानस्य श्रावकस्य पार्श्वाद् ग्रहीतव्यम् । अमीषामभावे यथाभद्रकाण्यपि यानि विश्रम्भणीयानि कुलानि, नोड्डाहकारीणीत्यर्थः तेषु ग्रहीतव्यम् । तेषामभावे यदि खलिङ्गेनगृह्यते ततः प्रवचनोपघातो भवेत् ततो रूपस्य विपर्ययेण गृह्णन्ति, लिङ्गविवेकं कृत्वा विकटमुत्पादयन्तीति भावः ॥ [भा. ३४१८] अञ्च्चाउरं वा वि समिक्खिऊणं, खिप्पं तओ घेत्तु दलित्तु तस्स । अन्नं रसं वा वि तहिं छुभंती, संगं च से तं हवयंति तत्तो ॥ वृ- अत्यातुरं वा तं ग्लानं समीक्ष्य 'क्षिप्रं ' शीघ्रं 'ततः प्रतिश्रयवर्तिनो विकटभाजनाद् गृहीत्वा 'तस्य' ग्लानस्य दत्त्वा गीतार्थास्तत्रान्यं वा रसं प्रक्षिपन्ति ततश्च "से" तस्य ग्लानस्य 'तं' विकटविषयं सङ्ग हापयन्ति, कार्ये निष्ठिते सति विकटप्रसङ्गं निवारयन्तीति भावः । गता स्वपक्षयतना । अथ परपक्षयतनामाह " परपक्खम्मि विदारं, पिहंति जयणाए दो वि वारिति । तह वि य अठायमाणे, उवेह पुट्ठा व साहति ॥" इत्यादिका मद्याभिलापविशेषिता गाथाः सर्वा अपि तथैवात्र वक्तव्याः ॥ मू. (५५) उवस्सयस्स अंतो वगडाए सीओदगवियडकुंभे वा उसिणोदगवियडकुंभे वा उवनिक्खित्ते सिया, नो कप्पइ निग्गंथाण वा निग्गंथीण वा अहालंदमवि वत्थए । हुरत्था य उवस्सयं पडिलेहमाणे नो लभेज्जा, एवं से कप्पइ एगरायं वा दुरायं वा वत्थए । जे तत्थ परं Page #296 -------------------------------------------------------------------------- ________________ उद्देशक ः २, मूलं-५५, [भा. ३४१८] २९३ एगरायाओ वा दुरायाओ वा वसइ से संतरा छेए वा परिहार वा ॥ वृ-अथास्य सम्बन्धमाह[भा.३४१९] छोढूण दवं पिज्जइ, गालिंति दवं व छोदुणं तं तु । पातुं मुहं व थोवइ, तेनऽहिकारो सजीवं वा ।। वृ-यतः 'द्रवं' पानीयं प्रक्षिपय विकटं पीयते, अतो विकटसूत्रानन्तरमुदकसूत्रम् । यद्वा द्रवं प्रक्षिप्य 'तद्' विकटं गालयन्ति, अथवा विकटं पीत्वा तज्जनितदौर्गन्धव्यपगमार्थमुदकेन मुखं धावति तेन कारणेन विकटानन्तरमुदकाधिकारः प्रारभ्यते । यद्वा तद् विकटं निर्जीवम् इदं तु सजीवं निजींव वा भवेदितिर ॥अनेकैः सम्बन्धैरायातस्यास्य व्याख्या प्राग्वत् । नवरं विकृतशीतोष्णादिशस्त्रेण विकारं प्रापितम्, प्राशुकीकृतमित्यर्थः, शीतोदकं च तद् विकृतं च शीतोदकविकृतं तस्य कुम्भः-घटः । एवमुष्णोदकविकृतकुम्भोऽपि ॥अथ भाष्यम्[भा.३४२०] सीतोदे उसिणोदे, फासुगमप्फासुगे य चउभंगो। ठायंतगाण लहुगा, कास अगीतत्थ सुत्तं तु॥ वृ-शीतोदकोष्णोदक-प्राशुका-ऽप्राशुकपदैश्चतुर्भङ्गी भवति। गाथायां प्राकृतत्वात् पुंस्तवनिर्देशः। तद्यथा-शीतोदकंप्राशुकं १ शीतोदकमप्राशुकम् २ उष्णोदकं प्राशुकम् ३ उष्णोदकमप्राशुकम् ४ । तत्र प्रथमभङ्गे उष्णोदकमेव शीतीभूतं तन्दुलधावनादिकं वा, द्वितीयभङ्गे शीतोदकमेव स्वभावस्थम्, तृतीयभने उष्णोदकमुद्व त्तत्रिदण्डम्, चतुर्थभङ्गे तापोदकादिकं मन्तव्यम् । एवंविधोदकप्रतिबद्ध प्रतिश्रये तिष्ठतां चतुर्लघुकाः । एवमविशेषेणोक्तावप्ययं विशेषःप्रथमतृतीयभङ्गयोर्मासलघु । द्वीतीयचतुर्थभङ्गयोश्चतुर्लघवः आह च निशीथचूर्णिकृत्-पढमतइयभंग ठायंतस्स मासलहुं । बीयचउत्थेसुचउलहुं । आह कस्यपुनरेतत्प्रायश्चित्तम्? गुरुराह-अगीतार्थस्य। सूत्रं पुनरनुज्ञाविषयं गीतार्थमधिकृत्य प्रवृत्तमित्युपस्कारः । इत उर्ध्वम् “नथि अगीयत्थो वा०" इत्यारभ्य “कासइ इच्छा समुप्पन्ना" इतिपर्यन्तं भाष्यमुदकाभिलापविशेषितं वक्तव्यम् ॥ कीशी पुनरिच्छा तस्य समुत्पन्ना ? उच्यते[भा.३४२१] अनुभूया उदगरसा, नवरं मोत्तुं इमेसि उदगाणं । काहामि कोउहल्लं, पासुत्तेसुं समारद्धो॥ वृ. 'अनुभूता मया उदकानां रसाः, नवरं मुक्त्वा अमीषामुदकानां रसान्, अतः करिष्याम्यहमेतद्विषयं कुतूहलं सफलम्' इति विचिन्त्य प्रसुप्तेषु शेषसाधुपु समारब्ध उदकपानं कर्तुम् ॥ कानि पुनस्तान्युदकानि ? इत्याह[भा.३४२२] धरोदए महासलिलजले संभारिते व्व दव्वेहिं । तण्हातियस्स व सती, दिया व राओ व उप्पज्जे ।। वृ-'धारोदकं नाम' गिरिनिर्झरजलम्, यथा उज्जयन्तादौ, आन्तरिक्षं वा धारोदकम् । तथा महासलिलाः-गङ्गा-सिन्धुप्रभृतयो महानद्यः तासां जलं महासलिलाजलम् । 'द्रव्यैः' कर्पूरपाटलादिभिः ‘सम्भारितं' वासितं द्रव्यसम्भारितम् । एषु पानीयेषु तृष्णायितस्याभिलाषो भवति। पूर्वानुभूतेषु तु दिवा वा रात्रौ वा ‘स्मृति' संस्मरणमुत्पद्यते ।। ततश्चोदकमापिबन्नात्मनो हृदयस्य प्रत्युक्षमिदमाह Page #297 -------------------------------------------------------------------------- ________________ २९४ [ भा. ३४२३] इहरा कहासु सुणिमो, इमं खु तं विमलसीतलं तोयं । विगयस्स वि नत्थि रसो, इति सेवे धारतोयादी | बृहत्कल्प-छेदसूत्रम् -२-२/५५ बृ- इतरथा कथान्तरेषु शृणुमः, परमिदमद्य विमलशीतलं 'तत्' कथान्तरश्रुतं तोयमास्वादितम्। यच्चोष्णोदकादिकं विकृतं व्यपगतजीवमुदकमापिबामः तस्यापि शस्त्रोपहतत्वेनान्यथाभूतस्य रसो नास्तीति मत्वा धारातोयादिकं जलं सेवते ॥ [ भा. ३४२४] विगयम्मि कोउयम्मी, छट्ठवयविराधन त्ति पडिगमनं । वेहानस ओहाणे, गिलाणसेहेण वा दिट्ठो ॥ वृ- विगते उदकपानकौतुके स संयतः ' षष्ठव्रतविराधना मया कृता' इति मत्वा प्रतिगमनं वा वैहायसं वा मरणं संविग्नविहाराद्वा अवधावनं कुर्वीत । ग्लानेन वा शैक्षेण वा स दृष्टो भवेत्॥ ततश्च [भा. ३४२५ ] तण्हाइओ गिलाणो, तं दट्टु पिएज जा विराधनया । एमेव सेहमादी, पियंति अप्पच्चओ वा सिं ॥ वृ- ग्लानस्तृष्णायितः 'तं' संयतमुदकमापिबन्तं दृष्ट्वा पानीयं पिबेत् । तेन चापध्येन या तस्यानागाढपरितापनादिका विराधना तन्निष्पन्नं प्रायश्चित्तम् । एवमेव च शैक्षादयोऽप्यपरिणतास्तदुदकमापिबन्ति, अप्रत्ययो वा अमीसां भवेत् यथैतद् मृषा तथाऽन्यदपि सर्वममीषामुन्मत्तप्रलपितमिति ॥ "उड्डाहं व करिज्जा, विप्परिणामो व हुज्ज सेहस्स । गिण्हंतेन व तेनं, खंडिय विद्वे व भिन्ने वा ॥" इतिपर्यन्ता गाथा गतार्था । अथ यैः कारणैः स्तेना उदकमपहरन्ति तानि दर्शयति[भा. ३४२६] ऊसव छणेसु संभारियं दगं तिसिय- रोगियट्ठाए । दोहल कुतूहलेण व, हरंति पडिवेसयाईया || वृ- उत्सवाः क्षणाश्च पूर्वोक्ताः, तेषु प्रत्यासन्नेषु स्तेना उदकमपहरेयुः । यद्वा तृषिताः सन्तः स्वयं पानार्थं 'सम्भारितं' कर्पूर-पाटलादिवासितं चतुर्मूलं पञ्चमूलकृतं वा तद् उदकमपहरन्ति । यद्वा रोगी कश्चित् तेषामस्ति तस्य तत् पानीयं पथ्यं तदर्थम्, अथवा गुर्विण्यास्ताद्दशमुदकमापातुं दोहदः समुत्पन्नः, यदि वा कुतूहलं तेषामुदपादि 'कीशोऽस्य पानीयस्य रसः ?' । एवमेभिः कारणैः प्रतिवेश्मिकादयः स्तेना अपहरेयुः ॥ [भा. ३४२७] गहियं च तेर्हि उदगं, धित्तूण गया जहिं सि गंतव्वं । सागारिओ व भणई, सउणी वि य रक्खई निड्डुं || उक्तार्था । [ भा. ३४२८ ] दगभानूने दट्टु, सजलं व हियं दगं च परिसडियं । केन इमं तेनेहिं, असिट्टे भद्देयर इमे उ । वृ- सागारिको दकभाजनानि न्यूनानि सजलं वा भाजनमपहृतं दकं वा परिशटितं दृष्ट्वा पृच्छति-केनेदं जलमपहृतम् ? । साधवो ब्रुवते - स्तेनैः । ततोऽसौ भूयः प्रश्नयति के पुनः स्तेनाः ? । ततो यदि नाम्ना वर्णेन वा तान् कथयन्ति ततस्तेषां बन्धनादयो दोषाः । अथ न कथयन्ति ततः Page #298 -------------------------------------------------------------------------- ________________ उद्देशकः२, मूलं-५५, [भा. ३४२८] 'अशिष्टे' अकथिते भद्रक-प्रान्तकृता इमे दोषाः “लहुगा अनुग्गहम्मी, गुरुगा अप्पत्तियम्मि कायव्वा । कडुग-फरुसं भणंते, छम्मासा करभरे छेओ।" इत ऊर्ध्वम्“आमं ति अब्भुवगए, भिक्ख-वियाराइ निग्गयमिएसुं। भणइ गुरू सागरियं, कत्थ दगं जाणणट्ठाए ॥" इतिपर्यन्तं गाथकदम्बकं प्राग्वत् ॥ कथं पुनः सूरयः सागारिकं प्रश्नयन्ति? इत्याह[भा.३४२९] चउमूल पंचमूलं, तालोदानं च तावतयाणं । दिट्ठ मए सनिचया, अन्ने देसे कुडुंबीणं ॥ वृ-'चतुर्मूलं नाम' चतुर्भिः सुरभिमूलैर्भावितम् । एवं यत् पञ्चभिः सुरभिमूलै वितं तत् पञ्चमूलम्। तालोदकानि यथा तोसलिविषये । तापतोयानि राजगृहादौ । एवंविधानामुदकानां सन्निचया मयाऽन्यस्मिन् देशे कुटुम्बिनां गेहेषु दृष्टाः ॥ “एवं च भणियमेत्तम्मि कारणे सो भणाइ आयरिए। अस्थि महं सन्निचया, पेच्छह नानाविहे उदए ॥" इत आरभ्य “जाणंता वियतेनं, न वन-रूवेण साहति।" इतिपर्यन्तंभाष्यं तथैवात्र वक्तव्यम्। नवरमुदकाभिलापः कर्तव्यः ॥ मू. (५६) उवस्सयस्स अंतो वगडाए सव्वराईए जोई झियाएज्जा, नो कप्पइ निग्गंथाण वा निग्गंथीण वा अहालंदमवि वत्थए । हुरच्छा य उवस्सयं पडिलेहमाने नो लभेजा, एवं से कप्पइ एगरायं वा दुरायं वा वत्थए । जे तत्थ एगरायाओ वा दुरायाओ वा परं वसइ से संतरा छेए वा परिहारे वा॥ . वृ-एवं प्रदीपसूत्रमप्युच्चारणीयम् । अथास्य सूत्रद्वयस्य कः सम्बन्धः ? इत्याह[भा.३४३०] उदगानंतरमग्गी, सो उ पईवो व होज्ज जोई वा। पडिवक्खणं व गयं, समागमो एस सुत्ताणं ।। वृ- प्रवचने ह्यप्कायप्ररूपणानन्तरमग्निकायः प्ररूप्यते, अतोऽत्राप्युदकसूत्रानन्तरमग्निसूत्रमारभ्यते । ‘स च' अग्नि प्रदीपो वा स्याद् ज्योतिर्वा । “पडिवक्खेणं व गयं" ति भावप्रधानत्वानिर्देशस्य प्रतिपक्षतया वा इदं सूत्रमागतम् । किमुक्तं भवति? -अकायस्याग्निकायः शस्त्रम्, अग्निकायस्याप्यप्कायः, अत एतौ परस्परं प्रतिपक्षौ, प्रतिपक्षत्वेन चाप्कायानन्तरं साम्प्रतमग्निकायः प्ररूपणीयः । एषः ‘समागमः' सम्बन्धो द्वयोरपि सूत्रयोर्मन्तव्य इति ॥अनेन सम्बन्धेनायातस्यास्य प्रथमसूत्रस्य तावद् व्याख्या-सा च प्राग्वत् । नवरं सार्वरात्रिकं ‘ज्योति' अग्निर्यत्रोपाश्रये 'ध्यायेत्' धातूनामनेकार्थत्वात्प्रज्वलेत् तत्र साधु-साध्वीनां वस्तुंन कल्पते।। अथ भाष्यविस्तरः[भा.३४३१] देसीभासाए कयं, जा बहिया सा भवे हुरच्छा उ । ___ बंधऽनुलोमेण कयं, छेए परिहार पुव्वं तु॥ [भा.३४३२] अहवण वारिजंतो, निकारणओ व तिण्ह व परेणं । छेयं चिय आवजे, छेयमओ पुव्वमाहंसु ।। Page #299 -------------------------------------------------------------------------- ________________ २९६ बृहत्कल्प-छेदसूत्रम् -२-२/५६ वृ-गाथाद्वयमपि गतार्थम् ॥ज्योतिस्वरूपं निरूपयति[भा.३४३३] दुविहो य होइ जोई, असव्वराई य सव्वराई य । ठायंतगाण लहुगा, कास अगीयत्थ सुत्तं तु॥ वृ. 'ज्योति' अग्निकायोद्दीप्तं तद् द्विविधं भवति-'असार्वरात्रिकं' कियतीमपि रात्रिं यत् प्रज्वलति, तद्विपरीतं सार्वरात्रिकम् । उभयोरपि तिष्ठतां चतुर्लघुकाः । आह कस्य पुनरेतत् प्रायश्चित्तम् ? उच्यते-अगीतार्थस्य । सूत्रं तु गीतार्थमधिकृत्य प्रवृत्तम् ॥ इप्त ऊर्ध्वम्-“नथि अगीयत्थो वा०" इतिपर्यन्तं भाष्यं तथैवात्र वक्तव्यम् ॥अथ तत्र स्थितानां दोषानुपदर्शयति[भा.३४३४] उवगरणे पडिलेहा, पमजणाऽऽवास पोरिसि मने य। निक्खमणे य पवेसे, आवडणे चेव पडणे य॥ वृ- सज्योतिषि वसतौ स्थितानामुपकरणप्रत्युपेक्षणे, वसतेः प्रमार्जने, आवश्यकस्य सूत्रार्थपौरुष्योर्वा करणे, “मने य"त्ति मनसा राग-द्वेषगमने, निष्क्रमणे च प्रवेशे च क्रमेण नैषेधिक्यावश्यक्योः करणे, 'आपतने च' गच्छतामुल्मुकादिषु प्रस्खलने, 'पतने च' प्रतीते, एतेषु या तेज-कायस्य आत्मनो वा विराधना तन्निष्पन्नं प्रायश्चित्तम् । अथैतद्दोषभयात् प्रतिलेखनाप्रमार्जनादि न करोति ततोऽपि प्रायश्चित्तम् ।। किं पुनस्तद् ? इत्यत आह[भा.३४३५] पनगं लहुओ लहुया, चउरो लहुगा य चउसु ठाणेसु । लहुगा गुरुगा य मने, सेसेसु वि होंति चउलहुगा ॥ वृ-यदि ज्योतिशालायां स्थिताः ‘अग्निसङ्घट्टो मा भूत्' इति कृत्वा वस्त्राधुपकरणंन प्रत्युपेक्षन्ते ततो जघन्ये पञ्चकं मध्यमे मासलघु उत्कृष्टे चत्वारो लघवः । वसतिन प्रमार्जयन्ति यद्वा निर्गच्छन्तः प्रविशन्तो वाऽग्नेिविराधनाभयान प्रमार्जयन्ति उभयत्रापि मासलघु।आवश्यकंन कुर्वन्ति चतुर्लघु। सूत्रपौरुषीं न कुर्वन्तिमासलघु ।अर्थपौरुषीं न कुर्वन्तिमासगुरु।अथैतद्दोषभयादुपकरणप्रत्युपेक्षणां वसतिप्रमार्जनामावश्यकं सूत्रार्थपौरुष्यौ च कुर्वन्ति तत एतेषु चतुर्वपिस्थानेषु प्रत्येकं चत्वारो मासा लघवः । यस्तु 'शोभनं समजनि यदेवं सप्रकाशे स्थाने स्थिताः' इत्येवं रागं करोति, यस्य वा सप्रकाशे निद्रा नागच्छति स यदि तत्र द्वेषं करोति, तत एवं मनसा राग-द्वेषकरणे यथाक्रम चतुर्गुरवश्चतुर्लघवश्च । शेषेष्वपि आवश्यकी-नषेधिकीकरमादिषु स्थानेषु प्रत्येकमग्निविराधनानिष्पन्नं चतुर्लघु । अमुमेवार्थं स्फुटतरमाह[भा.३४३६]पेह पमज्जण वासग अग्गी, तानि अकुव्वओ जा परिहानी । पोरिसिभंगे अभिगं सजोई, होति मने उ रती वऽरई वा ॥ वृ-उपकरणप्रत्युपेक्षां वसतिप्रमार्जनां “वासय"त्ति आकारलोपादावासकं च यदि करोति तदाऽग्निविराधनानिष्पन्नं चतुर्लघु । अथैतद्दोषभयादेतानि न करोति ततो या संयमपरिहानिस्तन्निष्पन्नम्। सूत्रपौरुषीभङ्गे मासलघु, अर्थपौरुषीभङ्गे मासगुरु । “अभंगि"त्ति तयोः करणेऽग्निविराधना । अथ ‘सज्योतिरुपाश्रयः' इति मनसि रतिर्भवति तदा चतुर्गुरु, अरतिर्भवति चतुर्लधु।। [भा.३४३७] जइ उस्सग्गे न कुणइ, तइ मासा सव्व अकरणे लहुगा । वंदण-थुईअकरणे, मासो संडासकाईसं॥ वृ- आवश्यके ‘यति' यावतः कायोत्सर्गान् न करोति 'तति' तावन्तो लघुमासाः । अथ Page #300 -------------------------------------------------------------------------- ________________ २९७ उद्देशक ः २, मूलं-५६, [भा. ३४३७] सर्वमप्यावश्यकं न करोति ततश्चतुर्लघु । अथ वन्दनकं न ददाति स्तुतिमङ्गलं वा न करोति ततो यावन्ति वन्दनकानि यावतीः स्तुतीर्वा न प्रयच्छति तावन्ति मासलघूनि । अथ ददाति ततश्चतुर्लघु। उपविशन् सन्दशकं न प्रमार्जयति मासलघु, अथ प्रमार्जयति ततश्चतुर्लघु॥ अथ निष्क्रमणादिपदेषु प्रायश्चित्तमाह[भा.३४३८] आवस्सिगा-निसीहिग-पमज्ज-आसज्जअकरणे इमं तु । पनगं पनगं लहु लहु, आवडणे लगु जंचऽनं ॥ वृ-निष्क्रामन्तो यद्यावश्यिकीं न कुर्वन्ति पञ्चकम् । प्रविशन्तो नैषेधिकीं न कुर्वन्ति पञ्चकम्। निर्गम-प्रवेशौ कुर्वाणान प्रमार्जयन्ति मासलघु । आसज्जशब्दस्याकरणेमासलघु। आपतनं नामयद् भूमिमसम्प्राप्तस्य प्राप्तस्य वा जानु-कूपराभ्यां प्रस्खलनम्, पतनं-सर्वगात्रेण भूमौ प्रपातः, द्वयोरपि चत्वारो लघुमासाः । यच्चापतितः पतितो वा आत्मविराधनादिकमापद्यते तन्निष्पन्नम्। अथवा यच्चान्यदग्नौ प्रतापनादि करोति तदत्र द्रष्टव्यम् ।। तदेव दर्शयति[भा.३४३९] सेहस्स विसीयणया, ओसक्कऽतिसक्क अन्नहिं नयनं । विज्झविऊण तुअट्टण, अहवा वि भवे पलीवणया । वृ-शैक्षस्य शीतार्तस्य विशीतना स्यात्, अग्नौ प्रताप्य स विगतशीतमात्मानं कुर्यादिति भावः। अत्रच यावतो वारान् हस्त पादौ वा प्रतापयन्परावर्त्तयति तावन्ति चतुर्लघूनि । तथा 'अवष्वष्कणं' शीघ्रविध्यापनार्थं ज्वलतामुल्मुकानामपकर्षणम्। 'अतिष्वष्कणंतु तेषामेव प्रज्वालनार्थमुदीरणम्। 'अन्यत्र नयनं नाम' शयनस्थानभावादग्नेः स्थानान्तरसङ्क्रमणम् । तथा प्रदीपनकभयादग्नि क्षारेण धूल्या वा विध्याप्य त्वग्वर्तनम् । एतेषु प्रत्येकं चतुर्लघुकम्॥अथवा प्रतापयतः प्रमादतः प्रदीपनक भवेत् तत्रेदं प्रायश्चित्तम्[भा.३४४०] गाउअ दुगुमादुगुणं, बत्तीसं जोयणाई चरिमपदं । चत्तारि छच लहु गुरु, छेओ मूलं तह दुगं च ॥ वृ-गव्यूतादारभ्य द्विगुणाद्विगुणवृध्या द्वात्रिंशद्योजनलक्षणं चरमपदं यावदिदं प्रायश्चित्तम्यद्येकं गव्यूतं तह्यते ततश्चत्वारो लघुमासाः, अर्द्धयोजनं दह्यते चत्वारो गुरुमासाः, योजनं दह्यते षण्मासा लघवः, योजनद्वये षण्मासा गुरवः, चतुर्षु योजनेषु च्छेदः, अष्टसु मूलम्, षोडशसु अनवस्थाप्यम्, द्वात्रिंशद्योजनेषु दग्धेषु पाराञ्चिकम् । तथा[भा.३४४१] गोणे य साणमाई, वारणे लहुगा यजं च अहिगरणं । लहुगा अवारणम्मिं, खंभ-तणाई पलीवेज्जा ।। वृ-तत्र प्रविशतो गो-श्वानादीन् यदि वारयति तदा चतुर्लघुकाः, यच्च ते वारिताः सन्तो हरितकायादिविराधनारूपमधिकरणं कुर्वन्ति तन्निष्पन्नम् । अथ न वारयति ततोऽपि चतुर्लघवः। प्रविष्टाश्च प्रज्वलदिन्धनचालनेन स्तम्भ-तृणादीनि प्रदीपयेयुः तत्रापि गव्यूतादारभ्य द्विगुणद्विगुणवृध्या द्वात्रिंशद्योजनेषुपाराञ्चिकम् । यत एते दोषाअतोनज्योतिशालायां स्थातव्यम्। भवेत् कारणं येन तत्रापि तिष्ठेयुः ॥ किं पुनस्तत् ? इति चेद् उच्यते[भा.३४४२] अद्धाणनिग्गयाई, तिक्खुत्तो मग्गिऊण असतीए । गीयत्था जयाए, वसंति तो अगनिसालाए । Page #301 -------------------------------------------------------------------------- ________________ २९८ बृहत्कल्प-छेदसूत्रम् -२-२/५६ वृ-अध्वा-महदरण्यं ततो निर्गता आदिशब्दादशिवा-ऽवमौदर्यादिषु वर्तमाना विकालवेलायां तं ग्रामं प्राप्ताः ‘त्रिकृत्वः' त्रीन् वारान् शुद्धां वसतिं मार्गयन्ति । यदि न प्राप्यते ततो गीतार्था यतनया अग्निशालायां वसन्ति ॥ एतदेव स्पष्टयति[भा.३४४३] अद्धांणनिग्गयाई, तिण्हं असईए फरुससालाए । गीयत्था जयणाए, वसंति तो पयणसालाए॥ . वृ-अध्वनिर्गतादयः 'तिसृणां' पणितशाला-भाण्डशाला-कर्मशालानामन्यतरस्याः ‘परुषशालायाः' कुम्भकारशालाया अभावे ततो गीतार्था यतनया पचनशालायां' भाजनपाकशालायां वसन्ति।इह शालात्रयग्रहणादन्या अपि कुम्भकारशालाः सूचिताः॥तासां स्वरूपमुपदर्शयितुमाह[भा.३४४४] पणिए य भंडसाला, कम्मे पयणे य वग्धरणसाला । इंधनसाला गुरुगा, सेसासु वि होंति चउलहुगा ॥ वृ-पणितशाला भाण्डशाला कर्मशाला पचनशाला व्याघरणशाला इन्धनशाला चेति । अत्र निष्कारणे इन्धनशालायां तिष्ठतां चतुर्गुरुकाः । 'शेषासु' पणितशालाप्रभृतिषु चतुर्लघुकाः ॥ अथैतासामेव व्याख्यानमाह[भा.३४४५] कोलालियावणो खलु, पणिसाला भंडसाल जहि भंडं । कुंभारकुडी कम्मे, पयणे वासासु आवाओ॥ वृ-कौलालिकाः-कुलालक्रय-विक्रयिणस्तेषामापणः पणितशाला मन्तव्या । किमुक्तंभवति?यत्र कुम्भकारा भाजनानि विक्रीणते, वणिजो वा कुम्भकारहस्ताद् भाजनानि क्रीत्वा यत्रापणे विक्रीणन्ति सा पणितशाला । भाण्डशाला यत्र घट-करकादिभाण्डजातं सङ्गोपितमास्ते।कर्मशाला कुम्भकारकुटी, यत्र कुम्भकारोघटादिभाजनानि करोतीत्यर्थः । पचनशाला नाम यत्रापाकस्थाने वर्षासु भाजनानि पच्यन्ते । इन्धनशाला तु यत्र तृण-करीष-कचवरास्तिष्ठन्ति । [भा.३४४६] तोसलिए वग्घरणा, अग्गीकुंडं तहिं जलति निचं । तत्थ सयंवरहेडं, चेडा चेडी य छुब्भंति ॥ वृ- व्याघरणशाला नाम तोसलिविषये ग्राममध्ये शाला क्रियते, तत्राग्निकुण्डं स्वयंवरहेतोर्नित्यमेव प्रज्वलति, तत्र च बहवश्चेटकाः एका च स्वयं वरा चेटिका 'प्रक्षिप्यन्ते' प्रवेश्यन्ते इत्यर्थः । यत्सेषां मध्ये तस्यै प्रतिभाति तमसौ वृणीते, एषा व्याघरणशाला । एतासु तिष्ठतां चत्वारो लघुकाः ।। नवरम्[भा.३४४७] इंधनसाला गुरुगा, आदित्ते तत्थ नासिउंदुक्खं । दुविह विराधन झुसिरे, सेसा अगनी य सागरिए ।। वृ-इन्धनशालायां तिष्ठतां चत्वारो गुरुकाः । कुतः ? इत्याह-तत्र तृण-करीषादौ ‘आदीप्ते' प्रदीप्ते सति नंष्टुं 'दुःखं' दुष्करम् । शुषिरं च तत् तृणादि भवति, ततस्तत्र 'द्विविधा विराधना' संयमा-ऽऽत्मविषया। 'शेषासु' पणितशालादिषु भाजनविक्रयिक-क्रयिकादिना जनसागारिकम्। पचनशालायां पुनरग्निदोषो भवति ।। एतासु द्वितीयपदे तिष्ठतां विधिमाह[भा.३४४८] पढमं तु भंडसाला, तहि सागरि नत्थि उभयकालं पि। कम्माऽऽपणि निसि नत्थी, सेस कमेनेंधनी जाव ।। Page #302 -------------------------------------------------------------------------- ________________ उद्देशक ः २, मूलं-५६, [भा. ३४४८] २९९ वृ-शुद्धोपाश्रयालाभे प्रथमं भाण्डशालायां तिष्ठन्ति, यतस्तत्र 'उभयकालेऽपि' दिवा रात्रौ च सागारिकं नास्ति । तदभावे कर्मशालायाम् । तदप्राप्तौ आपणशालायामपि, यतस्तत्र 'निशि' रात्रौ सागारिकं नास्ति । तदभावे 'शेषासु' पचनशालादिषु क्रमेण स्थातव्यं यावदिन्धनशाला। तद्यथा-प्रथमं पचनशालायाम्, ततो व्याघरणशालायाम्, गत इन्धनशालायामपि ॥ तत्र स्थितानां यतनामाह[भा.३४४९] ते तत्थ सन्निविट्ठा, गहिया संथारगा विहीपुव्वं । जागरमाण वसंती, सपक्खजयणाए गीतत्था॥ वृ-'ते' साधवः 'तत्र' उपाश्रये सन्निविष्टाः सन्तः स्वाध्यायं कुर्वन्ति । विधिपूर्वं यथारत्नाधिकं संस्तारकास्तैस्तत्र गृहीताः । ततश्च गीतार्थाः स्वपक्षयतनां कुर्वाणा जाग्रतः सन्तः 'वसन्ति' तिष्ठन्तीत्यर्थः ॥ कथम् ? इत्याह[भा.३४५०] पासे तणाण साहण, अहिसक्कोसक्क अन्नहिं नयनं । संवरणा लिंपणया, छुक्कारण वारणाऽऽगट्ठी ॥ वृ- अग्नेः पार्वे यदि तृणानि भवन्ति ततस्तेषां शोधना कर्तव्या । श्वापदभयेऽनाक्रान्कस्तेनसम्भवे वा अग्नेरभिष्वष्कणं कुर्वन्ति । यदि तत्र आक्रान्तिकस्तेनानां सम्भवस्तदा तमग्निमवष्वष्कयन्ति, स्वप्तुकामा वा तमन्यत्र नयन्ति, बहिः सङ्क्रामयन्तीत्यर्थः । कृते कार्ये क्षारेण मल्लकेन वा तस्याग्नेः 'संवरणम्' आच्छादनं कर्त्तव्यम् । ततो यथाऽऽयुष्कमनुपाल्य स्वयमेव विध्यायति । प्रदीपनकभयात् तत्र स्तम्भस्य च्छगणादिना लेपनं कर्तव्यम् । श्वानो वा गौर्वा यदि तत्र प्रविशति स्तेनो वा ढौकते तदा “छुक्कारण"त्ति छिछिक्कारः कर्तव्यः । अथ तथापि न तिष्ठन्ति ततो निवारणा तेषां कर्त्तव्या । सहसा च प्रदीपनके लग्ने कटादेराकर्षणं कर्त्तव्यम् । यद्वा तत्प्रदीपनकंधूल्यादिना विध्यापयितव्यम्॥अथोपकरणप्रत्युपेक्षणादिषु द्वारेषुयतनामाह[भा.३४५१]कडओ व चिलिमीणी वा, असती सभए व बाहि जं अंतं । ठाणाऽसति य भयम्मि व, विज्झायऽगणिम्मि पेहिति ॥ वृ- अग्नेरन्तरे-वंशमयः कटो वस्त्रमयी वा चिलमिलिका दातव्या । ततः प्रत्युपेक्षणाप्रमार्जनादीनि सर्वाण्यपि पदानि कुर्वन्ति । कटक-चिलिमिलिकयोरभावे प्रतिश्रया बहिरुपकरणं प्रत्युपेक्षणीयम् । अथ बहि ‘सभयं' स्तेनभययुक्तं ततो यदन्त्यं परिजीर्णमुपकरणं तद् बहिः प्रत्युपेक्षन्ते, सारोपकरणं तु विध्याते ज्योतिषि प्रत्युपेक्षितव्यम् । अथ बहिः स्थानं नास्ति यद्वाऽन्त्योपकरणस्यापि तत्रापहरणभयं ततः सर्वमप्युपधिं विध्यातेऽग्नौ प्रत्युपेक्षन्ते ॥ [भा.३४५२] निंता न पमज्जंती, मूगाऽऽवासं तु वंदनगहीणं । पोरिसि बाहि मनेन व, सेहाण य दिति अनुसद्धिं ॥ वृ-निर्गच्छन्तः प्रविशन्तो वातन्त्र भुवं न प्रमार्जयन्ति, वसतिमपिन प्रमार्जयन्ति, आवश्यकमपि 'मूकं वाग्योगविरहितं वन्दनकहीनं च कुर्वन्ति, सूत्रार्थपौरुष्यौ बहिर्विदधति, बहि स्थानाभावे मनसैव सूत्रमर्थं वाऽनुप्रेक्षन्ते, ये च शैक्षाः ज्योति प्रकाशे रागमुपगच्छन्ति तेषां गीतार्था अनुशिष्टिं प्रयच्छन्ति ।। कथम् ? इत्याह- . [भा.३४५३] नाणुजोया साहू, दव्वुजोवम्मि मा हु सज्जित्था । Page #303 -------------------------------------------------------------------------- ________________ ३०० बृहत्कल्प-छेदसूत्रम् -२-२/५६ जस्स वि न एइ निद्दा, स पाउय निमीलिओ गिम्हे ॥ . वृ-'ज्ञानोद्योताः' सकलजीवादिपदार्थसार्थप्रकाशकज्ञानलक्षणभावोद्योतकलिताः साधवो भवन्ति, अतः 'द्रव्योद्योते' कतिपयपदार्थपरकाशके ज्योतिप्रभृतिके ‘मा सजत' मा रागमुपगच्छत। यस्य वा साधोः सप्रकाशे निद्रा नागच्छति स कल्पेन प्रावृतः स्वपिति । अथ ग्रीष्मकाले प्रावृतस्य धर्मो भवति ततो निमीलितलोचनः स्वपिति ॥ अथ “मूकावश्यकं वन्दनकहीनम् इति पदं व्याचष्टे[भा.३४५४] आवास बाहि असई, ठिय वंदन विगड जयण थुइहीनं । सुत्तत्थ बाहि अंतो चिलिमिणि काऊण व झरंति ॥ वृ-आवश्यकं बहिः कुर्वन्ति । अथ बहि स्थानं नास्ति ततो यो यत्र स्थितः स तत्रैव स्थितो मनसैव करोति । द्वादशावर्त्तवन्दनकं न प्रयच्छन्ति । 'विकटनाम्' आलोचनां यतनया वर्षाकल्पप्रावृता निश्चेष्टा एव कुर्वन्ति । 'स्तुतिहीनं नाम' स्तुतिमङ्गलं मनसैव कुर्वन्ति । अथ “पोरिसि बाहि" त्ति पदंव्याख्यायते-सूत्रार्थपौरुष्यौ बहि कुर्वन्ति । अथ बहि स्थानं नास्ति ततः प्रतिश्रयस्याभ्यन्तरेऽपि चिलिमिलिकां कृत्वा ‘झरन्ति' स्वाध्यायं कुर्वन्ति। वा विकल्पोपदर्शने, चिलिमिलिकाया अभावे मनसैव सूत्रमर्थं वाऽनुप्रेक्षन्ते इत्यर्थः॥ [पा.३४५५] मूगा विसंति निंति व, उम्मुगमाई कओ वि अछिवंता। सेहा य जोइ दूरे, जग्गंति य जा धरइ जोई॥ वृ-'मूकाः' तूष्णीकाः प्रविशन्ति निर्गच्छन्ति वा, नैषेधिकीमावश्यिकीं चमनसैव कुर्वन्तीत्यर्थः। 'उल्मुकम्' अलातम् आदिशब्दादग्निशकटिकांवा कचिदप्यस्पृशन्तः तथा निर्गच्छन्ति वा प्रविशन्ति वा यथाऽऽपतन-प्रपतने न भवतः । ये च शैक्षा अगीतार्थाश्च निर्धर्माणस्ते ज्योतिषो दूरे स्थापयितव्याः । गीतार्थवृषभाश्च तावद् जाग्रति यावद् ‘ज्योति' अग्निर्धयते, न विध्यायतीति भावः, मा शैक्षादयः प्रतापयेयुरिति कृत्वा ॥ [भा.३४५६] अद्धाणाई अइनिद्दपिल्लिओ गीओसक्किउं सुवइ । सावयभय उस्सके, तेनभए होइ भयणा उ॥ कृ-अध्वादिपरिश्रान्तोऽतिनिद्राप्रेरितो वा गीतार्थस्तमग्निमपसर्म्य स्वपिति।सिंह-व्याघ्रादिश्वापदभये यतनया तान्युल्मकान्युत्सर्पयति । स्तेनभये तु भजना भवति-यद्याक्रान्तिकस्तेनास्ततः 'मा ज्योति प्रज्वलदवलोक्यागमन कार्ड' इति कृत्वा तमग्निमपसर्पयति, अथाना-क्रान्तिकास्ततो ज्वलन्तमग्निं दृष्ट्वा 'जाग्रत्यमी' इति बुध्या ते नाभिद्रवन्ति अतस्तेषु तमग्निमुत्सर्पयतीति ॥ [भा.३४५७] अद्धाणविवित्ता वा, परकड असती यं तु जालेंति । सूलाई व तवेउं, कयकज्जा छार अक्कमणं ॥ वृ-अध्वनि विविक्ताः-मुषिताः ‘परकृतम्' अन्यप्रज्वालितमग्नि सेवन्ते। अथ परकृतो वह्निर्न प्राप्यते तः ‘स्वयम्' आत्मनैव ज्वालयन्ति, शीतास्ति।न्धनं प्रक्षिपन्तीत्युक्तं भवति । शूलम् आदिशब्दाद् विसूचिकां वा तापयितुं परकृताभावे स्वयं ज्वालयन्ति, ‘कृतकार्या' निष्ठिते कार्ये क्षारेणाक्रमणं कुर्वन्ति, मा प्रदीपनकं भविष्यतीति कृत्वा ।। [भा.३४५८] सावयभय आनिंति व, सोउमणा वा वि बाहि नीनिंति । Page #304 -------------------------------------------------------------------------- ________________ उद्देशकः२, मूलं-५६, [भा. ३४५८] ३०१ बाहिं पलीवणभया, छारे तस्सऽसति निव्वावे ।। वृ-श्वापदभयेऽन्यतः स्थानादग्निमानयन्ति । स्वप्तुमनसो वा तस्मात् स्थानाद् बहिर्नयन्ति। अथ बहिः प्रदीपनकभयान्न नयन्ति । ततस्तत्र स्थितमेव क्षारेण छादयन्ति। 'तस्य' क्षारस्याभावे 'निर्वापयन्ति विध्यापयन्तीत्यर्थः॥ मू. (५७) उवस्सयस्स अंतो वगडाए सव्वराईए पईवे दिप्पेज्जा, नो कप्पइ निग्गंधाण वा निग्गंथीण वा अहालंदमवि वत्थए । हुरच्छा य उवस्सयं पडिलेहमाने नो लभेजा, एवं से कप्पइ एगरायं वा दुरायं वा वत्थए । जे तत्थ परं एगरायाओ वा दुरायाओ वा वसइ से संतरा छेए वा परिहारे वा ॥ वृ-अस्य व्याख्यानं ज्योतिसूत्रवद् मन्तव्यम् ॥ अथ भाष्यम्[भा.३४५९] देसीभासाय कयं, जा बहिया सा भवे हुरच्छा उ । बंधऽनुलोमेन कयं, छेया परिहार पुव्वं तु॥ [भा.३४६०] अहवन वारिजंतो, निक्कारणओ व तिण्ह व परेणं । छेयं चिय आवजे, छेयमओ पुव्वमाहंसु ॥ वृ-गाथाद्वयमपि गतार्थम् ॥ . [भा.३४६१] दुविहो य होइ दीवो, असव्वराई य सव्वराई य । ठायंते लहु लहुगा, कास अगीयत्थ सुत्तंतु॥ वृ-द्विविधश्च भवति दीपः, तद्यथा-असार्वरात्रिकश्च सार्वरात्रिकश्च । तत्रासावरात्रिकप्रदीपयुक्तायां वसतौ तिष्ठतां मासलघु, सार्वरात्रिकप्रदीपयुक्तायां तु चत्वारो लघवः । कस्य पुनरेतत प्रायश्चित्तम् ? । सूरिराह-अगीतार्थस्य ।। इत ऊर्ध्वम्-“नथि अगीयत्यो वा-" इत्यारभ्य "ठायंति पईवसा लाए” इतिपर्यन्तं भाष्यं प्राग्वदन वक्तव्यम् ॥अथ तत्र स्थितानां दोषानाह[भा.३४६२] उवगरणे पडिलेहा, पमज्जणाऽऽवास पोरिसि मने य । निक्खमणे य पवेसे, आवडणे चेव पडणे य॥ [भा.३४६३] पनगं लहुओ लहुगा, चउरो लहुगा य चउसु ठाणेसु । लहुगा गुरुगा य मने, सेसेसु वि होति चउलहुगा ॥ वृ-द्वे अपि प्राग व्याख्याते ॥ मनोद्वारे विशेषमाह[भा.३४६४] गुरुगा य पगासम्मि उ, लहुगा ते चेव अप्पगासम्मि। सायम्मि होति गुरुगा, अस्साए होंति चउलहुगा।। वृ- प्रदीपस्य प्रकाशेऽभिरोच्यमाने चत्वारो गुरुकाः । अप्रकाशे चत्वारो लघुकाः । एतदेवोत्तरार्द्धन व्याचष्टे-सातं सुखं रतिरित्येकोऽर्थ, यदि प्रकाशे रतिं मन्यते तदा चत्वारो गुरवः। अथ असातम्-अरतिं मन्यते ततश्चत्वारो लघुकाः ॥ तथा[भा.३४६५] पडिमाए झामियाए, लड्डाहो तणाणि वा भवे हेट्ठा । साणाइ चालणा लाल, मूसए खंभ तणाइं पलीवेज्जा ।। वृ- देवकुलादौ प्रदीपशालायां या स्कन्द-मुकुन्दादिप्रतिमा तस्यां प्रदीपेन ‘ध्यामितायां' . दग्धायामुड्डाहो भवेत्-अमीभि श्रमणकैः प्रत्यनीकतयास्क न्दादिप्रतिमा दग्धेति । 'अधस्ताद्वा' Page #305 -------------------------------------------------------------------------- ________________ ३०२ बृहत्कल्प-छेदसूत्रम् -२-२/५७ संस्तारकादौ तृणानि भवेयुः तानि दह्येरन् । श्वानादिना वा प्रदीपस्य चालना भवेत्, मूषको वा ‘लालां’ वर्त्तिमपहरेत् ततः स्तम्भः प्रदीप्येत तृणानि वा प्रदीप्येरन् ॥ ततश्च [भा. ३४६६ ] गाउय दुगुणाद्गुणं, बत्तीसं जोयणाइं चरिमपदं । चत्तारि छ छ लहु गुरु छेदो मूलं तह दुगं च ॥ वृ- उक्तार्था । द्वितीयपदे प्रदीपशालायामपि वसेयुः । कथम् ? इत्याह[भा. ३४६७ ] अद्धाणनिग्गयाई, तिक्खत्तो मग्गिऊण असईए । यथा जणा, वसंत तो दीवसालाए । वृ- अध्वनिर्गतादयस्त्रिकृत्वः शुद्धां वसतिं मार्गयन्ति । यदि न प्राप्यते ततो गीतार्था यतनया प्रदीपशालायां वसन्ति ।। कथं पुनर्यतना कर्त्तव्या ? इत्याह [भा. ३४६८ ] ते तत्थ सन्निविट्ठा, गहिया संधारगा विहीपुव्वं । जागरमाण वसंती, सपक्खजयणाए गीतत्था ।। प्राग्वत् ॥ विशेषयतनामाह [भा. ३४६९ ] पडिमाझामण ओरुभण, लिंपणा दीवगस्स ओरुभणं । ओसक्कण उस्सक्कण, छुक्कारण वारणोकट्ठी ॥ वृ-यत्र प्रतिमाध्यापनभयं तत्र तस्मादवकाशात् प्रतिमायाः 'अवरोहणम्' अन्यत्र सङ्क्रामणं कर्त्तव्यम् । अथ प्रतिमा सङ्क्रामयितुं न शक्यते ततः स्तम्भ - कुड्यादीनां लिम्पनं प्रदीपस्य च ततः स्थानाद् 'अवरोहणं' सङ्क्रामणं विधेयम् । अथ शृङ्खलादीपोऽसौ न ततः स्थानादवतारयितुं शक्यते ततो लालाया अवसर्पणमुत्सर्पणं वा कुर्यात् । श्वान गवादीनां च 'छुक्कारणं छिछिरिति प्रतिषेधकरणेन, वारणं वा दण्डादिदर्शनेन, अपकर्षणं वा वत्तेः कर्त्तव्यम् ॥ अथोत्सर्पणमवसर्पणं च व्याख्यानयति [भा. ३४७० ] संकलदीवे वत्तिं, उव्वत्ते पीलए व मा डज्झे । रूण व तं नेहं घेत्तूण दिवा विगिंचिंति ॥ वृ- 'शृङ्खलादीपे' स्थानान्तरं सङ्क्रामयितुमशक्ये वर्त्तिमुद्वर्त्तयेद्वा निष्पीडयेद्वा, 'मा' दह्यतां' मा प्रदीप्यतामिति कृत्वा । रूतेन वा 'तं' प्रदीपवर्त्तिनं 'स्नेह' तैलं गृहीत्वा ततो दिवा “विगिंचंते” परिष्ठापयन्ति ॥ [भा. ३४७१] हेट्ठा तणाण सोहण, ओसक्कऽभिसक्क अनहिं नयनं । आगाढे कारणम्मिं, ओसक्कऽ हिसक्कणं कुज्जा ।। वृ- प्रदीपस्याधस्तात् तृणानां शोधनं कर्त्तव्यम् । यद्वा तं प्रदीपमवसर्पयति वा अभिसर्पयति वा अन्यत्र वा नयति सङ्क्रामयतीत्यर्थः । एतच्चावसर्पणमभिसर्पणं वा आगाढे कारणे समुत्पन्ने गीतार्थः कुर्यात्, नानागढे ॥ [भा. ३४७२] मज्झे व देउलाई, बाहिं व ठियाण होइ अतिगमनं । जे तत्थ सेहदोसा, ते इह आगाढे जयणाए । वृ- ते साधवो विकाले सम्प्राप्ताः सन्तः सप्रदीपे देवकुले स्थिता भवेयुः । यद्वा ग्रामादेर्मध्ये देवकुलम्, आदिशब्दात् प्रपा-सभादिकं वा, तच्चं दिवा सागारिकाकुलं तत्र प्रभातेऽपि समागता Page #306 -------------------------------------------------------------------------- ________________ उद्देशकः २, मूलं-५७, [भा. ३४७२] ३०३ दिवा बहिः स्थित्वा सन्ध्यायां तत्र प्रविशन्ति । यद्वा बहिः स्थितानां 'स्तेन-श्वापदादिभयमत्र रात्रौ भवति' इति श्रुत्वा ग्राममध्ये 'अतिगमनं प्रवेशो भवति, तत्र च सप्रदीपायां वसतौ स्थितैर्ये पूर्वं शैक्षविषयाः प्रतापनादयो दोषा उक्ताः ते इहागाढे कारणे यतनया परिहर्तव्याः ॥ यदि प्रमादतः प्रदीपनकं भवेत् ततः को विधि ? इत्याह[भा.३४७३] अन्नाए तुसिणीया, नाए दह्ण करण सविउलं । बाहिं देउल सद्दो, समागयाणं खरंटो य॥ वृ-यदि केनापि न ज्ञातम् यथा-'अत्र संयताः स्थिताः सन्ति' ततस्तूष्णीका भूत्वा पलायन्ते। अथ ज्ञातम्-'संयता अत्र स्थिताः सन्ति' इति ततः प्रदीप्तं दृष्ट्वा महता शब्देन 'सविउलं' बोलं कुर्वन्ति यावद् भूयान् जनो मिलितः । ततो बहुजनस्य पुरतो भणन्ति-पश्यत पश्यत केनापि पापेन प्रदीपनकं कृतमिति । यद्वा देवकुला बहिर्निर्गत्य तथैव शब्दः' बोलः क्रियते, समागतानां लोकानां खरण्टना कर्तव्या-नूनं युष्माभिरेवैतत्प्रदीपितं येनैते श्रमणा दह्यन्ते, अस्माकंचोपकरणं सर्वमप्यत्र दग्धम् । एवं खरण्टिताः सन्तो न किञ्चिदुल्लपन्ति॥ मू. (५८) उवस्सगस्स अंतो वगडाए पिंडए वा लोयए वा कीरे वा दहिं वा नवनीए वा सप्पिं वा तेल्ले वा फाणिए वा पूर्व वा सक्कुलीवासिहरिणी वा उक्खित्ताणिवा विक्खित्ताणिवा विइकिन्नाणि वा विप्पइन्नाणि वा, नो कप्पइ निग्गंथाण वा निग्गंथीण वा अहालंदमवि वत्थए । वृ-अथास्य सूत्रस्य कः सम्बन्धः ? इत्याह[भा.३४७४] देहोवहीण डाहो, तदन्नसंघट्टणाय जोतिम्मि । संगाल चरणडाहो, एसो पिंडस्सुवग्घाओ॥ वृतेन-शैक्षेण अन्येन वा-श्वान-गवादिना ज्योतिषः सङ्घट्टने कृते देहस्य वा उपधेर्वा दाहो भवति इति पूर्वसूत्रे उक्तम् । अत्रापि पिण्डादियुक्तोपाश्रये स्थितस्य ‘साङ्गारं' सरागं “रागेण सइंगालं" ति वचनात् पिण्डादिकं समुद्दिशतश्चरणस्य दाहो भवतीति । एष पिण्डसूत्रस्य पूर्वसूत्रेण सह 'उपोद्धातः' सम्बन्धः ।।अनेन सम्बन्धेनायातस्यास्य व्याख्या-उपाश्रयस्यान्तर्वगडायांपिण्डको वा लोचकं वा क्षीरं वा दधि वा नवनीतं वा सर्पितैिलं वा फाणितं वा पूपो वा शष्कुलिका वा शिखरिणी वा, एतान्युत्क्षिप्तानि वा विक्षिप्तानि वा व्यतिकीर्णानि वा विप्रकीर्णानि वा भवेयुः, नो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा यथालन्दमपि वस्तुमिति सूत्रार्थः ॥अथ भाष्यम्[भा.३४७५] पिंडो जं संपन्नं, पिंडगेझं व पिंडविगई वा। जंतु सभावा लुत्तं, तं जाणसु लोयगं नाम ।। वृ-पिण्डो नाम-यदशनादिकं ‘सम्पन्नं विशिष्टाहारगुणयुक्तं षडरसोपेतमिति यावत्, यद्वा यत् 'पिण्डग्राह्यं' पिण्डरूपतया हस्ते ग्रहीतुं शक्यते, 'पिण्डविकृतिर्वा' गुडादिघनविकृतिरूपा पिण्डोऽभिधीयते । 'यत्तु' यत् पुनरशनादि स्वभावादेव 'लुप्तम्' आहारगुणैरनुपेतं तद् लोचकं नाम जानीहि क्षीर-दधि-नवनीत-सर्पि-तैलादीनि सुप्रसिद्धानीति ॥ [भा.३४७६] पूवो उ उल्लखजं, छुट्टगुलो फाणियं तु दविओ वा । सक्कुलिगाई सुक्कं, तु खज्जगं सूयिअंसव्वं ॥ वृ. 'पूपः' आर्द्रखाद्यकविशेषः, तद्ग्रहणेन लपनश्रीप्रभृतिकं सर्वमप्याखाद्यकं गृहीतम् । Page #307 -------------------------------------------------------------------------- ________________ ३०४ बृहत्कल्प-छेदसूत्रम् -२-२/५८ “छुट्टगुलो"त्ति आर्दो गुडः, 'द्रविकः पिण्डगुड एवपानीयेन द्रावितः, एतदुभयमपिफाणितमुच्यते। शष्कुलिकाग्रहणेन शष्कुलिका-मोदकादिकं सर्वमपि शुष्कखाद्यकं सूचितम् ॥ [भा.३४७७] जा दहिसरम्मि गालियगुलेण चउजायसुगयसंभारा। कूरम्मि छुब्भमाणी, बंधति सिहरं सिहरिणी उ॥ वृ-दनः शरे गालितेन गुडेन या निष्पन्ना, अपरं च 'चतुर्जातकसुकृतसम्भारा' एलात्वक्तमालपत्र-नागकेसराख्यैश्चतुर्भिर्गन्धद्रव्यैराधिक्येनोपजनितवासा, कूरमध्ये प्रक्षिप्यमाणा शिखरं बध्नाति सा शिखरिणी उच्यते । उत्क्षिप्त-विक्षिप्तादिपदव्याख्या प्राग्वत् ।। अर्थतेषु तिष्ठतां प्रायश्चित्तमाह[भा.३४७८] पिंडाईआइन्ने, निग्गंथाणं न कप्पई वासो । चउरो य अनुग्घाया, तत्थ वि आणाइणो दोसा ॥ वृ-पिण्डादिभिः शिखरिणीपर्यन्तैराकीर्णे प्रतिश्रये निर्ग्रन्थानाम् उपलक्षणत्वाद् निर्ग्रन्थीनां चन कल्पते वासः । अथ तिष्ठन्ति ततश्चत्वारोऽनुद्धाता मासाः। तत्राप्याज्ञादयो दोषा मन्तव्याः। [भा.३४७९] चउरो विसेसिया वा, दोण्ह वि वग्गाण ठायमाणाणं । अहवा चउगुरुगाई, नायव्वा छेयपजंता॥ वृ-अथवा 'द्वयोरपि' निर्ग्रन्थ-निर्ग्रन्थीवर्गयोस्तत्र तिष्ठतोश्चतुर्गुरुकास्तपः-कालविशेषिताः। तद्यथा-भिक्षोश्चतुर्गुरुकंतपसा कालेन चलघु, वृषभस्य कालगुरु, उपाध्यायस्य तपोगुरु, आचार्यस्य तपसा कालेन च गुरुकम् । एवं भिक्षुणीप्रभृतीनामपि मन्तव्यम् । अथवा चतुर्गुरुकमादौ कृत्वा छेदपर्यन्ता चतुर्णामपि यथाक्रमं शोधितिव्या ॥ मू. (५९) अह पुन एवंजाणेजा-नो उक्खित्ताईनो विक्खित्ताईनो विइकिन्त्राइंनो विपकिन्नाई रसिकडाणि वा पुंजकडाणि वा कुलियाकडाणि वा भित्तिकडाणि वा लंछियाणिवा मुद्दियाणि वा पिहियाणि वा कप्पइ निग्गंथाण वा निग्गंथीण वा हेमंत-गिम्हासु वत्थए । वृ-अस्य व्याख्या प्राग्वत् । नवरं यत्र पिण्डादीनि राशीकृतादिरूपाणि तत्र गीतार्थानां कल्पते ऋतुबद्धे वस्तुमिति सूत्रहृदयम् । अत्र- “पुंजो उ होइ वट्टो, सो चेव य ईसि आयओ रासी।" इत्यादिभाष्यगाथाः पिण्डाघभिलापेन प्राग्वद् मन्तव्याः यावत् “कासय इच्छा समुष्पन्न" इति। कीशी पुनरिच्छा समुत्पन्ना? इत्युच्यते[भा.३४८०] अनुभूया पिंडरसा, नवरं मुत्तूनिमेसि पिंडाणं । काहामो कोउहल्लं, तहेव सेसा वि भणियव्वा ॥ वृ-अनुभूतास्तावदन्येषां पिण्डानां रसाः परममीषां पिण्डानां रसान् मुक्त्वा, अतः ‘करिष्यामः' पूरयिष्यामः कौतूहलमिति विचिन्त्य प्रसुप्तेषु शेषसाधुषु तानि भोज्यानि भुङ्क्ते । 'शेषाण्यपि' क्षीरादीनि “अनुभूया खीररसा" इत्याद्यभिलापेन तथैव भणितव्यानि यावद् द्वितीयपदे तत्रापि प्रतिश्रये स्थिता अगीतार्थसाधुषु भिक्षाचर्यादिनिर्गतेषु सूरयः सागारिकमित्थं ब्रुवते ।। [भा.३४८१] तेल्ल-गुड-खंड-मच्छंडियाण महु-पान-सक्कराईणं । दिट्ठ मए सन्निचया, अन्ने देसे कुडुंबीणं ॥ वृ- तैल-गुड-खण्ड-मत्स्यण्डिकानां मधु-पान-शकरादीनां च सन्निचया मऽन्यस्मिन् देशे Page #308 -------------------------------------------------------------------------- ________________ उद्देश : २, मूलं - ५९, [ भा. ३४८१ ] कुटुम्बिनां गृहेषु दृष्टाः । शेषं सर्वमपि पिण्डाभिलापेन प्राग्वदवसातव्यम् ॥ मू. (६०) अह पुन एवं जाणिज्जा - नो रासिकडाई जाव नो भित्तिकडाई कोट्ठाउत्ताणि वा पल्लाउत्ताणि वा मंचाउत्ताणि वा मालाउत्ताणि वा कुंभिउत्ताणि वा करभिउत्ताणि वा ओलित्ताणि वा विलित्ताणि वा लंछियाणि वा मुद्दियाणि वा पिहियाणि वा कप्पइ निग्गंधाण वा निग्गंधीण वा वासावासं वत्थए । वृ- अस्य व्याख्या प्राग्वत् । नवरं कुम्भी - मुखाकारा कोष्ठिका, करभी- घटसंस्थानसंस्थिता, तयोरागुप्तानि प्रक्षिप्य रक्षितानि कुम्भ्यागुप्तानि करभ्यागुप्तानि वा ।। अत्र भाष्यम्[भा. ३४८२ ] कुंभी करही तहा, पल्ले माले तहेव मंचे य । ओलित्त पहिय मुद्दिय, एरिसए न कप्पती वासो ॥ वृ-यत्रोपाश्रये कुम्भ्यां वा करभ्यां वा पल्ये वा माले वा मञ्चे वा चशब्दात् कोष्ठे वा प्रक्षिप्तानि पिण्डप्रभृतीनि भवन्ति, तानि चावलिप्तानि पिहितानि मुद्रितानि वा भवेयुः, ईशे न कल्पते वस्तुम् ॥ तथा चाह[भा. ३४८३] ३०५ उडुबद्धम्म अईते, वासावासे उवट्ठिए संते । ठायंतगाण गुरुया, कास अगीतत्थ सुत्तं तु ॥ वृ-ऋतुबद्धे काले व्यतीते वर्षावासे चोपस्थिते यद्यपि सूत्रेण तत्रोपाश्रये स्थातुमनुज्ञातं तथापि न कल्पते, यदि तिष्ठन्ति ततश्चतुर्गुरुकाः । शिष्यः पृच्छति कस्य पुनरेतत् प्रायश्चित्तम् ? | सूरिराहअगीतार्थस्य । सूत्रं पुनर्गीतार्थमधिकृत्य प्रवृत्तम् । शेषं पिण्डाभिलापेन तथैव वक्तव्यम् ॥ मू. (६१) नो कप्पइ निग्गंधीणं आहे आगमनगिहंसि वा वियडगिहंसि वा वंसीमूलंसि वा रुक्खमूलंसि वा अब्भावगासियंसि वा वत्थंए । ' वृ- इह निर्ग्रन्थ-निर्ग्रन्थीनां सामान्यतः सदोषा उपाश्रया उक्ताः, अथ केवलानामेव निर्ग्रन्थीनामभिधीयन्त इत्यनेन सम्बन्धेनावातस्य अस्य व्याख्या- अधः शब्द इह अवशब्दार्थे । पथिकादीनामागमनेनोपेतं तदर्थं वा गृहमागमनगृहम् । विवृतम् - अनावृतं गृहं विवृतगृहम् । वंसीमूलं नाम-गृहाद् बहिस्थितमलन्दकादिकम् । वृक्षमूलं तु वृक्षस्य - सहकारादेः मूलम् - अधोभागः । अभ्रावकाशमाकाशमुच्यते । एतेषु प्रतिश्रयेषु निर्ग्रन्थीनां वस्तुं न कल्पते इति सूत्रसङ्क्षेपार्थः ॥ अत्र भाष्यविस्तरः [भा. ३४८४ ] आगमने वियडगिहे, वंसीमूले य रुक्खमब्भासे । ठायंतिकाण गुरुगा, तत्थ वि आणादिणो दोसा | . वृ- आगमनगृहे विवृतगृहे वंसीमूले वृक्षमूलेऽभ्रावकाशे च तिष्ठन्तीनां निर्ग्रन्थीनां चत्वारो गुरुकाः । तत्राप्याज्ञादयो दोषा मन्तव्याः ॥ अथवा [ भा. ३४८५ ] आगमगिहादिएसुं, भिक्खुणिमादीण ठायमाणीणं । गुरुगादी जा छेदो, विसेसितं चउगुरू वा सिं ॥ वृ- आगमनगृहादिषु भिक्षुण्यादीनां तिष्ठन्तीनां चतुर्गुरुकमादी कृत्वा छेदं यावत् प्रायश्चित्तम्। तद्यथा- भिक्षुण्याश्चतुर्गुरुकम्, अभिषेकायाः षड्लघुकम्, गणावच्छेदिन्याः षड्गुरुकम्, 19 20 Page #309 -------------------------------------------------------------------------- ________________ ३०६ बृहत्कल्प-छेदसूत्रम् -२-२/६१ प्रवर्त्तिन्याश्छेदः । यद्वा "सिं" आसां चतसृणामपि तपः-कालविशेषितं चतुर्गुरुकं भवति । तत्र भिक्षुण्यास्तपसा । कालेन च लघुकम्, अभिषेकायाः कालेन गुरुकम्, गणावच्छेदिन्यास्तपसा गुरुकम्, प्रवर्तिन्यास्तपसा कालेन च गुरुकम् ।। अथागमनगृहं व्याचष्टे[भा.३४८६]आगंतुगारत्थिंजणो जहिं तु, संठाति जं चाऽऽगमनम्मि तेसिं । तं आगमोगं तु विऊ वदंति, सभा पवा देउलमादियं वा॥ वृ-आगन्तुकः-पथिकादिरगारस्थजनो यत्रागत्य सन्तिष्ठते, यच्च ‘तेषां' पथिकादीनामागमने वर्तते, तद् ‘आगमौकः' आगमनगृहं 'विद्वांसः' श्रुतधरा वदन्ति। तच्च सभावाप्रपावा देवकुलादिकं । वा मन्तव्यम् । तत्र तिष्ठन्तीनां दोषानाह[भा.३४८७] आगमनगिहे अज्जा, जनेन परिवारिया अनजेण दटुं कुलप्पसूता, संजमकामा विरजंति॥ वृ- आगमनगृहे स्थिता आर्या अनार्येन जनेन परिवारिता दृष्ट्वा कुलप्रसूताः स्त्रियः . 'संयमकामाः' प्रव्रज्यां ग्रहीतुमनसो विरज्यन्ते ॥ कथम् ? इत्याह[भा.३४८८] उवस्सए एरिसए ठियाणं, न सीलभारा सगला भवंति। को दानि हंसेण किणेज काकं, एवं नियत्तंति कुलप्पसूया ॥ वृ-ईशे उपाश्रये स्थितानामार्यिकाणां शीलं-ब्रह्मचर्यं तप्रधाना भाराः-संयमयोगधुरालक्षणाः 'सकलाः' सम्पूर्णा न भवन्ति, किन्तु खण्डित-विराधिताः; अस्माकं च सुसंवृतगृहमध्यमध्यावसन्तीनां प्रत्यपायाभावाद् निष्कलङ्गं शीलमनुपालयन्तीनां हंसकल्पो गृहवासः, एवंविधे तु तरुणादिप्रत्यपायबहुले प्रतिश्रये तिष्ठन्तीनां या प्रव्रज्या सा बहुदोषमलीमसतया काककल्पा, अतः क इदानीं हंसेन काकं क्रीणीयात् ? । एवं विचिन्त्य कुलप्रसूताः स्त्रियः प्रव्रज्याग्रहणाद् निवर्तन्ते ॥अथात्रैव विशेषदोषानभिधित्सुराह[भा.३४८९] काइय पडिलेह सज्झाए, मुंजणे वीयारमेव गेलन्ने । साणादी उवगरणे, तरुणाई जे भणिय दोसा॥ वृ-कायिक्यां प्रत्युपेक्षणायां स्वाध्याये भोजने विचारे ग्लानत्वे च दोषा भवन्ति । श्वानादिना चोपकरणमपहियते । तरुणादयश्च दोषा ये प्रथमोद्देशके भणितास्तेऽत्र मन्तव्या इति नियुक्तिगाथासमासार्थः ॥अथ व्यासार्थं प्रतिद्वारं बिभणिषुराह[भा.३४९०] मोयस्स वायस्स य सन्निरोहे, गेलन्न नीसट्ठमसन्निरोहे । पलोट्टणा घाण ससद्द मत्ते, आतोभया तत्थ भवंति कीवे॥ वृ-यद्यागमनगृहे स्थिताः सागारिकमिति कृत्वा मोकस्य वातस्य वा सन्निरोधं कुर्वन्ति ततो 'ग्लान्यं' ग्लानत्वं भवति । अथ तयोः सन्निरोधं न कुर्वते ततो 'निसृष्टाः' निर्लज्जा भवेयुः । अथ मात्रके कायिकी व्युत्सृजन्ति ततो मात्रकस्य प्रलोटनायां दुभिगन्धध्राणि समुच्छलति । मात्रके च सशब्दं प्रश्रवणमागच्छति, तं च श्रुत्वा सागारिका उड्डाहं कुर्वन्ति । आत्म-परोभयसमुत्थाश्च तत्र दोषा भवन्ति । तत्रात्समुत्थदोषा नाम-सा संयती स्वयं क्षुभ्येत । परसमुत्थस्तु “कीवे" त्ति शब्दक्लीवः संयत्याः कायिकीशब्दं श्रुत्वा क्षुभ्येत । उभयसमुत्थस्तु द्वावपि क्षुभ्येताम् । [मा.३४९१] पेहिंति उड्डाह पवंच तेना, अपेहणे सोहि तिहोवहिस्सा । Page #310 -------------------------------------------------------------------------- ________________ उद्देशक ः २, मूलं-६१, [भा. ३४९१] ३०७ कीरंतऽकीरंत सुते य दोसा, न निति भिक्खस्स निरुद्धमग्गा॥ वृ-यदि संयत्यः सागारिके पश्यति स्वकीयमुपकरणं प्रत्युपेक्षन्ते तत उड्डाहो भवति, प्रपञ्चं वास सागारिकः कुर्वीत, तथैव स्वकीयंवस्त्रं प्रत्युपेक्षेत इत्यर्थः । स्तेना वातंसारोपधिं प्रत्युपेक्ष्यमाणं दृष्ट्वा हरेयुः । अथैतद्दोषभयाद् न प्रत्युपेक्षन्ते ततस्त्रिविधोपधेः 'शोधि' प्रायश्चित्तम् । तद्यथाजघन्ये पञ्चकम्, मध्यमे मासलघु, उत्कृष्ट चतुर्लघु । 'श्रुते' स्वाध्याये क्रियमाणे सागारिका आलापकान्आगमय्य तथैव उद्धट्टयेयुः । अथ स्वाध्यायो न क्रियते ततः सूत्रार्थनाशादयो दोषाः। तथा सागारिकैर्निष्क्रमण-प्रवेशस्थानोपविष्टैर्निरुद्धमार्गा सत्यो न भैक्षाय 'निर्गच्छन्ति' निर्गन्तुं शक्नुवन्तीति भावः ॥ [भा.३४९२]दुक्खं च मुंजंति सति द्वितैसु, तक्किंति देंते य अति दोसा। भुंजंति गुत्ता अधिकारिया उ, कुलुग्गया किं पुन जा अतोया ।। वृ-सागारिकेषु तत्र 'सदा' नित्यमेव स्थितेषु संयत्यो दुःखं भुञ्जते।अथ तेषां मध्यात् कश्चिद् द्रमकप्रायः 'तर्कयति' आहारयाच्यां करोति ततो यदि दीयते तदा असंयतपोषणादधिकरणम्; अथ न दीयते ततोऽसौ प्रद्वेषं गच्छेत्, प्रद्विष्टश्च प्रान्तापनम् उड्डाहम् अभ्याख्यानप्रदानं वा कुर्यात्; एवमुभयथाऽपि दोषाः । किञ्च कुलोद्गताः स्त्रियः ‘गुप्ताः' एकान्तेस्थिता अधिकारिण्यश्च भुञ्जते, किं पुनर्या ‘अतोयाः' शीतोदकविरहिताः संयत्यः कालिकेनाचमनकारिण्य इत्यर्थः ? ताभिः सुतरामेकान्ते भूत्वा भोक्तव्यमिति ॥ [भा.३४९३]वीयारभोमे बहि दोसजालं, निसट्ट-बीभच्छकया य अंतो। कीरंत किच्चे य गिलाण दोसा, कालादिवत्ती य तहोसहस्स ॥ कृयदि सागारिकमिति मत्वा विचारभूमौ बहिर्गच्छन्ति ततः 'दोषजालं मासकल्पप्रकृताभिहितं दूषणनिकुरुम्ब ढौकते । अथैतद्दोषभयादन्तः संज्ञां व्युत्सृजेयुः ततः सागारिकालोके व्युत्सृजन्त्यो निसृष्टाः-निर्लज्जा बीभत्साश्च गण्यन्ते, तत्कृताश्चोड्डाहादयो दोषाः । ग्लानायाश्च संयत्याः ‘कृत्ये' अकल्प्यपथ्यौषधप्रदानादौ क्रियमाणे सागारिका वदेयुः-एतदमूषामकल्पनीयं परमेतदपि प्रतिसेवन्ते, नूनं सर्वमप्यलीकममूषामित्यादयो दोषाः । अथ सागारिकमिति मत्वा न क्रियते तत औषधस्य कालातिपत्ति स्यात्, कालातिक्रमेण चौषधे दीयमाने ग्लाना परितापमश्नुयात्।। [भा.३४९४)हरंति भाणाइ सुणादिया य, सयंति भीया व वसंति निन्छ । - निच्चाउले तत्थ निरुद्धचारे, नेगग्गया होति कओ सि झाओ॥ वृ-तत्रागमनगृहे शुनकादयः प्रविश्य भाजनादिकं हरन्ति । ततः 'नित्यम्' अहोरात्रमपि तत्र श्वानादिभयभीताः शेरते वा वसन्ति वा । 'नित्याकुले च' सदैव सागारिकैराकीर्णेऽत एव 'निरुद्धचारे' गमा-ऽऽगमरहितेतत्रैकाग्रता न भवति, कुतः स्वाध्यायः “सिं" अमूषां भविष्यति? [भा.३४९५] तरुणा-वेसिस्थि-विवाह-रायमादीसु होति सतिकरणं। __इच्छमनिच्छे तरुणा, तेना ताओ व उवहिं वा । वृ-तत्रागमनगृहे बहवस्तरुणा वेश्यायिो वा कामुकवृन्दपरिवृताः, विवाहो वा महता विच्छर्दैन विधीयमानः, राजादयो वा निर्गच्छन्तः प्रविशन्तो विलोक्यन्ते ततः स्मृतिकरण-कोतुके भुक्ताऽभुक्तानां जायेते। तथा यदि तरुणान् अवभाषमाणान् इच्छति ततो व्रतविराधना, अथ नेच्छति Page #311 -------------------------------------------------------------------------- ________________ ३०८ बृहत्कल्प-छेदसूत्रम् -२-२/६१ ततस्ते उड्डाहं कुर्युः । स्तेना वा ताः संयतीरपहरेयुः 'उपधिं वा' वस्त्रादिकं वा हरेयुः ॥ तदेवं व्याख्याता “काइय पडिलेह" इत्यादिका निर्युक्तिगाथा । अथागमनगृह एव दोषान्तराण्याह[भा. ३४९६ ] ओभावणा कुलघरे, ठाणं वेसित्थि खंडरक्खाणं । उद्धंसणा पवयणे, चरित्तभासुंडणा सज्जो ॥ वृ-धूतैः परिवारितासु तासु कुलगृहस्यापभ्राजना स्यात्, अन्यच्च तद् आगमनगृहं वेश्यास्त्रीणां 'खण्डरक्षाणां च ' हिण्डिकानां स्थानं वर्त्तते, तत्र स्थितानाम् 'उद्धर्षणा' प्रवचनविषया हीला चारित्रस्य च भ्रंशना 'सद्यः' शीघ्रं भवति । तथा तरुणादीन् दृष्ट्वा कस्याश्चिद् दश कामवेगा भवेयुः । ते च सप्रायश्चित्ता अमी [भा. ३४९७] चिंताइ दट्टुमिच्छइ, दीहं नीससति तह जरे डाहे । भत्तारोयग मुच्छा, उम्मत्तो न याणती मरणं ॥ [भा. ३४९८] मासो लहुओ गुरुओ, चउरो लहुगा य होंति गुरुगा य । छम्मासा लहु-गुरुगा, छेदो मूलं तह दुगं च ॥ वृ- द्वे अपि प्राग् व्याख्याते । उक्ता आगमनगृहे दोषाः, अथ विवृतगृह-वंशीमूलयोर्दोषानाह[भा. ३४९९] एए चेव य दोसा, सविसेसतरा हवंति विगडगिहे । वसीमूलट्ठाणे, पडिबद्धे जे भणिय दोसा ।। वृ- ‘एत एव’ आगामनगृहोक्ता दोषाः सविशेषतरा विवृतगृहे तिष्ठन्तीनां भवन्ति । वसीमूलस्थाने तु ते दोषा द्रष्टव्याः ये द्रव्यतो भावतश्च प्रतिबद्धे प्रतिश्रयेऽप्काययन्त्रयोजनादय आत्मपरोभयसमुत्थाश्च दोषाः प्रथमोद्देशके भणिताः ॥ अथैनामेव गाथां व्याख्यानयति[भा. ३५०० ] अवाउडं जं तु चउद्दिसिं पि, तीसुं दुसुं वा वि तहेक्कतो वा । अहे भवे तं वियडं गिहं तु, उड्डुं अमालं च अछन्नगं वा ॥ वृ-विवृतगृहं द्विधा-अधोविवृतम् ऊर्ध्वविवृतं च । यत् पार्श्वतश्चतसृषु तिसृषु वा दिक्षु द्वयोर्वा दिशोरेकस्यां वा दिशि 'अपावृतं' कुड्यरहितं परमुपरि च्छन्नं तदधोविवृतगृहं भवेत् । यत् पुनः 'अमालं' मालरहितम् अच्छन्नं वा छाद्यरहितं परं पार्श्वतः कुड्ययुक्तं तदूर्ध्वविवृतं भवति ॥ [भा. ३५०१] अजंतिया तेन सुणा उवेंति, गोणादि निस्संकमभिद्दवंति । तेनादिया तत्थ चिलीय दोसा, कडादिकम्मं तु सजीवघातं ॥ वृ- 'तत्र' ब्रिवृतगृहे 'अयन्त्रिताः ' कुड्याद्यभावादनिरुद्धप्रचाराः स्तेन शुनका उपायान्ति, ततश्चोपकरणहरणादयो दोषाः । गवादयश्च शृङ्गाद्यभिधातेन निशङ्क्रमभिद्रवन्ति । अथ तत्र पार्श्वतश्चिलिमिलिका दीयते ततः “चिलीए "त्ति "सूचनात् सूत्रम्" इति कृत्वा चिलिमिलिकायाः स्तेनादयो दोषाः, ते तामपहृत्य गच्छेयुरिति भावः । “कडाइ "त्ति अथ कटं किलिञ्चं वा कारयित्वा तत्र स्थापयन्ति तत आधाकर्मदोषनिष्पन्नं प्रायश्चित्तं 'सजीवघातम्' इति कटादौ निष्पाद्यमाने येषां जीवानामुपघातो भवति तन्निष्पन्नं पृथक् प्रायश्चित्तम् ॥ अथ वंशीमूलं व्याचष्टे[भा.३५०२]जाओ (जो आ] वने वी य बहिं घरस्स, अलिंदओ वा अवसारिगा वा । गेहस्स पासे पुर पिट्ठओवा, तं वंसिमूलंकुसला वदंति ॥ • वृ-यो गृहाद् बहिर्द्वाराग्रवर्त्तिस्थडिकारूप अलिन्दकः, या वा 'अपसारिका' पटालिका, कुत्र? Page #312 -------------------------------------------------------------------------- ________________ उद्देशक : २, मूलं - ६१, [भा. ३५०४] ३०९ इत्याह-गेहस्य पार्श्वे वा पुरतोवा पृष्ठतो वा तद् वंशीमूलं नाम गृहं 'कुशलाः' तीर्थकरादयो वदन्ति । अत्र तिष्ठन्तीनां प्रतिबद्धसूत्रोक्ता दोषाः ॥ अथ वृक्षमूला-ऽभ्रावकाशयोर्दोषानाह [ भा. ३५०५] अट्ठि व दारुगादी, सउणगपरिहार पुप्फ-फलमादी । एवं तु रुक्खमूले, अब्भावासम्मि सिन्हाई ॥ वृ- अस्थि वा दारुकं वा आदिशब्दाद् लेष्टुकादिकं वा वातेन चालितं सत् प्रपतेत्, शकुनाःपक्षिणस्तेषां सम्बन्धी परिहारः- पुरीषमुपरि निपतेत्, पुष्पाणि वा फलानि वा आदिशब्दाद् पत्राणि वा पतेयुः, एषु यथायोगमात्म-संयमविराधना मन्तव्या । एवं वृक्षमूले वृक्षस्याधोवर्त्तिनि वा गृहे तिष्ठन्तीनां दोषाः । अभ्रावकाशे तु सिन्हा - अवश्यायो भवेत्, आदिशब्दात् सचितं रजः प्रपतेदित्यादिपरिग्रहः । अवश्यायेनार्द्रीभूतानां विसूचिकादिभिरात्मविराधना मन्तव्या । यत एते दोषा अतो न आगमनगृहादिषु स्थातव्यम् । भवेत् कारणं येन तत्रापि स्थीयते । किम् ? इत्याह[भा. ३५०४ ] अद्धाणनिग्गयादी, तिक्खुत्तो मग्गिऊण असतीये । वाडगआगमणगिहे, इयरम्मि य निग्गहसमत्थे || वृ- अध्वनिर्गतादयस्त्रिकृत्वो निर्दोषां वसतिं मार्गयित्वा यदि न प्राप्नुवन्ति ततो वाटकस्य मध्यवर्त्ति यद् आगमनगृहं देवकुलादिकं तत्र वसन्ति । कथम् ? इत्याह- इतरः- शय्यातरः स यदि निग्रहसमर्थ-जितेन्द्रियः प्रत्यनीकनिवारणक्षमश्च भवति ततस्तत्र वस्तव्यम्, नान्यथा ॥ अथेदमेव स्फुटतरमाह [भा. ३५०५] जं देउलादी उ निवेसणस्सा, मज्झम्मि गुत्तं सुपुरोहडं च । अट्ठगम्मं न यदुट्ठमज्झे, अदूरगेहं तुहियं वसंति ।। वृ- 'निवेशनस्य' वाटकस्य मध्ये यद् देवकुलादि 'गुप्तं' वृत्या फलिहकेन वा आवृतम्, 'सुपुरोहडं' रमणीयसंयतीप्रायोग्यविचारभूमिकम्, अदुष्टानां शिष्टजनानां गम्यम्-आश्रयः, न च दुष्टजनमध्ये तद् वर्त्तते, 'अदूरगेहं' प्रत्यासन्नप्रातिवेश्मिकगृहं तत्र प्रथमतो वसन्ति ॥ [भा. ३५०६] जुवाणगा जे सविगारगा य, पुत्तादओ तुज्झ इहं वसंति । मा. वि अम्हं इह संवयंतु, इच्छंत सत्ते य वसंति तत्थ ॥ वृ-तत्र यः सागारिकस्तं ब्रुवते ये युवानः सविकाराः पुत्रादयस्त्वत्सम्बन्धिनः 'इह' अस्मिन् गृहे वसन्ति मा तेऽप्यस्माकं प्रतिश्रये सम्प्रति 'संव्रजन्तु' समायान्तु । एवमुक्ते यद्यसौ 'इच्छति' प्रतिशृणोति, यदि च स्वयं 'शक्तः' तन्निवारणक्षमः ततस्तत्र वसन्ति ॥ [भा. ३५०७] भोइयकुले व गुत्ते, दुज्जणवज्जे वसंत उ पउत्थे । महतरगादिसुगुत्ते, वंसीमूलम्मि ठायंति ॥ वृ- अथेद्दशमागमनगृहं न प्राप्यते ततो भोजिकस्य- ग्रामस्वामिनः कले-गृहे 'गुप्ते' वृत्या फलिहकेन वा सुसंवृते 'दुर्जनवर्जे' दुःशीलजनप्रवेशरहिते यदलिन्दकादि तत्र वसन्ति । स च भोजिको यदि प्रोषितस्तदा महत्तरकादिभि प्रधानपुरुषैस्तद् गृहं यदि सुगुप्तं सुरक्षितं भवति तत एवंविधे वंशीमूलगृहे तिष्ठन्ति ॥ [भा. ३५०८] तस्सऽसइ उड्डवियडे, वसंति कडगादि छोदुणं उवरिं । तस्सऽसति पासवियडे, कडगादी पंतवत्थेहिं ॥ Page #313 -------------------------------------------------------------------------- ________________ ३१० बृहत्कल्प-छेदसूत्रम् -२-२/६१ वृ-'तस्य' यथोक्तगुणोपेतस्य वंशीमूलगृहस्याभावे ऊर्ध्वविवृतगृहे उपरि कटादिकं प्रक्षिप्य तिष्ठन्ति, आदिशब्दावस्त्रचिलिमिलिकया वाऽऽच्छादनं कुर्वन्ति । तस्याभावे पार्श्वविवृतेऽपि तिष्ठन्ति, अधोविवृते इत्यर्थः । तत्रच कट-किलिञ्चादिभिश्चिलिमिलिकां कृत्वा पार्श्वतः पदद्यात्। अथ कटादयो न प्राप्यन्ते ततः 'प्रान्तवस्त्रैः' परिजीर्णचीवरैः पानि छादयितव्यानि ॥ [भा.३५०९]विहं पवन्ना घनरुक्खहेढे, वसंति उस्सा-ऽवणिरक्खणट्ठा। तस्साऽसती अब्भगवासिए वि, सुवंति चिट्ठति व उन्निछन्ना ।। वृ-अथ 'विहं' अध्वानं प्रपन्नास्ताः संयत्यस्तत्र चाधोविवृतमपि गृहं न प्राप्यते ततो घनःबहलो निश्छिद्रो यो वृक्षः-वटादिस्तस्याधस्ताद् अवश्यायस्य-अन्तरिक्षसूक्ष्माप्कायस्य अवनेश्वसचित्तपृथिवीकायस्य रक्षणार्थं वसन्ति । तस्याप्यभावे ‘अभ्रावकाशकेऽपि' आकाशे और्णिककल्पच्छन्नाः स्वपन्ति वा तिष्ठन्ति वा ।। मू. (६२) कप्पइ निग्गंथाणं अहे आगमनगिहंसि वा वियडगिहंसि वा वंसीमूलंसि वा रुक्खमूलंसि वा अब्भावगासंसि वा वत्थए । वृ-अस्य व्याख्या प्राग्वत् ॥ अथ भाष्यम्[भा.३५१०] एसेव गमो नियमा, निग्गंथाणं पि नवरि चउलहुगा। . नवरं पुन नाणत्तं, अब्भावासम्मि वतिगादी । वृ-'एष एव' निर्ग्रन्थीसूत्रोक्तो गमः आगमनगृहादिविषयो नियमा निर्ग्रन्थानामपि भवति, नवरं प्रायश्चित्तं चतुर्लघुकाः, शेषं तु सर्वमपि दोषजालं तथैव वक्तव्यम् । नवरं पुनरत्र द्वितीयपदे तिष्ठतां नानात्वम् । किम् ? इत्याह-वजिका-गोकुलं तस्यां ग्लानार्थं गताः सन्त आदिशब्दादध्वनि वा वर्तमाना अभावकाशे वसेयुः । उत्सर्गतस्तु निर्ग्रन्थानामप्यागमनगृहादिषु स्थातुंन कल्पते।। आह सूत्रेणानुज्ञातमवस्थानमतस्तेन सह विरोधः प्राप्नोति? सूरिराह[भा.३५११] सुत्तनिवाओ पोराण आगमे भोइए व रखते। आराम अहेविगडे, वंसीमूले व निदोसे ॥ कृ-पुराणं-चिरन्तनं यदागमनगृहं तत्र सागारिकः सम्प्रति कोऽपि नागच्छति, यद्वा यत्रागमनगृहे स्थितानां भोजिकः-ग्रामस्वामी जनमुपागच्छन्तंरक्षति, ईशे सूत्रनिपातः' सूत्रावतारोमन्तव्यः। तथा य आरामो नवमालिकागुल्मादिभिर्गुप्तस्तत्राधोविवृते सूत्रमक्तरति। वंशीमूलमपि यद् निर्दोष तत्रसूत्रावतारः ।। अथैनामेव नियुक्तिगाथां भाष्यकारः स्पष्टयति[भा.३५१२]अभुजमाणी उ सभा पवा वा, गामेगपासम्मि न याऽनुपंथे। पभू व वारेति जनं उवेंतं, न कुप्पती सो य तहिं तु ठंति ।। वृ-सभा वा प्रपा वा या अपरिभुज्यमाना ग्रामस्यैकपार्वे भवति, 'न च' नैव 'अनुपथे' मार्गाभ्यर्णेयद्वा भुज्यमानायामपि यत्र स्थितानां 'प्रभुः' ग्रामस्वामी सम्यग्दृष्टिभद्रको वाजनमुपयान्तं निवारयति, 'सच' जनो वार्यमाणः साधूनांग्रामस्वामिनो वा न कुप्यति तत्र' ईशेआगमनगृहेऽपि तिष्ठन्ति ॥ [भा.३५१३] गुम्मेहि आरामघरम्मि गुत्ते, वईय तुंगाय व एगदारे । ____ अहे अगुत्ते छइतम्मि ठंती, न जत्थ लोगो बहु सन्निलेति॥ -For-Privated-Personal use-orily www.jalmelloraly.org Page #314 -------------------------------------------------------------------------- ________________ उद्देशक ः २, मूलं-६२, [भा. ३५१३] ३११ -'गुल्मैः' नवमालिका-कोरिण्टकादिभिगुप्ते, वृत्या वा 'तुङ्गया' उच्चैस्तरया परिक्षिप्ते, एकद्वारे आरामगृहे अधोऽगुप्तेऽप्युपरि 'छादिते' स्थगिते तिष्ठन्ति, परं यत्र ‘बहुः' भूयान् लोको न 'सन्निलीयते' न समायाति॥ [भा.३५१४] जं वंसिमूलऽन्नमुहं च तेनं, पिहढुवारं न तओ उ छिंडी। सुणेति सदं न परोप्परस्स, न काइयं नेव य दिहिवातो॥ वृ-यद् ‘वंशीमूलम्' अलिन्दकादि तेन' मूलगृहेन सहान्यतोमुखं पृथग्द्वारंच, अत एव ततः' तदभिमुखा छिण्डिका न भवति, यत्र च परस्परं संयता अविरतिकाश्च शब्दं न शृण्वन्ति, न चैकत्र कायिकी कुर्वते, नैव च परस्परं दृष्टिपातः, केवलं मूलगृहेण सह द्रव्यतः प्रतिबद्धम्, न चाकाययोजनादयो दोषाः, एवंविधे कल्पते वस्तुम् ॥ [भा.३५१५] असई य रुक्खमूले, जो दोसा तेहि वज्जिए ठंति । अद्धाणमब्भवासे, गेलनागाढ वइगादी॥ एतेषामागमनगृहादीनामभावे ग्रे पूर्वमस्थि-दारुकादयो दोषा उक्तास्तैर्वर्जिते वृक्षमूले तिष्ठन्ति। तथा अध्वानं प्रतिपन्ना अपरप्रतिश्रयाभावे आगाढे वा ग्लानत्वे व्रजिकादौ सम्प्राप्ता अभ्रावकाशे वसन्ति ।। अथ वृक्षमूले तिष्ठतां विशेषमुपदर्शयति[भा.३५१६]कडं कुणंतेऽसति मंडवस्सा, कडाऽसती पोत्तिमतेनगम्मि। .. सद्दोवओगो धनुतासणा य, सोट्टादि पाडिंति य पुव्वलग्गे॥ ख-यत्र वृक्षमूलेऽधस्ताद् मण्डपो भवति तत्र प्रथमतः स्थातव्यम् । तदभावे कटं कुर्वन्ति, कटचिलिमिलिकां ददतीति भावः । अथ कटोन प्राप्यते ततः पोतं-वस्त्रं तैश्चिलिमिलिकाः कुर्वन्ति यदि 'अस्तेनकं' स्तेनभयं न स्यात् । अथ स्तेनभयं तत्र वर्तते सागारिका वा ब्रुवते 'श्रमणकाः पटमण्डपं कुर्वन्ति' ततः शब्दः कर्तव्यः, पक्षिणां 'छिछिका इत्यादिनाशब्देन निवारणं कार्यमिति भावः । उपयोगोवा दातव्यः । धनुषा वा पाषाणैर्वा पक्षिणां त्रासनां कुर्वन्ति, भयमुपजनयन्तीत्यर्थः। सोट्टा नाम-शुष्ककाष्ठानि तानि आदिशब्दाद् लेष्टुकादानि च पूर्वलग्नानिपातयन्ति । एषा वृक्षमूले तिष्ठतां यतना भणिता । अथाभावकाशे तिष्ठतां प्रतिपाद्यते-आगाढे ग्लानत्वे दुग्धादिना प्रयोजनं भवेत् तत्राभ्रावकाशे वसनं सम्भवेत् ।। कथम् ? इत्याह[भा.३५१७] विसोहिकोडिं हवइत्तु गामे, चिरं व कजं ति वयंति घोसं। अब्भासगामाऽसति तत्थ गंतुं, पडालि-रुक्खाऽसतिए अछन्ने । वृ- यदा स्वग्रामे शुद्धं दुग्धादि न प्राप्यते तदा स्वग्राम एव ये विशोधिकोटिदोषास्तान् पञ्चकादिप्रायश्चित्तक्रमेण हापयित्वा दुग्धादिकं गृह्णन्ति । अथ तथापि न लभ्यते 'चिरं वा' प्रभूतदिवसान् तेन ग्लानस्य कार्यमिति कृत्वा ‘घोषं' गोकुलं व्रजन्ति । कथम् ? इत्याह-'अभ्यासे' गोकुलप्रत्यासन्ने ग्रामे स्थित्वा गोकुलाद् दुग्धादिकमानेतव्यम् । अथ नास्ति प्रत्यासन्नग्रामस्ततः 'तत्र' जिकायां गत्वा पटालिकायां तिष्ठन्ति । तस्या अभावे वृक्षमूले । तस्याप्यभावेऽच्छन्नेऽभ्रावकाशेऽपि तिष्ठन्ति ।। मू. (६३) एगे सागारिए पारिहारिए, दो तिन्नि चत्तारि पंच सागारिया पारिहारिया, एगं तत्थ कप्पागं ठवयित्ता अवसेसे निव्विसेज्जा ।। Page #315 -------------------------------------------------------------------------- ________________ ३१२ बृहत्कल्प-छेदसूत्रम् -२-२/६३ वृ- अथास्य सूत्रस्य कः सम्बन्धः ? इत्याह[भा.३५१८] जहुत्तदोसेहिं विवज्जिया जे, उवस्सगा तेसु जती वसंता । एगं अनेगे व अनुन्नवित्ता, वसंति सामिं अह सुत्तजोगो ॥ वृ-यथोक्तैः - बीज- विकटादिभिरभ्रावकाशतापर्यन्तैर्दोषैर्विवर्जिताः ये उपाश्रयास्तेषु यतयो वसन्त एकं वा अनेकान् वा गृहस्वामिनोऽनुज्ञाप्य वसन्तीत्यनेन सूत्रेण प्रतिपाद्यते । 'अथ' अयं पूर्वसूत्रैः सहास्य सूत्रस्य योग-सम्बन्धः ।। अनेन सम्बन्धेनायातस्यास्य व्याख्या- एकः 'सागारिकः' वसतिस्वामी परिहारं-परित्यागमर्हतीति व्युत्पत्त्या 'पारिहारिकः' भिक्षाग्रहणे परिहर्त्तव्य इत्यर्थः । यथा चैकः सागारिकः पारिहारिकः तथा द्वौ त्रयश्चत्वारः पञ् सागारिकाः पारिहारिकाः, न तेषां बहूनामपि गृहेषु प्रवेष्टव्यमिति भावः । अथ सूत्रेणैव सूत्रमपवदति -"एगं तत्थ कप्पागं" इत्यादि । बहुजनसाधारणे देवकुलादौ स्थिताः 'तत्र' तेषु बहुषु सागारिकेषु मध्ये येन सागारिकतया स्थापितेन शेषगृहेषु प्रवेष्टुं कल्पते तमेकं कल्पकं स्थापयित्वा शेषेषु सागारिककुलेषु 'निर्विशेयुः' प्रविशेयुरिति सूत्रसङ्क्षेपार्थः । विस्तरार्थं भाष्यकृद् बिभणिषुराह [ भा. ३५१९] सागारिउ को पुन, काहे वा कतिविहो व से पिंडो । असिज्जायरो व काहे, परिहरियव्वो व सो कस्सा ॥ [ भा. ३५२०] दोसा वा के तस्सा, कारणजाए व कप्पती कम्मि । जया वा काए, एगमनेगेसु घेत्तव्वो । वृ- सागारिक इति पदमेकार्थिकनामभि प्ररूपणीयम् । कः पुनः सागारिको भवति ? इति चिन्तनीयम् । कदा वा स शय्यातरो भवति ? । कतिविधो वा “से” तस्य पिण्डः ? । अशय्यातरो वा कदा भवति ? । कस्य वा संयतस्य सम्बन्धी 'सः' सागारिकः परिहर्त्तव्यः ? । के वा 'तस्य' सागारिकपिण्डस्य ग्रहणे दोषाः ? । कस्मिन् वा कारणजातेऽसौ कल्पते ? । कया वा यतनया सपिण्ड एकस्मिन् वा सागारिके 'अनेकेषु वा' द्विष्यादिषु सागारिकेषु ग्रहीतव्यः ? इति द्वारगाथाद्वयसमासार्थः ॥ अथ व्यासार्थं प्रतिद्वारमभिधित्सुराह [भा. ३५२१] सागारियस नामा, एगट्ठा नाणवंजणा पंच | सागारिय सेजायर, दाता य तरे घरे चेव ॥ वृ-सागारिकस्य नामानि शक्रेन्द्र- पुरन्दरादिवदेकार्थानि 'नानाव्यञ्जनानि' पृथगक्षराणि पञ्च भवन्ति । तद्यथा-सागारिकः १ शय्याकरः २ शय्यादाता ३ शय्यातरः ४ शय्याधरः ५ चेति । अथैतेषामेव व्याख्यानमाह[भा. ३५२२] अगमकरणादगारं, तस्सहजोगेन होइ सागारी । सेज्जाकरणे सेज्जाकरो उ दाता तु तद्दाना ॥ [भा. ३५२३] गोवाइऊण वसहिं, तत्थ वि ते यावि रक्खिउं तरह । तद्दानेन भवोघं, च तरति सेज्जातरो तम्हा ॥ जहा धारइ सिजं, पडमाणिं छज्ज-लेपमाईहिं । जं वा तीए धरेती, नरगा आयं धरो तम्हा ॥ [भा. ३५२४] वृ- न गच्छन्तीत्यगमाः-वृक्षास्तैः कृतमगारम्, पृषोदरादित्वादिष्टरुपनिष्पत्ति, तेन - अगारेन Page #316 -------------------------------------------------------------------------- ________________ उद्देशक : २, मूलं-६३, [भा. ३५२४] ३१३ सह यस्य योगो विद्यते स सागारिकः, सर्वधनादेराकृतिगणत्वाद् मत्वर्थीय इक्प्रत्ययः । यतश्चासौ शय्यां-प्रतिश्रयं करोति अतः शय्याकरः । तस्याः-शय्याया दानाञ्च शय्यादाता भण्यते । यतश्चासौ वसतिं ‘गोपासियतुं' संरक्षितुं 'तरति' शक्नोति ततः शय्यातरः; यद्वा 'तत्र' तस्यां-शय्यायां स्थितान् साधून स्तेनादिप्रत्यपायेभ्यो रक्षितुं तरति ततोऽसौ शय्यातरः; अथवा तस्याः-शय्याया दानेन ‘भवौघं' संसारप्रवाह तरति अतः शय्यातर उच्यते । यस्माच्च शय्यां पतन्ती छादनलेपनाभ्याम् आदिशब्दात् स्थूणादानादिभिश्च धारयति अतः शय्याधरः; यद्वा तया-शय्याया साधूनां वितीर्णया नरकादात्मान धारयतीति शय्याधरः । गतं सागारिकद्वारम् । अथ ‘कः पुनः सागारिको भवति?' इति प्रश्नस्य निर्वचनमाह[भा.३५२५] सेजायरो पभू वा, पभुसंदिट्ठो व होइ कायव्यो । एगमनेगे व पभू, पभुसंदिट्टे वि एमेव ।। वृ-शय्यातरः प्रभुर्वा प्रभुसन्दिष्टो वा कर्तव्यो भवति। तत्र प्रभुः-उपाश्रयस्वामी। प्रभुसन्दिष्टस्तु तेनैव प्रभुणा यत् कृतप्रमाणतया निर्दिष्टः । यः प्रभुः स एको वा स्यादनेको वा, प्रभुसन्दिष्टोऽपि 'एवमेव'.एकोऽनेको वो भवति ।। अमुमेवार्थं विशेषत आह[भा.३५२६] सागारिय संदिटे, एगमणेगे चउक्कभयणा तु । एगमनेगा वजा, नेगेसु उ वज्जए एक्कं ।। वृ-सागारिके सन्दिष्टे च एकानेकपदनिष्पन्ना चतुष्कभजना कर्तव्या । सा चेयम्-एकः प्रभुरेकं सन्दिशति एष प्रथमो भङ्गः १ एकः प्रभुरनेकान् सन्दिशति इति द्वितीयः २ अनेके प्रभव एकं सन्दिशन्ति इति तृतीय ३अनेके प्रभवोऽनेकान् सन्दिशन्ति इति चतुर्थ ४ । अत्र चैको वा अनेके वा शय्यातरा वर्ष्याः । अपवादपदे पुनरनेकेषु शय्यातरेष्वेकं सागारिकं स्थापयित्वा वर्जयेत्, शेषेषु तु प्रविशेत् । एतदुपरिष्टाद् व्यक्तीकरिष्यते ॥ अथ ‘कदा सागारिको भवति ?' इति प्रश्नस्य प्रतिवचनमाह[भा.३५२७] अनुनविय उग्गहंगण, पायोग्गाणुन्न अतिगते ठविते। सज्झाय भिक्ख भुत्ते, निक्खित्ताऽऽवाए एक्को । वृ-अत्र नैगमनयाश्रिता बहव आदेशाः । तत्रैका आचार्यदेशीयो ब्रूते-क्षेत्रे प्रत्युपेक्षिते सति यदा प्रतिश्रयोऽनुज्ञापितस्तदा सागारिको भवति । अपरो भणति-यदा सागारिकस्यावग्रहं प्रविष्टाः २ । अन्यो ब्रूते-यदा तस्य गृहस्याङ्गणं प्रविष्टाः ३ । अपरः प्राह-यदा तृणडगलादिकं प्रायोग्यमनुज्ञापितम् ४ । अन्यो भणति-यदा वसतिम् 'अतिगताः' प्रविष्टाः ५। अपरो ब्रूतेदण्डकाधुपकरणे स्थापितेदानश्राद्धादिकुलानां वा स्थापेन स्थापिते ६।तदपरः प्राह-यदा स्वाध्यायः कर्त्तमारब्धः ७ । अन्यो भणति-यदा गरुणां पार्थे उपयोगं कृत्वा भिक्षां पर्यटितुं लग्नाः ।। अपरो ब्रूते-यदा भोक्तुमारब्धाः ९ । अन्यो भणति-भाजनेषु निक्षिप्तेषु १० । एको ब्रूते-यदा दैवसिकमावश्यकं कृतम् ११॥ [भा.३५२८] पढमे बितिए ततिए, चउत्थ जामे व होज्ज वाधातो। निव्वाघाए भयणा, सो वा इतरो व उभयं वा ।। ... वृ-अपरो भणति-रात्रौ प्रथम यामे गते सति शय्यातरो भवति १२ । तदपरः-द्वितीययामे Page #317 -------------------------------------------------------------------------- ________________ ३१४ बृहत्कल्प-छेदसूत्रम् -२-२/६३ गते १३ । अन्यः प्राह-एते सर्वेऽप्यनादेशाः । कुतः ? इत्याह- अनुज्ञापितावग्रहादिषु निक्षिप्तान्तेषु दिवसत एव व्याघातो भवेत्, व्याघाताच्चान्यां वसतिमन्यद्वा क्षेत्रं गताः ततः कस्यासौ शय्यातरो भवतु ? | आवश्यकादिषु च भवितुमर्हति ? । आदेशः पुनरयम्- 'निव्यार्घाते' व्याघाताभावे यद्यन्यां वसतिं न गताः तत्रैव रात्रावुषितास्ततो भजना कर्त्तव्या । स वा शय्यातरो भवेत् 'इतरो वा' अन्य उभयं वा ॥ इदमेव भावयति [भा. ३५२९] जइ जग्गंति सुविहिया, करेंति आवासगं च अन्नत्थ । सेज्जातरो न होती, सुत्ते व कए व सो होती ॥ वृ- 'यदि' इत्यभ्युपगमे, रात्रेश्चतुरोऽपि प्रहारन् 'सुविहिताः' शोभनानुष्ठानाः साधवो यदि जाग्रति प्राभातिकं चावश्यकमन्यत्र गत्वा कुर्वन्ति तदा स मूलोपाश्रयस्वामी शय्यातरो न भवति, किन्तु 'सुप्ते वा' शयिते कृते सति कृते वा प्राभातिकावश्यके स शय्यातरो भवति । अथ शय्यातरगृहे रात्र सुप्त्वा प्राभातिकप्रतिक्रमणं तत्रैव कुर्वन्ति तदा परिस्फुटं स एव शय्यातर इति ॥ अन्नत्थ व सेऊणं, आवासग चरममन्नहिं तु करे । दोन्नि वि तरा भवंती, सत्यादिसु इधरधा भयणा || [ भा. ३५३०] वृ- अन्यत्र स्थाने सुप्तवा 'चरमं' प्राभातिकमावश्यकमन्यंत्र कुर्वन्ति तदा यस्यावग्रहे रात्रौ सुप्ता यदवग्रहे च प्राभातिकप्रतिक्रमणं कृतं तौ द्वावपि शय्यातरौ भवतः । इदं प्रायः सार्थादिषु सम्भवति, आदिशब्दात् चौरावस्कन्दभयादिपरिग्रहः । ' इतरथा तु' ग्रामादिषु वसतां 'भजना' विकल्पना || तामेवाह [भा. ३५३१] असइ वसहीय वीसुं वसमाणाणं तरा तु भयितव्व । तत्थऽन्नत्थ व वासे, छत्तच्छायं तु वज्रेति ॥ वृ- यत्र सङ्कीर्णायां वसतौ सर्वेऽपि साधवो न मान्ति तत्र 'विष्वग्' अन्यस्यां वसतौ वसतां साधूनां शय्यातरा भक्तव्याः । तत्र हि यदि साधवः पृथग्वसतावुष्त्वा द्वितीयदिने सूत्रपौरुर्षी कृत्वा समागच्छन्ति ततो द्वावपि शय्यातरौ । अथ मूलवसतिमागम्य सूत्रपौरुर्षी कुर्वन्ति तत एक एव मूलवसतिदाता शय्यातरः । लाटाचार्याभिप्रायः पुनरयम् - शेषाः साधवः 'तत्र वा' मूलवसतौ 'अन्यत्र वा' प्रतिवसतौ वसन्तु, न तेषां सम्बन्धिना सागारिकेणेहाधिकारः, किन्तु सकलगच्छस्य च्छत्रकल्पत्वात् छत्रः-आचार्यस्तस्य च्छायां वर्जयन्ति, मौलशय्यातरगृहमित्यर्थः इति विशेषचूर्णिःनिशीथचूण्योरभिप्रायः । मूलचूर्ण्यभिप्रायः पुनरयम् - विस्तीर्णाया वसतेरभावे विष्वग्वसतौ वसतां शय्यातरा भजनीयाः, यदि संस्तरति ततः सर्वेऽपि शय्यातराः परिहियन्ताम्, अथ न संस्तरति तत एकं शय्यातरकुलं निर्विशन्ति शेषणि परिहरन्ति । तथाऽष्यसंस्तरणे द्वित्र्यादिक्रमेण तावद् वक्तव्यं यावद् यस्य वसतावाचार्या स एको वर्जनीयः, शेषाः सर्वेऽप निर्वेशनीयाः । तथा “तत्थऽन्नत्थ व वासे” इत्यादि । किलैकस्याचार्यस्य बहव आचार्या श्रुतार्थमुपसम्पन्नाः, ते चैकस्यां वसतावमान्तः पृथक्पृथग्वसतिषु स्थिताः सन्तः 'तत्र' मूलाचार्यसमीपे 'अन्यत्र वा' आत्मीयासु वसतिषु वसन्तु सर्वेषामपि शय्यातराः परिहर्त्तव्याः । असंस्तरणे तु पूर्वोक्तक्रमेण तावद् वक्तव्यं यावत् छत्रच्छायां वर्जयन्ति, मौलाचार्य शय्यातरगृहमित्यर्थः ॥ गतं 'कदा सागारिकः ?' इति द्वारम् । अथ 'कतिविधः शय्यातरपिण्डः ?' इति द्वारमाह Page #318 -------------------------------------------------------------------------- ________________ उद्देश : २, मूलं- ६३, [भा. ३५३२] [भा. ३५३२] दुविह चउब्विह, अट्ठविहो होति बारसविहो य । सेज्जातरस्स पिंडो, तव्विवरीओ अपिंडो उ ।। ३१५ वृ-द्विविधो वा चतुर्विधो वा षड्विधो वा अष्टविधो वा द्वादशविधो वा शय्यातरस्य पिण्डो भवति । तद्विपरीतः पुनः 'अपिण्डः' शय्यातरपिण्डो न भवति । अथैनामेव गाथां विवृणोति[भा. ३५३३] आहारोवहि दुविहो, बिदु अन्ने पान ओहुवग्गहिए । असनादिचउर ओहे, उवग्गहे छव्विहो एस ॥ वृ- द्विविधः शय्यातरपिण्डो भवति, तद्यथा आहार उपधिश्च । “बिदु" त्ति द्विगुणितौ द्वौ चत्वारो भवन्तीति कृत्वा चतुर्विधः शय्यातरपिण्डः पुनरयम्-अन्नं पानं औधिकोपकरणं औपग्रहिकोपकरणं चेति । तथा अशनादयश्चत्वार औधिकोपधि औपग्रहिकोपधिश्चेति षड्विधः ।। [भा. ३५३४] अन्ने पाने वत्थे, पादे सूयादिया य चउरट्ठ । असनादी वत्थादी, सूचादि चउक्कका तिनि ॥ वृ- अन्नं पानं वस्त्रं पात्रं 'शूच्यादयः' शूची -पिष्पलक -नखरदनिका कर्णशोधनरुपाश्चत्वार इत्यष्टविधः । तथाऽशनादीनि वस्त्रादीनि सूच्यादीनि चेति त्रीणि चतुष्कानि द्वादश भवन्ति । तद्यथा-अशनं १ पानं २ खादिमं ३ स्वादिमं ४ वस्त्रं ५ पात्रं ६ कम्बलं ७ पादप्रोञ्छनं ८ सूची ९ पिष्पलको १० नखच्छेदनकं ११ कर्णशोधनकं १२ चेति ॥ [ भा. ३५३५ ] तण- डगल-छार- मल्लग - सेज्जा-संथार-पीढ-लेवादी । सेजातरपिंडो सो, न होति सेहो य सोवहिओ ।। वृ- तृण- डगल-क्षार-मल्लक- शय्या-संस्तारक- पीठ-लेपा आदिशब्दात् कुटमुखादिकं च एष शय्यातरपिण्डो न भवति । यदि च शय्यातरस्य पुत्रादि शैक्षो वस्त्र पात्रसहितः प्रव्रजितुमुपतिष्ठते तदा स सागारिकपिण्डो न भवति, अतः कल्पते सोपधिरप्यसौ प्रव्राजयितुम् । गतं 'कतिविधः सागारिकपिण्ड ?' इति द्वारम् । अथ ' (अ] शय्यातरः कदा भवति ? ' इति द्वारं निरुपयितुमाह[भा. ३५३६ ] आपुच्छिय उग्गाहिय, वसहीतो निग्गतोग्गहे एगे । पढमादि जाव दिवसं, वुत्थे वज्रेज्जऽहोरत्तं ॥ वृ - अत्र नैगमनयाश्रितानि बहूनि मतान्तराणि । तत्रैको ब्रूते सूरिभिः शय्यातरो यदा “उच्छू वोलिंति वई' इत्यादिवचोभिरापृष्टस्तदाऽसावशय्यातरो भवति । अपरः प्राह-यदा निर्गन्तुकामैः पात्राद्युपकरणमुद्वाहितं तदा अशय्यातरः । अन्यो ब्रूते यदा वसतेर्निर्गता भवन्ति । तदपरो भणतियदा सागारिकस्यावग्रहाद् निर्गताः । एको ब्रूते सूर्योद्गमे निर्गतानां प्रथमपौरुष्यामतीतायामशय्यातरः । अन्योऽभिधत्ते द्वितीयस्या पौरुष्यां गतायाम् । अपरो ब्रूते- तृतीयस्याम् । तदन्यः प्राह-‘यावद् दिवसं’ दिवससत्काश्चतस्त्रः पौरुष्यः तावतः कालादूर्ध्वमशय्यातरः । एते सर्वेऽप्यनादेशाः । सिद्धान्तः पुनरयम्-"वृत्थे वज्जेज्जऽ होरत्तं" ति यस्यां वसतावुषितास्ततो यस्यां वेलायां निर्गताः तत ऊर्ध्वमहोरात्रं यावत् तदगिं हेऽशनादिकं वर्जयेयुः, ततः परं तु कल्पते । आपृष्टादिषु तु सागारिकावग्रहनिर्गतान्तेष्वादेशेषु यदि कथमपि गमनविघ्नमुत्पन्नं ततो भूयोऽपि तस्यामेव वसतौ स्थितेषु कथमशय्यातरो भवितुमर्हति ? | ये पुनः प्रथमादिप्रहरविभागेना· शय्यातरमिच्छन्ति तेषां सूर्यास्तमननिर्गतानां रात्रौ प्रथमादिपौरुषीविभागेनाशय्यातरः प्राप्नोति Page #319 -------------------------------------------------------------------------- ________________ ३१६ बृहत्कल्प-छेदसूत्रम् -२-२/६३ तच्च न युज्यते ।। कुतः ? इति चेद् उच्यते[भा.३५३७] अग्गहणं जेन निसिं, अनंतरेगंतरं दुहिं च ततो। गहणं तु पोरिसीहिं, चोदग! एते अनादेसा ॥ वृ-'येन' हेतुना 'निशि' रजन्यामस्माकं भक्त-पानादेरग्रहणं ततो यत्किञ्चिदनन्तरमेकान्तरद्यन्तराभिर्वा पौरुषीभि शय्यातरपिण्डस्य ग्रहणमिच्छन्ति, हे नोदक! त एते सर्वेऽप्यनादेशाः। आदेशः पुनरयम्-सन्ध्यायां दिवा निर्गतानां रजन्याश्चतुरो यामान् शय्यातरः, ततः परं सूर्योद्धेऽशय्यातरः॥ एवं जधन्यत उक्तम् । उत्कर्षतः पुनरित्थम्[भा.३५३८] सूरत्थमणम्मि उ निग्गयाण दोण्ह रयणीण अट्ट भवे । देवसिय मज्झ चउ दिननिग्गति बितियम्मि सा वेला ॥ वृ-'सूर्यास्तमनसमये रात्रौ निर्गतानां तामेव रात्रिमपर चाहोरात्रं शय्यातरो भवति । ततो द्वयोरजन्योरष्टौ यामाः दैवसिकाश्च रजनीद्वयमध्यवर्तिनश्चत्वारोयामाः एवंद्वादशानांयामानामन्ते उत्कर्षतोऽशय्यातरो भवति, एष एक आदेशः । द्वितीयः पुनरयम्-"दिननिग्गए बिइयम्मि सा वेल" त्ति सूर्योदये दिवा यदि निर्गतास्तदा द्वितीये दिने तस्यामेव वेलायामशय्यातरः, एवमहोरात्रं वर्जितं भवति॥गतम् 'अशय्यातरोवा कदा?' इति द्वारम् । अथ शय्यातरः कस्य परिहर्तव्यः?' इति द्वारनिरुपणायाह[भा.३५३९] लिंगत्थस्स उ वजो, तं परिहरतो व भुंजतो वा वि। - जुत्तस्स अजुत्तस्स व, रसावणो तत्थ दिटुंतो॥ वृ- 'लिङ्गस्थस्य' साधुलिङ्गधारिणः 'तं' शय्यातरपिण्डं परिहरतो वा भुञानस्य वा साधुगुणैर्युक्तस्य वां अयुक्तस्य वा शय्यातरः ‘वज्यः' वर्जनीयः । अत्र 'रसापणः' मधहट्ठो दृष्टान्तः । यथा-महाराष्टदेशे रसापणे मद्यं भवतु वा मा वा तथापितत्परिज्ञानार्थंतत्रध्वजो बध्यते, तं ध्वजं दृष्ट्वा सर्वे निक्षाचरादयः परिहरन्ति । एवमस्माकमपि साधुगुणैर्युक्तोऽयुक्तो वा भवतु परं रजोहरणध्वजो दृश्यते इति कत्वा लिङ्गस्थस्यापि शय्यातरः परिहियते ॥ अथ 'के दोषाः ?' इति द्वारमाह[भा.३५४०] तित्थंकरपडिकुट्ठो, आणा अन्नाय उग्गमो न सुज्झे । अविमुत्ति अलाघवता, दुल्लभ सेज्जा य वोच्छेदो ॥ वृ-तीर्थकरैः प्रतिक्रुष्टः-निषिद्धः शय्यातरपिण्डोऽतस्तं गृह्णता तेषामाज्ञा न कृता भवति । "अन्नाय" ति अज्ञातोञ्छम्' आसन्ननिवासवशाद् ज्ञातस्वरुपतया न शुध्यति । प्रत्यासन्नतया तत्रैव पुनः पुनः भैक्ष-पानादिनिमित्तं प्रविशत उद्गमोऽपि न शुध्यति । 'अविमुक्तिर्नाम' स्वाध्यायश्रवणादिना आवर्जितः शय्यातरो दुग्ध-दध्यादि प्रणीतद्रव्यं ददाति, तद्ग्रहणलोलुपतया तद्गृहं न विमुञ्चति । 'अलाघवता तु' विशिष्टाहारलाभेन उपचितगल-कपोलतया शरीरलाघवं प्रचुरवस्त्रादिलाभेन उपकरणलाघवं च न भवेत् । दुर्लभा च शय्या भवति, येन किल शय्या दत्ता तेनाहारद्यपि देयमिति भयाद् भूयः शय्यामगारिणो न प्रयच्छन्तीति भावः । 'व्यवच्छेदश्च' विनाशः शय्यायाः क्रियेत, अथवा भक्त-पानादिप्रतिषेध इह व्यवच्छेदशब्देनोच्यते । एष नियुक्तिगाथासमासार्थः ।। अथैनामेव प्रतिपदं विवृणोति Page #320 -------------------------------------------------------------------------- ________________ उद्देश : २, मूलं - ६३, [भा. ३५४१] [ भा. ३५४१ ] पुर- पच्छिमवजेहिं, अवि कम्मं जिनवरेहिं लेसेणं । भुत्तं विदेहएहि य, न य सागरियस्स पिंडो उ ॥ - पूर्वस्तीर्थकर :- ऋषभस्वामी पश्चिमः श्रीमन्महावीरः एतद्वर्जेरजितादिभिर्मध्यमजिनवरैर्विदेहजैश्च तीर्थकरैराधाकर्मापि 'लेशेन' सूत्रादेशतः 'भुक्तं ' भोक्तुमनुज्ञातमिति भावः, 'न च' नैव सागारिकस्य पिण्डः । इयमत्र भावना-मध्यमतीर्थकृतां विदेहतीर्थकृतां च ये साधवस्तेषां यस्यैव योग्यमाधाकर्म कृतं तस्यैव न कल्पते शेषाणां तु कल्पते इति तैराधार्मीभोजनमपि कथञ्चिदनुज्ञातम्, न पुनः शय्यातरपिण्डः, ३१७ सेज्जायरपिंडम्मी, चाउज्जामे य पुरिसजिट्ठे य । किइकम्मस्स य करणे, चतारि अवट्ठिया कप्पा ॥ इति वचनात् ।। अथाज्ञाद्वारमज्ञातोञ्छद्वारं चाह - [भा. ३५४२ ] सव्वेसि तेसि आणा, तप्परिहारीण गेण्हता न कता । अन्नायं च न जुज्जति, जहिं ठितो गेण्हतो तत्थ ॥ वृ- सर्वेषामपि 'तेषां' तीर्थकृतां 'तत्परिहारिणां शय्यातरपिण्डप्रतिषेधकारिणामाज्ञा तत्पिण्डं गृह्णता न कृता भवति । तथा यत्रैव गृहे स्थितस्तत्रैव भिक्षां गृह्णतोऽज्ञातोञ्छं 'न युज्यते' न घटते, न शुध्यतीत्यर्थः, अज्ञातस्य- अविदितस्य यद् उञ्छं भैक्षग्रहणं तदज्ञातोञ्छमिति व्युत्पत्तेः ॥ उद्गमाशुद्धिद्वारमाह [ भा. ३५४३] बाहुल्ला गच्छस्स उ, पठमालिय-पानगादिकज्जेसु । सज्झायकरणआउट्ठिता करे उग्गमेगतरे ॥ वृ- गच्छस्य यद् बाहुल्यं साधूनां प्राचुर्यं तस्माद्धेतोः प्रथमालिका- पानाकौषधादिकार्येषु पुनः पुनः प्रविशतां तथा स्वाध्यायश्रवणेन करणेन च यथोक्तक्रियाकलापानुष्ठानेन आवर्त्तिताःआवार्जिता उद्ममदोषाणामेकतरान् कुर्युः । अविमुक्तिद्वारमाह [भा. ३५४४] दव्वे भावऽविमुत्ती, दव्वे वीरल्ल हारुबंधनता । सउणग्गहणे कड्डण, पइद्ध मुक्को वि आनेइ ॥ वृ- अविमुक्तिर्द्धिधा-द्रव्यतो भावतश्च । द्रव्याविमुक्तौ 'वीरल्लः' ओलायकः पक्षी ध्ष्टान्तः । स स्नायुः तन्त्री तद्बन्धनेन पादे बद्धवा यत्र तित्तिरिप्रभृतिकः पक्षी ध्श्यते तत्र मुच्यते, ततस्तेन यदा तस्य शकुनकस्य ग्रहणं कृतं स्यात् तदा भूयोऽपि तयैव तन्त्रया तस्य कर्षणं क्रियते, तत आगतस्य हस्ततले मांसं दीयते, ततो मांसे 'प्रगृद्धः' आसक्तः सन् मुक्तोऽपि स्नायुबन्धनमन्तरेणापि शकुनिमानयति, आनीय च तत्रैवावतिष्ठते । एषा द्रव्याविमुक्ति । अथ भावाविमुक्तिमाह[भा. ३५४५ ] भावे उक्कोस-पनीयगेहितो तं कुलं न छड्डेति । हाणादी कज्जेव, गतो वि दूरं पुनो एति ॥ वृ- 'भावे' भावाविमुक्ति पुनरियम्-उत्कृष्टद्रव्यं-शाल्योदनादि प्रणीतं घृतादि तयोर्या गृद्धिलौल्यं ततः 'तत् कुलं' शय्यातरसम्बन्धि न परित्यजति । अथवा स्नान रथयात्रादौ पर्वणि कार्येषु च-कुल- गण - सङ्घप्रयोजनेषु दूरमपि गतो भूयः तत् कुलमागच्छति ।। अथालाघवतां व्याचष्टे[भा. ३५४६] उवहि सरीमलाघव, दे हे निद्धाइविंधियसरीरो । Page #321 -------------------------------------------------------------------------- ________________ ३१८ बृहत्कल्प-छेदसूत्रम् -२-२/६३ संघंसग-सासभया, न विहरइ विहारकामो वि॥ वृ-'अत्यघवं' गौरवंतच द्विघा-उपघौ शरीर च । तत्र 'देहे' देहविषयमलाघवमिदम्-स्निग्धंधृतादि तेन आदिशब्दाद् गुड-शर्करादिमधुरद्रव्यैः प्रतिदिनमभ्यवहियमाणैबृहितशरीरः सन्मार्गे गच्छतांशरीरजाड्यसमुत्थोयो गात्रसङ्घर्षो यश्च श्वासः तद्भया विहरयणकामोऽपि न विहरति।। अथोपकरणालाघवमाह[भा.३५४७] सागारि-पुत्त-भाउग-नत्तुग दान अतिखद्ध भारभया। न विहरति ओम सावय, नियडाऽगणि भाण एज त्ति ॥ वृ-सागारिकेण-शय्यातरेण तदीयैश्च पुत्रैतृभिनत भिश्च-पौत्रैः कस्यापि साघोरतिखद्धस्यअतीवप्रभूतस्य कम्बलाधुपकरणस्य दानमकारि, सच साधुस्तद्भारभयात्रा विहरति । अन्यदा च तत्र ‘अवमं' दुर्भिक्षं सातम्, स च तदापि न विहरति । “सावय" ति श्रावकेण चिन्तितम्एष साधुः किमद्यापि न विहरति ? नूनं बहूपकरणप्रतिबद्धोऽयम् । ततस्तेन श्रावकेण तस्य संयतस्य भिक्षाद्यर्थं विनिर्गतस्य सर्वमप्युपकरणं निष्काश्यान्यत्र सङ्गोप्य 'निकृत्या मायया तदीय उपाश्रयः सर्वोऽपि “अगनि" त्ति अग्निना प्रदीपितः । ततः समायातः संयतः, दृष्टः प्रतिश्रयो दग्धः, कृतवान् ‘हा कष्टम् ! हा हा कष्टम् !! बहूपकरणं दग्धम् !!!' इति परिखेदम् । पृष्टश्च श्रावकः-किञ्चिदुपकरणं निष्काशितं न वा? इति । स प्राह-न शक्तं किमपि निष्काशयितुम् परं "भाण" त्ति भाजनद्वयं महता कष्टेन निष्काशितम् । ततः साधुना भणितम्-विहरामि सम्प्रति यस्यां दिशि सुभिक्षम् । श्रावकः प्राह-“एज" त्ति सुभिक्षीभूते भूयोऽप्यागच्छेत् । ततः प्रतिपन्नं साधुना तद्वचनम् । समागतः कालान्तरेण पुनरपि तत्रैवासौ । निवेदितः श्रावकेण यथावस्थितो व्यतिकरः,क्षमयित्वा च दत्तं सर्वमपि तदीयमुपकरण। एवमादयो दोषा उपकरणालाघवे भवन्ति।। अथ दुर्लभशय्याद्वारमाह[भा.३५४८] भिक्खा पयरणगहणं, दोगच्चं अन्नआगमे न देमो । पयरण नत्थिन कप्पति, असाहु तुच्छे य पन्नवणा ।। वृ. कस्यापि श्रेष्ठिनो गृहे पञ्चशतिको गच्छो वर्षासु स्थितः । स च शय्यातरो गृहमानुषाण्यादिशति-यदि साधवो गृहात् तुच्छै जनैर्निर्गच्छन्ति ततो महदमङ्गलं स्यात्, अतो दिने दिनेऽमीषांप्रथममेव भिक्षा दातव्या । ततस्ते साधवः सर्वेऽपि तस्मिन् गृहे प्रतिदिनं प्रथमतः प्रतरणभिश्रां गृह्णन्ति । ततश्च शय्यातरस्य कालान्तरेण ‘दौर्गत्यं' दरिद्रता । अन्येषां च साधूनां तत्रागमनम्।तेचतं श्रेष्ठिनंवसतिं याचन्ते।सप्राह-विद्यते वसतिपरंन प्रयच्छामः ।साधुभिरुक्तःकिं कारणं न प्रयच्छसि ? । स प्राह-'प्रतरणं प्रथमदातव्यभिक्षारुपं नास्ति । साधवो ब्रुवते-न कलपतेऽस्माकं प्रतरणं ग्रहीतुम् । स प्रतिब्रूते-'असाधु' अमड्गलमिदं यद् मम गृहात् तुच्छैर्भाजनैर्निर्गच्छन्ति । ततस्तस्य साधुभिप्रज्ञापना कृता-आयुष्मन् ! इदमेव भवतः परमं मङ्गलं यदेवंसाधूनांवसतिरुपयुज्यते, अनया हि दत्तया भवता सर्वमपि भक्त-पानादिकंदत्तमेव भवति। इत्थं प्रज्ञापितः स तेषां वसतिं प्रदत्तवान् । एवं दुर्लभा शय्या भवति॥अथ व्यवच्छेदद्वारमाह[भा.३५४९] थल देउलिया ठाणं, सतिकालं दगु दट्टु तहिं गमनं। . . निग्गए वसहीभंजन, अन्ने उब्भामगाऽऽउट्टा ।। Page #322 -------------------------------------------------------------------------- ________________ उद्देशक : २, मूलं - ६३, [भा. ३५४९ ] ३१९ वृ- कस्यापि ग्रामस्य मध्ये स्थलम् । तत्र च ग्रामेण मिलित्वा देवकुलिका कारिता । तत्र साधवः स्थिताः । ते च तत्रोच्चतरे देवकुले स्थिताः 'सत्कालं' भिक्षाया देशकालं दृष्ट्वा दृष्ट्वा 'तत्र' तेषु कुलेषु भिक्षार्थं गच्छन्ति, न चैकमपि कुलं तेषां भिक्षां गृह्णतामुद्धरति । एवं च निर्विन्नाः सर्वेऽपि गृहस्थाः । ततो निर्गतेषु साधुषु 'वसतेः' देवकुलिकायास्तैर्भञ्जनम् 'मा अन्योऽप्येवमागत्य स्थास्यति' इति । इतश्चान्यस्मिन्नीध्शे स्थलग्रामेऽन्ये केचन साधवो देवकुलिकायां स्थिताः । ते च भगवन्तो निस्पृहाः बहिर्ग्रामेषूद्रामकभिक्षाचर्यया गच्छन्ति स्वाध्यायपराश्च तिष्ठन्ति । ततस्ते गृहस्था आवृत्ताः सम्भूय तान् साधून् निमन्त्रयन्ति । साधवो ब्रुवते -बाल-वृद्धादीनां कार्ये ग्रहीष्यामः । एवं घृतादि दुर्लभद्रव्यमपि सुलभं भवति, न च शय्याया व्यवच्छेदो जायते । गतं 'दोषा वा के तस्य ?' इति द्वारम् । अथ 'कारणजाते कस्मिन् कल्पते ?' इति द्वारमाह [ भा. ३५५० ] दुविहे गेलन्नम्मी, निमंतणे दव्वदुल्लभे असिवे । ओमोदरिय पओसे, भए व गहणं अनुन्नायं ॥ वृ- 'द्विविधे' आगाढे अनागाढे च ग्लानत्वे १ तथा निमन्त्रणे २ दुर्लभद्वये ३ अशिवे ४ अवमौदर्ये ५ ‘प्रद्वेषे वा' राजद्विष्टे ६ 'भये वा' बोधिकस्तेनादिसमुत्थे ७, साम्प्रतमेनामेव विवृणोति[भा. ३५५१] तिपरिरयमनागढे, आगाढे खिप्पमेव गहणं तु । कज्जम्मि छंदिया घेच्छिमो त्ति न य बेंति उ अकप्पं ॥ कृ- 'त्रिपरिरयं' त्रीन् वारान् परिभ्रमणं तदनागाढे ग्लानत्वे कर्त्तव्यम् । यदि तथापि ग्लानप्रायोग्यं न लभ्यते ततः पञ्चकपरिहाण्या मासलघुप्राप्ताः शय्यातरपिण्डं गृह्णन्ति । आगाढे तु ग्लानत्वे क्षिप्रमेव ग्रहणं कार्यम् । तथा शय्यातरेण 'भक्त-पानमस्मदृहे गृह्णीत' एवं 'छन्दिताः' निमन्त्रिताः सन्त भणन्ति कार्ये समुत्पन्ने ग्रहीष्याम इति । न च ब्रुवते युष्मदीयं भक्तपानमस्माकं न कल्पते।। [भा. ३५५२] जं वा असहीणं तं भणति तं देह तेन जे कज्जं । निब्बंधे चेव सई, घेत्तूण पसंग वारेंति ॥ वृ- यद् वा द्रव्यं तस्य गृहे 'अस्वाधीनं' नास्तीत्यर्थः तद् 'भणन्ति' याचन्ते इत्यर्थः । यथाअमुकं द्रव्यं प्रयच्छत तेनास्माकं गुरुतरं कार्यम् । अथ शय्यातरो निर्बन्धम् अतीवाग्रहं करोति ततः सकृद्' एकवारं गृहीत्वा भूयः प्रसङ्गं निवारयन्ति ॥ [भा. ३५५३ ] दुल्लभदव्वं व सिया, संभारघयादि घेप्पती तं तु । ओमऽसिवे पनगादिसु, जतिऊणमसंथरे गहणं ॥ वृ-दुर्लभद्रव्यं वा सम्भारघृतादिकं शय्यातरगृहे स्यात्, सम्भारः - बहुद्रव्यसंयोगस्तठप्रधानं घृतं सम्भारघृतम्, आदिशब्दात् शतपाकतैलादि, तच्च ग्लानादिनिमित्तं शय्यातरगृहे गृह्यते । अवमौदर्याऽशिवयोरसंस्तरणे पञ्चकहान्या यतित्वा मासलघुप्राप्ताः शय्यातरकुले ग्रहणं कुर्वन्ति ॥ उवसमण पट्टे, सत्यो वा जा न लब्भते. ताव । [भा. ३५५४] अच्छंता पच्छन्नं, गेण्हंति भए वि एमेव ॥ वृ- प्रद्विष्टस्य राज्ञ उपशमनार्थं तिष्ठन्तः, यद्वा राज्ञा निर्विषया आज्ञप्ताः सन्तो यावत् तत्र सार्थो न लभ्यते तावत् प्रच्छन्नं तिष्ठन्तः शय्यातरकुले भक्त - पानं गृह्णन्ति, मा पर्यटतो राजा वा राजपुरुषा वा द्राक्षन्निति कृत्वा । भयं-बोधिकस्तेनादिप्रभवं तत्र बहिर्ग्रामेषु भिक्षां गन्तुं न शक्यते Page #323 -------------------------------------------------------------------------- ________________ ३२० बृहत्कल्प-छेदसूत्रम् -२-२/६३ स्वग्रामे च न लभ्यते अतः ‘एवमेव' शय्यातरकुले गृह्णन्ति ॥ अथ ‘कया यतनया ग्रहीतव्यः ?' इति द्वारमाह'[भा.३५५५] दिक्खुत्तो सक्खेत्ते, चउद्दिसिं मग्गिऊण कडयोगी। दव्वस्स य दुल्लभया, सागारियसेवणा दव्वे ।। वृ- ‘स्वक्षेत्रे' सक्रोशयोजनाभ्यन्तरे स्वग्राम-परग्रामयोः 'त्रिकृत्वः' त्रीन् वारान् चतसृष्वपि दिक्षु शुद्धं भैक्षं दुर्लभद्रव्यं वा मार्गयित्वा यदि न प्राप्नोति ततः 'कृतयोगी' गीतार्थ 'द्रव्यस्य' शुद्धभरक्त-पानादेर्दुर्लभतां मत्वा सागारिकद्रव्यस्य-शय्यातर पिण्डस्य पतिसेवनां करोति ॥उक्त एकशय्यातर विषयो विधिः । अथानेकशय्यातरविषयं विधिमाह-- [भा.३५५६] नेगेसु पिया-पुत्ता, सवत्ति वणिए घडा वए चेव । एएसिं नाणत्तं, वोच्छामि अहानुपुव्वीए॥ वृ-अनेकेषु शय्यातरेष्वमी भेदाः-पिता-पुत्रौ सपल्यो वा वणिजो वा घटा वा-गोष्ठी व्रजो वा-गोकुलम् । एतेषां द्वाराणां 'नानात्वं' विभागं 'वक्ष्यामि' प्ररूपयिष्यामि यथानुपूर्व्या ॥ प्रतिज्ञातमेव निर्वाहयति[भा.३५५७] पित-पुत्त थेरए या, अप्पभु दोसा य तम्मि उ पउत्थे । . जेहातिअनुन्नवणा, पाहुणए जं विधिग्गहणं ॥ वृ-यदि पिता पुत्रश्च द्वावपि प्रभू तत उभावपि अनुज्ञापयितव्यौ । अथ पिता स्थविर इति कृत्वा चशब्दात् पुत्रोऽप्यतिबाल इति कृत्वा यद्यप्रभुस्तदा नानुज्ञापनीयः । दोषाश्चानुज्ञापनायां निष्काशनादयः प्रभुकृता भवन्ति । अथ स प्रभुः प्रोषितस्ततस्तस्यैव यो ज्येष्ठः पुत्र आदिशब्दादनुज्येष्ठादयो वा तेषामनुज्ञापना कर्तव्या, प्राघुणको वा यस्तस्याभ्यर्हितः सोऽनुज्ञापनीयः । सर्वत्र यद् विधिना ग्रहणं तदेवानुज्ञातं भगवद्भिाविधिनेति ॥ अथैनामेव व्याख्यानयति[भा.३५५८] दुप्पभिइ पिया-पुत्ता, जहि होति पभू ततो भणइ सब्वे । नातिक्कमंतिजं वा, अप व प व तं पुव्वं ॥ वृ-द्विप्रभृतयोऽनियताः पितापुत्रा यत्र प्रभवो भवन्ति तत्र सर्वानपि तान् मिलितान् ‘भणति' अनुज्ञापयति । यं वा प्रभुमप्रभुं वा 'नातिकामन्ति' नाप्रमाणयन्ति तं पूर्वमनुज्ञापयति॥ [भा.३५५९] अप्पभु लहुओ दिय निसि, पभुनिच्छूढे विनास गरहा य । असहीणम्मि पभुम्मि उ, सहीणजेट्ठादऽणुनवणा॥ वृ- यद्यप्रभुमनुज्ञापयन्ति ततो मासलघु । प्रभुश्च समागतो दिवा निष्काशयति चतुर्लघु । निशायां निष्काशयतिचतुर्गुरु । रात्रौ निष्काशिताः स्तेन-श्वापदादिभिर्विनाशं प्राप्नुवन्ति । अन्यत्र वसतिमलभमाना लोकतो गर्हामासादयन्ति, यथा-किं यूयं शोभनैः कर्मभिर्निर्घाटिताः ? वयमपि न प्रयच्छाम इति । अथ 'प्रभुः' पिता न स्वाधीनः किन्तु प्रोषितः ततो यः स्वाधीनः ज्येष्ठादि पुत्र आदिशब्दादनुज्येष्ठादिकोऽपि यः प्रभुः सोऽनुज्ञापयितव्यः । अथ सर्वेऽपि प्रभवः ततो युगपत् ते सर्वेऽप्यनुज्ञापनीयाः ॥ [भा.३५६०] पाहुणयं च पउत्थे, भणंति मेत्तं व नातगं वा से। Page #324 -------------------------------------------------------------------------- ________________ उद्देश : २, मूलं - ६३, [भा. ३५६०] तं पिय आगतमेत्तं, भांति अमुएण ने दिनं ॥ - प्रभौ प्रोषिते सति प्राघुणको यस्तस्याभ्यर्हितः समायातः तं वा मित्रं वा तदीयं 'ज्ञातकं वा’ स्वजनं ‘भणन्ति’ अनुज्ञापयन्ति । 'तंच' प्रभुमागतमात्रमेव भणन्ति- 'अमुकेन' युष्मन्मित्रादिना अस्माकमिदं गृहं प्रदत्तम् । स चामीष्टनामग्रहणे कृते न निर्घाटयति ॥ अप्रमुविषयं विधिमाह[ भा. ३५६१] अप्पभुणा उ विदिने, भांति अच्छामु जा पभू एती । पत्ते उ तस्स कहणं, सो उ पमाणं न ते इतरे ॥ वृ- अप्रभुरनुज्ञापितो भणति अहं न जानामि । ततः साधवो भणन्ति यावत् प्रभुरागच्छति' तावद् वयं तिष्ठामः । एवमनुज्ञापितेनाप्रभुणा प्रतिश्रये यदा प्रभुः प्राप्तो भवति तदा तस्याग्रे यथाभूतं कथयितव्यम् । कथिते च स ददाति वा निष्काशयति वा स एव तत्र प्रमाणम्, न 'ते' पूर्वानुज्ञापिताः'इतरे' अप्रभवः । एवमुक्तेन विधिना यद् वसतेर्ग्रहणं तदेवानुज्ञातमिति ॥ [भा. ३५६२] इय एसाऽणुत्रवणाजतणा पिंडो पभुस्स ऊ वज्जो । सेसाणं तु अपिंडो, सो वि य वज्जो दुविहदोसा ॥ वृ- 'इति' एवमुक्तप्रकारेण एषा प्रतिश्रयानुज्ञापनायां यतना प्रोक्ता । अथ शय्यातरपिण्डपरिहरणे यतनाऽभिधीयते यः प्रभुः स शय्यातर इति कृत्वा तद्गृहे पिण्डो वय: । 'शेषाणाम्' अप्रभूणाम् 'अपिण्डः ' शय्यातरपिण्डो न भवति, परं सोऽपि द्विविधदोषात्' भद्रकप्रान्तकृतदोषपरिहारार्थं वर्जनीयः ॥ गतं पितापुत्रद्वारम् । अथ सपत्नीद्वारम् [भा. ३५६३ ] एगे महानसम्मी, एक्कतो उक्खित्ते सेसपडिनीए । जेट्ठा अनुन्नवणा, पउत्थे सुय जेट्ठ जाव पभू । 11 ३२१ वृ- शय्यातरे प्रोषिते सति यास्तदीयाः पल्यस्तासां यद् भोजनं तत्र चतुर्भङ्गी-एकत्र राद्धमेकत्र भुक्तं १ एकत्र राद्धं विष्वग् भुक्तं २ विष्वग् राद्धमेकत्र भुक्तं ३ विष्वग् राद्धं विष्वग् भुक्तम् ४ । तत्र “एगे महानसम्मी एनतो' त्ति एकस्मिन् महानसे राद्धमेकतो भुक्तमिति प्रथमभङ्गो गृहीतः । “उक्खित्तं”ति एकत इति पदमनुवर्त्तते, एकतः- एकस्मिन् स्थाने 'उत्क्षिप्तं' मोजनभूमिकां नीतं भुक्तमिति यावत् अर्थादापन्नं विष्वग् राद्धम्, एतेन तृतीयभङ्ग उपात्तः । द्वितीय-चतुर्थभङगौ पुनरवर्जनीयाविति कृत्वा न गृहीतौ । “सेसपडिनीए "त्ति यद् एकत्र राद्धमेकत्र भुक्तं तत्र भुतशेषं यद्यपि शेषसपत्नीभि स्वगृहं प्रत्यानीतं तथापि भद्रक-प्रान्तदोषपरिहारार्थं वर्जनीयम् । तथा प्रभौ प्रोषिते तदीया ज्येष्ठभार्या वसतिमनुज्ञाप्यते । अथ सा न सुतमाता ततोऽनुष्ठाऽपि या पुत्रवती । द्वयोर्वा पुत्रवत्योर्या ज्येष्ठपुत्रा, यत्पुत्रो वा प्रभुः, या वा स्वयं गृहे 'प्रभुः' प्रमाणभूता सा अनुज्ञापनीया । एषा चिरन्तनगाथा | अथैनामेव विवृणोति - [मा. ३५६४] तम्मि असाही जेट्ठपुत्तमाया व जा व से इट्ठा । अह पुत्तमाय सव्वा, जीसे जेट्ठो पभू वा वि ॥ वृ- ‘तस्मिन्’ गृहस्वामिनि ‘अस्वाधीने' असन्निहिते ज्येष्ठा भार्या पुत्रमाता वा या वा “से” तस्य गृहपतेः 'इष्टा' वल्लभा सा वसतिमनुज्ञापनीया । अथ सर्वा अपि पुत्रमातरोऽभीष्टाश्च ततो यस्याः पुत्रो ज्येष्ठस्तामनुज्ञापयन्ति । अथ ज्येष्ठः पुत्रो न प्रभुः ततः कनिष्ठोऽपि यस्याः पुत्रः 19 21 Page #325 -------------------------------------------------------------------------- ________________ ३२२ प्रभुः सा अनुज्ञापयितव्या ॥ पिण्डग्रहणे विधिमाह[भा. ३५६५ ] बृहत्कल्प-छेदसूत्रम् -२-२/६३ असहीणे पभुपिंडं, वज्रंती सेसए तु भद्दादी । साही जहि भुंजइ, सेसे वि उ भद्द पंतेहिं ॥ वृ- अस्वाधीने गृहस्वामिनि या तत्पत्नी प्रभुस्तस्याः पिण्डं साधवो वर्जयन्ति । शेषसपत्नीगृहेषु शय्यातरपिण्डः परं भद्रक-प्रान्तकृता दोषा भवन्ति अतस्तासामपि पिण्डः परिहर्त्तव्यः । अथ स्वाधीनः शय्यातरः ततो यस्या गृहे भुङ्क्ते तत्र शय्यातरपिण्ड इति कृत्वा वर्जयन्ति । शेषाण्यपि पत्नीगृहाणि भद्रक-प्रान्तदोषपरिहारार्थं वर्जयन्ति ॥ [भा. ३५६६] एत्थ रंधणे भुंजणे य वज्रेति भुत्तसेसं पि । एमेव वीसु रद्धे, भुंजंति जहिं तु एगत्था ॥ वृ- एकत्र राद्धमेकत्र भुक्तमित्यादिचतुर्भङ्गयां यत्रैकत्र रन्धनं भोजनं वा तत्र भुक्तशेषमपि वर्जयन्ति, प्रथमभङ्गे इत्यर्थः । एवमेव विष्वग् राद्धेऽपि यत्रैकत्र भुञ्जते तत्र भुक्तशेषमपि न गृह्णन्ति, तृतीयभङ्गे इति भावः । एवमस्वाधीनभर्तृकाणां विधिरुक्तः । अथ स्वाधीनभर्तृकाणां यो विधिस्तमाह [भा. ३५६७ ] निययं व अनिययं वा, जहिं तरो भुंजती तु तं वज्जं । सासु विनय गिण्हति मा छोभगमादि भद्दाई ॥ वृ- नियतं वा अनियतं वा यत्र शय्यातरो भुक्के तद् गृहं वर्जनीयम् । नियतं नाम-यदेकस्या एव गृहे प्रतिदिनं भुङ्क्ते । अनियतं तु-वारकेण सर्वासामपि गृहे भुङ्क्ते । शेषपत्नीगृहेषु यद्यपि शय्यातरपिण्डो न भवति तथापि गृह्णाति मा भद्रक-प्रान्तकृता छोभकादयो दोषा भवेयुः । छोभकःप्रक्षेपकः तं शेषपत्नीगृहे भद्रकः शय्यातरः कुर्यात् 'मम गृहे तावदमी न गृह्णन्ति अंत एवमपि दत्त्वा पुण्यमुपार्जयामि' इति बुध्या । यस्तु प्रान्तः स द्वेषं यायात्- अहो ! दुर्द्दष्टधर्माणोऽमी, यदि भदीयगृहे न कल्पते तत एतासां मद्दत्तोपजीविनीनां गृहे कथं कल्पते ? इति प्रद्विष्टश्च प्रतिश्रयान्निष्काशयेत् ।। गतं सपत्नीद्वारम् । अथ वणिग्द्वारमाह [भा. ३५६८ ] दोसु वि अव्वोच्छिन्ने, सव्वं जंतम्मि जं च पाउग्गं । खंधे संखडि अडवी, असती य धरम्मि सो चेव ॥ वृ- कोऽपि शय्यातरी देशान्तरं गन्तुकामो नगरादेर्बहि स्थितो वर्त्तते, तस्य च 'द्वयोरपि गृहयोः ' अन्तर्गृहाद् बहिर्गृह बहिर्गृहाच्चाभ्यन्तरगृहे भक्तादिकमव्यवच्छिन्नं यद् आनीयते तन्न कल्पते । अथासौ शय्यातरस्ततः स्थानात् प्रस्थितः ततः 'याति' गच्छति तस्मिन् 'सर्वं' तद्दिवसनीतमन्यदिवसनीतं च भक्त-पानं न कल्पते । सर्वमित्युक्ते मा भूदतिप्रसङ्ग इत्याशकुयाह यच्च 'प्रायोग्यं' यतिजनयोग्यम्, एषणीयं प्रासुकं चेत्यर्थः, “खंधे "त्ति स्कन्धप्रदेशे मोट्टां कृत्वा बहिग्रमेषु व्यवहरन् शय्यातरः साधूनां दधि- दुग्धादिकं दद्यात्, "संखडित्ति सङ्घडी कुर्वन् साधूनामपि दद्यात्, “अडवि”त्ति अटवीं वा काष्ठच्छेदनादिनिमित्तं गृहीतशम्बलो गच्छन् साधून् दृष्ट्वा तन्मध्यात् तेषामपि दद्यात्, एतेषु त्रिष्वपि न कल्पते । “असई य घरम्मि सो चेव" त्ति यदि शय्यातरः सपुत्र-पशु- बान्धवो गृहे नास्ति किन्तु देशान्तरं प्रोषितः तदा देशान्तरस्थितोऽपि स एव शय्यातरो नान्य इति नियुक्तिगाथासमासार्थः । अथैनामेव विर्वरीषुराह Page #326 -------------------------------------------------------------------------- ________________ उद्देशक : २, मूलं-६३, [भा. ३५६९] ३२३ [भा.३५६९] निग्गमगाइ बहि ठिए, अंतो खेत्तस्स वजए सव्वं । बाहिं तद्दिननीए, सेसेसुपसंगदोसेण ॥ वृ-शय्यातरो वाणिज्येन देशान्तरं गन्तुकामो निर्गमकः-प्रस्थानं स शुभमुहूर्ते क्रियते इत्यादिकारणेन नगरादेर्बहिर्गत्वा सक्रोशयोजनक्षेत्रस्याभ्यन्तरे बहिर्वा स्थितो भवेत् । यदि 'अन्तः' क्षेत्राभ्यन्तरे स्थितः तदा ‘सर्वं तदिवसा-ऽन्यदिवसनीतं शय्यातरपिण्ड इति कृत्वा वर्जयेत् । अथासौ क्षेत्रा बहि स्थितस्ततस्तद्दिवसनीतं शय्यातरपिण्डः, शेषदिवसनीतंतुयत् परिवासितं यद्वा तत्रैवोपस्कृतं तन्न शय्यातरपिण्डः, परं तदपि 'प्रसङ्गदोषेण' ‘मा भद्रक-प्रान्तकृतदोषाणां प्रसङ्गो भवेत्' इति कृत्वा न ग्रहीतव्यम् ॥ [मा.३५७०]ठितो जया खेत्तबहिं सगारो, भत्तादियं तस्स दिने दिने य। - अच्छिन्नमाणिज्जति निज्जती य, गिहा तदा होति तहिं वि वजे ॥ वृ-यदा सागारिकः क्षेत्राद् बहि स्थितस्तदा तस्य भक्तादिकमव्यवच्छिन्नं दिने दिने गृहाद् बहिरानीयते बहिस्थानाच्च गृहं नीयते तत् सर्वमपि तत्र स्थितस्य तस्य वर्जयेत् ॥ [भा.३५७१] बाहिं ठिय पठियस्स उ, सयं व संपत्थिया उ गेण्हति । तत्थ उ भद्दगदोसा, न होति न य पंतदोसा उ॥ वृ-शय्यातरः क्षेत्राद् बहि स्थितो यस्यां वेलायामग्रतो गन्तुंप्रस्थितः, स्वयं वा साधवः पूर्णे मासकल्पे सम्प्रस्थिताः तदा तद्दिवसा-ऽन्यदिवसानीतं सर्वमपि प्रायोग्यं भक्त-पानं गृह्णन्ति । कुतः ? इत्याह-'तत्र' तस्यां वेलायां गृह्यमाणे भद्रकदोषाः प्रान्तदोषाश्च न भवन्ति, पुनर्ग्रहणाभावादिति भावः ।। अथ स्कन्धपदं सङ्घडिपदमडवीपदं च व्याख्याति- [भा.३५७२] अंतो बहि कच्छउडियादि ववहरंते पसंगदोसा उ । देउल-जन्नगमादी, कट्ठादऽडविं व वचंते॥ . वृ-क्षेत्रस्यान्तर्बहिर्वा शय्यातरः 'कक्षापुटिकादि' कक्षाप्रदेशे पुटा यस्य ल कक्षापुटिकःगृहीतोभयमोट्टाक इत्यर्थः, आदिशब्दात् कौतुपिकादिबिहिामेषु व्यवहरन्साधूनां दधिदुग्धादिकं दापयति । तत्र क्षेत्रस्यान्तस्तद्दिननीतमन्यदिननीतं च शय्यातरपिण्डः । बहि पुनस्तद्दिवसनीतं शय्यातरपिण्डः, शेषदिवसनीतं न शय्यातरपिण्डः, परं भूयः प्रसङ्गदोषान्न गृह्यते । एवं देवकुलतडाग-यज्ञादिकां सङ्खडीं कुर्वता काष्ठादिनिमित्तं च शम्बकंगृहीत्वाऽटवीं व्रजता क्षेत्रान्तर्दीयमानं शय्यातरपिण्डः । क्षेत्रबहिस्तद्दिवसनीतं शय्यातरपिण्डः, न द्वितीयादिदिवसनीतम्, परं तदपि न ग्रहीतव्यम्, मा भूयः सङ्घडिकरणमटवीगमनं वा साधूनां दानार्थं कार्षीदिति कृत्वा ।। अथ 'गृहे असन् स एव शय्यातरः' इति पदं व्याचष्टे[भा.३५७३] मुत्तूण गेहं तु सपुत्त-दारो, वाणिजमादी जति कारणेहिं । सयं व अन्नं व वएज देसं, सेजातरो तत्थ स एव होति ॥ कृ-'मुक्त्वा' परित्यज्य गेहं साधूनर्पयित्वेत्यर्थः सपुत्र-दारः शय्यातरो वाणिज्यादिभिकारणैर्यदि स्वकमन्यं वा देशं व्रजति तत्रापि स एव शय्यातरो भवति, न पुनर्दूरदेशान्तरस्थितत्वात् तस्य शय्यातरत्वमपगच्छतीति ।। गतं वणिग्द्वारम् । घटाद्वारमाह [भा.३५७४] महतर अनुमहतरए, ललियासण कडुअदंडपतिए य। Page #327 -------------------------------------------------------------------------- ________________ ३२४ बृहत्कल्प-छेदसूत्रम् -२-२/६३ एतेहि परिग्गहिया, होंति घडातो तदा काले || वृ- महत्तरोऽनुमहत्तरको ललितासनिकः कटुको दण्डपतिकश्चेति, एतैः पञ्चभि परिगृहीतास्तदा पूर्वकाले 'घटाः' गोष्ठयः 'भवन्ति' बभूवुरित्यर्थः ।। अथामूनेव महत्तरादीन् व्याख्यानयति[ भा. ३५७५ ] सव्वत्थ पुच्छणिज्जो, तु महतरो जेट्ठमासण धुरे य । तहियं तु असन्निहिए, अनुमहतरतो धुरे ठाति ॥ वृ- यः 'सर्वत्र' सर्वेषु गोष्ठिकार्येषूत्पद्यमानेषु सर्वैरपि गोष्ठिपुरुषैः प्रच्छनीयः, यस्य च ज्येष्ठं बृहत्तरमासनम्, 'धुरि च ' सर्वेषामादौ स्थाप्यते स महत्तरः । ततः 'तस्मिन्' मूलमहत्तरेऽ सन्निहिते यस्तत्र सर्वैरपि प्रच्छनीयः 'धुरि च' प्रथमं तिष्ठति सोऽनुमहत्तरः ॥ [भा. ३५७६ ] भोयणमासणमिट्टं, ललिए परिवेसिया दुगुणभागो । कडुओ उ दंडकारी, दंडपती उग्गमे तं तु ॥ वृ-यस्य भोजनमासनं च 'इष्टम्' मनोभिरुचितं क्रियते, परिवेषिका च स्त्री तस्याभीष्टा क्रियते, भोजनस्य द्विगुणो भागो दीयते स ललितमशनमासनं वाऽस्येति व्युत्पत्त्या त्वलिताशनिको ललितासनिको वा । अपराधापन्नस्य गोष्ठिकस्य यो दण्टपरिच्छेदकारी स कटुको भण्यते । यः पुनस्तं दण्डमुद्गमयति स दण्डपति । एतेषां महत्तरादीनां यद् देवकुल- सभादिकं तस्य कथमनुज्ञापना विधेया ? इत्याह [भा. ३५७७] उल्लोमाऽणुत्रवणा, अप्पभुदोसा य एक्कओ पढमं । ट्ठादि अनुन्नवणा, पाहुणए जं विहिग्गहणं ॥ बृ- महत्तरादिक्रममुल्लङ्घ्य यदि उल्लोमं प्रतीपक्रमेणानुज्ञापनां करोति तदा मासलघु, 'अप्रभुदोषाश्च' निष्काशनादयो भवेयुः, अतः सर्वेऽप्येकतो मिलिताः प्रथममनुज्ञापनीयाः । अथ सर्वे मिलिता नावाप्यन्ते ततो ज्येष्ठमहत्तरस्य, तदभावे यथाक्रममनुमहत्तरादीनामनुज्ञापना विधेया । अथ महत्तरादीनामेकोऽपि गृहे न प्राप्यते ततो यस्तेषामभ्यर्हितः प्राघुणकस्तमनुज्ञापयन्ति । एवंविधेन विधिना यदुपाश्रयस्य ग्रहणं तदेवानुज्ञातम्, नाविधिग्रहणम् ॥ अमुमेवार्थं स्फुटतरमाह[भा. ३५७८ ] उल्लोम लहू दिय निसि, तेनेक्कहि पिंडिए अनुन्नवणा । असहीणे जेट्ठादि व, जइ व समाणा महतरं वा ॥ वृ-यदि 'उल्लोमं' महत्तरादिक्रमव्यत्यासेनानुज्ञापयन्ति तदा मासलघु । तेनैकत्र 'पिण्डितानां मिलितानां पञ्चानामप्यनुज्ञापना कर्त्तव्या । अथ सर्वेऽपि मिलिता अस्वाधीनाः न प्राप्यन्ते इत्यर्थः ततो ज्येष्ठ - महत्तरादिगृहेषु गत्वा अनुज्ञापना विधेया । 'यति वा' यावतः त्रिप्रभृतीन् तत्र सतःस्वाधीनान् पश्यन्ति तावतामनुज्ञापनां कुर्वन्ति । महत्तरं वा एकमप्यनुज्ञापयन्ति, तस्य प्रमाणभूततया सर्वेषामनतिक्रमणीयत्वात् ।। गतं घटाद्वारम्, व्रजद्वारमाह - [भा. ३५७९ ] बाहिं दोहणवाडग, दुद्ध-दही-सप्पि-तक्क-नवनीते । आसन्नम्मि न कप्पति, पंच पर उप्परं वोच्छं ॥ वृ- कस्यापि शय्यातरस्य सम्बन्धी ग्रामाद् बहिर्गवां दोहनवाटको भवेत्, तस्मिन् दुग्धदधिसर्पिस्तक्र-नवनीताख्यानि पञ्च 'पदानि' द्रव्याणि भवन्ति । एतच्च द्रव्यपञ्चकम् 'आसन्ने' क्षेत्राभ्यन्तरे दीयमानं न कल्पते, शय्यातरपिण्डत्वात् । अथैतानि दुग्धादीनि क्षेत्रस्य 'उपरि' Page #328 -------------------------------------------------------------------------- ________________ ३२५ उद्देशक : २, मूलं-६३, [भा. ३५७९] बहिर्वर्तन्ते ततस्तद्विषयं ग्रहणविधिमहं वक्ष्यामि ॥ प्रतिज्ञातमेव निर्वाहयति[भा.३५८०] निजंतं मोत्तूणं, वारग भति दिवसए भवे गहणं । छिन्नं भतीय कप्पति, असती य धरम्मि सो चेव ॥ वृ-गोकुलाद् दुग्धादिपञ्चकं शय्यातरगृहे यद् नीयते स शय्यातरपिण्डो भवति, अतस्तद् दुग्धादिकं नीयमानं मुक्त्वा यदन्यत् तत्रैव गोकुले परिभुज्यते तन्न भवति शय्यातरपिण्डः, परं तदपि भद्रक-प्रान्तदोषपरिहारार्थंन गृह्यते । यस्मिन् पुनर्दिवसे 'भृतकस्य गोपालस्य वारकस्तस्मिन् दुग्धादिकं शय्यातरपिण्डो न भवति,परं शय्यातरस्यापश्यतो ग्रहणं भवेद् न पश्यतः । तथा भृतिर्नाम-गोपालकस्य दुग्धचतुर्थभागादि परिभाषिता दिवसदैवसिकी वृत्ति तया छिन्नं विभक्तं यद् दुग्धादिकं तद् गोपालसत्कमिति कृत्वा कल्पते ग्रहीतुं यदि शय्यातरो न पश्यति । तथा यदि साधूनां शय्यां समर्प्य शय्यातरः सपुत्र-दारो वजिकायां गच्छेत् ततो गृहे।विद्यमानोऽपि स एव शय्यातरो भवति ॥ अथास्या एव विषमपदानि विवृणोति[भा.३५८१] बाहिरखेत्ते छिन्ने, वारगदिवसे भतीय छिन्ने य। सो उन सागरिपिंडो, वज्जो पुन दिढि भद्दादि ।। वृ-सक्रोशयोजनक्षेत्रस्य बहिर्यश्छिन्नो विभागः शय्यातरगृहे न नीयते, गोपालकवारकदिवसे वा यः सर्वोऽपि दोहो गोपसत्कः, प्रतिदिवसलभ्यो वा भृत्या छिन्नो यो दुग्धचतुर्थभागादिरूपो विभागः स एष सर्वोऽपि सागारिकपिण्डो न भवति, परं 'भद्रक-प्रान्तकृता दोषा दृष्टे सति मा भूवन्' इति कृत्वा शय्यातरस्य पश्यतः सोऽपि वर्जनीयः॥अथ यदुक्तं सूत्रे-“एगंतत्थ कप्पागं ठवइत्ता अवसेसे निम्विसिज्जा" तदेतद् विभावयिषुराह[भा.३५८२] एगं ठवे निविसए, दोसा पुन भद्दए य पंते य । निस्साए वा छुभणं, विनास गरहं व पावंति॥ वृ-यद्यनेकेषु शय्यातरेषु निष्कारणे एकं सागारिकं स्थापयन्ति शेषान् ‘निर्विशन्ति' उपभुञ्जते ततो भद्रक-प्रान्तविषया दोषा भवन्ति । भद्रको निर्विश्यमानशय्यातरस्य निश्रया तदीय-भक्तपानमध्ये प्रक्षेपं कुर्यात्, 'मम गृहे तावदमी न गृह्णन्ति अतो मदीयमिदं भवद्भि संयतानां दातव्यम्' इति कृत्वा । यस्तु प्रान्तः स एक एव स्थाप्यमानः प्रद्वेषं यायात्, प्रद्विष्टश्च वसतेर्निष्काशनं कुर्यात्, निष्काशिताश्च स्तेन-श्वापदादिभिर्विनाशं लोकाद् वा गर्हामासादयन्ति । कारणे पुनरेकमपि स्थापयन्तो निर्दोषाः ।। कथम् ? इत्याह[भा.३५८३] सड्डेहि वा वि भणिया, एग ठवेत्ताण निविसे सेसे । गणदेउलमादीसु व, दुक्खं खु विवजिउं बहुगा॥ . वृ- वाशब्द उत्सर्गपदे तावन्न कल्पते एकः सागारिकः स्थापयितुम्, द्वितीयपदे तु कल्पतेऽपीत्यस्यार्थस्य सूचनार्थः । ये श्राद्धाः-साधुसामाचारीकोविदास्तैः साधवो भणिताःआर्या ! एकं शय्यातरं स्थापयित्वा शेषान् निर्विशत, मा सर्वानपि परिहरत । एवमुक्ता एकं स्थापयित्वा शेषान् निर्विशन्ति । अथवा गणस्य-बहुजनसमूहस्य सामान्ये देवकुल-सभादौ स्थिता अनुक्ता अप्येकं स्थापयित्वा शेषान् निर्विशन्ति । कुतः ? इत्याह-'दुःखं' दुष्करं तत्र बहून् वर्जयितुम् ।। Page #329 -------------------------------------------------------------------------- ________________ ३२६ [ भा. ३५८४ ] गिण्हंति वारएणं, अनुग्गहत्थीसु जह रुई तेसिं । पक्कनपरीमाणं, संतमसंतेयरे दव्वे ॥ वृ- यद्वा ते सर्वेऽपि शय्यातरा अनुग्रहार्थिनः ततो यथा तेषं रुचिरुपजायते तथा वारकेण गृह्णन्ति । तत्र च पक्के - उपस्कृते अन्ने परिमाणं ज्ञातव्यम् - किं परिमितानामुपस्क्रियते ? उतापरिमितानाम् ? इति । तदपि द्रव्यं तस्य गृहे तत्र देशे वा 'सद्' विद्यमानम् ? उत 'असद्' अविद्यमानम् ? । यदि पूर्वपरिणामेन सद् द्रव्यमुपस्कुर्वन्ति तदा कल्पते, अन्यथा भजनीयम् । एवं तस्य शय्यातरस्य द्रव्ये सम्यगुपयोगो दातव्यः ॥ मू. (६४) नो कप्पइ निग्गंधाण वा निग्गंधीण वा सागारियपिंड बहिया अनीहडं सट्ठ पडिग्गाहित्तए । बृहत्कल्प-छेदसूत्रम् -२-२/६३ मू. (६५) नो कप्पइ निग्गंथाण वा निग्गंथीण वा सागरिय पिंड बहिया अनीहडं असंसठ्ठे पडिग्गाहेत्ता ॥ [भा. ३५८५ ] अंतो नून न कप्पइ, कप्पइ निक्खामिवो हु मा एवं । पत्तेय विमिस्सं वा, पिंडं गेण्हेज्जऽ तो सुत्तं ॥ वृ- नूनम् ' अन्तः' गृहाभ्यन्तरे शय्यातरपिण्डो न कल्पते, गृहाद् बहिर्निष्क्रामितस्तु कल्पते। एवं विचिन्त्य मा ‘प्रत्येकम्' असंसृष्टं 'विमिश्रं वा' संसृष्टं पिण्डं गृह्णीयात्, अत एतत् सूत्रमारभ्यते । वक्ष्यमाणसूत्रद्वयस्याप्ययमेव सम्बन्धो द्रष्टव्यः ॥ अनेन सम्बन्धेनायातस्यास्य व्याख्या-नो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा सागारिकपिण्डं बहिर्वाटकाद् 'अनिर्हतम्' अनिष्कामितम् 'असंसृष्टं वा’ अन्यदीयपिण्डैः सहामीलितं 'संसृष्टंचा ' अन्यदीयपिण्डैः समं मीलितं प्रतिग्रहीतुमिति सूत्रार्थः ।। अथ भाष्यविस्तरः [भा. ३५८६ ] वाडगदेउलियाए, इच्छा देंतम्मि गहण तह चेव । नीसमणीसट्टे, गहणा - Sगहणे इमे दोसा ॥ वृ-शय्यातरवाटकस्य मध्ये काचिद् देवकुलिका तस्या यद् वानमन्तरं तदर्थं वाटकवास्तव्या अगारिणः सङ्घडीं कुर्वन्ति । तत्र च भिक्षाचरेभ्यो दातुं तेषामिच्छा समजनि । ततो वाटकवास्तव्यजने 'ददति' दातुमुपस्थिते ग्रहणं तथैव मन्तव्यं यथा पूर्वसूत्रे अभिहितम् । तथा निसृष्टं नाम-यद् वल्यादिकं वानमन्तरस्य निवेदितम्, अनिसृष्टं तु तद्विपरीतम्, तयोर्ग्रहणेऽग्रहणे च 'अमी' वक्ष्यमाणा दोषा भवन्तीति सङ्ग्रहगाथासमासार्थः ।। अथैनामेव विवृणोति - [भा. ३५८७] उप्पत्तियं वा वि धुवं व भोजं, तस्सेव मज्झम्मि उ वाडगस्स । अमिस्सिते सागरिचोल्लगम्मि, अन्नेहिं सो चेव उ तस्स पिंडो ॥ वृ- 'तस्यैव' सागारिकसत्कस्य वाटकस्य मध्ये वानमन्तरमुद्दिश्य 'भोज्यं' सङ्घडिर्भवेत्, तच्चौत्वत्तिकं या स्वाद् ध्रुवं वा । औत्पत्तिकं नाम-पर्वतिथिमन्तरेणाकस्मिकम् । ध्रुवं तु-पर्वतिथिभावि, यथा नवम्यां दशम्यां वा । तत्रान्यैश्चोल्लकैः समममिश्रितो यः सागारिकचोल्लकस्तस्मिन् सङ्घव्यां दीयमाने स एव तस्य शय्यातरस्य पिण्डो भवति ॥ अस्य निवेदितस्यानिवेदितस्य वा ग्रहणे तावदिमे दोषाःभद्दो तन्नीसाए, पंतो घेप्पंते दवणं भणइ । [भा. ३५८८] Page #330 -------------------------------------------------------------------------- ________________ उद्देश : २, मूलं- ६५, [भा. ३५८८ ] ३२७ अंतोघरे न इच्छह, इह गहणं दुट्ठधम्मो त्ति ।। वृ- यः सागारिको भद्रकः सः 'तन्निश्रया' वानमन्तरनिवेदनाव्याजेनान्यदप्यात्मीयमाहारजातं तत्र प्रक्षिपेत् । यस्तु प्रान्तः स तथा गृह्यमाणं दृष्ट्वा भणति 'अन्तर्गृहे' गृहाभ्यन्तरे दीयमानं मदीयं पिण्डं नेच्छथ, इह पुनरेवं दीयमानस्य ग्रहणं कुरुथ, अहो ! दुष्टधर्माणो यूयमिति । तथैतद्दोषभयान्न गृह्णन्ति ततः किं भवति ? इत्याह [भा. ३५८९] तेसु अगिण्हंतेसु य, तीसे परिसाए एवमुप्पजे । कोजाइ किं एते, साहू घेत्तुं न इच्छंति ॥ वृ- 'तेषु' साधुषु तं शय्यातरसत्कं निवेदनापिण्डमगृह्णानेषु 'तस्याः' सङ्घडिकारिण्याः पर्षद एवं चिन्ता समुत्पद्यते, यथा-'को जानाति' को नामामुमर्थं सम्यग् वेत्ति किम् 'एते' साधव इदं शय्यातरसत्कमाहारजातं ग्रहीतुं नेच्छन्ति ? | [भा. ३५९० ] नूनं से जाति कुलंव गोत्तं, आगंतुओ सो य तहिं सगारो । भूणघऽसोयं व ततो एवि, जं अम्ह इच्छंति न सेजदातुं ॥ वृ- नूनं "से" तस्य शय्यास्वामिनो जानन्त्यमी कुलं वा गोत्रं वा, यथाऽयं नीचकुलोत्पन्नो हीनगोत्रो वेति । स च सागारिकः 'तत्र' ग्रामादावागन्तुकः अतो न तदीयं कुलादि तत्र कोऽपि वेत्ति । यद्वा ते गृहस्थाश्चिन्तयेयुः - 'भ्रूणघ्नः' बालमारकोऽयं शौचं वा शुचिसमाचारतारूपमस्य नास्ति, तत एतदीयं पिण्डं त्यक्त्वा यदमी अस्माकं चोल्लकं ग्रहीतुमिच्छन्ति, न शय्यादातुः सम्बन्धिनम् ।। ततः सागारिक इत्थं चिन्तयेत् [भा. ३५९१] ओभामिओ नेहि सवासमज्झे, चंडालभूतो य कतो इमेहिं । गेहे वि निच्छंति असाधुधम्मा, अतो परं किं व करेज्ज अन्नं ॥ वृ- अपभ्राजितोऽहम् 'अमीभि' श्रमणकैः 'स्ववासमध्ये' स्वकीयसहवासिजनमध्ये, चाण्डालभूतश्च कृतोऽहममीभिर्मुण्डैः, गेहेऽपि च मदीये नेच्छन्त्यमी असाधुधर्माणः पिण्डं ग्रहीतुम्, अतः परं किं वा मम ‘अन्यद्' अपरं कुर्यु ? यत् कर्त्तु योग्यं तदमीभि कृतमिति भावः ॥ ततश्च[भा. ३५९२]राओ दियावा वि हु नेच्छुभेज्जा, एगस्सऽ णेगाण व सेज्जछेदं । अद्वाण निंता व अलंभे जंतू, पावेज तं वा वि अगिण्हमाणा || वृ- रात्रौ वा दिवा वा साधून् प्रतिश्रयाद् निष्काशयेत् । 'एकस्य वा' तस्यैव गच्छस्य 'अनेकेषां वा' बहूनां गच्छानां शय्यादानव्यवच्छेदं कुर्यात् । ततोऽध्वनि वहमाना निर्गच्छन्तोवा साधवस्तदीयदोषेण वसतिमलभमाना यत्परितापनादिकं प्राप्नुयुः तत् ते शय्यातरचोल्लकमगृह्णानाः प्राप्नुवन्ति, तन्निष्पन्नं तेषां प्रायश्चित्तमिति भावः ।। एवमसंसृष्टपिण्डविषया दोषा उक्ताः । अथ संसृष्टपिण्डविषयानाह [भा. ३५९३] संसस्स उ गहणे, तहियं दोसा इमे पसजंति । तन्नीसाए अभिक्खं, संखडिकारावणं होज्जा ।। वृ- यद्यन्यदीयचोल्लकैः संसृष्टं सागारिकपिण्डं गृह्णन्ति तदा तत्रैते दोषाः प्रसजन्ति-'तन्निश्रया' 'यद्यन्यदीयपिण्डसंसृष्टो मदीयः पिण्डो अमीषां कल्पते तत इत्थं कृत्वा भूयो भूयो दापयिष्यामि' इत्यालम्बनेन वाटकवास्तव्यजनैरभीक्ष्णं सङ्घडीकारापणं भवेत् ॥ Page #331 -------------------------------------------------------------------------- ________________ ३२८ बृहत्कल्प-छेदसूत्रम् -२-२/६५ [भा.३५९४]अलऽम्ह पिंडेण इमेण अज्जो !, भुजो न आनेति जहेस इत्थं । साहू न इच्छंति इमस्स दोसा, अम्हे वि वज्जेमुन को वि एस ॥ वृ-अथ भूयो यथैष सागारिकोऽत्र पिण्डं नानयतीत्येवमर्थं साधवो गृहस्थान् ब्रुवते-आर्या! अलमस्माकमनेन संसृष्टपिण्डेनेति । ततस्तेऽगारिणश्चिन्तयेयुः-अस्य सागारिकस्य दोषाद् यदि साधवोऽमुं पिण्डं नेच्छन्ति ततो वयमपि दान-ग्रहणादिव्यवहारमनेन सह वर्जयामः, यतो न कोऽप्येष विशेषतो ज्ञायते, आगन्तुकत्वात् ॥ [भा.३५९५]अगम्मगामी किलिबो।ऽहाऽयं, बोट्टी व हुज्जा से सुणादिणा वा। दोसा बहू तेन जहिं सगारो, पिंडं नए तत्थ उ नाभिगछे । वृ-अथवाऽयमगम्यगामी 'क्लीबो वा' नपुंसकः किल भविष्यति, 'बोट्टी वा' विट्टालना "से" तस्य शय्यातरपिण्डस्य शुनकादिना कृता भवेत् । एवमादयो बहवो दोषा यतो भवन्ति तेन यत्र सङ्खडीकरणे सागारिकः स्वकीयं पिण्डं नयति तत्र प्रथमत एव नैवाभिगच्छेत् ।। मू. (६६) नो कप्पइ निग्गंथाण वा निग्गंधीण वा सागारयपिंडं बहिया नीहडं असंसर्ल्ड पडिग्गाहित्तए। मू. (६७) कप्पइनिग्गंथाण वा निग्गंथीण वा सागारियपिंडंबहिया नीहडं संसद्धं पडिग्गाहित्तए।। वृ-अस्य व्याख्या प्राग्वत् । नवरं सागारिकपिण्डो वाटकाद् बहिर्निष्कामितोऽपि ‘असंसृष्टः' अन्यपिण्डैः समममीलितो न कल्पते, संसृष्टस्तु कल्पते इति ॥ अथ भाष्यम्[भा.३५९६] बहिया उ असंसट्टे, दोसा ते चेव मोत्तु संसह । संसठ्ठमणुन्नायं, पेच्छउ सागारितो मा वा ॥ वृ-सागारिकवाटकाद् बहिर्निष्कामिते असंसृष्टे गृह्यमाणे 'त एव' पूर्वसूत्रोक्ता भद्रकप्रान्तदोषाः, परं मुक्त्वा संसृष्टम्, तत्र दोषा न भवन्तीति भावः । अत एव यद् वाटकाद् बहिर्निष्क्रामितं संसृष्टं तदत्र सूत्रेऽनुज्ञातम्, सागारिकः पश्यतु वा मा वा । इदं पुरस्ताद् व्यक्तीकरिष्यते ॥ [भा.३५९७] नीसट्टमसंसट्ठो, वि अपिंडो किमु परेहिं संसट्ठो। अप्पत्तियपरिहारी, सगारदिटुं परिहरंति ॥ वृ- निसृष्टो नाम-बहिर्निष्काश्य वानमन्तरस्य निवेदितः, यस्य वा याचकादेराय निष्काशितस्तस्मै प्रदत्तः, स यद्यप्यन्यैश्चोल्लकैरसंसृष्टस्तथापि 'अपिण्डः' न सागारिकपिण्डः, किं पुनः ‘परैः' अन्यैश्चोल्लकैः समं संसृष्टः ? स सुतरां सागारिकपिण्डो न भवतीत्यर्थः, परमप्रीतिकपरिहारिणः सन्तः सागारिकदृष्टं तमपि परिहरन्ति ॥ इदमेव सापवादमाह[भा.३५९८] अद्दिट्ठस्स उ गहणं, असती तव्वजितेन दिट्ठस्स । दिढे व पत्थियाणं, गहणं अंतो व बाहिं वा ॥ वृ-प्रथमं सागारिकेण सकुटुम्बेनाद्दष्टस्य, ततः “असइ"त्ति संस्तरणाभावे ‘तद्विर्जितेन' तमेकं सागारिकं वर्जयित्वा शेषकुटुम्बेन द्दष्टस्य संसृष्टपिण्डस्य ग्रहणमनुज्ञातम् । अथ ते साधवो ग्रामान्तरं प्रस्थिताः ततः सागारिकेणापि द्दष्टस्य संसृष्टस्य वा असंसृष्टस्य वा वाटकस्यान्तर्वा बहिर्वा सर्वत्र ग्रहणमनुज्ञातम्, पुनर्ग्रहणाभावेन भद्रक-प्रान्तदोषाणामभावात् ।। Page #332 -------------------------------------------------------------------------- ________________ ३२९ उद्देशक ः २, मूलं-६७, [भा. ३५९९] [भा.३५९९] पाहुणगा वा बाहिं, घेत्तुमसंसट्टगं च वच्चंति । अंतो वा उभयं पी, तत्थ पसंगादओ नत्थि ।। वृ-अथवा प्राघुणकाः साधवः केचित् तत्र समायाताः, तेच तंग्रामं व्यतीत्याग्रतो गन्तुकामाः वाटकाद् बहिर्निष्क्रामितं निसृष्टमनिसृष्टमपि गृहीत्वा समुद्दिश्य च व्रजन्ति । तदभावे 'अन्तः' वाटकाभ्यन्तरे वर्तमानमुभयमपि प्राघुणकाः साधवो गृह्णन्ति, प्रथमं संसृष्टं तदप्राप्तावसंसृष्टमपीत्यर्थः। कुतः ? इत्याह-'तत्र' एवंविधे प्राघुणकानां ग्रहणे प्रसङ्गादयो दोषाः भद्रक-प्रान्तकृताः पुनर्ग्रहणाभावान्न सन्ति । प्रसङ्गो नाम-तन्निश्रया भूयः सङ्खडीकारापणम्, आदिशब्दाद् निष्कासनादिपरिग्रहः ।। अथ "संसट्ठमणुन्नायं" इत्यादिपदानां भावार्थं गाथात्रयेणाह[मा.३६००] जो उ महाजनपिंडेन मेलितो बाहि सागरियपिंडो। तस्स तहिं अपभुत्ता, न होति दिढे वि अचियत्तं ॥ वृ-यस्तु सागारिकपिण्डो महाजनपिण्डेन सह वाटकाद् बहिर्मीलितः स साधूनां कल्पते । कुतः? इत्याह-'तस्य' सागारिकस्य तत्राप्रभुत्वाद् महाजनस्यैव च प्रभुत्वाद् द्दष्टेऽपि सागारिकस्य नाप्रीतिकं भवति॥ [भा.३६०१] जंपुन तेसिं चिय भायणेसु अविमिस्सियं भवे दव्वं । तं दिस्समाण गहियं, करेज्ज अप्पत्तियं पभुणो॥ . वृ- यत् पुनर्द्रव्यं 'तेषामेव' शय्यातरमानुषाणां भाजनेषु ‘अविमिश्रितम्' असंसृष्टं भवति तद् दृश्यमानं गृहीतं सत् 'प्रभोः' शय्यातरस्याप्रीतिकं कुर्याद् अतो न ग्राह्यम् ॥ [भा.३६०२] जंपुन तेन अदिढे, दुघाण गहणं तु होतऽसंसट्टे । तहियं तानि कधिज्जा, न यावि न य आयरा तत्थ ॥ वृ-यत् पुनः ‘तेन’ सागारिकेणाष्टस्यासंसृष्टस्यापि “दुघाणे" दुर्भिक्षे संस्तरणाभावाद् ग्रहणं क्रियते तत्र 'तानि' शय्यातरमानुषाणि गत्वा शय्यातरस्य कथयेयुर्न वा; कथितेऽपि न च' नैव 'तत्र' दुर्भिक्षे शय्यानरस्य तथाविध आदशे भवति, येन भूयः सङ्खडीं कुर्यादिति भावः ।। मू. (६८) खलु निग्गंथो वा निग्गंथी वा सागारियपिंडं बहिया नीहडं असंसट्ठ संसर्ट करेइ, करेंतं वा साइजइ, से दुहओ वीइक्कममाणे आवज्जइ चाउम्मासियं परिहारट्ठाणं अनुग्घाइयं ।। वृ-यः खलु निर्ग्रन्थो निर्ग्रन्थी वा सागारिकपिण्डं बहिर्निर्गतमसंसृष्टं संसृष्टं करोति, कुर्वन्तं वा खादयति' कारयति कुर्वन्तमनुमन्यतेवेत्यर्थः, सः 'द्विधा' लौकिक-लोकोत्तरिकभेदा द्विप्रकारां मर्यादां व्यतिक्रामन् आपद्यते चातुर्मासिकंपरिहारस्थानमनुद्धातिकम्, चतुरो गुरुमासानित्यर्थः। एष सूत्रसङ्केपार्थः ।। अथ भाष्यविस्तरः[भा.३६०३] संसट्ठस्स उ करणे, चउरो मासा हवंतऽनुग्धाता । आणादिणो य दोसा, विराधना संजमा-ऽऽदाए । वृ- असंसृष्टमस्माकं ग्रहीतुं न कल्पते इति कृत्वा यदि संसृष्टं करोति, तुशब्दस्यानुक्तसमुच्चयार्थत्वात् कारयति वा कुर्वन्तमनुमोदयति वा, ततश्चत्वारो मासा अनुद्धाताः प्रायश्चित्तं भवति, आज्ञादयश्च दोषाः, विराधना च संयमा-ऽऽत्मविषया ।। - [भा.३६०४] सयमेव उ करणग्मी, उदगप्फुस भंडणुण्हवण पंते । Page #333 -------------------------------------------------------------------------- ________________ ३३० बृहत्कल्प-छेदसूत्रम् -२-२/६८ तेना चारभडा वा, कम्मबंधे पसज्जणया॥ वृ-स्वयमेव करणेतावदिमे दोषाः-'संयतेनाशुचिना स्पृष्टमिदं भाजनम्' इति विचिन्त्य उदकेन स्पर्शनं-प्रक्षालनम्, तथा 'किमस्मदीयानि भाजनानि स्पृशसि ?' इति भण्डनं' कलहम्, “उण्हवण" त्ति तेषां भाजनानामग्निकायेनाङ्गारणम्,एतानि प्रान्तः सङ्खडिकारिणः कुर्वन्ति । तथा 'स्तेनाः' चौराः 'चारभटाः' राजपुरुषाएते तत्रागत्य तं संयतसंसृष्टं पिण्डं अपहरेषुः, ततश्च कर्मबन्धस्य प्रसजना भवति यावदसौ संयतो भूयो नावर्तते । किञ्च[भा.३६०५]भिंदेज्ज भाणं दवियं व उज्झे, डज्झेज्ज उण्हेण कडी व भुज्जे । संसत्तगं तं व जहिं व छुब्भे, विरोहि दव्वं व जहिं व छड्डे ।। वृ-संयतः सागारिकपिण्डमन्यत्र प्रक्षिपन् तद् बाजनं प्रमादतो भिन्द्यात्, तत्र पश्चात्कर्माऽन्यप्रवाहनादयो दोषाः । यद्वा तत्र भाजने यद् ‘द्रव्यं' शालि-दाल्यादि तद् अन्यत्र सञ्चारयन् 'उज्झेत्' परित्यजेत् । अथवा तद्रव्यमतीवोष्णं तेनासौ दह्येत, कटी वा तथाकुर्वतो 'भुज्येत' वक्रीभवेत् । यत्र वाऽसौ सागारिकपिण्डं प्रक्षिपति 'तद्' द्रव्यं 'संसक्तं' जन्तुसंसक्तियुक्तम्, ततः संयमविराधना । विरोधी वा तद् द्रव्यम्, प्रक्षेपणीयद्रव्येण सह भुज्यमानं रोगादिविकारकारकमित्यर्थः, तत्रात्मविराधना । 'यत्र वा' भूभागे तद् द्रव्यं प्रक्षिपन् प्रमादतः छर्दयति तत्र षट्कायविराधना ॥ अथ "तेना चारभडा वा, कम्मबंधे पसज्जणया॥" इति व्याचष्टे- . [भा.३६०६]तं तेन छूढे तहिगं च पत्ता, तेना भडा घोड कुकम्मिगा य । आसत्त नामऽहित आउ मंसा, न जिन्नऽनादेस न जा विउट्टे ॥ वृ. 'तद्' द्रव्यं तेन' संयतेन 'तत्र' भाजने प्रक्षिप्तम्, तत्र च प्राप्ताः ‘स्तेनाः' चौराः ‘भटाः' राजपुरुषाः 'घोटाः' पञ्चालचट्टाः ‘कुकर्मिणश्च' कुकर्मकारिणः एते तद् भाजनमुत्कृष्टशालिदाल्यादिद्रव्यभूतमपहत्य गच्छेयुः । तत्र केचिदाचार्यदेशीया ब्रुवते-यावत् तेषामासप्तमं कुलमनुवर्तते तावत् तस्य संयतस्य कर्मबन्धः । अपरे-तेषां यावद् नाम-गोत्रमनुवर्तते । अन्ये-यावत् तेषामस्थीनि सन्ति । अपरे पुनराहुः-यावत् ते आयुर्धारयन्ति । एक भणन्ति-यावत् तेषां तद्रव्याभ्यवहारप्रत्ययो मांसोपचयः । अन्ये तु ब्रुवते-यावत् तेषां तद् भक्तं भुक्तं सद् नाद्यपि जीर्णं तावत् प्रतिसमयं तस्य कर्मबन्धः । सूरिराह-एते सर्वेऽप्यनादेशाः । सिद्धान्तपक्षः पुनरयम्-यावदसौ संयतः 'न व्यावर्त्तते' न तस्मात् स्थानादालोचनाप्रदानादिना प्रतिक्रामति तावत् कर्मबन्धो मन्तव्यः॥किञ्च[भा.३६०७] निच्छंति व मरुगादी, ओभावण जंच अंतरायं तु। कुज्जा व पच्छकम्म, पवत्तणं घाय बंधं वा ॥ वृ-संयतेन स्पृष्टमिति कृत्वा तद् भक्तं मरुकादयो भोक्तुं नेच्छन्ति । ततश्च 'अहो ! अमी अशुचयो यैः स्पृष्टमनमुच्छिष्टमिति कृत्वा ब्राह्मणादयो न भुञ्जते' इति महती साधूनामपभ्राजना स्यात् । यञ्च मरुकादीनां तद्भक्तमभुञ्जानानामन्तरायं तन्निष्पन्नं प्रायश्चित्तम् । पश्चात्कर्म वा स गृहपति कुर्यात्, मरुकादिभोजनार्थं भूयोऽप्यभिनवं भक्तपाकं कारयेदिति भावः । यद्वा 'साधुभिरिदं पवित्रीकृतम्' इति मत्वा भद्रकास्तस्यान्नादेः स्वगृहे प्रवर्तनं कुर्यु । अथ ते प्रान्तास्ततो घातं वा बन्धं वा कुपिताः सन्तः संयतानां कुर्युः ।। एते तावत् स्वयं करणे दोषा अभिहिताः । अथ स्वयं संसृष्टं कुर्तुमसमर्थी अन्यैः कारयन्ति यो वा कोऽप्यन्यः प्रक्षिपति तमनुमोदयन्ति तत इमे दोषा Page #334 -------------------------------------------------------------------------- ________________ उद्देशकः २, मूलं-६८, [भा. ३६०८] ३३१ [भा.३६०८] कारावणमन्नेहिं, अनुमोदन उम्हमादिणो दोसा। दुविहे वतिक्कम्मिं, पायच्छित्तं भवे तिविहं ।। वृ-अन्यैः कारापणे कुर्वतो वा अनुमोदने उष्मादयो दोषा भवन्ति। उष्मा नाम-तेनात्युष्णद्रव्येण तस्य अगारिणो हस्तादौ परितापः, आदिशब्दाद् यदीयं द्रव्यमसौ तत्र प्रक्षिपति स तेन सहासङ्घर्ड कुर्यात्-कस्मान्मदीयं स्पृशसि? इति । एवमादयो दोषाः । अत्रच 'द्विविधे व्यतिक्रम' लौकिकलोकोत्तरिकमर्यादातिक्रमरुपे प्रायश्चित्तं त्रिविधं भवति । तत्रैकं स्वयं करणे, द्वितीयंकारापणे, तृतीयमनुमताविति ।। इदमेवोत्तरार्द्ध व्याचष्टे[भा.३६०९] लोउत्तरं च मेरं, अतिचरई लोइयं च मेलंतो। अहवा सयं परेहि य, दुविहो तु वतिक्कमो होति ॥ वृ-सागारिकचोल्लकमितरेषां चोल्लकैः समं मीलयन् ‘लोकोत्तरिकी मर्यादां' “न कल्पते सागारिकपिण्डोऽसंसृष्टः संसृष्टः कर्तुम्" इति भगवदाज्ञालक्षणां “लौकिकी च' 'न मीलनीया अस्माकं चोल्लकाः' इत्येवंरुपां मर्यादाम् ‘अतिचरति' अतिक्रामतीत्यर्थः । अथवा स्वयं करणं परैश्च क्रियमाणस्य खादनमित्येवं द्विविधो व्यतिक्रमो भवति ।। [भा.३६१०] पठमिल्लुगम्मि ठाणे, दोहि वि गुरुगा तवेण कालेण । . बितियम्मि य तवगुरुगा, कालगुरु होति ततियम्मि । वृ-तत्र 'प्रथमस्थाने' स्वयंकरणलक्षणे चत्वारो गुरवो द्वामभ्यामपि गुरुकाः, तद्यथा-तपसा कालेन च । 'द्वितीये' कारापणे त एव चत्वारो गुरवस्तपोगुरुकाः । 'तृतीये' अनुमोदनालक्षणे स्थाने त एव चतुर्गुरुकाः कालगुरवो भवन्ति ॥ किञ्च[भा.३६११] अम्हच्चयं छूढमिणं किमट्ठा, तं केन उत्ते कहिते जतीहिं। . ते चेव तोयादि पवत्तणा य, असिट्ठ तेने व असंखडादी । वृ-अस्मदीयं तदिदं किमर्थ केनान्यत्र प्रक्षिप्तम् ?, इत्यं समडिकरिभि साक्षेपमुक्ते रक्षपालो ब्रवीती-यतिभिरिदमेकत्र मीलितम् । एवं कथिते सति त एव तोयादयः' उदकस्पर्शन-भण्डनादयो दोषाः । अथ ते भद्रकास्ततः ‘साधुहस्तेन पवित्रीभूतमिदम्' इति मत्वा प्रवर्तनं कुर्यु । अथासौ रक्षपालो न कथयति ततः ‘अशिष्टे' अकथिते 'तेनैव' रक्षपालेन सममसङ्खडं कुर्यु, आदिशब्दाद् वधं वा बन्धं वा ते तस्य कुर्वन्ति । यत एते दोषा अतो नासंसृष्टं संसृष्टं कर्तव्यं कारयितव्यं क्रियमाणमनुमोदयितव्यं चेति ॥ अथ द्वितीयपदमाह[भा.३६१२] अद्धाणनिग्गयादी, पविसंता वा वि अहव ओमम्मि । अनुमोदण कारावण, पभुनिक्खंतस्स वा करणं ॥ वृ-अध्वनो निर्गता आदिशब्दाद् अशिवादिविनिर्गता अध्वनि वा प्रविशन्तोऽथवाऽवमौदर्ये वर्तमानाः संसृष्टं पिण्डं कुर्वन्तः प्रथममनुमोदनं ततः कारापणमपि प्रतिसेवन्ते । यो वो प्रभुःबलवान् राज-गणसम्मतो वा निष्कान्तः-प्रतिपन्नदीक्षस्तस्य स्वयमपि करणं भवतीति सङ्ग्रहगाथासमासार्थः । अथ विस्तरार्थोऽभिधीयते-ते साधवो विप्रकृष्टादध्वनो निर्गतास्तं वा प्रविशन्तोऽक्मौदर्ये वा अन्यत्र पर्याप्तमलभमानास्तत् सागारिकसत्कं द्रव्यं स्त्रिग्धं शरीरोपष्टम्भकं मत्वा प्रथमंतावदन्यं संसृष्टं कुर्वन्तमनुमोदयन्ति । अथान्यः संसृष्टं कुर्वन्न प्राप्यते ततः कारयेयुरपि।। Page #335 -------------------------------------------------------------------------- ________________ ३३२ बृहत्कल्प-छेदसूत्रम् -२-२/६८ कथम् ? इत्याह[भा.३६१३] पुराण सागं च महत्तरं वा, अन्नं व गोहेंति तहिं च छोढुं । सागारिओ वा वि विगोवितो जो, स पिंडमन्नेसु तु संदधाति॥ वृ- 'पुराणं' पश्चात्कृतम्, तदप्राप्तौ प्रतिपन्नाणुव्रतं श्रावकम्, तदभावे यस्तत्र महत्तरस्तम्, 'अन्यं वा' प्रमाणभूतं तत्र' अन्यपिण्डेषु सागारिकपिण्डं प्रक्षेप्तुं 'ग्राहयन्ति' प्रज्ञापयन्तीत्यर्थः । यो वा सागारिकः 'विकोविदः' विशेषेण साधुसामाचारीकुशलः स खकीयं पिण्डमन्येषु पिण्डेषु 'सन्दधाति' मिश्रयतीत्यर्थः ॥ [भा.३६१४]सम्मिस्सियं वा वि अमिस्सियं वा, गिण्हंति गीता इतरेहिं मिस्सं । कारेंतऽदिटुं चेऽविगोवितेसू, दिटुं च तप्पञ्चयकारि गीता ॥ वृ-यदि सर्वेऽपि गीतार्थास्ततः सम्मिश्रितं वा अमिश्रितं वा सागारिकपिण्डं गृह्णन्ति । अथ 'इतरैः' अगीतार्थैर्युक्तास्ततः 'मिश्र' संसृष्टं गृह्णन्ति नासंसृष्टम् । अथासंसृष्टं (अथ संसृष्टं) न प्राप्यते अविकोविदाश्च-अगीतास्तत्र सन्ति ततः 'अदृष्टं' यथा ते न पश्यन्ति तथा पुराणादिना संसृष्टं कारयन्ति ।अथाष्टे कार्यमाणे तेषामप्रत्यय उत्पद्यते, यथा-एतैः सागारिकपिण्ड एवासंसृष्टं आनीतः; ततस्तप्रत्ययकारिणो गीतार्थास्तैदृष्टमपि संसृष्टं कारयन्ति । अथ “पभुनिक्खंतस्स वा करणं" इति पदं व्याख्यानयति[भा.३६१५]जो उजिओ आसी पभू व पुव्वं, तप्पक्खिओ राय-गणच्चिओ वा । सवीरिओ पक्खिवती इमं तु, वोत्तूण किं अच्छइ एस वीसुं॥ वृ-यस्तत्र ग्रामे पूर्वम् ‘ऊर्जितः' बलवान् ‘प्रभुर्वा' अधिपतिरासीत्, 'तत्पाक्षिको वा' तस्य ग्रामस्य हितैषी राज-गणाञ्चितो वा' राजसम्मतो मल्लादिगणसम्मतो वा आसीत्, एवंविधोऽपि यः ‘सवीर्य' शक्तिमान, भाजनभेदादयो दोषा यस्य न भवन्तीति भावः; सः ‘एनं सागारिकपिण्डमन्यपिण्डेषु प्रक्षिपति, परमिदं वचनमुक्त्वा, यथा-किमेषः 'विष्वक्' पृथक् तिष्ठतीति । मू. (६९) सागारियस्स आहडिया सागारिएण पडिग्गाहिया, तम्हा दावए नो से कप्पइ पडिग्गाहित्तए। मू. (७०) सागारियस्स आहडिया सागारिएण अप्पडिग्गाहिया, तम्हा दावए एवं से कप्पइ पडिग्गाहित्तए॥ वृ-अथास्य सूत्रस्य कः सम्बन्धः? इत्याह[भा.३६१६] नीहडसागारिपिंडस्स विवक्खो आहडो अह उ जोगो । नीहडसुत्ते पुनरवि, जोगो संदट्ठओ नाम । वृ- पूर्वसूत्रे निर्हतः सागारिकपिण्ड उक्तः, इह तु तद्विपक्ष आहत उच्यते । ‘अथ' एष प्रस्तुतसूत्रस्य 'योगः' सम्बन्धः । तथा इतः सूत्रादनन्तरं पुनरपि निहतसूत्रं भविष्यति ततोऽयं सूत्रत्रयस्य 'योगः' सम्बन्धः सन्दष्टको नाम मन्तव्यः । किमुक्तं भवति ?-आदौ निर्हतसूत्रम्, मध्ये आहृतसूत्रम्, अवसाने तु भूयोऽपि निहृतसूत्रम् ; एष ईशः सम्बन्धः सशपूर्वापरसूत्रद्वयेन सन्दंशकेनेव गृहीतत्वात् सन्दष्टक इत्यभिधीयते । अनेन वक्ष्यमाणसूत्रस्याप्यत्रैव सम्बन्धोऽभिहित इति॥अनेन सम्बन्धेनायातस्यास्य व्याख्या-'आहृतिका' प्रहेणकं सा सागारिकस्य गृहे कुतोऽपि Page #336 -------------------------------------------------------------------------- ________________ उद्देशक ः २, मूलं-७०, [भा. ३६१६] ३३३ गृहान्तरादागता, सा च सागारिकेण 'प्रतिगृहीता' स्वीकृता, 'ततः' तस्या मध्याद् दद्याद्नो “से" तस्य साधोः कल्पते प्रतिग्रहीतुम् । सागारिकस्याहृतिका सागारिकेण 'अप्रतिगृहीता' न स्वीकृता तस्या मध्याद् दद्यादेवं "से" तस्य साधोः कल्पते प्रतिग्रहीतुमिति सूत्रसङ्केपार्थः । साम्प्रतं नियुक्तिविस्तरः[भा.३६१७] आहडिया उ अभिधरा, कुलपुत्तरा भगिनि मट्टिगालित्ते । दव्वे खेते काले, भावम्मिय होइ आहडिया ॥ वृ-अभिशब्दोऽत्र पृथगर्थवाचकः । ततश्च ‘अभिगृहाद्' अपरस्माद् वेश्मनो यद् विशिष्टं स्वाद्यकद्रव्यमागतं सा आहृतिका भण्यते । सा चैवं सम्भवति-कश्चिद् कुलपुत्रकः कचिद् ग्रामे परिवसति, तस्य चान्यदा प्राधूर्णकः समायातः तदर्थं विविधमतिशायि द्रव्यमुपस्कृतम्, कुलपुत्रस्य च भगिनी तत्रैव ग्रामे परिणीता तदर्थं स्वकीयभार्याहस्ते धृतपूरादिकं प्रेषयति, सा च भगिनी तदानीं मृत्तिकालिप्तहस्ता ततस्तां ग्रातृजायां ब्रवीति-स्थापय त्वमिदममुकत्र प्रदेशे, अहमिदानीमक्षणिका तिष्ठामीति । सा चाहृतिका चेति ॥अथैनाभेव नियुक्तिगाथां विवरीषुराह[भा.३६१८] आएसट्ट विसेस, सति काले भगिनि संभरित्ताणं। भज्जिं भज्जाहत्थे, कुलओ पेसेति भगिनीए॥ कृ-आदेशः-प्राधूर्णकस्तदर्शधृतपूर-लपनश्रीप्रभृतेः स्वाद्यकद्रव्यस्य विशेषे सजाते सति 'काले' भोजनदेशकाले भगिनी संस्मृत्य भार्याहस्ते 'मर्जिका प्रहेणकं कुलजः' कुलपुत्रको भगिनीनिमित्तं प्रेषयति एषा आहृतिकोच्यते । अस्यां च चत्वारो भङ्गाः, तद्यथा-द्रव्यतः प्रतिगृहीता न भावतः १ भावतः प्रतिगृहीता न द्रव्यतः २ द्रव्यतोऽपि भावतोऽपि प्रतिगृहीता ३ नापिद्रव्यतो नापि भावतः प्रतिगृहीता ४ ॥ एषां यथाक्रमं भावनामाह[भा.३६१९] उच्छंगे अनिच्छाए, ठविया दव्वगहिया न पुन भावे । एत्थ पुन भद्द-पंता, अचियत्तं चेव घेते॥ वृ-यदर्थं सा भर्जिका प्रेषिता सा भगिनी तंभ्रातरं प्रति केनापि कारणेन रुष्टा सती भ्रातृजायया समर्प्यमाणामपितां न गृह्णति, ततस्तया ननान्दुरुत्सङ्गेऽनिच्छयाऽपि सा भर्जिका स्थापिता, एषा द्रव्यतः प्रतिगृहीता न पुनर्भावतः । इयं च शय्यातरपिण्डो न भवति, भावतोऽगृहीतत्वात् । परमत्र पुनर्भद्रक-प्रान्तदोषा भवन्ति, भद्रकस्तन्निश्रया प्रक्षेपं प्रान्तस्तु निष्काशनवसतिव्यवच्छेदादिकं कुर्यादिति भावः । अप्रीतिकं चैवं गृह्णमाणे भवति-किमेष मदीयः पिण्डो न भवति येनैवममी इदं गृह्णन्ति ? ॥ [भा.३६२०] वावार मट्टिया-असुइलित्तहत्था उ बिइयओ भंगो। दोसु वि गहिए तइओ, चउत्थभंगे उ पडिसेहो ॥ वृ-तथा सा भगिनी यदा कमपि दलन-पेषणादिव्यापारं कुर्वाणा मृत्तिकया वा अशुच्या वा लिप्तहस्ता भवति तदा ब्रवीति-स्थापय त्वममुकत्र प्रदेश, एषा भावतः प्रतिगृहीता न द्रव्यत इति द्वितीयो भङ्गः 'द्वाभ्यामपि' द्रव्य भावाभ्यां प्रतिगृहीता । चतुर्थभङ्गे 'द्वाभ्यामपि' द्रव्य-भावाभ्यां प्रतिषेधः । किमुक्तं भवति?-सा भगिनी रुष्टा सती बलादर्यमाणामपि तां भर्जिकां हस्ताभ्यामपि . न स्पृशतीति । सा चाहृतिका द्रव्य क्षेत्र-काल-भावभेदात् चतुर्विधा । पुनरेकैका द्विविधा-छिन्ना Page #337 -------------------------------------------------------------------------- ________________ ३३४ बृहत्कल्प-छेदसूत्रम् -२-२/७० अच्छिन्ना च ।। अर्थता एव भावयति[भा.३६२१] संकप्पियं व दव्वं, दिट्ठा खेत्तेण कालतो छिन्नं । दोसु उ पसंगदोसा, सागारिए भावतो दुविहो ॥ वृ-यद् द्रव्यं सङ्कल्पितम् यथा-अमुकं धृतपूरादिकं तत्र गृहे नेतव्यम्, वाशब्दस्यानुक्तप्रकारान्तरद्योतकत्वाद् यद् वा तत्र गृहे नयनार्थं पृथक् स्थापितम्, तदुभयमपि द्रव्यतश्छिन्नम् । या पृतराहृतिका स्वगृहमानीयमाना सागारिकेण दृष्टा सा क्षेत्रतश्छिन्ना । तथा 'अमुकस्यां वेलायांनेतव्यम्' इति निर्दिष्टं द्रव्यं कालतश्छिन्नम् । उपलक्षणमिदम्, तेन ‘न नेष्यामि' इति यत्र भावो निवृत्तस्तभावतश्छिन्नम्।अच्छिन्ना त्वाहृतिका चतुर्द्धाऽप्येतद्विपरीता। तथा 'द्वयोर्भङ्गयोः' 'द्रव्यतः प्रतिगृहीता न भावतः, नापि द्रव्यतो नापि भावतः प्रतिगृहीता न द्रव्यतः' इत्येवंरुपो यो भङ्गः, यश्च 'द्रव्यतोऽपि भावतोऽपि प्रतिगृहीता' इत्येवंलक्षणो द्विविधः प्रतिगृहीतो भङ्गः, एतयोः सागारिकपिण्ड इति कृत्वा न कल्पते ॥ अथैनामेव नियुक्तिगाथां व्याचष्टे[भा.३६२२] संकप्पियं वा अहवेगपासे, सगारिदिळं अमुगंतु वेलं। . नियट्ट भावे नऽमुगं अदिट्ठा, काले न निद्देस अछिन्न भावे ।। वृ-यद् घृतपूरादि तत्र गृहे नयनाय सङ्गल्पितम्, अथवा यदेकपार्थे विश्वक् स्थापितं तदेतद् द्रव्यतश्छिन्नम् । सागारिकेण स्वगृहमानीयमानं यद् दृष्टं तत् क्षेत्रतश्छिन्नम् । 'अमुकस्यां' मध्याह्लादिलक्षणायां वेलायां नेतव्यमिति निर्दिष्टं कालतश्छिन्नम् । यत्रतु 'न नेष्यामि' इति भावो निवृत्तस्तद्भावतश्छिन्नम् । एवं चतुर्द्धाऽपि छिन्नं व्याख्यातम् । अथाच्छिन्नं व्याख्याति-“नऽमुगं" इत्यादि । यद् द्रव्यममुकं नेतव्यमिति न सङ्कल्पितं न वा पृथक् स्थापितं तद् द्रव्यतोऽच्छिन्नम् । या वा आहृतिका सागारिकेणानीयमाना न द्दष्टा तत् क्षेत्रतोऽच्छिन्नम् । कालेऽच्छिन्नं यत्र प्रतिनियताया वेलाया निर्देशो नास्ति। भावेऽच्छिन्नं तु यत्राद्यापि नेष्यामि' इतिभावोऽव्यवच्छिन्नः, न निवर्त्तते इत्यर्थः ॥अथात्रैव ग्रहणविधिमाह[भा.३६२३] भावो जाव न छिज्जइ, विप्परिणय गेण्ह मोत्तु खेत्तं तु। खेते वि होति गहणं, अद्दिढे विपरिणतम्मि॥ वृ-भावो यावदद्यापि न व्यवच्छिद्यते तावन्न कल्पते । यदा तु 'न नेष्यामि' इति भावः 'विपरिणतः' व्यवच्छिन्नस्तदा क्षेत्रच्छिन्नं मुक्त्वा यदन्यत् क्षेत्रतोऽच्छिन्नं यञ्च द्रव्यतः कालतश्च छिन्नमच्छिन्नं वा तद्ग्रहीतुंकल्पते, क्षेत्रच्छिन्नस्यापि ग्रहणं भवति यदि स तद्रव्यं नयनपान्तराले 'न नेष्यामि' इति विपरिणतो भवति, तञ्च सागारिकेण अष्टम्-अश्यमानं ग्रहीतव्यम् । यतः[भा.३६२४] पुरतो पसंग-पंता, अचियत्तं चेव पुव्वभणियं तु । बितिय-ततिया उ पिंडो, पढम-चउत्था पसंगेहिं । वृ-अथ सागारिकस्य पुरतो गृह्णन्ति ततो भद्रकः प्रसङ्गः तन्निश्रया तत्र प्रक्षेपम्, प्रान्तश्च निष्काशनादिकं कुर्यात्, अप्रीतिकंच पूर्वभणितं तस्य तथापश्यतो गृह्यमाणे भवति, ततः पुरतो न ग्रहीतव्यम् । तथा द्वितीय-तृतीयौ भङ्गौ शय्यातरपिण्ड इति कृत्वा परिहत्तव्यौ । प्रथम चतुर्थी तु न शय्यातरपिण्डः, परं प्रसङ्गदोषभयात् तावपि परिहर्तव्यौ ॥ अथाचार्यो विनेयवर्गव्युत्पादनार्थमाक्षेप-परिहारौ निरुपयितुकाम इदसाह For Privatë & Personal Use Only Page #338 -------------------------------------------------------------------------- ________________ उद्देशकः २, मूलं-७०, [भा. ३६२५] ३३५ [भा.३६२५] कप्पइ अपरिग्गहिया, निक्खेवे चउ दुगं अजाणंता। जाणंता वि य केई, सम्मोहं काउ लोभा वा ॥ वृ-केचिदाचार्या निक्षेपचतुष्कस्य-'द्रव्यतः प्रतिगृहीतान भावतः' इत्यादिलक्षणभङ्गचतुष्टयस्य 'द्विकं प्रथम-चतुर्थभङ्गद्वयमाश्चित्येदं सूत्रं प्रवृत्तमित्येवंविधमर्थमजानन्तः, यद्वा जानन्तोऽपि तदर्थं केचिदगीतार्थानां सम्मोहं कृत्वा लोभाद्ब्रुवते-कल्पते सागारिकेणापरिगृहीता आहृतिका।। इदमेव स्पष्टयति[भा.३६२६] जं आइडं होइ परस्स हत्थे, जं नीहडं वा वि परस्स दिन्न । तं सुत्तछंदेण वयंति केई, कपंन चे सुत्तमसुत्तमेवं ॥ वृ- यद् ‘आहृतक' प्रहेणकं शय्यातरगृहमानीयमानं परस्य हस्ते भवति, एतेन प्रस्तुतमेव सूत्रं गृहीतम्; यच्च 'निहृतं' सागारिकगृहाद् निष्काशितं परस्य दत्तम्, अनेन च वक्ष्यमाणं सूत्रमुपात्तम्, तदेवंविधं द्रव्य ‘सूत्रच्छन्देन' सूत्राभिप्रायेण 'कल्प्यं' कल्पनीयम् 'न' नैव 'चेद्' यदि आचार्य! एवमस्मदुक्तं मन्यसे ततः सूत्रमसूत्रमेव प्राप्नोति, अप्रमाणमित्यर्थः । एवं केचिदाचार्यदेशीया वदन्ति । अत्र सूरि प्रतिवचनमाह[भा.३६२७]सुत्तं पमाणं जति इच्छितं ते, न सुत्तमत्थं अतिरिच्च जाती। अत्थो जहा पस्सति भूतमत्थं, तं सुत्तकारीहिं तहा निबद्धं ।। वृ-यदि 'ते' तव सूत्रं प्रमाणत्वेन 'इष्टम्' अनुमतं तत इदमप्यक्षिणी निमील्य विचारयतु देवानांप्रियः-सूत्रं तावद् ‘अर्थ' व्याख्यानमतिरिच्य 'न याति' न प्रवर्तते, नावबुध्यते इत्यर्थः; अत एव 'अर्थ' नियुक्ति-भाष्यादिरुपः 'यथा' येन प्रकारेण ‘भूत’ सद्भूतम् ‘अर्थम्' अभिधेयं पश्यति सूत्रकारिभिरपि' गणधर-स्थविरैः तत् सूत्रम् ‘तथा' तेनैवाभिप्रायेण निबद्धमवसातव्यम्।। अमुभेवार्थं द्रढयति[मा.३६२८]छाया जहा छायवतो निबद्धा, संपत्थिए जाति ठिते य ठाति। अत्यो तहा गच्चति पज्जवेसू, सुत्तं पि अत्थानुचरं तहेव ।। वृ-'छाया' प्रतीता, सा यथा 'छायावतः' पुरुषादेः 'निबद्धा' परतन्ना सती तस्मिन् सम्प्रस्थिते याति, स्थिते च तस्मिन् साऽपि तिष्ठति; तथाऽत्रापि छायावत्पुरुषस्थानीयोऽर्थो येषु ‘पर्यायेषु' भङ्गकादिविषयेषु प्रकारेषु गच्छति सूत्रमपि छायास्थानीयं तस्यैवार्थस्यानुचरं सत् 'तथैव' तेषु तेषु पर्यायेषु गच्छति ॥ इदमेव स्पष्टतरमाह. [भा.३६२९] जं केणई इच्छइ पज्जवेण, अत्यो न सेसेहि उ पज्जवेहि । विही व सुत्ते तहि वारणा वा , उभयं व इच्छंति विकोवणट्ठा ॥ वृ- 'अर्थ' व्याख्यानविधिर्येन केनचित् पर्यायेण यत् सूत्रं ग्रहीतुमिच्छति न 'शेषैः' अपरैः पर्यायैः, तत्र स एव प्रमाणयितव्यो न शेषा इति वाक्यशेषः ।यथेहैव सूत्रे यथाभावेन विपरिणते आनेतरि यदि सागारिको न पश्यति ततः कल्पते प्रतिग्रहीतुं तद् द्रव्यम् । एतेन पर्यायेण अर्थ आहृतिकामिच्छति, न शेषैरविपरिणत-क्षेत्रच्छिन्नतादिभि पर्यायैः । एवमर्थेनेप्सितेऽनीप्सिते वा वस्तुनि सूत्रकारः कथं सूत्रं बघ्नीयात् ? इत्याह-विधिर्वा तंत्र सूत्रे वक्तव्यः, यथा अत्रैवाऽऽहतिकासूत्रे द्वितीये आलापके; 'वारणा वा प्रतिषेधः, यथेहैव प्रथमे आलापके; 'उभयं वा' Page #339 -------------------------------------------------------------------------- ________________ ३३६ बृहत्कल्प-छेदसूत्रम् -२-२/७० विधि-प्रतिषेधरूपं कचिदेकत्रापि सूत्रे शिष्यमतिविकोपनार्थं सूरय इच्छन्ति, यथा “कप्पइ निग्गंथाणं पक्के तालपलंबे भिन्ने पडिग्गाहित्तए, से वि य विहिभिन्ने नो चेव नं अविहिभिन्ने ।" ।। अपि च[भा.३५३०]उस्सग्गओ नेव सुतं पमाणं, न वाऽपमाणं कुसला वयंति। अंधो य पंगुं वहते स चावि, कहेति दोण्हं पि हिताय पंथं ।। वृ-'उत्सर्गतः' सामान्येन 'श्रुतं' सूत्रं नैव प्रमाणं न वा अप्रमाणम्, किन्तु पूर्वापराविरुद्धवृद्धसम्प्रदायागतेनार्थेन युक्तंप्रमाणम्, अन्यथा पुनरप्रमाणम्, इत्येवं कुशलाः' तीर्थकरगणधरा वदन्ति । तथाहि-यथा किल कश्चिदन्धो देशान्तरं गन्तुमनाः स्वयं मार्गमपश्यन् पङ्गु गन्तुमशक्तं चक्षुष्मत्तया स्कन्धे विन्यस्य वहति, ‘स चापि' पङ्गु 'द्वयोरपि' आत्मनस्तस्य च हिताय' गर्ताप्रपाताधुपद्रवरक्षणाय ‘पन्थानं' मार्ग कथयति । एवमर्थेनाप्रबोधितं सद् अन्धस्थानीयं सूत्रम्, तद् यदा पङ्गुस्थानीयमर्थमात्मन उपरिकृतं बहति तदा सोऽप्यर्थ सूत्रनिश्रया गच्छन् सम्यग्विषयविभागदर्शितया निष्प्रत्यपायं मुक्तिमार्गमुपदिशतीति, अतोऽर्थसव्यपेक्षमेव सूत्रं प्रमाणमिति स्थितम्॥अथ “जाणंता विय केई, सम्मोहं काउ लोभा वा।" इति पश्चार्द्ध व्याचष्टे[भा.३३३१]अप्पस्सुया जे अविकोविता वा, ते मोहइत्ता इमिणा सुएण । तेसिं पगासो वि तमंतमेति निसाविहंगेसु व सूरपादा ॥ . वृ-ये 'अल्पश्रुताः' अधीतस्वल्पसूत्रा ये वा अविकोविदाः' अगीतार्थास्तान् अनेन सूत्रेण मोहयित्वा विजानन्तोऽपि लोभबहुलतया सागारिकस्याह्नतिकापिण्डं ग्राहयन्तीति वाक्यशेषः। 'तेषांच' एवं मोहितानां प्रकाशः' प्रस्तुतसूत्रस्यार्थकथ्यमानोऽपि 'तमस्तमायते' प्रबलान्धकारतया परिणमते । यथा 'निशाविहङ्गाः' उलूहाकाद्यास्तेषु सूर्यस्य पादाः-किरणाः प्रकाशरूपा अपि महान्धकारीभवन्ति ॥ आह-यद्येवं ततः “कल्पते सागारिकेणापरिगृहीता आह्वतिका" इति प्रस्तुतसूत्रं कथं नीयते ? अत्रोच्यते[भा.३६३२] अहभावविप्परिणए, अद्दिट्ट सुयं तु तम्मि उ पउत्थे। . नीहडियाए पुरओ, संछोभगमादिणो दोसा ।। वृ-यस्तामाहृतिकां प्रहिणोति नयति वा तस्मिन् यथाभावं-स्वयमेव विपरिणते-न प्रहेष्यामि न नेष्यामीति वा विपरिणाममापन्ने कल्पते । यद्वा तेन तत्रागच्छता श्रुतम्-यस्य सकाशमहमिदं नयामि स प्रोषितः-ग्रामान्तरं गतः, ततस्तस्मिन्प्रोषिते सति स नेता 'न नयामि' इति विपरिणतः, अत्रान्तरे साधवः समायाताः ततः सागारिकेणाद्दष्टं कल्पते प्रतिग्रहीतुम्, अत्र सूत्रनिपातः । तथा वक्ष्यमाणसूत्रे भणिष्यमाणायां निर्रतिकायां सागारिकस्य पुरतो गृह्यमाणायां संछोभकःप्रक्षेपक आदिशब्दाद् निष्काशन-शय्याव्यवच्छेदादयश्च दोषा भवन्ति, अतः सागारिकस्य पुरतः सा न ग्रहीतव्या ॥ अत्र कथं स तत्राहृतिकां नयन् विपरिणमति ? इत्युच्यते[भा.३६३३] नीयं पि मे न घेच्छति, धम्मो व जतीण होति देंतस्स । वसणऽब्भुदओ वा सिं, भंडणकम्मे व अन्ना ॥ वृ- मया तत्र नीतमप्येतद् घृतपूरादिकं स न ग्रहीष्यति, यद्वा यतीनामेवंविधं द्रव्यं ददतो मम धर्मो महान् भवति, अथवा येषां समीपे तद् नीयते तेषां स्वजनमरण-धनहरणादिकं व्यसनं शोककारणमजनिष्ट, ‘अभ्युदयो वा' कोऽप्युत्सविशेषस्तेषां वर्तते, 'भण्डनं वा' कलहस्तदानीं Page #340 -------------------------------------------------------------------------- ________________ उद्देशक : २, मूलं-७०, [भा. ३६३३] ३३७ महता भरेण वर्तते, 'कर्मणि वा' कृष्यादौ ते 'अन्नाः' अक्षणिकाः सन्ति ततो नीतमपि नामी ग्रहीष्यन्ति ॥ [भा.३६३४] इति भावम्मि नियत्ते, तेहि अदिट्ठस्स कप्पती गहणं । छेत्तादिनिग्गतेसु व, कप्पति गहणं जहिं सुत्तं ॥ वृ- 'इति' अनन्तरोक्तप्रकारेण भावे निवृत्ते सति येषां समीपे तद् नीयते 'तैः' शय्यातरमानुषैरष्टस्य कल्पते ग्रहणम् । यद्वा क्षेत्र-खलाद निर्गतेषु तेषु ग्रहणं कल्पते । एवं यत्र सूत्रमवतरति स एष विषय उक्त इति ॥ मू. (७१) सागारियस्सनीहडिया परेण अपडिग्गाहिता,तम्हा दावए नो से कप्पइ पडिग्गाहित्तए। मू. (७२) सागारियस्स नीहडिया सपरेण पडिग्गाहिया, तम्हा दावए एवं से कप्पइ पडिग्गाहित्तए॥ वृ-अस्य सम्बन्धः प्रागेवोक्तः । व्याख्याऽपि प्राग्वत् । नवरं सागारिकद्रव्यं यदन्यत्र नीयते सा निर्हतिकेत्युच्यते । सा यस्य समीपेप्रेषिता तेनाप्रतिगृहीतान कल्पते, प्रतिगृहीता तु कल्पते॥ अथ भाष्यम्[भा.३६३५]पढम-चउत्था पिंडो, बितिओ ततिओ य होति उ अपिंडो। ___ पुरतो ते वि विवज्जे, भद्दग-पंतेहि दोसेहिं ॥ कृनिर्हतिकायामपिद्रव्यतः प्रतिगृहीतान भावत इत्यादयश्चत्वारोभङ्गाः । नवरमत्र प्रथमचतुर्थी भङ्गौ शय्यातरपिण्डः, एकत्र भावतोऽपरत्र तु द्रव्यतो भावतश्च परेणाप्रतिगृहीतत्वात् । द्वितीयस्तृतीयश्च भङ्गो नबवतिशय्यातरपिण्डः, परंसागारिकस्य पुरतः 'तावपि' द्वितीयतृतीयभनौ भद्रक-प्रान्तदोषभयाद् विवर्जयेयुः॥ तत्र भद्रकस्तन्निश्रया प्रक्षेपं कुर्यात्, यस्तु प्रान्तः स इदं ब्रूयात्[भा.३६३६] केनावि अभिप्पाएण दिज्जमाणं पि नेच्छिउं पुट्विं । अम्हे ओभावेंता, पुरओ च्चिय ने पडिच्छंति ॥ वृ- अमी श्रमणकाः केनाप्यभिप्रायेण पूर्वमस्माभिर्दीयमानमपि ‘अनीप्सित्वा' अप्रतिगृह्य साम्प्रतं बहुजनमध्येऽस्मानपभ्राजयन्त इत्यमस्माकमेव पुरत इदमेव द्रव्यं प्रतीच्छन्ति॥ [भा.३६३७] किं तं न होति अम्हं, खेत्तंतरियं व किं विसमदोसं । सुव्वत्त सोत्तिगादिव, चरेंति जतिणो वि डंभेणं॥ वृ-किमेतद् द्रव्यमिदानीमस्माकं सत्कं न भवति?, अथ 'क्षेत्रान्तरमागतम्' इति कृत्वा कल्पते तदप्यसङ्गतम्, यतः क्षेत्रान्तरितं विषं किमदोषं भवति? तदमी सुव्यक्तं श्रोत्रिया इव' धिग्जातीया इवयतयोऽपि सन्तो दम्भेन चरन्ति । किमुक्तंभवति? -धिग्जातीयाः ‘अशूद्रात्रिका वयम्' इति कृत्वा शूद्रगृहे न समुद्दिशन्ति परं तन्दुलादीनि गृह्णन्ति; यथा तेषामशूद्रान्नव्रतं दम्भ एवममीषामपि शय्यातरपिण्डपरिहारादिव्रतं दम्भ इव लक्ष्यते ॥अथाहृतिका निर्हृतिका वा येषु कारणेषु गृह्यते तान्याह___ [भा.३६३८] दुविहे गेलन्नम्मी, निमंतणे दव्वदुल्लभे असिवे । [19/22 Page #341 -------------------------------------------------------------------------- ________________ बृहत्कल्प-छेदसूत्रम् -२-२/७२ ओमोदरिय पओसे, भए य गहणं अनुन्नायं ॥ अस्य व्याख्या प्राग्वत् ॥अत्र निमन्त्रणापदं विशेषतो भावयति[भा.३६३९] निब्बंधनिमंतेंते, भणंति भजिं दलाहि जा एसा । तंपुन अविगीतेसुं, गीया इतरं पि गेण्हंति ॥ वृ-शय्यातरं महता निर्बन्धेन निमन्त्रयमाणं साधवो भणन्ति-या तवैषा भर्जिका-प्रहेणकं आहृतिका निर्हतिका वा तां प्रयच्छ। 'तत् पुनः' आहृतिकाया निर्हतिकाया वा ग्रहणमगीतार्थेषु कुर्वन्ति । ये तु गीतार्थास्ते 'इतरमपि' सागारिकपिण्डमपि गृह्णन्ति ॥ [भा.३६४०] नेच्छंतमगीतं एतिनेव सुत्तेण पत्तियति । सच्छंदेन न भणिमो, फुड-वियडमिणं भणति सुत्तं ॥ वृ-अथागीतार्थ आर्हतिकां निर्हतिका वा नेच्छति ग्रहीतुं तत एतेनैव सूत्रेण प्रत्याययन्ति, यथा-आर्या ! वयं 'स्वच्छन्देन' स्वाभिप्रायेण न भणामः, किन्तु 'स्फुट-विकटम्' अतीवव्यक्ताक्षरमिदमेव सूत्रं भणति, यथा-कल्पते सागारिकेणाप्रतिगृहीता आहृतिका परेण च प्रतिगृहीता निर्हतिकेति॥अपि च[भा.३६४१] जो तं जगप्पदीवेहि पणीयं सव्वभावपन्नवणं । न कुणति सुतं पमाणं, न सो पमाणं पवयणमि ॥ वृ. 'तत्' सकलत्रिलोकीप्रसिद्धं 'जगप्रदीपैः' भगवद्भिस्तीर्थकरैः प्रणीतं सर्वेषाम्उत्सर्गाऽपवाद-निश्चय-व्यवहारादीनां भावानां प्रज्ञापना-प्ररूपणा यत्र तत् तथाविधं श्रुतं यः कश्चित् प्रमामं न करोति नासौ 'प्रवचने' चतुर्वर्णसङ्घमध्ये प्रमाणं भवति ॥ अमुमेवार्थमन्योक्तिभङ्गया द्रढयति[भा.३६४२] जस्सेव पभावुम्मिल्लिताइं तं चेव हयकतग्घाई । कुमुदाई अप्पसंभावियाइं चंदं उवहसंति ॥ . वृ- यस्यैव प्रभावेणोन्मीलितानि-प्रबुद्धानि तमेव चन्द्रं कुमुदान्युपहसन्तीति सण्टङ्गः । कथम्भतानि? इत्याह-हतकृतघ्नानि,हतशब्दो निन्दावाचकः, कृतघ्नतया पापानीत्यर्थः। आत्मानं सम्भावयन्ति-'वयमेव शोभनानि' इत्यभिमन्यन्ते तच्छीलानि च यानि तान्यात्मसम्भावीनि, कुत्सितान्यात्मसम्भावीनि आत्मसम्भाविकानि । एवंविधानि परमोपकारिणमपि चन्द्रं 'वामतीवावदातानि, भवास्तु सकलकत्वान्न तथा' इति स्वकीयश्वेतप्रभापटलेनोपहसन्तीवोपहसन्तीत्युच्यते । एवमार्या! भवन्तोऽपियस्यैव प्रभावेणोन्मीलितविवेकलोचनाः साताः तदेव श्रुतं साम्प्रतमप्रमाणयन्तो हतकृतघ्ना इव लक्ष्यन्ते । एवं प्रज्ञापिताः सन्तः प्रतिपद्यन्ते सूत्राशातनापातकमयादगीतार्था अप्याहवति कादिग्रहणम् ॥ मू. (७३) सागारियस्स अंसियाओअविभत्ताओ अब्बोच्छिन्नाओ अब्बोगडाओ अनिजूढाओ, तम्हा दावए नो से कप्पइ पडिग्गाहित्तए। मू. (७४) सागारियस्स अंसियाओ विभत्ताओ वोच्छिन्नाओ वोगडाओ निजूढाओ, तम्हा दावए एवं से कप्पइ पडिग्गाहित्तए॥ [भा.३६४३] छिन्नममत्तो कपति, अच्छिन्नो न कप्पती अह तु जोगो। Page #342 -------------------------------------------------------------------------- ________________ उद्देशक ः २, मूलं-७४, [भा. ३६४३] ३३९ - पत्तेगं वा भणितो, इयाणि साहारणं भणिमो॥ वृ-आहृतिका-निर्हतिकापिण्डवदंशिकापिण्डोऽपि सागारिकेण छिन्नममत्वः' 'ममायम्' इति भावानिवर्तितः कल्पते, अच्छिन्नममत्वस्तुन कल्पते।अथैषः 'योगः' सम्बन्धः । यद्वा प्रत्येकम्' एकस्यैव सागारिकस्य सत्कंपिण्डमाश्रित्य विधिर्भणितः । इदानीं तु सागारिकस्यान्येषांच साधारणं पिण्डमधिकृत्य विधिं भणामः॥अनेन सम्बन्धेनायातस्यास्य व्याख्याःसागारिकस्य या अंशिका तस्याअन्येषामंशिकाभ्योऽविभक्तायाअव्यवच्छिन्नाया अव्याकृतायाअनिगूढाया मध्यात्कश्चिद् भक्त-पानं दद्यात्, नो “से" तस्य साधोः कल्पते प्रतिग्रहीतुम् । सागारिकस्यांशिका विभक्ता व्यवच्छिन्ना व्याकृता निगूढा च यस्माद् राशेर्भवति तस्माद् दद्यात्, एवं "से" तस्य कल्पते प्रतिग्रहीतुमिति सूत्रस पार्थ ॥ अथ नियुक्तिविस्तरः[भा.३६४] सागारियस्स अंसिय, अविभत्ता खेत-जंत-भोज्जेसु । खीरे मालाकारे, सगारादिद्वं परिहरंति ॥ वृ-सागारिकस्यांशिका अविभक्ता न कल्पते । सा च क्षेत्रे वा यन्त्रे वा भोज्येषु वा क्षीरे वा मालाकारे वा सम्भवति । अत्र च सागारिकद्दष्टं सर्वत्रापि परिहरन्तीति नियुक्तिगाथासमासार्थः।। अथैनामेव विवरीषुः सूत्रस्य विषमपदानि तावद् विवृणोति[भा.३६४५] अंसो ति व भागो ति व, एगट्ठा पुंज एव अविभत्ता। कतभागो विन सव्वो, वोच्छिजति सा अवोच्छिन्ना ॥ वृ-अंश इति वा भाग इति वा एकार्थे पदे । अंश एवांशिका, स्वार्थे कः प्रत्ययः । तत्र यावान् सागारिकादीनां साधारणश्चोल्लक उपस्कृतस्तावानद्याप्यखण्डः पुञ्ज एव यदाऽऽस्ते न भागादिविवक्षा कृता सा अंशिका अविभक्तेत्युच्यते । यत्र तु भागाः कृताः परं मूलराशिः कृतभागोऽपि न सर्वो व्यवच्छिद्यते सा अव्यवच्छिन्ना ॥ [भा.३६४६] अब्बोगडा उ तुझं, ममं तु वा जा न ताव निदिसति । तत्येव अच्छमाणी, होति अनिहिया अंसी॥ वृ-सर्वेषामपि समा भागाः स्थापिताः परम् ‘एष भागस्तव, एष पुनर्मम इत्येवं या न तावद् निर्दिशति साऽव्याकृताऽभिधीयते । या तुनिर्दिष्टा परमद्यापिन ततोऽन्यत्र नीयते सा अंशिका तत्रैव तिष्ठन्ती अनिगूढा भवति । एवंविधा न कल्पते प्रतिग्रहीतुमिति॥अथ क्षेत्रद्वारं व्याचष्टे[भा.३६४७]सीताइ जन्नो पहुगादिगावा, जे कप्पणिज्जा जतिणो भवंति । साली-फलादीण व निक्कयम्मि, पडेज तेल्लं लवणं गुलो वा ॥ वृ-सागारिकस्यान्येषां च साधारणे क्षेत्रे 'सीतायाः' हलपद्धतिदेवतायाः ‘यज्ञः' पूजा भवेत् तत्र साल्यादिद्रव्यं यद् उपस्कृतम्, पृथुकादयो वा ये तत्र क्षेत्रे यतीनां कल्पनीया भवन्ति, यद् वा तत्र शालीनां-कलमादीनां फलानां-चिर्भटादीनाम् आदिशब्दाद् योवारिप्रभृतीनां धान्यानां विक्रीयमाणानां निष्कये तैलं वालवणं वा गुडो वा पतेत्, एषा सर्वाऽपि क्षेत्रविषया सागारिकांशिका ।। यन्त्रद्वारमाह[भा.३६४८] जते रस गुलो वा, तेल्लं चक्कम्मि तेसु वा जंतू। विक्केजते पडितं, पवत्तणंते य पगयं वा ।। Page #343 -------------------------------------------------------------------------- ________________ ३४० बृहत्कल्प-छेदसूत्रम् -२-२/७४ वृ-यन्त्रमपि सागारिकस्यान्यैः सह साधारणं स्यात् । तच्च द्विधा-इक्षुयन्त्रं तिलयन्त्रं च । तत्रेक्षुयन्त्रे कोल्हुकाख्ये रसो गुडो वा भवेत् । तिलयन्त्रं तु चक्रमुच्यते, तत्र तैलं तिलाऽतसीसर्पपादीनां भवेत् । 'तेषु वा' रसादिषु विक्रीयमाणेषु 'यत् तु' तन्दुल-घृतवस्त्रादिकमापतितम्, अथवा यन्त्रस्य प्रवर्तने-प्रथमप्रारम्भे 'अन्ते वा परिसमाप्तौ यत् ते सम्भूय 'प्रकृतं' प्रकरणं कुर्वन्ति, एषा यन्त्रविषया अंशिका ।। अथ भोज्य-क्षीरद्वारे व्याख्यानयति[भा.३६४९] गण-गोहिमादि भोज्जा, भुत्तुवरियं व तत्थ जं किंचि । भाउगमादीन पओ, अविभत्तं जं व गोवेणं॥ वृ-गणः-मल्लादिगणरूपः गोष्ठी-महत्तरादिपुरुषपञ्चकरिगृहीता तयोः, आदिशब्दादन्यस्यापि महाजनस्य साधारणानि यानि भोज्यानि-सङ्खडयः यद् वा किञ्चिद् मोदकचूरिप्रभृतिकं तत्र मुक्तोद्वरितं द्रव्यम्, एषा भोज्यविषया सागारिकांशिका । तथा सागारिकसम्बन्धिनां भ्रातृभ्रातृव्यादीनां पयः' दुग्धं यावदद्यापि सागारिकेण सहाविभक्तम्, यद् वा दुग्धं वृत्तिच्छिन्नं सागारिकदुग्धमध्यादद्यापि गोपेनाविभक्तम्, एषा क्षीरविषया सागारिकांशिका ॥ मालाकारद्वारमाह[भा.३६५०] पुप्फपणिण आरामिगाण पडियं न जाव उ विरिक्कं । पक्खेवगादि समुहं, अचियत्तादी य पुव्वुत्ता । वृ-पुष्पाणां पणितेन-विक्रयेण यद् ‘आरामिकाणां' मालिकानां घृतादिकं पतितं तद् आरामस्वामिना सागारिकेण यावदद्यापि न विरक्तं विभक्तं तावदेषाऽपि सागारिकांशिका। अथ च क्षेत्रादिषु मालाकारान्तेषु द्वारेषु यदि सागारिकस्य सम्मुख पश्यतस्तदीयायामशिकायामविभक्तायां साधवो भक्तादिकं गृह्णन्ति तदा भद्रककृताः प्रक्षेपकादयः प्रान्तकृताः पुनरप्रीतिकादयः पूर्वोक्ता दोषा मन्तव्याः ॥ मालाकारद्वारं प्रकारान्तरेणाह[भा.३६५१] अहवा विमालकारस्स अंसियं अवनयंति भुजेसु। सोय सगारो तेसिं, तं पिन इच्छंति अविभत्तं ॥ वृ-अथवा मालाकारस्य पुष्पावचयनादिनिर्विष्टामंशिकां भोज्येषु' शालि-दाल्यादिषु यावत् तस्य आभाव्यं तावन्मात्रामगारिणः प्रागेवापयन्ति, सच मालाकारः ‘तेषां' साधूनां सागारिकः, अतो यावदसौ मालाकारांशिका अविभक्ता तावत् तामपि ग्रहीतुं नेच्छन्ति ।। द्वितीयपदमाह[भा.३६५२] गेलनमाईसु उ कारणेसू, माऽदिप्पसंगो न य सव्वे गीता। गिण्हंति पुंजा अविरेडियातो, तस्सऽनतो वा वि विरेडियाओ॥ वृ- ग्लानत्वा-ऽवमौदर्यादिषु कारणेषु संस्तरणाभावे ‘मा प्रथमत एव शय्यातरपिण्डग्रहणेऽतिप्रसङ्गो भवतु' इति कृत्वा, न च ते सर्वेऽपि गीतार्था अतः प्रथमम् ‘अविरिक्ताद्' अन्यैः समं साधारणात् पुजात्, ततः ‘अन्यस्मादपि' विरिक्तात् 'तस्य' सागारिकस्य सत्कात् पुञ्जाद् गृह्णन्ति॥ मू. (७५) सागारियस्स पूयाभत्ते उद्देसिए चेइए पाहुडियाए, सागारियस्स उवगरणजाए निहिए निसट्टे पाडिहारिए, तं सागारिओ देइ सागारियस्स परिजणो देइ, तम्हा दावए नो से कप्पइ पडिगाहित्तए । Page #344 -------------------------------------------------------------------------- ________________ उद्देशक :२, मूलं-७५, भा.३६५२] ३४१ वृ-अथास्य सूत्रस्य कः सम्बन्धः? इत्याह[भा.३६५३] दव्वे छिन्नमछिन्नं, न कप्पती कप्पए य इति वुत्तं । इदमन्नं पुन भावे, अव्वोच्छिन्नम्मि पडिसिद्धं ।। वृ-द्रव्यतः 'छिन्नं विभक्तं सद् अंशिकाद्रव्यं कल्पते, तदेव 'अच्छिन्नं' 'अविभक्तं न कल्पते इति प्रोक्तम् । इदं पुनरन्यद् अस्मिन् सूत्रे सागारिकस्याव्यवच्छिन्ने भावे प्रतिषिद्धम्, न कल्पते इत्यर्थः ॥ [भा.३६५४] अविसेसिओ व पिंडो, हेडिमसुत्तेसु एसमक्खातो। इह पुन तस्स विभागो, सो पुन उवकरण भत्ते वा ॥ वृ-अथवा अधस्तनसूत्रेषु ‘अविशेषितः' विभागरहितः ‘एषः' सागारिकपिण्ड आख्यातः। 'इह पुनः' प्रस्तुतसूत्रे ‘तस्य' सागारिकपिण्डस्य विभाग उच्यते । कथम् ? इत्याह-‘स पुनः' पिण्ड उपकरणं वा भवेद् भक्तं वा इति ॥अनेन सम्बन्धेनायातस्यास्यव्याख्या-सागारिकस्य ये पूज्याः-स्वामि-कलाचार्यादयस्तदर्थं भक्तम्-अशनादि पूज्यभक्तम्, तच्चोद्देशः-सङ्कल्पस्तेन निवृत्तमौद्देशिकम्, तानेव पूज्यानुद्दिश्य कृतमित्यर्थः । ततस्तेषामेव प्राभृतिकायां 'चेतितं' ढौकनीकृतम्, उपनीतमिति भावः । तथा सागारिकस्य उपकरणजातं-वस्त्र-कम्बलादिकं पूज्यानामर्थाय 'निष्ठितं' निष्पादितम्, ततः 'निसृष्टं पूज्येभ्यः प्रदत्तम् । तच्च' भक्तमुपकरणं वा तेभ्यः प्रातिहारिकं दत्तम्, भुक्तावशेषं सदिदं भूयोऽप्यस्माकं प्रत्यर्पणीयमिति भावः । तद् एवंप्रकारं संयतानां सागारिको वा दद्यात् सागारिकस्य परिजनो वा दद्यात् किं कल्पते ? न वा? इत्याह- ‘तस्मात् पूज्यभक्तात् पूज्योपकरणाद्वा प्रातिहारिकाद्दद्यात् परंन कल्पतेप्रतिग्रहीतुमिति सूत्रार्थः ॥ अथ भाष्यम्- [भा.३६५५] संबंधी सामि गुरू पासंडी वा वि तं समुद्दिस्स । . पूया उक्खित्तं ति य, पट्टगमत्तं च एगट्ठा । वृ-सागारिकस्यैव यः ‘सम्बन्धी' पितृव्य-मातुलादिर्योवा तस्य स्वामी प्रभुः गुरुर्वा' कलाचार्य यस्य वा पापण्डिनो भक्तैः स पूज्य उच्यते तं समुद्दिश्य कृतं पूज्यभक्तमुच्यते । “तत्त्व-भेदपर्यायैव्यार्खया" इति वचनादेकार्थिकान्याह-पूज्यभक्तम् उत्क्षिप्तभक्तं पट्टकभक्तम्, एतान्येकार्थानि पदानि ॥ [भा.३६५६] चेइयकडमेगटुं, पाहुडिय पहेणगं च एगट्ठा। उवगरणं वत्थादी, जाव विभागो व जोग्गं वा ।। वृ-चेतितं कृतं चेत्येकार्थम् । प्राभृतिका प्रहेणकमिति च एकार्थे । उपकरणं वस्त्रादिकम् । वस्त्रं चेह क्षौमिकं गृह्यते, तच्च परिधानं पावरणं वा पूज्यानां दातव्यम्, आदिग्रहणात् पाषण्डिनः प्रतिग्रहो वा कम्बलं वा एकादशप्रतिमां प्रतिपित्सोर्वा रजोहरणं दातव्यम्, एवमादिको यावान् विभागोऽत्र घटते यद् वा यस्योपकरणं योग्यं तद् वक्तव्यम् ।। [भा.३६५७] निट्ठिय कडं च उक्कोसकं च दिन्नं तु जाणसु निसटुं । - भुत्तुव्वरियं पडिहारियं तु इयरं पुनो चत्तं ॥ कृ-निष्ठितंकृतमित्येकोऽर्थः । यद्वा यद् उत्कृष्टं वस्त्रादित निष्ठां प्राप्तमिति कृत्वा निष्ठितमुच्यते। ____ Page #345 -------------------------------------------------------------------------- ________________ ३४२ बृहत्कल्प-छेदसूत्रम् -२-२/७५ यत्तु दत्तं तद् निसृष्टं जानीहि । भुक्तोद्वरितं भूयोऽस्माकं प्रत्यर्पणीयमिति यत् प्रतिज्ञातं तत् प्रातिहारिकम् । इतरत्पुनः' अप्रातिहारिकंसागारिकेण भक्तमुपकरणंवा यत् 'त्यक्तं' निर्देयतया दत्तमित्यर्थः । एवंविधं प्रातिहारिकदत्तं शय्यातरपिण्ड इति कृत्वा न ग्रहीतव्यम् ॥ मू. (७६) सागारियस्स पूयाभत्ते उद्देसिए चेइए जाव पाडिहारिए, तं नो सागारिओ देइ नो सागारियस्स परिजणो देज्जा, सागारियस्स पूया देइ, तम्हा दावए नो से कप्पइ पडिग्गाहित्तए। पृ.अस्य व्याख्या प्राग्वत् । नवरम्-अत्र न सागारिको न वा सागारिकस्य परिजनो दद्यात् किन्तु सागारिकस्य पूज्यः' सम्बन्धि-स्वाभ्यादिर्दद्यात्तथापिन कल्पते, प्रातिहारिकतया दत्तमिति कृत्वा सागारिकपिण्डत्वात् ॥ मू. (७७) सागारियस्स पूयाभत्ते उद्देसिए चेइए पाहुडियाए सागारियस्स उवगरणजाए निहिए निसट्टे अपाडिहारिए, तं सागारिओ देइ सागारियस्स परिजनो देइ, तम्हा दावए नो से कप्पइ पडिग्गाहित्तए । -अयमप्रातिहारिकतया सागारिकपिण्डो न भवति, परं सागारिकस्तत्परिजनो वा ददातीति कृत्वा प्रक्षेपकादिदोषसद्भावाद् न कल्पते । मू. (७८) सागारियस्स पूयाभत्ते जाव अपाडिहारिए, तं नो सागारिओ देइ, नो सागारियस्स परिजणो देइ, सागारियस्स पूया देइ, तम्हा दावए एवं से कप्पइ पडिगाहित्तए । वृ.अत्र सागारिकेणाद्दष्टं तत्पूज्योऽप्रातिहारिकं ददातीति कृत्वा कल्पते, परं द्वितीयपदे, नोत्सर्गतः॥यत आह[भा.३६५८] पूयाभत्ते चेतिए, उवकरणे निहितै निसट्टे य । तं पिन कप्पति घेत्तुं, पक्खेवगमादिनो दोसा॥ वृ- पूज्यानामर्थाय यद् भक्तं 'चेतितं' कृतम्, यचोपकरणं निष्ठितं तत् तेभ्यः 'निसृष्टम्' अप्रातिहारिकतया प्रदत्तं तदपिन कल्पते प्रतिग्रहीतुम्, प्रक्षेपकादयो दोषा भद्रक-प्रान्तकृतामा भूवन्निति ॥ मू. (७९) कप्पइ निग्गंथाण वा निग्गंधीण वा इमाइं पंच वत्थाइंधारित्तए वा परिहरित्तए वा, तंजहा- जंगिए भंगिए साणए पोतए तिरीडपट्टे नामं पंचमे ॥ वृ-अथास्य सूत्रस्य कः सम्बन्धः ? इत्याह[भा.३६५९]उवगरणं चिय पमयं, तस्स विभागो उ बितिय-चरिमम्मि । वाहारो वा वुत्तो, इदाणि उवधिस्स अधिकारो॥ वृ-पूर्वसूत्रे तावदुपकरणमेव प्रकृतम्, अतः ‘तस्य' उपकरणस्य 'विभागः' विशेषप्ररूपणं द्वितीयोद्देशकस्य चरमे अन्त्ये सूत्रद्वये क्रियते । अथवा पूर्वसूत्रेषु सप्रपञ्चमाहार उक्तः, इदानीं त्वस्मिन् सूत्रे ‘उपधि (धे) रधिकारः' याध्श उपधिग्रहीतुं कल्पते ताइक् प्रतिपाद्यते इति भावः ॥ [भा.३६६०] ताई विरूवरूवाइं देइ वत्थानि तानि वा घेत्तुं। सेस जतीणं देज्जा, तत्थ इमे पंच कप्पंति ।। वृ- अथवा 'तानि' परिधान-प्रावरण-कम्बलादीनि विरूपरुपाणि वस्त्राणि यदा सागारिकोऽप्रातिहारिकतया ददाति तदा तानि गृहीत्वा पूज्यः कलाचार्यादि 'शेषाणि' पाता Page #346 -------------------------------------------------------------------------- ________________ उद्देशक ः २, मूलं-७९, [भा. ३६६०] ३४३ भुक्तोद्वरितानि यतीनां दद्यात्, 'तत्र' तेषु दीयमानेष्वमूनि पञ्च वस्त्राणि कल्पन्ते । अनेन सम्बन्धेनायातस्यास्य व्याख्या-कल्पते निर्ग्रन्थानांवा निर्ग्रन्थीनां वा इमानि पञ्च वस्त्राणि धारयितुं वा' परिग्रहे धर्तुं परिहर्तुं वा परिभोक्तुम् । तद्यथा-जङ्गमाः-त्रसाः तदवयवनिष्पन्नंजामिकम्, सूत्रे प्राकृततवाद् मकारलोपः, भङ्गा-अतसी तन्मयं भाङ्गिकम्, सनसूत्रमयं सानकम्, 'पोतकं' कासिकम्, तिरीटः-वृक्षविशेषस्तस्य यः पट्टो वल्कलक्षणस्तन्निष्पनं तिरीटपट्टकं नाम पञ्चमम्। एष सूत्रस पार्थः ॥ अथ विस्तरार्थं भाष्यकृद् बिभणिषुराह[भा.३६६१] जंगमजायं जंगिय, तं पुन विगलिंदियं च पंचिंदी। एकेकं पि य एत्तो, होति विभागेनऽनेगविहं । वृ-जङ्गमेभ्यो जातंजङ्गिकम्, तत् पुनर्विकलेन्द्रियनिष्पन्न पञ्चेन्द्रियनिष्पन्नं वा । अनयोर्मध्ये एकैकमपि विभागेन चिन्त्यमानमनेकविधं भवति ॥ तद्यथा[भा.३६६२] पट्ट सुवन्ने मलए, अंसुग चीणंसुके च विगलेंदी। उन्नोट्टिय मियलोमे, कुतवे किट्टे च पंचेंदी॥ वृ-“पट्ट"त्ति पट्टसूत्रजम्, “सुवने"त्ति सुवर्णवर्णं सूत्र केषाञ्चित् कृमीणां भवति तन्निष्पन्न सुवर्णसूत्रजम्, मलयो नाम-देशस्तत्सम्भवं मलयजम्, अंशुकः-लक्ष्णपट्टः तनिष्पन्नमंशुकम्, चीनांशुको नाम-कोशिकाराख्यः कृमि तस्माद् जातं चीनांशुकम्, यद्वा चीना नाम जनपदः तत्र यः श्लक्ष्णतरः पट्टस्तस्माद् जातंचीनांशुकम्, एतानि विकलेन्द्रियनिष्पन्नानि।तथा और्णिकमौष्ट्रिकं मृगरोमजं चेति प्रतीतानि, पञ्चेन्द्रियनिष्पन्नानि द्रष्टव्यानि ॥ अथ भाङ्गिकादीनि चत्वार्यप्येकगाथया व्याचष्टे[भा.३६६३] अतसी-वंसीमादी, उ भंगियं साणियं च सणवक्के । पोत्तय कप्पासमयं, तिरीडरुक्खा तिरिडपट्टो । कृ-अतसीमयं वा “वंसि"त्ति वंशकरीलस्य मध्याद्यनिष्पद्यतेतद्वा, एवमादिकंभाङ्गिकम्। यत् पुनः सनवृक्षवल्काद् जातं तद् वस्त्रं सानकम् । पोतकं कसमयम् । तिरीटवृक्षवल्काद् जातं तिरीटपट्टकम् ॥ [भा.३६६४] पंच परुवेऊणं, पत्तेयं गेण्हमाण संतम्मि।। कप्पासिगा य दोन्नि उ, उन्निय एक्को य परिभोगो ।। वृ एवं पञ्च वस्त्राणि प्रस्त्रप्य सम्प्रति ग्रहणविधिरभिधीयते-'प्रत्येकम्' एकैकस्य साधोः प्रायोग्याणि वस्त्राणि गृह्णता ‘सति' विद्यमाने लाभे द्वौ कल्पौ कासिकौ एकचौर्णिक इत्येवं त्रयः कल्पा ग्रहीतव्याः। परिभोगश्चामीषां वक्ष्यमाणविधिना विधातव्यः । एषा पुरातना गाथा॥ अथैनामेव विवृणोति[भा.३६६५] एकोन्नि सोत्ति दोन्नी, तिन्नि वि गेण्हिज्ज उत्रिए लहुओ। पाउरमाणे चेवं, अंतो मज्झे व जति उन्नी॥ वृ-एक और्णिकः कल्पो द्वौ वा सौत्रिको प्रत्येकं ग्रहीतव्यौ । अथ त्रीनपि कल्पान् सौत्रिकान् और्णिकान् वा गृह्णाति ततो मासलघु । प्रावृण्वन्नपि यद्येकमौर्णिकं प्रावृणोति ततः ‘एवमेव' मासलघु । 'अन्तर्वा' शरीरानन्तरितं 'मध्ये वा' द्वयोः सौत्रिकयोर्मध्यभागे यद्यौर्णिकं प्रावृणोति Jāin Education International Page #347 -------------------------------------------------------------------------- ________________ ३४४ बृहत्कल्प-छेदसूत्रम् -२-२/७९ तदाऽपि मासलघु । इदमेव भावयति[भा.३६६६] अमितरं व बाहिं, बाहिं अभितरं करेमाणे । परिभोगविवच्चासे, आवजइ मासियं लहुअं॥ कृ-अभ्यन्तरपरिभोग्यं-सौत्रिकंकल्पं बहि कुर्वन्' प्रावृण्वन् बहिपरिभोग्यं वा-और्णिकमभ्यन्तरं कुर्वन् परिभोगव्यत्यासं करोति, तत्र चापद्यतेलघुकम् । यतएवमतः सौत्रिकंकल्पमन्तः प्रावृणुयात्, और्णिकं तु बहि । एष विधिपरिभोग उच्यते । अत्र विधीयमाने गुणानुपदर्शयति[पा.३६६७] छप्पइय-पनगरक्खा, भूसा उज्झायणा य परिहरिया। सीतत्ताणं च कतं, खोम्मिय अमितरे तेने ॥ वृ-और्णिके ह्यन्तः परिभुज्यमानेषट्पदिकाः संसज्येरन्, ताः सौत्रिकमन्तः प्रावृण्वता रक्षिता भवन्ति । और्णिकं चान्तः परिभुज्यमानं मलीमसं भवति, तत्र च पनकः संसज्यते, अतो विधिपरिभोगे पनकस्यापि रक्षा कृता भवति । सौत्रिकेण च बहि प्रावृतेन विभूषा भवेत् । तथावस्त्रमहर्निशमपि परिभुज्यमानं मलक्षम-न मलीमसं भवति, कम्बली तु परिभुज्यमाना मलीमसाजायते, मलीमसतया च दुर्गन्धा, अतो विधिपरिभोगे “उज्झायणा" दुर्गन्धता साऽपि परिहता । सौत्रिककल्पगर्भया च कम्बलिकया प्राब्रियमाणया शीतत्राणं कृतं स्यात् । एतेन कारणकलापेन क्षौमिकं' न प्राप्यते ततः किं कर्तव्यम् ? इत्याह[भा.३६६८] कप्पासियस्स असती, वागय पट्टे य कोसियारे य। असती य उन्नयस्सा, वागत कोसेज्ज पट्टे य॥ वृ- कासिकस्वाभावे वल्कजम्, तस्याभावे पट्टवस्त्रम्, तदप्राप्तौ कौशिकारवस्त्रमपि ग्रहीतव्यम् । अथौर्णिकंन प्राप्यते तत और्णिकस्य स्थाने प्रथमवल्कजंततः कौशेयंततः पट्टजमपि ग्राह्यम् । यद्वा पट्टशब्देनात्र तिरीटपट्टकमुच्यते । चशब्दादतसी-वंशीयमयमपि ग्रहीतव्यम् ।। अथ प्रावरणे गणनाविधिमाह[भा.३६६९]न उन्नियं पाउरते तु एकं, दोन्नी जता खोम्मिय उन्नियं च । दो सुत्ति अंतो बहि उन्नितीसु, दुगादि उन्नी वि बहिं परेणं ॥ वृ- और्णिकं कल्पमेकं न प्रावृणुते, अर्थादापन्नं सौत्रिकमेकमपि प्रावृणुयात् । यदा तु द्वौ कल्पौ प्रावृणोति तदा ‘क्षौमिकं सौत्रिकमन्तः द्वितीयं पुनरौर्णिकं बहि प्रावृणुयात्। त्रिषु कल्पेषु प्रावरीतुमिष्टेषु द्वौ सौत्रिकावन्तः एकं त्वौर्णिकं बहि प्रावृणुयात् । अर्थौर्णिकान् द्व्यादीनपि प्रावरीतुमिच्छति ततो द्वित्रिप्रभृतयोऽप्यौर्णिका बहि सौत्रिकात् परतः प्रावरणीयाः ॥ अथ वस्त्रग्रहणे विधिमाह[भा.३६७०] पंचण्हं वत्थाणं, परिवाडीगाए होइ गहणं तु । उपरिवाडी गहणे, पच्छित्ते मग्गणा होइ । वृ- ‘पञ्चानां' जङ्गिकादीनां वस्त्राणां परिपाट्या ग्रहणं कर्त्तव्यम् । परिपाटिमि-पूर्वं काासिकौर्णिकं च, तदभावे वल्कज-पट्टजादिकमित्यादिरनन्तरोक्तः क्रमः । तामुल्लङ्घय उत्परिपाट्या ग्रहणे प्रायश्चित्तस्य मार्गणा भवति । तद्यथा-जघन्यमुपधिमुत्परिपाट्या गृह्णाति पञ्चरात्रिन्दिवानि, मध्यमे मासलघु, उत्कृष्ट चतुर्लघवः ॥ एतदेव भावयति Page #348 -------------------------------------------------------------------------- ________________ ३४५ उद्देशक ः २, मूलं-७९, [भा. ३६७१] [भा.३६७१]अलंभऽहाडस्स उ अप्पकम्मं, अलंभे तस्सावि उजं सकम्मं । एतं अकाउं चउरो उ मासा, भवंति वत्थे परिवाडिहीणे ॥ वृ-इह छेदन-सीवन-सन्धानादेरेकमपि परिकर्म यत्र न भवति, यद् वा बहुधा सीवितव्यं तवस्त्रंबहुपरिकर्मोच्यते। तत्रप्रथमं यथाकृतं मार्गयितव्यम्, तस्यालाभेऽल्पपरिकर्म, तस्याप्यभावे यत् ‘सकर्म' बहुपरिकर्मकम् । अथैवंविधं योगमकृत्वा प्रथममेवाल्पपरिकर्मबहुपरिकर्म वा गृह्णाति ततश्चत्वारो मासा लघवः । तुशब्दो विशेषणे, तल्लब्धश्चायमर्थ-उत्कृष्टस्य वस्त्रस्य यथाकृतादिविपर्यासग्रहणे चतुर्लघवः, मध्यमस्य विपर्यासे मासिकम्, जघन्यस्य व्यत्यासे पञ्चकम् । एवं 'परिपाटीहीन' यथोक्तग्रहणक्रमरहिते वस्त्रे गृह्यमाणे प्रायश्चित्तम् ।। अथ द्वितीयपदमाह[भा.३६७२]अद्धाणमाईसु उ कारणेसुं, कुज्जा अलंभम्मि उ उक्कम पि। गेलन्नमादीसु विवज्जयं वा, असतीय कुजा खलु खुम्मियस्स ।। वृ-अध्वा-विप्रकृष्टो मार्गस्तं प्रपन्नानां ततो वा निर्गतानां दुर्लभं वस्त्रं भवेत्, एवमादिषु कारणेषु वस्त्रस्यालाभे उत्क्रममपि कुर्यात्, यथाकृतादिक्रमव्यत्यासेनापि गृह्णीयादिति भावः । तथा ग्लानत्वाऽनात्मवशतादिषु कारणेषु 'विपर्ययमपि' परिभोगविपर्यासमपि कुर्यात्, अन्तःपरिभोग्यं बहि बहि परोभोग्यं चान्तः प्रावृणुयादिति भावः । क्षौमिकस्य वा कल्पस्याभावे खल्वेकमप्यौर्णिकं प्रावृणुयात् ॥ म. (८०) कप्पइ निग्गंथाण वा निग्गंथीण वा इमाइं पंच रयहरणाइंधारित्तए वा परिहरित्तए वा, तंजहा- उत्रिए उट्टिए साणए वच्चाचिप्पए मुंजचिप्पए नाम पंचमे ।। वृ-अथास्य सम्बन्धमाह[भा.३६७३] उदितो खलु उक्कोसो, उवही मज्झिममिदाणि वोच्छामि । संखा व एस सरिसी, पाउंछण सुत्तसंबंधो॥ वृ- 'उदितः' भणितः खल्वनन्तरसूत्रे ‘उत्कृष्टः' और्णिक-सौत्रिककल्परूप उपधि । इदानीं तु 'मध्यममुपधिं' रजोहरणमहमस्मिन् सूत्रे वक्ष्ये । यद्वा अनयोः सूत्रयोर्या पञ्चलक्षणा सङ्ख्या एषा ‘सहशी' वस्त्राणां रजोहरणानां च तुल्या, अत इदं ‘पादप्रोञ्छनं' रजोहरणं तद्विषयं सूत्रमारभ्यते । एष सम्बन्धः । अनेन सम्बन्धेनायातस्यास्य व्याख्या-कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा इमानि पञ्चरजोहरणानि धारयितुंवा परिहर्तुवा । तद्यथा' इति उपप्रदर्शनार्थ । 'और्णिकम्' ऊरणिकानामूर्णाभिनिवृत्तम्, 'औष्ट्रिक’ उष्ट्ररोमभिर्निर्वृत्तम्, ‘सानकं' सनवृक्षवल्काद् जातम्, वच्चकः-तृणविशेषस्तस्य चिप्पकः कुट्टितः त्वग्रूपः तेन निष्पन्नं वच्चकचिप्पकम्, मुञ्जः-शरस्तम्बस्तस्य चिप्पकाद् जातं मुञ्जचिप्पकं नाम पञ्चममिति सूत्रार्थः ।। अथ भाष्यविस्तरः[भा.३६७४] अभितरं च बझं, हरति रयं तेन होइ रयहरणं । तं उन्नि उट्टि सणयं, वच्चंयचिप्पं च मुंजं च ॥ कृ-यस्मादाभ्यन्तरं बाह्यंच रजो हरति तेन रजोहरणं भवति। तत्र बाह्य रजो हरतीति सुप्रतीतम्, आभ्यन्तरं कथं पुनरपहरति? इति उच्यते-रजोहरणेन प्रमार्जिते भूभागे ये आदाननिक्षेपादयः संयमव्यापारा विधीयन्ते ते तदष्टकर्मरूपमाभ्यन्तरं रजोऽपहरन्ति, अतः कारणे कार्याध्यारोपं विधाय तदप्याभ्यन्तररजोहरणमुच्यते । उक्तं च Page #349 -------------------------------------------------------------------------- ________________ ३४६ बृहत्कल्प-छेदसूत्रम् -२-२/८० संजमजोगा एत्थं, रओहरा तेसि कारणं जेणं । रयहरणं उवयारा, तेनं भन्नइ रओ कम्मं ॥ तच्च पञ्चविधम्-और्णिकमौष्ट्रिकं शनकं वच्चकचिप्पकं मुञ्जचिप्पकं चेति । तत्राद्यानि त्रीणि सुप्रसिद्धानि अन्त्यद्वयं व्याख्यानयति [ भा. ३६७५ ] वच्चक मुंजं कत्तंति चिप्पिउं तेहि वूयए गोणी । पाउरणऽत्थुरणाणि य, करेति देसिं समासज्ज ॥ वृ- क्वचिद्धर्मचक्रभूमिकादौ देशए 'वच्चकं' दर्भाकारं तृणविशेषं 'भुञ्जं च' शरस्तम्बं प्रथमं 'चिप्पित्वा' कुट्टयित्वा तदीयो यः क्षोदस्तं कर्त्तयन्ति । ततः 'तैः' वच्चकसूत्रैर्मुअसूत्रैश्च 'गोणी' बोरको व्यूयते, प्रावरणा - SSस्तरणानि च 'देशीं' देशविशेषं समासाद्य कुर्वन्ति । अतस्तन्निष्पन्नं रजोहरणं वच्चकचिप्पकं मुअचिप्पकं वा भण्यते ।। [भा. ३६७६ ] रयहरणपंचगस्सा, परिवाडीयाए होति गहणं तु । उप्परिवाडी गहणे, आवज्जति मासियं लहुअं ।। वृ- 'रजोहरणपञ्चकस्य' अनन्तरोक्तस्य परिपाटिकया ग्रहणं भवति । उत्परिपाट्या तु ग्रहणे आपद्यते मासिकं लघुकम् ॥ का पुनः परिपाटि ? इत्याह [भा. ३६७७] तिविहोन्नय असतीए, उट्टियमादीण गहण धरणं तु । उप्परवाडी गहणे, तत्थ वि सट्ठाणपच्छेत्तं ॥ वृ- यथाकृतादिभेदात् त्रिविधं यदौर्णिकं तत् प्रथमतो ग्रहीतव्यम् । यथाकृतादिलाभचर्च प्राग्वद् द्रष्टव्यः । अथौर्णिकं न प्राप्यते तत औष्ट्रिकादीनामपि चतुर्णां यथाक्रमं ग्रहणं धारणं वा कर्त्तव्यम् । अथ 'उपरिपाट्या' यथोक्तक्रमव्यत्यासेन ग्रहणं करोति ततस्तत्रापि स्वस्थानप्रायश्चित्तम्, मध्यमोपधिनिष्पन्नं लघुमासिकमिति भावः । आह-किमर्थं प्रथममौर्णिकं गृह्यते ? उच्यते [भा. ३६७८] उट्ट-सणा कुच्छंती, उल्ला इयरेसु मद्दवं नत्थि ।. तेनोन्नियं पसत्थं, असतीय उ उक्कमं कुजा ॥ वृ- "उट्ट - सण "त्ति औष्ट्रिकशनजे रजोहरणे वर्षाकाले वर्षाकाले व्याघारितवृष्टिकायेनार्द्रीभूते सती कुध्यतः । ततश्च पनकसम्मूर्च्छनादयो दोषाः प्रमार्जनाकार्यं च न भवति । अथार्द्रेणापि प्रमार्जयन्ति ततो दशिकान्तेषु गोलकाः प्रतिबध्यन्ते, मलिनीभूते च तत्राप्कायविराधना । तथा 'इतरयोः' वच्चक-मुञ्जचिप्पकाख्ययो रजोहरणयोर्मार्दवं नास्ति, स्वभावत एव कठिनत्वात् । तेन कारणेनौर्णिकरजोहरणमौष्ट्रिकादिभ्यः प्रशस्तम् । और्णिकस्य 'असति' अभावे उत्क्रमं कुर्यात्, औष्ट्रिकादीन्यपि यथालाभं गृह्णीयादिति भावः ।। द्वैतीयीकोद्देशकोऽयं मयाऽपि स्पष्टीचक्रे सद्गुरूपां प्रसादात् । सूते नाम्भोबिन्दुनिस्यन्दमिन्दुग्रावा चन्द्रज्योत्स्नया चुम्बितः किम् ? ॥ उद्देशकः-२ समाप्तः मुनिदीपरत्नसागरेण संशोधिता सम्पादिता बृहतकल्पसूत्रे द्वितीयोदेशकस्य भद्रबाहु स्वामि रचित नियुक्तियुक्तं संघदासगणि विरचितं भाष्यं एवं मलयगिरि क्षेमकीर्ति आचार्याभ्यां विरचिता टीका परिसमाप्ता । Page #350 -------------------------------------------------------------------------- ________________ उद्देशक : ३, मूलं-८१, [भा. ३६७९] ३४७ (उद्देशकः-३) व्याख्यातो द्वितीय उद्देशकः, अथ तृतीयः प्रारभ्यते, अस्य चेदमादिसूत्रम् मू. (८१) नो कप्पइ निग्गंधाणं निग्गंथीणं उवस्सयंसि चिट्टित्तए वा निसीइत्तए वा तुयट्टित्तए वा निदाइत्तए वा पयलाइत्तए वा, असनं वा ४ आहारं आहारित्तए, उच्चारं वा पासवणं वा खेलं वा सिंघाणं वा परिट्ठवित्तए, सज्झायं वा करित्तए, झाणं वा झाइत्तए, काउस्सग्गंवा ठाणं ठाइत्तए। वृ-अथास्य सूत्रस्य कः सम्बन्धः ? इत्याह[भा.३६७९] वत्थाणि एवमादीणि गणहरो गेण्हिउं सयं चेव । वच्चति वतिणीवसहि, पवत्तिनीए पणामेउं ।। वृ- ‘एवमादीनि' द्वितीयोद्देशकचरमसूत्रद्वयोक्तानि निर्ग्रन्थीप्रायोग्याणि वस्त्राणि गृहीत्वा 'गणधरः' निर्ग्रन्थीवर्तापकः प्रवर्त्तिन्यास्तानि वस्त्राणि स्वयमेव “पणामे" तिअर्पयितुं व्रतिनीनां वसतिं व्रजति, अतस्तद्विषयो विधिरनेन सूत्रेण प्रतिपाद्यते ॥ प्रकारान्तरेण सम्बन्धमाह[भा.३६८०] बीएहि उ संसत्तो, बितियस्सातिम्मि इह उ इत्थीहिं। बितिए उवस्सगा वा, पगता इहई पि सो चेव ॥ वृ-द्वितीयोद्देशकस्यादिसूत्रे बीजैः संसक्त उपाश्रयो भणितः, 'इह तु' तृतीयोद्देशकस्यादिसूत्रे स्त्रीभिः संसक्त उच्यते । यद्वा द्वितीये उद्देशके बहुषु सूत्रेषूपाश्रयाः प्रकृता येषु साधूनां वस्तुंन कल्पते, अत इहाप्यादिसूत्रे स एवोपाश्रयः प्रोच्यते ॥ [भा.३६८१] तत्थ अकारण गमनं, पडुच्च सुत्तं इमं समुदियं तु। कज्जेण वा गते तू, तुवट्टमादीणि वारेति ॥ वृ. 'तत्र' निर्ग्रन्थीनामुपाश्रयेऽकारण-वक्ष्यमाणकारणकलापं विना यद् गमनं तत् प्रतीत्य इदं सूत्रं 'समुदितं' समायातम्, तदनेन प्रतिषिध्यते इति भावः । अथ कार्येण तत्र गताः ततः 'गते तु' गमने पुनः सञ्जाते त्वग्वर्तनादीनि कर्तुवारयति॥अनेन सम्बन्धेनायातस्यास्य व्याख्यानो कल्पते निर्ग्रन्थानां निर्ग्रन्थीनामुपाश्रये स्थातुं वा निषत्तुं वा त्वग्वर्तयितुं वा निद्रायितुं वा प्रचलायितुं वा, अशनं वा पानं वा खादिमं वा स्वादिमं वा चतुर्विधमप्याहारमाहर्तुम्, उच्चारंवा प्रश्रवणं वा खेलं वा सिंघाणं वा परिष्ठापयितुम्, स्वाध्यायं वा कर्तुम्, ध्यानं वाध्यातुम्, कायोत्सर्ग वा स्थानं स्थातुमिति सूत्रसझेपार्थः ॥ अथ विस्तरार्थं भाष्यकृद् बिभणिषुराह[भा.३६८२] . आपुच्छमनापुच्छा, व अकज्जे चउगुरुं तु वच्चंते । आपुच्छिय पडिसिद्धे, सुद्धा लग्गा उवेहंता ॥ वृ-स्थविराणामापृच्छयाऽनापृच्छया वा यदि अकार्ये निर्ग्रन्थीनामुपाश्रयं व्रजति ततश्चतुर्गुरुकम्। स्थविरा आपृष्टाः सन्तो यदि प्रतिषेधं कुर्वन्ति-'माव्रज, न वर्तते निष्कारणं निर्ग्रन्थीनामुपाश्रयं गन्तुम्' एवं प्रतिषिद्धे स्थविराः 'शुद्धाः' न प्रायश्चित्तभाजः । अत स्थविरा उपेक्षन्ते ततस्तेऽपि लग्नाः, चतुर्गुरुकमापन्ना इत्यर्थः ।। अथवा[भा.३६८३] चउरो गुरुगा लहुगा, मासो गुरुगो य होति लहुगो य। . आयरिए अभिसेगे, भिक्खुम्मि य गीतऽगीतत्थे । Page #351 -------------------------------------------------------------------------- ________________ ३४८ बृहत्कल्प-छेदसूत्रम् -२-३/८१ वृ-आचार्यो यदि निष्कारणं निर्ग्रन्थीप्रतिश्रयं गच्छति ततश्चत्वारो गुरवः । अभिषेको व्रजति चत्वारो लघवः । गीतार्थभिक्षुव्रजति गुरुको मासः ।अगीतार्थभिक्षुव्रजति लघुको मासः ।यद्वा[भा.३६८४] गमने दूरे संकिय, निस्संकऽभिलाव कक्ख सतिकरणं । ओभासण पडिसुणणे, संपत्ताऽऽरोवणा भणिता ॥ वृ-निष्कारणं संयतीनामुपाश्रये गच्छति १ तत्र गतो दूरे स्थितः संयतीः पश्यति एतास्ता इति २ कतरा कतरा पुनरियम् ? इत्येवं शङ्कां करोति ३ अमुका अमुकावा इयमिति निशङ्कितं जानाति ४ संयतीभि समम् 'अभिलापं' संलापं करोति ५ कक्षान्तरादीनि विलोकयति ६ ‘स्मृतिकरणम्' 'ईशी ममाप्यासीत्' इति लक्षणं करोति ७ तामवभाषते ८ अवभाषिता सती सा प्रतिशृणोति ९ सम्पत्तिं तया सह करोति १०, एतेषु दशसु स्थानेषु आरोपणा वक्ष्यमाणा भणिता ।। अथात्र स्मृतिकरणपदं व्याचष्टे[भा.३६८५] भावम्मि उ संबंधो, सतिकरणं एरिसा व सा आसि। अहवा नं इणमटुं, पणएमि सती भवति एसा ।। वृ-'भावे' भावतः-प्रतिसेवनाभिप्रायेण तया सह यः सम्बन्धः क्रियते, याशी त्वं ईशी 'सा' मद्भार्या आसीत्, एतत् स्मृतिकरणमुच्यते । अथवा ‘एतां' संयतीमहम् 'अमुमर्थं' प्रतिसेवनालक्षणं 'प्रणयामि' प्रार्थयामीत्येषां स्मृतिरुच्यते ॥ अथानन्तरोक्तेषु दशसु स्थानेषु प्रायश्चित्तमाह[भा.३६८६] चउरो य अनुग्घाया, लहुगो लहुगा य होति गुरुगा य । छम्मासा लहु-गुरुगा, छेदो मूलं तह दुगं च ॥ वृ-संयतीप्रतिश्रयगमने चत्वारोऽनुद्धाता मासाः । दूरदर्शने मासलघु । शङ्कायां चतुर्लघवः। निशङ्किते चतुर्गुरवः । आलापेषण्मासा लघवः । कक्षान्तराद्यवलोकनेषण्मासा गुरवः । स्मृतिकरणे छेदः । अवभाषणे मूलम् । प्रतिश्रवणेऽनवस्थाप्यम् । सम्पत्त्यां पाराञ्चिकम् ॥ एवं तावदोघतः प्रायश्चित्तमुक्तम् । अथ विभागतस्तदेव दर्शयितुमाह[भा.३६८७] - निक्कारणगमणम्मिं, बहवे दोसा य पञ्चवाता य । जिन-थेरपडिकुट्ठा, तेसिं चाऽऽरोवणा इणमो॥ वृ-निष्कारणगमने बहवो दोषाश्च प्रत्यपायाश्च भवन्ति । तत्र दोषा आत्म-परोभयसमुत्थाः पारलौकिकाः, प्रत्यपायाश्च भोगिनी-घाटिकादय ऐहलौकिकाः । ते चोभयेऽपिजिनैः-तीर्थकृभिः स्वविरैश्च-गणधरादिभिः परतिक्रुष्टाः, यथाऽमी भवन्ति तथा न विधेयमित्युपदिष्टमिति भावः । तेषां च दोषाणाम् ‘इयं' वक्ष्यमाणा ‘आरोपणा' प्रायश्चितम् ॥ तचैतेषु सूत्रोक्तपदेषु भवति[भा.३६८८] चिठ्ठित्त मिसीइत्ता, तुयट्ट निद्दा य पयल सज्झाए। . झाणा-ऽऽहार-विहारे, पच्छित्ते मग्गणा होइ । वृ-स्थातुं निषत्तुं त्वग्वर्तनं निद्रां प्रचलां स्वाध्यायं ध्यानमाहारं वा कर्तु विहारं-चक्रमणम् उपलक्षणत्वाद् उच्चार-प्रश्रवणे कायोत्सर्ग वा कर्तुं न कल्पते । अथ करोति ततः प्रायश्चित्तस्य मार्गणा भवति ।। इदमेव प्रकटयति [भा.३६८९] एतेसिं तु पयाणं, पत्तेय विभागो य । Page #352 -------------------------------------------------------------------------- ________________ ३४९ उद्देशक : ३, मूलं-८१, [भा. ३६८९] जो एत्थं आवन्नोऽणावत्रो वा वि जो एत्थं ॥ वृ-'एतेषां स्थानादीनां पदानां प्रत्येकं प्ररूपणा विभागश्च दोषाणां विभाषालक्षणः कर्तव्यः। कथम्? इत्याह-यः 'अत्र' दोषजाले प्रायश्चित्तजाते वाऽऽपन्नो यो वाऽनापन्नः तदेतद् वक्तव्यम्।। यथाप्रतिज्ञातमेव निर्वाहयति[भा.३६९०] निक्कारणमविहीए, निकारणओ तहेव य विहीए । कारणओ अविहीए, कारणतो चेव य विहीए॥ [भा.३६९१] आदिभयणाण तिण्हं, अनतरीए उ संजतीसेज्जं । जे भिक्खू पविसेज्जा, सो पावति आणमादीणि ॥ वृ-साध्वीप्रतिश्रये प्रविशतां चत्वारो भङ्गाः, तद्यथा-निष्कारणेऽविधिना साध्वीप्रतिश्रये १ निष्कारणं विधिना २ कारणतोऽविधिना ३ कारणतो विधिना प्रविशति ४ ॥ अत्र 'आदिभजनानाम्' आद्यानां त्रयाणां भङ्गानाम् अन्यतरया भजनया-भङ्गकेन संयतीनां शय्यांवसतिं यो भिक्षु प्रविशति स आज्ञादीनि दूषणानि प्राप्नोति ॥ तत्र प्रथमभङ्गव्याख्यानार्थमाह[मा.३६९२] निकारणम्मि गुरुगा, तीसु वि ठाणेसु मासियं गुरुगं। लहुगा य दारमूले, अतिगयमेत्ते गुरू पुच्छा॥ वृ-निष्कारणे संयतीवसतिं गच्छतश्चतुर्गुरुकाः । अविधिना च प्रविशतस्त्रिष्वपि स्थानेषु मासिकं गुरुकम् । त्रीणि स्थानानि नाम-अग्रद्वार-मध्या-ऽऽसन्नलक्षणानि, एतेषु नैषेधिकीमकुर्वतस्त्रीणि मासगुरुकाणि भवन्ति । यदि द्वारमूले' मूलद्वारसमीपे बहिस्तिष्ठति ततःचतुर्लघवः। अथैकमपि पदमुपाश्रयमध्येऽतिगतः-प्रविष्टस्तदा अतिगतमात्रे चतुर्गुरु । “पुच्छि"त्ति नोदकः पृच्छां करोति ॥ कथम् ? इत्याह[भा.३६९३] पाणाइवायमादी, असेवतो केन होति गुरुगा उ । कीस व बाहिं लहुगा, अंतो गुरु चोतग! सुणेहिं । कृ-प्राणातिपातादिकमपराधमसेवमानस्य केन कारणेन चतुर्गुरुका भवन्ति? कस्माद्वा बहि': द्वारमूले चतुर्लघुकाः ? कस्माच्चान्तःप्रविष्टमात्रस्य चतुर्गुरुकम् ? । आचार्य प्राह-हे नोदक ! 'शृणु' निशमयात्र कारण येनैवं प्रायश्चित्तं दीयते ॥ किं तत् ? इत्याह[भा.३६९४] वीसत्था य गिलाणा, खमिय वियारे य भिक्ख सज्झाए। पालीय होइ भेदो, अप्पाण परे तदुभए य॥ वृ-काचिदार्यिका तत्र 'विश्वस्ता' अपावृतशरीरा भवेत् सा संक्षोभमुपयायात् । ग्लाना वा क्षपिका वा संयतसंक्षोभेण न भुञ्जीत । विचारभूमौ भिक्षायां स्वाध्यायभूमौ वा प्रस्थितानां तासां व्याघातो भवेत्। पाली नाम-संयममहातडागस्यानतिक्रमलक्षणः सेतुः तस्या आत्म-परोभयसमुत्थो भेदो भवति; यद्वा “पालि"त्ति वसतिपालिका भण्यते, तया सार्द्धमालापादि कुर्वत आत्मसमुत्थः परसमुत्थ उभयसमुत्थो वा भेदो भवतीति द्वारगाथासमासार्थः ॥ साम्प्रतमेनामेव विवृणोति[भा.३६९५] काई सुहवीसत्था, दरजिमिय अवाउडा य पयलाति। . अतिगतमेत्ते य तहिं, संकिय पपलाइया थद्धा ।। वृ- काचिदार्यिका वसतेरन्तःस्थिता 'सुखविश्वस्ता' आत्मसुखेनापावृतशरीरा तिष्ठति, Page #353 -------------------------------------------------------------------------- ________________ बृहत्कल्प - छेदसूत्रम् -२-३/८१ दरजिमिता वा अर्धभुक्ता दरनिवसिता काचिदास्ते, अपावृतनिषन्ना वा काचित् प्रचलायते । ततः 'तस्मिन् ' संयतेऽकस्माद् 'अतिगतमात्रे' प्रविष्टमात्र व 'द्दष्टाऽहमनेनापावृता' इति 'शङ्किता' शङ्काकुला सती प्रपलायते, सहसैव नश्यतीत्यर्थः । प्रपलायिता च सती संक्षोभतः स्तब्धगात्रा सा भवेत् ।। अथेदमेव व्याचष्टे [भा. ३६९६ ] ३५० वीरल्लसउणवित्तासियं जहा सउणिवंदयं वुन्नं । वच्चति निरावयक्खं दिसि - विदिसाओ विभज्जंतं ॥ वृ- वीरल्लशकुनः- हुलायक:, तेन समागच्छता वित्रासितं सद् यथा शकुनिकाना-पक्षिणीनां वृन्दं " वुन्नं” विषन्नं सद् 'निरपेक्षं' पुत्रभाण्डाद्यपेक्षारहितं दिशो विदिशश्च 'विभज्यमानं' वियुज्यमानं 'व्रजति' सहसैव पलायते । एष दृष्टान्तः, अयमर्थोपनयः [भा. ३३९७] तम्मिय अतिगतमित्ते, वित्तत्थाओ जहेव ता सउणी । हंति य संघाडिं, रयहरणे यावि मग्गति ।। वृ- 'तस्मिन् संयतेऽतिगतमात्र एळ यथैव ताः शकुनिकास्तथैव ता अपि संयत्यो वित्रस्ता भवन्ति । ततश्च काचिदपावृतगात्रा त्वरितं प्रावृणोति, अन्याः काश्चन सङ्घाटिका गृह्णन्ति, यास्तु संयतं सहसा समागतं दृष्ट्वा रजोहरणं मुक्त्वा नष्टाः ताः पश्चात् सुस्थीभूताः सत्यो रजोहरणानि मार्गयन्तीति । यच्च नोदकेनोक्तम् “प्राणातिपातादिकमसेवमानस्य कस्माञ्च्चतुर्गुरुकं दीयते ?" तदेतत् परिहरन्नाह [भा. ३६९८] छक्कायाण विराधन, पक्खुलणं खाणु कंटए विलिया । थद्धा य पेच्छिउं भावभेओ दोसा उ वीसत्थे ॥ वृताः संयत्यः कुम्भकारशालादौ स्थिता भवेयुः, तत्र च निरपेक्षा नश्यन्त्यो मृत्तिकामर्दनेन पृथिवीकायम्, उदककुम्भप्रलोटनेनाप्कायम्, उल्मुकघट्टनेनाग्निकायम्, “यत्राग्निस्तत्र नियमाद् वायुः” इति कृत्वा वायुकायम्, बीज- हरितमर्दनेन वनस्पतिम्, कुन्थु-कीटिकादिमर्दनेन त्रसकार्य च विराधयेयुः; एषआ षट्कायदिराधना, सा च तत्त्वतस्तेनैव साधुना कृता । प्रस्खलनं नामअधस्तादुपरि वा आस्फालनं यद् वा तासां नश्यन्तीनां भवेत् । स्थाणुना कण्टकेन वा पादयोरपघातः स्यात् । “विलिया" 'व्रीडिता' अकस्मात् तद्दर्शनाद् लज्जिता सती काचिद् वैहायसोद्बन्धनादि कुर्यात् । भयातिरेकतो वा स्तब्धा भवेत् । तां च तथाभूतां दृष्ट्वा भावभेदो भवति, 'सात्त्विकभावप्रभवोऽयमस्य शरीरे स्तम्भः' इत्येवमितराः संयत्यश्चिन्तयेयुरिति भावः । एवमादयो दोषा विश्वस्तार्थिकाविषया मन्तव्याः ॥ गतं विश्वस्ताद्वारम् । अथ ग्लानाद्वारमाह[भा. ३६९९] कालाइक्कमदाने, गाढतरं होज्ज नेव पउणेज्जा । संखोभेण निरोधो, मुच्छा मरणं व असमाही ।। वृ - ग्लाना संयती तस्य संयतस्य सङ्क्षोभेण न भुङ्क्ते, प्रतिचरिका वा तदर्थं भिक्षां न गच्छति । ततः कालातिक्मेण तस्या भक्त - पानप्रदाने गाढतरं ग्लानत्वं भवेत्, न वा सा प्रगुणीभवेत् । अथवा तदीयसङ्क्षोभेण तस्या वातकर्मणः कायिक्या: संज्ञाया वा निरोधो भवेत्, ततस्तद्वाधया मूर्च्छा सञ्जयेत, निरोधेन वा मरणमाप्नुयात्, असमाधिर्वा तस्या भवेत्, तत्रानागाढपरितापनादिनिष्पन्नं प्रायश्चित्तम् ।। अथ क्षपिकाद्वारमाह Page #354 -------------------------------------------------------------------------- ________________ ३५१ उद्देशकः ३, मूलं-८१, [भा. ३७००] [भा.३७००] पारणगपट्ठिया आनियं च अविगडियऽदंसिय न भुंजे । अचियत्त अंतराए, परिताव असब्भवयणे य॥ वृ-क्षपिका चतुर्थादितपःकर्मकारिणी पारणकार्थं प्रस्थिताऽपि ज्येष्ठार्य आगतः' इति मत्वा निवर्तते । प्रवर्तिनी वा तस्य समीपे निविष्टा वर्तते, तया च क्षपिकया पारणकमानीतम्, परम् 'अविकटितम्' अनालोचितम् 'अर्शितं वा' अनालोकितं सा न भुङ्क्तं इति कृत्वा प्रवर्तिनी प्रतिपालयन्ती तिष्ठति । ततश्च तस्या अप्रीतिकमन्तरायोऽनागाढमागाढं वा परितापो भवेत् । असभ्यवचनं वा सा ब्रूयात्-अहो ! अयमस्मत्कार्याणां कीलक इव साम्प्रतमुपस्थित इति ॥ विचारद्वारमाह[भा.३७०१] नोल्लेऊण न सक्का, अंतो वा होज नत्थि वीयारो । संते वा न पवत्तति, निच्छुभण विनास गरिहा य॥ वृ-स साधुरिमूले उपविष्टत्वाद् ‘नोदयितुं' लङध्यितुं न शक्यते, तासां च संयतीनामन्तः विचारभूमिनास्ति, अस्तिवा परं तस्यां संज्ञा न प्रवर्तते, शय्यातरेण वा सा नानुज्ञाता, तस्यां व्युत्सर्जने निष्काशनमसौ कुर्यात्, निष्काशिताश्च श्वापदाभिर्विनाशं लोकाच्च गर्हामासादयन्ति, तनिष्पन्नं तस्य संयतस्य प्रायश्चित्तम् ।। अथ भिक्षाद्वारमाह[भा.३७०२] सइकालफेडणे एसणादिपेल्लंतऽपेल्लणे हानी। संकायऽभाविएसु य, कुलेसु दोसा चरंतीणं ॥ वृ-संयत्यो भिक्षायां प्रस्थिताः, स च साधुः समायातः, ततस्तस्य दाक्षिण्येन तावत् स्थिता यावद् भिक्षायाः सत्कालः-देशकालः स्फिटितः । ततोऽवेलायां भिक्षामटन्त्य एषणाशुद्धेः आदिशब्दाद् उद्गमोत्पादनाशुद्धेश्च प्रेरणं कुर्युः । अथ न प्रेरयेयुः ततस्तासामात्मनोहानि परितापमहादुःखादिना भवेत् । अभावितकुलेषु वाऽकाले चरन्तीनां शङ्कादयो दोषा भवेयुः । शङ्का मैथुनार्थविषया, आदिशब्दाद् भोजिका-घाटिकादिदोषपरिग्रहः ॥ अथ स्वाध्यायद्वारमाह[भा.३७०३] सज्झाए वाघातो, विहारभूमिव पत्थिय नियत्ता। __अकरण नासाऽऽरोवण, सुत्तऽत्थ विना य जे दोसा॥ वृ-'ज्योष्ठार्य आगतः' इति कृत्वा ताः पठनं परावर्तनं वा न कुर्वन्ति, एवं स्वाध्यायव्याघातो भवेत् । वसतौ वा अस्वाध्यायिके जाते 'विहारभूमि' स्वाध्यायमुवं प्रस्थिताः भूयस्तं समागतं दृष्ट्वा निवृत्ताः, ततः “अकरणे"ति सूत्रपौरुषीं न कुर्वन्ति मासलघु, अर्थपौरुषीं न कुर्वन्ति मासगुरु । सूत्रा-ऽर्थनाशनिष्पन्ना चारोपणा, सा चेयम्-सूत्रं नाशयति चतुर्लघु, अर्थ नाशयति चतुर्गुरु । सूत्रा-ऽर्थाभ्यां च विना ये 'दोषाः' चरण-करणहान्यादयस्तन्निष्पन्नं सर्वमपि संयतस्य प्रायश्चित्तम् ॥ पालीभेदद्वारमाह[भा.३७०४] संजममहातलागस्स नाणवेरग्गसुपडिपुनस्स। सुद्धपरिणामजुत्तो, तस्स उ अणइक्कमो पाली ॥ वृ. संयमः-पञ्चाश्रवादिविरमणात्मकः स एव महद्-विस्तीर्णं यत् तडागं तस्य, 'ज्ञानवैराग्यसुप्रतिपूर्णस्य' ज्ञानम्-आचारादिश्रुतं तत्समुत्थं यद् वैराग्यं प्रतिसमयविशुद्धयमानो भवनिर्वेदः तेन जलस्थानीयेन सुष्टु-अतीव प्रतिपूर्णस्य, यः शुद्धपरिणामयुक्तस्तस्यानतिक्रमः www.jainelibrary:org Page #355 -------------------------------------------------------------------------- ________________ ३५२ बृहत्कल्प-छेदसूत्रम् -२-३/८१ सप उच्यत स पालिरित्युच्यते ॥ तस्य भेदः कथं भवति? इत्याह[भा.३७०५] संजमअभिमुहस्स वि, विसुद्धपरिणामभावजुत्तस्स । विकहादिसमुप्पन्नो, तस्स उ भेदो मुणेयव्वो॥ वृ-संयमाभिमुखस्यापि तस्य विशुद्धिपरिणामभावयुक्तस्य पालिस्थानीयस्यानतिक्रमस्य यः 'विकथादिसमुत्पन्नः' मिथःकथादिकरणसमद्भूतः ‘भेदः' विनाशः स इह पालीभेदो ज्ञातव्यः । स चाऽऽत्म-परोभयसमुस्थो भवेत् ॥ [भा.३७०६] अहवा पालयतीति, उवस्सयं तेन होति सा पाली। तीसे जायति भेदो, अप्पाण-परोभयसमुत्थो॥ वृ-अथवा या तत्रोपाश्रयं पालयति सा “सत्यभामा भामा" इति न्यायत् पाली भण्यते । तस्या एकाकिन्यास्तं संयतं दृष्ट्वा आत्मसमुत्थः परसमुत्थ उभयसमुत्थो वा भेदो जायते॥ कथम् ? इति चेद् उच्यते[भा.३७०७] मोहतिगिच्छा खमणं, करेमि अहमवि य बोहि पुच्छा य । · मरणं वा अचियत्ता, अहमवि एमेव संबंधो॥ वृ-स संयतस्तं संयतीप्रतिश्रयं गतो यावदेका वसतिपालिका तिष्ठति, ततस्तेन सा पृष्टाआर्ये ! किमिति भवति भिक्षांनावतीर्णा ? । सा प्रतिब्रूते-मोहचिकित्सार्थम् । तयाऽपि स संयत एवमेव पृष्टो ब्रवीति- अहमपि मोहचिकित्सा) क्षपणं करोमि । ततस्तेन पृच्छा कृता-आर्ये ! भवत्या कथं बोधिरासादिता ? । सा प्राह-मरणं मदीयमतुरजनिष्ट, तस्य वा अहम् 'अप्रीतिका' द्वेष्या पूर्वमभुवं अतः प्रव्रजिता । ततस्तया सोऽप्येमेव पृष्टः प्राह-अहमपि ‘एवमेव' अभीष्टकलत्रवियोगादिना प्राव्राजियम् । एवं भिन्नकथासद्भावकथनैर्भावसम्बन्धो भवति । इदभेव स्फुटतरमाह[भा.३७०८] ओमानस्स व दोसा, तस्स व गमनेन सग्गलोगस्स। महतरियपभावेण य, लद्धा मे संजमे बोही॥ वृ-अपमानं नाम-ससापल्यतायां यद्भर्तामाम् अवमतया पश्यति स्म तस्य दोषादहं प्रवव्राज। अथवा मदीयो भर्तामय्येकान्तानुरक्तआसीत्, अतस्तस्य खर्गलोकस्य गमनेन तथा महत्तरिकया यद् ममानवरतं धर्माख्यानकानि कथितानि तत्पभावेण च लब्धा मया संयमे बोधि, संयम प्रतिपन्नवतीत्यर्थः । यद्वा[भा.३७०९] पदूभिता मि घरासे, तेन हतासेन तो ठिता धम्भे । सिटुं दाइ रहस्सं, न कहिजइ जं अनत्तस्स ।। वृ-'प्रदुमिता' प्रकर्षेण क्लेशिताऽस्मि अहं “घरासे" गृहवासे, प्राकृतत्वाद् वाशब्दलोपः, तेन ‘हताशेन' कुपतिना, ततः स्थिताऽहमेवंविधे धर्मे । इदं च रहस्यमिदानीं मया भवतां 'शिष्टं' कथितम्, यद् ‘अनाप्तस्य' भवद्व्यतिरिक्तस्य कस्यापि पुरतो न कथ्यते॥ [भा.३७१०] रिक्खस्स वा वि दोसा, अलक्खणो सो अभागधिज्जो नु । नय निग्गुणा मि अजो ! तुमे वि य नाहिह विसेसं ॥ वृ-मम पाणिग्रहणदिवसे यद् ऋक्ष-नक्षत्रं तस्य वा कोऽपि दोष आसीत्, तेन स ताशो Page #356 -------------------------------------------------------------------------- ________________ उद्देशक : : ३, मूलं - ८१, [भा. ३७१०] ३५३ निस्नेहोऽलक्षणोऽभागधेयश्च मम भर्त्ता अभवत्, न चाहं 'निर्गुणा' गुणविकला, यद्वा आर्य ! यूयमपि ज्ञास्यथ मदीयं 'विशेष' सगुण-निर्गुणताविभागम् ॥ एवमुक्ते संयतो ब्रूयात्[भा. ३७११] इट्ठकलत्तविओगे, अन्नम्मि य तारिसे अविजंते । महतरयपभावेण य, अहमवि एमेव संबंधो ॥ वृ- इष्टकलत्रस्य वियोगे सञ्जतेऽन्यस्मिश्च ताद्दशे कलत्रेऽविद्यमाने महत्तरः- आचार्यो मम धर्ममाख्याति स्म, ततस्तत्प्रभावेणाहमपि प्रव्रजितः । “एमेव" त्ति यथा तया सविकारमात्मीयं चरितामाख्यातं तथा संयतोऽप्येवमेव कथयति । एवं तयोः परस्परं भावसम्बन्धों भवति ॥ किञ्चान्यत् [भा. ३७१२] किं पिच्छह सारिक्खं, मोह में नेति मज्झ वि तहेव । उच्छंगगता मिमता, इहरा न वि पत्तियंतो मि ॥ वृ- संयतस्तां संयतीं निश्चलया दृष्ट्या निरीक्षते, ततः सा ब्रवीति - किभेवं पश्यथ ? । स प्राह-मदीयभोगिन्या सह यद् भवत्याः सर्वथैव साध्श्यं तद् मां मोहं नयति, किमेषा सैव ? इत विभ्रमं जनयतीत्यर्थः । सा ब्रवीति ममापि त्वं तथैव मोहं जनयसि । स प्राह-किं करोमि ? ममोत्स गता-स्थिता सती सा मृता, 'इतरथा' यदि परोक्षं सा मृताऽभविष्यत् ततो देवानामि वचनेन प्रत्ययं नागमिष्यम्, यथा-त्वं सा मम पत्नी न भवसीति ॥ [भा. ३७१३] इय संदंसन-संभासणेहिं भिन्नकध-विरहजोएहिं । सेज्जातरादिपासण, वोच्छेद दुदिट्ठधम्म त्ति ॥ वृ- "इय" एवं यत् परस्परं सन्दर्शनं यञ्च सम्भाषणं- 'किमिति त्वमद्य भिक्षां न गृता ?" इत्यादिपृच्छारूपं ताभ्याम्, तथा यास्तया सह भिन्नकथाः, यश्च विरहे- एकान्ते योगः, एतैश्चारित्रस्य भेद उपजायते । तथा शय्यातर आदिशब्दादन्यो वा यः तत्परिजनादिस्तयोस्तथाविधं चेष्टितं पश्यति स तद्रव्याऽन्यद्रव्योव्रयवच्छेदं कुर्यात् । 'दुर्द्दष्टधर्माण एते' इत्येवं विपरिणाममुपगच्छेत्। अथासौ तया सह सम्पत्तिं गच्छति ततो नरकायुर्बन्धाति, तीर्थंकृतां सङ्घस्य च महतीमाशातनां विधाय बोधिलाभप्रतिबन्धकं कर्मजालमुपचिनोति । उक्तं च लिंगेन लिंगिनीए, संपत्तिं जइ निगच्छई मूढो । निरयाउयं निबंध, आसायणया अबोही य ॥ एतत् सर्वं स्थानं निषदनं चाश्चित्योक्तम् । अथ त्वग्वर्त्तनादीनि पदान्यङ्गीकृत्याह[भा. ३७१४] पयला निद्द तुअट्टे, अच्छि दिट्ठम्मि चमढणे मूलं । पासवणे सच्चित्ते, संका वच्छामि उड्डाहो || वृ- प्रचलायनं नाम- निषन्नस्य सुप्तजागरावस्था, निद्रायणं तु-निषन्नस्यैव स्वपनम् त्वग्वर्त्तनंसंस्तारकं प्रस्तीर्य शयनम्, अक्षिचमढनं चक्षुषोर्मलिनम् । एतानि कुर्वाणो यद्यपि सागारिकादिना न दृष्टस्तथापि चतुर्गरु, दृष्टे तु शुङ्कायां चतुर्गुरु, निशङ्किते मूलम्, प्रश्रवणं संयतीनां कायिकाभूमौ करोति चतुर्लघु । “सच्चित्ते" त्ति संयत्वाः कायिका व्युत्सृजत्या योनौ संयतनिसृष्टं शुक्रबीजमवगाहेत ततो मूलम् । “संका वुच्छम्मि" त्ति तं संयतं तत्र कायिकां व्युत्सृजन्तं दृष्ट्वा सागारिकादि शङ्कां 19 23 Jain Education Intemational Page #357 -------------------------------------------------------------------------- ________________ ३५४ बृहत्कल्प-छेदसूत्रम् -२-३/८१ कुर्यात्-किं मन्ये एष श्रमणको रजन्यामत्रैवोषितः ?, ततो महानुड्डाहः प्रवचनस्य भवतीति । एषा पुरातना गाथा॥ अथास्सा एव व्याख्यानमाह[भा.३७१५] पयला निद्द तुअट्टे, अच्छीणं चमढणम्मि चउगुरुगा। दिढे वि य संकाए, गुरुगा सेसेसु विपदेसु ॥ वृ-बचलां निद्रां त्वग्वर्तनमक्षिचमढनं च कुर्वाणं यदिपरो न पश्यति ततश्चतुर्गुरुकाः, दृष्टेऽपि प्रचलादौ शङ्कायांचतुर्गुरुकाः, निशङ्कितेमूलम्। शेषेष्वपि' अशनादिसमुद्देशन-स्वाध्यायकरणादिषु सूत्रोक्तपदेषु परेणाद्दष्टेषु चत्वारो गुरवः, दृष्टेष्वपि शङ्कयां चतुर्गुरु, निशङ्किते मूलम् ॥ का पुनः शङ्का भवेत् ? इति चेद् उच्यते[भा.३७१६] सज्झाएण नु खिन्नो, आउं अन्नेन जेन पयलाति। संकाए हुंति गुरुगा, मूलं पुन होति निस्संके। वृ-'नुः' इति वितर्के, किमेष संयतः स्वाध्यायजागरेण खिन्नः? आहोश्चिदन्येन सागारिकप्रसङ्गेन रात्रौ खिन्नः ? येनैवं प्रचलायते, एवं शङ्कायां चतुर्गुरुकाः, निशक्तेि तु मूलं भवति ॥ [भा.३७१७] अन्नत्थ भोय गुरुओ, संजतिवोसिरणभूमिए गुरुगा। जोणोगाहण बीए, केयी धाराए मूलं तु॥ वृ-संयतीकायितकाभूमिं विमुच्यान्यत्र मोकस्य व्युत्सर्जने मासगुरु । अथ संयतीव्युत्सर्जनभूमौ व्युत्सृजति ततश्चतुर्गुरु । तत्र च कदाचिद् ष्टिक्लीबस्यान्यस्य वा बीजनिसर्गो भवेत्, तच बीजं संयतीधाराहतं सद् ऊर्ध्वमुखमुद्धावितं योनाववगाहेत तत्र संयतस्य मूलम्, वाहाडितायां च तस्यामुड्डाहादयो दोषाः । केचिदाचार्या ब्रुवते-धारया स्पृष्टमात्र एव बीजे मूलं भवति । यत एते दोषा अतो निष्कारणे संयतीवसतिमविधिना न प्रविशेत् । गतः प्रथमो मङ्गः । द्वितीयभङ्गमाह[भा.३७१८] निक्कारणे विधीय वि, दोसा ते चेव जे भणिय पुट्विं । वीसत्थाई मुत्तुं, गेलनाई उवरिमा उ॥ वृ-निष्कारणे विधिनाऽपि' नैषेधिकीत्रयकरणरुपेण प्रवेशेत एव दोषाः ये 'पूर्व प्रथमभङ्गे सप्रपञ्चमुक्ताः । नवरं विश्वस्ताविषया ये दोषा उक्ताः, आदिशब्दस्तेषामेवानेकभेदसूचकः, तान् मुक्त्वा ये ग्लान्यादिविषया उपरितना दोषास्ते द्वितीयभङ्गे सम्भवन्ति, विश्वस्तादोषास्तु नैषेधिकीत्रयकरणेन न सम्भवन्तीति भावः ॥ [भा.३७१९] निक्कारणे विधीय वि, तिट्ठाणे गुरुगो जेन पडिकुटुं। कारणगमने सुद्धो, नवरिं अविधीय मासतियं ॥ वृ-निष्कारणेविधिनाऽपि प्रविशन् यस्त्रिषु स्थानेषु नैषेधिकीं प्रयुङ्क्ते तस्यापि मासगुरुकम्। कुतः ? इत्याह-येन प्रतिक्रुष्टं भगवता निष्कारणमार्यिकावसतौ गमनम् । अथ तृतीयभङ्गमाह"कारण" इत्यादि । कारणे यःसंयतीवसतौ गच्छतिस शुद्धः । नवरम् 'अविधिना' असामाचार्या प्रवेशनिष्पन्नं त्रिषु स्थानेषु यदि नैषेधिकीत्रयं न करोति ततो मासलघुत्रयम्, द्वयोः स्थानयोर्न करोति मासलघुद्वयम्, एकस्मिन् स्थाने न करोति एकं मासलघुकम्॥ [भा.३७२०] कारणतो अविधीए, दोसा ते चेव जे भणिय पुदि । कारणे विधीय सुद्धो, इच्छं तं कारणं किन्नु ॥ Page #358 -------------------------------------------------------------------------- ________________ ३५५ उद्देशक ः ३, मूलं-८१, [भा. ३७२०] वृ-कारणतोऽविधिना प्रविशतो दोषास्त एव भवन्ति ये विश्वस्तादिविषयाः पूर्वं भणिता इति । कारणे तु 'विधिना' त्रिषु स्थानेषु नैषेधिकीत्रयं कृत्वा प्रविशन् शुद्धः । शिष्यः पृच्छतिइच्छाम्यहं ज्ञातुम् किं तत् कारणम् ? येन तत्र गम्यते ॥ सूरिराह[भा.३७२१] गम्मइ कारणजाए, पाहुणए गणहरे महिड्डीए। पच्छादणा य सेहे, असहुस्स चउक्कभयणा उ॥ वृ-गम्यते संयतीनां प्रतिश्रये 'कारणजाते' उपाश्रय-संस्तारकप्रदानादिके ।। प्राघुणको वा साधुः संयतीनामनाबाधपृच्छानिमित्तं गच्छेत् । गणधरोवा मूर्छा-विसूचिकादौ संयतीनामागाढे कारणे समुत्पन्ने दिवा रात्रौ वा गच्छेत् । 'महर्द्धिको वा राजा-ऽमात्यादिप्रव्रजितः संयतीनां तेजोगौरवादिजननार्थं यायात् । “सेहि" त्ति शैक्षस्य राजपुत्रप्रव्रजितादेरमात्यादिभिरुन्निष्क्रामयितुमारब्धस्य प्रच्छादना संयतीप्रतिश्रये नीत्वा कर्तव्या । काचिद्वा संयती ग्लाना तस्याश्चिकित्सा कर्तव्या, तत्रासहिष्णोः साधोः साध्व्या (च] श्चतुष्कभजना भवति, चतुर्मङ्गीत्यर्थः । साचेयम्साध्वी सहिष्णः साधुरपि सहिष्णुः १ साध्वी सहिष्णुः साधुरसहिष्णुः २ साध्वी असहिष्णुः साधुः सहिष्णुः ३ साध्वी असहिष्णुः साधुः सहिष्णुः ३ साध्वी साधुश्च द्वावप्यसहिष्णू ४ । एष द्वारगाथासङ्केपार्थः ॥ अथ विस्तरार्थमभिधित्सुः प्रथमद्वारमङ्गीकत्याह[भा.३७२२] उदस्सए य संथारे, उवही संघपाहुणे। सेहट्ठवणुद्देसे, अनुन्ना भंडणे गणे॥ [भा.३७२३] अणप्पज्झ अगणि आऊ, वीआर पुत्त संगमे। संलेहण वोसिरणे, वोसट्टे निट्टिए तिहं॥ वृ-उपाश्रयस्य संस्तारकस्योपधेर्वा प्रदानार्थं संयतीप्रतिश्रयं गच्छेत् । काश्चिद्वा संयत्यः परीषहपराजिता अवधावनाभिमुख्यो वर्तन्ते तासांस्थिरीकरणार्थं सङ्घप्राघुणो गच्छेत् । इह कुलस्थविरो गणस्थविरः सङ्घस्थविरो वा स्थापनां कुर्तुं तत्र व्रजेत् । वसतावस्वाध्यायिके श्रुतस्योद्देशमनुज्ञां वा कर्तुतत्र गच्छेत् । भण्डनं कलहः तद्द्वा तासां परस्परमुत्पन्नं तदुपशमनार्थं गन्तव्यम् । “गणे" त्ति प्रवर्त्तिन्यां कालगतायां गणचिन्तार्थं गच्छेत् ॥ "अणप्पज्झ" ति देशीपदमनात्मवशवाचकम्, ततश्चानात्मवशायाः- यक्षाविष्टादिरुपाया आर्यिकाया मन्त्र-तन्त्रदिप्रयोगेणात्मवशतां कुर्तुं गच्छेत् । अग्निना वा संयतीवसतिर्दग्धा, अष्कायपूरेण वा प्लाविता, विचारभूमौ वा गच्छन्तीनां तासां सोपसर्गम्, “पूत्ते" त्ति पुत्रः उपलक्षणत्वात् पिता भ्राता वा तासां कालगतो भवेत्, “संगमे" त्ति पुत्र-भ्रात्रादिरेव तासां सज्ञातकश्चिरादागतो भवेत् तस्य यः सङ्गमः-मीलकस्तदर्थम्, तथा 'संलेखन' भक्तप्रत्याख्यानाय परिकर्मणां काचिदार्यिका करोति, 'व्युत्सर्जनं वा' भक्तप्रत्यारुयानं कर्तुकामा काचिद् विद्यते, 'व्युत्सृष्टं वा' कयाचिद् भक्तं प्रत्याख्यातम् अनशनं प्रतिपन्नमित्यर्थः, एतेषु कारणेषु गच्छेत् । अथ काचिद् ‘निष्ठिता' कालगता ततः शेषसंयतीनां शोकापदनयनार्थं 'व्यहं' त्रीन् दिवसान् यावदुपर्युपरि सूरिणा गन्तव्यमिति श्रलोकद्वयस पार्थः ।। अथैतदेव प्रतिपदं बिभावयिषुराह• [भा.३७२४] अजाणं पडिकुटुं, वसही-संथारगाण गहणं तु । __ ओभासिउ दाउं वा, वच्चेज्जा गणहरो तेनं ॥ Page #359 -------------------------------------------------------------------------- ________________ ३५६ बृहत्कल्प-छेदसूत्रम् -२-३/८१ वृ-आर्याणं स्वयं वसतेः संस्तारकाणां च ग्रहणं भगवता 'प्रतिक्रुष्टं' प्रतिषिद्धम्, अतो वसतिमवभाषितुंगणधरो गच्छति । संस्तारकांश्च तासांप्रायोग्यानुत्पाद्य तान् प्रदातुंगणधरस्तत्र व्रजेत् ।। अथोपधिद्वारमाह[भा.३७२५] पडियं पम्हुटुं वा, पलावियं अवहियं व उग्गमियं । उवहिं भाएतुंजे, दाएउं वा वि वोज्जा ॥ वृ-भिक्षादौ पर्यटन्तीनांतासामुपधिपतितः, स्वाध्यायभूमौ वागतानां “पम्हुटुं" ति विस्मृतः, उदकेन वा प्लावितः, स्तेनैर्वाऽपहृतः, स च भूयोऽपि साधुभिर्लब्धः; अपूर्वो वा उपधिस्तैः 'उद्गमितः' उत्पादितः, अतस्तमुपिधं भाजयितुं वा दातुं वा गणधरो व्रजेत् । तत्र पतितविस्मृतादेरुपकरणस्य यद् यस्याः सत्कं तस्य एव यद् विभज्य समर्पणं तद् भाजनमुच्यते, यत् पुनरपूर्व उपधिरुत्पाद्य तासां दीयते तद् दानम् । अथवा भाजनं प्रवर्त्तिन्या अभावे शेषसंयतीनां विभज्य समर्पणम्, यत्तु प्रवर्त्तिन्या हस्ते समर्प्यते तद् दानम् ॥ अथ सङ्घप्राधुणद्वारमाह[भा.३७२६] ओहाणाभिमुहीणं, थिरकरणं काउ अज्जियाणं तु। गच्छेज्जा पाहुणओ, संघ-कुलथेर-गणथेरो॥ वृ-अवधावनाभिमुखीनां परीषहपराजितानामार्यिकाणां स्थिरीकरणं कर्तुप्राधुणको गच्छेत्। कः पुनः प्राधुणकः ? इत्याह-सङ्घस्थविरः कुलस्थविरो गणस्थविरो वा, उपलक्षणमिदम्, तेनान्योऽपि यः स्थिरीकरणलब्धिसम्पन्नः स गच्छति । अथ शैक्षद्वारमाह[भा.३७२७] अन्नत्य अप्पसत्था, होज्ज पसत्था य अज्जिगोवसए। एएण कारणेणं, गच्छेज्ज उवट्ठवेउं जे॥ कृअन्यत्र विधीयमाना उपस्थापना क्षारा-ऽङ्गार-कचवराधप्रशस्तद्रव्ययुक्तत्वादप्रशस्ता भवेत्, आर्यिकोपाश्रयेतु प्रशस्ता, एतेन कारणेन शैक्षमुपस्थापयितुं “जे" इति पादपूरणे आर्यिकावसतिं गच्छेत् ॥ स्थापनाद्वारमाह[भा.३७२८] ठवणकुलाइ ठवेडं, तासिं ठवियाणिवा निवेएउं । परिहरिउं ठवियाणिं, ठवणाऽऽदियणं व वोत्तुं जे ॥ वृ-दानश्राद्धादीनि स्थापनाकुलानितासांसमक्ष स्थापयितुम्, यद्वा तानि स्ववसतौ स्थापितानि परं तासां 'निवेदयितुम्' 'अमुकममुकं च कुलं स्थापितम्' इत्येवं ज्ञापयितुम्, इदानी वा तानि कुलानि स्थापितानी ततः ‘परिहर्तु' 'न निर्वेष्टव्यानि' इत्येवं निवारायितुम्, येषु जन्मसूतकमृतसूतकादियुक्तेषु कुलेषु पूर्वमित्वरस्थापना कृता तेषु विवक्षितावधिपरिपूर्तयनन्तरं भूयोऽपि 'आदानं' ग्रहणं कुरुतेत्यनुज्ञावचनं वक्तुंगन्तव्यम् ।। अथोद्देशा-ऽनुज्ञाद्वारद्वयमाह[भा.३७२९] वसहीए असज्झाए, गोरव भय सद्ध मंगले चेव । उद्देसादी काउं, वादेउं वा वि गच्छेज्जा ॥ वृ-वसतावस्वाध्यायिके जाते संयतीवसतिमुद्देशमनुज्ञां वा कर्तुं गच्छेत् । अथवा यद्याचार्य स्वयं तासामुद्देशादिकं करोति ततस्ता आचार्यविषयं यद् गौरवं यच्च तदीयं भयं ताभ्यां शीधं तदङ्ग-श्रुतस्कन्धादिकमधीयते, आचार्येण वस्वयमुद्दिष्टे तासां महती श्रद्धोपजायते, प्रशस्तद्रव्यादिगुणक्तत्वाच्च तत्रोद्देशादौ विधीयमाने भङ्गलं भवेत् एतैः कारणैरुद्देशादिकं कर्तुं Page #360 -------------------------------------------------------------------------- ________________ उद्देशक : ३, मूलं - ८१, [भा. ३७२९] ३५७ तत्र गच्छेत् । प्रवर्त्तिन्यां वा कालगतायामन्या काचित् तासां वाचनादात्री न विद्यते ततो गणधरो वाचयितुं गच्छेत् । भण्डनद्वारमाह [भा. ३७३०] अप्पन्ने अहिगरणे, विओसवेउं तहिं पसत्थं तु । अच्छेति खउरियाओ, संजमसारं ठवेउं जे ॥ वृ- संयतीवसतौ गणधरस्यान्यस्य वा तथा विधोपशमनालब्धिसम्पन्नस्य गमनं प्रशस्तं भवति॥ गणधरद्वारमाह [भा. ३७३१] जइ कालगया गणिणी, नत्थि उ अन्ना उ गणहरसमत्था । एतेन कारणेणं, गणचिंताए वि गच्छेज्जा ।। वृ- यदि 'गणिनी' प्रवर्त्तिनी कालगता, नास्ति चान्या संयती गणभरोद्वहनसमर्था, अत एतेन कारणेन गणचिन्ताकरणार्थमपि गच्छेत् ॥ अथानात्मवशाद्वारमाह [भा. ३७३२] अजं जक्खाइडं, (व) खित्तचित्तं व दित्तचित्तं वा । उम्मायं पत्तं वा, काउं गच्छेज अप्पज्झं ॥ - वृ- यक्षेण आविष्टा - गृहीता यक्षाविष्टा । अपमाननया क्षिप्तं नष्टं चितं यस्याः सा क्षिप्तचिता । या तु हर्षातिरेकेणापहृतचित्ता सा दीप्तचिता भण्यते । या तु मोहनीयकर्मोदयेन चित्तशुन्यतामुपगता सा उन्मादप्राप्ता । ईद्दशामार्यां विज्ञायाचार्यो मन्त्रेण वा तन्त्रेण वा "अप्पज्झं" ति 'आत्मवशां' स्वस्थचित्तां कर्तुं संयतीवसतिं गच्छेत् ।। अग्निद्वारमाह [भा. ३७३३] जइ अगनिना उ वसही, दड्ढा डज्झइ व डज्झिहिति व त्ति । नाऊण व सोऊण व, उवघेत्तुं जे व जाएजा ॥ वृ- यद्यग्निना संयतीवसतिर्दग्धा, दह्यते वा सम्प्रतिकाले, अथवा प्रत्यसन्नाग्निप्रदीपनदर्शनेन धक्ष्यते इति ज्ञात्वा वा स्वयं 'श्रुत्वा वा' परमुखेनाकर्ण्य तां वसतिम् 'उपग्रहीतुं' संस्थापयितुं निर्वापयितुं वा "जे" इति पादपूरणे संयतीवसतिं 'यायात्' गच्छेत् ।। अथाप्कायद्वारमाह[भा. ३७३४] नइपूरेण व वसही, वुज्झइ वूढा व वुज्झिहिति व त्ति । उदगभरियं व सोच्चा, उवधेत्तुं तं तुवच्चेज्जा वृ- नदीपूरेण प्रसरता वसति साम्प्रतम् 'उह्यते' नीयते, 'व्यूढा वा' नीता, 'वक्ष्यते वा' नेष्यते, उदकेन वा वसतिर्धृता, एवं श्रुत्वा 'तां' वसतिम् 'उपग्रहीतुम्' उल्लिञ्चनादिकं कर्तुं व्रजेत् ॥ विचारद्वारमाह [मा. ३७३५] घोडेहि व धुत्तेहि व, अहवा वि जतीवियारभूमीए । जयणाए व करेडं, संठवणाए व वच्चेज्जा ।। वृ- घोडा :- चट्टाः धूर्ता द्यूतकारादयः, तैर्वसत्याः पुरोहडे गच्छन्त्यस्ता उपसर्ग्यन्ते ततस्तेषां सानुनयनिवारणार्थं गच्छेत् । अथवा यतीनां विचारभूमौ ताः समागच्छन्ति तन्निवारणार्थं गच्छति । अथवा यतनया तासां कायिकाभूमिं विचारभूमिं वा कर्त्तुं पूर्वकृताया वा संस्थापनानिमित्तं व्रजेत् ।। पुत्रद्वारमाह [भा. ३७३६ ] पुत्तो वा भाया वा, भगिनी वा होज्ज तान कालगया । अज्जाए दुक्खियाए, अनुसठ्ठीए वि गच्छेज्जा ।। Page #361 -------------------------------------------------------------------------- ________________ ३५८ बृहत्कल्प-छेदसूत्रम् -२-३/८: कृपुत्रो वा भ्राता वा भगिनि वा तासांकालगता भवेत्ततोया तत्रार्यिका 'दुःखिता' शोकसागरावगाढा भवति तस्या अनुशिष्टयर्थमपि सूरि स्वयमेव गच्छेत् ॥ तस्याश्चेयमनुशिष्टिातव्या[भा.३७३७] तेलोक्कदेवमिहया, तित्थयरा नीरया गया सिद्धिं । थेरा वि गया केई, चरणगुणपभावया धीरा ॥ कृयेऽपितावत् त्रैलोक्यदेवमहिताः' भुवनत्रयवासिभि सुरा-ऽसुरैरभ्यर्चितास्तीर्थकरास्तेऽपि भगवन्तः ‘नीरजसः सकलकर्मनिर्मुक्ताः ‘गताः' प्राप्ताः सिद्धिम्, तथा स्थविरा अपि ऋषभसेनगौतमादयः केचित् चरमदेहधारिणो गताः सिद्धिम् । कथम्भूताः? चरगुणानां-मूलोत्त-रगुणरुपाणां स्वयमेव चरणेनान्येषांचोपदेशद्वारेण प्रभावकाः-प्रकर्षण स्फाति नेतारश्चरणगुणप्रभावकाः, 'धीराः' परीषहोपसर्गरक्षोभ्याः, यद्येवंविधा अपिमहापुरुषाः कालगतास्ततः शेषजनमरणे किमाश्चर्यम्? इति भावः । तथा[भा.३७३८] बंभी य सुंदरी या, अन्ना वि य जाउ लोगजेट्ठाओ। ताओ वि य कालगया, किं पुन सेसाउ अज्जाउ ॥ -ब्राह्मी च सुन्दरी च अन्या अपि च या लोकज्येष्ठा आर्यचन्दना-मृगापतीप्रभृतय आर्यिकास्ता अपि कालगताः, किं पुनः शेषा आर्यिकाः ? ॥ ततः- [भा.३७३९] न हु होइ सोइयव्वो, जो कालगओ दढो चरित्तम्मि । सो होइ सोतियव्वो, जो संजमदुब्बलो विहरे ॥ वृ-'न हु' नैवासौ साधु-साध्वीजनः शोचितव्यो भवति, यश्चारित्रे 'दृढः' निप्रकम्पः सन् भक्तप्रत्याख्यानादिविधिना कालगतः; किन्तु स वराकः शोचनीयो भवति यः पृथिव्याधुपमर्दनमनैषणीयपिण्डादिग्रहणं वा कुर्वन् संयमेन दुर्बलो विहरति ॥ अपि च[भा.३७४०] बभ्रूण मानुसत्तं, संजमसारं च दुल्लभं जीवा । आणाइ पमाएणं, दोग्गइभयवड्डणा होति ॥ वृ-'लब्ध्वा' प्राप्य मानुषत्वं तथा संयम एव सारः-प्रधानं मोक्षाङ्गं तं च 'दुर्लभं' महानीरधिनिमग्नान_रत्नमिव दुःप्रापं लब्ध्वा ये जीवा भागवत्याः ‘आज्ञायाः' विधि-प्रतिषेधरूपायाः प्रमादेन कालंगमयन्ति ते दुर्गतिभयवर्धना भवन्ति, आत्मनो देवादिदुर्गतिपरिभ्रमणजनितं भयं वर्द्धयन्तीति भावः । एवमनुशिष्टिस्तासां दातव्या । अथ सङ्गमद्वारमाह[भा.३७४१] पुत्तो पिया व भाया, अजाणं आगओ तहिं कोई। घित्तूण गणहरो तं, वच्चति तो संजतीवसहिं ।। वृ-पुत्रः पिता वा भ्राता वा आर्याणां सम्बन्धी चिरप्रोषितस्तत्र कश्चिदागतो भवेत्, ततस्तं गृहीत्वा गणधरः संयतीवसतिं व्रजति, येन तासां तस्मिन् संज्ञातकसाधौ दृष्टे समाधिरुपजायते॥ अथ संलेखन-व्युत्सर्जन-व्युत्सृष्ट-निष्ठितद्वाराणि युगपदाह[भा.३७४२] संलिहियं पि य तविहं, वोसिरियव्वं च तिविह वोसढें । गाकलगय त्ति य सोचा, सरीरमहिमाइ गच्छेज्जा । वृ-इह संलेखितम् अपिशब्दात् संलेख्यमानं वस्तु त्रिधा-आहारः शरीरमुपकरणंच, यद्वोपधिः शरीरं कषायाश्चेति । व्युत्ष्टव्यमप्येवमेव त्रिविधम्, अनशनप्रतिपत्तिकाले एतदेव त्रयं Page #362 -------------------------------------------------------------------------- ________________ ३५९ उद्देशक : ३, मूलं-८१, [भा. ३७४२] व्युत्सर्जनीयमिति भावः । एवं व्युत्सृष्टमपि त्रिविधम् । एषु त्रिष्वपि तस्याः स्थिरीकरणार्थं सूरिणा गन्तव्यम् । यावत् 'कालगता सा संयती' इति वार्ता श्रुता, तां च श्रुत्वा तस्याः शरीरमहिमा) गणधरः स्वयमेव गच्छेत् ॥ [भा.३७४३] जाहे वि य कालगया, तेहा वि य दुन्नि तिन्नि वा दिवसे । गच्छेज्ज संजईणं, अनुसद्धिं गणहरो दाउं॥ वृ-यदापि च प्रवर्तिनीप्रभृतिका महानिनादसंयती कालगता भवति तदा द्वौ त्रीन् वा दिवसान् संयतीनामनुशिष्टिं प्रदातुं गणधरो गच्छेत् ।। गतं “गम्यते कारणजाते" इति मूलद्वारम् । अथ प्राघुणकद्वारमाह[भा.३७४४] अप्पबिति अप्पतितिया, पाहुणया आगया सउवचारा । सिज्जायर मामाए, पडिकुटुदेसिए पुच्छा ॥ वृ-प्राघुर्णकाः साधव आत्मद्वितीया आत्मतृतीया वा तत्रागताः, तैश्च तत्र श्रुतम्, यथाअत्र संयत्यस्तिष्ठन्ति ततस्ते तासां वसतिं सोपचाराः प्रविशन्ति । सोपचारा नाम-त्रिषु स्थानेषु । प्रयुक्तनैषेधिकीशब्दाः, यद्वा संयतीभिर्येषां वक्ष्यमाण उपचारः प्रयुक्तस्ते सोपचारा उच्यन्ते। तेषुसमागतेषुप्रवर्तिनी यदि स्थविरा तत आत्मद्वितीया निर्गच्छति, अथ तरुणी ततआत्मतृतीया। या च तत्र स्थविरा सा पुरतस्तिष्ठत । ततः साधवः शय्यातरकुलं मामाककुलं प्रतिकुष्टकुलानि च-रजकादिसम्बन्धीनि औद्देशिकं च येषु कुलेषु क्रियते तानि प्रवर्त्तिन्याः समीपे पृच्छन्ति । अथोपचारं व्याख्याति[भा.३७४५] आसंदग कट्ठमओ, मिसिया वा पीढगं व कट्ठमयं । तक्खणलंभे असई, पडिहारिग पेहऽभोगऽन्ने । वृ-यदि साधुषु समागतेषु तक्षश्रणादेव काष्ठमय आसन्दकोऽशुषिरादिगुणोपेतः प्राप्यते, वृषिका व काष्ठमयं वापीठकलभ्यते ततस्तदानीमेव तद् ग्रहीतव्यम् । अथ तत्क्षणादेवासन्दकादि न लभ्यते ततोऽनागतं प्रातिहारिकं गृहीत्वा स्थापयन्ति । “पेह"त्ति तच्चोभयसन्ध्यं प्रत्युपेक्षन्ते। "भोगऽन्ने"त्ति अकारप्रश्लेषादयो नाम-संयतीजनस्तस्य प्रातिहारिकस्य भोगंन करोति । ततस्ते तत्रोपविष्टाः संयतीनां निराबाधादिवार्ता पृष्टवा शय्यातरकुलादीनि पृच्छन्ति ॥अथ केन विधिना ते पृच्छन्ति ? केन वा विधिना तास्तेषां दर्शयन्ति? इत्युच्यते[भा.३७४६] बाहाइ अंगुलीइ व, लट्ठीइ व उज्जुअं ठिओ संतो । न पुच्छेज्ज न दाएजा, पच्चावाया भवे तत्थ ॥ वृ-शय्यातरादिकुलं पृच्छन् दर्शयन् वा 'बाहया' बाहुं प्रसार्य, एवमङ्गुल्या वा यष्टया वा गृहस्य 'ऋजुकं' सम्मुखं स्थितः सन् न पृच्छेद् न वा दर्शयेत् । कुतः? इत्याह-यतस्तत्रैवं पृच्छयमाने दर्यमाने वा प्रत्यपाया बहवो भवन्ति ।। तानेवाह[भा.३७४७] तेनेहि अगनिना वा, जीवियववरोवणं व पडिनीए । खरए खरिया सुण्हा, नढे वट्टक्खुरे संका॥ वृ- बाह्वादिकं प्रसार्य साधुना यद् गृहं पृष्टम् संयत्या वा दर्शितम् ततः स्तेनैः किञ्चिदपहृतं भवेत्, अग्निना वा तद् गृहंदग्धम्, प्रत्यनीकेन वा तस्मिन् गृहे कस्यापि जीवितव्यपरोपणं कृतम्, Page #363 -------------------------------------------------------------------------- ________________ ३६० बृहत्कल्प-छेदसूत्रम् - २-३/८१ द्व्यक्षरको वा व्यक्षरिका वा केनचिदपह्नता, स्नुषा वा केनचिद् धूर्तेन सह पलायिता, 'वृत्तखुरो वा' प्रधानस्तुरङ्गमो नष्टो भवेत् ततः साधु-साध्वीविषया शङ्का भवेत् - नूनमेतैरेवापहृतम् दग्धमित्यादि; ततो नाविधिना पृच्छेत् न वा दर्शयेत् । तत्र चाऽऽ सीनास्ते साधवो न हसन्ति न वा कन्दर्पं कुर्वन्ति, किन्तु - [भा. ३७८] सेज्जायराण धम्मं, कहिंति अजाण देंति अनुसट्ठि । धम्मम्मिय कहियम्मिय, सव्वे संवेगमावन्ना ॥ वृ- शय्यातराणां धर्मं कथयन्ति, आर्याणां चोद्यतानां स्थिरीकरणार्थं सीदन्तीनां पुनरुद्यमनार्थमनुशिष्टिं प्रयच्छन्ति । धर्मे च कथिते 'सर्वे' श्राद्धाः संयत्यश्च संवेगमापन्ना भवन्ति, आत्मनश्च निर्जरा भवति ।। प्राघुणकद्वारमेव प्रकारान्तरेण व्याचष्टे [भा. ३७४९] अन्नो वि अ आएसो, पाहुणग अभासिया उ तेनभए । चिलिमिणिअंतरिया खलु, चाउस्साले वसेज्जा नं ।। वृ- अयम् ‘अन्यः' अपर आदेशः प्राघुणकद्वारे समस्ति ते प्राघुणकाः 'अभाषिकाः' द्रविडादिदेशोद्भवाः, ततस्तत्र तेषामुपाश्रयो दुर्लभः, अतस्तदर्थं संयत्यो वसतिं मार्गयन्ति । यदि ताभिरपि गवेषयन्तीभिर्न लब्धा ततो वृक्षमूलादिषु बहिर्वसन्ति । अथ बहि स्तेनभयं ततो यत्रार्या स्थिताः सन्ति तत् चतुःशालं भवेत्, तत्रान्यस्यां शालायां साधवश्चिलिमिलिकया अन्तरिता वसेयुः ।। चतुःशालस्याभावे विधिमाह [भा. ३७५० ] कुडुंतरस्स असती, कडओ पुत्ती व अंतरे थेरा । तेतरिया खुड्डा समणीण वि मग्गणा एवं ॥ वृ- अन्यस्या वसतेरभावे संयताः सयत्यश्चेकस्मिन् गृह वसन्तः कुड्यान्तरिते वसन्ति । कुड्यान्तरस्याभावे कटकोऽपान्तराले दीयते । कटकस्याभावे पोतं वस्त्रं तन्मयी चिलिमिलिका । अथ चिलिमिलिकायाः स्तेनभयं ततो यस्मिन् पार्श्वे संयत्यस्ततः प्रथमं स्थविराः, तैरन्तरिताः क्षुल्लकाः, ततो मध्यमाः, ततस्तरुणा इति । एवं श्रमणीनामपि मार्गणा कर्त्तव्या, तद्यथा - स्थविरसाधूनामासन्ने क्षुल्लिकाः, ततः स्थविराः, ततो मध्यमाः, ततो ध्ढकुड्यासन्ने तरुण्यः स्थाप्यन्ते ॥ तत्रस्थितानां विधिमाह[भा. ३७५१] अन्नाए आभोगं, नाए ससद्दं करेंति सज्झायं । अच्चुव्वाया व सुवे, अच्छंति व अन्नहिं दिवसं ॥ वृ- यदि तत्र जनेनाज्ञाताः स्थितास्ततो रात्रौ 'आभोगम्' उपयोगं कुर्वते, तृष्णीका आसते इत्यर्थः । अथ ज्ञातास्ततः 'सशब्दं' महता शब्देन युक्तं स्वाध्यायं कुर्वन्ति । अथातीवोद्वाताःपरिश्रान्तास्ततः स्वपन्ति । कारणतश्चैकं द्वौ त्रीन् वा दिवसान् तत्रैव यदि स्थास्नवः ततो दिवसम् 'अन्यत्र' उद्यानादिषु स्थित्वा रात्रौ तत्र वसन्ति । कारणाभावे तु तत्रैकरात्रमुषित्वा प्रभाते व्रजन्ति। [भा. ३७५२] समणी समण पविट्ठे, निसंत उल्लावऽकारणे गुरुगा । पयला निद्द तुवट्टे, अच्छीमलणे गिही मूलं ॥ वृ- श्रमणीजने श्रमणजने च कायिकां कृत्वा प्रविष्टे सति यद्येको वाऽनेके वा एकया वाऽनेकाभिर्वा संयतीभिः समं 'निशान्ते' निसंचरवेलायामुल्लापम् 'अकारणे' आगाढकारणाभावे Page #364 -------------------------------------------------------------------------- ________________ ३६१ उद्देशकः ३, मूलं-८१, [भा. ३७५२] कुर्वन्ति ततश्चतुर्गुरुकम् । तथाऽन्यत्रोद्यानादिषु श्वापद-स्तेनादिभयाद् दिवाऽपि तत्रैव तिष्ठन्तो यदि प्रचलायन्ते निद्रायन्ते त्वग्वर्त्तयन्ति वा अक्षिणी वा मलयन्ति तत्र चतुर्गुरुकम् । अथ गृही प्रचलादि विदधानं तं दृष्ट्वा शङ्कां करितो-किमेष स्वाध्यायजागरेण खिन्नः प्रचलायते ? उत सागारिकजागरेण? इत्यादि ततश्चतुर्गुरु । निशङ्किते मूलम् ।। [भा.३७५३] उच्चारं पासवणं, व अन्नहिं मत्तएसु व जयंति । अद्दिढ पविट्ठा वा, अदिट्ठ नितेधरा भयिता ।। वृ-उच्चारं प्रश्रवणं वा संयतीकायिकाभूमिं विमुच्यान्यत्र कुर्वन्ति, मात्रकेषु वा कृत्वा बहिः परिष्ठापनायां यतन्ते । तत्र च यदि गृहिभिरष्टाः प्रविष्टास्ततोऽष्टिा एव निर्गच्छन्ति, अथ दृष्टाः प्रविष्टास्ततः 'भक्ताः' विकल्पिताः, दृष्टा अष्टा वा निर्गच्छन्तीति भावः ।। [भा.३७५४] तत्थऽन्नत्थ व दिवसं, अच्छंता परिहरंति निद्दाई। जयणाए व सुविंती, उभयं पि य मग्गए वसहिं ।। वृ-तत्र रजन्यामुषित्वा दिवसतः 'तत्र वा' संयतीवसतौ 'अन्यत्र वा' उद्यानादिषु तिष्ठन्तो निद्रा-प्रचलादिकंपरिहरन्ति, यवनिकान्तरिता वा यतनया स्वपन्ति यथा सागारिको न पश्यति। यदि तेतत्र कियन्तमपिकालं स्थातुकामास्ततः 'उभयमपि' साधवः साध्यश्चान्यांवसतिमार्गयन्ति। लब्धायां च तत्र साधवस्तिष्ठन्ति ।। गतं प्राघुणकद्वारम् । अथ गणधरद्वारमाह[भा.३७५५] अहिणा विसूइका वा, सहसा डाहो व होज सासो वा । जति आगाढं अजाण होइ गमनं गणहरस्स ॥ वृ- 'अहिना' सर्पण काचिदार्यिका दष्टा अतिमात्रे वा भुक्ते विशूचिका कस्याश्चिदजनिष्ट, सहसा पित्तेनाग्निना वा 'दाहः' दाहञ्चरो वाऽभवत्, श्वासो वा कस्याश्चिदकस्मादजनि, एवमादिकं यदि आगाढं कार्यमार्याणां भवति ततो दिवा रात्रौ वा गणधरस्य गमनमनुज्ञातम् ।। अथवा[भा.३७५६] पडिनीय मेच्छ मालव, गय गोणा महिस तेनगाई वा। आसन्ने उवसग्गे, कप्पइ गमनं गणहरस्स ॥ कृ-प्रत्यनीक म्लेच्छ-मालवस्तेन-गज-गो-महिष-स्तेनकादयो वा संयतीनामुपसर्ग कर्तुमारब्धाः, यद्वा न तावत् ते उपसर्गयन्ति परं तेषामासन्न उपसर्गो वर्तते तत्क्षणादेव भावीत्यर्थः, ततः कल्पते गणधरस्यान्यस्य वा समर्थस्य तन्निवारणार्थं गमनम्।गतं गणधरद्वारम् । अथ महर्द्धिकद्वारमाह[भा.३७५७] रायाऽमच्चे सेट्ठी, पुरोहिए सत्थवाह पुत्ते य । गामउडे रट्ठउडे, जे य गणहरे महिड्डीए । वृ- 'राजा' पृथिवीपति । 'अमात्यः' मन्त्री । अष्टादशानां प्रकृतीनां महत्तरः श्रेष्ठी । पौरजनपदयुक्तस्य राज्ञो होमादिनाऽशिवायुपद्रवप्रशमनः पुरोहितः । यस्तु क्रयाणकजातं गृहीत्वा लाभार्थमन्यदेशं व्रजन् सार्थवाहयति-योग-क्षेमचिन्तया पालयति स सार्थवाहः । पुत्रशब्दः प्रत्येकमभिसम्बध्यते, यथा-राजा राजपुत्र इत्यादि । तथा 'ग्रामकूटः' ग्राममहत्तरः, ‘राजकूटः' राष्ट्रमहत्तरः, एते प्रव्रजिता इह गृह्यन्ते । यश्च गणधरो राजादिबहुमतो विद्यातिशयसम्पन्नो वा, एते सर्वेऽपि महर्द्धिका उच्यन्ते ।। एतेषां संयतीवसतिं गच्छताममी गुणा भवन्ति [भा.३७५८] अजाण तेयजननं, दुजन सचमक्कारया य गोरवया । Page #365 -------------------------------------------------------------------------- ________________ ३६२ बृहत्कल्प-छेदसूत्रम् -२-३/८१ तम्हा समणुन्नायं, गणहर गमनं महिड्डीए ॥ वृ- आर्याणां 'तेजोजननं' महात्म्योत्पादनम् । दुर्जनानां च 'सचमत्कारता' साशङ्कता भवति, न किञ्चित् प्रत्यनीकत्वं कुर्वन्तीत्यर्थः । लोके च आर्याणां गौरवमुपजायते । तस्माद् गणधरस्य ‘महर्द्धिकस्य च’ राजप्रव्रजितादेर्गमनमार्यिकाप्रति श्रये समनुज्ञातम् । ताश्चार्यिकास्तान् राजादिदीक्षितान् दृष्ट्वा इत्थं चिन्तयन्ति [भा. ३७५९] संतविभवा जइ तवं, करेंति अवइज्झिऊण इड्डीओ । सीयंतथिरीकरणं, तित्थविवड्डी य वन्नो य ।। वृ- सद्विभवा अप्यमी यदि 'ऋद्धीः' राज्यादिसम्पदः 'अपोज्झ्य' परित्यज्य तपः कुर्वन्ति ततो वयमसती सम्पदं प्रार्थयमानाः किमेवं प्रमादमग्नास्तिष्ठामः इत्येवं सीदन्तीनामार्यिकाणां स्थिरीकरणं कृतं भवति । स्थिरीकरणे च क्रियमाणे तीर्थस्य विवृद्धि । तीर्थवृद्धौ च प्रवचनस्य 'वर्ण' यश-प्रवादः प्रभावितो भवति ।। गतं महर्द्धिकद्वारम् । अथ 'प्रच्छादना च शैक्षे' इति द्वारमाह[भा. ३७६०] वीसुंभिओ य राया, लक्खणजुत्तो न विज्जती कुमरो । पडिनीएहि व कहिए, आहावंती दवदवस्स ।। वृ- कस्यापि नृपतेस्त्रयः पुत्राः सम्यग्दर्शनलब्धबुद्धयो दीक्षां कक्षीकृतवन्तः । कालान्तरेण च स राजा 'विश्वग्भूतः ' शरीरात् पृथग्भूतः, कालगत इत्यर्थः । ततोऽमात्यादयः 'वयमराजकाः सन्तोऽनाथाः' इति परिभाव्य राज्यलक्षणोपेतं कुमारं प्रयलेन गवेषितवन्तः, परं न विद्यते कोऽपि लक्षणयुक्तः कुमारः । ततः कथितं 'प्रत्यनीकैः' तच्चन्निकादिभि, यथा-येषां मध्येऽस्यैव नृपतेः पुत्राः प्रव्रजिताः सन्ति ते साधवो विहरमाणा इहैवोद्याने सम्प्राप्ताः । ततस्तेऽमात्यादयः सम्यग् ज्ञात्वा छत्र-चामर-खड्गादिकं राजार्हं वस्तु गृहीत्वा द्रुतद्रुतम् 'आधावन्ति' साधूनां समीपमागच्छन्ति ।। अथ प्रत्यनीकाः केन कारणेन कथयन्ति ? इत्युच्यते [भा. ३७६१] अइ सिं जनम्मि वन्नो, य आयति इड्डिमंतपूया य । रायसुयदिक्खिणं, तित्थविवड्डी य लद्धी य ॥ वृ- अमुना राजसुतेन दीक्षितेन 'सिं' अमीषां श्रमणानाम् 'अति' अतीव 'जने' लोके 'वर्णः' यशः प्रवादो विजृम्भते, यथा- अहो ! अमीषामेव धर्म प्रतपति यत्रेध्शाः प्रव्रजन्ति । 'आयतिश्च' सन्ततिरमीषामनेनाव्यवच्छिन्ना भविष्यति । ऋद्धिमन्तश्च श्रेष्ठयादय एतत्प्रभावेणामीषांपूजां कुर्वन्ति । तथा 'राजसुतोऽत्र प्रव्रजितः' इति कृत्वाऽन्येऽपि बहव इभ्यपुत्रादयः प्रव्रजन्तीति तीर्थवृद्धिः । लब्धिश्चाहार - वस्त्रादीनां प्रचुरा भवति । उत्प्रव्रजितेन पुनरमुना वर्णादयो न भविष्यन्तीति बुध्या प्रत्यनीकाः कथयन्ति ।। ततस्तानमात्यादीनुप्रव्राजनार्थमागच्छतः श्रुत्वा ते राजपुतराः किं कुर्वन्ति ? इत्याह [भा. ३७६२] दवण य राइडिं, परीसहपराइतो तहिं कोइ । आपुच्छइ आयरिए, सम्मत्ते अप्पमाओ हु । वृ- तां राजसमृद्धिमागच्छन्तीं दृष्ट्वा तत्र कोऽपि राजपुत्रः परीषहपराजितः सन्नाचार्यानापृच्छतेभगवन् ! अशक्तोऽहं प्रव्रज्यामनुपालयितुम् । तत आचार्या भणन्ति-सौम्य ! सम्यक्त्वे भवता 'हुः' निश्चितमप्रमादः कर्त्तव्यः ॥ Page #366 -------------------------------------------------------------------------- ________________ ३६३ उद्देशक : ३, मूलं-८१, [भा. ३७६३] [भा.३७६३] नाऊण य मानुस्सं, सुदुल्लभं जीवियं च निस्सारं । संघस्स चेतियाण य, वच्छल्लतं करेजाहि॥ वृ-ज्ञात्वा ‘मानुष्यं मनुष्यभवं सुदुर्लभंजीवितं च निस्सारं मत्वा सङ्घस्य चैत्यानांच 'वत्सलत्वं' भक्तिं कुर्या इति ।। द्वितीयः पुनराह[भा.३७६४] किं काहिंति ममेते, पडलग्गतणं व मे जढा इडी। ___को वाऽनिट्ठफलेसुं, विभवेसु चलेसु रज्जेज्जा । वृ-किं करिष्यन्ति मम ‘एते' अमात्यादयः ? पटलग्नतृणमिव मया राज्यऋद्धि “जढा" परित्यक्ता, अपि च राज्यादिविभवानां भुक्तानां ध्रुवं नरकपातः फलम्, चलाश्चामी सन्ध्याभ्ररागवत्, अतः को वाऽनिष्टफलेषु च विभवेषु 'रज्येत' रागमनुबध्नीयात् ? । एवमुक्त्वा प्रकट एव प्रदेशे स्थितः सर्वानुपसर्गानभिभूय स संयममनुपालयति ।। यस्तु तृतीयः स किं करोति? इत्याह[भा.३७६५] तइओ संजमअट्ठी, आयरिए पणमिऊण तिविहेणं । गेलन्नं नियडीए, अजाण उवस्सगमतीति । वृ-तृतीयो राजपुत्रः संयमार्थी स गुरुभिरभिहितः-आर्य ! संयतीप्रतिश्रये निलीयस्व । स प्राह-इच्छाम्यहं भगवद्वचनम्, निस्तारयत मां येन केनापि प्रकारेणास्पादुपसर्गसमुद्रात्। एवमुक्त्वा स आचार्यान् 'त्रिविधेन' मनो-वाक्-कायकर्मणा प्रणम्य निकृत्या ग्लानत्वं कृत्वाऽऽर्याणामुपाश्रयं प्रविशति ॥ [भा.३७६६] अंतद्धाणा असई, जइ मंसू लोय अंबिलीबीए। पीसित्ता देंति मुहे, अपगासे ठवेंति य विरेगो । वृ-यद्यन्तर्धानकारणमञ्जन-मन्त्रादि विद्यते ततः सोऽन्तर्हितः कृत्वा तत्रैव स्थाप्यते । अथ नास्त्यन्तर्धानकरणं ततः संयतीनेपथ्यं कारयित्वा तद्वसतिं नेतव्यः । यदि तस्य 'श्मश्रु' कूर्च विद्यते ततो लोचः क्रियते । अम्लिनीबीजानि च पिष्ट्वा तस्य मुखे ददति, तैर्मुखमालिम्पन्तीत्यर्थः। अप्रकाशे च प्रदेशे संयतीवसतौ तं स्थापयन्ति । विरेकश्च विरेचनकारकौषधप्रयोगेण क्रियते॥ [भा.३७६७] संथार कुसंघाडी, अमणुन्ने पानए य परिसेओ। घंसण पीसण ओसह, अद्धिति खरकम्मि मा बोलं ॥ वृ-संस्तारके स संयः शाय्यते । मलिनां त्रुटितां च कुसङ्घाटीं स प्रावरणं कार्यते । 'अमनोज्ञ' दुर्गन्धि पानकं तेन तस्य परिषेकः क्रियते । तथा काश्चन संयत्यस्तत्र चन्दनस्य घर्षणम् अन्यास्तु पेषणं औषधस्य कुर्वन्ति । अपराः पुनः करतलपर्यस्तमुखा भूमिगतदृष्ट्योऽधृतिं कुर्वाणास्तिष्ठन्ति, 'खरकर्मिकेषु च राजपुरुषेषु समागतेषुभणन्ति-मा बोलं कुरुत, एषा प्रवर्तिनी ग्लाना न युष्मदीयं बोलं सहते । एवमसौ तत्र संयतीवेषेण तिष्ठन् सर्वाण्यपि स्थाननिषदनादीनि पदानि कुर्यात् ।। गतं 'प्रच्छादना च शैक्षे' इति द्वारम् । अथ 'असहिष्णोश्चतुष्कभजना' इति द्वारं बिभावयिषुराह[भा.३७६८] दोन्नि वि सहू भवंती, सो वऽसहू सा व होज्ज ऊ असहू । दोण्हं पि उ असहूणं, तिगिच्छ जयणाय कायव्वा ।। वृ-यस्या ग्लानसाव्याश्चिकित्सा क्रियते यश्च तस्याः प्रतिचरकः तौ द्वावपि सहिष्णू भवतः, Page #367 -------------------------------------------------------------------------- ________________ ३६४ बृहत्कल्प-छेदसूत्रम् -२-३/८१ एषप्रथमो भङ्गः । “सो वऽसहु"त्ति साध्वी सहिष्णुः ‘स च' साधुरसहिष्णुरिति द्वितीयः । “सा व होज्ज ऊ असहु"त्ति 'सा' साध्वी असहिष्णुः साधुः सहिष्णुः, एष तृतीयः । साध्वी साधुश्च द्वावग्यसहिष्णू इति चतुर्थः । एतेषु चतुर्यु भङ्गेषु यतनया चिकित्सा कर्तव्या । तत्र प्रथमभङ्गं तावद् भावयति[भा.३७६९] सोऊण ऊ गिलाणं, पंथे गामे व भिक्खवेलाए । जइ तुरियं नागच्छइ, लग्गइ गुरुए चउम्मासे । वृ-श्रुत्वा ग्लानां संयती पथि वा परिभ्रमन् ग्रामे वा तिष्ठन् भिक्षावेलायां वा पर्यटन् यदि त्वरितं ग्लानासमीपं नागच्छति ततश्चतुरो मासान् गुरुकान् ‘लगति' प्राप्नोति, अतो ग्लानां श्रुत्वा निर्जरामभिलषता सर्वेणाप्यक्षेपेणैव तस्याः समीपं गन्तव्यम् ।। कथं पुनस्तस्याः श्रवणं भवति? उच्यते-यत्र ग्रामे ग्लाना विद्यते तस्य बहिरदूरसमीपे व्यतिव्रजन्तं संयतं गृहस्थः कोऽपि ब्रूतेयुष्माकं ग्लानायाः प्रतिजागरणं क्रियते ? न क्रियते ? । साधुराह-सुष्छु क्रियते? । गृही ब्रवीतियद्येवं ततः[भा.३७७०] लोलंती छग-मुत्ते, सोउं घेत्तुं दवं तु आगच्छे। तूरंतो तं वसहिं, निवेयणं छायणऽज्जाए॥ वृ- एकाकिनी संयती 'छगण-सूत्रे' आत्मीय एव पुरीष-प्रश्रवणे 'लोलन्ती' विलुठन्ती अत्र ग्रामे तिष्ठति । एवं श्रुत्वा तत एव 'द्रवं' पानकं गृहीत्वा त्वरमाणः संयतीवसतिमागच्छति। ततो बहिः स्थित्वा शय्यातरीपादार्यिकाया निवेदनं कारयति, यथा-बहि साधुरागतोऽस्तीति । सा च शय्यातरी तस्या आर्यिकाया दुर्निवसितगात्राणां छादनं कुर्यात् । अथ सा न करोति तत आत्मनाऽपि यतनया तां छादयति ॥ ततः स साधुस्तस्या इत्थं स्थिरीकरणं करोति[भा.३७७१] आसासो वीसासो, मा भाहि इति थिरीकरण तीसे। धुविउं चीरऽत्थुरणं, तीसेऽप्पण बाहि कप्पो य॥ वृ-'आश्वासो नाम' धीरा भव, अहं ते सर्वमपि वैयावृत्त्यं करिष्ये । 'विश्वासस्तु' त्वं मम माता भगिनी दुहिता वा अतो मा मैषीः, एवं वयोऽनुरूपमविरुद्धं वचनं ब्रवीति । इत्थं तस्याः स्थिरीकरणं कृत्वा छगण-मूत्रलुलितां तां धावित्वा तस्या एवौपग्रहिकाणि चीवराणि तेषामभावे आत्मीयान्यपि संस्तारके आस्तृणाति तां वा परिधापयति । ततः खरण्टितचीवराणां प्रतिश्रयाद् बहि कल्पो दातव्यः । भूमेरपि तस्या उपलेपनं कर्तव्यम् । अथ प्रवेशविधिं विशेषत आह[भा.३७७२] एएहि कारणेहिं, पविसंते ऊ निसीहिया तिन्नि । ठिचाणं कायव्वा, अंतर दूरे पवेसे य॥ वृ-'एतैः' ग्लानत्वादिभिः कारणैः संयतीवसतौ प्रविशता तिी नैषेधिक्यः कर्तव्याः । कथम्? इत्याह-'स्थित्वा' प्रथमनषेधिकीकरणानन्तरं कियन्तमपि कालं प्रतीक्ष्य द्वितीया नैषेधिकी, ततो द्वितीयानन्तरं तृतीयाऽप्येवमेव कर्त्तव्या । तथा प्रथमा नैषेधिकी ‘दूरे' अग्रद्वारे, द्वितीया 'अन्तरे' मध्यभागे, तृतीया 'प्रवेशे' मूलद्वारे विधातव्या ॥ ततः[भा.३७७३] पडिहारिए पवेसो, तक्कजसमाणणा य जयणाए। गेलन्ने चिट्ठणादी, परिहरमाणो जतो खिप्पं ।। Page #368 -------------------------------------------------------------------------- ________________ उद्देश : ३, मूलं - ८१, [भा. ३७७३ ] ३६५ वृ- शय्यातरीभिः 'प्रतिहारिते' आर्याया ज्ञापिते सति प्रवेशः कर्त्तव्यः । प्रविष्टेन च तस्यविवक्षितस्य ग्लानकार्यस्य पूर्वोक्तया वक्ष्यमाणया च यतनया समापना कर्त्तव्या । एवं ग्लानत्वे तत्र स्थानादीनि पदानि कुर्यात् । तथा ग्लानकृत्यान्युत्सर्गतोऽशुद्धं परिहरन् करोति । अथ शुद्धं न प्राप्यते ततः "उ"त्ति अनागाढे पञ्चकहान्या 'यतः ' यतमानः करोति, “खिष्पं "ति आगाढे क्षिप्रमेव करोति । अथवाऽऽत्म-परोभयसमुत्थदोषान् परिहरमाणो ग्लानकृत्यं करोति, कुतः ? इत्याह-‘“जतो खिप्पं’ति यत आत्मसमुत्थादिदोषान् अपरिहरतः क्षिप्रमेव संयमविराधना भवति ।। कीदृशः पुनस्तां प्रतिजागर्ति ? इत्युच्यते [ भा. ३७७४] पियधम्मो दढधम्मो, मियवादी अप्पकोतुहल्लो य । अजं गिलाणियं खलु, पडिजग्गति एरिसो साहू | वृ- प्रियः- इष्ट धर्मो यस्य स प्रियधर्मा । धर्मे यः दृढः - निश्चलो दृढधर्मा, राजदन्तादित्वाद् ढशब्दस्य पूर्वनिपातः । मितं परिमिताक्षरं वदितुं शीलमस्येति मितवादी । अल्पशब्दस्य इह अभाववचनत्वाद् अल्पम्-अविद्यमानं कौतूहलं स्त्रीरूपदर्शनादिषु यस्य सोऽल्पकौतूहलः । ईशः साधुरायां ग्लानां प्रतिजागर्त्तिः ॥ [भा. ३७७५ ] सो परिणामविहिन्नू, इंदियदारेहि संवरियदारो । जं किंचि दुब्भिगंधं, सयमेव विगिंचणं कुणति ॥ वृ- 'सः' वैयावृत्तयकरः 'वर्ण- गन्धादिभिः शुभा अपि भावा भूयोऽप्यशुभा भवन्ति, अशुभा अपि च संस्कारविशेषतो विश्वसया वा शुभा जायन्ते' इत्येवं पुद्गलानां परिणामविधिं जानातीति परिणामविधिज्ञः । तथा इन्द्रियद्वारेभ्यः संवृतद्वारः, इह "गम्य्यपः कर्माधारे" इत्यनेन पञ्चमी, ततोऽयमर्थ-इन्द्रियरूपाणि द्वाराण्यधिकृत्य संवृतद्वारः, न पुनर्बाह्यद्वाराणि । ईशः साधुर्यत् किञ्चिदायिकायाः संज्ञादिकं दुरभिगन्धं तस्य स्वयमेव 'विवेचनं' स्फेटनं परिष्ठापनं वा करोति ।। संवृतद्वारपदस्य सफलीकरणार्थमाह [भा. ३७७६ ] गुज्झंग- वदन- कक्खोरुअंतरे तह थणंतरे दङ्कं । साहरति ततो दिट्ठि, न य बंधति दिट्ठिए दिट्ठि ॥ वृ- गुह्याङ्गस्य वदनस्य कक्षाया ऊर्वोश्च यान्यन्तराणि - अवकाशास्तानि तथा स्तनान्तराणि च दृष्ट्वा 'संहरति' भास्करादिव ततो दृष्टिं निवर्त्तयति, 'न च' नैव आर्यिकाया दृष्टौ दृष्टिं 'बध्नाति ' मीलयतीत्यर्थः ॥ अथ 'यत् किञ्चिद् दुरभिगन्धम्' इत्यादि व्याचष्टे - [भा. ३७७७] उच्चारे पासवणे, खेले सिंघाणए विगिंचणया । उव्वत्तण परियत्तण, नंतग निल्लेवण सरीरे ॥ वृ- उच्चारस्य प्रश्रवणस्य खेलस्य सिङ्घानस्य च विवेचनं करोति । उद्वर्त्तनं नाम-तस्या उत्तानायाः पार्श्वतः करणम्, तत इतरस्यां दिशि स्थापनं परिवर्त्तनम्, ते अपि करोति । 'नन्तकं' वस्त्रं तथा शरीरं च यदि संज्ञया मूत्रेण वा लिप्तं ततस्तदपि निर्लेपयितव्यम् ॥ किरियातीतं नाउं, जं इच्छति एसणाए जं तत्थ । [भा. ३७७८] सद्धावणा परिन्ना, पडियरण कहा नमोक्कारो || वृ- क्रियायां क्रियमाणायामपि या न प्रगुणीभवति सा क्रियातीता, तां ज्ञात्वा सा प्रष्टव्या Page #369 -------------------------------------------------------------------------- ________________ ३६६ बृहत्कल्प-छेदसूत्रम् -२-३/८१ केन भवत्याः समाधिरुत्पद्यते? ।ततो यद्रव्यमिच्छति तदेषणया शुद्धं शुद्धस्यालाभे पञ्चकहानि यतनयाऽपि गृहीत्वा दातव्यम् । ततः सा तथा श्रद्धाप्यते यथा परिज्ञाम्' अनशनं प्रतिपद्यते । अनशनप्रतिपन्नायाश्च सर्वप्रयत्नेन प्रतिचरणम् । धर्मकथा च तथा कर्तव्या यथा सम्यगुत्तमातमाराधयति ।नमस्कारश्च तस्या मरणवेलायां दातव्य इत॥ क्रियासाध्याया विधिमाह[भा.३७७९] दव्वं तु जाणियव्वं, समाधिकारं तु जस्स जं होति । नायम्मि य दव्वम्मिं, गवसणा तस्स कायव्वा ।। कृयस्य रोगस्य यद् द्रव्यं पथ्यं यस्या वा ग्लानाया यत् समाधिकारकंतत्प्रथमत एव ज्ञातव्यम्। ज्ञाते च तस्मिन् द्रव्ये सर्वप्रयत्नेन तस्य गवेषणा कर्तव्या ॥ [मा.३७८०] सयमेव दिठ्ठपाढी, करेति पुच्छति अजाणओ वेजं । दीवन दव्वादिम्मि य, उवदेसे ठाति जा लंभो ॥ वृ-वैद्यकशास्त्ररूपो दृष्टः पाठो येन स एवंविधः स्वयमेव चिकित्सां करोति । अथ 'अज्ञः' वैद्यकशास्त्राभिप्रायं न जानाति ततो वैद्यं पृच्छति । तस्य च वैद्यस्य दीपनं करोति, यथा-अहं कारणत एकाकी सातः, अतोमा अपशकुनं गृह्णध्वम् । ततो वैद्येन द्रव्य-क्षेत्र-काल-भावमेदात् चतुर्विधे उपदेशे दत्ते सति ब्रवीति-यदि वयमेतत्र लभामहे ततः किं प्रयच्छामः ? । एवं पृष्टे भूयो द्रव्यान्तरे उपदिष्टे ब्रूते-यद्येतदपि न लभामहे ततः किं कर्तव्यम् ? । एवं तावत् पृच्छति यावद् यस्य द्रव्यस्य ध्रुवो लाभः । तदुपदेशे च पृच्छा तिष्ठति' उपरमत इत्यर्थः । अथ रात्रौ विधिमाह[भा.३७८१] अब्मासे व वसेजा, संबद्ध उवस्सगस्स वा दारे। आगाढे गेलंन्ने, उवस्सए चिलिमिणिविभत्ते ॥ वृ- संयतीप्रतिश्रयस्य 'अभ्यासे' समीपे यदसम्बद्धमन्यगृहं तत्र वसेत्, तस्याभावे सम्बद्धेऽप्यन्यगृहे, तदभावे उपाश्रयस्य वा द्वारे।अथागाढं ग्लानकार्यं भवति तत उपाश्रयेऽपि चिलिमिलिकाविभक्ते वसति ॥ किमर्थं पुनरुपाश्रयस्यान्तर्वसति? इत्याह[भा.३७८२] उव्वत्तण परियत्तण, उभयविगिंचट्ठ पानगट्ठा वा। तक्करभय भीरू अध, नमोकारट्ठा वसे तत्थ ॥ वृतस्या उद्वर्तनं परिवर्तनं वा कर्तुम्, उभयस्य वा-कायिकी-संज्ञालक्षणस्य विवेचनार्थम्, तृष्णा"या वा रात्रौ पानकदानार्थम्, यद्वा तत्र तस्करभयं सा च संयती स्वाभावेनैव भीरु ततो भयरक्षणार्थम्, 'अथ' इति अथवा मरणवेलायाः प्रत्यात्रत्वाद् नमस्कारदानार्थं वा तत्र रात्री वसेत् ॥ . [भा.३७८३] धिइ-बलजुत्तो वि मुनी, सेज्जातर-सन्नि-सिझगादिजुतो। वसति परपञ्चयट्ठा, सलाहणट्टा अवराणं ॥ १- यद्यपि स मुनि सहिष्णुत्वाद् धृति-बलयुक्तस्तथापि शय्यातरेण संज्ञिना वा-श्रावकेण सिज्झकेन वा-सहवासिना युतः-सहितः संयतीप्रतिश्रये वसति।तंच शय्यातरादिकमित्थंभणतिन वर्तते ममैकाकिनः संयतीप्रतिश्रये रात्रौ वस्तुम्, अतो मम द्वितीयेन भवता भवितव्यम् । अथ किमर्थमेवं करोति? इति चेद् इत्याह-'परप्रत्ययार्थं परेषाम्-अगारिणांप्रतीत्युत्पादननिमित्तम्, ___ Page #370 -------------------------------------------------------------------------- ________________ उद्देशक : ३, मूलं - ८१, [भा. ३७८३] ३६७ यथा-नैष विरुद्धाभिप्रायेणात्र वसति । 'अपरेषां च' साधूनां श्लाघनार्थम्, धनया अमी येषामेवंविधः सुटो धर्म इति ॥ [ भा. ३७८४] सो निजराए वट्टति, कुणति य आणं अनंतनाणीणं । स बितिजओ कहेती, परियट्टेगागि वसमाणो ॥ वृ- 'सः' साधुरेवं कुर्वन् विपुलायां निर्जरायां वर्त्तते, आज्ञां च 'अनन्तज्ञानिनां' तीर्थकृतां करोति । स च सद्वितीयो वसन् तस्य द्वितीयस्य धर्मं कथयति, अथैकाकी वसति ततः सर्वामपि रात्रिं परिवर्त्तयति ॥ [भा.३७८५] पडिजग्गिया य खिप्पं, दोण्ह सहूणं तिगिच्छ जतणाए । तत्थेव गणहरो अन्नहिं व जयणाए तो नेइ ॥ वृ- एवं तेन साधुना प्रतिजागरिता सा 'क्षिप्रं ' शीघ्रं प्रगुणीभवेत् । इत्थं द्वयोः सहिष्ण्वोर्यतनया चिकित्साकरणमुक्तम् । तां च प्रगुणीभूतां गृहीत्वा यदि तस्या गणधर ः 'तत्रैव' आसन्ने समस्ति ततस्तं गाढं खरण्टयित्वा तस्य समर्पयति । अथ 'अन्यत्र' दूरदेशे ततः सार्थेन सह तां तत्र प्रस्थापयति, स्वयं वा यतनया तत्र नयति ॥ कथम् ? इत्याह [ भा. ३७८६ ] निक्कारणिगि चमढण, कारणिगिं नेति अहव अप्पाहे । गमणित्थि मिस्स संबंधि वज्जिते असति एगागी ॥ वृ- यदि सा ग्लाना संयती निष्कारणं गणाद् निष्क्रम्यैकाकिनी भूता ततस्तां 'चमढयति' निर्भर्त्सयतीत्यर्थः । अथ कारणिका ततस्तां स्वयं नयति, येषां वा आचार्याणां सा संयती तेषां सन्दिशति, यथा-युष्माकं संयती साम्प्रतमत्र तिष्ठति, अस्या आनयनकृते सङ्घाटकः प्रहेयः । यदा पुनः स स्वयं नयति तदा इयं यतना- "गमणित्थि " इत्यादि । स्त्रीसार्थेन सम्बन्धिना समं प्रथमतो नयति, ततः स्त्रीसार्थेनैवसम्बन्धिमिश्रेण, ततः स्त्रीसार्थेनैवासम्बन्धिना । ततः पुरुषमिश्राभिरपि स्त्रीभिः प्रथमं सम्बन्धिपुरुषयुक्ताभि, ततोऽसम्बन्धिमिश्रपुरुषयुक्ताभिः, ततोऽसम्बन्धिभिरपि । ततः पुरुषैरेव केवलैः प्रथमं सम्बन्धिभि, ततोऽसम्बन्धिमिश्रः, ततोऽसम्बन्धिभिरपि समं नयति । एषां प्रकाराणामभावे स साधुरेकाक्यपि तां नयति, तत्र चात्मना पुरतो गच्छति, संयती तु नासन्ने नातिदूरे पृष्ठतः स्थिता आगच्छति ।। गतः प्रथमो भङ्गः । अथ द्वितीयं भङ्गं बिभावयिषुराह [भा. ३७८७] न विय समत्यो सव्वो, हवेज एतारिसम्मि कज्जम्मि । कायव्वो पुरिसकारो, समाहिसंधाणणट्ठाए । वृ- 'साध्वी सहिष्णुः साधुरसहिष्णुः' इत्ययं भङ्गो भाव्यते- 'नापि च ' नैव सर्वोऽपि साधुः 'एताशे' स्त्रियाः स्पर्शादावपि मनोनिग्रहात्मके कार्ये समर्थो भवेत् ततः कि सा ग्लाना सती तेन परित्यक्तव्या ? न इत्याह-ज्ञान-दर्शन- चारित्राणां यः समाधि- अन्योऽन्याविरोधेनैकत्रावस्थानं तस्य सन्धानार्थं तथा साधुना पुरुषकारः कर्त्तव्यः यथा तस्याश्चिकित्सा क्रियते आत्मनश्च शीलखण्डना न भवति ।। स पुनः साधुः कथमसहिष्णुर्भवति ? इत्युच्यते [भा. ३७८८] सोऊण य पासित्ता, संलावेणं तहेव फासेणं । एतेहि असहमाणे, तिगिच्छ जयणाइ कायव्वा ॥ Page #371 -------------------------------------------------------------------------- ________________ ३६८ बृहत्कल्प-छेदसूत्रम् -२-३/८१ वृ-स्त्रियाः शब्दं श्रुत्वा रूपं वा तदीयं दृष्ट्वा तया साद्धं वा यः संलापो यो वा तस्याः स्पर्शस्तेन वा तस्य मोहोद्भवः समुल्लसति । एतैः प्रकारैः ‘असहमानः' इन्द्रियनिग्रहं कर्तुमक्षमो यस्तेन यतनया चिकित्सा कर्तव्या । तद्यथा-प्रथमं सा ग्लाना प्रष्टव्या-आर्ये ! भवती किं सहिष्णुः ? उतासहिष्णुः ? । सा च गीतार्था वा भवेदगीतार्था वा ॥ तत्र[भा.३७८९] अविकोविया उ पुट्ठा, भणाइ किं मं न पाससी नियए। छग-मुत्ते लोलंतिं, तो पुच्छसि किं सहू असहू ॥ वृ-'अविकोविदा' अगीतार्था पृष्टा इदं भणति-किंमांनपश्यसि निजके छगण-मूत्रे लोलन्तीम्? तत एवं पृच्छसि किं सहिष्णुः ? असहिष्णुः ? इति ॥ साधुराह[भा.३७९०] पासामि नाम एतं, देहावत्थं तु भगिनि ! जा तुझं। पुच्छामि धितिबलं ते, मा बंभविराधना होज्जा। वृ-'नाम' इति कोमलामन्त्रणे, भगिनि ! पश्याम्यहमेनां देहावस्थां या साम्प्रतं तव वर्त्तते, परमहं 'ते' तव घृतिबलं पृच्छामि, मा मम तव च ब्रह्मव्रतविराधना भवेदिति कृत्वा ।। ततः साध्वी ब्रूते[भा.३७९१] इहरा वि ताव सद्दे, रूवाणिय बहुविहाणि पुरिसाणं । सोऊण व दळूण व, न मनक्खोभो महं कोति॥ वृ- 'इतरथाऽपि नीरोगाया अपि मम तावत् पुरुषाणां गीतादीन् शब्दान् श्रुत्वा रूपाणि च 'बहुविधानि' विशिष्टनेपथ्यालङ्कृतानि दृष्ट्वा 'कोऽपि' मनागपिन मनःक्षोभो भवति ॥किञ्च[भा.३७९२] संलवमाणी वि अहं, न यामि विगतिं न संफुसित्ताणं। हट्ठा वि किंतु एण्हि, तं पुन नियगं धिंति जाण ॥ वृ-अहं सकलमपि दिवसं पुरुषेण सह संलपन्ती 'विकृति विकारं न यामि, न वा पुरुषस्य हस्ताघवयवं संस्पृश्यापि विकारं गच्छामि । तदेवं हष्टाऽपि' नीरोगाऽप्यहमेवं सहिष्णुः, किं पुनः ‘इदानीं' ग्लानाद्वस्थां प्राप्ता? त्वं पुनः 'निजकाम्' आत्मीयां घृति जानीहि ॥ एवमुक्ते स किं करोति ? इत्याह[भा.३७९३] सो मग्गति साहम्मिं,सन्नि अहाभद्दिगं व सूइंवा । देति य से वेदनगं, भत्तं पानं व पाउग्गं ॥ वृ- ‘सः' असहिष्णुः साधुस्तत्रान्यत्र वा ग्रामे 'साधर्मिकी' संयती मार्गयति, तत्र च प्रथम संविग्नां गीतार्थाम्, तदभावे संविग्नामगीतार्थाम्, तदलाभे पार्श्वस्थां गीतार्थाम, तदप्राप्तौ पार्श्वस्थामेवागीतार्थाम् । अथ संयती न प्राप्यते ततः 'संज्ञिनी' श्राविकाम्, तामपि प्रथम गृहीताणुव्रताम्, ततो दर्शनश्राविकामपि; तदप्राप्तौ यथाभद्रिकामपि गवेषयति । तदलाभे 'सूतिकां' नवप्रसुतस्त्रीसूतिकर्मकारिणी मार्गयति । सा च धर्मकथया प्रज्ञाप्यते यथा मुधिकयैव संयत्या वैयावृत्त्यं करोति।अथासौ मुधिकया नेच्छति ततो वेतनमपि तस्यै भक्तंपानं वा प्रायोग्यं ददाति।। [भा.३७९४] एयासिं असतीए, न कहेति जहा अहं खु मिं असहू । .. सद्दादीजयणं पुन, करेमो एसा खलु जिनाणा ।। वृ- ‘एतासाम्' अनन्तरोक्तस्त्रीणामभावे स साधुस्तस्याः पुरतो नैवं कथयति, यथा Page #372 -------------------------------------------------------------------------- ________________ उद्देशक : ३, मूलं-८१, [भा. ३७९४] ३६९ अहमसहिष्णुरस्मि; परमेवं स्वचेतसि निश्चिनोति, यथा-शब्दादिविषयांयतनां कुर्मः । एषा 'खलु' निश्चितं जिनानामाज्ञा ।। यतनामेवाह[मा.३७९५] सद्दम्मि हत्थ-वत्थादिएहि दिट्ठिम्मि चिलिमिनंतरिओ। संलावम्मि परम्मुहो, गोवालगकंचुतो फासे ।। वृ- यद्यसौ साधुः शब्देऽसहिष्णुस्ततस्तां ग्लानां भणति-मा वचनेन मां व्यापारयः, किन्तु हस्तेन वा वस्त्रेण वा अङ्गुल्या वा संज्ञां कुर्याः । यस्तु दृष्टिक्लीबः स सर्वमपि वैयावृत्त्यं चिलिमिलिकया अन्तरितः करोति । अथासौ संलापक्लीबस्ततोऽवश्यसंलपनीये पराङ्मुखः संलापं करोति । स्पर्शक्लीवस्तु गोपालककञ्चकमात्मना प्रावृत्य तस्याः सर्वमप्युद्वर्तनादिकृत्यं करोति ।। गतो द्वितीयभङ्गः । अथ तृतीय-चतुर्थभङ्गयोरतिदेशमाह[भा.३७९६] एसेव गमो नियमा, निग्गंथीए वि.होति असहूए । दोण्हं पि हु असहूणं, तिगिच्छ जयणाए कायव्वा ।। दृ- 'एष एव' द्वितीयभोक्तः ‘गमः' प्रकारो नियमाद् निन्थ्यामप्यसहिष्णौ कर्तव्यः । नवरं यां शब्दादियतमामसावात्मना कृतवान्तां सा संयती कारयितव्या। 'द्वयोरपिच' संयतीसंयतयोरसहिष्ण्वोः 'यतनया' द्वितीय-तृतीयभङ्गोक्त्या चिकित्सा कर्तव्या॥ प्रगुणीभूता च काचिदिदं ब्रूयात्[भा.३७९७] आयंकविप्पमुक्का, हट्ठा बलिया य निब्बुया संती । अज्जा भणेज काई, जेठ्ठज्जा ! वीसमामो ता॥ कृआतङ्केन-रोगेण विप्रमुक्ता सती हष्टा सजाता, तथा बलिका-उपचितमांस-शोणिता, निर्वृतास्वस्थीभूतन्द्रिया, एवंविधा सती काचिदार्यिका ब्रूयात्-ज्येष्ठार्य! चिरं संयमभाराक्रान्तावावाम् अत एनं भारंपरित्यज्य यथासुखं किञ्चित् कालं तावद् 'विश्राम्यावः' विश्रामगृहीवः ।। किञ्च[भा.३७९८] दिटुं च परामु, च रहस्सं गुज्झ एक्कमेक्कस्स। तं वीसमामो अम्हे, पच्छा वि तवं चरिस्सामो॥ वृ. 'रहस्यम्' एकान्तयोग्यं यद् गुह्यं तद् मदीयं भवात मयाऽपि भवदीयमुद्वर्तनपरिवर्तनादिक्रियासु बहुश एकैकस्य दृष्टं परामृष्टं च, 'तत्' तस्माद् विश्राम्यावः किञ्चित् कालं 'पश्चात्' पश्चिमे काले तपश्चरिष्यावः॥ [भा.३७९९] तं सोचा सो भगवं, संविग्गोऽवजभीरु दढधम्मो । अपरिमियसत्तजुत्तो,निकंपो मंदरो चेव ॥ वृ-'तत् तस्या आर्यिकाया वचनं श्रुत्वा स भगवान् ‘संविग्नः' मोक्षाभिलाषी, अवयं-पापं ततो भीरु-चकितः, 'दृढधर्मा चारित्रे स्थिरः, अपरिमितम्-इयत्तारहितं यत् सत्त्वं-धृतिबलं तेन युक्तः, अत एव निष्कम्पः 'मन्दर इव' मेरुगिरिखि । यथा हि मन्दरो वायुना न कम्प्यते एवं परिभोगनिमन्त्रणवायुना स भगवान्न कम्पितवान् । किन्तु[भा.३८००] उद्धंसिया य तेनं, सुटु वि जाणाविया य अप्पाणं । चरसु तवं निस्संका, उ सासियं सो उ चेतेइ ॥ . | 19 24 Page #373 -------------------------------------------------------------------------- ________________ ३७० ... बृहत्कल्प-छेदसूत्रम् -२-३/८१ - 'उद्धर्षिता' खरण्टिता गाढं तेन भगवता सा संयती, यथा-निर्धर्मे ! ईशंदुःखमनुभूय भवत्या वैराग्यमपिन सआतम्, मयाऽपि साधर्मिकेति कृत्वा भवती चिकित्साकरणेन प्रगुणीकृता, इतरथा मृता अभविष्यत्। एवं 'सुष्टुअतीव ज्ञापिता सा 'आत्मानं आत्मनो निरभिलाषतामित्यर्थः। ततश्च चर सम्प्रति निशङ्का तपःकर्म, एवं शासित्वा ‘सः' साधुः आवश्यकी 'चेतयति' गमनं करोतीत्यर्थः ॥अथ द्वितीयपदमाह[भा.३८०१] बिइयपयमणप्पज्झे, पविसे अविकोविए व अप्पज्झे । तेन-ऽगनि-आउसंभम, बोहिकतेनेसुजाणमवि॥ कृ-द्वितीयपदे संयतीवसतौ 'अनात्मवशः' क्षिप्तचित्तादिको नैषेधिकीत्रयकरणमन्तरेणापि प्रविशेत् । आत्मशो वा यः ‘अविकोविदः' शैक्षः सोऽप्यविधिना प्रविशेत् । यद्वा स्तेनाऽग्न्यकायसम्भ्रमेषुबोधिकस्तेनेषु वा 'जाननपि' गीतार्थोऽपि सहसा प्रविशेत् ॥ मू. (८२) नो कप्पइ निग्गंथणं निग्गंथउवस्सयंसि चिट्टित्तए वा जाव काउस्सग्गं वा ठाणं • ठाइत्तए॥ वृ-अस्य सम्बन्धमाह[भा.३८०२] पडिवखेणं जोगो, तासिं पिन कप्पंती जतीणिलयं । निकारणगमणादी, जं जुञ्जति तत्थ तं नेयं ॥ वृ. “पडिवक्खेणं" ति भावप्रधानत्वाद् निर्देशस्य प्रतिपक्षतया 'योगः' सम्बन्धः क्रियतेयथा निर्ग्रन्थानां निर्ग्रन्थ्युपाश्रये गमनादिकं कर्तुन कल्पते तथा 'तासामपि' निर्ग्रन्थीनां 'यतिनिलये निर्ग्रन्थोपाश्रये निष्कारणे गमनादिकं कर्तुं न कल्पते । एतर्थप्रतिपादनार्थमिदं सूत्रमारभ्यते । अत्र व यत्' प्रायश्चित्त-दोषजालादि पूर्वसूत्रोक्तं यत्र निष्कारणगमनादौ युज्यते तत्र तद् ‘ज्ञेयं' स्वबुद्धयाऽभ्यूह्य ज्ञातव्यम् । अनेन सम्बन्धेनायातस्यास्य व्याख्या प्राग्वत् ।। अथ भाष्यम्[मा.३८०३] एसेव गमो नियमा, पनवण-परुवणासु अजाणं । पडिजग्गती गिलाणं, साहुं जतणाए अज्जा वि ॥ 'एष एवं पूर्वसूत्रोक्तो गमोनियमात्प्रज्ञापना-प्ररुपणयोरार्याणामपि मन्तव्यः । प्रज्ञापना नाम-निष्कारणेऽविधिना प्रविशतीत्याधुलेखेन चतुर्भङ्गयाः सामान्यतः कथनम् । प्ररुपणापृथगेकैकभङ्गकस्य स्वरुपनिरुपणम्। तथा साधुग्लानमार्याऽपियतनया तथैव प्रतिजागतिः।। नवरम्[भा.३८०४] सा मग्गइसाधम्मिं, सन्नि अहाभद्द संवरादी वा । देति य से वेदनयं, भत्तं पानं च पायोग्गं॥ दृ-द्वितीय-तृतीय-चतुर्थभङ्गेषु 'सा' संयती साधर्मिकं साधुमार्गयति, तदप्राप्तौ 'संज्ञिनं' श्रावकम्, तदलाभे यथाभद्रकम्, तदभावे संवरं स्नानिकाशोधकम्, आदिशब्दादन्यमपि तथाविधं मार्गयति । यदि चासौ मुधिकया नेछति ततस्तस्य वेतनकमपि ददाति । भक्तं पानं च तस्य ग्लानस्य प्रायोग्यमुत्पादयति॥ मू. (८३) नो कप्पइ निग्गंथीणं सलोमाइं चम्माइं अहिडित्तए । -अथास्य सूत्रस्य कः सम्बन्धः? इत्याह Page #374 -------------------------------------------------------------------------- ________________ ३७१ उद्देशक : ३, मूलं-८३, [भा. ३८०५] [भा.३८०५] बंभवयपालणट्ठा, अन्नोन्नउवस्सयं न गच्छंति। उवकरणं पि न इच्छति, जहिं पीला तस्स जोगोऽयं॥ वृ-ब्रह्मव्रतपालनार्थं निर्ग्रन्थ्यश्चान्योऽन्योपाश्रयं न गच्छन्ति। अत उपकरणमपि ताशंसाधुः साध्वी वा नेच्छति ग्रहीतुम्, यत्र गृहीते तस्य' ब्रह्मचर्यस्य पीडा भवति । अयं योगः' सम्बन्धः॥ [भा.३८०६] सतिकरणादी दोसा, अन्नोन्नउपस्सगाभिगमनेन । सतिकरण-कोउहल्ला, मा होज्जा सलोमए अहवा ॥ वृ-स्मृतिकरण-कौतुकादयो दोषा अन्योऽन्योपाश्रयाभिगमनेन भवन्ति । अतः सलोभनि चर्मणि गृहीते संयतीनां स्मृतिकरण-कौतूहले मा भूतामिति प्रकृतं सूत्रमारभ्यते । 'अथवा' इत्ययमपरः सम्बन्धः ॥अनेन सम्बन्धेनायातस्यास्य व्याख्या-नो कल्पते निर्ग्रन्थीनां सलोमानि चर्माणि अधिष्ठातुं' निषदनादिना परिभोक्तुमिति सूत्रार्थः ॥ अथ भाष्यविस्तरः[भा.३८०७] चम्मम्मि सलोमम्मि, निग्गंथीणं उवेसमाणीणं। चउगुरुगाऽऽयरियादी, तत्थ वि आणादिणो दोसा ॥ कृसलोमनि चर्मणि निर्ग्रन्थीनामुपविशन्तीनां चतुर्गुरुकाः । अत एवाचार्य एतत् सूत्रप्रवर्त्तिन्या न कथयति चतुर्गुरवः प्रवर्तिनी श्रमणीनां न कथयति चतुर्गुरुकाः, श्रमण्यो न प्रतिशुण्वन्ति मासलघु । तत्रापि' अकथनेऽश्रवणे सलोमचर्मोपवेशने चाज्ञादयो दोषाः॥ अथानन्तरोक्तमेव प्रायश्चित्तं विशेषयन्नाह[भा.३८०८] गहणे चिट्ठ निसीयण, तुयट्टणे य गुरुगा सलोमम्मि । निल्लोमे चउलहुगा, समणीनणारोवणा चम्मे । वृ-सलोमचर्मणो ग्रहणं कुर्वन्ति चतुर्गुरुकाः तपसा कालेन च लघवः । गृहीत्वा तत्र स्थानम् ऊर्ध्वस्थानरुपं कुर्वन्ति चतुर्गुरुकाः तपसा लघवः कालेन गुरवः, निषदनं कुर्वन्ति चतुर्गुरुकाः तपसा गुरवः कालेन लघवः त्वग्वर्तनं कुर्वन्ति तपसा कालेन च गुरवः । निर्लोमचर्मणि तुचतुर्लघुकाः। एवमेव चतुर्तास्थानेषु तपः-कालविशेषिता एषा श्रमणीनां 'चमणि' चर्मविषयाऽऽरोपणा मन्तव्या।। अत्र दोषान् दर्षयति[भा.३८०९] कुंथु-पणगाइ संजमे, कंटग-अहि-विच्छुगाइ आयाए। भारो भयभुत्तियरे, पडिगमणाई सलोमम्मि॥ कृसलोमचर्मणि कुन्थु-पनकादयो वर्षासुसम्पूछेयुः, तेषु स्थान-निषदनादिना विराध्यमानेषु संयमविराधना । कण्टकेन अहिना वृश्चिकादिना वा तत्रोपविष्टाः सुप्ता वा यद् उपघातमाप्नुवन्ति सा आत्मविराधना । भारश्च मार्गे गच्छन्तानां तस्य महान् भवति । मयं च स्तेनादिभ्यस्तद्विषयं भवति ।मुक्तभोगिनीनांचस्मृतिकरणम् इतरासांतु कौतुकमुपजायते। ततश्च प्रतिगमनं-भूयोऽपि गृहवासाश्रयणम्, आदिशब्दादन्यतीर्थिकगमनादि वा कुर्युः ।। अथैनामेव नियुक्तिगाथां व्याख्यानयति[भा.३८१०] तसपानविराधनया, चम्म सलोमे उ होति अहिकरणं। निल्लेमे तसपाणा, संकुयमाणे य करणं वा ॥ वृ- सलोमनि चर्मणि संसक्तानां कुन्थुप्रभृतीनां त्रसप्राणिनां विराधना भवति । Page #375 -------------------------------------------------------------------------- ________________ ३७२ बृहत्कल्प-छेदसूत्रम् -२-३/८३ तन्त्रातिरिक्तोपकरणत्वादधिकरणं भवति । निर्लोमन्यपि चर्मणि परिभुज्यमाने त्रसप्राणिनो विराध्यन्ते । सङ्घचति च तस्मिन् ‘करणं' पादकर्म संयती कुर्यात् ।। [भा.३८११]अविदिनोवधि पाना, पडिलेहा वि य न सुज्झति सलोमे । वासासु य संसज्जति, पतावमपतावणे दोसा ॥ वृ-तीर्थकरैः अवितीर्ण-अदत्तोऽयं सलोमचर्मलक्षण उपधिः । शुषिरतया च तत्र रोमान्तरेषु प्राणिनः सम्मूर्च्छन्ति, प्रत्युपेक्षणाऽपिच न शुध्यति। वर्षासुच कुन्थु-पनकादिभिस्तत्चर्मसंसज्यते। यदि संसजनभयात्प्रतापयतिततोऽग्निविराधना, अथ न प्रतापयति ततस्त्रसप्राणिनः संसजन्ति, एवमुभयथाऽपि दोषा भवन्ति ॥ [भा.३८१२] आगंतु तदुब्भूया, सत्ताऽशुसिरे वि गिण्हितुं दुक्खं । अह उज्झति तो मरणं, सलोम-निल्लोमचम्मेयं ॥ वृ-'आगन्तुकास्तदुद्भूताश्च' कुन्थु-पनकादयः सत्त्वा अशुषिरेऽपि ग्रहीतुंदुःखेन शक्यन्ते किं पुनः शुषिरे सलोमचर्मणि? । ततो यत् तेषां भूयोभूयः सघट्यमानानां परितापनं तन्निष्पन्नं प्रायश्चित्तम्।अथ तदुद्भवान् जन्तूनुज्झति ततस्तेषां मरणं भवेत्। एतत्सलोम चर्माश्रित्योक्तम्। अथ सलोम-निर्लोम्नोरुभयोरपि दोषा उच्यन्ते ॥ [भा.३८१३] भारो भय परितावण, मारण अहिकरणमेव अविदिने । तित्थकर-गणहरेहि, सतिकरणं भुत्तभोगीणं ।। वृ-सलोम्ना निर्लोम्ना वा चर्मणा मार्गे गच्छन्तीनां भारो भयंचोत्पद्यते । कुन्थ-पनकादिजीवानां परितापनमारणंवा भवति । अथैतद्दोषभयात् परित्यजतिततोऽसंयतैर्गृहीतेऽधिकरणम्। तीर्थकरगणधरैश्च अवितीर्ण अदत्तोऽयमुपधि । सलोमनि च परिभुज्यमाने स्मृतिकरणं भुक्तभोगिनीनाम्, इतरासां कौतुकमुपजायते ।। कथम् ? इत्याह[भा.३८१४] जइ ता अचेतनम्मि, अयिणे फरिसो उ एरिसो होति । किमया सचेतनम्मि, पुरिसे फरिसो उ गमनादी ॥ वृ-यदि तावदचेतने 'अजिने' चर्मणि ईशः स्पर्शो भवति ततः किं पुनः सचेतनस्य पुरुषस्य स्पर्शो भवति ? । एवं विचिन्त्य काचिदार्यिका 'गमनम्' अवधावनं कुर्यात्, आदिशब्दाद् वैहायसमरणं वा प्रतिपद्यते । द्वितीयदमाह[भा.३८१५] बिइयपय कारणम्मिं, चम्मुव्वलणं तु होति निल्लोमं । आगाढ कारणम्मिं, चम्म सलोमं पि जतणाए॥ वृ. द्वितीयपदे कारणे चर्मापि गृह्णीयात् । कथम् ? इत्याह-'उद्वलनम्' अभ्यङ्गनं कस्याश्चिदार्यिकायाः कर्तव्यं तदर्थं निर्लोमचर्म गृह्यते। अथागाढं कारणंततः सलोमचर्मणोऽपि यतनया परिभोगः कर्त्तव्य इति ॥ अथैनामेव नियुक्तिगाथां विवृणोति[भा.३८१६]उडम्मि वातम्मि धणुग्गहे वा, अरिसासु सूले व विमोइते वा। 'एगंग-सव्वंगगए व वाते, अब्भंगिता चिट्ठति चम्मऽलोमे ॥ वृ- यस्याः संयत्याः प्राचुर्येणोर्द्धववात उच्छलति, 'धनुर्ग्रहोऽपि' वातविशेषो यः शरीरं कुब्जीकरोति स वा यस्या अजनिष्ट, असि वा सज्जातानि, शूलं वा अभीक्ष्णमुद्धावति, Page #376 -------------------------------------------------------------------------- ________________ ३७३ उद्देशक : ३, मूलं-८३, [भा. ३८१६] पाणिपादाद्यङ्गं वा 'विमोचितं' स्वस्थानात् चलितम्, एकाङ्गतो वा सर्वाङ्गगतो वा कस्याश्चिद् वातः समुत्पन्नः सा निर्लोमचर्मणि अभ्यङ्गिता तिष्ठति ॥ अथ सलोमविषयं विधिमाह[भा.३८१७] तरच्छचम्मं अनिलामइस्स, कडिं व वेāति जहिं व वातो। . एरंड-ऽनेरंडसुणेण डक्कं, वेढेंति सोविंति व दीविचम्मे ।। वृ-'अनिलामयी'वातरोगिणी तस्याः कटीं तरक्षचर्मणा वेष्टयन्ति । 'यत्र वा' हस्तादौ वातो भवति तं वेष्टयन्ति । एरण्डेन वा-हडक्कितेन अनेरण्डेन वा शुना या दष्टा तां वा चर्मणा वेष्टयन्ति, द्वीपिचर्मणि वा तां स्वापयन्ति॥ [भा.३८१८]पुया व घस्संति अणत्युयम्मि, पासा व घस्संति व थेरियाए। लोहारमादीदिवसोवभुत्ते, लोमाणि काउं अह संपिहंति॥ वृस्थविरायाः संयत्वाअनास्तृते प्रदेशे उपविशन्त्याः पुतौ घृष्येते, सुप्ताया वा पार्थी घृष्येते, ततः सलोम चर्मापि यद् दिवसतो लोहारादिभिरुपविशद्भिपभुक्तं तत् प्रातिहारिकं दिने दिने मार्गयित्वा लोमान्यद्यः कृत्वा ‘सम्पिदधति' परिभुअते इत्यर्थः ॥ [भा.३८१९] दिवसे दिवसे च दुल्लभे, उच्चता घेत्तुं तमाइणं । लोमेहिं उन संविजोअए, मउअट्ठा व न ते समुद्धरे ॥ वृ-अथ प्रातिहारिकं दिवसे दिवसे गवेष्यमाणं दुर्लभं-न लभ्यते इत्यर्थः, ततः 'उच्चतया' निदेजत्वेन “णं" इति तदजिनं गृहीत्वा रोमभि ‘संवियोजयेत्' रोमाण्युत्खनेदिति भावः । अथ तेषूत्खातेषु तदजिनं परुषस्पर्शं भवति मृदुतार्थं न 'तानि' रोमाणि समुद्धरेत् ॥ मू. (८४) कप्पइ निग्गंथाणं सलोमाइंचम्माइंअहिट्टित्तए, सेविय परिभुत्तेनो चेवणंअपरिभुत्ते, से वि य पडिहारिए नो चेवणं अप्पडिहारिए, से वि य एगराईए नो चेव णं अनेगराईए॥ वृ-कल्पते निर्ग्रन्थानांसलोमानि चर्माणि अधिष्ठातुं' परिभोक्तुम्। तत्रापि यत् चर्म परिभुक्तं तदेव ग्राह्यं नापरिमुक्तम् । तदपि च प्रातिहारिकं नाप्रातिहारिकम् । तदपि चैकरात्रिकं नैवानेकरात्रिकमिति सूत्रार्थः । एतद् निर्ग्रन्थानामपवादसूत्रम् ।। अत्र शिष्यः प्राह-निर्ग्रन्थीनां किं कारणं न कल्पते? सूरिराह[भा.३८२०]दोसा तु जे होति तवस्सिणीणं, लोमाइणे ते न जतीण तम्मि । तं कप्पती तेसि सुतोवदेसा, जं कप्पती तासि न तं जतीणं ॥ वृ-ये ‘दोषाः' स्मृतिकरणादयस्तपखिनीनां लोमयुक्तोऽजिने-चर्मणि भवन्ति ते यतीनां 'तस्मिन्’ सलोमचर्मणि न भवन्ति । अतस्तत् कल्पते तेषां 'श्रुतोपदेशात' प्रस्तुतसूत्रवचनात् । यच्च निर्लोम चर्म तासां कल्पते न तद् यतीनाम्, स्मृतिकरणादिदोषप्रसङ्गादिति।। सलोमापि चर्म निर्ग्रन्थानामुत्सर्गतो न कल्पते, यत आह[भा.३८२१] निग्गंथाण सलोमं, न कप्पती झुसिर तं तु पंचविहं । पोत्थग-तणपण दूसं, दुविहं चम्मम्मि पनगं च ॥ वृ- सलोम चर्म निर्ग्रन्थानां न कल्पते, शुषिरं जीवाश्रयस्थानमिति कृत्वा । अथ कतिविधं शुषिरम्? इति प्रश्रनावकाशमाशङ्कयाह-'तत्तु' शुषिरं पञ्चविधम्, तद्यथा-पुस्तकपञ्चकं तृणपञ्चकं दुष्यं-वस्त्रं तत्पञ्चकं द्विविधं' अप्रत्युपेक्ष्यदूष्यपञ्चकं दुःप्रत्युपेश्रयदूष्यपञ्चकं च चर्मपञ्चकं चेति।। Page #377 -------------------------------------------------------------------------- ________________ ३७४ बृहत्कल्प-छेदसूत्रम् -२-३/८४ एतान्येव यथाक्रमं व्याचष्टे[भा.३८२२] गंडी कच्छति मुट्ठी, छिवाडि संपुडग पोत्थगा पंच। तिण सालि-वीहि-कोद्दव-रालग-आरनगतणं च ॥ वृ-गण्डीपुस्तकः कच्छषीपुस्तकः मुष्टिपुस्तकः सम्पुटफलकपुस्तकःछेदपाटीपुस्तकश्चेति पञ्च पुस्तकाः । एतेषां च स्वरुपमित्थमुक्तं पूर्वसूरिभिः बाहुल्ल-पुहत्तेहिं, गंडीपोत्यो उ तुल्लगो दीहो । कच्छवि अंते तनुओ, मझे पिहुलो मुनेयव्यो। चउरंगुलदीहो वा, वट्टागिइ मुट्ठिपुत्थगो अहवा। चउरंगुलदीहो चिय, चउरंसो होइ विन्नेओ। संपुडगो दुगमाई, फलगा वोच्छं छिवाडिमेत्ताहे । तनुपत्तूसियरूवो, होइ छिवाडी बुहा बिंति ॥ दीहो वा हस्सो वा, जो पिहलो होइ अप्पबाहुल्लो । तं मुनियसमयसारा, छिवाडिपोत्थं भणंतीह ॥ तथा शालीनां १ व्रीहीणां९ कोद्रवस्य ३ रालकस्य च ४ यानि पलालप्रायाणि तृणानि पञ्च 'आरण्यकतृणं' श्यामाकादि, एतत् तृणपञ्चकम् ।। अथ दूष्यपञ्चकद्वयं चर्मपञ्चकं चाह[भा.३८२३] कोयव पावारग दाढिआलि पूरी तधेव विरली य । एयं दुपेहपणयं, इणमन्नं अपडिलेहाणं ॥ [भा.३८२४] उवहाण तूलि आलिंगणी उ गंडोवहाण य मसूरा। गो-माहिस-अय-एलग-रत्रमियाणं च चम्मं तु ॥ वृ. 'कोयविनाम' रुतपूरितः पटः, या लोके 'माणिकी' इति प्रसिद्धा । 'प्रावारकः' नेपालादिरुल्वणरोमा बृहत्कम्बलः । “दाढिगालि" ति यथा मुखमध्ये यमलितोभयदन्तपङ्क्तिरुपा दाढिकालि-दन्तावलिनिरीक्ष्यते एवं धौतपोतिकाऽपिद्विजसत्कसदशवस्त्रपरिधानरुपा दृश्यमाना दाढिकालिरिव प्रतिभातीति कृत्वा दाढिकालिखि प्रतिभातीति कृत्वा दाढिकालिरुच्यते । पूर्यतेस्तोकैरपि तन्तुभिः पूर्णीभवतीति पूरिका-स्थूलशणगुणमयपटात्मिका, ययाधान्यगोणिकाः क्रियन्ते हस्त्याद्यास्तरणानि वा । विरलिका नाम-द्विसरसूत्रपाटी । एतानि पञ्चापि सम्यक् प्रत्युपेक्षितुं न शक्यन्त इति दुःप्रत्युपेक्ष्यदूष्यपञ्चकमुच्यते । इदमन्यद् ‘अप्रत्युपेक्ष्याणां' सर्वथाऽपि प्रत्युपेक्षितुमशक्यानां दूष्याणां पञ्चकं भवति ॥ तद्यथा उपधानं हंसरोमादिपूर्णमुच्छीर्षकम् । 'तूली' संस्कृतरुतादिभृता अर्कतूलादिभृता वा प्रतीता । आलिङ्गनिका पुरुषप्रमाणा, याशयानैर्जानुकूपरादिषु दीयते । गण्डोपधान' गल्लमसूरिका । मसूरकं नाम चर्मकृतं वस्त्रकृतंवावृत्तं वूयादिपूर्ण चक्कल-गद्दिकादि । चर्मपञ्चकं पुनरिदम्-गोचर्म, माहिषचर्म, अजाः-छगलिकास्तासां चर्म, एडकाःअजविशेषास्तच्चर्म, आरण्यकाश्च ये मृगाः- हरिण-शशकादयः तेषां चर्म पञ्चमं ज्ञातव्यम् ।। अथात्रैव प्रायश्चित्तमाह[भा.३८२५] जहिं गुराग तहिं लहुगा, जहिं लहुगा चउगुरु तहिं ठाणे । दोहिँ लहु कालगुरु, तवगुरुगा दोहि वी गुरुगा। Page #378 -------------------------------------------------------------------------- ________________ ३७५ उद्देशकः३, मूलं-८४, [भा. ३८२५] वृ- 'यत्र' सलोमचर्मणि पुरुषतुल्यस्पर्शत्वाद् निर्ग्रन्थीनां चतुर्गुरुकाः प्रायाश्चित्तमुक्तं तत्र निर्ग्रन्थानांचतुर्लघुकाः। यत्रतु' निर्लोमचर्मणि निर्ग्रन्थीनां चतुर्लघुकाः तत्र निर्ग्रन्थानां चतुर्गुरुकाः, स्त्रीतुल्यस्पर्शत्वात् । परमुभयेऽपिप्रथमे ग्रहणाख्ये स्थाने द्वाभ्यां लघवः, तपसा कालेन चेत्यर्थः। ऊर्ध्वस्थाने कालगुरुवः । निषदने तपोगुरवः । त्वग्वर्तने 'द्वाभ्यामपि' तपः-कालाभ्यां गुरवः । पुस्तकपञ्चके तृणपञ्चके दूष्यपञ्चकद्वयेच निर्ग्रन्थानां निर्ग्रन्थीनांच चतुर्लघवः।आह च चूर्णिकृत्“पोत्थग-तण-दूसेसु चउलहुगा ।" अथ पुस्तकपञ्चके तावद् दोषानुपदर्शयति[भा.३८२६] संघस अपडिलेहा, भारो अहिकरणमेव अविदिन्न । संकामण पलिमंथो, पमाय परिकम्मणा लिहणा ॥ कृपुस्तकादिकंग्रामान्तरंनयतः स्कन्धे सङ्घर्ष स्यात्, ततश्च व्रणोत्पत्त्यादयो दोषाः । शुषिरत्वाच्च तत्र प्रत्युपेक्षणा न शुध्यति । भारो मार्गे गच्छतां भवेत्। अधिकरणंच कुन्थुपनकादिसंसक्तिलक्षणं भवति; यद्वा तत् पुस्तकं स्तेनैरपहियेत ततोऽधिकरणम् । तीर्थकरैरदत्तश्चायमुपधि । स्थानान्तरे च पुस्तकं सङ्क्रामयतः पलिमन्थः । 'प्रमादो नाम' पुस्तके लिखितमस्तीति कृत्वा न गुणयति, अगुणनाच्च सूत्रनाशादयो दोषाः । परिकर्मणायां च सूत्रार्थपरिमन्थो भवति । अक्षरलेखनं च कुर्वतः कुन्थुप्रभुतित्रसप्राणव्यपरोपणेन कृकाटिकादिबाधया च संयमा-ऽऽत्मविराधना ॥किञ्च[भा.३८२७] पोत्थग जिन दिलुतो, वग्गुर लेवे य जाल चक्के य । लोहित लहुगा आणादि मुयण संघट्टणा बंधे ॥ वृ-पुस्तके शुषिरतया यो जन्तूनामुपघातस्तत्र 'जिनैः' तीर्थकृद्भिर्वागुरया लेपेन जालेन चक्रेण च दृष्टान्तः कृतः । “लोहिय"त्ति यदि तेषां पुस्तकान्तर्गतानां जन्तूनां 'लोहितं' रुधिरं भवेत् ततः पुस्तकबन्धनालेऽक्षराणि परिस्पृश्य तद् रुधिरं भवेत् ततः पुस्तकबन्धनकालेऽक्षराणि परिस्पृश्य तद्धिरंपरिगलेत् । “लहुग"त्ति यावतो वारांस्तत् पुस्तकंबध्नाति मुञ्चति वा अक्षराणि वा लिखति तावन्ति चतुर्लघूनि, आज्ञादयश्च दोषाः । पुस्तकस्य मोचने बन्धे च सङ्घट्टनम्, उपलक्षणत्वात् परितापनमपद्रावणं वा यद् आपद्यते तन्निष्पन्नं प्रायश्चित्तमिति नियुक्तिगाथासमासार्थः । साम्प्रतमेनामेव विवृणोति[भा.३८२८] चउरंगवग्गुरापरिवुडो वि फिट्टेज अवि मिगो रन्ने । छीर खउर लेवे वा, पडिओ सउणो पलाएज्जा ।। वृ-चतुरङ्गसेनारूपा या वागुरा तया परिवृतोऽपि-समन्ताद् वेष्टितोऽपि मृगः, 'अपि' इति सम्भावनायाम्, सम्भाव्यते अयमर्थ-यत् तथाविधदक्षतादिगुणोपेतो मृगोऽरण्ये ताशादपायात् स्फिटेत्, न पुनः पुस्तकपत्रान्तरप्रविष्टा जीवाः स्फिटेयुः । तथा 'शकुनः' पक्षी, सचेह मक्षिकादि, 'क्षीरे वा' दुग्धे 'खपुरे वा' चिक्कणद्रव्ये 'लेपे वा' अवश्रावणादौ पतितोऽपि पलायेत, न पुनः पुस्तकजीवास्ततः पलायितुं शक्नुयुः ।। [भा.३८२९] सिद्धत्थगजालेण व, गहितो मच्छो वि निष्फिडेजा हि । तिलकीडगा व चक्के, तिला व न य ते ततो जीवा ॥ वृ-सिद्धार्थकाः-सर्षपास्तेऽपि येन जालेन गृह्यन्ते तत् सिद्धार्थकजालम् तेनापि गृहीतो मत्स्यः कदाचिद् निस्फिटेत् । तथा 'चक्रे तिलपीडनयन्त्रे प्रविष्टास्तिलकीटका वा तिला वा निर्गच्छेयुः, Page #379 -------------------------------------------------------------------------- ________________ ३७६ बृहत्कल्प-छेदसूत्रम् -२-३/८४ न च ते जीवाः 'ततः' पुस्तकाद् निर्गन्तुं शक्नुयुः ॥ [भा.३८३०] जइ तेसिं जीवाणं, तत्थ गयाणं तु लोहियं होज्जा । पीलिजंते धनियं, गलेज तं अक्खरे फुसितं ।। वृ-यदि तेषां 'तत्रगतानां पुस्तक-पत्रान्तरस्थितानां ‘जीवानां' कुन्थुप्रभृतीनां लोहितं भवेत् ततः पुस्तकबन्धनकाले तेषां धनियं' गाढतरं पीड्यमानानां तद् अनन्तरोक्तं रुधिरमक्षराणि स्पृष्ट्वा बहि परिगलेत् । अत एव[भा.३८३१] जत्तियमेत्ता वारा, उ मुंचई बंधई व जति वारा। जति अक्खराणि लिहति व, तति लहुगा जंच आवजे ।। वृ-यावन्मात्रान् वारान् पुस्तकं 'मुञ्चति' छोटयि, यति वारांश्च बध्नाति, 'यति वा' यावन्ति अक्षराणि लिखति ‘तति' तावन्ति चतुर्लघूनि । यच्च कुन्थु-पनकादीनां सङ्घट्टनं परितापनमपद्रावणं वा आपद्यत तनिष्पन्नं प्रायश्चित्तम् ।। अथ तृणपञ्चकादिषु दोषानाह[भा.३८३२] तणपनगम्मि वि दोसा, विराधना होति संजमा-ऽऽताए। सेसेसु वि पनगेसुं, विराधना संजमे होति॥ वृ-तृणपञ्चकेऽपि 'दोषाः' आज्ञाभङ्गादयो भवन्ति, विराधना च संयमा-ऽऽत्मविषया । 'शेषेष्वपि' दूष्यपञ्चकादिषु संयमविषया विराधना भवति ॥ इदमेव भावयति[भा.३८३३] अहि-विच्चुग-विसकंडगमादीहि खयं व होज्ज आयाए। - कुंथादि संजमम्मिं, जति उव्वत्तादि तति लहुगा ।। वृ- तृणादिषु शुषिरत्वादहिर्वा वृश्चिको वा वनिषकण्टको वा भवेद् एतैः आदिशब्दात् मत्कोटकादिभिश्च तत्र शयान आसीनो वोपद्रूयेत, क्षतं वा दर्भादिषु सुप्तस्य भवेत्, एषाऽऽत्मविराधना । कुन्थु-पनकादिप्राणिव्यपरोपणंतु संयमविराधना ।तृणेषु च प्रसुप्तः ‘यति' यापतो वारानुद्वर्त्तनं परिवर्तनमाकुञ्चनं प्रसारणं वा करोति ‘तति' तावन्तश्चतुर्लघुकाः॥ अत्र परः प्राह- . [भा.३८३४] दिट्ठ सलोमे दोसा, निल्लोमं नाम कप्पती घेत्तुं। गिण्हणे गुरुगा पडिलेह पनग तसपान सतिकरणं ॥ वृ-सलोमचर्मणि यतो दोषा दृष्टाः अतो निर्ग्रन्थानां निर्लोम चर्म 'नाम' इति सम्भावयामः कल्पते ग्रहीतुम् । सूरिराह-यदि निर्लोमचर्मणो ग्रहणं करोति ततश्चतुर्गुरुकाः, यतस्तत्र प्रत्युपेक्षणा न शुध्यति, पनकसप्राणिनो वा सम्मूर्च्छन्ति, सुकुमारतया भुक्तभोगिनः स्मृतिकरणं भवति अभुक्तभोगिनस्तु कौतुकम् । इदमेव स्पष्टयति[भा.३८३५] भुत्तस्स सतीकरणं, सरिसं इत्थीण एयफासेणं । ___ जति ता अचेयणम्मिं, फासो किमु चेयणे इतरे । वृ-भुक्तभोगिनः स्मृतिकरणं भवति-अहो ! स्त्रीणां सम्बन्धी यः स्पर्शोऽस्माभिरनुभूतपूर्व तेन सध्शमेतत् चर्मानुभूयते। अभुक्तभोगिनः कौतुकम्, यथा-यदि तावदचेतनेऽपिचर्मण्येताहेशः सुखस्पर्शोऽनुभूयते किं पुनः सचेतने 'इतरस्मिन्' स्त्रीशरीरे भविता ? । एवं विचिन्त्य प्रतिगमनादीनि कुर्युः । यत एते दोषा अतो निर्लोमापि न ग्रहीतव्यम् ॥आह यदि निर्लोम ग्रहीतुं Page #380 -------------------------------------------------------------------------- ________________ उद्देशक : ३, मूलं - ८४, [भा. ३८३५ ] ३७७ न कल्पते तर्हि मा कल्पताम्, यत्तु सलोमकं तत् तावत् सूत्रेणानुज्ञातम्, भवद्भिस्तु तदपि प्रतिषिद्धम् तदेतत् कथम् ? इति अत्रोच्यते [भा. ३८३६ ] सुत्तनिवाओ वुड्डे, गिलाण तद्दिवस भुत्त जतणाए । आगाढ गिलाणे मक्खणट्ठ, घट्टे भिन्ने व अरिसाउ || वृ-सूत्रनिपातो वृद्धे ग्लाने वा भवति, वृद्धस्य ग्लानस्य वा परुषस्पर्शमसहिष्णोरास्तरणार्थं सलोम चर्म ग्राह्यमिति भावः । तच्च 'तद्दिवसभुक्तं' कुम्भकारादिभिस्तस्मिन्नेव दिवसे परिभुक्तम्, तत्र हि त्रसादयः प्राणिनो न भवन्ति, तच्च गृहीत्वा 'यतनया' रोमाण्युपरि कृत्वा परिभोक्तव्यम् । आगाढे च ग्लानत्वे यत् तैलेन प्रक्षणं तदर्थम्, यस्य वा गुदादिपाश्र्वाणि घृष्टानि, यो वा साधुर्भिन्नकुष्ठी, यस्य वा अर्शासि समुद्भूतानि तदर्थं वा निर्लोम चर्म ग्रहीतव्यमिति सङ्ग्रहगाथासमासार्थः ॥ अथैनामेव विवृणोति [भा. ३८३७] संथारट्ट गिलाणे, अमिलादीचम्म घेप्पति सलोमं । वुड्डा-ऽसहु-बालाण व, अच्छुरणट्ठा वि एमेव ॥ वृ- ग्लानस्य संस्तारकार्थममिलादिसम्बन्धि सलोम चर्म गृह्यते । वृद्धा-सहिष्णु-बालानामप्यास्तरणार्थम् ‘एवमेव' सलोम चर्म ग्राह्यम् ॥ तच्च की शम् ? इत्याह [भा. ३८३८] कुम्भार- लोहकारेहि दिवसमलियं तु तं तसविहूणं । उवरिं लोमे काउं, सोत्तुं गोसे समप्येति ॥ वृ- कुम्भकार-लोहकारादिभि स्वस्वकर्म कुर्वाणैर्यद् दिवसतो 'मलितं' परिभुक्तं तत् त्रसविहीनं भवति । अतः सन्ध्यासमये तेषु उत्थितेषु तत् प्रातिहारिकं गृहीत्वा लोमान्युपरि कृत्वा रात्रौ तत्र सुप्तवा 'गोसे' प्रभाते प्रत्यर्पयन्ति ॥ [भा. ३८३९] अवताणगादि निल्लोम तेल्ल वम्मट्ठ घेप्पती चम्मं । घट्ठा व जस्स पासा, गलंतकोढेऽरिसासुं वा ॥ वृ- अवयाणादितैलेन वा ग्लानस्याभ्यङ्गे विधातव्ये निर्लोम चर्म ग्रहीतव्यम् । अध्वानादौ वा वर्मार्थम्, यस्य वा पार्श्वाणि घृष्टानि तस्यास्तरणार्थम्, यो वा गलत्कुष्ठः साधुस्तस्य परिधानार्थमास्तरणार्थं वा, अर्शांसि वा यस्य समुत्पन्नानि तस्योपवेशनार्थं निर्लोम चर्म गृह्यते ॥ [ भा. ३८४०] सोणिय-पूयालित्ते, दुक्खं धुवणा दिने दिने चीरे । कच्छुल्ले किडिभिल्ले, छप्पतिगिल्ले व निल्लोमं ॥ वृ- शोणितेन पूयेन वा आलिप्तस्य चीवरस्य दिने दिने धावना दुष्करा, अतः कच्छूवतः किटिभवतश्च निर्लोम चर्म कल्पते । कच्छूः-पामा, किटिभं शरीरैकदेशभावी कुष्ठभेदः । तथा यस्य षट्पदिकाः प्राचुर्येण सम्मूर्च्छन्ति स षट्पदिकावान् निर्लोमचर्मपरिधानं गृह्णाति ॥ [ भा. ३८४१] जह कारणे निल्लोमं, तु कप्पती तह भवेज इयरं पि । आगाढि सलोम आदिकाउ जा पोत्थए गहणं || वृ-यथा कारणे निर्लोम चर्म कल्पते तथा 'इतरदपि' शुषिरमपि ग्रहीतुं कल्पते । किं बहुना ? आगाढे कारणे सलोम चर्म आदौ कत्वा पश्चानुपूर्व्या तावद् नेतव्यं यावत् पुस्तकस्यापि ग्रहणं कर्त्तव्यम् ॥ एतदेव स्पष्टयति Page #381 -------------------------------------------------------------------------- ________________ ३७८ बृहत्कल्प-छेदसूत्रम् -२-३/८४ [भा.३८४२] भत्तपरिन्न गिलाणे, कुसमाइ खराऽसती तुझुसिरा वि । अप्पडिलेहियदूसाऽसती य पच्छा तणा होती॥ वृ- 'भक्तपरिज्ञावतः' प्रतिपन्नानशनस्य तथा ग्लानस्यास्तरणार्थं कुशादीन्यशुषिरतृणानि गृह्यन्ते । अथ तानि ‘खराणि' कर्कशानिन वा तानि प्राप्यन्ते ततः शुषिराण्यपितृणानि ग्रहीतव्यानि। अथवा भक्तप्रत्याख्यानिनो ग्लानस्य वा सुखशयनार्थं ततः शुषिराण्यपि तृणानि ग्रहीतव्यानि । अथवा भक्तप्रत्याख्यानिनो ग्लानस्य वा सुखशयनार्थं प्रथमतः ‘अप्रत्युपेक्ष्यदूष्यम्' उपधानतूल्यादि ग्रहीतव्यम्, तदभावे यथाक्रममशुषिर-शुषिराणि पश्चात् तृणानि भवन्ति, तानि प्रस्तीर्यन्त इत्यर्थः॥ [भा.३८४३] दुप्पडिलेहियदूसे, अद्धाणादी विवित्त गेण्हंति । घेप्पति पोत्थगपणगं, कालिय-निहुत्तिकोसट्टा ॥ वृ-अध्वादौ 'विविक्ताः' मुषिताः सन्तो यथोक्तमुपधिमलभमानाः 'दुष्प्रत्युपेक्ष्यदूष्याणि' कोयवि-प्रावारप्रभृतीनि गृह्णन्ति। तथा मति-मेघादिपरिहाणिं विज्ञाय कालिकश्रुतस्य उपलक्षणत्वाद् उत्कालिकश्रुतस्य वा नियुक्तीनां चाऽऽवश्यकादिप्रतिबद्धानां दान-ग्रहणादौ कोश इवभाण्डागारमिवेदं भविष्यतीत्येवमर्थं पुस्तकपञ्चकमपि गृह्यते ॥ मू. (८५) नो कप्पइ निग्गंथाण वा निग्गंथीण वा कसिणाइंचम्माइंधारित्तए वा परिहरित्तए वा॥ वृ-अस्य सम्बन्धमाह[भा.३८४४] चम्मं चेवाहिकयं, तस्स पमाणमिह मिस्सिए सुत्ते। अपमाणं पडिसिज्झति, न उ गहणं एस संबंधो । वृ-इह पूर्वसूत्रे चर्मैव तावदधिकृतम् अतः 'तस्य' चर्मणः प्रमाणमिह 'मिश्रिते' निर्ग्रन्थनिर्ग्रन्थीप्रतिबद्धे सूत्रे प्रलप्यते, ‘अप्रमाणं' प्रमाणातिरिक्तं तत्प्रतिषिध्यते, न पुनः सर्वथा चर्मणो ग्रहणम् । एष सम्बन्धः ॥ [मा.३८४५] अहवा अच्छुरणट्ठा, तं वुत्तमिदं तु पादरक्खट्ठा । तस्स वि य वन्नमादी, पडिसेहेती इहं सुत्ते॥ वृ-अथवा 'तत् पूर्वसूत्रोक्तं चर्म आस्तरणार्थमुक्तम्, 'इदंतु' प्रस्तुतसूत्रे पादरक्षार्थमुच्यते। 'तस्यापि च' चर्मणो ये वर्णादयो गुणास्तद्युक्तमिह सूत्रे प्रतिषेधयतीति । अनेन सम्बन्धेनायातस्यास्य व्याख्या-नो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा ‘कृत्स्नानि' वर्णप्रमाणादिभिः प्रतिपूर्णानि चर्माणि धारयितुं वा परिहर्तु वेति सूत्रार्थः ।। अथ भाष्यविस्तरः[भा.३८४६] सगल प्पमाण वन्ने, बंधकसिणे य होइ नायव्वे । अकसिणमट्ठारसगं, दोसु वि पासेसु खंडाई॥ वृ-कृत्स्नं चतुर्धा-सकलकृत्स्नं १ प्रमाणकृत्स्नं २ वर्णकृत्स्नं ३ बन्धनकृत्स्नं ४ चेति भवति ज्ञातव्यम् । एतच्चतुर्विधमपि न कल्पते प्रतिग्रहीतुम् । परः प्राह-यद्येवं ततो यद् अकृत्स्नं चर्म तद् 'अष्टादशकम्' अष्टादशभिः खण्डैः कर्त्तव्यमित्यर्थः । तानि च खण्डानि द्वयोरपि पार्श्वयोः परिधातव्यानि इति सङ्ग्रहगाथासमासार्थः । अथैनामेव विवरीषुराह- [भा.३८४७] एगपुड सककसिणं, दुपुडादीयं पमाणतो कसिणं । Page #382 -------------------------------------------------------------------------- ________________ उद्देशक : ३, मूलं - ८५, [ भा. ३८४७ ] खल्लग खउसा वग्गुरि, कोसग जंघड जंघा य ॥ वृ- 'एकपुटम्' एकतलं चर्म सकलकृत्स्नमुच्यते। 'द्विपुटादिकं द्वि-त्रिप्रभृतितलं तु प्रमाणतः कृत्स्नम् । तथा खल्लका द्विधा-अर्धखल्लका समस्तखल्लका च । या पादार्द्ध छादयति साऽर्धखल्लका, या पुनरुपानत् सम्पूर्णं पादं स्थगयति सा समस्तखल्लका । या तु घुण्टकं पिदधाति सा खपुसा । या पुनरङ्गुलीश्छादयित्वा पादावप्युपरि च्छादयति सा वागुरा । यत्र तु 'पाआणादिषु प्रतिस्फलिताः पादनखाः मा भज्यन्ताम्' इति बुध्या अङ्गुल्योऽङ्गुष्ठो वा प्रक्षिप्यन्ते स कोशकः । या तु सम्पूर्णा जङ्घां पिदधाति सा जङ्घा । जङ्घार्धपिधयिनी सैवार्धजङ्घा । एतान्यपि प्रमाणकृत्स्नानि ॥ अथैतदेव स्पष्टयति ३७९ [भा. ३८४८] पायस्स जं पमाणं, तेन पमाणेन जा भवे कमणी । मज्झम्मि तु अक्खंडा, अन्नत्थ व सकलकसिणं तु ॥ वृ- पादस्ययत् प्रमाणं तेन प्रमाणेन या युक्ता क्रमणिका मध्यप्रदेशेऽन्यत्र वाऽखण्डा भवति तदेतत् सकलकृत्स्नमुच्यते ॥ [भा. ३८४९] दुपुडादि अद्धखल्ला, समत्तखल्ला य वग्गुरी खपुसा । अद्धजंघ समत्ता य, पमाणकसिणं मुनेयव्वं ॥ वृ- 'द्विपुटादिका' द्वि-त्रिप्रभृतितलोपेता या उपानद् या वाऽर्धखल्ला समस्तखल्ला वागुरा खपुसा अर्धजङ्घा समस्तजङ्घा चेति सर्वमप्येतत् प्रमाणकृत्स्नं ज्ञातव्यम् ॥ तत्रैव कानिचिद् विषमपदानि व्याचष्टे [भा. ३८५० ] उवरिं तु अंगुलीओ, जा छाए सा तु वग्गुरी होति । खपुसा य खलुगमेत्तं, अद्धं सव्वं च दो इयरे ॥ वृ-या पादयोरङ्गुलीश्छादयित्वोपर्यपि छादयति सा वागुरा भवति । खलुकः घुण्टकः तन्मात्रं यावदाच्छादयन्ती खपुसा । 'इतरे तु द्वे' जङ्घा -ऽर्धजङ्घालक्षणे अर्धां सर्वां च जङ्घां यथास्वं छादयत इति ॥ गतं प्रमाणकृत्स्नम्, अथ वर्णकृत्स्न-बन्धनकृत्स्ने प्रतिपादयति [भा. ३८५१] वन्नड्ड वन्नकसिणं, तं पंचविहं तु होइ नायव्वं । बहुबंधनकसिणं पुन, परेण जं तिण्ह बंधाणं ।। वृ-यत् चर्म वर्णेन आढ्यम्-उज्वलमित्यर्थः तद् वर्णकृत्स्नम् । तच्च कृष्णादिवर्णभेदात् पञ्चविधं ज्ञातव्यम् । यत्तु त्रयाणां बन्धानां 'परतः ' बहुभिर्बन्धैर्बद्धं तद् बन्धनकृत्स्नमुच्यते ॥ अथैतेष्वेव प्रायश्चित्तमाह [भा. ३८५२ ] लहुओ लहुगा दुपुडादिए गुरुगा य खल्लगादीसु । आणादिणो य दोसा, विराधना संजमा - Sऽदाए । वृ- सकलकृत्स्नं गृह्णतां लघुमासः । द्विपुटादिषु चत्वारो लघवः । 'खल्लकादिषु' समस्ताऽर्धखल्लकाखपुसा-वागुरा-जङ्घा -ऽर्धजङ्घासु चत्वारो गुरुकाः । आज्ञादयश्च दोषाः, विराधना च संयमा-ऽऽत्मविषया भवति । तत्र क्रमणिकादिभि पिनद्धाभिः कीटिकादिव्यपरोपणात् संयमविराधना, आत्मविराधना तु बन्धे छिन्ने सति प्रस्खलनं भवेत् प्रमत्तं वा देवता छलयेत् ॥ [भा. ३८५३ ] अंगुलिकोसे पनगं, सगले सुक्के य खल्लगे लहुओ । Page #383 -------------------------------------------------------------------------- ________________ ३८० बृहत्कल्प-छेदसूत्रम् -२-३/८५ बंधण वन्न पमाणे, लहुगा तह पूरपुन्ने य॥ वृ-अङ्गुलिकोशे अङ्गुष्ठकोशके च पञ्चकम् । सकलकृत्स्ने 'शुष्केच पूरपूरणविरहिते खल्लके मासलघु । बन्धनकृत्स्ने वर्णकृत्स्ने 'प्रमाणकृत्स्ने च' द्विपुटादिरूपे वूरपूर्णेच खल्लके चतुर्लघवः।। अर्धखल्लकादिषु यत् पूर्वं चतुर्गुरुकमुक्तं तदेव विशेषयन्नाह[भा.३८५४] अद्धे समत्त खल्लग, वग्गुरि खपुसा य अद्धजंघा य । ___ गुरुगा दोहि विसिट्ठा, वग्गुरिए अन्नतरएणं ॥ वृ- 'अर्द्धखल्लकायाम्' उपानहि यच्चतुर्गुरु तत् तपसा कालेन च लघुकम् । समस्तखल्लकायां कालगुरुकम् । वागुरिकायाम् ‘अन्यतरेण तपसा कालेन वा गुरुकम् । खपुसायां तपोगुरुकम् । अर्धजङ्घायां समस्तजङ्घायां च तपसा कालेन च गुरुकम् ॥ किञ्च[भा.३८५५] जत्तियमित्ता वारा, तु बंधते व जति वारा। सट्ठाणं तति वारे, होति विवड्डी य पच्छित्ते ॥ वृ-यावन्मात्रान् वारान् अङ्गुलीकोश-सकलकृत्स्नादिकं बध्नाति, मुञ्चति वा 'यति' यावतो वारान्तति तावन्तो वाराः स्वस्थानं मन्तव्यम् । “स्वस्थानं नाम' यद् यत्र पञ्चकादिचतुर्गुरुकान्तं प्रायश्चित्तमुक्तम् । तथाऽऽज्ञाभङ्गे चतुर्गुरु, अनवस्थायां चतुर्लघु, मिथ्यात्वे चतुर्लघु, आत्मविराधनायांचतुर्गुरु, संयमविराधनायां कायनिष्पन्नम्, एवमाज्ञादिभि पदैरभीक्ष्णसेवानिष्पन्ना वा प्रायश्चित्तस्य विवृद्धिर्भवति । अथोपानहोर्दोषप्रदर्शनार्थमिदमाह[भा.३८५६] गब्बो निम्मद्दवता, निरवेक्खो निद्दतो निरंतरता । भूताणं उवधाओ, कसिणे चम्मम्मि छद्दोसा॥ वृ. उपानहोः पिनद्धयोर्गर्वो निर्दिवता च भवेत्, जीवेषु निरपेक्षो निर्दयश्चासौ भवति, 'निरन्तरता' निरन्तरभूमिस्पर्शिता, 'भूतानांतु' प्राणिनामुपघातश्योपजायते । एवं कृत्स्ने चर्मणि षड् दोषा भवन्तीति द्वारगाथासङ्केपार्थः ।। साम्प्रतमेनामेव प्रतिपदं विवृणोति[भा.३८५७] आसगता हत्थिगतो, गविज्जइ भूमितो य कमनिल्लो । पादो उ समाउक्को, कमणीउ खरा अवि य भारो॥ वृ'अश्वगताद्' अश्वारूढाद् हस्तिगतः पुरुषो यथा गर्वायते एवं भूमिगतात् क्रमणिकावान् गर्वं करोति-अहो! अहं सोपानको व्रजामीति। तथा पादः स्वभावेनैव समार्दवस्ततः सन तथा जीवोपघातं करोति यथा क्रमणिकाः 'खराः' कर्कस्पर्शा जीवोपघातं कुर्वन्ति।अपि च भारस्तासां महान् भवति, ततस्तदाक्रान्ता बहवो जीवा विनाशमश्नुवते । निरपेक्षद्वारमाह[भा.३८५८] कंटाई देहंतो, जीवे वि हु सो तहेव देहिज्जा । अत्थि महं ति य कमणी, नावेक्खइ कंटएण जिए । वृ-अनुपानत्को गच्छन् कण्टकादीन् मार्गे प्रेक्षते, ततस्तान् प्रेक्षमाणो जीवानपि तथैवासौ प्रेक्षेत । सोपानत्कस्तु गच्छन् विद्येते मम क्रमणिके इति कृत्वा निरपायत्वादात्मनो न कण्टकादिकमपेक्षते, ततश्चासौ जीवेष्वपि निरपेक्षो भवति ॥ अथ निर्दयद्वारमाह[भा.३८५९] : पुट्विं अदया भूएसु होति बंधति कमेसु तो कमणी। जायति हु तदब्भासा, सुदयालुस्सावि निद्दयया ॥ Page #384 -------------------------------------------------------------------------- ________________ उद्देशक : ३, मूलं-८५, [भा. ३८५९] ३८१ वृ-पूर्वतावद् ‘आदया' निर्दयत्वं भूतेषुमनसि सजातं भवति, ततः क्रमयोः क्रमणिके बध्नाति। तदभ्यासाच्च सुदयालोरपि प्रायो निर्दयतैव भवति ।। निरन्तरद्वारमाह[भा.३८६०] अवि यंऽवखुजपादेण पेल्लितो अंतरंगुलगतो वा । मुच्चेज कुलिंगादी, न य कमणीपेल्लितो जियती ।। वृ-कुशब्दस्येषदर्थवाचकतया असम्पूर्णानि लिङ्गानि इन्द्रियाणि यस्यासौ कुलिङ्गी-विकलेन्द्रियः स आदिशब्दाद् मण्डूक्यादिश्च अनुपानत्कस्य पादेन प्रेरितः, 'अपि' इति सम्भावनायाम्, सम्भाव्यतेऽयमर्थ-यदाम्रकुब्दं पादतलमध्यंतत्र तथा अन्तराङ्गुलम्-अङ्गुलीनामङ्गुष्ठस्य चापान्तरालं तत्र वा गतः सन् ‘मुच्येत' न म्रियेत, सोपानत्कस्य तु निरन्तरभूमिस्पर्शिनीभिक्रमणीभि प्रेरितःआक्रान्तो न जीवति, अवश्यं मरणमाप्नोतीत्यर्थः ॥ भूतोपघातद्वारमाह[भा.३८६१] किह भूयानुवघातो, न होहिती पगतिपेलवतनूणं । सभराहि पेल्लियाणं, कक्खडफासाहि कमणीहिं॥ वृ-'कथं' केन प्रकारेण 'भूतानां प्राणिनां प्रकृत्या-स्वभावेनैव पेलवतनूनाम्-अध्ढशरीराणां 'सभारामि' पुरुषभाराक्रान्ताभि कर्कशस्पर्शाभिः क्रमणीभिः प्रेरितानामुपघातो न भविष्यति? भविष्यत्येवेत्यर्थः । यत एते दोषाअतः क्रमणिका न परिघातव्याः। कारणे तुप्राप्ते परिदध्यादपि। किं पुनस्तत् कारणम् ? इत्याह[भा.३८६२] विह अतराऽसहु संभम, कोट्ठाऽरिस चक्खुदुब्बले बाले । अज्जा कारणजाते, कसिणग्गहणं अनुन्नायं ।। वृ-विहं-अध्वा, अतरः-ग्लानः, असहिष्णुनाम-राजादिदीक्षितः सुकुमारपादः, सम्भ्रमः-चौरश्वापदादिसंक्षोभः, कुष्ठरोगी अर्शोरोगी चक्षुषा वा दुर्बलः कश्चिद् भवति, बालो वा यदि यत्र तत्र पादौ निक्षिपति, आर्या वा अध्वानं नीयन्ते, कारणजातं वा-कुल-गण-सङ्घविषयमुपस्थितम्। एतेषु कृत्स्नस्य चर्मणो ग्रहणमनुज्ञातमिति द्वारगाथासमासार्थः ॥ अथैनामेव विवृणोति[भा.३८६३] कंटा-ऽहि-सीयरक्खट्टता विहे खवुसमादि जा गहणं । ओसहपान गिलाणे, अहुणुट्टियभेसयट्ठा वा ।।। वृ-'विहे' अध्वनि प्रतिपद्यमाने कण्टकस्य अहेः शीतस्य च रक्षार्थमङ्गुलिकोशकं खल्लकादि वा गृह्णन्ति । किं बहुना ? खपुसामादौ कृत्वा यावदर्धजला-समस्तजङ्घयोरपि ग्रहणम् । तथा ग्लान औषधपानं कृत्वा वैद्योपदेशेन पृथिव्यां पादौ न स्थापयति । अधुनोत्थितो वा ग्लानः क्रमयोः क्रमणिके आविध्यति, मा शीतानुभावेन भक्तं न जरिष्यतीति कृत्वा । ग्लानस्य वा भेषजार्थं त्वरितं ग्रामान्तरं गन्तव्यम् ततः क्रमणिकाः पिनद्धव्याः॥ [भा.३८६४] अरिसिल्लस्स व अरिसा, मा खुब्भे तेन बंधते कमणी। असहुमवंताहरणं, पादो घट्ठो तु गिरिदेसे ।। वृ- अर्शोवतः पादतलदौर्बल्यादर्शासि मा क्षुभ्येरनिति कृत्वा क्रमणिके असौ बध्नाति । असहिष्णुर्नाम-मार्गे गच्छत्रुपानद्भिर्विना गन्तुं न शक्नोति यदि गच्छति ततः पादाभ्यां रुधिरं परिगलति; अत्र अवन्तीसुकुमारोदाहरणं भवति, तचाऽऽवश्यकाद् विज्ञेयम्; स क्रमणिके बध्नीयात् । उदका-ऽग्निस्तेन-श्वापदादौ वा सम्भ्रमे क्रमणिकाः परिभोक्तव्याः । गिरिदेशे वा Page #385 -------------------------------------------------------------------------- ________________ ३८२ बृहत्कल्प-छेदसूत्रम् -२-३/८५ पर्यटतः कस्यापि पादतलं घृष्टं तत उपानही पिनह्य पर्यटति॥ [भा.३८६५] कुट्ठिस्स सक्करादीहि वा वि भिन्नो कमो मधूला वा। बालो असंफरो पुन, अज्जा विहि दोच्च पासादी ।। वृकुष्ठिनः सम्बन्धी शोणित-पूयेन 'भिन्नः' स्फटितः क्रमः शर्करा-कण्टकादिभिराक्रान्तो महती पीडामुपजनयति, ‘मधूला वा' पादगण्डं कस्यापि समजनि ततः क्रमणिके बध्नाति । बालो वा कश्चिद् ‘असंस्फरः' असंवृतो यत्र तत्र पादं मुञ्चन् कण्टकादिभिरुपयेत्, अतोऽसौ क्रमणिके परिधाप्यते । आर्या वा 'विधम्' अध्वानं नेतव्याः, तत्र च “दोच्च"त्ति चौरादिभयम्, ततो वृषभाः क्रमणिकाः पिनह्य पन्थानं मुक्त्वा पार्श्वस्थिता गच्छन्ति, आदिशब्दात् सर्वाणि वा तत्रोत्पथेन व्रजन्ति । यो वा चक्षुषा दुर्बलः स वैद्योपदेशेनोपानही पिनाति, यतः पादयोरभ्यगनोपानद्वन्धनादिपरिकर्म यत् क्रियते तत् चक्षुष उपकाराय परिणमते। यत उक्तम् दन्तानामअनं श्रेष्ठ, कर्णानां दन्तधावनम् । शिरोऽभ्यङ्गश्च पादानां, पादाभ्यङ्गश्च चक्षुषोः॥ कारणजातद्वारमाह[भा.३८६६] कुलमाइकज दंडिय, पासादी तुरियधावणट्ठा वा । कारणजाते वऽन्ने, सागारमसागरे जतना ।। वृ-कुलादिषु-कुल-गण-सचविषयेषु कार्येषु दण्डिकावलगनार्थम्, पावस्थितैः आदिशब्दात् पुरः पृष्ठतो वा गच्छद्भिः , त्वरितं वा धावनार्थम्, कारणजाते वा अन्यस्मिन्' आगाढे समुत्पन्ने उपानहः परिभोक्तव्याः । तत्र च सागारिका-ऽसागारिकविषया यतना, यत्र सागारिकदोषो नास्ति तत्र नास्ति यतनाक्रमः, यत्र पुनः सागारिका उड्डाहं कुर्वन्ति तत्र ग्रामादिषु क्रमणिका अपनीय प्रविशन्तीति भावः ॥ एवमध्वादिषु कारणेषु कृत्स्नचर्मणो ग्रहणे प्राप्ते विधिमाह[भा.३८६७] पंचविहम्मि विकसिणे, किण्हग्गहणं तु पढमतो कुजा। किण्हम्मि असंतम्मि, विवनकसिणं तहिं कुजा ।। कृपञ्चविधे वर्णकृत्स्ने प्रथमतः कृष्णवर्णकृत्स्नग्रहणं कुर्यात् । ततः कृष्णे वर्णकृत्स्ने असति' अलभ्यमाने लोहितादिवर्णकृत्स्नमपि गृह्णीयात् । तच्च कृत्स्नमूष-तैलादिभिः 'विवण विरूपवर्ण कुर्याद् यथा लोको नोड्डाहं कुरुते आत्मनो वा न तत्र रागो भवति । [भा.३८६८] किण्हं पि गेण्हमाणो, झुसिरग्गहणं तु वजए साहू। बहुबंधनकसिणं पुन, वज्जेयव्वं पयत्तेणं ॥ -कृष्णवर्णमपि गृहन् शुषिरग्रहणं साधुः प्रयलतो वर्जयेत् । अत्र पाठान्तरम्-“कसिणं पिगिण्हमाणो "त्ति, कृत्स्नं सकलकृत्स्नंप्रमाणकृत्स्नंवा द्वितीयपदेगृहन्शुषिरग्रहणं साधुर्वर्जयेत्। यत्तु बहुबन्धनकृत्स्नं तत् प्रयत्लतो वर्जयितव्यम् ।। अथ किं तद् बन्धनम् ? इत्याशझ्याह[भा.३८६९] दोरेहि व वझेहि व, दुविहं तिविहं व बंधणं तस्स। अनुमोदन कारावण, पुवकतम्मिं अधीकारो॥ वृ-दवकैर्वा वधैा द्विविधं त्रिविधं वा बन्धनं तस्य चर्मणो भवति, द्वौ वा त्रयो वा बन्धा दातव्या इत्यर्थः । एवंविधंबन्धनकृत्स्नमनुज्ञातम्, न चतुरादिबहुबन्धनबद्धम् । तथा कृत्स्नमकृत्स्नं . आर Page #386 -------------------------------------------------------------------------- ________________ उद्देशकः३, मूलं-८५, [भा. ३८६९] ३८३ वा चर्म साधुना स्वयं न कर्त्तव्यम्, अन्येन न कारापयितव्यम्, अन्यस्य कुर्वतो नानुमोदना कर्तव्या, किन्तु यत्पूर्वमेव गृहस्थैर्यथाभावेन कृतं तस्मिन् ‘अधिकारः' प्रयोजनम्, तस्य ग्रहणं कर्तव्यमिति भावः ॥ अथ द्वौ त्रयो वा बन्धाः कुत्र भवन्ति? इति उच्यते[भा.३८७०] खुलए एगो बंधो, एगो पंचंगुलस्स दोनेते । खुलए एगो अंगुट्ठ बितिय चउरंगुले ततितो॥ वृ- 'खुलके' घुण्टके एको वध्रबन्धो भवति, ‘एकस्तु' द्वितीयो बन्धः ‘पञ्चाङ्गुलस्य' चतसृणामङ्गुलीनामङ्गुष्ठस्य चेत्यर्थः, एतौ द्वौ बन्धौ मन्तव्यौ । यदा तु त्रयो बन्धा भवन्ति तदा खुलके एकः अङ्गुष्ठे द्वितीयः चतसृणामङ्गुलीनां तृतीयः ।। अथ स्वयङ्करणादिषु प्रायश्चित्तमाह[भा.३८७१] सयकरणे चउलहुगा, परकरणे मासियं अनुग्घायं । अनुमोदने वि लहुओ, तत्थ वि आणादिणो दोसा ॥ वृ-स्वयं यदि चर्म करोति तदा चतुर्लघवः । अथ परेण कारयति तदा मासिकमनुद्धातम्, मासगुरुकमित्यर्थः । अनुमोदनायां मासलघु । तत्रापि स्वयङ्करणादावाज्ञादयो । तत्रापि स्वयङ्करणादावाज्ञादयो दोषा उड्डाहश्च भवति, तथाहि-तं संयतं स्वयमेव चर्म कुर्वाणं दृष्ट्वा लोको ब्रवीति-अहो ! चर्मकरोऽयमिति । अथ पूर्वकृतं न लभ्यते ततोऽनुमोदनया गृह्णीयात् । कथम्? इति चेद् उच्यते-यदि कोऽपिब्रूयात्-अहं ते उपानही करोमि? ततः प्रतिशृणुयात् तूष्णीको वा तिष्ठेत् । अथानुमोदनया न प्राप्यते ततोऽन्येन कारयेत् । एवमप्यलाभे आत्मनाऽपि यतनया कुर्यात् ॥ मू. (८६) कप्पइ निग्गंथाण वा निग्गंथीण वा अकसिणाई चम्माइंधारित्तए वा परिहरित्तए वा॥ वृ-कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा (अकृत्स्नानि) चर्माणि धारयितुं वा परिहर्तुं वा इति सूत्रार्थः॥अथ भाष्यम्[भा.३८७२] अकसिणचम्मग्गहणे, लहुओ मासो उ दोस आणादी। बितियपद घेप्पमाणे, अट्ठारस जाव उक्कोसा। कृयद्यपि सूत्रेऽनुज्ञातं तथापि न कल्पते अकृत्स्नचर्म प्रतिग्रहीतुम् । यदि गृह्णाति ततो लघुको मासः प्रायश्चित्तम्, आज्ञादयश्च दोषाः। द्वितीयपदे तु' पूर्वोक्तैरध्वादिभि कारणैरकृत्स्ने गृह्यमाणे विधिरभिधीयते। तत्र नोदकः प्राह-यद्यकृत्स्नं ग्रहीतुंकल्पते ततो द्वयोरुपानहोरुत्कर्षतोऽष्टादश खण्डानि यावत् कर्तव्यानि ॥ इदमेव व्याचष्टे[मा.३८७३] अकसिणमट्ठारसगं, एगपुड विवन्न एगबंधं च । तं कारणम्मि कप्पति, निकारण धारणे लहुओ॥ -अकृत्स्नं नाम अष्टादशकम् अष्टादशभिः खण्डैः कृतम् १ तदपि 'एकपुटम्' एकतलं २ 'विवण' न वर्णान्यं ३ 'एकबन्धं च' न व्यादिबन्धनोपेतम् ३, एभिश्चतुर्मि पदैर्यथाक्रम सकलप्रमाण-वर्ण-बन्धनैः कृत्स्नता परिहृता । तदेवंविधमकृत्स्नं चर्म कारणे धारयितुं कल्पते । अथ निष्कारणे धारयति ततो लघुमासः । एषा पुरातना गाथा ॥ अथैना व्याख्याति[भा.३८७४] जइ अकसिणस्स गहणं, भाए काउं कमेण अट्ठदस । Page #387 -------------------------------------------------------------------------- ________________ ३८४ बृहत्कल्प-छेदसूत्रम् - २-३/८६ ays - विवन्नेहिय, तहिं तहिं बंधते कजे ॥ वृ- यद्यकृत्स्नस्य चर्मणो ग्रहणं कर्त्तव्यं तत उपानहावष्टादश भागान् वक्ष्यमाणक्रमेण कृत्वा तैः खण्डैरेकपुटैर्विवर्णै चशब्दादेकबन्धैश्च यत्र यत्र पादप्रदेशे आबाधा तत्र तत्र कार्ये समुत्पन्ने बध्नीयात् ।। कथं पुनरष्टादश खण्डानि भवन्ति ? इत्युच्यते [भा. ३८७५ ] पंचंगुल पत्तेयं, अंगुट्ठमज्झे य छट्ठ खण्डं तु । सत्तममग्गतलम्मी, मज्झऽट्ठम पहिया नवमं ॥ वृ- इहैक्य पादस्य पञ्चानामङ्गुलीनां बन्धनाय प्रत्येकमेकैकं खण्डं कर्त्तव्यम्, अङ्गुष्ठस्य चाधः षष्ठं खण्डम्, अग्रतले सप्तमम्, मध्यतलेऽष्टमम्, पार्ष्णिकायां नवमम्, एवं द्वितीयस्याप्युपानहो नव खण्डानि सर्वाण्यष्येवमष्टादश खण्डानि भवन्ति । एवं परेणोक्ते सति सूरिराह[भा. ३८७६ ] एवइयाणं गहणे, मासो मुच्द्यंति होति पलिमंथो । बितियपदे घेप्पमाणे दो खंडा मज्झपडिबंधा ॥ वृ- एतावतां खण्डानां ग्रहणे मासलघु प्रायश्चित्तम्, असामाचारीनिष्पन्नमित्यर्थः । मुच्यमानेषु चैतावत्सु खण्डेषु महान् सूत्रा - ऽर्थयोः परिमन्थो भवति । आह-यद्येवं ततः कियन्ति खण्डानि क्रियन्ते ? इत्याह-द्वितीयपदे यदा चर्म गृह्यते तदा मध्यप्रतिबद्धे द्वे खण्डे कर्त्तव्ये, मध्यभागात् त्रोटयित्वा खण्डद्वयं विधाय मध्ये वर्धादिना बन्धनीयमित्यर्थः । अत्र पूर्वार्द्धस्येदं पाठान्तरम्"मुचंते पलिमंथो, जत्तियमित्तं तु तत्तिए गहणं ।" अष्टादश खण्डानि मुञ्चति साधोर्महानू पलिमन्थः, ततो यावन्मात्रपरिमन्थाय भवति तावन्मात्रं ग्रहीतव्यम् । उत्तरार्द्धं प्राग्वत् ॥ अथाष्टादशानां खण्डानां करणे कीदृशः परिमन्थो भवति ? इत्याहपडिलेहा पलिमंथो, नदिमादुदए य मुंच बंधते । [भा. ३८७७] । सत्थफिडनेन तेना, अंतरवेधो य डंकणता ।। वृ- यावदष्टादश खण्डानि द्विसन्ध्यं प्रत्युपेक्षते तावत् सूत्रार्थयोः परिमन्थो भवति । नद्याद्युदकमवतितीर्षुश्च यावदष्टादश खण्डानि मुञ्चति उत्तीर्णश्च यावत् तानि भूयोऽपि बध्नाति तावत् सार्थात् स्फिटति, स्फिटितश्च स्तेनानां गम्यो भवति । बहूनां खण्डानामन्तरेषु च कण्टकैर्विध्येत । बहुबन्धघर्षेण वा पादयोर्डको भवेत् । यत एवमतः पूर्वोक्तनीत्या खण्डद्वयं विधेयम् ।। कथं पुनस्तद् बन्धनीयम् ? इत्याह [भा. ३८७८ ] तज्जायमतज्जायं, दुविहं व बंधनं तस्स । तज्जायम्मि वि लहुओ, तत्थवि आणादिणो दोसा ।। " बृ- 'तस्य' चर्मखण्डद्वयस्य तज्जातं वा बन्धनं भवति अतज्जातं वा बन्धनं भवति । तज्जातं नाम तस्मिन् चर्मणि जातम् वर्धादिबन्धनमित्यर्थः तद्विपरीतं दवरकादिकमतज्जातम् । एतच्च द्विविधं त्रिविधं वा भवति, द्वौ वा त्रयो वा बन्धा दातव्या इति भावः । अत्र प्रथममतज्जातेन दवरकादिना बन्धनीयम् । यदि तज्जातेन वर्धादिना बध्नाति ततो मासलघु, तत्राप्याज्ञादयो दोषा भवन्ति ॥ -सू. (८७) नो कप्पइ निग्गंथाण वा निग्गंथीण वा कसिणाइं वत्थाइं धारित्तएवा परिहरित्तए वा । कप्पइ निग्गंथाण वा निग्गंधीण वा अकसिणाइं वत्थाइं धारित्तए वापरिहरित्तए वा ।। Page #388 -------------------------------------------------------------------------- ________________ उद्देशक : : ३, मूलं - ८७, [भा. ३८७९] [भा. ३८७९] पडिसिद्धं खलु कसिणं, चम्मं वत्थकसिणं पि नेच्छामो । अववादियं तु चम्मं, न वत्थमिति जोगनाणत्तं ।। वृ-प्रतिषिद्धं खल्वनन्तरसूत्रे चर्मकृत्स्नंम्, यथा च तन्न कल्पते तथा वस्त्रकृत्सनमपि नेच्छामः प्रतिग्रहीतुम् । यद्वा पूर्वसूत्रे चर्म आपवादिकमुक्तम्, इदं तु वस्त्र नापवादिकं किन्तु सदैव साधुभिः परिभुज्यमानत्वेनौत्सर्गिकम्, अत इदं प्रतिपक्षतया सूत्रमारभ्यते इति योगस्य-सम्बन्धस्य नानात्वंप्रकारान्तरतेत्यर्थः ॥ अनेन सम्बन्धेनायातस्यास्य व्याख्या "नो कप्पइ"त्ति आर्षत्वादेकवचनम्, नो कल्पन्ते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा 'कृत्स्नानि' सकलकृत्स्नादिरूपाणि वस्त्रणि 'धारयितुं वा' परिग्रहे धर्त्तु 'परिहर्तु वा' परिभोक्तुम्, अकृत्स्नानि तु कल्पन्त इति सूत्रसङ्क्षेपार्थः ॥ अथ नियुक्ति-भाष्यविस्तरः [भा. ३८८० ] कसिणस्स उ वत्थस्सा, निक्खेवो छव्विहो तु कातव्वो । नाठवणा दविए, खेत्ते काले य भावे य ॥ ३८५ वृ- कृत्स्नस्य वस्त्रस्य निक्षेपः षड्विधः कर्त्तव्यः । तद्यथा - नामकृत्स्नं १ स्थापनाकृत्स्नं २ द्रव्यकृत्स्नं ३ क्षेत्रकृत्स्नं ४ भावकृत्स्नं ६ चेति । तत्र नाम-स्थापने गतार्थे ।। द्रव्यकृत्स्नमाह[ भा. ३८८१] दुविहं तु दव्वकसिणं, सकलक्कसिणं पमाणकसिणं च । एतेसिंदोहं पी, पत्तेय परूवणं वोच्छं ॥ वृ- 'द्विविधं' द्विप्रकारं द्रव्यकृत्स्नम्, तद्यथा-सकलकृत्स्नं प्रमाणकृत्स्नं चेति । एतयोर्द्वयोरपि 'प्रत्येकं' पृथक् प्ररूपणां वक्ष्ये । प्रतिज्ञातमेव निर्वाहयति [भा. ३८८२ ] घन मसिणं निरवहयं, जं वत्थं लब्भते सदसियागं । एतं तु सकलकसिणं, जहन्नगं मज्झिमुक्कोसं ॥। वृ- 'घनं' तन्तुभिः सान्द्रं 'मसृणं' सुकुमारस्पर्श 'निरुपहतम्' अञ्जन- खञ्जनादिदोषरहितम्, एवंविधं यद् वस्त्र सदशाकं लभ्यते एतत् सकलकृत्स्नमुच्यते । तच जघन्यं मध्यममुत्कृष्टं वा ज्ञातव्यम् । जघन्यं मुखपोतिकादि, मध्यमं पटकादि, उत्कृष्टं कल्पादि ॥ वित्थारा-ऽऽयामेणं, जं वत्थं लब्भए समतिरेगं । [ भा. ३८८३] एयं पमाणकसिणं, जहन्नयं मज्झिमुक्कोसं ॥ वृ-विस्तारश्च पृथुत्वं आयामश्च दैर्ध्य विस्तारा ऽऽयामम्, द्वन्द्वैकवद्भावः, तेन, यद् वस्त्र यथोक्तप्रमाणतः समतिरिक्तं लभ्यते एतत् प्रमाणकृत्स्नं भण्यते । तच्च जघन्य-मध्यमोत्कृष्टभेदात् त्रिविधं प्राग्वद् द्रष्टव्यम् || क्षेत्र कृत्स्नमाह [भा. ३८८४] वत्थ जम्मि सम्मि दुल्लहं अच्चियं व जं जत्थ । तं खित्यं कसिणं, जहन्नयं मज्झिमुक्कोसं ॥ वृ- यद् वस्त्र यस्मिन् देशे दुर्लभम्, यत्र वा यद् 'अर्चितं' सुमहार्धम्, यथा- पूर्वदेशजं वस्त्र लाटविषयं प्राप्य महार्घ्यम्, तत् क्षेत्रयुतं कृत्स्नमुच्यते, क्षेत्रकृत्स्नमित्यर्थः । तदपि जघन्यमध्यमोत्कृष्टभेदात् त्रिविधम् ॥ कालकृत्स्नमाह [भा. ३८८५] जं वत्थ जम्मि कालम्मि अग्घितं दुल्लभं व जं जत्थ । 19 25 Page #389 -------------------------------------------------------------------------- ________________ ३८६ बृहत्कल्प-छेदसूत्रम् -२-३/८७ तं कालजुतं कसिणं, जहन्नयं मज्झिमुक्कोसं ।। वृ-यद् वस्त्र यस्मिन् काले 'अर्पितं' बहुमूल्यम्, यच्च यत्र दुर्लभम्, यथा-ग्रीष्मे काषायिकादि, शिशिरेप्रावारादि, वर्षासुकुमखचितादि, तदेतत्कालकृस्नम्। एतदपिजघन्यमध्यमोत्कृष्टभेदात् त्रिविधम् ॥भावकृत्स्नमाह[भा.३८८६] दुविहं च भावकसिणं, वनजुतं चेव होति मोल्लजुयं । वनजुयं पंचविहं, तिविहं पुन होइ मोल्लजुतं॥ वृ-द्विविधंचभावकृत्स्नम्, तद्यथा-वर्णयुतं मूल्ययुतंच, वर्णतो मूल्यतश्चेत्यर्थः। तत्र वर्णयुतं ‘पञ्चविधं कृष्णादिवर्णभेदात् पञ्चप्रकारम्।मूल्ययुतंपुनः 'त्रिविधं जघन्यादिभेदा त्रिप्रकारम्॥ इदमेव स्पष्टयति[भा.३८८७] पंचण्हं वन्नाणं, अन्नतराएणजंतु वण्णहूं। तंवण्णजुयं कसिणं, जहन्नयं मज्झिमुक्कोसं॥ कृपञ्चानां कृष्णादीनांवर्णानामन्यतरेणवर्णेन यद्आढ्यं समृद्धंतदेतद्वर्णयुतंकृस्नमुच्यते। इदमपि जघन्यं मध्यमुत्कृष्टं चेति । मूल्ययुतं सभेदमप्युपरि वक्ष्यते॥ अथानन्तरोक्तकृत्स्नेषु प्रायश्चित्तमाह[भा.३८८८] चाउम्मासुक्कोसे, मासो मज्झे यपंच य जहन्ने। तिविहम्मि वि वत्थम्मि, तिविधा आरोवणा भणिया। कृ'उत्कृष्टं कल्पादौ कृत्स्ने चतुर्लघवः। मध्यमें पटलकादौलघुमासः । 'जघन्ये मुखवस्त्रिकादौ पञ्चरात्रिन्दिवानि । एवं त्रिविधेऽपि कृत्स्नवस्त्र यथाक्रमं त्रिविधा आरोपणा मणिता ॥ [भा.३८८९] दवाइतिवहकसिणे, एसा आरोवणा भवे तिविहा। एसेव वनकसिणे, चउरोलहुगा व तिविधे वि॥ वृ-एषाचत्रिविधाऽप्यारोपणाद्रव्यादौ त्रिविधकृस्ने भवति, द्रव्यकृत्स्ने क्षेत्रकृत्स्नेकालकृस्ने चेत्यर्थः । एषैव च वर्णकृत्स्नेऽपि मन्तव्या । अथवा वर्णकृत्स्ने जघन्यादिभेदात् त्रिविधेऽपि चतुर्लघुकमेव । नवरं तपः-कालविशेषोऽत्र क्रियते-उत्कृष्टे यत् चतुर्लघु तत् तपसा कालेन च गुरुकम्, मध्यमे तदेव तपोगुरुकम्, जघन्य कालगुरुकम्; यद्वा उत्कृष्टे द्वाभ्यां गुरुकम्, मध्यमेऽन्यतरगुरुकम्, जघन्ये द्वाभ्यामपि लघुकम्॥अथ मूल्ययुतं व्याख्यानयति- [भा.३८९०] मुल्लजुयं पि यतिविहं, जहन्नगं मज्झिमंच उक्कोसं। जहन्नेणऽट्ठारसगं, सतसाहस्संच उक्कोसं॥ ई-मूल्ययुतमपि कृत्स्नं त्रिविधम्-जघन्यं मध्यममुत्कृष्टं च । यस्य रूपकाणामष्टादशकं मूल्यं तद् जघन्यम्, शतसहस्ररूपकमूल्यमुत्कृष्टम्, शेषमष्टादशकादूर्द्धव शतसहस्रादर्वाग्मूल्यलभ्यं सर्वमपि मध्यमम्॥अथ कतमेन रूपकेणेदं प्रमाणं निरूप्यते? इत्याह[भा.३८९१] दो सामरगा दीविचगा तु सो उत्तरापथे एको। . दो उत्तरापहा पुन, पाडलिपुत्तो हवति एक्को॥ कृ. 'द्वीपं नाम' सुराष्ट्राया दक्षिणस्यां दिशि समुद्रमवगाह्य यद् वर्तते तदीयौ धौ ‘साभरकौ' रूपकौ स उत्तरापथे एको रूपको भवति । द्वौ च उत्तरापथरूपको पाटलिपुत्रक एको रूपको Page #390 -------------------------------------------------------------------------- ________________ उद्देशक : ३, मूलं-८७, [भा. ३८९१] भवति ।। अथवा भा. (३८९२] दो दक्खिणावहा तु, कंचीए नेलओ स दुगुणो य । एगो कुसुर्मनगरगो, तेन पमाणं इमं होति ॥ ३८७ वृ-दक्षिणापथी द्वी रूपकौ काञ्चीपुर्या द्रविडविषयप्रतिबद्धाया एकः 'नेलकः' रूपको भवति । 'सः' काञ्चीपुरीरूपको द्विगुणितः सन् कुसुमनगरसत्क एको रूपको भवति । कुसुमपुरं पाटलिपुत्रमभिधीयते । 'तेन च' रूपकेणेदमनन्तरोक्तमष्टादशकादिप्रमाणं प्रतिपत्तव्यं भवति ।। अथ मूल्यवृध्या प्रायश्चित्तवृद्धिमुपदर्शयति [भा. ३८९३] अट्ठारस वीसा या, अगुणापन्ना य पंच य सयाई । एगूनगं सहस्सं, दस पन्नासं सतसहस्सं ॥ [भा. ३८९४] चत्तारि छच्च लहु गुरु, छेदो मूलं च होइ बोद्धव्वं । अवप्पो यता, पाति पारंचियं ठाणं ॥ वृ- अष्टादशरूपकमूल्यं वस्त्र गृह्णाति चत्वारो लघवः । विंशतिरूपकमूल्ये चत्वारो गुरवः । एकोनपञ्चाशन्मूल्ये षड्लघवः । पञ्चशतमूल्ये षड्गुरवः । एकोनसहस्रमूल्ये छेदः । दशसहस्रमूल्ये मूलम् । पञ्चाशत्सहस्रमूल्येऽनवस्थाप्यम् । शतसहस्नमूल्ये पाराञ्चिकं स्थानं प्राप्नोति ।। प्रकारान्तरेणात्रैव प्रायश्चित्तमाह [ भा. ३८९५ ] अट्ठारस वीसा या, सयमड्डाइज पंच य सयाइं । सहसं च दससहस्सा, पन्नास तथा सतसहस्सं । [भा. ३८९६ ] लहुगो लहुगा गुरुगा, छम्मासा होति लहुग गुरुगा य । छेदो मूलं च तहा, अणवट्टप्पो य पारंची ॥ दृ- अष्टादशरूपकमूल्ये वस्त्र गृह्यमाणे लघुमासः । विंशतिमूल्ये चतुर्लघवः । शतमूल्ये चतुर्गुरवः । अर्धतृतीयशतमूल्ये षड्लघवः । पञ्चशतमूल्ये षड्गुरवः । सहस्रमूल्ये छेदः । दशसहस्रमूल्ये मूलम् । पञ्चाशत्सहनमूल्येऽनवस्थाप्यम् । शतसहस्रमूल्ये पाराञ्चिकम् ।। अथवा [भा. ३८९७] अट्ठारस वीसा या, पन्नास तथा सयं सहस्सं च । पन्नासं च सहस्सा, तत्तो य भवे सयसहस्सं ॥ [ भा. ३८९८ ] चउगुरुग छच्च लहु गुरु, छेदो मूलं च होति बोद्धव्वं । अणवटुप्पो य तहा, पावति पारंचियं ठाणं ॥ वृ- अष्टादशरूपकमूल्ये चतुर्गुरवः । विंशतिमूल्ये षड्लघवः । पञ्चाशन्मूल्ये षड्गुरवः । शतमूल्ये छेदः । सहस्रमूल्ये मूलम् । पञ्चाशत्सहस्रमूल्येऽनवस्थाप्यम् । शतसहस्रमूल्ये पाराञ्चिकम् ॥ प्रकारान्तरेण भावकृत्स्नमुपदर्शयति [भा. ३८९९ ] अहवा रागसहगतो, वत्थं धारेति दोससहितो वा । एवं तु भावकसिणं, तिविहं परिणामनिष्फन्नं ।। वृ- अथवा 'अहो ! रमणीयं वस्त्रम्' इत्येवं रागसहगतो यद्वा 'अहो ! मे मलिनं कुथितं वस्त्रम्' इत्येवं द्वेषसहितो यद् वस्त्र धारयति तदेतद् भावकृत्स्नं मन्तव्यम् । इदं च परिणामनिष्पन्नं त्रिविधम्, तद्यथा - जघन्येन राग-द्वेषपरिणामेन जघन्यम्, मध्यमेन मध्यमम्, उत्कृष्टेनोत्कृष्टम् ॥ Page #391 -------------------------------------------------------------------------- ________________ ३८८ बृहत्कल्प-छेदसूत्रम् -२-३/८७ अथ द्रव्यादिकृत्स्नेषु दोषानाह[भा.३९००] भारो भय परियावण, मारण अहिगरण दव्वकसिणम्मि। पडिलेहाऽऽनालोवो, मनसंतावो उवायाणं॥ वृ-प्रमाणातिरिक्तं वस्त्र वहत आत्मन एव भारो भवति, अध्वप्रपन्नानां संकलकृत्स्नादौ स्तेनेभ्यो भयं भवेत, तेच साधूनांबन्धनादिरूपं परितापनं मारणंवा कृत्वाताशं वस्त्रमपहरेयुः, अविरतकैश्चगृहीतेऽधिकरणं भवेत्, एते द्रव्यकृत्स्ने गृह्यमाणेदोषाः। तथा क्षेत्र-काल कृत्स्नोपधिं मा सागारिको द्राक्षीत्' इति कृत्वा यदि न प्रत्युपेक्षन्ते तत उपधिनिष्पन्नं तीर्थकृतां चाज्ञालोपः कृतो भवति । अथ प्रत्युपेक्षन्ते ततः स्तेनास्ताद्दशं वस्त्र दृष्ट्वा हरेयुः, पन्थानं वा बद्धवा तिष्ठेयुः। हृतेचतस्मिन्महान् मनःसन्तापोभवति ।यद्वा तत्कृत्स्नंवस्त्र शैक्षस्योअवजितुकामस्योपादानं भवति, तदपहृत्योप्रव्रजेदित्यर्थः॥ [भा.३९०१] गहणंच गोम्मिएहिं, परितावण धोव कम्मबंधोय। अन्ने वि तत्थ रुंभइ, तेनकतेवा अहव अन्ने ॥ -कृत्स्नवस्त्रनिमित्तं गौल्मिकैः' शुल्कपालैर्ग्रहणंप्राप्नुवन्ति, 'कुतोऽमीषामीद्दशानिवस्त्राणि? नूनं कस्यापि गृहादपहृतानिइतिकत्वा ।तेच गृहीत्वा बन्धनादिभिः परितापनां कुर्वन्ति, ततस्तानि वस्त्रण्यपहृत्य प्रावृण्वन्ति, मलिनीभूतानि च तानि धावन्ति । तत्र कर्मबन्धस्तावद् भवति यावत् तस्मात् स्थानान्न प्रतिक्रामति।यद्वा “परितावण धोव्व कम्मबंधोय"त्तिप्रमाणातिरिक्तवस्त्राणि धावनकाले महता प्रयासेन धाव्यन्ते, तत्र परितापनादयो दोषाः । प्रभूतेन च पानकेन वस्त्रधावनेऽनुपदेशकारितया कर्मबन्धो भवति । तथा गौल्मिका अन्यानपि साधून निरुन्धन्ति, सर्वेषामपीद्दशानि वस्त्रणि सन्तीति कृत्वा । ‘त एव च' गौल्मिका अपरेण मार्गेण गत्वा स्तेनका भवन्ति, अथवा तैः प्रेरिताः सन्तोऽन्येऽपहरन्ति ।। [भा.३९०२] भावकसिणम्मि दोसा, ते चेव उनवरि तेनदिटुंतो। देसी गिलाण जावोग्गहो उ दवम्मि बितियपयं ॥ कृ-'भावकृत्स्नेऽपि' वर्णयुत-मूल्ययुतलक्षणे 'तएव' भार-भय-परितापनादयोदोषाः । 'नवरं' केवलमत्र स्तेनदृष्टान्तो भवति, स चानन्तरमेव वक्ष्यते । कारणे तु प्राप्ते कृत्स्नमपि गृह्णीयात् । कथम् ? इत्याह-“देसी" इत्यादि । देशविशेषं ग्लानं वा प्रतीत्य सकलकृत्स्नं प्रमाणकृत्स्नं वा गृह्णीयात् । आचार्या वा कुलादिकार्येषु निर्गताः ततः “जावोग्गहो" ति यावत् तेषां समीपे वस्त्रस्यावग्रहो नानुज्ञापितस्तावत् तस्य दशिका न वि (छि)द्यन्ते इत्येवमत्र द्रव्यकृत्स्ने द्वितीयपदं मन्तव्यमिति सङ्गहगाथासमासार्थः ॥अथैनामेव विवरीषुः स्तेनष्टान्तमाह[भा.३९०३] उवसामिओ नरिंदो, कंबलरयणेहि छंदए गच्छं। निब्बंध एगगहणं, निववयणे पाउतो नीति ॥ [भा.३९०४] तेनाऽऽलोग निसिज्जा, रत्तिं तेनागमो गुरुग्गहणं । दरिसणमपत्तियंते, सिव्वावणया य रोसेणं ।। वृ-एगेणं आयरिएणंधम्मकहालद्धिसंपन्नेणंराया उवसामिओ।सो सव्वंगच्छं कंबलरयणेहिं पडिलाभिउ उवडिओ आयरिएहिं निसिद्धो-न वट्टइ एयारिसं मुल्लकसिणं गिहिउं ति। तहा वि Page #392 -------------------------------------------------------------------------- ________________ उद्देशकः३, मूलं-८७, [भा. ३९०४] ३८९ अतिनिबंधेणंएगंगहियं । राया भणइ-पाउया हट्टमग्गेणं गच्छह ।तहा कयं । तेनगेन दिट्ठा । तेहिं वसहिं आगंतुं निसिज्जाओ कयाओ। सो तेनओ रत्तिं आगंतुंआयरियाणं उवरिं छुरियं कड्डिऊण भणइ-देहि मे तं वत्थं, अन्नहा मारिस्सामि । ते भणंति-इमाणि खंडाणि अस्थि । सो भणाइसिव्वित्ता मे देह, अन्नहा ते उद्दविस्सामि । तेहिं सिव्वित्ता दिन्नं ॥ ___ अथ गाथाद्वयस्याक्षरार्थः-केनचिदाचार्येणोपशामितो नरेन्द्रः कम्बलरत्नैर्गच्छं 'छन्दयति' निमन्त्रयते । तत आचार्यो महति निर्बन्धे एकस्य कम्बलरलस्य ग्रहणं कृत्वा नृपवचनात् तेन प्रावृतोनिर्गच्छति।ततःस्तेनेन 'आलोकः' अवलोकनं कृतम्।आचार्यश्च वसतिमागम्यकम्बलरलेन निषद्याः कृताः । रात्रौ स्तेनस्यागमः । गुरोश्च तेन छुरिकामाकृष्य ग्रहणं कृत्वा भणितम्-प्रयच्छत ममतत् कम्बलरत्नम्।सूरिभिरुक्तम्-खण्डितंतदस्माभि ।सपाह-दर्शयत । ततस्तत्र 'अप्रत्ययति' प्रत्ययमकुर्वाणे खण्डानां दर्शनम् । रोषाच्च तेन भूयः सीवनं कारयित्वा कम्बलरलं गृहीतम् । यथ एवमादयः कृत्स्ने दोषाः अतोद्रव्यतः स्थूरमदशाकंयथोक्तप्रमाणोपेतं क्षेत्रतःकालतश्चसर्वजनभोग्यं भावतो वर्णहीनमल्पमूल्यं च वस्त्र ग्रहीतव्यम् ।। अथ द्वितीयपदं बिभावयिषुः सङ्ग्रहगाथोक्तं देशीपदं व्याख्यानयति[भा.३९०५] न पारदोच्चा गरिहा व लोए, थूणाइएसुं विहरिज एवं । भोगाऽइरित्ताऽऽरभडा विभूसा, कप्पेज्जमिन्नेव दसाउ तत्थ ।। वृ-“पारदोच्च" त्ति चौरभयं तद् यत्र नास्ति, यत्र च तथाविधे वस्त्र प्राव्रियमाणे लोके गर्दा नोपजायते तत्र स्थूणादिविषयेषु एवं सकलकृत्स्नमपि वस्त्र प्रावृत्य विहरेत्, परंतस्य दशाश्छेत्तव्याः । कुतः ? इत्याह-“भोग"त्ति तासां दशानां शुषिरतया परिभोगः कर्तुंन कल्पते, अतिरिक्तश्चोपधिर्भवति, प्रत्युपेक्ष्यमाणे च दशिकाभिरारभडादोषाः, विभूषा च सदशाके वस्त्र प्राब्रियमाणे भवति । 'इत्येवम्' एभि कारणैस्तत्र दशाः 'कल्पयेत्' छिन्द्यात् ॥ कारणतो न छिन्द्यादपीति दर्शयति[भा.३९०६] पासगंतेसुबद्धेसु, दढं होहिति तेन तु । नातिदिग्घदसंवा वि, नतं छिंदिज देसिओ॥ वृ- किश्चिद् वस्त्र प्रथमत एव दुर्बलम् ततः पावा-ऽन्तेषु दशिकाभिर्बद्धेषु दृढं' चिरकालवहनक्षम भविष्यतीति कृत्वा तेन कारणेन दशिकास्तस्य न कल्पयेत् । यद्वा ‘देशीतः' सिन्ध्वादिदेशमाश्रित्य यन्नातिदीर्घदशाकं वस्त्र तन्न छिन्द्यात्, तस्य दशिका न कल्पयितव्या इति भावः ।। अथ ग्लानद्वारं व्याचष्टे[भा.३९०७] असंफुरगिलाणट्ठा, तेन मानाधियं सिया। सदसं वेज्जकज्जे वा, विसकुंभट्ठयाति वा ॥ वृ-असंस्फरोनाम-ग्लानो यः क्षीणबलतया सङ्कुचितपादः स्वप्तुंन शक्नोति, तस्य प्रमाणयुक्तं वस्त्र प्राव्रियमाणं ह्रसति, तेन तदर्थं 'मानाधिकमपि' प्रमाणातिरिक्तमपि वस्त्र स्यात् । यद्वा ग्लानचिकित्सको यो वैद्यः 'तत्कार्ये' तस्य दानार्थम्,अथवा दीर्धजातीयेन कश्चिद् दष्टो भयेत् ततस्तस्य विद्याकार्ये' विद्यायांप्रयुज्यमानायामपमार्जनाय सदशं वस्त्रमुपयुज्यते । विषकुम्भःस्फोटिकाविशेषस्तस्यापमार्जनाय वा सदशं वस्त्र ग्रहीतव्यम् ॥अथ यावदवग्रहद्वारमाह Page #393 -------------------------------------------------------------------------- ________________ ३९० बृहत्कल्प-छेदसूत्रम् -२-३/८७ [भा.३९०८] अविभत्ता न छिज्जंति, लाभो छिजिज मा खलु । पारदोच्चाववादस्स, पडिपक्खोव होज उ॥ वृ-आचार्या कुलादिकार्येषु निर्गतास्ततो यावदद्यापि तैः प्रतिनिवृत्य वस्त्रणि न विभक्तानि तावत् तानि प्रमाणातिरिक्तान्यपिनछिद्यन्ते, ‘माखलु लाभश्लिद्येत्' मा भूयोवस्त्रलाभव्यवच्छेदो भवेदिति भावः । तथा “न पारदुखा" इत्युक्तम् एष तस्य पारदोच्चापवादस्य प्रतिपक्ष उच्यतेस चात्र यावदवग्रहद्वारे भवेत्, अविभक्तानामपि तेषां वस्त्रणां दशिकाश्लेत्तव्या इति भावः ।। [भा.३९०९] अववायाववादो वा; एत्थ जुज्जइ कारणे। सट्ठाणं व तमब्मेति, अच्छिजं जं उदाहडं॥ वृ-अपवादापवादो वाअत्र कारणे युज्यते । किमुक्तं भवति?- स्थूणाविषयादि प्रतीत्य यत् कृत्स्नं वस्त्र कल्पते' एष तावदपवादः, यत्तु तत्र 'दशिकाश्लेत्तव्याः' इत्युक्तम् एष भूयोऽपि तत्रापवादे उत्सर्गोमन्तव्यः, अयमप्यपोद्यते यदा तत्पाश्र्वान्तेषुदशिकाभिर्बद्धेषु दृढं भविष्यति' इति मत्वा सिन्धुविषयेवा नातिदीर्घदशाकस्य वस्त्रस्य यदशा अपिन छिद्यन्ते, एतनापवादेय उत्सर्गासोऽप्यपोदित इति कृत्वा अपवादापवाद उच्यते, सोऽप्यत्र घटते । एवंच 'स्वास्थानंवा' कृत्स्नत्वमेव तद्' वस्त्रम् 'अभ्येति प्राप्नोति यद् 'अच्छेद्यम् अच्छेदनीयम् ‘उदाहृतम्' उक्तम्। इयमत्र भावना-प्रमाणातिरिक्तंदशिकाश्च यस्य न छिद्यते तत्कृत्स्नमेव ज्ञातव्यंनाकृत्स्नमिति॥ गतं द्रव्यकृत्स्ने द्वितीयपदम् । अथ भावकृत्स्ने द्वितीयपदमाह[भा.३९१०] देसी गिलाण जावोग्गहो उ भावम्मि होति बितियपदं। तेब्माविते य तत्तो, ओमादिउवग्गहट्ठा वा॥ वृ-देशी-ग्लान-यावदवग्रहविषयं भावकृत्स्ने द्वितीयपदं भवति । 'ततः' तदनन्तरं तैः-भावकृत्स्नैहवासे भावितस्तद्भावितस्तद्विषयं द्वितीयपदम्, सोऽपि भावकृत्स्नानि परिभुञ्जीतेत्यर्थः। अवमौदर्यादिषुवा गच्छेस्योपग्रहार्थतानिधारयेदितिसङ्ग्रहगाथासमासार्थः ।।अथैनामेव विवृणोति[भा.३९११] देसी गिलाण जावोग्गहो उ दव्वकसिणम्मिजं वुत्तं । तह चेव होति भावे, तंपुन सदसं व अदसंवा॥ वृ-देशी-ग्लान-यावदवग्रहद्वारेषु यदेव द्रव्यकृत्स्ने द्वितीयपदमुक्तं तदेव 'भावकृत्स्नेऽपि' वर्णाढये बहुमूल्ये वा वस्त्र मन्तव्यम्। नवरं तत्पुनः सदशमदशंवा भवेत्, उभयमप्यपवादपदे ग्राह्यमिति भावः ॥अथ क्षेत्रकृत्स्नमपवदति[भा.३९१२] नेमालि तामलित्तीय, सिंधूसोवीरमादिसू। सव्वलोकवभोज्जा, धरिज कसिणाइ वा॥ वृ- नेपालविषये ताम्रलिप्तयां नगर्यां सिन्धुसौवीरादिषु च विषयेषु सर्वलोकोमभोज्यानि कृत्स्नान्यपि वस्त्रणि धारयेत् ॥ कुतः ? इत्याह[भा.३९१३] आइन्नता न चोरादी, भयं नेव य गारवो। ___ उज्झाइवत्थवं चेव, सिंधूमादीसुगरहितो॥ वृ-नेपालादौ देशे सर्वलोकेनापि ताग्वस्त्रणामाचीर्णता, न च तंत्र चौरादिभयम्, नैव च ‘गौरवम् 'अहो! अहमीशानी वस्त्रणि प्रावृणोमि' इत्येवंलक्षणम्, अपि च उज्झाइतं-विरुपं · Page #394 -------------------------------------------------------------------------- ________________ उद्देशक : ३, मूलं-८७, [भा. ३९१३] ३९१ यद् वस्त्र तद्वान् सिन्धुसौवीरकादिषु गर्हितो भवति, अतस्तत्र कृत्स्नान्यपि परिभोक्तव्यानि ।। अथ कालकृत्स्नमपवदति[भा.३९१४] नीलकंबलमादी तु, उन्नियं होति अच्चियं । सिसिरे तं पिधारेज्जा, सीतं नऽन्नेण रुब्भति॥ वृ-नीलकम्बलादिकमौर्णिकंमहाराष्ट्रविषये अर्चितं' महाध्रयं भवति, तदपितत्र प्राप्तः 'शिशिरे' शीतकाले 'धारयेत्' प्रावृणुयादित्यर्थः, शीतं यतो नान्येन वस्त्रण निरुध्यते॥ अथ तद्भावितपदं व्याख्याति[भा.३९१५] न लभइ खरेर्हि निहं, अरत्तिं च करिति से दिवसतो वि। उज्झाइगंव मन्नति, थूलेर्हि अभावितो जाव॥ वृ-'स्वरैः' स्थूलतया कठिनस्पश्चिीवरै राजादिप्रब्रजितः कश्चिद् निद्रां न लभते, तानि च तस्य दिवसतोऽप्यरतिं कुर्वन्ति, "उज्झाइयं वा" जुगुप्सां मन्यते तैः, ततः स्थूलैर्यावदद्याप्यभावितस्तावत् तस्य भावकृत्स्नवस्त्रमनुज्ञातम् ।। 'अवमादिषु गच्छोपग्रहार्थम्' इति भावयति[भा.३९१६] ओमा-ऽसिव-दुढेसू, सीमढेऊण तं असंथरणे । गच्छो नित्थारिज्जति, जाव पुनो होति संथरणं ।। वृ-अवमौदर्या-ऽशिव-राजद्विष्टेषुभुक्त-पानालाभेगच्छस्यासंस्तरणंभवेत्, ततः शतसहस्त्रमूल्यं वस्त्र “सीमढेऊण" तिचूर्णिकारवचनाद् विक्रीय गच्छो निस्तार्यते यावत् पुनरपि संस्तरण भवति । विशेषचूर्णी तु-“सीमढेऊण" इत्यस्य स्थाने "उवक्कमट्ठा व" त्ति पाठः, तत्रोपक्रमःकालगमनंतदर्थम् । किमुक्तंभवति? -कस्यापि साधोरतार्कितंकालगमनं भवेत्तस्याच्छादनार्थं 'भावकृत्स्नं' वर्णाढयं वस्त्र प्रागेव ग्रहीतव्यम् ॥अथवा द्रव्यकृत्स्नं भावकृत्स्नं चेति द्विविधमेवेह कृत्स्नम् । कथम् ? इति चेद् उच्यते[भा.३९१७] मानाहियं दसाधिय, एताइ पडंति दव्वकसिणम्मि। तस्सेव य जो वन्नो, मुलुंच गुणो यतं भावे ।। वृ-क्षेत्रकृत्स्ने कालकृत्स्ने च यद् ‘मानाधिकं' यथोक्तप्रमाणातिरिक्तम्, यच्च ‘दशाधिकं' सदशाकं वस्त्रम्, एते द्वे अपि द्रव्यकृत्स्ने निपततः । यस्तु तस्यैव वस्त्रस्य ‘वर्ण कृष्णत्वादिकः, यच्च 'मूल्यम्' अष्टादशरुपकादि, यश्च ‘गुणः' मृदुत्वादि, तदेतत्सर्वमपि भावकृत्स्नेऽवतरति॥ मू. (८८) नो कप्पइ निग्गंधाण वा निग्गंथीण वा अभिन्नाइं वत्थाइंधारित्तए वा परिहरित्तए वा कप्पइ निग्गंथाणं वा निग्गंथीण वा मिन्नाइं वन्याइंधारित्तएवा परिहरित्तएवा॥ वृ-नो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा 'अभिन्नानि' अच्छिन्नानि वस्त्रणि धारयितुंवा परिहर्तुं वेति ॥अथ भाष्यम्[भा.३९१८] अकसिण भिन्नमभिन्नं, होज भिन्नं तु अकसिणे भइतं। कसिणा-ऽकसिणे य तदा, भिन्नमभिन्ने य चउभंगो।। वृ- यत् पूर्वसूत्रेऽक-त्स्नमुक्तं तद् भिन्नं वा स्याद् अभिन्नं वा । भिन्नमपि अकृत्स्ने 'भक्त' • विकल्पितम्, अकृत्स्नंवा कृत्स्नंवा भवतीत्यर्थः । अतएव कृत्स्ना-ऽकृत्स्नपदेन द्रव्य-क्षेत्राद्यविशिष्टं सामान्यतः कृत्स्नं गृहीतम्, अभिन्नपदेन तु सकलम् । आह च बृहद्भाष्यकृत् Page #395 -------------------------------------------------------------------------- ________________ ३९२ बृहत्कल्प-छेदसूत्रम् -२-३/८८ दव्वई अविसिहं, कसिणग्गहणेण होइ गहियं तु । गहन अभिन्नस्स उ, सगलग्गहणं कयं होइ ॥ एव द्वितीयभङ्गे द्रव्य-क्षेत्रादिकृत्स्नमसकलं गृहीतम् । तृतीयभङ्गे तु क्षेत्र काल-भावैरकृत्स्नं परं सकलम् । चतुर्थभङ्गे क्षेत्रादिभिरकृत्स्नमसकलम् ॥ अत्र विधिमतिदिशन्नाह[भा. ३९१९] तम्मि वि सो चेव गमो, उस्सग्ग-ऽववादतो जहा कसिणे । भिन्नग्गहणं तम्हा, असती य सयं पि भिंदिज्जा ।। वृ- 'तस्मिन्नपि' अभिने स एव उत्सर्गतोऽपवादंतश्च 'गमः' प्रकारो यथा कृत्स्ने भणितः । तथाहि कृत्स्नवद् द्रव्या (द्य ] भिन्नमपि चतुर्धा, तत्र द्रव्याभिन्नं गणनया प्रमाणश्चातिरिक्तम्, क्षेत्राभिन्नं यद् यस्मिन् क्षेत्रे महार्घ्यम्, कालाभिन्नं यद् यस्मिन् कालेऽर्चितम् भावाभिन्नं तथैव वर्णयुतं मूल्ययुतं च; या च कृत्स्ने आरोपणा सैवाभिन्नेऽपि द्रष्टव्या, परमिदं चतुर्ष्वपि द्रव्यादिषु सकलमेव प्रतिपत्तव्यम् । यत एवं तस्माद् भिन्नस्य वस्त्रस्य ग्रहणं कर्त्तव्यम् । अथ भिन्नं न प्राप्यते ततः स्वयमपि भिन्द्यात्, यावता प्रमाणेनातिरिक्तं तावत् छित्त्वा प्रमाणयुक्तं कुर्यादिति भाव ॥ परः प्राह-यदि पुर्वसूत्रोक्त एव गम इहापि सूत्रे वक्तव्यः ततःपुनरुत्तदोसो एवं, पिट्ठस्स व पीसणं निरत्थं तु । कारणमवेक्खति सुतं, दुविहपमाणं इहं सुत्ते ॥ [भा. ३९२०] वृ-पुनरुक्तदोष एवं प्राप्नोति एतच्च पुनर्भणनं पिष्टस्येव पेषणं 'निरर्थकं' परिफल्गुप्रायमेव पश्यामः, अतो नेदं सूत्रमारम्भणीयमिति भावः । सूरिराह-सूत्रमिदं कारणमपेक्षते । किं पुनस्तत् कारणम् ? इत्याह- इह सूत्रे वस्त्रणां 'द्विविधप्रमाणं' गणनालक्षणं १ प्रमाणलक्षणं २ नियम्यते, कियन्ति किंप्रमाणानि वा तानिं ग्रहीतव्यानि ? इत्येवं निरूप्यत इत्यर्थः ॥ [ भा. ३९२१] तम्हा उ भिंदियव्वं, केई पम्हेहि अह व तह चेव । लोगंते पाणादीविराधना तेसि पडिघातो ॥ वृ-यस्मादभिन्नस्य धारणे पूर्वसूत्रोक्ता दोषास्तस्मात् प्रमाणातिरिक्तं वस्त्र 'भेत्तव्यं' छेदनीयम्, न तदवस्थं धारयितव्यम् । अथवाऽत्र 'केचिद्' नोदकाः प्रेरयन्ति वस्त्र छिद्यमाने यानि पक्ष्माण्युड्डयन्ते तैर्लोकान्तं यावद् गच्छद्भिर्बहूनां प्राणादीनां त्रसप्राणिप्रभृतीनां सूक्ष्मजन्तूनां विराधना भवति, अतः “तह चेव” त्ति यथा लब्धं तथैवाधितिष्ठेत् । एवं वदतां 'तेषां ' नोदकानां ‘प्रतिघातः’ निराकरणं विधेयमिति पुरातनगाथासमासार्थः ॥ अथैनामेव विवरीषुः परप्रेर्यमेव प्रयञ्चयन्नाह [भा. ३९२२] सद्दो तहिं मुच्छति छेदणा वा, धावंति ते दो वि उ जाव लोगो । वत्थस्स देहस्स य जो विकंपो, ततो वि वादादि भरिति लोगं ॥ वृ- भो आचार्य ! 'तत्र' वस्त्र छिद्यमाने शब्दः सम्मूर्छति, 'छेदनका वा' सूक्ष्मपक्ष्मावयवा उड्डीयन्ते, एते च द्वयेऽपि ततो निर्गता लोकान्तं यावद् 'धावन्ति' प्राप्नुवन्ति । तथा वस्यस्य देहस्य च यः ‘विकम्पः' चलनं ततोऽपि विनिर्गता वातादयः प्रसरन्तः सकलमपि लोकमापूरयन्ति ।। [भा. ३९२३] अहिच्छसे जंति न ते उ दूरं, संखोभिया तेहऽ वरे वयंति । उड्डुं अधे यावि चउद्दिसिं पि, पूरिति लोगं तु खणेण सव्वं ॥ Page #396 -------------------------------------------------------------------------- ________________ उद्देशक : ३, मूलं - ८८, [भा. ३९२३] वृ-अथ आचार्य ! त्वम् 'इच्छसि' मन्यसे 'तेच' वस्त्रच्छेदनसमुत्थाः शब्द-पक्ष्म-वातादिपुद्गला न 'दूरं' लोकान्तं यान्ति तर्हि तैः 'संक्षोभिताः' चालिताः सन्तोऽपरे व्रजन्ति, एवमपराऽपरपुद्गलप्रेरिताः पुद्गलाः प्रसरन्तः क्षणेनोर्द्धमधस्तिर्यक् चतसृष्वपि दिक्षु सर्वमपि लोकमापूरयन्ति ।। यत एवमतः [भा. ३९२४] विन्नाय आरंभमिणं सदोसं, तम्हा जहालद्धमधिट्ठिहिज्जा । वुत्तं सएयो खलु जाव देही, न होति सो अंतकरी तु वाव ॥ वृ- 'इमम्' अनन्तरोक्तं सर्वलोकपुरणात्मकमारम्भं 'सदोषं' सूक्ष्मजीवविराधनया सावद्यं विज्ञाय 'तस्मात् ' कारणाद् यथालब्धं वस्त्रमधितिष्ठेत्, न छेदनादिकं कुर्यात् । यतः 'उक्तं' भणितं व्याख्याप्रज्ञप्तौ-यावदयं 'देही' जीवः 'सैजः' सकम्पः चेष्टावानित्यर्थः तावदसौ कर्मणो भवस्य वा अन्तकारी न भवति । तथा च तदालापक:-जाव नं एस जीवे सया समियं एयइ वेयइ चलइ फंदह घट्टइ खुब्भइ उदीरइ तं तं भावं परिणमइ ताव नं तस्स जीवस्स अंते अंतकिरिया न भवति । अथेत्थं भणिष्यथ एवं तर्हि भिक्षादिनिमित्तमपि चेष्टा न विधेया इति, नैवम्, यतः[भा. ३९२५] जा यावि चिट्ठा इरियाइआओ, संपस्सहेताहिं विना न देहो । संचिट्ठए नेवमछिजमाणे, वत्थम्मि संजायइ देहनासो ॥ ३९३ वृ-याश्चापि चेष्टा ईर्यादिकाः सम्पश्यत, तत्रेरणमीर्या भिक्षा-संज्ञाभूम्यादौ गमनम्, आदिशब्दाद् भोजन-शयनादयो गृह्यन्ते, एताभिर्विना देहः पौद्गलिकत्वात् 'न सन्तिष्ठते' न निर्वहति, देहमन्तरेण च संयमस्यापि व्यवच्छेदः प्राप्नोति, वस्त्र पुनरच्छिद्यमाने नैवं देहनाशः सज्जायते, अतो न तत् छेदनीयम् ॥ किञ्च [भा. ३९२६] जहा जहा अप्पतरो से जोगो, तहा तहा अप्पतरो से बंधो । निरुद्धजोगिस्स व से न होति अछिद्दपोतस्स व अंबुनाधे ॥ वृ-यथा यथा “से” रास्य जीवस्याल्पतरो योगस्तथा तथा “से” तस्याल्पतरो बन्धो भवति, यो वा निरुद्धयोगी - शैलेश्यवस्थायां सर्वथा मनोवाक्कायव्यापारविरहति तस्य 'सः' कर्मबन्धोन भवति । दृष्टान्तमाह-अच्छिद्रपोतस्येव 'अम्बुनाथे' समुद्रे । यथा किल निश्छिद्रप्रवहणं सलिलसञ्चयसम्पूर्णऽपि जलधौ वर्त्तमानं स्वल्पमपि जलं नाश्रवति, एवं निरुद्धयोग्यपि जन्तुः कर्मवर्गणापुद्गलैरञ्जन चूर्णसमुद्गकवद् निरन्तरनिचितेऽपि लोके वर्त्तमानः स्वल्पीयोऽपि कर्म नोपादत्ते । अतः कर्मबन्धस्य योगान्वय-व्यतिरेकानुविधायितया तत्परिजिहीर्षुणा वस्त्रच्छेदनादिव्यापारो न विधेयः ।। इत्यथं परेण स्वपक्षे स्थापिते सति सूरिराह [भा. ३९२७]आरंभमिट्ठो जति आसवाय, गुत्तीय सेआय तधा तु साधू ! । मा फंद वारेहि व छिजमाणं, पतिन्नहाणी व अतोऽन्नहा ते ।। वृ- "आरंभमिट्ठी' त्ति मकारोऽलाभणिकः, हेनोदक! यद्यारम्भस्तव 'आश्रवाय' कर्मोपादानाय 'इष्टः' अभिप्रतेः 'गुप्तिश्च' तत्परिहाररुपा 'श्रेयसे' कर्मानुपादानायामिप्रेता, तथा च सति हे साधो ! मा स्पन्द मा वा वस्त्र छिद्यमानं वारय । किमुक्तं भवति ? - यदि वस्त्रच्छेदनमारम्मतया भवता कर्मबन्धनिबन्धनमभ्युपगम्यते ततो येयं वस्त्रच्छेदनप्रतिषेधाया हस्तस्पन्दनादिका चेष्टा क्रियते यो वा तत्प्रतिषेधको ध्वनिरुच्चार्यते तावप्यारम्भतया भवता न कर्त्तव्यौ । 'अतः ' Page #397 -------------------------------------------------------------------------- ________________ बृहत्कल्प - छेदसूत्रम् -२-३/८८ मदुक्तादुपदेशादन्यथा चेत् करोषि ततस्ते 'प्रतिज्ञाहानि' स्ववचनविरोधलक्षणं दूषणमापद्यते इत्यर्थः ॥ अथ ब्रीवीथाः योऽयं मया वस्त्रच्छेदनप्रतिषेधको ध्वनिरुच्चार्यते स आरम्भप्रतिधकत्वान्निर्दोष इति अत्रोच्यते-. [भा. ३९२८] अदोसवं ते जति सद्दो, अन्नो वि कम्हा न भेव अदोसो । अधिच्छया तुज्झ सदोस एक्को, एवं सती कस्स भवे न सिद्धी ॥ वृ- यद्येष त्वदीयः शब्दोऽदोषवान् ततः 'अन्योऽपि' वस्त्रच्छेदनादिसमुत्थः शब्दः कस्माददोषो न भवेत् ? तस्यापि प्रमाणातिरिक्तपरिभोग-विभूषादिदोषपरिहारहेतुत्वात् । अथ 'इच्छया ' स्वाभिप्रायेण तव ‘एकः' वस्त्रच्छेदनशब्दः सदोषः अपरस्तु निर्दोषः एवं सति कस्य न स्वपक्षसिद्धिर्भवेत् ? सर्वस्यापि वागाडम्बरमात्रेण भवत इव स्वाभिप्रेतार्थसिद्धिर्भवेदिति भावः । ततश्चास्माभिरप्येवं वक्तु शक्यम्-योऽयं वस्त्रच्छेदनसमुत्थः शब्दः स निर्दोषः शब्दत्वात्, भवत्परिकल्पितनिर्दोषशब्दवदिति । किञ्च ३९४ [भा. ३९२९] तं छिंदओ होज्ज सतिं तु दोसो, खोभादि तं चैव जतो करेति । जं पेहतो होंति दिने दिने तु, संपाउणंते य निबुज्झ ते वी ॥ 1 वृ-यतः 'तदेव' वस्त्र छिद्यमानं पुद्गलानां क्षोभादि करोति अतः 'तद्' वस्त्र छिन्दतः 'सकृद्' एकवारं दोषो भवेत् । अच्छिद्यमाने तु वस्त्र प्रमाणातिरिक्तं तत् प्रत्युपेक्षमाणस्य ये भूमिलोलनादयः प्रत्युपेक्षणादोषा दिने दिने भवन्ति ये च तद् वस्त्र सम्प्रावृण्वतो विभूषादयो बहवो दोषाः, तानपि 'निबुध्यस्व' अक्षिणी निमील्य सम्यग् निरुपयेति भावः । आह-यदि वस्त्रच्छेदने युष्मन्मतेनापि सकृद् दोषः सम्भवति ततः परिहियतामसौ, गृहस्थैः स्वयोगेनैव यद् भिन्नं वस्त्रं तदेव गृह्यताम्, उच्यते [भा.३९३०]घेत्तव्वगं भिन्नमहिच्छितं ते, जा मग्गते हानि सुतादि ताव । अप्पेस दोसो गुणभूतिजुत्तो, पमाणमेवं तु जतो करिति ॥ वृ- अथ 'ते' तव 'इष्टं' मतं यथा चिरमपि गवेष्य भिन्नं ग्रहीतव्यम् तत उच्यते-यावत तद् भिन्नं वस्त्रं मार्गयति तावत् तस्य 'श्रुतादौ ' सूत्रा - ऽर्थपौरुप्यादौ हानिर्भवति । अपि च य एष वस्त्रच्छेदनलक्षणो दोषः स प्रत्युपेक्षणाशुद्धि-विभूषापरिहारप्रभृतीनां गुणानां भूत्या- सम्पदा युक्तः, बहुगुणकलित इति भावः । कुतः ? इत्याह-यतः प्रमाणमेव वस्त्रस्य तदानीं साधवः कुर्वन्ति, न पुनस्तत्राधिकं किमपि सूत्रा ऽर्थव्याधातादिकं दूषणमस्तीति ।। अथ "जा यावि चिट्ठा इरियाइयाओ" इत्यादि परोक्तं परिहरन्नाह- [भा. ३९३१] आहार- नीहारविहीसु जोगो, सव्वो अदोसाय जहा जतस्स । हियाय सस्सम्मि व सस्सियस्स, भंडस्स एयं परिकम्मणं तु ॥ वृ- यथा 'यतस्य' प्रयत्नपरस्य साधोराहार- नीहारादिविधिषयः सर्वोऽपि योगो भवन्मतेनाष्यदोषाय भवति तथा 'भाण्डस्य' उपकरणस्य 'परिकर्मणमपि' छेदनादिकम् 'एवमेव' यतनया क्रियमाणं निर्दोष द्रष्टव्यम् । दृष्टान्तमाह- “हियाय सस्सम्मि व सस्सियस्स" त्ति सस्येन चरतीति सास्यिकः - कृपीवलस्तस्य यथा सस्यविषयं परिकर्मणं-निद्दिणनादिकं हिताय भवति तथेदमपि भाण्डपरिकर्मणम् । तथा चोक्तम् Page #398 -------------------------------------------------------------------------- ________________ उद्देश : ३, मूलं - ८८, [भा. ३९३१] यद्वत् सस्यहितार्थं, सस्याकीर्णेऽपि विचरतः क्षेत्रे । या भवति सस्यपीडा, यत्नवतः साऽल्पदोषाय । तद्वज्जीवहितार्थं, जीवाकीर्णेऽपि विचरतो लोके । या भवति, जीवपीडा, यनवतः साऽल्पदोषाय ॥ ३९५ [भा. ३९३२] अप्पेव सिद्धंतमजाणमाणो, तं हिंसगं भाससि जोगवंतं । दव्वेण भावेण य संविभत्ता, चत्तारि भंगा खलु हिंसगत्ते ॥ वृ- 'अपि' इत्यब्युच्चये, अस्त्यन्यदपि वक्तव्यमिति भावः, यदेवं 'योगवन्तं ' वस्त्रच्छेदनादिव्यापारवन्तं जीवं हिंसकं त्वं भाषसे तद् निश्चीयते सम्यक् सिद्धान्तमजानान एवं प्रलपसि । नहि सिद्धान्ते योगमात्रप्रत्ययादेव हिंसोपवर्ण्यते, अप्रमत्तसंयतादीनां सयोगिकेवलिपर्यन्तानां योगवतामपि तदभावात् । कथं तर्हि सा प्रवचने प्ररुप्यते ? इत्याह-द्रव्येण भावेन च संविभक्ताश्चत्वारो भङ्गाः खलु हिंसकत्वं भवन्ति । तथाहि द्रव्यतो नामैका हिंसा न भावतः १ भावतो नामैका हिंसा न द्रव्यतः २ एका द्रव्यतोऽपि भावतोऽपि ३ एका न द्रव्यतो नापि भावतः ४ ।। अथैषामेव यथाक्रमं भावतां कुर्वन्नाह [भा. ३९३३] आहच्च हिंसा समितस्स जा तू, सा दव्वतो होति न भावतो उ । भावेन हिंसा तु असंजतस्सा, जे वा वि सत्ते दव्वतो होति न भावतो उ ।। [भा. ३९३४ ] संपत्ति तस्सेव जदा भविज्जा, सा दव्वहिंसा खलु भावतो य । अज्झत्यसुद्धस्स जदा न होज्जा, वधेन जोगो दुहतो वऽहिंसा ।। वृ- 'समितस्य' ईर्यासमितावुपयुक्तस्य या "आह" कदाचिदपि हिंसा भवेत् सा द्रव्यतो हिंसा, इयं च प्रमादयोगाभावात् तत्त्वतोऽहिंसैव मन्तव्या, “प्रमत्तयोगात् प्राणव्यपरोपणं हिंसा" इति वचनात्;न भावत इति । 'भावेन' भावतो या हिंसा न तु द्रव्यतः सा 'असंयतस्य' प्राणातिपातादेरनिवृत्तस्य उपलक्षणत्वात् संयतस्य वा अनुपयुक्तगमना - SSगमनादि कुर्वतो यानपि सत्त्वानसौ सदैव न हन्ति तानप्याश्चित्य मन्तव्या, “जे वि न वाविजंती, नियमा तेसिं पि हिंसओ सो उ" इति वचनात् । यदा तु तस्यैव प्राणिव्यपरोपणसम्प्राप्तिर्भवति तदा सा द्रव्यतो भावतोऽपि हिंसा प्रतिपत्तव्या । यः पुनरध्यात्मना चेतः प्रणिधानेन शुद्धः - उपयुक्तगमना-ऽऽगमनादिक्रियाकारीत्यर्थः तस्य यदा 'वधेन' प्राणिव्यपरोपणेन सह 'योगः' सम्बन्धोन न भवति तदा 'द्विधाऽपि ' द्रव्यतो भावतोऽपि च अहिंसा, हिंसा न भवतीति भावः । तदेवं भगवत्प्रणीते प्रवचने हिंसाविषयाश्चत्वारो भङ्गा उपवर्ण्यन्ते । अत्र चाद्यभङ्गे हिंसायां व्याप्रियमाणकाययोगोऽपि भावत उपयुक्ततया भगवद्भिरहिंसक एवोक्तः । ततो यदुक्तं भवता- 'वस्त्रच्छेदनव्यापारं कुर्वतो हिंसा भवति' इति तत् प्रवचनरहस्यानभिज्ञतासूचकमिति । किञ्च [भा. ३९३५] रागो य दोसो य तहेव मोहो, ते बंधहेतू तु तओ वि जाणे । नाणत्तगं तेसि जधा य होति, जाणाहि बंधस्स तहा विसेसं ॥ वृ- ‘रागश्च' अभिष्वङ्गलक्षणः 'द्वेषश्च' अप्रीतिकरूपः तथैव 'मोह:' अज्ञानलक्षणः, एतान् त्रीनपि बन्धहेतून् जानीहि । 'नानात्वं' विशेषो यथा 'तेषां' रागादीनां भवति तथा कर्मबन्धस्यापि विशेषं जानीहि ।। इदमेव बिभावयिषुर्द्वारगाथामाह Page #399 -------------------------------------------------------------------------- ________________ ३९६ बृहत्कल्प-छेदसूत्रम् -२-३/८८ [भा.३९३६] तिव्वे मंदे नातमणाए भावाधिकरण विरिए य। ___जह दीसति नामत्तं, तह जाणसु कम्मबंधे वि ॥ वृ-हिंसादिकं पापं कुर्वतो रागादिपरिणामस्तीव्रो वा भवेद् मन्दो वा । “नायमनाए"त्तिएको हिंसादिफलविपाके व्यापाघेवा जीवेजीवतयाज्ञाते हिंसा करोति, अपरस्तुनजानातियरमेवमेव जन्तून् हिनस्ति।तथा भावः-औदयिकादि, अधिकरणं-निवर्तनादिरूपंप्रागुक्तम्, 'वीर्य' देहबलं बाल-पण्डितादिसामर्थ्यवा। एवं तीव्र-मन्दादिकं नानात्वं यथा रागादिषुश्यतेतथा कर्मबन्धेऽपि नानात्वं जानीहि इति द्वारगाथासमासार्थः ।। अथैनामेव विवरीषुराह[भा.३९३७] तिव्वेहि होति तिव्यो, रागादीएहि उवचओ कम्मे । मंदेहि होति मंदो, मज्झिमपरिणामतो मज्झो॥ वृ- पापं विदधानस्य यदि 'तीव्राः' सङ्क्रिमपरिणामा रागादयो भवन्ति ततस्तैस्तीव्रः कर्मणामुपचयो भवति । यदातुत एव मन्दाः-प्रतनुपरिणामाः तदा कर्मोपचयोऽपिमन्दो भवति। यदा तेषां मध्यमः परिणामः-नातितीव्रो नचातिमन्द इत्यर्थः तदा मध्यमः कर्मोपचयो भवति॥ अथ ज्ञाताज्ञातद्वारमाह[भा.३९३८] जाणं करेति एक्को, हिंसमजाणमपरो अविरतो य। . तत्थ विबंधविसेसो, महंतरं देसितो समए॥ व-इह द्वावविरतौ, तत्रैकस्तयोर्जानन हिंसा करोति, विचिन्त्येत्यर्थः; अपरःपुनरजानन् । 'तत्रापि' तयोरपि बन्धविशेषः “महंतरं"तिमहता अन्तरेण देशितः 'समये' सिद्धान्ते।तथाहियो जानन् जीविहंसां करोति स तीव्रानुभावं बहुतरं पापकर्मोपचिनोति, इतरस्तु मन्दतरविपाकमल्पतरं तदेवोपादत्ते॥ [भा.३९३९] विरतो पुन जो जाणं, कुणति अजाणं व अप्पमत्तो वा। तत्थ वि अज्झत्थसमा, संजायति निजरा न चयो॥ वृ-यः पुनः 'विरतः' प्राणातिपातादेर्निवृत्तः सः 'जानानोऽपि' सदोषमित्यवबुध्यमानोऽपि गीतार्थतया द्रव्य-क्षेत्राद्यागाढेषु प्रलम्बादिग्रहणेन हिंसाकरोति, यद्वान जानाति परम् ‘अप्रमत्तः' विकथादिप्रमादरहित उपयुक्तः सन् यत् कदाचित् प्राण्युपघातं करोति तत्रापि अध्यात्मसमा' चित्तप्रणिधानतुल्या निर्जरा सञ्जायते, यस्य याद्दशस्तीव्रो मन्दो मध्यमो वा शुभाध्यवसायस्तस्य ताद्दश्येव कर्मनिर्जरा भवतीति भावः । “नचउ"त्तिन पुनः 'चयः' कर्मबन्धः सूक्ष्मोऽपि भवति, प्रथमस्य भगवदाज्ञया यतनया प्रवर्त्तमानत्वात्, द्वितीयस्य तु प्रमादरहितस्याजानतः कथञ्चिद् प्राण्युपघातसम्भवेऽप्यदुष्टत्वात् ॥अथ भावद्वारमाह[भा.३९४०] एगो खओवसमिए, वट्टति भावेऽवरो उ ओदइए। तत्थ वि बंधविसेसो, संजायति भावनाणता ॥ वृ- ‘एकः' कोऽपिक्षायोपशमिके भावे वर्ततेषअपरश्चौदयिके, तत्रापिबन्धविशेषः सञ्जायते, भावनानात्वात्। तथाहि-य औदयिके भावे वर्तते स तीव्रतरं कर्मोपचिनोति, यस्तु क्षायोपशमिके समन्दतरमिति॥ [भा.३९४१] एमेव ओवसमिए, खओवसमिए तहेव खइए य। Page #400 -------------------------------------------------------------------------- ________________ उद्देशक : ३, मूलं - ८८, [भा. ३९४१] बंधा बंधविसेसो, न तुल्लबंधा य जे बंधी ॥ वृ-एवमेवौपशमिके क्षायोपशमिके तथैव क्षायिके च भावे बन्धा -ऽबन्धविशेषः सम्यगुपयुज्य वक्तव्यः । येऽपि 'बन्धिनः' कर्मबन्धका जीवास्तेऽपि न तुल्यबन्धकाः, किन्तु प्रकृति- स्थित्यनुभावप्रदेशैः परस्परविसध्शकर्मबन्धकाः ॥ अथाधिकरणद्वारमाह-. [भा. ३९४२] अहिकरणं पुव्वुत्तं, चउव्विहं तं समासओ दुविहं । निव्वत्तणता वा, संजोगे चेवऽनेगविधं ॥ ३९७ वृ- अधिकरणं पूर्वं प्रथमोद्देशके यथा निर्वर्त्तना-निक्षेपणा-संयोजना-निसर्जनाभेदात् चतुर्विध मुक्तं तथैव ज्ञातव्यम् । नवरं 'तद्' अधिकरणं समसतो द्विविधं भवति । तद्यथा-निर्वर्त्तनायां 'संयोगे चैव' संयोजनायां च । पुनरेकैकमनेकविधं भवति ।। तत्र निर्वर्त्तनाधिकरणमनेकविधमुपदर्शयति [भा. ३९४३ ] एगो करेति परसुं, निव्वत्तेति नखछेदनं अवरो । कुंत-कणगे य वेज्झे, आरिय सूई अ अवरो उ ।। वृ- 'एकः' लोहकारः 'पर्शु' कुठारं करोति । अपरस्तु नखच्छेदनम्, तथा कुन्तः प्रतीतः कणकःबाणविशेषः, तौ, चकारादपराण्यपि शक्ति-शूलप्रभृतीनि 'वेधकानि' परशरीरवेधकारीणि शस्त्राणि करोति । अपरस्तु लोहकार आरिकां सूचीं वा करोति । तत्र यः कुठार- कुन्तकणकादीनि करोति स तीव्रकर्मबन्धभाक् यस्तु नखच्छेदना-Sऽरिका-सूच्यादि निर्वर्त्तयति स स्वल्पकर्मबन्धक इति ।। [भा. ३९४४] सूईसुं पि विसेसो, कारणसूईसु सिव्वणीसुं च । संगामिय परियाणिय, एमेव य जाणमादीसु ॥ वृ-सूचीष्वपि विशेषो विद्यते - एकाः कारणसूच्योऽपराः सीवनसूच्यः । तत्र याः परव्यपरोपणादिकारणमुद्दिश्य कारयित्वा परस्य नखमूलादौ कुट्यन्ते ताः कारणसूच्य उच्यन्ते, तासु विधीयमानासु महान् कर्मबन्धो वति । यास्तु वस्त्रसीवनार्थं क्रियन्ते तासु स्वल्पतरः कर्मबन्धः । एवमेव च यानादिष्वपि वक्तव्यम् । तथाहि - किमपि यानं साङ्ग्रामिकं भवति, यत्रारूढैः सङ्ग्रामः क्रियते; अपरं तु 'पारियानिक' परियानं गमनं तत् प्रयोजनमस्येति पारियानिकम्, उद्यानादी यस्मिन्नारूढैर्गम्यते । तत्र साङ्ग्रामिकयानादीनि कुर्वतो महान् कर्मबन्धः, पारियानिकानि तु कुर्वाणस्याल्पतरः ।। आह यदि नाम अधिकरणमनेकविधम् ततस्तन्निमित्तः कर्मबन्धविशेषः कथमुपपद्यते ? यावता परिणामवैचित्र्यप्रत्यय एवासाविष्यत इत्याह [भा. ३९४५] कारगकरेंतगाणं, अधिकरणं चेव तं तहा कुणति । जह परिणामविसेसो, संजायति तेसु वत्थूसु ॥ वृ- कारापक-कुर्वतोस्तदधिकरणमेव 'तथा' तेन रूपेण 'करोति' बुद्धिमुपजनयति यथा 'तेषु' पर्श-नखच्छेदनादिषु वस्तुषु कार्यमाणेषु क्रियमाणेषु च 'परिणामविशेषः ' सङ्किलष्टाSसङिकलष्टरूपमध्यवसायवैचित्र्यं सञ्जायते, यथा- कारयाम्यहमिदं पर्शु - कुन्त- कणकादिकम्, ततोऽनेन वैरिणं व्यापाद्य आत्मनः सुखमुत्पादयिष्यामीत्यादि । अतस्तत्त्वतः परिणामवैचित्र्यप्रत्यय एवात्रापि कर्मबन्धविशेष इति न किञ्चिदनुपपन्नम् ॥ उक्तं निर्वर्त्तनाधिकरणम्। अथ संयोजनाधिकरणमाह Page #401 -------------------------------------------------------------------------- ________________ ३९८ बृहत्कल्प-छेदसूत्रम् -२-३/८८ [भा.३९४६] संजोययते कूडं, हलं पडं ओसहे य अन्नोन्ने। भोयणविहिं च अन्ने, तत्थ वि नाणत्तगंबहुहा॥ वृ-कश्चिद् लुब्धको मृगादीनां बन्धनाय कूटं रज्वादिना संयोजयति, अपरो हालिकादि क्षेत्रकर्षणाय हलं युगादिना योजयति, अन्यस्तु पटं पटान्तरेण सह सीवनप्रयोगेण संयुनक्ति, कश्चित्तुवैद्यादि औषधानि' हरीतकी-पिप्पलीप्रभृतीन्यन्यान्यानिपरस्परमेकतरमीलयति, अन्यस्तु 'भोजनविधि' शालि-दालि-घृत-शालनकादिकं संयुनक्ति, तत्रापि कर्मबन्धविशेषस्य बहुधा नानात्वंप्रतिपत्तव्यम्।तथाहिन्यः कूटं संयोजयतितस्य सङक्लिष्टपरिणामतया तीव्रतरःकर्मबन्धः, तदपेक्षयाहलं संयोजयतःस्वल्पतरः, पटंसंयोजयतः स्वल्पतमइत्यादि तरः कर्मबन्धः, तदपेक्षया हलंसंयोजयतः स्वल्पतरः, पटंसंयोजयतः स्वल्पतम इत्यादि स्वबुध्या सम्यगुपयुज्य वक्तव्यम्। अथ निर्वर्तना-संयोजने द्वे अपि यत्र मस्भवतः तान्युपदर्शयति[मा.३९४७] निव्वत्तणा य संयोजणाय सगडाइएसु अभवंति। आसज्जुत्तरकरणं, निव्वत्ती मूलकरणंतु॥ वृ-निर्वर्तना च संयोजना च शकटादिषु द्वे अपि भवतः । तथाहि-शकटाङ्गानाम्उद्धिचक्रप्रभृतीनांयाप्रथमतोघटना सा निर्वर्तना, यापुनस्तेषामेव निर्वतितानामेकत्र सङ्घातना सा संयोजना । अत्र च 'उत्तरकरणं' संयोजनारूपामुत्तरक्रियाम् ‘आसाद्य' प्रतीत्य 'निवृत्तिः' प्रथमतो निर्वर्तना मूलकरणं प्रतिपत्तव्यम् ।। गतमधिकरणद्वारम् । अथ वीर्यद्वारमाह[भा.३९४८] देहबलं खलु विरियं, लसरिसो चेव होति परिणामो। आसज्ज देहविरियं, छट्ठाणगया तु सव्वत्तो॥ वृ-यद् ‘देहबलं' संहननजनितं शरीरसामर्थ्यतत् खलु वीर्य मन्तव्यम्। तस्य च बलस्य सश एवप्राणिनां परिणामो भवति।तथाहि-यः सेवार्तसंहननीजघन्यबलोजीवस्तस्य परिणामोऽपि शुभोऽशुभो वा मन्द एव भवति न तीव्रः, ततः शुभा-ऽशुभकर्मबन्धोऽपि तस्य स्वल्पतर एव, अत एवास्योर्द्धगतौ कल्पचतुष्टयादूर्द्धम् अधोगतौ नरकपृथ्वीद्वयादध उपपातो न भवतीति प्रवचने प्रतिपाद्यते । एवं कीलिकादिसंहननिष्वपि भावना कार्या । इदं च देहवीर्यम् ‘आसाद्य' प्राप्यषट्स्थानगताः ‘सर्वत-' सर्वेष्वपिसंहननेषुप्राणिनः पपरं भवन्ति।तथाहि-सेवार्तसंहननिषु ये सर्वजघन्यबलास्तदपेक्षया अप्नरेऽनन्तभागवृध्या असझ्यातमागवृध्या सङ्ख्यातभागवृध्या सङ्ख्यातगुणवृध्या असङ्ख्यातगुणवृध्या अनन्तगुणवृध्या वा भवन्ति, एवं कीलिकादिष्वपि । यतः षट्स्थानपतिताः प्राणिनोऽतो देबलवैचित्र्येण परिणामवैचिव्यात् कर्मबन्धोऽपि विचित्रो भवतीति स्थितम् ॥बलद्वारमेव प्रकारान्तेन व्याचष्टे[भा.३९४९] अहवा बालादीयं, तिविहं विरियं समासतो होति। बंधविसेसो तिण्ह नि, पंडिय बंधी अबंधी य॥ वृ-अथवा वीर्यबालादिभेदात् त्रिविधम् ।तत्र बालस्य-असंयतस्य प्राणातिपाताद्यसंयमकरणे यद् वीर्यं तद् बालवीर्यम्, बालपण्डितस्य-देशविरतस्य संयमा-ऽसंयमविषयं वीर्यं बालपण्डितवीर्यम्, पण्डितस्य-सर्वविरतस्य सर्वसंयमविषयंवीर्यपण्डितवीर्यम् । एतत्रिविधंवीर्यसमासतो भवति। एषांत्रयाणामपिबन्धविशेषः, तद्यथा-बालवीर्यवान्प्रभूततरंकर्मबध्नाति, बालपण्डित Page #402 -------------------------------------------------------------------------- ________________ ३९९. उद्देशक ः ३, मूलं-८८, [भा. ३९४९] वीर्यवान् अल्पतरम्, पण्डितवीर्यवान् अल्पतमम् । स च पण्डितो द्विधा-बन्धी अबन्धी च । प्रमादादीनां कर्मबन्धहेतूनां कापि कियतां सद्भावादवश्यं बघ्नातीति बन्धी, “णिन् चावश्यकाधमर्ये" इति णिन्प्रत्ययः, तद्विपरीतो अबन्धी । तत्र प्रमत्तसंयतमादौ कृत्वा संयोगिकेवलिनं यावद् बन्धकः, अयोगिकेवली तु नियमादबन्धकः॥ गतं वीर्यद्वारम् । अथोपसंहरनाह[भा.३९५०] तम्हा न सव्वजीवा, उ बंधगा नेवबंधना तुल्ला । अधिकिच्च संपरागं, इरियावहिबंधगा तुल्ला ॥ वृ-यत एवंतस्मान्न सर्वेऽपिजीवा बन्धकाः।येऽपिबन्धकास्तेषामपि साम्परायं कषायप्रत्ययं कर्माधिकृत्य बन्धनं नैवतुल्यम्, रागादिवैचित्र्यतः कर्मबन्धविशेषस्यानन्तरमेव प्रसाधितत्वात्। ये तूपशान्तमोह-क्षीणमोह-सयोगिकेवलिन एर्यापथस्य-योगमात्रप्रत्ययस्य कर्मणो बन्धकास्ते परस्परं तुल्याः, एकस्यैव सातवेदनीयस्य द्विसमयस्थितिकस्य सर्वेषामपि बन्धनात् । तदेवं न योगप्रत्ययः कर्मबन्धस्याल्पबहुत्वविशेषः, किन्तु रागादितीव्र-मन्दताप्रत्ययः, ततो वस्त्रच्छेदनं कुर्वतां न कश्चिदोषः ॥अपि च[भा.३९५१] संजमहेऊ जोगो, पउज्जमाणो अदोसवं होइ। जह आरोग्गनिमित्तं, गंडच्छेदो व विजस्स ॥ कृसंयमः-प्रत्युपेक्षणादिशुद्धिरूपस्तद्धेतुः योगः' वस्त्रच्छेदनादिव्यापारः प्रयुज्यमानोऽदोषवान् भवति । यथा 'आरोग्यनिमित्तं' रोगिणो रोगव्यपगमार्थं वैद्यस्य गण्डच्छऽदुष्ट इति । परः प्राहयद्येवंततो यथाऽहं भणामि तथा वस्त्र छिद्यताम् । कथम्? इति चेद उच्यते[भा.३९५२] भिन्नम्मि माउगंतम्मि केइ अहिकरण गहिय पडिसेहो। एवं खुभिजमाणं, अलक्खणं होइ उहुंच॥ वृ-इह वस्त्र यतो व्यूयते तदादिभूतत्वाद् मातृकेवमातृका, अन्तश्चेह दशान्त उच्यते, मातृका चान्तश्च मातृकान्तम्, द्वन्द्वैकवद्भावः, तस्मिन् भिन्ने सति वस्त्र यद्यपि स्तेनैरपहियेत तथापि तैर्गृहीते सति नाधिकरणं भवति, उभयपार्श्वयोश्छिन्नत्वेन परिभोगाभावादित्यभिप्रायः । एवं केचिदाचार्यदेशीया भणन्ति तेषामेवं वदतांप्रतिषेधः कर्तव्यः । कथम्? इत्याह-'एवम्' अमुना प्रकारेण 'खुः' अवधृतार्थे, अवधारितोऽयमर्थ, परमेवं भिद्यमानं वस्त्रमलक्षणं भवति । भूयोऽपि परः प्राह-यद्येवंतत ऊर्द्धवं कृत्वा तद् वस्त्र द्विधा छिद्यताम् । सूरिराह-एवमप्यलक्षणदोषाश्चापरे बहवो भवन्ति, अतो नैवं छेदनीयमिति सङ्ग्रहगाथासमासार्थः । अथैनामेव विवृणोति[भा.३९५३] उभओ पासिं छिज्जउ, मा दसिया उक्किरिज एगत्तो। . अहिकरणं नेवं खलु, उद्धो फालो व मज्झम्मि॥ वृ- परः प्राह-उभयपार्श्वयोर्वस्त्र छिद्यताम् । किं कारणम् ? इति चेद् अत आहयद्येकपार्श्वतश्छिद्यते तदा कदाचित् स्तेनैरपहियेत, ततस्ते तत्रैकतश्छिन्ने दशिका उत्किरेयुः, उत्कीर्य च तद् वस्त्र विक्रीणन्तः सदशाकतया प्रभूतं मूल्यं प्राप्नुयुः, स्वयं या तत् परिभुञ्जीरन्, ततो द्वयोरपि पार्श्वयोश्छेदनीयम्, एवंविधीयमानेऽधिकरणं न भवति । अथ नैवं भवतां विचारचर्यायां सङ्गच्छते ततो मध्ये गृहीत्वोर्ध्वः फालो विधीयताम्, उर्ध्वं द्विधा फाल्यतामिति Page #403 -------------------------------------------------------------------------- ________________ ४०० बृहत्कल्प-छेदसूत्रम् -२-३/८८ भावः ।। अथ सूरि प्रथमं परोक्तमाद्यप्रकारं दूषयत्राह[भा.३९५४] भन्नइ दुहतो छिन्ने, उभतो दसियाई किन्न जायंति। कुप्पासए करेंति व, अदसाणि व किं न भुंजंति॥ वृ-भण्यते अत्रोत्तरम्-त्वदुक्तनीत्या द्विधा छिन्ने वस्त्र किमुत्कीर्यमाणा उभयतो दशिका न जायन्ते य जायन्त एव । अथवा तेनोभयतश्छिन्नेन वाससा ते स्तेनाः 'कूपसिकान्' कञ्चकान् कुर्वन्ति । अथवा ते किमदशाकानि वस्त्रणि न भुञ्जते? येनैवमुच्यते-उभयतश्छेत्तव्यमिति ॥ अथ द्वितीयं प्रकारमङ्गीकृत्य परिहरनाह[भा.३९५५] उद्धप्फालाणि करेंति अणिहुआ दुब्बलं च तं होति। कजं तं च न पुस्सति, असिव्व-सिव्वंतदोसाय॥ वृ-इह 'अनिभृता नाम' त्रिदण्डिनः, त एव प्रय ऊर्द्धवफालानि वस्त्रणि वसितुंप्रावरीतुंवा कुर्वन्ति नान्ये । तथा 'तद्' ऊर्ध्वफालितं वस्त्र दुर्बलं भवति । दुर्बलत्वादेव च ‘तद्' विवक्षितं 'कार्य' प्रावरणादिकं 'नपुष्यति' न पूरयति, परिभुज्यमानमचिरादेव स्फटतीति भावः । स्फटितं चयदि नसीव्यते ततो बहुतरं स्फटति, ततश्च वस्त्रभावे येतृणग्रहणादयो दोषास्तान्प्राप्नुवन्ति। अथ सीव्यते ततः सूत्रा-ऽर्थपरिमन्थादयो दोषाः ॥अपिच[भा.३९५६] छिन्नम्मि माउगंते, अलक्खणं मज्झफालियं चेव । गुणबुद्धा जंगहियं, न करेति गुणं अलं तेनं ॥ वृ. 'मातृकान्ते' उभयपार्श्वरूपे छिन्ने सति वस्त्रमलक्षणं भवति । मध्यस्फाटितमपि तदलक्षणमेवोपजायते । अलक्षणे च वस्त्र प्रत्युत ज्ञानादीनामुपधातो भवति, न पुनः कोऽपि गुणः । अतो गुणबुध्या यद् वस्त्र गृहीतं सत् तमेव गुणं न करोति अलं तेन' वस्त्रेण, न तद् ग्रहीतुमुचितमिति भावः ।।अथ भूयोऽपि परः प्रेरयति[भा.३९५७] किं लक्खणेण अम्हं, सव्वणियत्ताण पावविरयाणं। लक्खणमिच्छंति गिही, धण-धने-कोसपरिवुड्डी ।। वृ-अस्माकं सर्वस्माद्-धन-धान्यादिपरिग्रहानिवृत्तानांपापात्-प्राणातिपातादेर्विरतानां किं वस्त्रदिलक्षणेनान्वेषितेन? न किञ्चिदित्यर्थः । ये तु गृहिणः सारम्भाः सपरिग्रहास्ते धन-धान्यकोशपरिवृद्धिनिमित्तं लक्षणमिच्छन्ति, अस्माकं तु धन-धान्याद्यभावान किमपि वृद्धिं प्रापणीयमस्तीति परस्याभिप्रायः॥ सूरिराह[भा.३९५८] लक्खणहीनो उवही, उवहणती नाण-दंसण-चरिते । तम्हा लक्खणजुत्तो, गच्छ दमएम दिटुंतो॥ वृ-लक्षणैः-प्रशस्तवर्ण-संस्थानादिभिर्हान उपधि साधूनां ज्ञान-दर्शन-चारित्राण्युपहन्ति, तस्माद् लक्षणयुक्तोऽसौ धारयितव्यः । तेन हि धार्यमाणेन गच्छे महती ज्ञानादिस्फातिरुपजायते। तथा चात्र द्रमकेण दृष्टान्तः क्रियते ॥ तमेवाह[भा.३९५९] थाइणि वलवा वरिसं, दमओ पालेति तस्स भाएणं। चेडीघडण निकायण, उविट्ठ दुम चम्म भेसणया॥ [भा.३९६०] दुण्ह वि तेसिं गहणं, अलं मिअस्सेहि अस्सिगं भणइ । Page #404 -------------------------------------------------------------------------- ________________ उद्देश : ३, मूलं - ८८, [भा. ३९६० ] वडइ भइ धूयापयाण कुलएण ओवम्मं ॥ वृ- इह पारसविषये कस्यचिद् गृहे प्रभूताः प्रतिवर्षप्रसविन्यो वडवाः सन्ति । तत एव च तुरङ्गमा अपि तस्य बहवः समजायन्त । तेन चाश्वस्वामिना 'एतावदश्वसमूहमध्ये त्वया वर्षान्ते अश्वद्वयं भृतौ ग्राह्यम्' इत्युक्त्वा कश्चिद् द्रमकोऽश्व- वडवारक्षणार्थं धृतः । तस्य च तत्पुत्र्या सार्धं सङ्गतिरभूत् । भृतिकाले च समायाते तेनाश्वरक्षकेण सा तद्दुहिता पृष्टा कथय, अमीषां मध्ये किमपि लक्षणयुक्तमश्वद्वयं येन तद् गृह्णामि । ततस्तयाऽभिहितोऽसौ - सर्वेष्वश्वेष्वरण्ये वृक्षच्छायायां विश्रब्धमुपविष्टेषु चर्ममयं कुतपं पाषाणखण्डानां भृत्वा वृक्षशिखरमारुह्य ततः स चर्मकुतपः खडखडारवं कुर्वन्त्रधस्ताद् मोक्तव्यः, पटहश्च तदग्रतो वादनीयः एवंकृते यौ न समुत्रस्यतः तथा खुरुखुरकेण चर्ममयेण पाषाणखण्डभृतेन पृष्ठतो वाद्यमानेन सर्वानपि वाहय, यौ शेषाश्ववाहनिकातोऽधिकं निर्वहतः तौ द्वावपि गृहाणेति । तेन सर्वं तथैव कृतम् । मूल्यकाले च तेनाश्वस्वामी याचितः-ममामुकममुकं चाश्वं देहि । तुरङ्गमस्वामी तु 'समस्तलक्षणयुक्ताविमावश्वौ' इति कृत्वा ब्रवीति-शेषान् द्वौ त्रीन् सर्वान् वा गृहाण, किमेताभ्यां करिष्यसि ? । सोऽपि तदश्वद्वयवर्जमपरं कथमपि नेच्छति । ततश्चाश्वस्वामिना स्वभार्याऽभिहिता- प्रदीयतामस्मै स्वपुत्रिकायेन गृहजामातृत्वं प्रतिपन्नो नसलक्षणा वश्वौ गृहीत्वाऽन्यत्र व्रजति । सा च 'हीनोऽसौ ' इति नेच्छत्यमुमर्थम् । ततोऽश्वस्वामी भार्यावबोधाय वर्द्धकिसुतं दृष्टान्तीकरोति, यथा ४०१ केनापि वर्द्धकिना भागिनेयः स्वसुतां दत्त्वा गृहजामाता कृतः । स च कमपि व्यवसायं न करोति ततो वर्द्धकिदुहित्र्या प्रेरितः किमिति पुरुषव्रतरहितः परदत्तमुपजीवंस्तिष्ठसि ? विधेहि किञ्चित् कर्मान्तरमिति । ततः कुठारं गृहीत्वा काष्ठकर्त्तनार्थमटवीं गतः । स्वाभिलषितकाष्ठप्राप्तयभावाच्च प्रतिदिवसं रिक्तं एव निवर्त्तते । षष्ठे च मासे लब्धं कृष्णचित्रककाष्ठम् । घटितस्तत्र कुलकः- कलसिकाचतुर्थाशरूपो धान्यमानविशेषः । ततः प्रेषित स्वभार्या 'द्रव्यलक्षेण यो गृह्णाति तस्मै प्रदातव्यः' इत्युक्त्वा हट्टमार्गे विक्रयार्थम् । सा च तन्मूल्ये लक्षं याचमाना लोकैरुपहस्यते । समायातश्च तत्र कश्चिद् बुद्धिमान् वणिक्, परिभावितं च तेन स्वचेतसि - नूनमत्र कारणेन भवितव्यम्, यदेवमियमस्य काष्ठस्य मूल्ये लक्षं याचते । ततो यावत् तेन धान्यं मिमीते तावन्न कथञ्चित् क्षीयते । अतो धान्याद्यक्षयनिमित्तं लक्षमपि दत्त्वा गृहीतस्तेन कुलकः । ततः प्रभृति तेन सलक्षणजामातृकेण गृहे धृतेन सर्वमपि वर्द्धकिकुटुम्बं धन-धान्यादीना वृद्धिमुपययौ ॥ तथा त्वमपि निजदुहितरं यद्यस्मै प्रयच्छसि ततोऽनेनास्मद्गृहे तिष्ठता समस्तलक्षणोपेतमद्वयमपि तिष्ठति । ततोऽश्वद्वयमाहाल्येन च सर्वा सम्पदः करस्था एवास्माकं भवन्ति इत्यादि बहुविधमुक्त्वा दापिता तस्मै दुहिता ॥ अथ गाथाद्वयस्याक्षरार्थ-स्थायिन्यो नाम वडवास्ता उच्यन्ते या वर्षे वर्षे विजायन्ते । ताश्च वर्षमेकं कश्चिद् द्रमकः पालयति, उपलक्षणमिदम्, तेनाश्वानपि पालयतीत्यादि द्रष्टव्यम् । कथं पालयति ? इत्याह-‘तस्य' अश्वाधिपतेः 'भागेन' वेतनभूताश्वद्वयलक्षणेन । ततश्च तस्य तत्राश्वडवं पालयतश्चेटिकया समं घटना । तया च स निकाचनां कारितः एवंविधलक्षणोपेतमेवाश्वद्वयं ग्रहीतव्यं समं घटना । तया च सनिकाचनां कारितः - एवंधलक्षणोपेतमेवाश्वद्वयं ग्रहीतव्यं 19 26 Page #405 -------------------------------------------------------------------------- ________________ बृहत्कल्प-छेदसूत्रम् -२-३/८८ नान्यदिति । किं पुनस्तल्लक्षणम् ? इत्याह-उपविष्टेष्वश्वेषु द्रुममारुह्य चर्मकुतपस्य पाषाणभृतस्य भूमौ पातनेन भेषणा कर्त्तव्या, यौ न त्रस्यतस्तौ लक्षणयुक्तौ । ततो भृतिकाले 'द्वयोरपि तयोः ' सलक्षणयोरश्चयोरसौ ग्रहणं करोति । 'अलं मे परैरश्चैः, इदमेवाश्वद्वयं समर्पण' इत्येवम् 'आश्चिकम्' अश्वस्वामिनं भणति । स च स्वभार्यावबोधाय 'वर्द्धके:' रथकास्य 'भच्चक:' भागिनेयस्तस्य यद् वर्द्धकिना दुहितुः प्रदानं ततः स्वभार्यया प्रेरितेन तेन कृष्णचित्रकाष्ठमानीय यत् कुलको घटितस्तेनोपलक्षितम् 'औपम्यं' दृष्टान्तं कृतवान् । एवं गच्छेऽपि लक्षणयुक्ते नोपधिना ज्ञानादीनां वृद्धिरुपजायते । ततश्च स्थितमेतत्-विधिनैव तथा वस्त्र छेदनीयं यथा प्रमाणयुक्तं भवति ॥ अथ प्रमाणादिस्वरुपनिरुपणाय द्वारगाथामाह ४०२ [भा. ३९६१ ]दव्वप्पमाण अतिरेग हीन, परिकम्म विभूसणा य मुच्छा य । उवहिस्स य प्पमाणं, जिन थेर अहक्कमं वोच्छं । वृ- इह द्रव्यं वस्त्र तस्य प्रमाणं गणनया प्रमाणेन च द्विविधं वक्तव्यम् । अतिरिक्ते हीने वा वस्त्र दोषा अभिधातव्याः । परिकर्मणं सीवनमित्येकोऽर्थ, तन्निरुपयितव्यम् । “विभूसणा य” त्ति विभूषार्थं यदि वस्त्र क्षालयति वा रजति वा घर्षति वा सम्प्रमार्ष्टि वा तदा प्रायश्चित्तं भवतीति वक्तव्यम् । “मुच्छाय” त्ति मूर्च्छया यदि वस्त्र न परिभुङ्क्ते तदाऽपि प्रायश्चित्तं वक्तव्यम् । तत्र प्रथमद्वारे तावदुपधेः प्रमाणं जिनकल्पिक स्थविरकल्पिकानङ्गीकृत्य यथाक्रममहं वक्ष्ये ॥ प्रतिज्ञातमेव निर्वाहयितुं जिनकल्पिकानामुपधिं गणनाप्रमाणतो निरुपयति[भा. ३९६२] पत्तं पत्ताबंधो, पायठ्ठवणं च पायकेसरिया । पडलाई रइत्ताणं, च गोच्छओ पायनिजोगो ॥ वृ- 'पात्रं ' प्रतिग्रहः, 'पात्रबन्धः' येन वस्त्रखण्डेव चतुरस्त्रण पात्रकं धार्यते, 'पात्रस्थापनं' कम्बलमयं यत्र पात्रकं स्थाप्यते, 'पात्रकेसरिका' यया पात्रं प्रत्युपेक्ष्यते, 'पटलकानि' यानि भिक्षां पर्यटभिः पात्रोपरि स्थाप्यन्ते, 'रजस्त्राणं' पात्रवेष्टकम्, 'गोच्छकः' कम्बलमयोयः पात्रकोपरि दीयते । एष सप्तविधः 'पात्रनिर्योगः' पात्रपरिकरभूत उपकरणकलाप इत्यर्थः ॥ तिन्नेव य पच्छागा, रयहरणं चेव होइ मुहपोत्ती । एसो वुवालसविहो, उवही जिनकप्पियाणं तु ।। [भा. ३९६३] वृ-तथा-'त्रय एव' न चतुः - पञ्चप्रभृतयः, क एते ? इत्याह- 'प्रच्छादकाः ' प्रावरणरूपाः कल्पाः, सौत्रिकाकश्च र्णामयइत्यर्थः । 'रजोहरणं' प्रतीतम् । 'चः' समुच्चये । एव शब्दः पादपूरणे । 'मुखपोतिका' प्रसिद्धा । एष द्वादशविध उपधिर्जिनकल्पिकानां मन्तव्यः । तुशब्दो विशेषणे, स चैतद् विशिनष्टि-जिनकल्पिका द्विविधाः पाणिपात्राः प्रतिग्रहधारिणश्च । पुनरेकैके द्विविधाःअप्रावरणाः सप्रावरणानां तु त्रिविधो वा चतुर्विघो वा पञ्चविधौ वा तत्र त्रिविधो रजोहरणं मुखवस्त्रिका एकः सौत्रिकः कल्पः, चतुर्विधः स एवीर्णिककल्पसहितः, पञ्चविधश्चतुर्विध एव द्वितीयसीत्रिककल्पेन सहितः । प्रतिग्रहधारिणां प्रावरणवर्जितानां च नवविध उपधि, तद्यथापात्रं १ पात्रकबन्धः २ पात्रस्थापनं ३ पात्रकेसरिका ४ पटकलानि ५ रजस्त्राणं ६ गोच्छकः ७ रजोहरणं ८ मुखवस्त्रका ९ चेति । ये तु प्रावरणसहितास्तेषामत्रैव नवविधे एककल्पप्रक्षेपे शविधः, कल्पद्वयप्रक्षेपे एकादशभेदः, कल्पत्रयप्रक्षेपे तु द्वादशविधः । तदेवमुत्कर्षतो जिन Page #406 -------------------------------------------------------------------------- ________________ उद्देशक ः ३, मूलं-८८, [भा. ३९६५] ४०३ कल्पिकानां द्वादशविधउपधिसम्भवति, एषतुशब्दसूचितो विशेषार्थः । “एकग्रहणेतज्जातीयानां सर्वेषां ग्रहणम्" इति न्यायाद् अन्येऽपि ये गच्छनिर्गतास्तेषां यथायोगमिदमेवोपकरणप्रमाणमवसातव्यम् ।। अथ स्थविरकल्पिकानकीकृत्याह[भा.३९६४] एए चेव दुवालस, मतग अइरेग चोलपट्टोय। एसो उ चउदसविहो, उवही पुन थेरकप्पम्मि॥ वृ-“एत एव' अनन्तरोक्ता द्वादशोपधिभेदा अपरं चातिरिक्तं मात्रकं चोलपट्टकश्च, एष चतुर्दशविध उपधिः स्थविरकल्पे भवति ॥अनन्तरोक्तमेवार्थमुपसंहरनाह[भा.३९६५] जिना बारसरुवाइं, थेरा चउदसरुविणो। ओहेण उवहिमिच्छंति, अओ उद्धं उवग्गहो॥ वृ-'जिनाः' जिनकल्पिका उपकरणानां द्वादशरुपाणिधारयन्तीति शेषः । स्थविरास्तु 'चतुदशरुपिणः' उपकरणचतुर्दशकधारिणइत्यर्थः। एवम् ओधेन' सामान्येनोपधिमिच्छन्तितीर्थकराः, औघोपधिमित्यर्थः । 'अत ऊर्ध्वम्' अतिरिक्तो दण्डक-चिलिमिलिकादि स्थविरकल्पिकानां सर्वोऽप्युपग्रहोपधिर्मन्तव्यः॥अथ जिनकल्पिकानामुपधेरुत्कृष्टादिविभाग प्रमाणप्रमाणं चाह[भा.३९६६] चत्तारिय उक्कोसा, मज्झिमग-जहन्नगा वि चत्तारि। कप्पाणं तु पमाणं, संडासो दो य रयणीओ॥ वृ-जिनकल्पिकानां चत्वार्युपकरणान्युत्कृष्टानि भवन्ति, त्रयः कल्पाः प्रतिग्रहश्चेति । मध्यमजघन्यान्यपिप्रत्येकं चत्वारि-तत्रपटलकानिरजसत्रणंरजोहरणंपात्रकबन्धश्चेतिमध्यमानि, मुखवस्त्रिका पात्रकेसरिका पात्रस्थापनं गोच्छकश्चेति जघन्यानि । एतेषां च ये कल्पास्तेषां 'सन्दंशकः' कुरण्टको द्वौच रत्नी' हस्तौदीर्धत्वेन प्रमाणे भवति, विस्तरतस्तु साधुहस्तमेकम्।। अथवा[भा. ३९६७] अन्नो वि य आएसो, संडासौ सत्थिए नुवन्नेय । जंखंडियं ददं तं, छम्मासे दुब्बलं इयरं ।।। वृ- अन्योऽपि च ‘आदेशः' प्रकारोऽस्ति । कः ? इत्याह-सन्दंशः स्वस्तिकश्च । तत्र जिनकल्पिकस्योत्कटुकनिविष्यस्यजानुसन्दंशकादारभ्यपुतौ पृष्ठंचछादयित्वास्कन्धोपरियावता प्राप्यते एतावत् तदीयकल्पस्य दैर्घ्यप्रमाणम्, अयं च सन्दंशक उच्यते । तथा तस्यैव कल्पस्य द्वावपि पृथुत्कर्णी हस्ताभ्यां गृहीत्वा द्वे अपि बाहुशीर्षे यावत् प्राप्यते, तद्यथा-दक्षिणेन हस्तेन वामंबाहुशीर्षवामेन दक्षिणम्, एषद्वयोरपि कलाचिकयोर्हृदयेयोविन्यासविशेषः सस्वस्तिकाकार इति कृत्वा स्वस्तिक उच्यते, एतत् पृथुत्वप्रमाणमवसातव्यम् । “नुवन्ने य"ति निपन्नः-त्वग्वति'तस्तद्विषयं स्थविरकल्पिकानामादेशद्वयं तनाग्रे वक्ष्यते । जिनकल्पिकश्च यद्वस्त्र ‘खण्डितम्' एकस्मात् पार्श्वतश्छिनंप्रमाणयुक्तंचयदिचतत्परिभुज्यमानंषण्मासान् याव म्रियतेतदीशं ६ढमिति ज्ञात्वा गृह्णाति, 'इतरद्नाम' षण्मासानपि यावत्र निर्वाहक्षमं तद् दुर्बलमिति कृत्वान गृह्णाति ॥अथ किमर्थमसौ खस्तिकं करोति? इत्याह[भा.३९६८]संडासछिड्डेण हिमादी एति, गुत्ता वऽगुत्ता विय तस्स सेजा। हत्येहि सौ सोस्थिकडेहि घेत्तुं, वत्थस्स कोणे सुवई व झाति॥ Page #407 -------------------------------------------------------------------------- ________________ बृहत्कल्प-छेदसूत्रम् -२-३/८८ वृ- 'तस्य' जिनकल्पिकस्य शय्या 'गुप्ता वा' घनकुडय- कपाटयुक्ता अगुप्ता वा भवेत्, अतः सन्दंशकच्छिद्रेण 'हिमादिकं' शीत-वात-सर्पादिकम् 'एति' आगच्छति, ततस्तस्य रक्षणार्थं ‘स्वस्तिककृताभ्यां' स्वस्तिकाकारनिवेशिताभ्यां हस्ताभ्यां द्वावपि वस्त्रस्य कोणौ गृहीत्वा उत्कुटक एव स स्वपिति वा ध्यायति वा । तत्र प्रायेण धर्म जागरिकया जागर्त्ति परं केचिदाचार्या ब्रुवतेउत्कुटक एव तृतीये यामे क्षणमात्रं स्वपितीति ॥ अथ गच्छ्वासिनां कल्पप्रमाणमाह[भा. ३९६९ ] कप्पा आयपमाणा, अड्डाइज्जा उ वित्थडा हत्था । एयं मज्झिम मानं, उक्कोसं होंति चत्तारि ॥ ४०४ वृ- कल्पाः 'आत्मप्रमाणाः' सार्धहस्तत्रयप्रमाणायामाः, अर्धतृतीयांश्च हस्तान् 'विस्तृताः' पृथुला विधेयाः, एतद् मध्यमं 'मानं' प्रमाणं भवति । उत्कर्षतो दैर्घ्येण चत्वारो हस्ताः । एतदादेशद्वयं मन्तव्यम् ॥ अत्रैव कारणमाह [भा. ३९७०] संकुचिय तरुण आयप्पमाण सुयणे न सीयसंफासो । दुहओ पेल्लण थेरे, अनुचिय पाणाइरक्खाऽऽया ।। वृ-यो भिक्षुस्तरुणो बलवान् स सङ्कुचितपाद स्वप्तुं शक्नोति, तस्य तथा स्वपने शीतस्पर्शोन भवति, अतस्तस्य आत्मप्रमाणाः कल्पा अनुज्ञाताः । यस्तु स्थविरो वयसा वृद्धः स क्षीणबलत्वान्न शक्रोति सङ्कुचितपादः शयितुम्, अतस्तस्यानुग्रहार्थं दैध्येर्णात्मप्रमाणादूर्द्धव षडङ्गुलानि विस्तरतोऽप्यर्धतृतीयहस्तप्रमाणादभ्यधिकानि षडङ्गुलानि । एवं विधीयमाने गुणमुपदर्शयति"दुहओ पेल्लण" त्ति शिरः पादान्तलक्षणयोर्द्वयोरपि पार्श्वयोर्यत् कल्पस्य 'प्रेरणम्' आक्रमणं तेन स्थविरस्य शीतं न भवति । 'अनुचितः' अभावितः शैक्ष इत्यर्थः, तस्यापि स्वपनविधावनभिज्ञस्य कल्पप्रमाणमेवमेव ज्ञातव्यम् । अपि च एवं प्राणिनां रक्षा कृता भवति, न मण्डूकप्लुत्या कीटिकादयः प्राणिनः प्रविशन्तीति भावः, आदिशब्दाद् दीर्घजातीयादयोऽपि न प्रविशन्ति, तेनात्मनोऽपि रक्षा कृता भवति ॥ [भा. ३९७१] पत्ताबंधपमाण, भाणपमाणेन होइ कायव्वं । चउरंगुलं कमंता, पत्ताबंधस्स कोणा उ ॥ वृ- पात्रकबन्धप्रमाणं भाजनप्रमाणेन कर्त्तव्यं भवति । यदि मध्यमं जघन्यं वा पात्रं भवति तदा पात्रकबन्धोऽपि तदनुसारेण करणीयः, अथोत्कृष्टप्रमाणं पात्रं तदा सोऽपि गुरुतरः कार्यः । किं बहुना ? यथा ग्रन्थौ कृते सति पात्रकबन्धस्य कोणाश्चतुरङ्गुलमूर्द्धव क्रामन्तो भवन्ति, ग्रन्थेरतिरिक्ताश्चतुरङ्गुला अञ्चला यथा भवन्तीति भावः, तथा पात्रकबन्धप्रमाणं विधेयन् ।। [भा. ३९७२] रयताणस्स पमाणं, भाणपमाणेन होति कायव्वं । पायाहिनं करिंतिं, मज्झे चउरंगुलं कमति ॥ वृ- रजस्त्राणस्य प्रमाणं भाजनप्रमाणेन कर्त्तव्यं भवति । कथम् ? इत्याह-प्रादक्षिण्येन वेष्टनं कुर्वत् पात्रस्य मध्ये 'चतुरङ्गलं' चत्वार्यङ्गुलानि यथा रजस्त्रणमतिक्रामति तथा रजस्त्राणप्रमाणं विधेयम् ।। पटलकानां प्रमाणमाह [भा. ३९७३] तिविहम्मि कालष्ठेए, तिविहा पडला उ होंति पायस्स । गिम्ह - सिसिर- वासासुं, उक्कोसा मज्झिम जहन्ना ।। Page #408 -------------------------------------------------------------------------- ________________ उद्देशक ः ३, मूलं-८८, [भा. ३९७३] ४०५ वृ-त्रिविधे 'कालच्छेदे' कालविभागे त्रिविधानि पटलकानि पात्रस्य भवन्ति।इदमेव व्याचेष्टग्रीष्म-शिशिर-वर्षासु प्रत्येकमुत्कृष्टानि मध्यमानि जधन्यानि च । तत्र यानि अत्यन्तद्दढानि तान्युत्कृष्टानि, टेढ-दुर्बलानि मध्यमानि, दुर्बलानिजधन्यानि ॥ इदमेव भावयति[भा.३९७४] गिम्हासु तिन्नि पडला, चउरो हेमंते पंच वासासु । उक्कोसगा उ एए, एत्तो वोच्छामि मज्झिमए॥ वृ-'ग्रीष्मेषु चतुर्खप्युष्णर्तुमासेषुत्रीणि पडलानि भवन्ति, कालस्यात्यन्तरुक्षतया त्वरितमेव पृथवीरजःप्रभृतीनां परितणतेस्तैः पटलकानां भैदासम्भवात्। चत्वारिपटलकानि हेमन्ते' शीतकाले भवन्ति, कालस्य स्निग्धतया विमर्दैन पृथिवीरजःप्रभृतीनां परिणतेः । पञ्च पटलकानि वर्षासु भवन्ति, कालस्यात्यन्तस्त्रग्धत्वात् । एतान्युत्कृष्टानि मन्तव्यानि । अत ऊर्ध्व मध्यमानि वक्ष्ये । प्रतिज्ञातमेवाह[भा.३९७५] गिम्हासु होति चउरो, पंच य हेमंते छच्च वासासु। मज्झिमगा खलु एए, एत्तो उ जहन्नए वोच्छं॥ वृ-ग्रीष्मेषु चत्वारि पटलकानि, हेमन्ते पञ्च, वर्षासु षट्, मनाग् जीर्णतया प्रभूततराणामेव स्वकार्यसाधनान् । एतानि खलु मध्यमकानि मन्तव्यानि । अत ऊर्ध्व जघन्यानि वक्ष्ये ॥ [भा.३९७६] गिम्हासुपंच पडला, हेमंते छच्च सत्त वासासु । तिविहम्मि कालछेए, तिविहा पडला उपायस्स॥ वृ-ग्रीष्मेषुपञ्चपटलकानि, हेमन्ते पट्, वर्षासुसप्त । एतानिजघन्यानि ।एवं त्रिविधे कालच्छेदे त्रिविधानि पटलकानि पात्रस्य भवन्ति ।।उक्तंपटलकानां गणनाप्रमाणम्, अथप्रमाणप्रमाणम्तत्र चविशेषचूर्णि-गच्छनिग्गयाणं चउरंसापडला, जंभाणे मज्झे कए हेट्ठाअट्ठअंगुलाइंलंबंति। गच्छवासीणंजं उग्गाहिए समाणे चउहिं अंगुलेहिं जन्नुएन पावति; अहवा दीहत्तणेण अड्डाइज्जा हत्था, रुंदत्तणेण दिवड्डो हत्थो ॥रजोहरणप्रमाणमाह[भा.३९७७] घनं मूले थिरं मझे, अग्गे मद्दवजुत्तया। एगंगियं अझुसिरं, पोरायाम तिपासियं ॥ वृ-'मूले हस्तग्रहणप्रदेशे रजोहरणं 'घन' निविडवेष्टितम्, ‘मध्ये' मध्यभागे 'स्थिरं' दृढम्, 'अग्रे' दशिकापर्यन्ते 'मार्दवयुक्तता' दशिका मृदुस्पर्शा विधेया इत्यर्थः । “एकाङ्गिक नाम' तज्जातदशिकंन वा ब्यादिखण्डनिष्पन्नम्, 'अशुषिरं' न रोमबहुलं न वा ग्रन्थिलम्, “पोरायाम" तिपर्वायामंअङ्गुष्ठपर्वणि प्रतिष्ठितायाः प्रदेशिन्या यावदपान्तरालंतावप्रमाणायामम्, “तिपासियं" ति त्रिभिर्दवरकवेष्टकैः पाशितं-बद्धम्, एवंविधं रजोहरणं कर्त्तव्यम् । इदमेव स्पष्टतरमाह[भा.३९७८] अप्पोल्लु मिदुपम्हंच, पडिपुन्नं हत्थबूरिमं। तिपरियल्लमणीसटुं, रयहरणं धारए मुनी॥ वृ. 'अप्पोल्लं' ६ढवेष्टनादशुषिरमशुषिरदण्डं वा, तथा मृदूनि-कोमलानि पक्ष्माणि-दशिकारोमाग्रभागरुपाणि यस्य तद् मृदुपक्ष्मकम्, 'प्रतिपूर्ण' बाह्येन निषद्याद्वयेन युक्तंसद् ‘हस्तपूरिमं' यथा हस्तं पूरयति तथा कर्तव्यमित्यर्थः, 'त्रिपरिवर्त' त्रीन् वारान् वेष्टनीयम् ‘अनिसृष्टं नाम' हस्तप्रमाणादवग्रहादस्फेटितम्, एवंविधं रजोहरणं मुनिर्धारयेत् ॥ Page #409 -------------------------------------------------------------------------- ________________ ४०६ बृहत्कल्प-छेदसूत्रम् -२-३/८८ [भा.३९७९] उन्नियं उट्टियं चेव, कंबलं पायपुंछणं । रयणीपमामित्तं, कुजा पोरपरिग्गहं ।। वृ-'और्णिकम्' ऊर्णामयं औष्ट्रिकं वा' उष्ट्ररोममयं यत् कम्बलं तत् ‘पादप्रोञ्छनं रजोहरणं कर्तव्यम् । 'रलिप्रमाणमात्रं’ हस्तप्रमाणायामदण्डकं 'पर्वपरिग्रहम्' अङ्गुष्ठपर्वलग्नप्रदेशिनीशुषिरपूरकम्एवंविधंरजोहरणंकुर्यात् ॥औपग्रहिकोपधिविशेषभूतानांसंस्तारकादीनांप्रमाणमाह- [भा.३९८०] संथारुत्तरपट्टा, अड्डाइज्जा उ आयया हत्थे। तेसिं विक्खंभो पुन, हत्यं चतुरंगुलं चेव ।। वृ-संस्तारकोत्तरपट्टकावर्धतृतीयान् हस्तान् ‘आयतौ दीर्धीभवतः,तयोः 'विष्कम्मः' विस्तारः पुनरेकं हस्तं चतुरङ्गुलं च भवति, चतुर्भिरङ्गुलैरधिको हस्त इत्यर्थः॥. [भा.३९८१] दुगुणो चतुग्गुणो वा, हत्यो चतुरंसो चोलपट्टो उ । एगगुणा उनिसेज्जा, हत्थपमाणा सपच्छाया॥ वृ-द्विगुणश्चतुर्गुणो वा कृतः सन् यथा हस्तप्रमाणश्चतुरस्त्र भवति तथा चोलपट्टकः कर्त्तव्यः। तत्र द्विगुणः स्थविराणाम्, चतुर्गुणस्तरुणानाम्।तथारजोहरणपट्टस्यौर्णिकी निषद्या एकगुणा' गुणनया एकत्वसङ्ख्यायुक्ता प्रमाणेन च हस्तप्रमाणा ‘सप्रच्छादका' तावप्रमाणयैव सौत्रिकया प्रच्छादकनिषद्यया सहिता भवति ॥मुखवस्त्रिकाप्रमाणमाह[भा.३९८२] चउरंगुलं विहत्थी, एयं मुहणंतगस्स उ पमाणं । बितियं पि य प्पमाणं, मुहप्पमाणेण कायव्वं ॥ वृ-'चतुरङ्गुलं' चत्वार्यङ्गुलानि वितस्तिश्चैका एतद् ‘मुखानन्तकस्य' मुखवस्त्रकायाः प्रमाणम्। द्वितीयमप्यत्र प्रमाणं भवति, किम् ? इत्याह-मुखप्रमाणेन मुखानन्तकं कर्तव्यम् । किमुक्तं भवति ? -वसतिं प्रमार्जयन् रजःप्रवेशरक्षणार्थं कोणद्वये गृहीत्वा नासिकां मुखं च प्रच्छाद्य कृकाटिकायां यावता ग्रन्थिं दातुं शक्रोति तावप्रमाणा मुखवस्त्रका कर्तव्या ॥ [भा.३९८३] गोच्छक पडिलेहणिया, पायट्ठवणंच होइ तह चेव। तिण्हं पिय प्पमाणं, विहत्थि चउरंगुलं चेव ॥ वृ-गोच्छकः पात्रप्रत्युपेक्षणिका पात्रकस्थापनं च तथैवात्र प्रमाणतो निरुपणीयं भवति । कथम् ? इत्याह-'त्रयाणामपि' गोच्छकादीनां प्रमाणं वितस्तिश्चतुरङ्गुलं च भवति, षोडशाङ्गुलप्रमाणानिचतुरस्त्राणित्रीण्यपि भवन्तीतिभावः॥ तदेवमुक्तंपात्र-मात्रकवर्जितानांशेषोपकरणानां प्रमाणम्, पात्र मात्रकयोस्तुवस्त्रधिकारादत्रन क्रियते, पुरस्ताद् विद्यास्यते।इह स्थविरकल्पिकानां त्रयः प्रच्छादका भवन्तीति पूर्वमुक्तं तदिदानीं द्रढ्यन्नाह[भा.३९८४] जो वि तिवत्थ दुवत्थो, एगेन अचेलगो वसंथरइ। नहु ते खिंसंति परं, सव्वेण वि तिन्नि घेत्तव्वा ॥ वृ-योऽपि साधुः त्रिवस्त्र द्विवस्त्र वा संस्तरति, त्रिभिभ्यिां वा कल्पैरित्यर्थः, सत्रीन् द्वौ वा कल्पान् परिभुङ्क्ताम्, योऽप्येकेन कल्पेन संस्तरति स एकमेव परिभुताम्, यो वा जिनकल्पिकादिरचेलकः संस्तरति स एकमपिकल्पंमा गृह्णातु, परं 'नहि' नैव 'ते' स्वल्पतरवस्त्र अचेलका वा ‘परम्' अन्यमधिकतरवस्त्र खिंसन्ति । कृतः ? इति चेद् उच्यते-सर्वेणापि Page #410 -------------------------------------------------------------------------- ________________ उद्देशक : ३, मूलं-८८, [भा. ३९८४] ४०७ स्थविरकल्पिकेनत्रयः कल्पा नियमाद्ग्रहीतव्याः। यद्यपि शीतपरीषहसहिष्णुतयाकश्चिदेकेनापि कल्पेनाप्रावृतः संस्तरति तथापि भागवतीमाज्ञामनुवर्तमानः सोऽपि त्रीन् कल्पान् गृह्णाति ॥ किमर्थं पुनरीशी भगवतामाज्ञा? इति उच्यते[भा.३९८५] अप्पा असंथरंतो, निवारिओ होइ तीहि वत्थेहिं । गिण्हति गुरुविदिन्ने, पगासपडिलेहणे सत्त॥ वृ- 'आत्मा' शरीरं स शीतादिना 'असंस्तरन् त्रिभिर्वस्त्रर्निवारितो भवति । तथा चात्र विशेषचूर्णिलिखितो भावार्थ- उस्सग्गेणं न चेव पाउरियव्वं । जाहे न संथरइ ताहे एकंपाउणइ । जाहे तेन विन संथरेज्जा ताहे बिइयं पि उन्नियं पाउणेयं पाउणेजा । जाहे तेन विन संथरेज्जा ताहे तइयं पि पाउणिज्जा । जइ नाम तह विन संथरेज्जा ताहे तिन्नि वि छड्डेऊण बाहिं पडिमाए ठाइ, ताव अच्छइ जाव सीएणं नीसटुं द्रावितो, पच्छा तम्मि चेव निवेसइ । जइ तत्थ न संथरेजा ताहे अंतो पडिमंठाइ, तत्थ झाणोवगओ चिट्ठइ।जइन संथरइ ताहे बिइयं, ततो तइयं, तत्थ से अईव सायं भवइ । एवं अप्पा तिहिं वत्थेहिं निवारिओ हवइति । अथ तानि परिजीर्णानि ततो न त्रिभिः शीतं निवारयितुं पार्यते तत आह-गुरुभिः- आचार्यैर्वितीर्णानि 'प्रकाशप्रत्युपेक्षणानि' जीर्णत्वादचौरहरणीयानि सप्त वस्त्रण्युत्कर्षतो गृह्णाति इदमेव स्पष्टयति[भा.३९८६] तिन्नि कसिणे जहन्ने, पंच य दढदुब्बलाइंगेण्हेजा। सत्त य परिजुन्ना, एयं उक्कोसगं गहणं ॥ वृ-कृत्स्नानि नाम-घनमसृणानि यैरन्तरितः सवितान:श्यते ईशानि त्रीणिवस्त्रणिजघन्यतो गृह्णीयात्, यानि तु दृढदुर्बलानि तानि पञ्च गृह्णीयात्, यानि परिजीर्णानि तानि सप्त । एतदुत्कृष्टं ग्रहणं मन्तव्यम् ।। कीदृशं पुनरुपधि भिक्षुर्धारयति? इत्याह[भा.३९८७] भिन्नं गणनाजुत्तं, पमाण इंगाल-धूमपरिसद्धं । उवहिं धारए भिक्खू, जो गणचिंत्तं न चिंतेइ ॥ वृ-'भिन्नं नाम' सदशं सकलं वा यन्नभवति, 'गणनायुक्तं' गणनाप्रमाणोपेतम्, प्रमाणेन चयथोक्तदैy-विस्तरविषयमानेन युक्तमित्यनुवर्तुते, तथा अङ्गार-धूमाभ्यां राग-द्वेषपरिणामाभ्यां परि-समन्तात् शुद्धं-विरहितम्, एवंविधमुपधिं स भिक्षुर्धारयेत्, यो गणचिन्तां न चिन्तयति, सामान्यसाधुरिति भावः । यस्तु गणचिन्तकस्तस्य न प्रतिनियतमुपधिप्रमाणम् ॥ तथा चाह[भा.३९८८] गणचिंतगस्स एत्तो, उक्कोसो मज्झिमो जहन्नो य । सव्वो वि होई उवही, उवग्गहकरो महानस्स ।। वृ-गणचिन्तकः-गणावच्छेदिकादिस्तस्य सत्तायामतऊर्द्धउत्कृष्टोमध्यमोजघन्यश्च सर्वोऽपि' औधिक-औपग्रहिकश्चोपधिर्महाजनस्योपग्रहकरो भवति ।। इदमेव भावयति[भा.३९८९] आलंबने विसुद्धे, दुगुणो तिगुणो चउग्गुणो वा वि । सव्वो वि होइ उवही, उव्वग्गहकरो महानस्स। वृ-आलम्बनं द्विधा-द्रव्यतोगर्तादौ निमज्जतोरजवादि, भावतः संसारगर्तायांनिपततांज्ञानादि। इह पुनर्यत्र क्षेत्रे काले वा दुर्लगं वस्त्र तदादिकमालम्बनं गृह्यते, तत्र 'विशुद्धे' प्रशस्ते सति द्विगुणो वा त्रिगुणो वा चतुर्गुणो वा औधिक औपग्रहिकश्चोपधि सर्वोऽपि ‘महाजनस्य' Page #411 -------------------------------------------------------------------------- ________________ ४०८ बृहत्कल्प-छेदसूत्रम् -२-३/८८ गच्छस्योपग्रहकरो भविष्यतीति कृत्वा गणचिन्तकस्य परिग्रहे भवतीति ॥ गतं प्रमाणद्वारम्, अथातिरिक्त- हीनद्वारमाह[भा. ३९९०] पेहा-पेहादोसा, भारो अहिकरणमेव अतिरित्ते । एए भवंति दोसा, कज्जविवत्तीय हीनम्मि ॥ वृ- अतिरिक्तमुपधिं यदि प्रत्युपेक्षते तदा सूत्रा - ऽर्थयोर्महान् परिमन्थः, अथ न प्रत्युपेक्षते तत उपधिनिष्पन्नम्, एवं प्रेक्षा - S प्रेक्षयोरुभयोरपि दोषाः । भारश्च महान् मार्गे गच्छतां भवति । अपरिभोग्यस्य चोपधेर्धारणे अधिकरणम् । एतेऽतिरिक्ते दोषा भवन्ति । अथ 'हीनं' यथोक्तप्रमाणाद् न्युनमुपकरणं भवति ततः कार्यस्य विपत्ति, यत् तेन कल्पादिना कार्यं तन्न सिध्यतीति भावः ।। अथ परिकर्मणिद्वाहमाह [भा.३९९१] परिकम्मणि चउभंगो, कारणे विहि बितिओं कारणे अविहि । निक्कारणम्मि उ विहि, चउत्थो निक्कारणे अविहि ॥ वृ- परिकर्मणायां चतुर्भङ्गी, गाथायां पुंस्त्वं प्राकृतत्वात् । सा चेयम् - कारणे विधिना परिकर्मणमित्येको भङ्गी, कारणेऽ विधिनेति द्वितीयः, निष्कारणे विधिनेति तृतीयः, निष्कारणेऽविधिनेति चतुर्थः ॥ [ भा. ३९९२] कारणे अणुन विहिना, सुद्धो सेसेसु मासिका तिन्नि । तव कालेसु विसिट्ठा, अंते गुरुगा य दोहिं पि ॥ वृ- कारणे विधिना परिकर्मणमनुज्ञातम्, अत एवायं प्रथमो भङ्गः शुद्धः । 'शेषेषु' त्रिषु भङ्गेषु त्रीणि मासिकानि भवन्ति, नवरं तपः कालयोर्विशिष्टानि-तत्र द्वितीयभङ्गे कालगुरुकम्, तृतीये तपोगुरुकम्, 'अन्त्ये' चतुर्थभङ्गे 'द्वाभ्यामपि ' तपः - कालाभ्यां गुरुकम् । अत्र च गर्गरसीवनादिकम् अविधिपरिकर्मणं मन्तव्यम् । एकसरा द्विसरा ऋषकण्टकाच सीवनिका विधिपरिकर्मणं समनुज्ञातम् ।। विभूषाद्वारमाह [भा. ३९९३] उदाहडा जे हरियाहडिए, परेहि धोयाइपया उ वत्थे । भूसानिमित्तं खलु ते करिंति, उग्घातिमा वत्थे सवित्थरा उ ॥ वृ- प्रथमोद्देशके हृताहृतिकासूत्रे 'परैः' स्तेनैः कृतानि धौतादिपदानि यानि वस्त्रे उदाहृतानि तानि यद्यात्मनो विभूषानिमित्तं करोति तदा सविस्त राश्चत्वार उद्धातिमा मासा भवन्ति । इयमत्र भावना-विभूषानिमित्तं यद्यात्मीयं वस्त्रं प्रक्षालयति रजति घृष्टं मृष्टं वा करोति पटवासादिना वा वासयति तदा चतुर्लघुकम् । सविस्तरग्रहणाद् धौतादिपदानि कुर्वतो या आत्मविराधना तन्निष्पन्नमपि प्रायश्चित्तम् ॥ किमर्थं पुनर्विभूषामासेवते ? इत्याह [भा. ३९९४] मलेन घत्थं बहुना उ वत्थं, उज्झाइगो हं चिमिणा भवामि । हं तस्स धोव्वम्मि करेमि तत्तिं वरं न जोगो मलिनान जोगो । वृ- इदं मदीयं वस्त्र बहुना मलेन 'ग्रस्तम्' आपूरितम्, अतोऽनेनाहं " उज्झाइओ' विरुपो भवामि । यतश्चाहं विरुप उपलभ्ये ततः 'तस्य' वस्त्रस्य धौतव्ये तप्तिमहं करोमि, येन गोमूत्रादिना शुध्यति तदानयामीत्यर्थः । कुतः ? इत्याह- वरं मे वस्त्रेण सह न योगः, परं मलिनवस्त्रेणं योगो न वरम्, मलिनवस्त्रप्रावरणादप्रावरणमेव श्रेय इति भावः । कारणे तु वस्त्र धावन्नपि शुद्धः ॥ Page #412 -------------------------------------------------------------------------- ________________ ४०२ उद्देशक : ३, मूलं-८८, [भा. ३९९४] परः प्राह-ननुवस्त्रघावने विभूषा भवति, साच साधूनां कर्तुंन कल्पते, “विमृसा इत्थिसंसग्गी" इत्यादिवचनात्; सूरिराह[भा.३९९५]कामं विभूजा खलु लोभदोसो, तहा वितं पाउणओ न दोसो। माहीलणिज्जो इमिणा भविस्सं, पुविड्डिमाई इय संजई वि॥ वृ-'कामम्' अनुमतमेतत्, ‘खलुः' अवधारणे, यैषा विभूषासा लोभदोष एव, तथापि तद्' वस्त्रं शुचि भूतं कारणे कृत्वा प्रावृण्वतोनदोषः। कस्य? इत्याह-यःपूर्वराजादिक ऋद्धिमानासीत् सताशीमृद्धिं विहाय प्रव्रजितः सन् चिन्तयति-माऽमुना मलक्लिन्नवाससा अबुधजनस्येहलोकप्रतिबद्धस्य हीलनीयो भविष्यामि, यथा-नूनं केनापि देवादिना शापशप्तोऽयम्, यदेवं ताशी विभूतिं विहाय साम्प्रतमीशीमवस्थां प्राप्तः । आदिशब्दादाचार्यादिरप्येवमेव शुचिभूतं वस्त्रं प्रावृणोति । संयत्यपि ऋद्धिमत्प्रव्रजिता नित्यं पाण्डुरपटप्रावृता तिष्ठति पर्यटति वा ।। शुचिभूतं वस्त्र प्रावृण्वतस्तस्य कथं रागो भवति? इत्याह[भा.३९९६] न तस्स वत्थाइसु कोइ संगो, रज्जं तणं चेव जढं तु तेनं। जो सो उ उज्झाइय वत्थजोगो, तं गारवा सो न चएति मोत्तुं॥ वृ-योऽसौ ऋद्धिमान् प्रव्रजितस्तस्य वस्त्रदिषु 'कोऽपि' स्वल्पोऽपि “सङ्गः' रागो नास्ति, यतः 'तेन' महात्मना राज्यं तृणमिव परित्यक्तम्: यः पुनरसौ “उज्झाइओ" विरुपोऽहममुना मलविलीनेन वाससा इत्येवमभिप्रायेण धौतादिगुणोपेतस्य वस्त्रस्य योगस्तमसौ विभूषाप्रियः संयतः “गारव" त्ति ऋद्धिगौरवान्न मोक्तुं शक्रोति, अतस्तस्य प्रायश्चित्तमुक्तमिति भावः॥ गतं विभूषाद्वारम् । अथ मूर्छाद्वारमाह[भा.३९९७] महद्धने अप्पधने व वत्थे, मुच्छिज्जती जो अविवित्तभावो । . सतं पिनो भुंजति मा हु झिज्झे, वारेति चऽनं कसिणा दुगा दो। कृ'महाधने' माहमूल्ये अल्पधनेवा' अल्पमूल्येवस्त्र यः ‘अविविक्तभावः' विवेकविकलाशयः 'मूर्च्छति' मूर्छा करोति; कथमेतद् ज्ञायते? इत्याह-स्वयमपि तत्प्रधानं वस्त्र न परिभुङ्क्ते ‘मा क्षीयता' मा परिभुज्यमानं सत् परिजीर्यतामिति कृत्वा, 'अन्य' परिभुञानं च वारयति, तस्य प्रायश्चित्तम् ‘कृत्वाः' सम्पूर्णा "दुगा दो" ति चत्वारो मासाः, चतुर्गुरुकमित्यर्थः ।। अथ किमर्थं वस्त्र मूर्छा करोति? इत्याह[भा.३९९८] देसिल्लगं वन्नजुयं मणुन्नं, चिरादनं दाइं सिनेहओ वा। लब्भं च अन्नं पि इमप्पभावा, मुच्छिज्जई ईय भिसं कुसत्तो ।। वृ- “देसिल्लगं" देशविशेषोद्भवम्, 'वर्णयुतं' वर्णाढ्यम्, स्वदेशीयं परदेशीयं वा श्लेक्ष्णं स्थूलं वा यद् मनसो रुच्यते तद् मनोज्ञम्, 'चिरन्तनं नाम' यदाचार्यपरम्परागतम्, “दाई" ति निपातो विकल्पार्थे, येन वा तत्प्रदत्तं तस्योपरि महान् स्नेहः, यद्वाऽमुना वस्त्रेण तिष्ठताऽहमन्यदपि वस्त्रमेततप्रभावादेव लप्स्ये, एवमेभिः कारणैः 'भृशम्' अत्यर्थं 'कुसत्त्वः' तुच्छधृतिबलो मूर्च्छति, मूतिश्च न विवक्षितं वस्त्र परिभुङ्क्ते ॥ उक्तो वस्त्रविषयो विधिः, अथ पात्रविषयं तमेवाभिधित्सुराह[भा.३९९९] दव्वप्पमाणअतिरेगहीनदोसा तहेव अववाए। Page #413 -------------------------------------------------------------------------- ________________ ४१० बृहत्कल्प-छेदसूत्रम् -२-३/८८ लक्खणमलक्खणं तिविह उवहि वोच्चत्थ आणादी॥ [भा.४०००] को पोरुसी य कालो, आगर चाउल जहन्न जयणाए। चोदगअसती असिव, प्पमाण उवओग छेयण मुहे य॥ वृ-द्रव्यमिह-पात्रंतस्य यद् वक्ष्यमाणं प्रमाणं ततोऽतिरिक्ते हीने च पात्रे दोषा वक्तव्याः वा अलक्षणम्? ३। त्रिविधः' उत्कृष्टादिभेदाद्यथाकृतादिभेदाद्वा त्रिप्रकार उपधिर्यथा गृह्यते ।। यथोक्तक्रमाच्च विपर्यस्तेन ग्रहणे प्रायश्चित्तमाज्ञादयश्च दोषाः ५॥ तथा “को" ति कः पात्रं गृह्णाति? ६। “पोरिसि"त्तिबहुबन्धनबद्धं पात्रंधारयतासूत्राऽर्थपौरुष्यौ द्वे अपि हापयित्वाऽपरं पात्रं गवेषणीयम्७ । “कालो" ति तस्य च गवेषणे कियान् कालः? इति ८ ‘आकरः' कुत्रिकापणादियत्रपात्रंगवेष्यमाणंलभ्यते ९।“चाउल" तितन्दुलधावनेन उपलक्षणत्वादुष्णोदकादिना वा भावितं किं कल्पते ? न वा? इति १० । “जहन्न जयण" त्ति जघन्यं पञ्चकप्रायश्चित्तम्, जघन्यानि वा-सर्षपादीनि बीजानि तद्युक्तमपि पात्रं यतनया ग्रहीतव्यम् ११।नोदकः प्रेरयतिकथं बीजभृतमपि पात्रमनुज्ञायते ? १२ । सूरिराह-यदेतद् बीजयुक्तपात्रग्रहणमनुज्ञातं तद् 'असत्तायां' पात्रकस्याभावे, यत्र वा भाजनानि लभ्यन्ते तत्र अपान्तराले वा अशिवम् १३ । “पमाण उवओग छेयण"त्ति यदि प्रमाणयुक्तं पात्रं न लभ्यते तत उपयोगपूर्वकं पात्रस्यच्छेदनं विधाय प्रमाणं विधेयम् १४ । “मुहे" त्ति अल्पपरिकर्म-सपरिकर्मकयोर्मुखकरणं सम्भवति न यथाकृते १५। एवमेतानि द्वाराणि प्ररुपणीयानीति द्वारगाथाद्वयसङ्केपार्थः ।। साम्प्रतमेतदेव विवरीषुराह[भा.४००१] पमाणातिरेगधरणे, चउरो मासा हवंति उग्घाया। आगाइणो य दोसा, विराधना संजमा-ऽऽयाए॥ वृ-प्रमाणातिरिक्तपात्रकस्य धारणे चत्वारो मासा उद्घातिका भवन्ति, आज्ञादयश्च दोषाः, विराधना व संयमा-ऽऽत्मविषया ।। इदमेव भावयति[भा.४००२] गणनाए पमाणेण य, गणनाए समत्तओ पडिग्गहओ। पलिमंथ भेरुटुंड्डग, अतिप्पमाणे इमे दोसा॥ वृ-गणनया प्रमामेन च पात्रकस्य प्रमाणं द्विविधम् । तत्र गणनायां समात्रकः' मात्रकसहितः प्रतिग्रहोमन्तव्यः । अथ इतऊर्ध्वतृतीयादिकंपात्रंधारयतिततः परिकर्मण-रङ्गनादौप्रत्युपेक्षणादिषु च महान् परिमन्थो भवति, अध्वनि बहूनि पात्राणि बहमानस्य भारः, बहूपकरणश्च ‘उडुण्डुकः' जनोपहास्यो भवति, अहो ! भारवाहकोऽयमिति । तत्र च ‘अतिप्रमाणे' प्रमाणद्वयातिरिक्ते पात्रे एते दोषाः । तद्यथा[भा.४००३] भारेण वेयणा वा, अभिहणमाई न पेहए दोसा । रीयाइ संजमम्मि य, छक्काया भाणभेओ य॥ वृ-प्रभूतपात्रवहने भारेणाक्रान्तस्य वेदना, तयाऽदितो गो-हस्ति-तुरङ्गमादीनमिघातं-प्रहारं प्रयच्छति, न पश्यति, आदिशब्दात् स्थाणु-कण्टकादीनि न प्रेक्षते, एवमात्मविराधनायां दोषाः। संयमविराधनायाम् ईर्यादिकंन शोधयति, ततश्चषट्कायविराधना, अनुपयुक्तो वा प्रस्खलितो भाजनभेदमपि विदध्यात् ।। एते गणनातिरिक्ते दोषा उक्ताः, प्रमाणातिरिक्ते तुपात्रे इमेदोषाः F Page #414 -------------------------------------------------------------------------- ________________ उद्देशकः३, मूलं-८८, [भा. ४००४] ४११ [भा.४००४] भाणऽप्पमाणगहणे, भुंजणे गेलनऽभुंज उज्झिमिगा। एसणपेलण भेओ, हानि अडते दुविह दोसा॥ वृ. “भाणऽप्पमाण' त्ति अकारप्रश्लेषाद् ‘अप्रमाणस्य' अतिबृहत्तरप्रमाणस्य भाजनस्य, ग्रहणे इमे दोषाः-तदतिबृहत्तरं भाजनं परिपूर्णमपि भृत्वा यदि सर्वमपि भुङ्कते ततो ज्वरादिकं ग्लानत्वं भवेत् । अथ न भुङ्क्ते ततः 'उज्झिमिका' परिष्ठापनिका भवति । अतिबृहत्तरं च पात्रं यदा चिरेणापि न पूर्यते तदा एषणाप्रेरणं कृत्वाऽपि बिभृयात् । भरितं चातिभारेण प्रतिस्खल्य भेदमुपगच्छेत् । ततो भाजनेन विना या आत्मनः कार्यपरिहाणिस्तन्निष्पन्नं प्रायश्चित्तम् । गुरुत्वेन चात्म-संयमविराधानालक्षणा द्विविधा दोषाभवन्ति-तत्रात्मविराधनायांपर्यटतोऽतिभारेण कटीस्कन्धादिकं परिताप्येत, संयमविराधनायामीर्यामशोधयन् षट्कायान् विराधयेत् ॥ गतमतिरिक्तद्वारम् । अथ हीनद्वारमाह[भा.४००५] हीनप्पमाणधरणे, चउरो मासा हवंति उग्धाया। - आणादियो य दोसा, विराधना संजमा-ऽऽयाए॥ वृ-यत् प्रतिग्रहस्य मात्रकस्य वा प्रमाणं वक्ष्यते ततो हीनं यदि धारयति तदा चत्वारो मासा उद्धातिमा भवन्ति, एतच्च प्रतिग्रहे मन्तव्यम् । मात्रके तु मासलघु । आह च निशीथचूर्णिकृतेपडिग्गहगे चउलहुं, मत्तगे मासलहुं । आज्ञादयश्च दोषाः, विराधना च संयमा-ऽऽत्मविषया ।। इदमेव भावयति[भा.४००६] ऊनेन न पूरिस्सं, आकंठा तेन गिण्हती उभयं । मा लेवकडं ति पुनो, तत्थुवओगो न भूमीए॥ -अनेन प्रमाणहीनेन 'ऊनेन' अभरितेन नाहमात्मानं पूरयिष्ये, तत आकण्ठात्तत्र भाजने 'उभयमपि' कूरं कुसणं च गृह्णाति । ततो मा पात्रबन्धो लेपकृतो भवत्विति कृत्वा 'तत्रैव' पात्रकबन्धखरण्टने उपयोगो भवति, न पुनभूमौ ॥ अनुपयुक्तस्य चेमे दोषाः[भा.४००७] खाणू कंटग विसमे, अभिहणमाई न पेहए दोसे । रीया पगलिय तेनग, भायणमेए य छक्काया।। वृ- ईर्यायामनुपयुक्तः स्थाणुना कण्टकेन वा विध्यते, विषमे वा भूभागे निपतेत्, गवादिकृताभिघातादींश्च दोषान् न प्रेक्षते, इयमात्मविराधना।संयमविराधना त्वेवम्-अनुपयुक्त ईर्यां न शोधयते, भाजनाच्च भक्तं पानकं वा परिगलेत, तच्च प्रगलितं विलोक्य स्तेनाः ‘परिपूर्ण भृतमिदं भाजनमस्ति' इति परिभाव्यापहरेयुः । अथ कुत्रापि प्रस्खलितस्ततो भाजनभेदः षट्कायविराधना वा भवेत्॥ [भा.४००८] गुरु पाहुण अम दुब्बल, बाले वुड्डे गिलाण सेहे य । लाभाऽऽलाभऽद्धाणे, अनुकंपा लाभवोच्छेदो। कृ-प्रमाणहीनंभाजनंधारयता गुरु-प्राधुणक-क्षपक-दुर्बला बालोवृद्धो ग्लानः शैक्षश्चपरित्यक्ता मन्तव्याः। तथा क्षेत्रप्रत्युपेक्षणार्थंप्रेषितस्तेन लघीयसा भाजनेन कथं लाभा-ऽलाभपरीक्षांकरोतु? छिन्नाध्वनि वा कश्चिद् दानश्रद्धालुरनुकम्पया यद् यदुपस्थाप्यते तत् तद् भाजनं भरति, तत्र गच्छसाधारणं भाजनमुपस्थापयितव्यम् । हीनभाजने पुनरुपस्थाप्यमानेतस्य लाभस्य व्यवच्छेदो Page #415 -------------------------------------------------------------------------- ________________ ४१२ बृहत्कल्प-छेदसूत्रम् -२-३/८८ भवति, निर्जरायाश्च लाभो न भवतीति सङ्क्षपहगाथासमासार्थः॥ अथैनामेव विवरीषुः प्रथमतः प्रायश्चित्तमाह[भा.४००९] गुरुगा य गुरु-गिलाणे, पाहुण-खमए य चउलहू होति । सेहस्स होइ गुरुओ, दुब्बल जुयले य मासलहु॥ वृ-गुरुणां ग्लानस्य चोपष्टम्भमकुर्वतश्चतुर्गुरुकाः । प्राघुणकस्य क्षपकस्य चोपष्टम्भाकरणे चतुर्लघवो भवन्ति । शैक्षस्यादाने मासगुरुकः। दुर्बलस्य 'युगलस्य च' बाल-वृद्धलक्षणस्यादाने मासलघु ॥ [मा.४०१०] अप्प-परपरिच्चाओ, गुरुमाईणं अदेंत-देंतस्स। अपरिच्छिए य दोसा, वोच्छेओ निजाराऽलाभे ॥ वृ-लघुतरभाजनगृहीतं गुर्वादीनां यदि ददाति तत आत्मपरित्यागः, अथ स्तोकमिति कृत्वा न ददाति ततो गुर्वादीनां परेषां परित्यागः कृतो भवति । तथा प्रमाणहीनं भाजनं गृहीत्वा क्षेत्रप्रत्युपेक्षणार्थंगतः कथं लाभा-ऽलाभंपरीक्षताम् ? ततोऽपरीक्षित क्षेत्रेयेदोषास्तेमन्दपरीक्षिते मन्तव्याः । अध्वनि प्रपन्नानां च सङ्खडिर्भवेत्, दानश्राद्धो वा कश्चिदनुकम्पया प्रभूतं भक्त-पानं दद्यात् यद्वा स्वस्थानेऽपि धृतादि साधारणद्रव्यं लभ्येत तत्र लघुतरभाजने भक्त-पान-लाभस्य निर्जरायाश्च व्यवच्छेदो भवति ॥अथ क्षुल्लकभाजनस्यैव दोषान्तराभिधानायाह[भा.४०११] लेवकडे वोसट्टे, सुक्खे लग्गे य कोडिते सिहरे। एए हवंति दोसा, डहरे भाणे य उड्डाहो ॥ वृ-तक्रादिना तदवमप्रमाणं भाजनमाकण्ठमापूरितं ततो “वोस?" त्ति प्रलुठिते तक्रादौ तद् भाजनंलेपकृतंक्रयते । अथपात्रलेपनभयात् तत्रशुष्कमेव भक्तंगृह्णाति ततस्तद्भक्तंभुञानस्य गलके उदरे वा लगेत्, लग्ने च तत्राजीर्ण भवेत् । “कोडियं" ति गाढचम्पितं चम्प्यमानं वा पात्रकं भज्येत । 'शिखरं वा' पात्रस्योपरि भक्तस्य शिखां कुर्वन्तं दृष्टवा लोको ब्रूयात्-अहो ! असन्तुष्टा बहुभक्षका अमी; एवमुड्डाहो भवेत् । एते डहरे भाजने दोषाः ।। अथैनामेव भावयति[भा.४०१२] धुवणा-ऽधुवणे दोसा, वोसटुंते य काय आउसिणे । सुक्खे लग्गाऽजीरग, कोडिय सिहरे य उड्डाहो । वृ- अतिभृतत्वेन तक्र-तीमनादीनी प्रलोठ्यता यत् पात्रकं लेपकृतीकृतं तस्य घावनाऽधावनयोरुभयोरपि दोषाः। तत्र धावने प्लावनादयः, अधावनेतुरात्रिभोजनव्रतभङ्गः । “वोसटुंते य" परिगलति भक्त-पाने षन्नां कायानां विराधना । अथवा तेनोष्णेन परिगलता दिग्धशरीरस्यात्मविराधना।शुष्केच भक्तेऽतिमात्रं भुज्यमाने गलके उदरेवा लग्नेऽजीर्णं भवेत्, तत्र च ग्लानारोपणा।“कोडितं" गाढंचप्पितं सन्तत् पात्रकं भज्येत। 'शिखरेच' भक्तस्योपरि शिखायां विधीयमानायां उड्डाहो भवति । यत एवमादयो दोषास्ततःप्रमाणयुक्तमेव ग्रहीतव्यम्॥ कीशं पुनस्तत् प्रमाणम् ? इत्याशङ्कय प्रमाणमाह[भा.४०१३] तिन्नि विहत्थी चउरंगुलं च भाणस्स मज्झिमपमाणं । - एत्तो हीन जहन्नं, अतिरेगयरंतु उक्कोसं॥ वृ- पात्रस्य परिधिर्दवरकेण भीयते, तत्र च मिते यदा स मानदवरकस्तिस्त्र वितस्त Page #416 -------------------------------------------------------------------------- ________________ उद्देशक : ३, मूलं-८८, [भा. ४०१३] - ४१३ यश्चत्वार्यङ्गलानि च भवन्तितदा तस्य 'भाजनस्य पात्रकस्यतद् मध्यमप्रमाणम्। इतः' मध्यमप्रमाणाद् हीनं यत् पात्रं तद् जधन्यम् । 'अतिरिक्ततरं तु' मध्यमप्रमाणाद् बृहत्तरमुत्कृष्टम् ।। अथवा [भा.४०१४] उक्कोसतिसामासे, दुगाउअद्धाणमागओ साहू । चउरंगुलवजं भत्त-पान पज्जत्तियं हेट्ठा ॥ वृ-उत्कृष्टस्तृड्मासः स उच्यते यस्मिन् अतीवप्रबला पिपासा समुल्लसति, सचज्येष्ठ आषाढो वा; तस्मिन् काले द्विगव्यूतप्रमाणादध्वन आगतो यः साधुः तस्येशकाला-ऽध्वखिन्नम्य यत् 'चतुरङ्गुलवर्जम्' उपरितनैश्चतुर्भिरडलैन्यूनमधस्ताद्भक्त-पानस्य भृतंपर्याप्तं भवति तदित्यम्भूतं पात्रकस्य प्रमाणं मन्तव्यम् ॥ [भा.४०१५] एयं चेव पमाणं, सविसेसयरं अनुग्गहपवत्तं । कंतारे दुभिक्खे, रोहगमाईसु भइयव्वं ॥ .. वृ- एतदेव प्रमाणं 'सविशेषतरं' समधिकतरं यस्य भाजनस्य भवति तद् ‘अनुग्रहप्रवृत्तं' गच्छस्यानुग्रहार्थं प्रवर्तते । कथम्? इत्याह-‘कान्तारे' महत्यामटव्यां वर्तमानस्य तदुत्तीर्णस्य वा गच्छस्यानुग्रहार्थं तद् गृहीत्वा वैयावृत्यकरः पर्यटति, दुर्भिक्षेऽप्यलभ्यमानयां भिक्षायां तद्गृहीत्वा चिरमटित्वा बालादिभ्यो ददाति, एवं नगरस्य रोधके साते आदिशब्दादपरेषु वा भयविशेषेषु कश्चिद् दानश्रद्धालुर्यावदेकस्मिन् भाजने माति तावत् प्रचुरतरमपि भक्त-पानं दद्यात्, तत्र तद् अतिरिक्तभाजनं भक्तव्यं सेवनीयम् ।।अथापवादद्वारममिधित्सुर्यै कारणैरधिकं हीनं वाधारयति तानि तावदर्शयति[भा.४०१६] अन्नाणे गारवे लुद्धे, असंपत्ती य जाणए।। लहुओ लहुया गुरुगा, चउत्थो सुद्धो उ जाणओ कृ-यदि अज्ञानेन हीन-ऽधिकप्रमाणं भाजनंधारयति ततो लघुमासः । गौरवेणधारयतश्चत्वारो लघवः । लोभनं-लुब्धं लोभ इत्यर्थः, तेन धारयतश्चत्वारो गुरवः ।असम्प्राप्तिमि-प्रमाण-युक्तस्य पात्रस्याप्राप्तिस्तस्यां यो हीना-ऽतिरिक्तं धारयति सः 'चतुर्थ' असम्प्राप्तिधारकः शुद्धः । तथा ज्ञायको नाम-पात्रलक्षणा-ऽलक्षणवेदी स लक्षणयुक्तं हीना-ऽधिकप्रमाणमपि धारयन् शुद्ध इति द्वारश्लोकसमासार्थः॥अथैनमेव विवृणोति[भा.४०१७] हीना-ऽदिरेगदोसे, अजाणओ सो धरिज हीन-ऽहियं । पगईय थोवभोगी, सति लाभे वा करेतोमं ।। वृ- पात्रस्य ये हीना-ऽतिरिक्तविषया दोषाः पूर्वमुक्तास्तान् यो यतिर्न जानीते स हीनाऽधिकप्रमाणंधारयेत्।तथा कश्चिऋद्धिगौरवगुरुकः सत्यपि भक्त-पानलाभेप्रकृत्यैव स्तोकभोजी 'स्वल्पाहारोऽयं महात्मा' इति ख्यापनार्थम् ‘नवमं हीनप्रमाणं भाजनं करोति ।। किं पुनस्तस्य ऋद्धिगौरवम् ? इत्याह[भा.४०१८] ईसरनिक्खंतो वा, आयरिओ वा विएस डहरेणं। , इति गारवेण ओमं, अइप्पमाणं चिमेहिं तु ।। वृ-'ईश्वरनिष्क्रान्तो वा' राजादिमहर्द्धिकप्रव्रजितः, आचार्यो वा एष साधुर्यदेवं 'डहरेण' Page #417 -------------------------------------------------------------------------- ________________ ४१४ बृहत्कल्प-छेदसूत्रम् -२-३/८८ लघुना भाजनेन भिक्षां पर्यटति, 'इति' एवं 'गौरवेण' यशःप्रवादलिप्सालक्षणेनावमं भाजनं करोति । अतिप्रमाणं पुनः पात्रममुना कारणेन करोति ॥ [भा.४०१९] अनिगूहियबल-विरिओ, वेयावच्चं करेति अहो! समणो। ममतुल्लो न य कोयी, पसंसकामी महल्लेणं॥ वृ-'अर्थ' इत्युपन्यासे । अहो! अयं श्रमणः पुण्यात्मा अनिगृहितबल-वीर्यो महता भाजनेन सकलस्यापि गच्छस्य वैयावृत्यं करोति, एवं प्रशंसाकामी नास्ति कोऽपि मम बाहुबलमगीकृत्य 'तुल्यः' सध्श इति ख्यापनार्थमतिरिक्तं भाजनं करोति ॥ अथ लुब्धपदं व्याचेष्ट[भा.४०२०] अंतं न होइ देयं, थोवासी एस देह से सुद्धं । उक्कोसस्स व लंभे, कहि घेच्छ महल्ल लोभेणं ॥ वृ-क्षुल्लकभाजनेन गृहाङ्गणस्थितं साधुं दृष्ट्वा गृहस्वामी भणति-'स्तोकाशी' स्तोकाहारोऽयं मुनि अतोऽस्यान्तप्रान्तंभक्तंनदेयम्, किन्तु 'शुद्धम्' उत्कृष्टद्रव्यम् अस्य प्रयच्छथ, एवं विचिन्त्य लुब्धतया हीनप्रमाणं करोति । तथा 'उत्कृष्टस्य' शालि-मुद्रदाल्योदेव्यस्य प्रभूतस्य लाभे सति चिन्तयति-अनेन प्रमाणोपेतभाजनेन पूर्वसामान्यभक्तस्य भृतेन पश्चादुत्कृष्टद्रव्यं लभ्यमानं कुत्र ग्रहीष्यामि? इति विचिन्त्य लोभेन महत्तरंभाजनंगृह्णाति॥अथासम्प्राप्ति-ज्ञायकपदे व्याख्याति[भा.४०२१] जुत्तपमाणस्सऽसती, हीन-ऽतिरित्तं चउत्थो धारेति। लक्खणजुय हीन-ऽहियं, नंदी गच्छ? वा चरिमो॥ वृ-युक्तप्रमाणं-यथोक्तप्रमाणोपेतं तद्अनेकशो गवेष्यमाणमपिन प्राप्यते, अतस्तस्याभावे हीनं वाऽतिरिक्तं वा पात्रं चतुर्थः सङ्ग्रह गाथोक्त कमप्रामाण्यादसम्प्राप्तिमान् धारयति । तथा यद् लक्षणयुक्तं तद् लक्षणा ऽ लक्षणवेदी हीनाधिक प्रमाणामपि ज्ञानादिवृद्धिनिमित्तं धारयति। यद्वा गच्छस्योपग्रहकरं यद् नन्दी भाजनं तद् गच्छार्थं चरमः' चरमद्वारवर्ती-ज्ञायको धारयति॥ गतमपवाद द्वारम्, अथ लक्षणाऽ लक्षण द्वारमोह[भा.४०२२] वर्ल्ड समचउरंसं, होइ थिरं थावरंच वनडं। हुंडं वायाइद्धं, भिन्नं च अधारणिज्जाइं॥ वृ-'वृत्तं वर्तुलं तदपि 'समचतुरस्र' उच्छ्यपरिधिनाकुक्षिपरिधिनाचतुल्यं स्थिरं सुप्रतिष्ठानं दृढं वा स्थावरम्' अप्रातिहारिकं वर्णाढ्यं स्निगधवर्णोपेतंपाठान्तरेण “धनंतु"त्तिएतैर्गुणैर्युक्तं 'धन्य एवंविधं लक्षणयुक्तमुच्यते। तथा ‘हुण्डं विषमसंस्थितं क्वचिनिम्नंक्वचिदुन्नतमित्यर्थः, 'वाताविद्धं' निष्पत्तिकालमन्तरेणागिपिशुष्कम्अतएव सङ्कुचितंवलिभृतं च सातम्, 'भिन्नं नाम' सच्छिद्रं राजियुक्तं वा, एतान्यलक्षणतयाऽधारणीयानि॥ अथ लक्षणा-ऽलक्षणयुक्तयोरेव गुण-दोषानाह[भा.४०२३] संठियम्मि भवे लाभो, पतिट्ठा सुपतिट्टिए। निव्वणे कित्तिमारोग्गं, वन्नहे नाणसंपया। कृ-'संस्थिते' वृत्त-समचतुरस्त्रपात्रेधार्यमाणे विपुलोभक्त-पानादिलाभो भवति । 'सुप्रतिष्ठिते' स्थिरे पात्रे चारित्रे गणे आचार्यादिपदे वा प्रतिष्ठा' स्थिरता सञ्जायते । 'निव्रणे' व्रणविकले कीर्तिरारोग्यं च भवति । 'वर्णाढ्ये स्निग्धवर्णपिते 'ज्ञानसम्पत् प्रभूतसूत्रा-ऽर्थलाभरुपाभवति॥ Page #418 -------------------------------------------------------------------------- ________________ उद्देशक : ३, मूलं - ८८, [भा. ४०२४] [ भा. ४०२४] हुण्डे चरित्तभेओ, सबलम्मि य चित्तविब्भमं जाणे । दुप्पुते खीलसंठाणे, नत्थि ट्टाणं ति निद्दिसे ॥ वृ- 'हुण्डे' विषमसंस्थिते 'चारित्रस्य भेदः ' मूलोत्तरगुणविषयाश्चारित्रातिचारा इत्यर्थः । शबलंविचित्रवर्णं तत्र 'चित्तविभ्रमं' क्षिप्तवित्ततादिरुपं सम्भवन्तं जानीयात्। दुप्पुयं नामपुष्पकमूले न प्रतिष्ठितम्, कीलकसंस्थानं तु-कर्पराकारं कीलकवद् दीर्धम्, ईशे पात्रे गणे चरणे वा स्थानं नास्तीति निर्दिशेत् ॥ [भा. ४०२५] पउमुप्पले अकुसलं, सव्वणे वणमाइसे। अंतो बहिं व दड्ढे, मरणं तत्थ निद्दिसे ॥ ४१५ वृ- 'पद्मोत्पले' अधः पद्मोत्पलाकारपुष्पकयुक्ते साधूनामकुशलं भवति । सव्रणे व्रणमादिशेत्, पात्रकस्वामिनो व्रणो भवतीति भावः । अन्तर्बहिर्वा दग्धे सति पात्रके मरणं निर्दिशेत् ॥ अत्रैव प्रायश्चित्तमाह [भा. ४०२६] दड्ढे पुप्फगभिन्ने, पउमुप्पल सव्वणे य चउगुरुगा । सेगभिन्ने लहुगा, हुंडादीएसु मासलहु ॥ वृ- अन्तर्बहिर्वा दग्धे पात्रे तथा पुष्कं पात्रकस्य नाभि तत्र यद् भिन्नं तस्मिन् तथा पद्मोत्पलाकारपुष्पकयुक्ते सव्रणेच प्रत्येकं चतुर्गुरुकाः । शेषेषु-पुष्पकव्यतिरिक्तेषु कुक्ष्यादिस्थानेषु भिन्ने चतुर्लघुकाः । हुण्डे आदिशब्दाद् वाताविद्धे दुष्पुते कीलकसस्थाने अवर्णाढ्ये शबले च मासलघु ।। गतं लक्षणा-ऽलक्षणद्वारम्, अथ त्रिविधोपधिद्वारमाह [भा. ४०२७] तिविहं च होइ पायं, अहाकडं अप्प - सपरिकम्मं च । पुव्वमहाकडगहणं, तस्सऽसति कमेण दोन्नियरे ।। वृ- त्रिविधं च भवति पात्रम् - अलाबुमयं दारुमयं मृत्तिकामयम् । पुनरेकैकं त्रिविधम्यथाकृतमल्पपरिकर्म सपरिकर्म च । पूर्वं यथाकृतस्य ग्रहणम्, तस्याभावे क्रमेणेतरे द्वे पात्रके ग्रहीतव्ये, प्रथममल्पपरिकर्म तदप्राप्तौ बहुपरिकर्मापीत्यर्थः । । विपर्यस्तद्वारमाह [भा. ४०२८] तिविहे परूवियम्मिं, वोचत्थे गहणे लहुगा आणादी । छेदन-भेदनकरणे, जा जहि आरोवणा भणिता ॥ वृ-यथाकृतादिभेदात् त्रिविधे पात्रे प्ररूपिते सति ततो विपर्यस्तग्रहणे चतुर्लघुकाख्यं प्रायश्चित्तम्, आज्ञादयश्च दोषा वक्तव्याः । तत्र यथाकृतादिप्ररूपणं तावद् विधीयते यथाकृतं नामपूर्वकृतमुखंप्रदत्तलेपं च सर्वथा परिकर्मरहितम्, अल्पपरिकर्म तु पात्रं तदुच्यते यदर्धाङ्गुलं यावत् छिद्यते, अर्धाङ्गुलात् परतिश्छिद्यमानं बहुपरिकर्मकम्। पुनरेकैकं त्रिधा उत्कृष्ट-मध्यम- जघन्यभेदात् । तत्रोत्कृष्टस्य यथाकृतस्योत्पादनाय निर्गतस्तस्य योगमकृत्वाऽल्पपरिकर्म गृह्णाति चतुर्लघवः, बहुपरिकर्म गृह्णाति चतुर्लघवः । यदा यथाकृतं योगे कृतेऽपि न प्राप्यते तदाऽल्पपरिकर्मणो योगमकृत्वा बहुपरिकर्म गृह्णाति चतुर्लघव आज्ञादयश्च दोषाः, एवं मध्यम- जघन्ययोरपि भावना कर्त्तव्या । नवरं मध्यमस्य विपर्यासेन ग्रहणे मासलघु, जघन्यस्य विपर्यासग्रहणे पञ्चकम् । अपि च सपरिकर्मणि पात्रे छेदन-भेदनादि कुर्वतो या यत्रारोपणा पीठिकायां पात्रकल्पिकद्वारे भणिता सैवेहापि मन्तव्या ॥ अथ 'क:' इति द्वारं विवृणोति - Page #419 -------------------------------------------------------------------------- ________________ ४१६ [ भा. ४०२९] को गेहति गीयत्थो, असतीए पायकप्पिओ जो उ । उस्सग्ग- Saवाएहिं, कहिज्जती पायगहणं से | बृहत्कल्प-छेदसूत्रम् -२-३/८८ वृ- कः संयतः पात्रं गृह्णाति ? सूरिराह - 'गीतार्थः ' परिज्ञातसकलच्छेदश्रुतार्थ पात्रकं गृह्णाति । अथ नास्ति गीतार्थस्ततो यः 'पात्रकल्पिकः' गृहीतपात्रैषणासूत्रार्थ स गृह्णाति । तस्याप्यभावे यो मेधावी तस्य पात्रग्रहणुत्सर्गतोऽपवादतश्च कथ्यते ततोऽसौ पात्रं गृह्णीयात् ॥ अथ पौरुषीद्वारमाह[भा. ४०३०] हुंडादि एकबंधे, सुत्तत्थे करेंते मग्गणं कुज्जा । दुग-तिगबंधे सुत्तं, तिण्डुवरिं दो वि वज्रेज्जा ।। वृ- यत् पात्रं हुण्डम्, आदिशब्दाद् दुष्पुतं कीलकसंस्थितं शबलं च यचैकबन्धम्, एतानि परिभुञ्जानः सूत्रा - ऽर्थपौरुष्यौ द्वे अपि कुर्वन् यथाकृतादेः पात्रस्य मार्गणां कुर्यात् । अथ द्विविधं त्रिविधं (द्विबन्धंत्रिबन्धं] वा पातरं परिभुज्यमानमस्ति ततः सूत्रपौरुषीं कृत्वाऽर्थपौरुषीं हापयित्वा मार्गयति । अथ त्रयाणां बन्धानामुपरि चतुःप्रभृतिस्थानेषु तत् पात्रं बद्धमस्ति ततः सूत्रार्थपौरुष्यौ द्वे अपि वर्जयेत्, सूर्योदयादारभ्यैवापरं पात्रकं मार्गयतीति ॥ अथ कालद्वारमाहचत्तारि अहाकडए, दो मासा होंति अप्पपरिम्मे । [ भा. ४०३१] तेन पर मग्गियम्मि य, असति ग्गहणं सपरिकम्मे ॥ वृ-हुण्ड-शबलताद्यलक्षणयुक्तं पात्रं धारयता चतुरो मासान् यथाकृतं मार्गयितव्यम् । चतुर्षु मासेषु पूर्णेष्वपि यदा यथाकृतं न प्राप्यते तदा दौव मासावल्पपरिकर्मगवेषणे भवतः । ततः परं मार्गितेऽप्यत्पररिकर्मण्यप्राप्ते षण्मास्यां पूर्णायां सपरिकर्मणो ग्रहणं करोति ॥ तच कियन्तं कालं गवेषणीयम् ? इत्याह [भा. ४०३२] पणयालीसं दिवसे, मग्गित्ता जा न लब्भए ततियं । तेन परेण न गिण्हइ, ना पक्खेणं न रज्जेज्जा ।। वृ- पञ्चचत्वारिंशतं दिवसान् 'तृतीयं' बहुपरिकर्म मार्गयित्वा यदि न लभ्यते ततः किम् ? इत्याह- " तेन परेण "त्ति प्राकृतत्वात् पञ्चम्यर्थे तृतीया, ततः पञ्चचत्वारिंशतो दिवसेभ्यः परं बहुपरिकर्म न गृह्णाति । कुतः ? इति चेद् उच्यते यथाकृतगवेषणकालादारभ्य सार्थसप्तसु मासेषु गतेषु पञ्चदशभिर्दिवसैर्वर्षारात्रौ भवति, तेन च पक्षमात्रेण कालेन मा तत् पात्रकं 'न रज्येत' मा लिप्तं सत् प्रगुणीभवेत् । किंमुक्तं भवति ? - वर्षाकाले पात्रस्य परिकर्म कर्तुं न लभ्यते, बहुपरिकर्मणि च पात्रे छेदन-भेदनादि प्रभूतं परिकर्म विधेयम्, तच्च पक्षमात्रेण न कर्त्तुं पार्यते, अतः पञ्चचत्वारिंशद्दिवसेभ्यः परतो न ग्रहीतव्यमिति ।। गतं कालद्वारम्, अथाकरद्वारमाह[भा. ४०३३] कुत्तीय सिद्ध-निण्हग-पवंच-पडिमाउवासगाईस् । कुत्तियव बितियं, आगरमाईसु वा दो वि ॥ वृ-यथाकृतं पात्रकं कुत्रिकापणे मार्गयितव्यम् । सिद्धपुत्रकस्य वा निह्नवस्य वा प्रपञ्चश्रमणस्य वा एकादशी प्रतिमां पूरयित्वा वा श्रमणोपासको गृहं प्रत्यागतस्तदादेर्वा पार्श्वे यथाकृतं पात्रं प्राप्यते । 'कुत्रिकापणवर्जं' शेषेषु सिद्धपुत्रकादिषु 'द्वितीयम्' अल्पपरिकर्म प्राप्यते । अथवा आकरादिषु 'द्वे अपि' अल्पपरिकर्म-सपरिकर्मणी प्राप्येते ॥ तद्यथा Page #420 -------------------------------------------------------------------------- ________________ ४१७ उद्देशकः ३, मूलं-८८, [भा. ४०३४] [भा.४०३४] आगर नई कुडंगे, वाहे तेने य भिक्ख जंत विही। कय कारियं वकीतं, जइ कप्पइ घेप्पतू अजो!। वृ-'आकरः' भिल्लपल्लयादि यत्रालाबूनि प्राप्यन्ते, नद्यो यास्तुम्बकैस्तीर्यन्ते, 'कुडङ्ग नाम' यत्र वनखण्डे तमुकानि जायन्ते, “वाहे तेने य"त्ति व्याधपल्लयां स्तेनपल्लयां वाऽलाबूनि यत्र वनखण्डे तुम्बकानि जायन्ते, “वाहे तेने य"त्ति व्याधपल्लयां स्तनपल्लयां वाऽलाबूनि लभ्यन्ते, "भिक्ख"त्ति ये भिक्षाचा अलाबुकानि गृहीत्वा भिक्षां पर्यटन्ति, “जंत"त्ति यन्त्रशालासु गुडादीनामुत्सेचनार्थमलाबूनि धार्यन्ते, एतेषु स्थानेषु "विहि"त्ति विधिना पात्रकं ग्रहीतव्यम् । कः पुनर्विधि ? इति चेद् उच्यते-तत्राकरादिषु गत्वाऽवभाषणे कृते दायकेन च पात्रके दर्शिते प्रष्टव्यम्-कस्यार्थमेतत् कृतम् ? । ततस्तेऽभिदध्यु-युष्माकमर्थाय कृतं कारितं क्रीतं वा, यदि कल्पते तत आर्य! गृह्यताम् । एवमुक्ते सति गृह्णातीति सङ्ग्रहगाथासमासार्थः ।। अथैनामेव गाथाद्वयेन विवृणोति[भा.४०३५] आगर पल्लीमाई, निचुदग नदी कुडंगमुस्सरणं । वाहे तेने भिक्खे, जंते परिभोगऽसंसत्तं । वृ-आकरो नाम भिल्लपलली भिल्लकोट्टं वा, तत्र प्रायोऽलाबूनि प्रभूतानि प्राप्यन्ते । तथा नित्योदकाः-अगाधजला महानद्यो यत्र ग्रामादौ अलाबुभिस्तीर्यन्ते तत्र पात्राणिप्राप्यन्ते। 'कुडङ्गं वृक्षगहनंतत्रतुम्बिकानाम् ‘उत्सरणं वापनं क्रियते, यद्वा तासामेव नदीनांकूलेषुये वृक्षकुडङ्गास्तेषु तुम्बिका वाप्यन्ते । व्याधपल्लयां स्तेनपल्लयां च तुम्बकेषु काञ्जिक-पानीयादीनि प्रक्षिप्यन्ते, तत्र कौलालभाजनाभावात् । भिक्षाचरा भिक्षार्थमलाबूनि गृह्णन्ति । यन्त्रशालादिषु च गुडोत्सेचनादिहेतोरलाबूनि गृह्यन्ते । एतेष्वाकरादिषु यस्य प्रतिदिवसं परिभोगः क्रियमाणो विद्यते तत् पात्रकं जन्तुभिरसंसक्तं भवतीति कृत्वा ग्रहीतव्यम् ॥ [भा.४०३६] तुमऽट्ठाए कयमिणं, अन्नेसऽट्ठाए अहवण सअट्ठा। ___ जो घेच्छति व तदट्ठा, एमेव यकीय-पामिछ॥ वृ-पात्रे च दर्शिते कस्यार्थमेतत् कृतम् य इति पृष्टो दाता ब्रूयात्-युष्माकमर्थाय कृतमिदं कारितं वा, अथवाऽन्येषां साधूनामर्यात कृतम्, “अहवण"त्ति निपातोऽथवार्थे, 'स्वार्थम्' आत्मनोऽर्थाय कृतमिदमस्माभि, यद्वा य एव भिक्षाचरो ग्रहीष्यति तस्यार्थाय कृतमिदम् यावन्तिकमित्यर्थः । एवमेव च क्रीत-प्रामित्यादिकमपि वक्तव्यम् । यच्चात्रात्मार्थ कृतादिकं तत् कल्पते, आधाकर्मिकादिकं तुन कल्पते ॥ गतमाकरद्वारम् । अथ चाउलद्वारमाह[भा.४०३७] चाउल उण्होदग तुयरे कुसणे तहेव तक्के य। जं होइ भाबियं तं, कप्पति भइयव्वगं सेसं ॥ वृ. “चाउल"त्ति तन्दुलधावनम्, 'उष्णोदकं प्रतीतम्, 'तुवरं' कुसुम्भोदकादि, 'कुसणं' मुद्गदाल्यादितस्य यदुदकं तदपि कुसणम्, तक्रप्रतीतम्, एतैर्यभावितं तत् कल्पते। शेषम्' एतद्विपरीतजलभावितं 'भक्तव्यं' विकल्पनीयम् । भजनामेवोपदर्शयति__ [भा.४०३८] सीतजलभावियं अविगते तु सीतोदए न गिव्हंति । [1927 Page #421 -------------------------------------------------------------------------- ________________ ४१८ बृहत्कल्प-छेदसूत्रम् -२-३/८८ मज्ज-वस-तेल्ल-सप्पी-महुमादीभावियं भयितं ।। वृ-शीतजलभावितं यत् पात्रं तद् ‘अविगते' अपरिणते शीतोदके न गृह्णन्ति । मद्य-वसातैल-सर्पिर्मध्वादिभिस्तु भावितं भक्तं विकल्पितम्।तथाहि-यदि तेषांमद्यादीनामवयवा निशेषा अप्यपनेतुंशक्यन्ते ततो गृह्यते, इतरथा न गृह्यते; अथवा विकटादिभावितं यत्र जुगुप्सितं तत्रन गृह्यते, अज्गुप्सितं तु गृह्यते॥पात्रग्रहण एव विधिमाह[भा.४०३९] ओभासणा य पुच्छा, दिट्टे रिक्के मुहं वहंते य। संसट्टे निक्खित्ते, सुक्खे य पगास दणं ॥ [भा.४०४०] ओमंथ पाणमाई, पुच्छा मूलगुण उत्तरगुणे य। तिट्ठाणे तिक्खुत्तो, सुद्धो ससिणिद्धमादीसु॥ [भा.४०४१] दाहिणकरेण कोणं, घेत्तुत्ताणेण वाममणिबंधे। घट्टेइ तिन्नि वारे, तिन्नि तले तिन्नि भूमीय ॥ [भा.४०४२] तस बीयम्मि वि दिढे, न गेण्हती गेण्हती तु अद्दिढे । गहणम्मि उ परिसुद्धे, कप्पति दिखेहि वि बहूहिं॥ वृ:एताश्चतस्रोऽपि गाथाः पीठिकायां सविस्तरं व्याख्याताः इति नेह भूयो व्याख्यायन्ते॥ गतं चाउलद्वारम् । अथ घन्ययतनाद्वारमाह[मा.४०४३] पच्छित्त पण जहन्नं, तेन उ तब्बुहिए य जयणाए। जहन्ना व सासवादी, तेहि उ जयणेयर कलादी॥ वृ- जघन्यं प्रायश्चित्तं पञ्चकम् तेन यतना जघन्ययतना । कथम् ? इत्याह-'तāध्या' पञ्चकादिवृद्धिरूपया यतनया पात्रकासत्तायां यतन्ते। अथवा सर्षपादीनि बीजानि 'जघन्यानि सूक्ष्माणीत्यर्थः, तैर्युक्तंपात्रकंवक्ष्यमाणया षड्भागकरवृद्धियतनयागृह्णन्ति, 'इतरानितु' बादराणि बीजानि कलाः-घणकास्तदादीनि, आदिशब्दाद् मसूरादीनि च ॥अमुमेवार्थं विवरीषुराह[भा.४०४] छब्भागकए हत्थे, सुहमेसू पढमपव्व पनगं तू। दस बितिए राइदिना, अंगुलिमूलेसु पन्नरस ॥ [मा.४०४५] वीसंतुआउलेहा, अंगुटुंतो य होइ पणुवीसा। . पसयम्मि होइ मासो, चाउम्मासा भवे चउसु॥ - इह हस्तः षड् भागाः क्रियते-तत्र प्रथमपर्वाण्येको भागः, द्वितीयपर्वणि द्वितीयः, अङ्गुलिमूलानितृतीयः, आयुषो रेखाचतुर्थः, अङ्गुष्ठबुध्नंपञ्चमः, अङ्गुष्ठमतिक्रम्य सेषःसर्वोऽपि षष्ठो भागः । एवं षड्भागीकृते हस्ते प्रथमपर्वमात्रेषु सूक्ष्मबीजेषु 'पञ्चकं पञ्चरात्रिन्दिवानि प्रायश्चित्तम्, द्वितीयपर्वमात्रेषु दशरात्रिन्दिवानि, अङ्गुलिमूलेषु पञ्चदशरात्रिन्दिवानि ॥ आयूरेषामात्रेषुविंशतिरात्रिन्दिवानि, अङ्गुष्ठबुध्नमात्रेषुपञ्चविंसतिरात्रिन्दिवानि, प्रसूतिप्रमाणेषु मासलघु, चतुःप्रसृतिप्रमाणेषु चत्वारो मासा लघवः । एवं सूक्ष्मबीजेषु प्रायश्चित्तमुक्तम्, अथ बादरबीजेषु तदेवातिदिशन्नाह[भा.४०४६] एसेव कमो नियमा, थूलेसु विबीयपव्वमारद्धो। अंजलि चउक्क लहुगा, ते चिय गुरुगा अनंतेसु ॥ Page #422 -------------------------------------------------------------------------- ________________ उद्देशक : ३, मूलं-८८, [भा. ४०४६] ४१९ कृ-एष एव क्रमो नियमात् ‘स्थूलेष्वपि' चणकादिबीजेषु मन्तव्यः । नवरं द्वितीयपर्वाण्यादौ कृत्वाऽत्रप्रायश्चित्तक्रमः प्रारभ्यते, तद्यथा-द्वितीयपर्वमात्रेषुबादरबीजेषुपञ्चकम्, अङ्गुलिमूलमात्रेषु दशकम्, आयूरेषामात्रेषु पञ्चदशकम्, अङ्गुष्ठमूलमात्रेषु विंशति, प्रसृतिप्रमाणेषु भिन्नमासः, अञ्जिलिमात्रेषु मासलघु, अञ्जलीचतुष्कपरिमाणेषु चतुर्लघु, एतत् प्रत्येकबीजविषयंभणितम् । अनन्तबीजेषु सूक्ष्म-स्थूरेषु यथाक्रममेतान्येव प्रायश्चित्तानि गुरुकाणि कर्तव्यानि ॥ [भा.४०४७] निकारणम्मि एए, पच्छित्ता वन्निया उ बीएसु। नायव्वा अनुपुब्बी, एसेव उ कारणे जयणा ॥ वृ-एतानि प्रायश्चित्तानि निष्कारणे ‘बीजेषु' बीजयुक्तेपात्रके गृह्यमाणे वर्णितानि। 'कारणे तु' पात्रकस्यासत्तालक्षणे 'आनुपूर्व्या प्रथमपर्वादिरूपया ‘एषैव' पञ्चकादिका यतना कर्तव्या।। अथ यथाकृतेप्रथमपर्वप्रमाणानि बीजान्यल्पपरिकर्मकंचशुद्धं प्राप्यतेऽनयोः कतरद्ग्रहीतव्यम्? उच्यते-यथाकृतं ग्राहंय नाल्पपरिकर्म । एवं द्वितीयपर्वादिष्वपि वक्तव्यम्, यावद् बीजैराकण्ठमृतमपि यथाकृतं ग्राह्यम् । तथा चाह[भा.४०४८] वोसहूं पिहु कप्पइ, बीयाईणं अधाकडं पायं। नय अप्प-सपरिकम्मा, तहेव अप्पं सपरिकम्मा ॥ वृ- आगन्तुकानां बीजादीनां 'वोसट्टमपि' आकण्टमृतमपि यथाकृतं पात्रं कल्पते न चाल्पपरिकर्म-सपरिकर्मणी शुद्धे अपि । तथैव एवमेवाल्पपरिकर्मकमागन्तुकबीजानां भृतमपि कल्पते, न च सपरिकर्मकं शुद्धमपि ॥अत्रैवैदम्पर्यमाह[भा.४०४९] थूला वा सुहुमा वा, अवहंते वा असंथरंतम्मि। आगंतुअसंकामिय, अप्पबहु असंथरंतम्मि ।। वृ-यथाकृते ‘स्थूलानि वा' चणकादीनि बीजानि भवन्तु ‘सूक्ष्माणि वा' सर्षपादीनि, यदि तस्य प्राक्तनं भाजनं नवरङ्गत्वादवहमानकम्, तेन वा भाजनेन न संस्तरति, सर्वथा वा माजनं तस्यन नास्ति, एवमसंस्तरतोऽल्पबुत्वं तोलयित्वा बहुगुणकरमितिकृत्वायथाकृतमागन्तुकबीजानां भृतमपि बीजानि यतनयाऽन्यत्र सक्रमय्य ग्रहीतुंकल्पते॥ गतंजघन्ययतनाद्वारम् । अथ “चोयग असई असिव" ति द्वारद्वयमाह- . [भा.४०५०] थूल सुहुमेसु वुत्तं, पच्छित्तं तेसु चेव भरिओ वि। . जंकप्पइत्ति भणिअं, न जुञ्जई पुव्वमवरेणं॥ वृ- स्थूल-सूक्ष्मेषु जेषु पूर्वं सप्रपञ्चं प्रायश्चितमुक्तम्, सम्प्रति 'तैरेव' बीजैभृतौऽपि यथाकृतप्रतिग्रहो ग्रहीतुं कल्पते, 'इति’ एवं यद् भणितं तदेतद् युष्माकं पूर्वमपरेण न युज्यते॥ गुरुराह[भा.४०५१] चोयग! दुविहा असई, संताऽसंता य संत असिवादी। इयरा उ झामियाई, संते भणिया उ सा सोही। वृहे नोदक! द्विविधा असत्-सदसत्ता असदसत्ताच। तत्र सदसत्ता नाम यत्र ग्रामे नगरे वा भाजनानि सन्ति तत्र अपान्तराले वा विद्यन्ते, अथवा अस्ति भाजनं परं नवरङ्गत्वाद् न तावद् वहति, यद्वात भाजनमतिलघुतरमतो नतेन संस्तीर्यते। 'इतरा' असदसत्तासापुनरियम्-पात्रं Page #423 -------------------------------------------------------------------------- ________________ ४२० बृहत्कल्प-छेदसूत्रम् -२-३/८८ 'ध्यामितं' प्रदीपकेन दग्धम्, आदिशब्दात् स्तेनैर्वाऽपहृतं भग्नं वा । एवंविधयोयोरप्यसत्तयोर्यथाकृतमागन्तुकबीजानां भृतमपि कल्पते, नपुनःशुद्धमल्पपरिकर्म। यत् पुनरस्माभि 'शोधि' प्रायश्चित्तमुक्तंसा द्विविधाया असत्तायाअभावेसति पात्रे यो गृह्णाति तद्विषयामन्तव्या ।।किञ्च[भा.४०५२] जो उगुणो दोसकरो, न सो गुणो दोसमेव तं जाणे। अगुणो वि होति उगुणो, विनिच्छयो सुंदरो जस्स ॥ वृ- 'यस्तु' यः पुनर्गुणः ‘दोषकरः' आत्मोपघातादिदोषजनकः स परमार्थतो गुण एव न भवति किन्तु दोषमेव तं जानीयात्, दोषकारणत्वात्; यस्य तु विनिश्चयः' निर्वाहः सुन्दरः स कथञ्चिदगुणोऽपि परिणासुन्दरतया गुण एव भवति, गुणकारणत्वात्; एवमिहापि यथाकृते यद्यपितान्यागन्तुकबीजानियतनयाऽन्यत्र सङ्कामयतःस्वल्पः सट्टनदोषस्तथापिनतत्रसूत्रार्थयोः परिमन्थः, न च छेदन-भेदनादिना आत्मोपघातः, अपि च तद् गृहीतं सत् तस्यामेव वेलायां भक्त-पानग्रहणे उपयुज्यते, एवं सदोषमपि तद् बहुगुणम् । अल्पपरिकर्मादौ तु परिकर्नामाणे सूत्रार्थपरिमन्थः,छेदनादिनाऽऽत्मोपघातइत्यादयोबहवोदषाः, अतः सगुणमपितबहुदोषतरम्।। अथ “पमाण उवओगछेयण';'त्ति द्वारमाह[भा.४०५३] असइ तिगे पुन जुत्ते, जोगे ओहोवही उवग्गहिए। छेयण-भेयणकरणे, सुद्धोजं निजरा विउला॥ वृ-यथाकृतंत्रीन्वारान्मार्गितं परंनलब्धम्, ततो वारत्रिकं योगे' व्यापारे युक्ते' कृतेऽपि यथाकृतस्य 'असति' अप्राप्ती, 'पुनःशब्दः' अवधआरणे, स चैतदवधारयति-वारत्रयात् परतोऽल्पपरिकर्मकमेव ग्रहीतव्यम् । अथ तदपि न प्राप्यते ततो बहुपरिकर्मापि ग्राह्यम् । एष ओधोपधौ औपग्रहिकोपधौ च सर्वस्मिन्नपि विधिरवसातव्यः । एवं च क्रमागतमल्पपरिकर्मादि गृहीत्वा तत्रोपयुक्तो यः छेदन-भेदने करोति सः 'शुद्धः' न प्रायश्चित्तभाग, कुतः? इत्याह यद्' यस्माद् यथोक्तक्रमागतं विधिं विदधानस्य निर्जरा विपुला भवति ।। ननु चाल्पपरिकर्मादौ छेदनादिपरिकर्मसम्मवादात्म-संयमविराधना भवति ततः कथं तस्य ग्रहणमनुज्ञायते ? उच्यते[भा.४०५४] चोयग! एताए चिय, असईय अहाकडस्स दो इयरे । कप्पंति छेयणे पुन, उवओगंमा दुवे दोसा ॥ वृ-हे नोदक ! या पूर्वं द्विविधा असत्ता प्ररूपिता ‘एतयैव' यथाकृतस्यासत्तया 'द्वे इतरे' अल्पपरिकर्म-सपरिकर्मणी कल्पेतेप्रतिग्रहीतुम्, परंतयोश्छेदनादौ महता प्रयत्नेनोपयोगं करोति, मा 'द्वौ' संयमा-ऽऽत्मविराधनालक्षणौ दोषौ भूतामिति कृत्वा॥ [भा.४०५५] अहवा विकतो नेनं, उवओगो न विय लब्भती पढमं । हीणाहीयं वलब्मति, सपमाणा तेन दो इयरे॥ वृ-अथवा कृतः अनेन' साधुना ‘उपयोगः' मार्गणव्यापारः परं न लभ्यते 'प्रथम' यथाकृतं पात्रम्, अथवालभ्यते परंस्वप्रमाणतोहीनाधिकंतेन कारणेन द्वेइतरे अल्पपरिकर्म-सपरिकर्मणी यथाक्रमं गृह्णाति ॥ कुतः? इति चेद् उच्यते[भा.४०५६] जह सपरिकम्मलंभे, मग्गंते अहाकडं भवे विपुला । निजरमेवमलंभे, बितियस्सियरे भवे विउला॥ Page #424 -------------------------------------------------------------------------- ________________ उद्देशक : ३, मूलं-८८, [भा. ४०५६] ४२१ वृ-यथा 'सपरिकर्मणः' अल्पपरिकर्मपात्रकसय लाभेऽपि यथाकृतं मार्गयो विपुला निर्जरा भवति, तथायथाकृतालाभे 'इतरस्मिन् बहुपरिकर्मणि लभ्यमानेऽपि द्वितीयस्य' अल्पपरिकर्मणो मार्गणे उपलक्षणत्वादल्पपरिकर्मणोऽप्यलाभे बहुपरिकर्ममार्गणे विपुलैव निर्जराद्रष्टव्या।। अथवा* [भा.४०५७] असिवे ओमोदरिए, रायडुढे भए व गेलन्ने । सेहे चरित्त सावयभए यततियं पि गिण्हिज्जा ॥ वृ-यत्र यथाकृतमल्पपरिकर्मवा भाजनं प्राप्यते तत्रअपान्तराले वाऽशिवमवमौदर्यं राजद्विष्टं 'भयं वा' बोधिकस्तेनादिसमुत्थं वर्तते, ग्लानत्वं वा कस्यापि साधोः सञ्जातं तत्प्रतिबन्धेन न शक्यते तत्र गन्तुम्, शैक्षस्य वा तत्र सागारिकम्, चारित्रस्य वा चरिकाधुपसर्गसमुत्थो भेदः, श्वापदाः-सिंहादयस्तेषां वा भयम्, एवमादिभि कारणैः 'तृतीयमपि' बहुपरिकर्म पात्रं स्वस्थाने गृह्णीयात् ।। उक्तमेवार्थं सिंहावलोकितेनाह[भा.४०५८] आगंतुगाणि तानि य, चिरपरिकम्मे य सुत्तपरिहाणी। एएण कारणेणं, अहाकडे होति गहणं तु ।। वृ-यथाकृतेयानि बीजानितान्यागन्तुकानि, चिरकालपरिकर्मणिच क्रियमाणेसूत्रार्थपरिहाणि, एतेन कारणेन यथाकृतस्य ग्रहण कार्यम्, नाल्पपरिकमदिः ॥अथ मुखद्वारमाह[भा.४०५९] बितिय-ततिएसु नियमा, मुहकरणं होज्ज तस्सिमं मानं । तंचिय तिविहं पायं, करंडगं दीह वर्ल्ड च ॥ . वृ-'द्वितीय-तृतीययोः' अल्पपरिकर्म-सपरिकर्मणोनिर्यमाद् मुखकरणं भवेत् । 'तस्य च' मुखस्य 'इदं वक्ष्यमाणं मानम् । तत्र यस्य पात्रस्य मुखं विचारयितव्यं तत् त्रिविधम्-करण्डकं दीर्घवृत्तं च । 'करण्डक' करण्डकाकारं बहुपृथत्वमल्पोच्छ्रयम्, 'दीर्घम् अल्पपृथुत्वं बहूच्छ्रयम्, 'वृत्तं चतुरस्रम् ॥ एतेषां मुखप्रमाणमाह[भा.४०६०] अकरंडगम्मि भाणे, हत्थो उटुंजहा नघट्टेति । एवं जहन्नगमुहं, वत्थु पप्पा विसालतरं॥ वृ- ‘अकरण्डके' करण्डकाकाररहिते दीर्धे समचतुरस्त्र वा भाजने हस्तः प्रविशन् निर्गच्छत् वा यथा 'ओष्ठं' कर्णं 'न घट्टयति' न स्पृशति एतत् सर्वजघन्यं मुखप्रमाणम् । अतः परं 'वस्तु' बृहत्तरपात्रादिकं प्राप्य' प्रतीत्य विशालतरं मुखं क्रियते । यत् पुनः करण्डकाकारं पात्रं तस्य विशालमेव मुखं कर्तव्यम्, अन्यथा तद् दुःप्रत्युपेक्षं भवति । एष प्रतिग्रहविधिरुक्तः । इदानीं मात्रकविधि, तत्र परःप्रेरयति-ननुतीर्थकरैस्तावमात्रकं नानुज्ञातम्, कथम्? इतिचेद् उच्यते[भा.४०६१] दवे एगं पायं, भणिओ तरुणो य एगपाओ उ । अप्पोवही पसत्थो, चोएति न मत्ततो तम्हा॥ वृ- उपकरणद्रव्यावमौदरिकायामेकमेव पात्रमुक्तम् । तथा चागमः एगे वत्थे एगे पाए चियत्तोवगरणसाइजणया। तथा यो भिक्षुस्तरुणो युगवान् बलवान् स एकपात्रो भवेत्। तथा च आचारसूत्रम्-जे भिक्खूतरुणेजुगवंबलवं० से एगं पायंधारेज्जा ।अरुपोपधिश्च प्रशस्तः। तथा च दशवैकालिकसूत्रम्-अप्पोवही कलहविवज्जणाय, विहारचरिया इसिणं पसत्था। यत एवमतो न मात्रकं ग्रहीतव्यम्, गाथायां पुंस्त्वं प्राकृतत्वाद् इति परः प्रेरयति ॥अथ सूरिराह Page #425 -------------------------------------------------------------------------- ________________ ४२२ बृहत्कल्प - छेदसूत्रम् -२-३/८८ [भा. ४०६२] जिनकप्पे तं सुत्तं, सपडिग्गहकस्स तस्स तं एगं । नियमा थेराण पुनो, बितिजाओ मत्तओ होइ ।। वृ- हे नोदक ! यदेकपात्रादिप्रतिपादकं सून्नं तद् जिनकल्पविषयं मन्तव्यम् । तथाहि-यः सप्रतिग्रहो जिनकल्पिकस्तस्य 'तत्' प्रतिग्रहलक्षणमेकं पात्रं भवति, स्थविराणां पुनर्नियमाद् द्वितीयं मात्रकं भवति, “एगं पायं जिणकप्पियाण थेराण मत्तओ बीओ ।" इति वचनात् ॥ [भा. ४०६३ ] ननु दव्वोमोयरिया, तरुणाइविसेसओ य मत्तो वि । अप्पोवही दुपत्तो, जेनं तिप्पमिति बहुसद्दो ॥ वृ-यच्च द्रव्यावमौदरिकायामेकं पात्रमुक्तं तत्र द्वयोः पात्रयोर्धारणे ननु द्रव्यावमौदरिका किं न भवति ? त्रिप्रभृतीनामग्रहणाद् भवत्येवेति भावः । यच्चाभिहितम् "जे भिक्खू तरुणे” इत्यादि तत्र यदि सर्वेणापि साधुनैकमेव पात्रकं धारयितव्यं ततः किं तरुणादिभिर्विशेषणैरभिहितैः ? अतो ज्ञायते तरुणादिविशेषणाभिधानाद् मात्रकमपि सामध्यार्दनुज्ञातम् । यद्यपि "अप्पोवही" इत्यादी अभिहितं तत्र तु 'द्विपात्रः' पात्रद्वयोपेतोऽल्पोपधिरेव भवति, यतस्त्रप्रभृतिष्वेव पदार्थेषु बहुशब्दो वर्त्तते, अतो ग्रहीतव्यं मात्रकम् ।। अथ न गृह्णाति तत इमे दोषाः [भा. ४०६४ ] अग्गहणे वारत्तग, पमाण हीनाऽधि सोहि अववाए । परिभोग गहण - बितियपय-लक्खणाई मुहं जाव ॥ वृ-मात्रकस्याग्रहणे दोषा वक्तव्याः । वारत्तगध्ष्टान्तश्चात्र भवति । प्रमाणम् हीना-ऽधिकप्रमाणे च दोषाः । 'शोधिः' मात्रकपरिभोगे प्रायश्चित्तम् । 'अपवादः ' हीना ऽधिकधारणालक्षणः । परिभोगः कारणे मात्रकस्य यथा विधीयते । ग्रहण-द्वितीयपद-लक्षणादीनि मुखं यावद् यानि प्रतिग्रहद्वाराण्यभिहितानि तदेतत् सर्वं वक्तव्यमिति द्वारगाथासङ्क्षेपार्थ ॥ अथैनामेव विवरीषुराह[ भा. ४०६५ ] मत्तअगेव्हणे गुरुगा, मिच्छत्ते अप्प परपरिचाओ । संसत्तग्रहणम्मिं, संजमदोसा सवित्थारा ॥ - मात्रकं यदि न गृह्णाति ततश्चतुर्गुरुकाः । येऽभिनवश्राद्धास्ते तेनैव प्रतिग्रहेण भोजनं पुनर्निर्लेपनं च कुर्वाणं दृष्ट्वा 'दुर्द्दष्टधर्माणोऽमी' इति मिथ्यात्वं गच्छेयुः । यदि प्रतिग्रहे आचार्यादीनामर्थाय गृह्णाति तत आत्मपरित्यागः । अथात्मनो गृह्णाति ततः परेषाम् आचार्यादीनां परित्यागः कृतो भवति । संसक्तभक्त पानं चाप्रत्युपेक्षितं यदि प्रतिग्रहे गृह्णाति ततः संयमदोषाः सविस्तराः “छक्काय चउसु लहुगा" इत्यादिविस्तरसहिता वक्तव्याः ।। अथ वारत्तगदृष्टान्तमाह[भा. ४०६६ ] वारत्तग पव्वज्जा, पुत्तो तप्पडिम देवथलि साहू । पडियरणेगपडिग्गह, आयमनुव्वालणा छेओ ।। वृ- वारत्तगपुर नगरं । तत्थ य अभयसेनो राया । तस्स अमचो वारत्तगो नाम, सो पत्तेगबुद्धो घरसारं पुत्तस्स निसिरियं पव्वइओ । तस्स पुत्तेण पिउभत्तीए देवकुलं कारेत्ता रयहरण-मुहपोत्तियपडिग्गहधारिणी पिउ पडिमा ठाविया, तत्थ य सत्तागारो पवत्तिओ । तत्थ य एगो साहू एगपडिग्गहधारी पडिग्गह भिक्खं घेत्तुं तं भोत्तुं तत्थेव पडिग्गहे पुनो पानगं घेत्तुं सन्नं वोसिरिउं तेनेव डिग्गणं निल्लेवेइ । तेसिं सत्ताकारनिउत्ताणं चिंता जाया- 'कहं निल्लेवेइ ?' त्ति पडियरिओ । दिट्ठो तेहिं, निच्छूढो । तस्स अन्नेसिं च साहूणं वोच्छेओ तत्थ जाओ ॥ Page #426 -------------------------------------------------------------------------- ________________ उद्देशक : ३, मूलं - ८८, [ भा. ४०६६ ] ४२३ अथ गाथाक्षरार्थः- वारत्तकेन प्रव्रज्यायां गृहीतायां पुत्रस्तस्य - वारत्तकस्य प्रतिमां देवकुलेऽचीकरत् । तत्र च स्थली प्रवर्त्तिता । साधुश्चैकेन प्रतिग्रहेण भिक्षार्थमायातः । प्रतिचरणं च कर्वाणैस्तेनैव प्रतिग्रहेण ‘आचमनं ' निर्लेपनं कुर्वाणं दृष्ट्वा तस्य 'उद्वालना' निष्काशना कृता । तस्यान्येषां च साधूनां व्यवच्छेदः कृतः । एवं मात्रकस्याग्रहणे उड्डाहो भवेत् ॥ अथ प्रमाणद्वारमाह[ भा. ४०६७ ] जो मागहओ पत्थो, सविसेसतरं तु मत्तगपमाणं । दोसु वि दव्वग्गहणं, वासावासासु अहिकारो ॥ वृ-यो 'मागधः' मगधदेशोद्भवः 'प्रस्थः ' “दो असईओ पसई, दो पसईओ य सेइया होति । चउसेइयाहि पत्थो" इति क्रमनिष्पन्नः, ततो मागधप्रस्थात् सविशेषतरं मात्रकप्रमाणं भवति । तेन च मात्रकेण 'द्वयोरपि' ऋतुबद्ध-वर्षावासयोर्गुरु-ग्लानादियोग्यस्य भक्त-पानद्रव्यस्य ग्रहणं क्रियते । अन्ये तु व्याचक्षते - " दोसु वि" त्ति प्रतिग्रहे भक्तं मात्रके पानकं गृह्यते । वर्षावासे तु विशेषतो मात्रकेणाधिकारः, यतो वर्षासु प्रथममेव यत्र धर्मलाभयति तत्र पानकं गृह्णाति, यतः कदाचिद् व्याधारितं वर्षं निपतेद् येन गृहाद् गृहं सञ्चरितुं न शक्यते ततः पानकेन विना प्रतिग्रहो लेपकृतो भवति । अथवा वर्षावासे भक्त पानं संसज्यत इति कृत्वा मात्रकेण तस्य शोधनं कार्यम् ॥ प्रकारान्तरेण मात्रकप्रमाणमाह [भा. ४०६८ ] सुक्खोल्लुओदणस्सा, दुगाउतद्धाणमागओ साहू । भुंजति एगट्ठाणे, एतं खलु मत्तगपमाणं ॥ वृ- शुष्कैदनस्यान्यभाजनगृहीतेन तीमनेनार्द्रस्य भृतं यद् 'एकस्थाने' एकवारं द्विगव्यूतमात्रादध्वन आगतः साधुर्भुङ्क्ते एतत् खलु मात्रकप्रमाणं मन्तव्यम् ॥ यदि वा[भा. ४०६९ ] भत्तस्सं व पानस्स व, एगतरागस्स जो भवे भरिओ । पत्तो साहुस्स उ, बितियं पि य मत्तयपमाणं ।। वृ-भक्तस्य वा पानकस्य वाऽनयोरेकतरस्य यद् भृतं सद् एकस्य साधोः पर्याप्तं भवति एतद् द्वितीयमपि मात्रकप्रमाणमवगन्त्वयम् ॥ अथ हीनद्वारमाह [भा. ४०७०] डहरस्सेसे दोसा, ओभावण खिंसणा गलंते य । छहं विराधना भाणभेदो जं वा गिलाणस्स ।। वृ-‘डहरस्य’ यथोक्तप्रमाणाद् लघुतरस्य मात्रकस्येमे दोषाः, तद्यथा- 'अपभ्राजना' तद् लघुतरं मात्रकमतीव भ्रियमाणं दृष्ट्वा लोको ब्रूयात्-अहो ! अमी बुभुक्षादुःखभग्नाः प्रव्रजन्ति । अथवा भक्त - पानं परिगलद् विलोक्य 'अहो ! अमी असन्तुष्टा एवं सिच्यमाना अपि न गणयन्ति' इति खिंसां कुर्यात् । अतिभूते च गलति षट्कायानां विराधना । अथ परिगलनभयात् तत्रैवोपयोगं ददाति ततः स्थाण्वादौ प्रस्खलितस्य भाजनभेदो भवेत् । यद्वा ग्लानस्य उपलक्षणत्वाद् बालवृद्धादीनां च तेन डहरमात्रकेणापर्याप्तं भवति तन्निष्पन्नं प्रायश्चित्तम् ॥ तथा [ भा. ४०७१] पडणं अवंगुतम्मिं, पुढवी-तसपान-तरुगणादीणं । आनिते गामंतरा गलणे य छक्काया ॥ वृ- डहरमात्रके आकण्ठभृते लेपकृतीकरणभयाद् 'अपावृते' उद्घाटिते पृथिवीरजःत्रसप्राणितरुगणादीनां पतनं भवेत् । अथवा ग्रामान्तरादतिभृते तस्मिन् आनीयमाने परिगलति " Page #427 -------------------------------------------------------------------------- ________________ ४२४ षट्काया विराध्यन्ते ॥ अथाधिकद्वारमाह [भा. ४०७२] अहियस्स इमे दोसा, एगतरस्सोग्गहम्मि भरितम्मि । सहसा मत्तगभरणे, भारादि विगिंचणियमादी || बृहत्कल्प - छेदसूत्रम् - २-३/८८ वृ- प्रमाणाधिकस्य मात्रकस्येमे दोषाः - 'एकतरस्य' भक्तस्य वा पानकस्य वा प्रतिग्रहे भृते सति पश्चाद् मात्रके ग्रहणं कुर्यात् । सहसा वा तस्य मात्रकस्य भरणे कृते भारेण स्थाणु-कष्टकादीनि न प्रेक्षते तत्रात्मविराधना, ईर्याया अशोधने संयमविराधना । अन्यच्च द्वयोरपि प्रतिग्रहमात्रकयोर्भुतयोः 'विवेचनं' परिष्ठापनं भवेत् तत्र षट्कायविराधना । अथ ऩ परिष्ठापयति ततोऽतिप्रचुरेण भक्षितेन ग्लानत्वं भवेत् । यत एवमादयो दोषाः अतः प्रमाणयुक्तं ग्रहीतव्यम् ॥ अथ शोधिद्वारमाह [भा. ४०७३] जइ बोयणमावहती, दिवसेणं तत्तिया चउम्मासा । दिवसे दिवसे तस्स उ, बितिएणारोवणा भणिया । वृ- 'यति' यावतो वारान् एकदिवसेन मात्रके 'भोजनं' भक्त-पानम् आत्मनो योग्यम् 'आवहित' आनयतीत्यर्थः तावन्ति चतुर्लघूनि । अथ दिवसे मात्रकं परिभुङ्क्ते ततो द्वितीयप्रायश्चित्तेनारोपणा भणिता । किमुक्तं भवति ? - द्वितीयदिवसे मात्रकं यावतो वारान् परिभुङ्क्ते तावन्ति चतुर्गुरुकाणि, एवं तृतीये षड्लध्वु, चतुर्थे षड्गुरु, पञ्चमे छेदः षष्ठे मूलम्, सप्तमेऽनवस्थाप्यम्, अष्टमे पाराञ्चिकम् ।। गतं शोधिद्वारम् । अथापवादद्वारमाह[भा. ४०७४] अन्नाणे गारवे लुद्धे, असंपत्ती य जाणए । लहुगो लहुगा गुरुगा, चउत्थो सुद्धो उ जाणओ ॥ वृ- इयं यथा प्रतिग्रहे तथा मात्रकेऽपि वक्तव्या ॥ परिभोगद्वारमाह[भा. ४०७५ ] बाले वुट्टे सेहे, आयरिय गिलाण खमग पाहुणए । दुल्लभ संसत्त असंथरंत अद्धाणकप्पम्मि ॥ वृ- बालस्य वृद्धस्य शैक्षस्याचार्यस्य ग्लानस्य क्षपकस्य प्राघुणकस्य च प्रायोग्यं मात्रके गृह्यते । यद्वा बाल-वृद्धादयः प्रतिग्रहं हिण्डापयितुं न शक्नुवन्ति अतस्ते मात्रके भक्ते - पानमानयेयुः भुञ्जीरन् वा । गच्छसाधारणं वा दुर्लभद्रव्यं धृतादिकं मात्रके गृह्णीयात् । यत्र वा भक्त - पानं संसज्यते तत्र मात्र गृह्यते, तद्धि संसक्तं मात्रके शोधयित्वा पश्चात् प्रतिग्रहे प्रक्षिप्यते । अवमराजद्विष्टादिषु वा असंस्तरणे प्रतिग्रहे भृतेऽन्यस्मिन् लभ्यमाने मात्रके गृह्यते । अध्वनि कल्पोऽध्वकल्पः, कल्पग्रहणं कारणे विधिना अध्वा प्रतिपन्न इति ख्यापनार्थम्, तत्रासंस्तरणे प्रतिग्रहे भृते सति मात्रकेऽपि गृह्यते ॥ अथ ग्रहण-द्वितीयपदद्वारे व्याख्यायेते - ग्रहणं नाम को मात्रकं गृह्यति? तत्र निर्वचनं यथा प्रतिग्रहे । द्वितीयपदं पुनरशिवादिभि कारणैः यथाकृतमात्रकस्य यत्र सम्मवस्तत्र गन्तुमशक्तौ स्वस्थान एवाल्पपरिकर्म - बहुपरिकर्मणी ग्रहीतव्ये । लक्षणादीनि द्वाराणि प्रतिग्रह इव मन्तव्यानि ।। अल्पपरिकर्मणि सपरिकर्मणि च पात्रे लेपप्रदानं सम्भवति । अतस्तद्विषयं विधिमाह [भा. ४०७६ ] हरिए बीए चले जुत्ते, वच्छे साणे जलट्ठिए । पुढवी संपातिमा सामा, महावाए महियाऽमिते ॥ Page #428 -------------------------------------------------------------------------- ________________ उद्देशकः३, मूलं-८८, [भा.४०७७] ४२५ [भा.४०७७] पुवण्हे लेवदानं, लेवग्गहणं सुसंवरं काउं। लेवस्स आणणा लिंपणान्य जतणाय कायव्वा ॥ व-गाथाद्वयमपि पीठिकायां सप्रपञ्चं व्याख्यातमिति॥ -“कप्पइ निग्गंथाणं" सूत्रार्धम् उच्यते[भा.४०७८] अब्बोगडो उ भणितो, उवधिविभागो उ आदिसुत्तेसु । सोपुन विभज्जमाणो, उवरिसुए वोगडो होति ॥ वृ- 'अव्याकृतः' 'अयं जिनकल्पिकानाम्, अयं स्थविरकल्पिकानाम्, अयमार्यिकाणाम्' इत्येवमविशेषित एवोपधिविभागः ‘आदिसूत्रेषु अनन्तरोक्तेषुभणितः, सपुनः' उपधिविभागो जिनकल्पिकादिविभागैर्विभज्यमानोऽस्मिन् प्रस्तुते उपरिसूत्रे 'व्याकृतः स्फुटो भवति, अत इदं सूत्रमारभ्यते॥ तमेवोपधिविभागं प्रचिकटयिषुराह[भा.४०७९] चोद्दसग पन्नवीसो, ओहोवधुवग्गहो अनेगविधो। संथारपट्टमादी, उभयोपक्खम्मि नेयव्वो॥ वृ-इह जिनकल्पिकानामौधिक एवोपधिर्भवति नौपग्रहिकः, स्थविरकल्पिकानांतुद्विविधोऽपि भवति । तत्रौघोपधिर्द्विधा-चतुर्दशविधः पञ्चविंशतिविधश्च । चतुर्दशविधः साधूनाम्, पञ्चविंशतिविधस्तु साध्वीनाम्। उपग्रहोपधिपुनरनेकविधः, सच संस्तारपट्टादिरुपः 'उभयपक्षे' साधु-साध्वीजनलक्षणे ज्ञातव्यः॥तत्र स्थविरकल्पिकानांचतुर्दशविध ओघोपधिः प्रागनन्तरसूत्र एवोक्तः, अथार्याणां पञ्चविंशतिविधं तमेवाह[भा.४०८०] पत्तं पत्ताबंधो, पायट्ठवणं च पायकेसरिया। पडलाइं रयत्ताणं, च गोच्छओ पायनिज्जोगो । [भा.४०८१] तिन्नेव य पच्छाया, रयहरणं चेव होइ मुहपोत्ती। तत्तोय मत्तए खलु, चोद्दसमे कमढए होति॥ [भा.४०८२] उग्गहनंतग पट्टो, अड्डोरुअचलणियाय बोधव्वा । अभितर-बाहिनियंसणी य तह कंचुए चेव ॥ [भा.४०८३] उक्कच्छिय वेकच्छिय, संघाडी चेव खंधकरणीय। ओहोवहिम्मि एते, अज्जाणं पन्नवीसंतु॥ वृ- पात्रकादीनि त्रयोदशोपकरणानि साधूनामिव द्रष्टव्यानि । चतुर्दशं तु चोलपट्टकस्थाने तासां कमठकं भवति, तनाष्टकमयमेकैकं संयतीनां निजोदरप्रमाणेन विज्ञेयम् १४ । तथाऽवग्रहानन्तकं १५ पट्टः १६अझैरुकं १७ चलनिका च बोद्धव्या १८, अभ्यन्तरनिवसनी १९ बहिर्निवसनी २० तथा कञ्चुकश्चैव २१ औपकक्षिका २२ वैकक्षिकी २३ सङ्घाटी २४ स्कन्धकरणी २५ । एवमेतान्योघोपधौ आर्यिकाणां पञ्चविंशतिरुपकरणानि भवन्तीति॥ अथैतान्येव विवृणोति[भा.४०८४] नावनिभो उग्गहनंतओ उ सो गुज्झेदेसरक्खट्ठा। सोय पमाणेणेको, घन-मसिणो देहमासज्ज ।। वृ. इह 'अवग्रहः' इति योनिद्वारस्य सामयिकी संज्ञा, तस्यानन्तकं-वस्त्रमवग्रहानन्तकम्, Page #429 -------------------------------------------------------------------------- ________________ ४२६ बृहत्कल्प-छेदसूत्रम् -२-३/८८ गाथायां पुंस्त्वंप्राकृतत्वात्, तच्च ‘नौनिभं' मध्यभागे विशालं पर्यन्तभागयोस्तुतनुकंगुह्यदेशरक्षार्थं क्रियते । तच्च गणनया एकम्, आर्तव-बीजपातसंरक्षणार्थं च धन-धनवस्त्रेण, पुरुषसमानककशस्पर्शपरिहरणार्थं च मसृणं-मसृणवस्त्रण क्रियते । प्रमाणेन च 'देहं' स्त्रशरीरमासाद्य तद् विधीयते, देहो हि कस्याश्चित्तनुः कस्याश्चित्तु स्थूलः ततस्तदनुसारेण विधेयमित्यर्थः ।। [भा.४०८५] पट्टो वि होइ एक्को, देहपमाणेण सो उ भइयव्वो। छादतोग्गहणंतं, कडिबद्धो मल्लुकच्छा वा ॥ वृ-पट्टाऽपि गणनयको भवति।सच पर्यन्तभागवर्त्तिवीटकबन्धबद्धः, पृथुत्वेन चतुरङ्गुलप्रमाणः समतिरिक्तो वा, दैर्येण तु स्त्रकटीप्रमाणः । स च देहप्रमाणेन भक्तव्यः, पृथुलकटीभागाया दीर्ध सङ्कीर्णकटीभागायास्तुहस्व इत्यर्थः । स चावग्रहानन्तकमुभयान्तयोराच्छादयन् कटीबद्धः सन् मल्लकक्षावद् ज्ञायते॥ [भा.४०८६] अड्ढोरुगो वि ते दो, वि गिहिउंछादए कडीभागं । जानुप्पमाणा चलणी, असिव्विया लंखियाए व ।। वृ- अर्धारुकोऽपि 'तौ द्वावपि' अवग्रहानन्तक-पट्टावुपरिष्टाद् गृहीत्वा सर्वं कटीभागमाच्छादयति, सच मल्लचलनाकृति केवलमूर्वोरन्तरे ऊरुद्वयेच कसाबद्धः । चलनिकाऽप्येवमेव, नवरमधो जानुप्रमाणा अस्यता लडिकापरिधानवत्-वंशाग्रनर्तकीचलनकवदसौ मन्तव्या॥ [भा.४०८७] अंतोनियंसणी पुन, लीनतरा जाव अद्धजंघातो। बाहिर खुलगपमाणा, कडीय दोरेण पडिबद्धा ॥ वृ-अन्तर्निवसनीपुनरुपरिकटीभागादारभ्याधोऽर्धजजायावद्भवति।साच परिधानकाले लीनतरा परिधीयते, मा भूदनावृता जनोपहास्येति। बहिर्निवसनी पुनरुपरि कटीभागादारभ्याधः 'खुलकप्रमाणा' चरणगुल्फ यावदित्यर्थ, कट्यां च दवरकेण प्रतिबद्धा ।। इदमधःशरीरस्य षड्विधमुपकरणमुक्तम् । अथोर्ध्वकायोपयोगि कञ्चुकादिकं व्याख्याति[भा.४०८८] छादेति अनुक्कुयिते, उरोरुहे कंचुओ असिव्वितओ। एमेव य उक्कच्छी, सा नवरं दाहिणे पासे ।। वृ-दर्घामाश्रित्य स्वहस्तेनार्धतृतीयहस्तप्रमाणः पृथुत्वेन तु हस्तमानः 'अशीवितः' उभयतः कटीदेशे कसावबद्धः कञ्चुकः क्रियते। सच उरोरुहौ छादयति, किम्भूतौ ? 'अनुत्कुचितौ' (अ) श्लथौ; गाढपरिधाने हि विविक्तविभागौ भवेताम् । कक्षायाः समीपमुपकक्षम्, तत्र भवा औपकक्षिकी, अध्यात्मादित्वादिकणप्रत्ययः, “एवमेव च' कञ्चुकवत् तस्या अपि स्वरुपं वक्तव्यम् । सा नवरंदक्षिणेपाचँसमचतुरस्र स्वहस्तेन सार्धहस्तप्रमाणा उरोभागंपृष्ठंच प्रच्छादयन्तीवामस्कन्धे वामपार्थे च वीटकबद्धा परिधीयते॥ [भा.४०८९] वेगच्छिया उ पट्टो, कंचुकमुक्कच्छियं च छादेति । संधाडीओ चउरो, तत्थ दुहत्था उ वसधीए । वृ-औपकक्षिकीविपरीतो वैकक्षिकीनामकः पट्टः कञ्चकमौपकक्षिकी च छादयन् वामपार्थे परिधीयते । तथोपरि परिभाग्याः सङ्घाटिकाश्चतस्त्र भवन्ति-एका द्विहस्ता, द्वे त्रिहस्ते, एका च . चतुर्हस्ता; दैर्येण चतस्रोऽपि सार्धहस्तत्रयप्रमाणाश्चतुर्हस्ता वा मन्तव्याः । तत्र 'द्विहस्ता' Page #430 -------------------------------------------------------------------------- ________________ उद्देशक : ३, मूलं - ८८, [भा. ४०७९] द्विहस्तविस्तृता सङ्घाटिका वसत्यां परिधीयते, न तां विहाय प्रकटदेहया कदाचिदासितव्यमिति भावः ॥ [भा. ४०९० ] दुनि तिहत्थायामा, भिक्खट्ठा एग एग उच्चारे । ओसरणे चउहत्थाऽनिसन्नपच्छाइणी मसिणा ।। ४२७ एका वृ- ये च द्वे 'त्रिहस्तायामे' त्रिहस्तविस्तृते तयोर्मध्ये एका भिक्षार्थं गच्छन्त्या प्राव्रियते, उच्चारभूमिं व्रजन्त्या । तथा 'समवसरणे' व्याख्यान श्रवणादौ गच्छन्ती चतुर्हस्तां प्रावृणोत, साच प्राक्तनसङ्घाटभ्यो बृहत्तरप्रमाणा अनिषन्नप्रच्छादनार्थं क्रियते; यतो न तत्र संयतीभिरुपवेष्टव्यम्, किन्तुर्ध्वस्थिताभिरनुयोगश्रवणादि विधेयम्, ततस्तया स्कन्धादारभ्य पादौ यावद् वपुः प्रच्छाद्य तिष्ठन्ति । एताश्च पूर्वप्रावृतवेषप्रच्छादनार्थ प्रवचनवर्णप्रभावनार्थच मसृणाः क्रियन्ते । चतस्रोऽपि च गणनाप्रमाणेनैकमेय रुपं गण्यते, युगपत् परिभोगाभावात् ॥ [भा. ४०९१] खंधकरणी उ चउहत्थवित्थरा वायविहुतरक्खट्ठा । खुजकरणी उकीरति, रुववतीणं कुड्डुहहेउं ॥ वृ-स्कन्धकरणी चतुर्हस्तविस्तरा समचतुरस्रो प्रावरणस्य वातविधुतरक्षणार्थं चतुष्फला स्कन्धे कृत्वा प्राव्रियते । रुपवतीनां च संयतीनां कुटुभहेतोः कुब्जकरण्यपि क्रियते, पृष्ठदेशे संवर्त्तितया औपकक्षिकी-वैकक्षिकीनिबद्धया तया विरुपतापादनाय कुटुभं विधीयत इति भावः ।। उपसंहरन्नाह[ भा. ४०९२] संघातिमेतरो वा, सव्वोऽवेसो समासओ उवधी । पासगबद्धमसिरो, जं चाऽऽइन्नं तगं नेयं ॥ वृ- सर्वोऽपि 'एषः ' अनन्तरोक्त उपधि समासतो द्विधा-सङ्घातिम इतरश्च । द्वित्र्यादिखण्डानां मीलनेन निष्पन्नः सङ्घातिमः, 'इतरः' तद्विपरीतोऽसङ्घातिमः । अयं च 'पाशकबद्धः' कसाबद्धः तथा 'अशुषिरः' गृहिसीवनिकारहितः प्रतिथिग्गलवर्जितो वा । यच्चात्र द्रव्य क्षेत्रकाल- भावेषु संविग्नगीतार्थै पूर्वसूरिभिराचीर्णं तत् सर्वमपि 'ज्ञेयं' सम्यगुपादेयतया मन्तव्यम् ॥ जिनकल्पिकादीनामुपधेरुत्कृष्टादिविभागमाह अथ [भा. ४०९३] उक्कोसओ जिनाणं, चउव्विहो मज्झिमो वि य तहेव । जहन्नो चउव्विहो खलु, एत्तो थेराण वोच्छामि ।। वृ- त्रयः कल्पाः प्रतिग्रहश्चेति जिनकल्पिकानामुत्कृष्ट उपधिश्चतुर्विधः । एवं मध्यमोऽपि रजोहरण-पटलक-पात्रबन्ध- रजस्त्राणभेदात् चतुर्विधः । जघन्योऽपि मुखपोतिका - पादकेसरिकागोच्छक पात्रस्थापनमेदात् चतुर्विधः । इत ऊर्ध्वं स्थविरकल्पिकानां वक्ष्यामि ॥ [ मा. ४०९४] उक्कोसो थेराणं, चउव्विहो छव्विहो य मज्झिमओ । जहन्नो चउव्विहो खलु, एत्तो अजाण वोच्छामि ॥ वृ-उत्कृष्टो जधन्यश्च जिनकल्पिकानामिव द्रष्टव्यः । नवरं मध्यमः षड्विध इत्थम्-रजोहरणं पटलकानि पात्रकबन्धो रजस्त्राणं मात्रकं चोलपट्टकश्चेति । (इत ऊर्ध्वमार्याणां वक्ष्यामि) ।। [भा. ४०९५] उक्कोसो अट्टविहो, मज्झिमओ होइ तेरसविहो उ । जहन्नो चउव्विहो खलु, एत्तो उ उवग्गहं वोच्छं । वृ- आर्याणामुत्कृष्ट उपधिरष्टविधः त्रयः कल्पाः ३ प्रतिग्रहः ४ अभ्यन्तरनिवसनी ४ Page #431 -------------------------------------------------------------------------- ________________ बृहत्कल्प-छेदसूत्रम् -२-३/८८ बहिर्निवसनी ६ सङ्घाटिका ७ स्कन्धकरणी ८ चेति । मध्यमस्त्रयोदशविधो भवति, तद्यथारजोहरणं १ पटलकानि २ पात्रकबन्धः ३ रजस्त्राणं ४ मात्रकं ४ कमठकम् ६ अवग्रहानन्तकं ७ पट्टः ८ अर्धोरुकः ९ कञ्चुकः १० चलनिका ११ औपकक्षिकी १२ वैकक्षिकी १३ चेति । जधन्यश्चतुर्विधः-मुखपोतिका पात्रकेसिरका गोच्छकः पात्रस्थापनं चेति । इत ऊर्ध्वमतिरिक्तो य उपधिः स उपग्रहोपधिरुच्यते, तमपि जघन्यादिविभागनिरुपणेनाहं वक्ष्ये ॥ तत्र जघन्यं तावदाह[भा. ४०९६] पीढग निसिज्ज दंडगपमजणी घट्टए डगलमादी । पिप्पलग सूयि नहरणि, सोहणगदुगं जहन्नो उ ॥ वृ- पीठकं काष्ठमयं छगणमयं वा । निषद्या रजोहरणस्य सौत्रिकी और्णिकी चेति द्विविधा । 'दण्डकप्रमार्जनी नाम' यया वसति प्रमार्ज्यते । 'घट्टकः' लिप्तपात्रमसृणताकारकः पाषाणः । डगलगाः-पुतप्रोञ्छनोपयोगिनो लेष्टवाः, आदिशब्दात् कुटमुख- क्षारादिपरिग्रहः । 'पिष्पलकः’ क्षुरप्रः । ‘सूची' यया वस्त्रं सीव्यते । 'नखहरणी' यया नखा उद्धियन्ते । 'शोधनकद्विकं तु' कर्णशोधनं दन्तशोधनं चेति । एष जघन्य औपग्रहिकोपधि ।। अथ मध्यममाह ४२८ [भा. ४०९७] वासत्ताणे पनगं, चिलिमिणिपनगं दुगं च संथारे । दंडादीपनगं पुन, मत्तगतिग पादलेणिया ।। - वर्षात्राणानां पञ्चकम्-वालमयं सूत्रमयं सूचीमयं कुटशीर्षकं छत्रकं चेति । तत्र वालमयं सूत्रमयं च प्रतीतम्, सूची - ताडपत्रसूच्यादिखुम्पकः, कुटशीर्षकं पलाशपत्रमयम्, छत्रकं वंशमयम् । चिलमिलिपञ्चकम्-वालमयी सूत्रमयी वल्कमयी कटमयी दण्डमयी चेति, पञ्चापि प्रथमोद्देशके विख्याताः । संस्तारकद्विकं शुषिरा - ऽशुषिरभेदात् । शुषिरस्तुणादिमयः, अशुषिरः काष्ठमयः । दण्डादिपञ्चकम् दण्डको विदण्डको यष्टिर्वियष्टिर्नालिका चेति । मात्रकत्रिकं तु खेल- प्रश्रवणोच्चारमात्रकमेदात् । पादलेखनिका वटोदुम्बरप्लक्षा-ऽमलिकाकाष्ठमयी वर्षासु कर्दमापनयनी ॥ [भा. ४०९८] चम्मतिगं पट्टदुगं, नायवो मज्झिमोवही एसो । अजाण वारए पुन, मज्झिमए होति अतिरित्तो ।। वृ- चर्मत्रिकं पुनरिदम्- आस्तरणं प्रावरणमुपवेशनं च । दवानलादिभये यद् भूमावास्तीर्यते प्रलम्बादिविकरणाय वा तदास्तरणम्, षट्पदिकाभये यत् पार्व्रयते तत् प्रावरणम्, यत्रार्शोरोगादिभि करणैरुपविश्यते तदुपवेशनम् । अथवा कृत्ति तलि वद्धश्चेति चर्मत्रिकम् । पट्टद्विकम्-संस्तारपट्ट उत्तरपट्टश्च, अथवा पर्यस्तिकापट्टः सन्नाहपट्टश्चेति । तत्र पर्यस्तिकापट्टी योगपट्ट उच्यते, सन्नाहपट्टस्तु विहारेउपधेः शरीरेण सह बन्धनार्थः । एष मध्यम उपग्रहोपधि साधूनां ज्ञातव्यः । आर्याणामप्येवमेव, नवरम्-तासां जनमध्य एवोपाश्रयस्यानुज्ञातत्वात् ससागारिके वसन्तीनां प्रश्रवणव्युत्सर्जनानन्तरमुदकस्पर्शनार्थं वारको मध्यमोपधावतिरिक्तो भवति ।। अथोत्कृष्टमाह [भा. ४०९९] संथारो या, दुविहो एगंगिएतरो चेव । पोत्थगपनगं फलगं, बितियपदे होति उक्कोसो।। वृ- 'अत्राः' अनुयोगदाने गुरूणां भङ्गचारणिकार्थमुपकरणम् । संस्तारको द्विविधः एकाङ्गिक इतरश्च । तत्रैकाङ्गिकः- तिनिशादिकाष्ठपट्टरूपः, इतरः- दवरकावबद्धकम्बिकामयः । प्रथमपदमुत्सर्ग तदपेक्षया द्वितीयपदम् - अपवादस्तत्र प्रागुक्तस्वरूपं पुस्तकपञ्चकं गृह्यते, 'फलकं नाम' पट्टिका Page #432 -------------------------------------------------------------------------- ________________ उद्देशकः ३, मूलं-८८, [भा. ४०९९] ४२९ यस्यां लिखित्वा पठ्यते । एष उत्कृष्ट औपग्रहिकोपधिर्मन्तव्यः॥ मू. (८९) नो कप्पइ निग्गंथाणं उग्गहनंतगंवा उग्गहपट्टगंवाधारित्तए वा परिहरित्तए वा। वृ-अथास्य सूत्रस्य कः सम्बन्धः? इत्याह[भा.४१००] उभयम्मि वि अविसिटुं, वत्थग्गहणं तु वन्नियं एयं । जं जस्स होति जोग्गं, इदानितं तं परिकहेति ॥ वृ-उभयं-भिन्ना-ऽभिन्नसूत्रद्वयम् एतस्मिन् ‘अविशिष्टम्' 'इदं साधूनां कल्पते न कल्पते वा' इत्यादिविशेषरहितम् 'इदम्' 'एतत्' अनन्तरोक्तं वस्त्रग्रहणं वर्णितम् । इदानीं तु यद् यस्य संयतस्य संयत्यावा योग्यंतत्तत् सूत्रेणैव साक्षात्परिकथयतीति। अनेन सम्बन्धेनायातस्यास्य व्याख्या-नो कल्पते निर्ग्रन्थानाम् ‘अवग्राहनन्तकं वा' गुह्यदेशपिधानवस्त्रम् ‘अवग्रहपट्टकं वा' तस्यवाच्छादकपट्ट धारयितुंवा परिहतुवा इति सूत्रस पार्थः ॥अथ नियुक्तिविस्तरः[भा.४१०१] निग्गंथोग्गहधरणे, चउरो लहुगाय दोस आणादी। अतिरेगउवहि तह लिगंभेद बितियं अरिसमादी । वृ-निर्ग्रन्थानामवग्राहनन्तक-पट्टयोर्धारणे चत्वारो लघुमासाः आज्ञादयश्च दोषाः, अतिरिक्तोपिधित्वादधिकरणं भवेत् । तथा लिङ्गभेदः कृतो भवति, साध्वीनां लिङ्गमाश्रितं भवतीत्यर्थः । द्वितीयपदविषयम् अर्थोरोगादिकं तत्रावग्रहानन्तकं पट्टकं वा धारयेत् ॥ द्वितीयपदमेव भावयति[भा.४१०२]भगंदलं जस्सऽरिसा व निच्चं, लगंति पूर्य लसि सोणियं वा। उड्डाह-सज्झाय-दयानिमित्तं, सो उग्गहं बंधति पट्टगं च ॥ वृ-'भगन्दरः' पुतसन्धौ व्रणविशेषोऽसि वा यस्य नित्यं पूयं वा रसिकां वा शोणितं वा गलन्ति सः ‘उड्डाह-स्वाध्याय-दयानिमित्तम्' 'अहो! अमी ईशा एवपापोपहता रोगाभिभूतवपुषः प्रव्रज्यांप्रतिपद्यन्ते' इत्यादिक उड्डाहोमा भूत, तथा शोणिते परिगलति स्वाध्यायः कर्तुंन कल्पते, पूय-रसिका-शोणितगन्धाध्राणाच्च कीटिकादिप्राणिनामभिलीयमानानामुपवातो भवेत्, अतोऽवग्रहानन्तकं पट्टकं वा बध्नाति ॥ तत्र च बद्धे पूयादिभिरुपलिप्ते धावनविधिमाह[भा.४१०३] पूय-लसिगा उवस्सए, धोव्वति असहुस्स पट्टो रुहिरं च । उग्गह पट्टं च सहू, वीयारे लोहियं धुवति॥ वृ-पूय-रसिके अस्वाध्यायिकंन भवतीति कृत्वातेउपाश्रय एवधाव्येते।यो भगन्दरादिरोगवान् बहिर्गन्तुमसहिष्णुस्तस्य पट्टो रुधिरं चोपाश्रये कचिद् मात्रके धाव्यते, ततस्तद्धावनं हस्तशताद् बहिः परिष्ठाप्यते। अथासौ बहिर्गन्तुंसहिष्णुस्ततो विचारभूमौ गः स्वयमेवावग्रहपट्टकं रुधिरंच धावति ।। पट्टबन्धने विधिमाह[भा.४१०४] ते पुन होति दुगादी, दिवसंतरिएहि बज्झए तेहिं । अरुगंइहरा कुच्छइ, ते विय कुच्छंति निचोला ॥ वृ-'तेपुनः' अवग्रहान्तक-पट्टाः 'द्विकादयः' द्वि-त्रिप्रभृतिसङ्ख्याकाः कर्तव्याः, तैर्दिवसान्त. रितैर्ऋणो बध्यते। किमुक्तं भवति?-येनावग्रहानन्तकेन पट्टकेन वा अद्यव्रणो बद्धः द्वितीयदिने स उन्मोच्य प्रक्षाल्य चापरिभोग्य विधेयः, यः पुनराधदिने न परिभुक्तः तेन तस्मिन् दिने व्रणो Page #433 -------------------------------------------------------------------------- ________________ ४३० बृहत्कल्प-छेदसूत्रम् - २-३/८९ बन्धनीयः । ‘इतरथा' प्रतिदिनं तेनैव पट्टेन बन्धे दीयमाने 'अरुकं' व्रणः 'कुध्यति ' पूतिभावमुपगच्छति, 'तेऽपि च ' पट्टाः प्रतिदिनं बध्यमानतया नित्यं सदैवाद्राः सन्तः कुध्यन्ति, अतो द्व्यादयः पट्टाः कर्तव्याः ॥ मू. (९०) कप्पइ निग्गंथीणं उग्गहणंतगं वा उग्गहपट्टगं वा धारित्तए वा परिहरित्तए वा ॥ वृ- अस्य व्याख्या प्राग्वत् ॥ अत्र भाष्यविस्तरः [भा. ४१०५ ] निग्गंथीण अगिण्हणे, चउरो गुरुगा य आयरियमादी । तच्चन्निय ओगाहण, निवारणऽन्नेसि ओहसणं ।। वृ-निर्ग्रन्थीनामवग्रहानन्तकस्य पट्टकस्य वा अग्रहणे चतुर्गुरुकाः । इदं सूत्रमाचार्य प्रवर्त्तिन्या न कथयति चत्वारो गुरवः । प्रवर्त्तिनी सयतीनां न कथयति चत्वारो गुरवः । आर्यिका न प्रतिशृण्वन्ति मासलघु । भिक्षादौ गच्छन्ती यदयवग्रहानन्तकं पट्टकं वा न गृह्णाति तत एते दोषाः तच्चन्निकस्यरुधिरस्य भिक्षां गच्छन्त्याः 'अवगाहनं' प्रसरणम् अन्येषु दिवसेष्ववग्रहानन्तक-पट्टाभ्यां निवारितमासीत् परं तद्दिवसमगृहीत्योस्तयो रुधिरमवगाढम्, ततो लोकस्तद् दृष्ट्वा उपहसनं कुर्यात् ॥ कथम् ? इति चेद् उच्यते [भा. ४१०६]भिक्खाइ गयाए निग्गयं, रुहिरं दट्टुमसंजता वदे । fast! बत! खणऽयं जनो, दोसमिणं असमिक्ख दिक्खिओ ।। वृ- भिक्षायां गतायास्तस्या रुधिरं निर्गतं दृष्ट्वा असंयता वदेयुः - 'बत !' इत्यामन्त्रणे, भो भो लोकाः ! धिगहो ! कष्टम्, केनायं स्त्रीलक्षणो जनोऽमुं दोषमसमीक्ष्य दीक्षितः । अपि च[भा. ४१०७] छक्कायाण विराधन, पडिगमनादीणि जाणि ठाणाणि । तब्भाव पिच्छिऊणं, बितियं असती अहव जुन्ना ।। वृ- शोणिते परिगलति षट्कायानां विराधना भवति । सा च 'यद् द्रष्टव्यं तद् दृष्टम्' इति कृत्वा प्रतिगमना ऽन्यतीर्तिकगमनादीनि यानि स्थानानि कुर्यात् तन्निष्पन्नं प्रवर्त्तिन्याः प्रायश्चित्तम् । स. चासौ शोणितपरिगलनलक्षणो भावश्च तद्भावस्तं 'प्रेक्ष्य' विलोक्य तरुणा उपसर्गयेयुरिति वाक्यशेषः । द्वितीयपदमंत्राभिधीयते - “असइ ”त्ति नास्त्यवग्रहानन्तकम्, अथवा जीर्णा स्थविरा सा संयती अतो विद्यमानमपि न गृह्णीयादपि । अथेदमेव भावयति [भा. ४१०८] दिट्ठ अदिट्ठव्व महं जनेनं, लज्जाए कुज्जा गमनाइगाई । लज्जाए भंगो व हवेज तीसे, लज्जाविनासे व स किं न कुज्जा ।। बृ- 'यद् ममाद्रष्टव्यं तद् दृष्टं तावद् जनेन, अतो नाहमत्र स्थातुं शक्नोमि' इति कृत्वा लज्जया 'गमनादीनि' गृहवासाश्रयणादीनि कुर्यात्, यद्वा 'तस्याः संयत्या लज्जाया भङ्गो भवेत्, लज्जाविनाशे चसा किं नामाकृत्यं न कुर्यात् ? ॥ तथा [भा. ४१०९] तं पासिउं भावमुदिन्नकम्मा, पेल्लेज सज्जेज्ज व सा वि तत्थ । तं लोहियं वा वि सरक्खमादी, विज्जा समालब्भऽ भिजोययंति ॥ - 'तं' रुधिरपरिगलनरूपं भावं दृष्ट्वा केचित् तरुणा उदीर्णकर्माणश्चतुर्थप्रतिसेवनार्थं प्रेरयेयुः । 'साऽपि च ' संयती तत्र 'सजेत्' सङ्गं कुर्यात् । यद्वा यद् लोहितं 'सरजस्कादयः' कापालिकप्रभृतयः 'समालभ्य' गृहीत्वा विद्याप्रयोगेण 'अभियोजयन्ति' वशीकुंर्वन्ति ॥ यत एवमतः Page #434 -------------------------------------------------------------------------- ________________ ४३१ उद्देशकः ३, मूलं-९०, [भा. ४११०] [भा.४११०] अंतो घरस्सेव जतं करेती, जहा नडी रंगमुवेउकामा। लज्जापहीणा अह सा जणोघं, संपप्पते ते पकरेति हावे॥ वृ-यथा 'नटी' रङ्गनर्तकी ‘रङ्गं नाट्यस्थानमुपैतुकामा गृहस्यैव अन्तः' मध्ये 'जयं' लज्जाया अभिभवं करोति, 'अथ' अनन्तरं सा लज्जापहीणा सती 'जनौधं जनसमुदायं सम्प्राप्य 'तान् तान्भावान् अङ्गविक्षेपादीन्प्रकरोति; एवंसंयत्यपिभिक्षां गन्तुमनाः प्रतिश्रयमध्य एवावग्रहानन्तकादिभिरुपकरमैरात्मानंसुप्रावृतंकरोति, ततो भिक्षांपर्यटन्तीतरुणादिष्वलोकमानेष्वपिसुखेनैव लज्जां पराजयते ॥ अथ द्वितीयपदमाह[भा.४१११] असईय नंतगस्स उ, पणवन्नुत्तिन्निगा व न उ गिण्हे। निग्गमनं पुन दुविहं, विधि अविही तत्थिमा अविही॥ वृ-अवग्रहानन्तकस्याभावे पञ्चपञ्चाशद्वर्षेभ्य उत्तीर्णा वा संयती प्रम्लानयोनिकतया न .. गृह्णीयादपि । इह च भिक्षाया निर्गमनं द्विविधम्-विधिना अविधिना च । तत्र तावदयमविधिः। [भा.४११२] उग्गहमादीहि विना, दुनियत्था वा वि उक्खुलणियत्था। एक्कादवे य अविही,चउगरु आणाय अणवत्था। वृ-अवग्रहानन्तकादिभिर्विना भिक्षां निर्गच्छति, दुर्निवसिता वा उखुलनिवसिता वा भिक्षां पर्यटति, एका वा द्वे वा भिक्षायां गच्छतः, एष सर्वोऽप्यविधिरुच्यते । अत्र च चतुर्गुरुकाः, आज्ञाच भगवतां विराधिता स्यात्, 'अनवस्था च' एकामविधिना निर्गचछन्तीं दृष्ट्वा अन्याऽपि निर्गच्छतीत्येवंलक्षणा भवति ।। तथा[भा.४११३] मिच्छत्त पवडियाए, वाएण व उद्ध्यम्मि पाउरणे। गोयरगया व गहिया, धरिसणदोसे इमें लहति॥ वृ-अवग्रहानन्तकादिभिर्विना भिक्षांगतासहसा मूर्छादिना प्रपतेत्। ततःप्रपतिताया वातेन वा प्रावरणे समुद्भूतेऽप्रावृतत्वं दृष्ट्वा लोको मिथ्यात्वं गच्छेत्, यथा-नास्त्यमीषाममुष्य दोषस्य प्रतिषेधः, कथमन्यथेयमित्थं निर्गच्छेत् ? । गोचरगता वा काचिदविधिनिर्गता केनचिद् विटेन गृहीता घर्षणदोषान् ‘अमून्' वक्ष्यमाणान् लभते । ते चोपरि दर्शयिष्यन्ते। अथ विधिनिर्गमे गुणमाह[भा.४११४]अड्डोरुगा-दीहणियासणादी, सारक्खिया होति पदे विजाव । तिण्हं पि बोलेण जनोऽभिजातो, एकंबरा खिप्पमुवेति नासं॥ कृ-याऽ|रुक-दीर्घनिवसन्यादिभिसुप्रावृता निर्गता साकेनचिद्घर्षितुमारब्धाऽपि पदावपि यावत् संरक्षिता भवति, तिसृणां च संयतीनां बोलेन 'अभिजातः' शिष्टो जनो भूयान् मिलतीति शेषः । या पुनरेकाम्बरा निर्गच्छति सा 'क्षिप्रं' शीघ्रं विनाशं' संयमपरिभ्रंशमुपैति ॥ [भा.४११५] उव्वेल्लिए गुज्झमपस्सतो से, हाहक्कितस्सेव महाजनेनं । धिद्धि त्ति ओथुक्ति-तालियस्सा, पत्तो समं रन्नदवो व वेदो। वृ-विधिनिर्गतायाः केनचित् प्रत्यनीकेन 'उद्वेल्लिते' उत्सारितेऽपि बाह्योपकरणे यावदसौ गुह्यं न पश्यति तावद् महाजनेन हाहाकृतो धिगधिगिति भणनपूर्वकं च ओथुक्कितः-गाढं जुगुप्सितस्ताडितश्चासौ, ततस्तस्यैवंविधां विडम्बनां प्रापितस्य 'वेदः' मोहोदयोऽरण्यदव इव . Page #435 -------------------------------------------------------------------------- ________________ ४३२ सद्यः शमं प्राप्तः ॥ अथाविधिनिर्गमने दोषानाह [ भा. ४११६] तत्थेव य पडिबंधो, पडिगमनादीनि जानि ठाणानि । डिंडी य बंभचेरे, विधिनिग्गमणे पुनो वोच्छं ॥ बृहत्कल्प-छेदसूत्रम् - २-३/९० वृ- येन सा अविधिनिर्गता धर्षिता तत्रैव 'प्रतिबन्धः' अनुरागो भवेत् । तदनुरक्ता च सती प्रतिगमनादीनि यानि स्थानानि करोति तन्निष्पन्नं प्रवर्त्तिन्याः प्रायश्चित्तम् । ऋतुसमयगृहीतायाश्च कस्याश्चिद् डिण्डिमबन्धो भवेत्, ततश्च महती प्रवचनापभ्राजना । ब्रह्मचर्यविराधना च परिस्फुटैव तस्याः सञ्जायते । विधिनिर्गमने च पुनः ' भूयोऽपि गुणातन् वक्ष्ये ।। एतच्च सांन्यासिकीकृत्य प्रथममविधिनिर्गमने दोषशेषमाह [भा. ४ ११७]न केवलं जा उ विहम्मिआ सती, सवच्चतामेति मधूमुहे जने । उवेति अन्ना वि उ वच्चपत्ततं, अपाउता जा अनियंसिया य ॥ वृ- न केवलं यैव 'सती' साध्वी 'विधर्मिता' शीलधर्मात् च्याविता सैव 'मधुमुखे जने' दुर्जनलोके 'सवाच्यतां' सकलङ्कतामुपगच्छति, 'अन्याऽपि एतव्यरिक्ताऽपि 'वाच्यपात्रतां' वचनीययोग्यतामुपैति या 'अप्रावृता' औपकक्षिक्याधुपरितनोपकरणरहिता 'अनिवसिताच' अवग्रहानन्तकाद्यधस्तोपकरणवर्जिता भवति । किञ्च [भा. ४११८] न भूसणं भूसयते सरीरं, विभूसणं सील हिरी य इथिए । गिरा हि संखारजुया वि संसती, अपेसला होइ असाहुवादिनी ॥ वृ- 'भूषणं' हारादिकं पिनह्यमानं शरीरं न भूषयति, किन्तु 'शीलं ' ब्रह्मचर्यं ' ह्रीश्च' लज्जा एतदेव द्वयं स्त्रया विभूषणम् । अमुमेवार्थं प्रतिवस्तूपमया द्रढयति- 'गीः ' वाणी सा संस्कारयुक्ताऽपि 'संसदि' सभायां यदि 'असाधुवादिनी' जकार-मकाराद्यसभ्यप्रलापिनी तदा 'अपेशला' शिष्टजनजुगुप्सनीयतया न शोभना भवति, एवमियमपि स्त्री हारादिविभूषिताऽपि यदि शीललज्जाविकला तदा शिष्टजनस्य जुगुप्सनीया भवति, अतः स्त्रियाः शीलं लज्जा च विभूषणम् । एतच्च शील- लज्जाद्वयं संयत्या विधिप्रावरणे भवति । अतस्तदेवाभिधित्सुराह [भा. ४११९] पट्टऽड्डोरुय चलणी, अंतो तह बाहिरा नियंसणिया । संघाडि खुजकरणी, अनागते चैव सतिकाले ॥ वृ- पट्टकोऽर्धोरुकश्चलनिका अन्तर्निवसनी बहिर्निवसनी सङ्घाटिका कुब्जकरणी उपलक्षणत्वादवग्रहानन्तकं कञ्चुक औपकक्षिकी वैकक्षिकी चानागत एव 'सत्काले' भिक्षासमये ध्ढतरमेतान्युपकरणानि साध्व्या प्रावरणीयानि ।। इदमेव बिभावयिषुराह [भा.४१२०] उग्गहणमादिएहिं, अज्जाओ अतुरियाउ भिक्खस्स । जोहो व्व लंखिया वा, अगिण्हणे गुरुग आणादी ॥ बृ- अवग्रहानन्तकादिभिरुपकरणैः 'आर्या' संयत्यो भिक्षाऽत्वरिता आत्मानं भावयन्ति । क इव ? इत्याह-योध इव लङ्घिकेव वा । यथा योधः सङ्ग्रामशिरसि । प्रवेष्टुमनाः सन्नाहं पिनह्यति, यथा च लतिका रङ्गभुवं प्रविशन्ती पूर्वं चलनिकादिना गुडापिनद्धमिवात्मानं करोति, एवमार्याऽप्यवग्रहानन्तकादिसुप्रावृता निर्गच्छति । अथैतान्युपकरणानि न गृह्णाति ततश्चतुर्गुरुका आज्ञादयश्च दोषाः ॥ अथ विशेषज्ञापनार्थमिदमाह Page #436 -------------------------------------------------------------------------- ________________ ४३३ उद्देशकः ३, मूलं-९०, [भा. ४१२१] [भा.४१२१] जोहो मरुंडजड्डो, नाडइणी लंखिया कतलिखंभो । ___अज्जाभिक्खग्गहणे, आहरणा होंति नायव्वा ॥ वृ- आर्याया भिक्षाग्रहणे यद् उपकरणप्रावरणं तत्रैतान्युदाहरणानि ज्ञातव्यानि । तद्यथा'योधः' प्रतीतः १ 'मरुण्डजड्डो' मरुण्डस्य राज्ञो हस्ती २ 'नाटकिनी' नर्तकी ३ 'लझिका' वंशाग्रनर्तकी ४'कदलीस्तम्भः' प्रतीतः ५॥ तत्रयोधष्टान्तमाह[भा.४१२२] वणिओ पराजितो मारिओ व संखे अवम्मितो जोहो। सावरणे पडिपक्खो, भयं च कुरुते विवक्खस्स ॥. वृ-योधः सङ्ख्ये' सङ्ग्रामे अवर्मितः प्रविशन् व्रणितः पराजितो मारितो वा जायते । 'व्रणितो नाम परैः प्रहारजर्जरीकृतः, 'पराजितः' पराभग्नः, 'मारितः पञ्चत्वंप्रापितः।यस्तुसावरणस्तस्य प्रतिपक्षो वक्तव्यः । किमुक्तं भवति?-यः सन्नाहं पिनह्य रणशिरसि प्रविशतिस न प्रहारैर्जर्जरीभवति, न वा पराजीयते, न वा मरणमासादयति, प्रत्युत विपक्षस्य भयं कुरुते; एवमार्याऽपि यथोक्तोपकरणप्रावरणमन्तरेण भिक्षां प्रविष्टा तरुणैरुपद्रूयते, सुप्रावृतातु सर्वथैव तेषामगम्या भवति ।। उक्तो योधष्टान्तः । सम्प्रति मुरुण्डजड्डदृष्टान् गाथाचतुष्टयेनाह[भा.४१२३] विहवससा उ मुरुंडं, आपुच्छति पव्वयामऽहं कत्थ । पासंडे य परिक्खति, वेसग्गहणेण सो राया॥ [भा.४१२४] डोंबेहिं च धरिसमा, माउग्गामस्स होइ कुसुमपुरे । उब्भावणा पवयणे, निवारणा पावकम्माणं॥ [भा.४१२५] उज्झसुचीरे सा यावि निवपहे मुयतिजे जहाबाहिं। उच्छूरिया नडी विव, दीसति कुप्पासगादीहिं।। [भा.४१२६] धिद्विकतो यहाहकतो य लोएण तज्जतो मेंठो । ओलोपणहितैन य, निवारितो रायसीहेण॥ - वृ-कुसुमपुरे नगरे मरुण्डो राया । तस्स भगिनी विहवा । सा अन्नया रायं पुच्छइ- अहं पव्वइउकामा, तो आइसह कत्थ पव्वयामि? त्ति । तओ राया पासंडीणं वेसग्गहणेण परिक्खं करेइ । हस्थिमिठा संदिट्ठा, जहा-पासंडिमाउग्गामेसु हत्थिं सन्निजाह, भणिजाह य-पोत्तं मुयाहि, अनहाइमिणा हिथणा उवद्दवेस्सामित्ति, एक्कम्मि यमुक्केमा ठाहिह, ताव गहग्गहावेह जावसब्वे मुक्का । तओ एगेण मिंठेण चरियाए रायपहे तहा कयं जाव नग्गीभूया। रन्ना सव्वं दिटुं । नवरं अज्जा विहीए पविठ्ठा । रायपहोत्तिन्नाए हत्थी सनिओ- मुयसु पुत्तं ति । तीए पढमं मुहपोत्तिया मुक्का, ततो निसिज्जा, एवं जानि जानि बाहिरिल्लाणि चीवराणि तानि तानि पढमं मुयइ, जाव बहूहिं वि मुक्केहिं नडी विव कंचुकादीहिं सुप्पाउया दीसइ ताहे गोलेण अकंदो कओ-हा पाव ! किमेवं महासइतवस्सिणिं अभिद्दवेसि? त्ति । रन्ना विओलोयणट्ठिएण वारिओ, चिंतियंच-एस धम्मो सव्वत्रुदिह्रो । अन्नेण य बहुजनेन कया सासनस्स पसंसा॥ __ अथाक्षरार्थः-विधवा स्वसा मुरुण्डं राजानमापृच्छति-कुत्राहं प्रव्रजामि? इति। ततः स राजा वेषग्रहणेन पाषण्डिनः परीक्षते । परीक्षार्थमेव च ‘डोम्बैः' हस्तिमिण्ठैः कुसुमपुरे 'मातृग्रामस्य' 1928 Jain Education, International Page #437 -------------------------------------------------------------------------- ________________ ४३४ बृहत्कल्प-छेदसूत्रम् -२-३/९० पाषण्डिस्त्रीजनस्यघर्षणा भवति, वर्तमाननिर्देशस्तत्कालापेक्षया।तदानींचप्रवचनस्य उद्भावना' प्रभावना समजनि । ये च पापकर्माणः संयतीरभिद्रवितुमिच्छन्ति तेषां निवारणा जाता, 'नशक्यन्ते अमूरेवंविधेन वेषेण छलयितुम्' इति कृत्वा । कथं पुनरेतत् संवृत्तम् ? इत्याह-“उज्झसु चीरे" इत्यादि, विधिनिर्गतासंयतीमिण्ठेनाभिहिता-'उज्झ' परित्यजचीवराणि । साऽप्येवमभिहिता 'नृपपथे' राजमार्गे यानि यथाबहिरुपकरणानि तानि तथा मुञ्चति । एवं बहुषु वस्त्रेषु मुक्तेष्वपि यदा सानटीवत् 'कूसिकादिभिः' कञ्चकादिभिर्वस्त्रैः ‘उच्छूरिता' सुप्रावृता दृश्यते तदा लोकेन समिण्ठो घिग्धिक्कतचहाहाकृतश्च तथा तर्जितः' गाढं निर्मिर्सितः। ततश्च ओवलोकनस्थितेन' गवाक्षोपविष्टेन राजसिंहेनासौ निवारितः। सर्वज्ञहष्टश्चायं धर्म' इति कृत्वासाधूनांसमीपे भगिनी प्रव्रज्याग्रहणार्थं विसर्जितेति॥उक्तोमरुण्डजड्डदृष्टान्तः। अथ नर्तकी-लजिकाष्टान्तद्वयमाह[भा.४१२७] पाए वि उक्खिवंती, न लज्जती नट्टिया सुणेवत्था। . उच्छूरिया व रंगम्मि लंखिया उप्पयंती वि॥ कृ-यथा नर्तकी सुनेपथ्यासती पादावप्युक्षिपन्तीनलज्जते, लसिकावारणभूमौ ‘उत्पतन्त्यपि' करणशतान्यपि कुर्वती यथा 'उच्छूरिता' सुप्रावृता सती न लज्जते, एवं संयत्यपि सुप्रावृता न लज्जत इत्युपनयः ॥अथ कदलीस्तम्मदृष्टान्तमाह[भा.४१२८] कयलीखंभो व जहा, उव्वेल्लेउं सुदुक्कर होति । इय अजाउवसग्गे, सीलस्स विराधना दुक्खं ॥ वृ- कदलीस्तम्भो वा यथा पटलबहलत्वाद् ‘उद्वेल्लयितुम्' उद्वेष्टयितुं सुदुष्करो भवति, एवमार्यिकाऽपि बहूपकरणप्रावृतानोद्वेष्टयितुंशक्या। “इय" एवंयोधादिभिर्द्दष्टान्तैर्विधिनिर्गताया आर्यायाः केनचिदुपसर्गे क्रियमाणेऽपि शीलस्य विराधना 'दुःखं दुष्करा मन्तव्या॥किञ्च[भा.४१२९]एक्का मुक्का एक्का यधरिसिया निवेदन जतणाय होति कायव्वा । बाहाड न जहितव्या, सेजतरादी सयं वा वि॥ वृ-'एका काचिद्विधिनिर्गता गृहीताऽपिमुक्ता, एकाच' अपराघर्षिता, ततः 'यतनया' यथा शेषसंयत-संयतीजनो न जानाति तथा गुरूणां निवेदना कर्तव्या । अथ सा बाहाडिता ततो नपरित्यक्तव्याकिन्तु शय्यातरादिनास्वयंवातस्यावपिनंविधेयमितिनियुक्तिगाथासमासार्थः। अथैनामेव विवृणोति[भा.४१३०] विहिनिग्गता उ एक्का, गोयरियाए गहिता गिहत्येहि। संवरियपभावेण य, फिडिया अविराहियचरित्ता ॥ कृ. 'एका' काचिद् विधिनिर्गता गोचरच्यां पर्ययन्ती गृहस्थैर्गृहीता, परं 'संवृतप्रभावेन' सुप्रावरणमाहास्येन सा अविराधितचारित्रा स्फिटिता॥ [भा.४१३१] लोएण वारितोवा, दर्ण सयं वतंसुणेवत्थं । सुद्दिढं तुवसंतो, सविम्हओ खामयति पच्छा। कृयेनसा धर्षितुमारब्धास लोकेनवाधिकारपुरस्सरंवारितः, स्वयंवा 'तो' संयती सुनेपथ्यां सुप्रावृतां दृष्ट्वा 'सुदृष्टममीषां धर्मरहस्यम्' इति कृत्वोपशान्तः सन् सविस्मयः पश्चात्तां संयतीं क्षामयति॥ Page #438 -------------------------------------------------------------------------- ________________ ४३५ उद्देशक ः ३, मूलं-९०, [भा.४१३२] [भा.४१३२] नाभोग पमादेण व, असती पट्टस्स निग्गया गहणे। विहिणिग्गतमाहच्च व, बाहाडितधाडणे गुरुगा। वृ-सा कदाचिद् ‘अनाभोगेन' अत्यन्तविस्मृत्या 'प्रमादेन वा' विकथा-निद्रादिप्रमत्ततया अवग्रहपट्टस्यवाअभावेएवमेव भिक्षार्थनिर्गता, एवम् विधिनिर्गता केनचिद्घर्षिता, विधिनिर्गता वा “आहन्छ" कदाचित् प्रच्छन्नेऽवकाशे गृहीता ततो गुरूणां यतनया निवेदनीयम् । अथ सा कदाचिद्बाहाडिता ततोयस्तांघाटयति-निष्काशयतीत्यर्थः तस्य चतुर्गुरुकाः॥कुतः? इत्याह[भा.४१३३] निजूढ पदुठा सा, भणेइ एतेहि चेव कतमेतं । राय-गिहीहि सयं वा, तंचपसासंति मा बितियं॥ वृ-सा 'नियूढा' निष्काशिता सती साधूनामुपरि प्रद्वेषं यायात्, प्रद्विष्टा च भणति-एतैरेव श्रमणैरित्थं ममैतत् कृतमिति, ततो न परित्यक्तव्या । येन च धर्षिता तमनवस्थाप्रसङ्गवारणार्थं राज्ञा प्रशासयन्ति, गृहिभिर्वा शिक्षयन्ति । यदि प्रभवस्ततः स्वयमपिशासन्ते, 'माद्वितीयंवारमित्यं प्रवर्ततामयम् इति कृत्वा ।। अथ तस्याः सारणविधिमाह[भा.४१३४] दुविहा नायमणाया, अगीयअन्नाय सन्निमादीसु। समावे सिंकहिते, सारिती जा थणं पियती॥ वृ-या बाहाडिता सा द्विविधा-ज्ञाता अज्ञाता ज, ज्ञातगर्भा अज्ञातगर्भा चेत्यर्थः । तत्र या अज्ञातासाअगीतार्थायथान जानन्तितथासंज्ञी-श्रावकस्तदादिकुलेषुस्थाप्यते, तेषांसंज्ञिप्रभृतीनां सद्भावः प्रथममेव कथयितव्यः, कथितेच सद्भावे तेमाता-पितृसमानतया तांतावत् 'सारयन्ति' प्राशुकेन प्रत्यवतारेण पालयन्तियावत् तदीयंकल्पस्थभाण्डं स्तन्यं पिबति, स्तन्यपानान निवर्तत इत्यर्थः॥ [भा.४१३५] जत्थ उ जनेन नातं, उवस्सए चेव तत्थ न य भिक्खं । किं सक्का उड्डेउं, बेति अगीते असति सढे । वृ-यत्रतुजनेन ज्ञातम्यथा-एषाबाहाडिता, तत्रोपाश्रय एव स्थाप्यते, न श्रावकादिकुलेषु। नचसा भिक्षां हिण्डापयितव्या, किन्तुशेषसाध्वीभि साधुभिर्वातस्याः प्रायोग्यं भक्त-पानमानीय दातव्यम् । यद्यगीतार्था भणन्ति-किमेवमीश्याः सङ्ग्रहः क्रियते?; ततः सूरयो ब्रुवते यदि नाम न साह्यते ततः कथयत किं साम्प्रतमेषा शक्या परित्युक्तुम् ? । अथैवं प्रज्ञापितं अपि ते न प्रतिपद्यन्ते ततः श्राद्धान् प्रज्ञापयन्ति ॥ यथा- .. [भा.४१३६]दुरतिक्कमंखुविधियं, अविय अकामा तवस्सिणी गहिता। ___ को जानति अनस्स वि, हवेज तं सारवेमोनं ।। -खुरवधारणे, 'दुरतिक्रममेव' प्रतिकर्तुमशक्यमेव, केनाप्यनार्येणेदमकार्यविहितम् अतः । किं क्रियते?, अपिच 'अकामा अनिच्छन्ती बलादेव तेन पापात्मना तपस्विनी गृहीता, ततः को जानातिअन्यस्याअप्येवंविधोवृत्तान्तः परवशतया भवेत्, तदेनांसम्प्रति सारयामः' परिपालयाम इत्यर्थः॥ [भा.४१३७] मा य अवनं काहिह, किं न सुतं केसि-सच्चईणं भे। .. ___ जम्मं न य वयभंगो, संजातो तासि अजाणं॥ Page #439 -------------------------------------------------------------------------- ________________ ४३६ बृहत्कल्प-छेदसूत्रम् -२-३/९० वृ- 'हुं हुं विध्वस्तशीलेयम्' इत्येवमस्याः 'अवर्णम्' अवज्ञां वा मा कार्षु, किं न श्रुतं भवद्भिः केशि- सत्यकिनोर्जन्म ? यथा - ती आर्यिकाभ्यां पुरुषसंवासमनन्तरेणापि कथञ्चिदुपात्तबीजपुद्गलाभ्यां प्रसुषुवाते, न च 'तयोः' आर्यिकयोर्व्रतभङ्गः सञ्जातः, विशुद्धपरिणामत्वात् । अनयोः कथानके यथाक्रमं पञ्चकल्पा-SSवश्यकटीकाभ्यामवसातव्ये ॥ [ भा. ४१३८] अविय हु इमेहि पंचहि, ठाणेहिं थी असंवसंती वि। पुरिसेन लभति गब्धं, लोएण वि गाइयं एयं ।। वृ- अपि चेत्यभ्युच्चये, 'हुः' निश्चितमेतत्-एतैः पञ्चभि स्थानैः स्त्री पुरुषेण सममसंवसन्त्यपि गर्भं लभते । न केवलमसमाभिरेवैतदुच्यते किन्तु लोकेनापि 'गीतं ' संशब्दितमेतत् ॥ तान्येवोपदर्शयति [भा. ४१३९] दुव्वियड - दुन्निसन्ना, सयं परो वा सि पोग्गले छुभति । वत्थे वा संसट्टे, दगआयमनेन वा पविसे ॥ वृ- विवृता - अनावृता, सा चोत्तरीयापेक्षयाऽपि स्याद् अतो दुःशब्देन विशेष्यते-दुष्ठु विवृता दुर्विवृता-परिधानवजितेत्यर्थः, एवं दुर्विवृता सती दुर्निषन्ना दुष्ठु - विरूपतयोपविष्टा दुर्विवृत-दुर्निषन्ना सा शुक्रपुद्गलान् कथञ्चित् पुरुषनिसृष्टान् आसन्नस्थान् सङ्ग्रह्णीयात् १, स्वयं वा पुत्रार्थितया शीलरक्षकतया च शुक्रपुद्गलान् योनावनुप्रवेशयेत् २, 'परो वा' श्वश्रूप्रभृतिकः पुत्रार्थमेव "से" तस्या योनौ प्रक्षिपेत् ३, वस्त्रं वा शुक्रपुद्गलसंसृष्टम् उपलक्षणत्वात् तथाविधमन्यदपि केशिमातुः केशवत् कण्डूयनार्थं रक्तनिरोधार्थं वा तया प्रयुक्तं तद अनुप्रविशेत्, अनाभोगेन वा तथाविधं वस्त्रं परिहितं सद् योनिमनुप्रविशेत् ४, दकं पानीयं तेन वा तस्या आचमन्त्याः पूर्वपतिता उदकमध्यवर्तिनः शुक्रपुद्गला अनुप्रविशेयुः ५ । एवं पुरुषसंवासमन्तरेणापि गर्भसम्भवे भवन्तो नास्या अवज्ञां कर्त्तुमर्हन्ति । एवं प्रज्ञाप्य तेषां श्राद्धानां गृहे तां स्थापयन्ति । गता ज्ञातविषया यतना । अथाज्ञातविषयां तामाह [भा. ४१४०] अविदिय जन गब्भम्मि य, सन्नीमादीसु तत्थ वऽन्नत्था । लाढेंति फासुएणं, लिंगविवेगो य जा पिबति ॥ वृ- जनेनाविदितो यो गर्भस्तत्र ये माता- पितृसमानाः संज्ञिनः आदिशब्दाद् यथाभद्रका वा तेषां गृहेषु तत्र वा अन्यत्रवा ग्रामे स्थापयन्ति । ते च संज्ञिप्रभृतयस्तां प्राशुकेन प्रत्यवतारेण ‘लाढयन्ति' यापयन्तीत्यर्थः । यावच्चापत्यभाण्डं स्तन्यं पिबति तावत् तया लिङ्गविवेकः कर्तव्यः । [भा. ४१४१] एएसिं असतीए, सन्नायग- नालबद्धकिढ फासुं । अन्नो वि जो परिणतो, स सिद्धवेसेतरी गारी ॥ वृ- 'एतेषां ' संज्ञिप्रभृतीनामभावे ये तस्याः संयत्याः संज्ञातकास्तेषां गृहेषु स्थाप्यते । संज्ञातकगृहाणाम् अभावे यः संयतो नालबद्धः सोऽपि यदि किढः - वृद्धस्तदाऽसौ श्राद्धवेषं कार्यते, इतराऽपि गृहिलिङ्गं करोति, ततस्तौ प्राशुकाहारेण यापयन्तौ तिष्ठतः । नालबद्धस्याभावे अन्योऽपि यो वयसा परिणतः स सिद्धपुत्रवेषं कार्यते, इतरा अगारीवेषं करोति ॥ अत्रेयं प्रायश्चित्तमार्गणा [भा. ४१४२ ] मूलं वा जाव थणा, छेदो छग्गुरुग जं चऽधालहुअं । Page #440 -------------------------------------------------------------------------- ________________ उद्देशक : ३, मूलं ९०, [भा. ४१४२ ] बितियपदे असतीए, उवस्सए वा अहव जुन्ना ॥ वृ- यदि तया प्रतिसेव्यमानया स्वादितं ततो मूलम् । वाशब्द उत्तरापेक्षया विकल्पार्थः । "जाव थण'' त्ति पश्चाद् व्याख्यास्यते । गर्भमाहूतं दृष्ट्वा स्वादयति च्छेदः । अपत्यं जातं दृष्ट्वा 'सहायकं मे भविष्यति' इति स्वादयन्त्याः षड्गुरवः । यया तु न स्वादितं तस्याः परप्रत्ययनिमित्तं यत् किमपि यथालघु प्रायश्चित्तं दातुं युज्यते तद् दातव्यम् । “जाव थण” त्ति यावत् तस्या अपत्यं स्तन्यपानोपजीवि भवति तावत् तपोर्हं प्रायश्चिततं न दातव्यम् । द्वितीयपदे अवग्रहानन्तकस्याभावे उपाश्रये वा तिष्ठन्ती अथवा 'जीर्णा' स्थविरा सा संयती अतोऽवग्रहानन्तकं न गृह्णात्यपि ॥ अथास्या एव पूर्वार्धं व्याख्याति [भा. ४१४३] ४३७ सेविते अनुमए, मूलं छेओ तु डिंडिमं दिस्स । होहिति सहातगं मे, जातं दङ्कण छग्गुरुगा ।। वृ-सेव्यमानया यद्यनुमतं ततो मूलम् । अथ 'डिण्डिमं' गर्भं दृष्ट्वा हर्षमुद्वहति छेदः । पुत्रभाण्डं दृष्ट्वा 'सहायकं मे भविष्यति' इत्यनुमन्यते षड्गुरवः ॥ [मा. ४१४४ ] तेन परं चउगुरुगा, छम्मासा जा न ताव पूरिति । जा तु तवारिह सोही, अणवत्थणिते न तं देंती ।। वृ- 'ततः परं' जन्मानन्तरं यावत् षण्मासा न पूर्यन्ते तावद् यत्र यत्र स्वादयति तत्र तत्र चतुर्गुरवः । याच तस्याः तपोर्हा शोधिरुक्ता ताम् 'अनपस्तनिते' स्तन्यपानादनुपरते अपत्यभाण्डे न ददति, मा स्तन्यं न भविष्यतीति कृत्वा ।। [भा. ४१४५ ] मेग आहितेय सातिज्जियं जति न तीए । परपच्चया लहुसगं, तहा वि से दिंति पच्छित्तं ॥ वृ- मैथुने प्रतिसेव्यमाने गर्भे च आहूते यद्यपि तया न स्वादितं तथापि 'परप्रत्ययार्थं मा भूदगीतार्थानामप्रत्यय इत्यर्थः यथालघुकं प्रायश्चित्तं तस्याः सूरयः प्रयच्छन्ति ॥ 1 अथ यस्तस्याः खिंसां करोति तस्य प्रायश्चित्तमाह [भा. ४१४६ ] खिसाए होंति गुरुगा, लज्जा निच्छक्कतो य गमनादी । दप्पकते वाऽऽउट्टे, जति खिंसति तत्थवि तहेव ॥ वृ-यस्तस्याः 'खिंसां' 'विध्वस्तशीलत्वाद् मलिना इयम्' इत्येवं करोति तस्य संयतस्य संयत्या. वा चतुर्गुरुकाः प्रायश्चित्तम् । सा च खिंसिता सती लज्जया प्रतिगमनादीनि कुर्यात्, निच्छक्का वानिर्लज्जा वा भवेत्, तत एव सर्वजनप्रकटमात्मानं प्रतिसेवयेत् । अथ दर्पतस्तया मैथुनं प्रतिसेवितं परं पश्चाद् आवृत्ता-आलोचना- प्रायश्चित्तप्रतिपत्त्यादिना प्रतिनिवृत्ता तामपि यः खिंसति तस्यापि तथैव चतुर्गुरु ॥ किं कारणम् ? इति चेद् अत आह [ भा. ४१४७ ] उम्मग्गेन वि गंतुं, न होति किं सोतवाहिणी सलिला । काण फुंफुगा विय, विलीयते हसहसेऊणं ॥ वृ- उन्मार्गेणापि गत्वा ‘सलिला' नदी पश्चात् किं ‘श्रोतोवाहिनी' मार्गगामिनी न भवति ? भवत्येवेति भावः। ‘फुम्फुका' करीषाग्नि सोऽपि च “हसहसेऊणं” ति जाज्वलित्वा भृशमुद्दीप्तो भूत्वेत्यर्थः कालेन गच्छता 'विलीयते' विलयं याति । उपनययोजना सुगमा ॥ Page #441 -------------------------------------------------------------------------- ________________ ४३८ बृहत्कल्प-छेदसूत्रम् - २-३/९५ मू. (९१) निग्गंथीए अ गाहावइकुलं पिंडवायपडियाए अनुष्पविट्ठाए चेलट्ठे समुप्पजेजा, नो से कप्पइ अप्पणी नीसाए चेलं पडिग्गाहित्तए, कप्पइ से पवत्तिनिनीसाए चेलं पडिग्गाहित्तए । नो य से तत्थ पवत्तिनी सामाणा सिया जे से तत्थ सामाणे आयरिए वा उवज्झाए वा पवित्ती वा थेरे वागणी वा गणधरे वा गणावच्छेइए वा जं चऽन्नं कट्टु पुरतो विहरइ कप्पइ से तन्नीसाए चेलं पडिग्गाहित्तए । वृ- अथास्य सूत्रस्यकः सम्बन्धः ? इत्याह [ भा. ४१४८] नियमा चसेचल इत्थी, चालिज्जति संजमा विना तेनं । उग्गहमादीचेलाण गेहणे तेन जोगोऽयं ॥ वृ- 'नियमाद्' अवस्यन्तया 'स्त्री' निर्ग्रन्थी सचेला भवति । यतः 'तेन' चेलेन विना सा संयमात् चाल्यते इत्यनन्तरसूत्रे उक्तम् । तेन कारणेनावग्रहानन्तकादीनां चेलानां ग्रहणे विधिरभिधीयते । अयं 'योगः' प्रकृतसूत्रस्य सम्बन्धः । अथवा [भा. ४१४९] चेलेहि विना दोसं, नाउं मातानि अप्पणा गेहो तत्थ वि तेच्चिय दोसा तव्वारणकारणा सुत्तं ॥ वृ- चेलैर्विना भिक्षामटन्त्या संयत्या महान् दोषो भवतीति ज्ञात्वा मा 'तानि' चेलान्यात्मना गृह्णीयात् । कुतः ? इत्याह- 'तत्रापि' आत्मना चेलग्रहणेऽपि त एव दोषा भवन्ति ये पूर्वं चेलस्याग्रहणे प्रोक्ताः । अतः 'तद्वारणकारणात्' स्वयग्रहणप्रतिषेधार्थमिदं सूत्रमारभ्यते ॥ इदमेव सोपपत्तिकमाह [ भा. ४१५० ] सयगहणं पडिसेहति, चेलग्गहणं न सव्वसो तासिं । संडासतिरो वण्ही, न डहति कुरुए य किच्चाई ॥ वृ-स्वयग्रहणमत्र सूत्रे सूत्रकृत् प्रतिषेधयति, न पुनः सर्वथा 'तासां' संयतीनां चेलग्रहणम् । यतः सन्दंशकेन तिरोहितो वह्निर्गृह्यमाणो न दहति 'कृत्यानि च' धान्यपाकादीनि कार्याणि कुरुते; एवं संयतीनामपि साधुभिस्तिरोहितं चेलग्रहणं न दुष्यति, कार्यं च संयमपालनात्मकं करोति अत इदमारभ्यते ।। अनेन सम्बन्धेनायातस्यास्य व्याख्या-निर्ग्रन्ध्या गृहपतिकुलं पिण्डपातप्रतिज्ञया अनुप्रविष्टायाश्चैलेनार्थः-प्रयोजनं चेलार्थः स समुत्पद्येत । नो "से" तस्याः कल्पते आत्मनो निश्रया चेलं प्रतिग्रहीतुम्, किन्तु कल्पते “से” तस्याः प्रवर्तिनीनिश्रया चेलं प्रतिग्रहीतुम् । अथ न तत्र प्रवर्तिनी "सामाणा" सन्निहिता ततो यस्तत्राचार्यो वा उपाध्यायो वा प्रवर्त्ती वा स्थविरो वागणी वा गणधरओ वा गणावच्छेदको वा सन्निहितो भवेत् । 'गणी' गणाधिपतिराचार्यः, 'गणधरः ' संयतीपरिवर्तकः, शेषाः सर्वेऽपि प्रतीताः । एतेषां निश्रया यं वा 'अन्यं' गीतार्थं साधुं पुरतः कृत्वा विहरति तन्निश्रया कल्पते "से" तस्याश्चेलं प्रतिग्रहीतुमिति सूत्रसङ्क्षेपार्थः ।। अथ विस्तरार्थं भाष्यकारो बिभणिषुराह [ भा. ४१५१] चेलट्ठे पुव्व भणिते, पडिसेहो कारणे जहा गहणं । नवरं पुन नाणत्तं, नीसागहणं न उ अनीसा ॥ वृ-चेलार्थः 'पूर्वः' प्रथमोद्देशके "निग्गंथिं च नं केइ वत्येण वा पाएण वा निमंतिज्जा" इत्यादिसूत्रे यथा भणितः, यथा च तत्र संयतीनां स्वयं वस्त्रग्रहणप्रतिषेधः, यथा च कारणे ग्रहणमुक्तं तथैवात्रापि Page #442 -------------------------------------------------------------------------- ________________ उद्देशक : ३, मूलं-९१, [भा. ४१५१] ४३९ वक्तव्यम्। 'नवरं केवलंपुनरत्र नानात्वं' विशेषोवस्त्रग्रहणंताभिर्निश्रया कर्तव्यम्नपुनरनिश्रया। निश्रा नाम-संज्ञातकादिना वस्त्र दीयमानं प्रवर्तिन्या निवेदयति, प्रवर्तिनी गणधरस्य निवेदयति, ततो गणधरः स्वयमागत्य परीक्षाशुद्धं कृत्वा गृह्णाति । अथ नास्ति तत्र प्रवर्तिनी ततस्तद् वस्त्र वर्णेन रूपेण चिह्नेन चोपलक्ष्य गणधरस्य कथयति, सचागत्य स्वयं गृह्णाति। एतन्निश्राग्रहणमुच्ये।। [भा.४१५२] आयरिओ गणिणीए, पवत्तिणी भिक्खुणीण न कधेति। गुरुगा लहुगा लहुगो, तासिं अप्पडिसुणंतीणं॥ वृ-आचार्य एतत् सूत्रं गणिन्या न कथयति चत्वारो गुरवः । प्रवर्तिनी भिक्षुणीनां न कथयति चत्वारो लघवः । 'तासां' भिक्षुणीनामप्रतिशृण्वतीनां मासलघु।।अथ स्वयं वस्त्रग्रहणेदोषानाह[भा.४१५३] मिच्छत्ते संकादी, विराधना लोभे आभियोगे य। तुच्छा न सहति गारव, भंडण अट्ठाणठवणंच॥ वृ-पुरुषेणसंयत्याःवस्त्रदीयमानं दृष्ट्वा अभिनवधर्माणोमिथ्यात्वंगच्छेयुः 'दुईष्टधर्माणोऽमी' इति। शङ्कादयश्रव दोषा भवन्ति । 'विराधनाच' संयमा-ऽऽत्मविषया। “लोभे' त्ति स्तोकेनापि वस्त्रादिप्रदानेन स्त्री प्रलोभ्यते । “आभियोगे" ति आभियोगिकवस्त्रप्रदानेन कश्चित् कार्मणं कुर्यात् । स्त्री च प्रायेण तुच्छा भवति, तुच्छत्वेन च “गौरवं" लब्धिमाहात्म्यं न सहते, ततश्च 'भण्डनं कलहो अस्थानस्थापनं च भवतीति सङ्ग्रहगाथासमासार्थः।। अथैनामेव विवरीपुराह[भा.४१५४] इत्थी विताव देंती, संकिज्जइ किं केनति पयुत्ता । किं पुन पुरिसो देतो, परिजुन्नाई पि जुनाए। वृ. 'स्त्री' अविरतिका साऽपि वस्त्रं संयत्वाः प्रयच्छन्ती शङ्कयते- किं केनचित् कामुकेन प्रयुक्ता सती प्रयच्छति? उत स्वयमेव धर्मार्थम्? इति; किं पुनः पुरुषः परिजीर्णान्यपि वस्त्रणि जीर्णाया अपि आर्थिकायाः प्रयच्छन् ? स सुतरां शक्यते इति भावः । तत्र शक्यां चतुर्गुरु । चतुर्यार्थभेवेति निशङ्कितेमूलम् । एवं मिथ्यात्वं शङ्कादयश्च दोषा भवेयुः। विराधना च संयमाऽऽत्मविषया अभ्युह्य वक्तव्या॥ लोभद्वारमभियोगद्वारं चाह[भा.४१५५] नामिज्जइ थोवेणं, जच्चसुवन्नं व सारणी वा वि । अभियोगियवत्थेण व, कड्डिजइ पट्टए नातं ॥ वृ-यथा जात्यं सुवर्णं सारणी वा' कुल्या स्तोकेनापि प्रयत्नेन नाम्यते तथासंयत्यपिस्तोकेनापि वस्त्रादिप्रदानेन नाभ्यते।यद्वातद्वस्त्र केनापि विद्या-मन्नादिबलेनाभियोगिकं-वशी-करणकर्मक्षम कृतमस्ति ततस्तेन सा ‘कृष्यते' येन कार्मण कृतं तदभिमुखं नीयते । पट्टकेन चात्र ‘ज्ञातं दृष्टान्तो भवति, स च यथा प्रथमोद्देशके ॥ अथ गौरवादिद्वारत्रयं युगपदाह- . [भा.४१५६] वत्येहि वच्चाणी, दाएंती वा वि उयध वत्थे मे । मच्छरियाओ बेंती, धिरत्यु वत्थाण तो तुझं॥ . [भा.४१५७] हिंडामो सच्छंदा, नेव सयं गेण्हिमो य पवयामो । नयजंजनो वियाणति, कम्मंजाणामो तं काउं॥ वृ-काचिदार्यिका तुच्छतया गौरवमसहिष्णुर्वस्त्रभ्योव्रजन्ती आत्मानंख्यापयति-अहमीशानि ईशानि वस्त्राणि गृहीत्वासमागमिष्यामि; यद्वा स्वयमानीतानिवस्त्रणिदर्शयन्तीब्रूयात्-“उयह" Page #443 -------------------------------------------------------------------------- ________________ ४४० बृहत्कल्प-छेदसूत्रम् -२-३/९१ पश्यत मदीयानि वस्त्राणि इति।तत इतराः संयत्यो मत्सरिता ब्रुवते-धिगस्तु भवदीयानि वस्त्राणि भवतींचयदेवमात्मानं विकत्थयसि; अपिच यथा यूयं स्वच्छन्दाः पर्यटथन तथा वयं हिण्डामः, नैवच स्वयं गृह्णीमः, न वाऽऽत्मानं 'प्रवदामः' प्रकर्षेण श्लाधामहे, नच यत् कुण्टलादिकं कर्म कर्तुयुष्माशो जनो जानाति तद् वयं कर्तुंजानीमः॥ - [भा.४१५८] जम्हा य एवमादी, दोसा तासिं तु गिण्हमाणीणं । तम्हा तासि निसिद्धं, वत्थग्गहणं अनीसाए॥ वृ-यस्मादेवमादयो दोषास्तासांगृह्यतीनां भवन्ति तस्मात्तासामनिश्रया वस्त्रग्रहणं निषिद्धम्।। परः प्राह[भा.४१५९] सुत्तं निरत्थगं खलु, कारणियंतं च कारणमिणंतु। असति पाउग्गे वा, मन्नक्खो वा इमा जतना ॥ वृ- यदि संयतीनामनिश्रया वस्त्रग्रहणं न कल्पते ततः सूत्रं निरर्थकं प्राप्नोति । सूरिराहकारणिकं सूत्रम् । तच्च कारणमिदम्-न सन्ति संयतीनां वस्त्रणि, सन्ति वा परं न प्रायोभ्याण, “मन्नक्खो वा" महद् दौर्भनस्यं संज्ञातकादीनां संयतीभर्वस्त्रऽगृह्यमाणे भवति तत्रेयं यतना॥ तामेवाभिधित्सुराह[भा.४१६०] तरुणीण य पव्वज्जा, नियएहि निमंतणा य वत्थेहिं। पडिसेहण निब्बंध, लक्खण गुरुणो निवेदेज्जा ॥ वृ-कस्याप्याचार्यस्य पार्वेमहर्द्धिकानांबहुजनपाक्षिकाणांतरुणीनांप्रवज्या समजनि, ताश्व कियन्तमपि कालमन्यस्मिन् देशे विहृत्य सूरिभिः सार्धं तत्रैव समायाताः, ततः 'निजकैः' सज्ञातकैस्तासां वस्त्रनिमन्त्रणा कृता, ततः “न कल्पते अस्माकं वस्त्रग्रहणं कर्तुम्' इति प्रतिषेधः कर्तव्यः । अथ गाढतरं निर्बन्धं कुर्वन्ति तत इदं वक्तव्यम्-अस्माकं गुरव एव वस्त्रस्य लक्षणं जानते ततो गुरुणां निवेदयाम इति, अनुज्ञाते तेषां निवेदयेयुः ।। इदमेव व्याख्याति[भा.४१६१]थेरा परिच्छंति कधेमु तेसिं, नाहेति ते दिस्स अजोग्ग जोग्गं । पिच्छामु ता तस्स पमाण-वन्ने, तो नं कधेस्सामो तहा गुरुणं॥ [भा.४१६२] सागारऽकडे लहुगो, गुरुगो पुन होति चिंधऽकरणम्मि। गणिणीअसिढे लहुगा, गुरुगा पुन आयनीसाए॥ वृ-'स्थविराः' आचार्या अस्मत्यायोग्यं वस्त्र परीक्षन्ते अतः कथयामस्तेषाम्, ज्ञास्यन्ति ते दृष्टवैव वस्त्रमयोग्यं योग्यं वा, परं वयं तावदिदानीं तस्य वस्त्रस्य प्रमाणं वर्णं च पश्यामः, ततः "ण" मिति तद्वस्त्र तथा' तेन प्रमाण-वर्णादिना प्रकारेण गुरुणां कथयिष्यामः; एवं यद् वस्त्र साकारत्वेन व्यवस्थापितं तत् साकारकृतम् । तच्च यदि न कुर्वन्ति ततो मासलघु । साकारकृतं कृत्वाप्रमाण-वर्णाभ्यां चिहं न कुर्वन्तिमासगुरु। यदिगणिन्या अग्रे एतद्वस्यप्रमाणादिन कथयन्ति ततश्चतुर्लघवः । अथास्मनिश्रया स्वयमेव गृह्णन्ति चतुर्गुरवः ॥अथ गृहस्था एवं ब्रूयुः[भा.४१६३] जइ मे रोयति गिण्हध, न वयं गणिणिं गुरुं व जाणामो। ___ इय वि भणिया वि गणिणो, कणि न यतं पडिच्छंति॥ वृ-यदि "भे' भवतीनां रोचते ततो गृह्णीध्वमेतद्वस्त्रम्, न वयं गणिनी' प्रवर्तिनीं 'गुरुंवा' Page #444 -------------------------------------------------------------------------- ________________ उद्देशक : ३, मूलं - ९१, [भा. ४१६३ ] आचार्यं जानीमः, इत्यपि भणिताः संयत्यः 'गणिनः' सूरेः कथयन्ति, न पुनः 'तद्' वस्त्रं प्रतीच्छन्ति ।। सूरिभिश्च संयतीमुखाद् वस्त्रवृत्तान्तं श्रुत्वा इत्थं वक्तव्यम् [भा. ४१६४ ] कतरो भे नत्थुवधी, जो दिज्जउ भणह मा विसूरित्थी । पुव्वुप्पन्नो दिजति, तस्सऽ सतीए इमा जयणा ॥ वृ-‘भणत' प्रतिपादयत वर्षाकल्पा-ऽन्तरकल्पादीनां मध्यात् कतरः “भे” भवतीनां नास्त्युपधि यः साम्प्रतं दीयताम्, मा यूयमुपधिना विना 'विसूरयथ' खेदमुद्वहथ, इत्युक्ते यस्योपघेरभावस्तं निवेदयन्ति । स यदि पूर्वोत्पन्नो वर्तते ततो दीयते । अथ पूर्वोत्पन्नो नास्ति ततस्तस्याभावे इयं यतना ॥ ४४१ [भा. ४१६५ ] नाऊण या परीत्तं, वावारे तत्थ लद्धिसंपन्ने । गंध परिभुत्ते, कप्पकते दान गहणं वा ॥ वृ- "परीत्तं" स्तोकम्, अभावोपलक्षणं चेदम्, ततोऽयमर्थ परीत्तं नाम न सन्ति संयतीनां वस्त्राणि इति ज्ञात्वा ये तत्र लब्धिसम्पन्नाः साधवस्तान् व्यापारयेत्, यथा- आर्या ! संयतीनां प्रायोभ्याणि वस्त्राणि गवेषयत । ततस्ते वस्त्राणि गृहीत्वा गुरुणां समर्पयन्ति, तानि च गन्धाढ्यानि परिभुक्तानि वा भवेयुः ततः कल्पे कृते सति दानं ग्रहणं वा कर्तव्यम् । किमुक्तं भवति ? - तानि वस्त्राणि प्रक्षाल्य सप्त दिवसानि स्थापयित्वा यदि नास्ति कोऽपि विकारस्ततो गणधरेन प्रवर्तिन्या दातव्यानि । प्रवर्तिनीहस्ताच्च संयतीभिर्ग्रहीतव्यानि इति सङ्ग्रहगाथासमासार्थः ॥ साम्प्रतमेनामेव विवृणोति [भा. ४१६६ ] गुरुस्स आणाए गवेसिऊणं, वावारिता ते अहछंदिया वा । दुधापमाणेण जहोदियाई, गुरुण पाएसु निवेदयंति ॥ वृ-ये 'व्यापारिताः' गुरुभिर्वस्त्रग्रहणाय प्रवर्तिताः, ये वा 'यथाच्छन्दिकाः' अव्यापारिता एव गुरुणां पुरतो भणन्ति वयं वस्त्राणि गवेषयिष्यामः, आभिग्रहिका इति भावः; ते द्वयेऽपि गुरोराज्ञया वस्त्राणि 'द्विधाप्रमाणेन' गणनाप्रमाणेन प्रमाणप्रमाणेन च यथा भगद्भिस्तीर्थकरैः 'उदितानि' भणितानि तथा गवेषयित्वा गुरुणां 'पादयोः' पुरतस्तानि निवेदयन्ति' निक्षिपन्तीत्यर्थः ॥ ततश्च [भा. ४१६७ ] गंधड्ड अपरिभुत्ते, वि धोविउं देति किमुअ पडिपक्खे। गणिणीए निवेदेज्जा, चतुगुरु सय दान अट्ठाणे ॥ वृ- यानि गन्धाढ्यानि तानि यद्यपि अपरिभुक्तानि तथापि 'धावित्वा' प्रक्षाल्य संयतीनां ददाति 'किमुत' किं पुनः पतिपक्षान्' परिभुक्तान् ? इत्यर्थः तानि सुतरां प्रक्षालनीयानीति भावः । उपलक्षणमिदम्, तेन यद्यपि तानि न गन्धाढ्यानि तथापि धावनीयान्येव, धावित्वा च तानि सप्त दिवसानि स्थापयित्वा स्थविरः प्रावरणं कार्यते । यदि नास्ति कोऽप्यभियोगविकारस्ततो गणधरः ‘गणिन्याः' प्रवर्तिन्यास्तानि 'निवेदयेद्' अर्पयेदित्यर्थः । सा च संयतीनां ददाति । अथ गणधरः स्वयं तासां ददाति ततश्चतुर्गुरु, अस्थाने च शेषसंयतीभि स्थाप्येत । शुद्धभावेनापि हि यदि काचिदार्यिका विशेष्य आलप्यते तथापि काचिदपरा संयती तत्र विरुपकाभिप्रायतया शङ्कां करोति, किं पुनः स्वयं वस्त्रप्रदाने ? | Page #445 -------------------------------------------------------------------------- ________________ ४४२ बृहत्कल्प-छेदसूत्रम् - २-३/९१ अपि च [भा. ४१६८] इहरह वि ताव मेहा, माणं भंजंति पणइणिजनस्स । किं पुन बलाग सुरचाव-विज्जुपज्जोविया संता ।। वृ- 'इतरथाऽपि च ' बलाका- सुरचापादिविशेषमन्तरेणापि तावद् मेघा गगनमण्डलमापूर्य गर्जयन्तः ‘प्रणयिनीजनस्य' मानवतीलोकस्य मानं भज्जन्ति, किं पुनः बलाका- सुरचाप-विद्युत्प्रद्योतिताः सन्तः ?, एवंविधाः सुतरां मानमुन्मूलयन्ति; एवमियमपि 'अतिप्रौढा समर्था चाहम्' इति कृत्वा अस्माकं मानभङ्गं पुराऽपि करोति, साम्प्रतं तु गुरुभि स्वयं पूजित - सत्कारिता विशेषतः करिष्यतीति शेषसाध्व्याश्चिन्तयेयुः ॥ [ भा. ४१६९] दुल्लभवत्थे व सिया, आसन्ननियाण वा वि निब्बंधे । पुच्छंतऽज्जं थेरा, वत्थपमाणं च वण्णं च ॥ वृ- अथ स देशो दुर्लभवस्त्र भवेत् ततो ये व्यापारितास्तैरपि न लब्धानि वस्त्राणि, अथवा यैः ‘निजैः' सज्ञातकैस्ता निमान्त्रितास्ते तासाम् ‘आसन्नाः' अतीवप्रत्यासन्नसम्बन्धास्ततो न तन्निर्बन्धो अप्रमाणीकर्तुं शक्यते, एवमादौ कारणे समुत्पन्ने 'स्थविरा:' आचार्या 'आर्या' प्रवर्तिनीं वस्त्रस्य प्रमाणं वर्णं च पृच्छन्ति-की शैर्वस्त्रर्ययं निमन्त्रिताः ? किं वा तेषां प्रमाणम् ? ततः संयत्यो ब्रुवते[भा. ४१७० ] सेयं व सिंधवनं, अहवा मइलं च ततियगं वत्थं । तस्सेव होति गहणं, विवज्जए भाव जाणित्ता ।। वृ- एकं वस्त्र 'श्वेतं' शरदिन्दु - कुन्दावदातम्, द्वितीयं 'सैन्धववर्णं' पाण्डुरम्, अथवाशब्दो वर्णप्रकारान्तरताद्योतकः, तृतीयं परिमलितत्वाद् मलिनम् प्रमाणमपि च तस्य वस्त्रस्य ईध्शमस्तीति ताभिरुक्ते गुरुभिस्तत्र गत्वा तस्यैव वस्त्रस्य ग्रहणं कर्तव्यम् । अथ ते गृहस्थास्तत्र गतानामाचार्याणामन्यानि वस्त्राणि दर्शयन्ति तत एवं विपर्यये 'भावं' भद्रक-प्रान्तगतमभिप्रायं ज्ञात्वा ग्रहणं कर्तव्यं न वा ।। इदमेव स्पष्टयन्नाह [भा. ४१७१] पुव्वगता भे पडिच्छह, अम्हे वि य एमुता तहिं गंतुं । गुरु आगमन कधेत्ता, नीनावेंताऽऽगते तम्मि ॥ वृ- सूरयः प्रवर्तिनीं भणन्ति-यूयं तत्र पूर्वगताः प्रतीक्षत, वयमपि युष्माकमनुमार्गीत एवागच्छामः। ततस्ताः संयत्यः 'तत्र' गृहस्थकुले गत्वा गुरुणामागमनं कथयन्ति । ततः 'तस्मिन् ' गुरावागते संयत्यो भणन्ति-निष्काशयत तानि वस्त्राणि यैर्वयं निमन्त्रिताः । एवमुक्ते यदि तान्येव दर्शयन्ति ततो गृह्णन्ति ।। अथान्यानि ततः सूरिभिरिदं वक्तव्यम् [भा. ४१७२ ] अन्नं इदं ति पुट्ठा, भांति किह तुम्भ तारिसं देभो । इति भद्दे पंतेसु तु, धुणंति सीसं न तं एतं । वृ- येन भवद्भिः संयत्यो निमन्त्रिता नेदं तद् वस्त्रम् किन्तु प्रमाणेन वर्णेन वा अन्याध्शत्वेनान्यदिदमिति पृष्टाः सन्तस्ते गृहस्था यदि भद्रकास्तत इदं भणन्ति कथं वयं युष्माकं स्वयमेवागतानां ‘ताध्शं’ सामान्यवर्णादियुक्तं प्रयच्छामः ? इदं तु ततो विशिष्टतरवर्णादिगुणोपेतम्, इदं गृह्णीत इति भद्रका ब्रूयुः । ये तु प्रान्तास्तेषु सूरयः शीर्षं धूनयन्ति, इदं च वचनं ब्रूवते-येन Page #446 -------------------------------------------------------------------------- ________________ ४४३ उद्देशक ः ३, मूलं-९१, [भा. ४१७२] संयत्यो निमन्त्रितास्तदिदं वस्त्रं न भवति ॥ एवमुक्ते ते चिन्तयेयुः[भा.४१७३] बहु जाणिया न सक्का, वंचेउं तेसि जाणिउं भावं। नेच्छंति भद्दएसुतु, पहभावेसु गेण्हंति ॥ वृ-अये ! अमीभिराचार्यैः 'बहु' प्रभूतं 'ज्ञाताः' उपलक्षिता वयम्-यदेते आभियोगिकानी वस्त्राणि प्रयच्छन्तीति, अतो न शक्य अभी वञ्चयितुम् ? इत्यादिकं तेषां भावम्' अभिप्रायं मुखविकारादिभिराकारैत्विा नेच्छन्ति । भद्रकेषु तु प्रहृष्टभावेषु गृह्णन्ति॥ भद्रकेष्वेव विशेषमुपदर्शयति[भा.४१७४] न वि एवं तं वत्थं, जंतं अजाण नीणियं भे त्ति । . तुब्भे इमं पडिच्छध, तं चिय एताण दाहामो ।। वृ-नाप्येतत् तद् वस्त्र यत् तद् आर्यिकाणामर्थाय निष्काशितं भवद्भि; इत्युक्ते यदि गृहस्था ब्रुवते-यूयं तावदिदं वस्त्र प्रतीच्छत, एतासांतु वयं तदेव दास्यामः॥ ततो वक्तव्यम्[भा.४१७५] अन्नेण ने न कजं, एतट्ठा चेव गेण्हिमो अम्हे। जति तानि विइति वुत्ते, नीणेति दुए वि गिण्हंति ॥ वृ-अन्येन वस्त्रेण "ने" अस्माकं न कार्यम्, एतासामेवार्थाय वयं सम्प्रति गृह्णीमः; इत्युक्ते यदि 'तान्यपि प्राक्तनानि वस्त्रणि आनयन्ति ततः 'द्वयान्यपि प्राक्तन-पश्चात्तनानि गृह्णन्ति ॥ [भा.४१७६] तानि वि उवस्सयम्मिं, सत्त दिने ठविय कप्प काऊणं । थेरा परिच्छिऊणं, विहिना अति तेनेव ।। वृ- तान्यपि वस्त्राणि गृहीत्वा उपाश्रये आनीय सप्त दिनानि स्थापयित्वा कल्पं कृत्वा स्थविरप्रावरणद्वारेण परीक्ष्य यदि नास्ति कोऽप्यभियोगविकारस्ततः 'स्थविराः' आचार्यास्तेनैव विधिना संयतीनामर्पयन्ति॥ एवमाचार्यनिश्रया ग्रहणमुक्तम् । अथोपाध्यायदिनिश्रया तदेवाह[भा.४१७७] आयरिए उवज्झाए, पवत्ति थेरे गणी गणधरे य। . गणवच्छेइयणीसा, पवित्तिनी तत्थ आनेति ॥ वृ-आचार्यस्याभावे उपाध्ययस्य प्रवर्तिनः स्थविरस्य गणिनो गणधरस्य गणावच्छेदिनो वा निश्रया वस्त्रग्रहणं कर्तव्यम् । एतेषामभावे प्रवर्तिनी 'तत्र' गृहस्थकुले गत्वा स्वयमानयति ॥ इदमेव व्याख्यानयति[भा.४१७८] आयरिए असधीणे, साहीणे वा विवाउल गिलाणे। ___ एक्केक्कगपरिहाणी, एमादीकारणेहिं तु॥ वृ-यदि तत्राचार्यो अस्वाधीनः स्वाधीनो वा परं 'व्याकुलः' कुलादिकार्येषु व्यापृतः ग्लानो वा तत उपाध्यायनिश्रया ग्रहणं विधेयम् । तत्रापि स एव विधि । अथोपाध्यायोऽस्वाधीनो व्याकुलोवा, ततएकैकपरिहाण्या तावद्नेयं यावत् प्रवर्तिनीनिश्रयाऽपिग्रहीतव्यम् । एवमादिभिः कारणैः संयतीनां वस्त्रग्रहणं भवतीति ।। [भा.४१७९] सुत्तनिवातो थेरी, गहणं तु पवत्तिनीय नीसाए । तरुणीण य अग्गहणं, पवत्तिणी तत्थ आनेति॥ Page #447 -------------------------------------------------------------------------- ________________ ४४४ बृहत्कल्प-छेदसूत्रम् -२-३/९१ . वृ-अत्र पुनः सूत्रनिपात इत्थं मन्तव्यः-आचार्यादीनां गणावच्छेदिकान्तानामभोवे प्रवर्तिन्या निश्रया स्थविराआर्थिकाः स्वयंवस्त्रग्रहणं कुर्वन्ति।तरुणीनांतुसर्वथैव वस्त्रस्याग्रहणमुत्सर्गतः, प्रवर्तिनी स्वयं तत्र गत्वा आनयति ॥ इदमेव भावयति[भा.४१८०]साहू जया तत्थ न होज कोई, छंदेज्ज नीया तरुणी जया य। पवत्तिनी गंतु सयं तु गेण्हे, आसंकभीया तरुणी न नेति ॥ वृ- यदा तत्राचार्यादीनां मध्यात् कोऽपि गीतार्थः साधुर्न भवति, यदा च 'निजकाः' संज्ञातकास्तरुणीः 'छन्दयेषुः' निमन्त्रयेरन् तदा प्रवर्तिनी स्वयंतत्र गत्वा गृह्णाति। 'आशङ्काभीता च' प्रत्यपायशङ्कया चकिया तरुणीरात्मना सार्धंन नयति॥ [भा.४१८१] असती पवत्तिनीए, आयरियादी व्व जं वनीसाए। आगाढकारणम्मि उ, गिहिनीसाए वसंतीणं ॥ वृ-अथ नास्तिप्रवर्तिनी ततआचार्योपाध्यायादीन् 'यंवा' सामान्यसाधुमपि निश्राय' निश्रां कृत्वा विहरति तन्निश्रया ग्रहणं कर्तव्यम् । आगाढे तु कारणे गृहिनिश्रया वसन्तीनां स्वयमपि ग्रहणं भवतीति वाक्यशेषः ॥ इदमेव सविशेषमाह[भा.४१८२] असती पवत्तिनीए, अभिसेगादी विवज्जए नीसा । . गेण्हंति थेरिया पुन, दुगमादी दोण्ह वी असती ।। वृ-प्रवर्तिन्या अभावे अभिषेका-गणावच्छेदिनीप्रभृतयो या गीतार्था संयत्यस्ताः स्वयं गत्वा गृह्णन्ति । “विवजए नीस" त्ति विपर्ययो नाम-अभिषेकादयोऽपिन सन्ति ततः परस्परनिश्रया स्थविरा आर्यिका गृह्णन्ति । ताश्च 'द्विकादयः' द्वि-त्रिप्रभृतिसङ्ख्याकाः पर्यटन्ति।अथ द्वे अपिन भवतस्ततो वक्ष्यमाणविधिना ग्रहीतव्यम् ।। कथं पुनर्बयोरप्यभावः ? इत्याशङ्कयाह[भा.४१८३] दुब्भूइमाईसु उ कारणसुं, गिहत्थणीसा वइणी वसंती। जे नालबद्धा तह भाविया वा, निदोस सन्नी व तहिं वसेज्जा॥ वृ-'दुभूतिः' अशिवम्, आदिशब्दादवमौदर्यादिपरिग्रहः, तेषुकारणेषुगृहस्थनिश्रयाएकाकिनी व्रतिनी वसन्ती ये 'नालबद्धाः' तस्या एव सज्ञातकाः, ये वा 'अनालबद्धा अपि भाविताः . साधुसामाचारी परिकर्मितमतयो यथाभद्रकाः ये वा निर्दोषाः' हास्य-कन्दादिदूषणरहिताः संज्ञिनस्तेषां गृहे वसेत् ॥ तत्र च स्थितां भिक्षां पर्यटन्तीं यदा कोऽपि वस्त्रेण निमन्त्रयेत् तदा वक्तव्यम्[भा.४१८४] सेज्जायरो व सन्नी, व जाणति वत्थलक्खणं अम्हं। तेन परिच्छियमेतं, तदनुन्नातं परिग्धेच्छं। वृ-शय्यातरो वा संज्ञी वा अस्माकं प्रायोग्यस्य वस्त्रस्य लक्षणं जानाति, अतस्तेन परीक्षितं तदनुज्ञातं च सद् अहमिदं परिग्रहीष्यामि ।। [भा.४१८५] पंतो दह्ण तंग, संकाए अवनयं करेजाहि । ____अन्नासिं वा दिन्नं, वइतं नीयं व हसिता व ॥ कृ-ततः संयत्वा समानीनं 'तकं शय्यातरंसंज्ञिनंवा दृष्ट्वाप्रान्तः शङ्कया अपनयं वस्त्रस्यैकान्ते स्थापनं कुर्यात्; यद्वा ब्रूयात्-अन्यासां संयतीनां दत्तं वजिकां वा नीतं हसेद्वा ।। अथवा HEELLEHEभा Page #448 -------------------------------------------------------------------------- ________________ उद्देश : ३, मूलं - ९१, [भा. ४१८६ ] [भा. ४१८६ ] तुब्भे वि कहं विमुहे, काहामो तेन देमो से अन्नं । इति पंते वज्रणता, भद्देसु तधेव गेण्हंती ॥ ४४५ वृ-युष्मानपि कथं विमुखान् करिष्यामः ? अतः 'तस्याः' अपरस्याः संयत्वा अन्यद् वस्त्र दास्यामः, इदं तु यूयं गृह्णीत, इति ब्रुवाणे प्रान्ते वर्जनं कर्तव्यम्, न तदीयं वस्त्र ग्रहीतव्यमिति भावः । भद्रेषु तु 'तथैव' पूर्वोक्तप्रकारेण गृह्णन्ति ॥ [भा. ४१८७] अंबा वि होंति सित्ता, पियरो वि य तप्पिया वदे भद्दो । धम्मो य ने भविस्सति, तुमं च पियं अतो अन्नं ।। वृ- भद्रक इत्थं वदेत्- आम्रा अपि सिक्ता भवन्ति, पितरोऽपि च तर्पिता भवन्ति; एवं “ने” अस्माकं धर्मो भविष्यति, युष्माकं च प्रियम्, अतो अन्यद् वस्त्र दास्याम इत्युक्ते गृह्यते ॥ अथ ये चतुर्थावभाषणनिमित्तं प्रयच्छन्ति ते कथं ज्ञातव्याः ? इत्याह [भा. ४१८८] वेवहु चला य दिट्ठी, अन्नोन्ननिरिक्खियं खलति वाया । देनं मुहवेवनं, न यानुरागो उ कारणं ॥ वृ- ये कारिणः चतुर्थनिमित्तं वस्त्रदायिनस्तेषां शरीर 'वेपथुः' कम्पश्चला च दृष्टिर्भवति, ‘अन्यान्यनिरीक्षितं’ ‘कस्को नाम मां जनाति ?' इति बुद्धया अन्यस्यान्यस्य च सम्मुखं निरीक्षन्त इति भावः, वाक् च तेषां स्खलति, ज्ञाते च तदभिप्राये तेषां दैन्यं मुखवैवर्ण्य चोपजायते, न च तेषां वस्त्र ददानानाम् 'अनुराग' हृष्टप्रहृष्टतालक्षणो भवति ॥ मू. (९२) निग्गंथस्स तप्पढमयाए संपव्वयमाणस्स कप्पइ रयहरण-गोच्छ-पडिग्गहमायाए तिहिं कसिणोहिं वत्थेहिं आयाए संपव्वइत्तए। से अ पुव्वोवट्ठिए सिया एवं से नो कप्पइ रयहरणपडिंग्गह- गोच्छ्य- मायाए तिहि य कसिणेहिं वत्थेहिं आयाए संपव्वइत्तए । कप्पइ से अहापरिग्गहियाइं वत्थाई गहाय आयाए संपव्वइत्तए । दृ- अथास्य सूत्रस्य कः सम्बन्धः ? इत्याह [ भा. ४१८९ ] निग्गंथिचेलगहणं, भणियं समणाणिदानि वोच्छामि । निक्खते वा वृत्तं, निक्खममाणे इमं सुत्तं ॥ वृ-निर्ग्रन्थीविषयं चेलग्रहणं भणितम्, इदानी श्रमणानां यथा वस्त्रं ग्रहीतुं कल्पते तथाऽभिधीयते । यद्वा 'निष्क्रान्तः' दीक्षितस्तद्विषयं वस्त्रग्रहणमुक्तम्, इदं तु 'निष्क्रामति' दीक्षामाददाने वस्त्रग्रहणाभिधायकं सूत्रमारभ्यते ।। अनेन सम्बन्धेनायातस्यास्य व्याख्या-निर्ग्रन्थस्य तत्प्रथमतया सम्-इति सम्यक् प्रकर्षेणपुनरनङ्गीकारलक्षणेन व्रजतः गृहवासाद् निर्गच्छतः सम्प्रव्रजतः कल्पते रजोहरण-गोच्छक-प्रतिग्रहमादाय त्रिभि कृत्स्नैर्वस्त्ररात्मना सम्प्रव्रजितुम् । इह रजोहरणग्रहणेन मध्यमोपधि गोच्छकग्रहणेन जधन्योपधि प्रतिग्रहणेनोत्कृष्टोपधि सर्वो गृहीतः, ततोऽयमर्थःजधन्य-मध्यमोत्कृष्टोपधनिष्पन्ना ये त्रयः कृत्स्नाः प्रतिपूर्णा वस्त्र- पात्रप्रत्यवतारास्तैरात्मना सहितैः प्रव्रज्या ग्रहीतुं कल्पते । “से य" त्ति चशब्दो अथशब्दार्थः, अथासौ प्रव्रज्याप्रतिपत्ता पूर्वम् उपस्थितः- दीक्षितः स्यात् ततो नो कल्पते “से” तस्य पूर्वोपस्थितस्य रजोहरण-गोच्छकप्रतिग्रहमादाय त्रिभः कृत्स्नैर्वस्त्रैरात्मना सम्प्रव्रजितुम्; किन्तु कल्पते “से” तस्य 'यथापरिगृहीतानि' क्रीतकृतादिदोषरहितानि वस्त्राणि गृहीत्वा आत्मना सम्प्रव्रजितुम् इति सूत्रसङ्क्षेपार्थः ॥ Page #449 -------------------------------------------------------------------------- ________________ ४४६ बृहत्कल्प-छेदसूत्रम् - २-३/९२ अथ विस्तरार्थोऽभिधीयते - आह-न तावदद्याप्ययं प्रव्रजितः ततः कथं निर्ग्रन्थो भवति ? इति उच्यते [भा. ४१९०] दव्वम्मिय भावम्मि य, पव्वइए एत्थ होति चउभंगो । दव्वेण लिंगसहितो, ओहावति जो उनीसंको ।। [भा. ४१९१] पवज्जए अभिमुहो, परलिंगे कारणेन वा बितिओ । ततितो उ उभयसहितो, उभओविजढे चरिम भंगो ॥ वृ- द्रव्ये च भावे च प्रव्रजित इत्यत्र चतुर्भङ्गी भवति । तद्यथा-द्रव्यतो निर्ग्रन्थो न भावतः १ भावतो निर्ग्रन्थो न द्रव्यतः २ एको द्रव्यतोऽपि भावतोऽपि ३ अपरो न द्रव्यतो न भावतः ४ । तत्र द्रव्यतो निर्ग्रन्थः स उच्यते यः 'लिङ्गसहितः' द्रव्यलिङ्गयुक्तो निशङ्कः सन् 'अवधावति' उठप्रजतीत्यर्थः । यस्तु प्रव्रज्यायामभिमुखो न तावदद्यापि प्रव्रजति कारणेन वा यः साधुः परलिङ्गे वर्तते सः 'द्वितीयः' द्वितीयभङ्गवर्ती । यस्तु 'उभयविमुक्ते तु ' द्रव्य-भावलिङ्गरहिते गृहस्थादौ 'चरमः' चतुर्थो भङ्गो भवति ॥ अत्राचार्यो देवस्य मानुष्या सह संवासलक्षणं दृष्टान्तं कर्तुकामः प्रथमतः सिद्धान्तं प्रज्ञापयति[भा. ४१९२ ] चउधा खलु संवासो, देवाऽसुर रक्खसे मनुस्से य । अनोनकामणेण य, संजोगा सोलस हवंति ॥ वृ- देवसंवासः असुरसंवासो राक्षससंवासो मनुजसंवासश्चेति संवासश्चतुर्धा । अत्र चान्योन्यकाम्यया षोडश संयोगा भवन्ति, तद्यथा देवो देव्या सार्धं संवसति १ देवो असुर्या सार्धम् २ देवो मनुष्या सार्धम् ३ देवो राक्षस्या सार्धम् ४, असुरो देव्या समं संवसति ५ असुरोऽसुर्या ६ असुरो मनुष्या ७ असुरो राक्षस्या ८, राक्षसो देव्या ९ राक्षसोऽसुर्या १० राक्षसो मनुष्या ११ राक्षसो राक्षस्या १२, मनुष्यो देव्या १३ मनुष्योऽसुर्या १४ मनुष्यो राक्षस्या १५ मनुष्यो मनुष्या १६ चेति । अत्र देवशब्देन वैमानिको ज्योतिष्को वा, असुरशब्देन भवनवासी, राक्षसशब्देन तु सामान्यतो व्यन्तरः परिगृह्यते ॥ अथमूनेव षोडश भङ्गान् चतुर्षु भङ्गेष्वतारयन्नाह - [भा. ४१९३/१] अधवण देव छवीणं, संवासे एत्थ होति चउभंगो । वृ- “अहवण” त्ति प्रकारान्तरद्योतकः । देव-च्छविमतोः संवासे चतुर्भङ्गी भवति देवो देव्या सार्धं संवसति १ देवः छविमत्या सार्धंम् २ छविमान् देव्या सार्धम् ३ छविमान् छविमत्या ४ । अत्र देवशब्देन सामान्यतो भवनपत्यादिनिकायचतुष्टयाभ्यन्तरवर्ती गृह्यते, छविमांश्च मनुष्य उच्यते । अत एतेषु चतुर्षु भङ्गेषु पूर्वोक्ताः षोडशापि भङ्गा अन्तर्भूताः ॥ एवं सिद्धान्तं प्रज्ञाप्य प्रस्तुतार्थसाधकं दृष्टान्तमाह [भा. ४१९३/२] पव्वज्जाभिमुहंतर, गुज्झग उब्मामिया वासो ॥ [भा. ४१९४] बितियनिसाए पुच्छा, एत्य जती आसि तेन मिन आतो । जतिवेसोऽयं चोरो, जो अज्ज तुहं वसति दारे ॥ वृ- "पव्वज्जा" इत्यादि । एकः कश्चित् तरुणः प्रव्रज्याभिमुखो गुरुणां पार्श्वे प्रस्थितः । अन्तरा च कस्मिंश्चिद् ग्रामे एकस्या वरतरुण्या गृहे वासार्थमुपगम्य द्वारमूल सुप्तः । साच तरुणी 'उद्भ्रामिका' कुशीला | 'गुह्यकश्च' कश्चिद् यक्षः तया उद्भ्रामिकया सह रात्रौ वासं कृत्वा प्रभाते स्वस्थानं . Page #450 -------------------------------------------------------------------------- ________________ उद्देशकः३, मूलं-९२, [भा. ४१९४] ४४७ गच्छति । एवं दिवसे दिवसे करोति । तस्मिंश्च दिवसे स यक्षो नोपागमत् । द्वितीये च दिवसे कोऽपि सलिङ्गावधावी चौर्यं कर्तुकामस्तस्मिन्नेव ग्रामे तस्या एव तरुण्या गृहे तथैव द्वारमूले प्रसुप्तः, यक्षश्च तद्दिवसमागतः । यस्मिन् दिवसे यक्षो नायातः ततो यो द्वितीयो दिवसस्तत्र • निशायामागतस्य यक्षस्य पार्थे पृच्छा कृता-कल्पे किं नागतोऽसि ? । यक्षः प्राह-अत्र कल्ये यतिरासीत् तेन कारणेन अहमत्र नायातः, अपि च साधुसम्बन्धिना तेजसैव तमुल्लाङ्य गन्तुंन शक्यते । सा प्राह-किमेवं मृषा भाषसे ? अयमपि तावदन्यः साधुरिमूले सुप्तस्तिष्ठति अत एनमुलक्ष्य कथमद्यागतोऽसि? इति । यक्षः प्राह-एष चारित्रं प्रति विपरिणतश्चौर्यं कर्तुकामः, अतो यतिवेषेण चौरोऽयं मन्तव्यः यस्तव अद्य द्वारे वसतीति ॥ तदेवमनेन दृष्टान्तेन प्रव्रज्यायामभिमुखः प्रव्रजितएवोच्यते। उक्तंचनैश्चयिकनयवक्तव्यतामङ्गीकृत्य भगवत्याम्-नेरईए नंमंते! नेरईएसुउववज्जइ ? अनेरईए नेरईएसु उववज्जइ? गोयमा! नेरईए नेरईएसु उववज्जइ, नो अनेरईए नेरईएसु उववजइ । अथ रजोहरणादिपदानि व्याचष्टे[भा.४१९५] रयहरणेण विमज्झो, गुच्छगगहणे जहन्नगहणंतु। भवति पडिग्गहणे, गहणं उक्कोसउवधिस्स ॥ वृ- रजोहरणग्रहणेन विमध्यमोपधिर्ग्रहीतः, गोच्छकग्रहणेन जधन्योपधिग्रहणं भवति, प्रतिग्रहग्रहणेन चोत्कृष्टस्योपधेर्ग्रहणं मन्तव्यम् ॥ [भा.१९६] पडिपुन्ना पडुकारा, कसिणग्गहणेण अप्पणो तिन्नि। . पुट्विं उवहितोपुन, जो पुव्वं दिक्खितो आसी॥ वृ-कुत्स्नवस्त्रग्रहणेनेदमुक्तं भवति-तेनप्रव्रजता आत्मनो योग्यास्त्रयः प्रत्यवताराः प्रतिपूर्णा ग्रहीतव्याः । पूर्वमुपस्थितः पुनः स उच्यते यः पूर्वं दीक्षित आसीत् ॥ एष सूत्रार्थः । अथ नियुक्तिविस्तरः[भा.४१९७] सोऊण कोइ धम्मं, उवसंतो परिणओय पव्वजं । पुच्छति पूयं आयरिय उवज्झाए, पवत्ति संघाडए चेव ॥ वृ-इह कश्चित्तथारुपाणां स्थविराणामन्तिके धर्मं श्रुत्वा 'उपशान्तः प्रव्रज्यायांचपरिणतः। ततःसआचार्यान् पृच्छति-आदिशत क्षमाश्रमणाः! किंमयाकर्तव्यम्? ।सूरयस्तस्य सारसम्भवं ज्ञात्वाब्रुवते-“पूर्य" ति चैत्यानां विपुलां पूजां कुरु श्रमणसङ्घस्य च वस्त्रदिभिप्रतिलाभनं कुरु। एवमुक्ते स तथैव चैत्यानां श्रमणसङ्घस्य च पूजां करोति । अथ श्रमणसङ्घन पूजयितुमीशस्तत आचार्यस्योपाध्यायस्य प्रवर्तिनः सङ्घाटकसाधोश्च वस्त्रादिभिः पूजा विधातव्या ।। इदमेव भावयति[भा.४१९८] नंतग-घत-गुल-गोरस, फासुग पडिलाभणं समणसंधे। असति गणि-वायगाणं, तदसति सव्वस्स गच्छस्स॥ वृ-सप्रविव्रजिषुः श्रमणसवस्य सकलस्यापि 'प्राशुकैः' शुद्धैर्वस्त्र-घृत-गुड-गोरसादिभिर्द्रव्यैः प्रतिलाभनांकरोति। अथ नास्त्येतावत्सारंततोयेगणिनः-आचार्यायेवावाचकाः-उपाध्यायास्तेषां सर्वेषामपि करोति । अथ नास्त्येतावाती शक्तिस्ततो यस्मिन् गच्छे असौ प्रव्रजिष्यति तस्य सर्वस्यापि प्रतिलाभनां विद्यत्ते॥ Page #451 -------------------------------------------------------------------------- ________________ ४४८ बृहत्कल्प-छेदसूत्रम् -२-३/९२ [भा. ४१९९ ] तदसति पुव्वुत्ताणं, चउण्ह सीसति य तेसि वावारो । हानी जातिन्नि सयं, तदभावें गुरु उ सव्वं पि ।। वृ- तस्या अपि-सकलगच्छपूजाभमायाः सामग्यरा अभावे ये पूर्वमाचार्योपाध्याय प्रवर्तिसङ्घाटकसाधुलक्षणाश्चत्वार उक्तास्तेषां पूजा करोति । 'तेषां च ' आचार्यादीनां 'व्यापारः ' अर्थकथनादिस्तस्य पुरतः 'शिष्यते' कथ्यते, यथा - आचार्योऽर्थं व्याख्यानयति, उपाध्यायः सूत्रं वाचयति, प्रवर्ती तपः संयमादी प्रवृत्तिं कारयति, सङ्घाटकसाधुर्भिक्षा- विचारभूम्यादौ गच्छतां साहाय्यं विधत्ते, अत एतेषां पूजां विधेहीति । अथ नास्त्येतावती शक्तिस्ततो यथाक्रमं हान्या प्रथममाचार्योपाध्याय प्रवर्त्तिनाम्, तदभावे आचार्योपाध्याययोः, तथाप्यशक्तौ केवलस्यैवाचार्यस्य पूजां करोति । एवमप्यशक्तौ स्वयमात्मनो योग्यान् त्रीन् प्रत्यवतारान्, तदभवे द्वौ द्वयोरभावे एकमपि प्रत्यवतारमादाय प्रव्रजति । अथ नास्ति तस्यैकोऽपि प्रत्यवतारस्ततः सर्वमपि पात्रनिर्योगादिकं तस्य गुरवः प्रयच्छन्ति ॥ 1 अथास्य विद्यमानविभवस्योद्रमकोटिदोषैर्विशोधिकोटि-दोषैर्वा अविशुद्धानि वस्त्रणि प्रयच्छतो ग्रहीतुं कल्पन्ते न वा ? इति चिन्तां चिकीर्षुराह [ भा. ४२०० ] अप्पणो कीतकडं वा, आहाकम्मं व घेत्तु आगमनं । संजोए चेव तधा, अनिदिट्ठे मग्गणा होति ।। वृ- स गृहस्थ शैक्ष आत्मनो योग्यं वस्त्र - पात्रादि क्रीतकृतं वा आधाकर्म वा गृहीत्वा गुरुणामन्तिके दीक्षाग्रहणायागमनं कुर्यात् । अत्र क्रीतकृतग्रहणेन विशोधिकोटिदोषा गृहीताः, आधाकर्मग्रहणेन चाविशोधिकोटिदोषा गृहीताः । अमीषांच दोषाणामनिर्दिष्टे उपलक्षणत्वाद् निर्दिष्टे च ये संयोगाःभङ्गकास्तेषां मार्गणा कर्तव्या भवतीति द्वारगाथासमासार्थः ॥ साम्प्रतमेनामेव विवृणोति [भा. ४२०१ ] कीयम्मि अनिद्द्द्दिट्ठे, तेनोग्गहियम्मि सेसगा कप्पे । निट्ठिम्मिन कप्पति, अहव विसेसो इमो तत्थ ॥ वृ- क्रीतकृतं द्विधा - निर्दिष्टम् अनिर्दिष्टं च । निर्दिष्टं नाम-वस्त्र- पात्रादिकं क्रीणान इत्थं निर्देशं करोति-अमूनि मम भविष्यन्ति अमूनि साधूनां दास्यामि । तद्विपरीतमनिर्दिष्टम्। एवमन्येष्वपि दोषेषु भावना कर्तव्या । तत्र यानि वस्त्रणि तेनानिर्दिष्टानि क्रीतानि तेषां मध्ये यत् तस्याभिरुचितं तत्र वस्त्रजाते तेनावगृहीते सति शेषाणि साधूनां कल्पन्ते । 'निर्दिष्टे तु' साधूनामर्थाय यत् क्रीतं तत् किमपि न कल्पते । अथवा 'तत्र' निर्दिष्टेऽयुं विशेषोऽभिधीयते ॥ [भा. ४२०२ ] मज्झांतिगामि गिण्हह, अहगं तुज्झच्चए परिग्धिच्छं । सेहे दिति व वत्थं, तदभावे वा विगिंचंति ।। वृ- 'मदीयानि' मया आत्मार्थं क्रीतानि वस्त्रणि यूयं गृह्णीथ, अहं तु 'युष्मदीयानि' युष्मदर्थं मयैव क्रीतानि वस्त्राणि परिग्रहीष्ये । एवं तेनोक्ते तान्यात्मार्थक्रीतानि कल्पन्ते । अथवा स ब्रूयात्-मया तावद् युष्मदर्थमेतानि क्रीतानि, इत ऊर्ध्वं यद् जानीथ तत् कुरुथ । ततः तद् निर्दिष्टं ‘वस्त्र' वस्त्रप्रत्यवतारं ‘शैक्षे' शैक्षस्यानुपस्थापितस्य प्रयच्छन्ति । अथ नास्ति शैक्षः, अस्ति वा परं 'किमहं साधुर्न भवामि यदेवमेतानि मम दीयन्ते ? ' इति कृत्वा नेच्छति ततस्तानि “विगिंचंति” परिष्ठापयन्ति ।। एवं परिष्ठाप्यमानेषु स शैक्षो ब्रूयात् Page #452 -------------------------------------------------------------------------- ________________ उद्देशक : ३, मूलं- ९२, [भा. ४२०३] [भा. ४२०३ ] एतं पि मा उज्झह देह मज्झं, मज्झच्चगा गेण्हह एक्क दो वा । अत्तट्ठिए होति कदायि सव्वे, सव्वे वि कप्पंति विसोधि एसा ।। वृ- 'एनमपि' वस्त्रप्रत्यवतारमकल्पनीयतया मा यूयमुज्झत किन्तु मह्यं प्रयच्छत, मदीयप्रत्यवतारात् चैकं द्वो वा यूयं गृह्णीत । अथ तेन बहवः प्रत्यवताराः क्रीतास्ततः को विधिः? इत्याह-यान् प्रत्यवतारान् एकं वा द्वौ वा त्रीन् वा स दाता आत्मार्थयति सर्वांन् वा कदाचिदात्मार्थं करोति तदा सर्वेऽपि कल्पन्ते । एष विशोधिकोटिविषयो विधिरुक्तः ॥ अथाविशोधिकोटिविषयं तमेवाह [ मा. ४२०४] उग्गमकोडीए वि हु, संछोभो तहेव होतऽनिहिडे । इयरम्मि वि संछोभो, जइ सो सेहो सयं भणइ ॥ वृ-उद्गमकोटिर्नाम-आधाकर्मादयो अविशोधिकोटयो दोषाः तेष्वपि यद् 'अनिर्दिष्टम्' 'इदं साधूनां दास्यामि इदं मम भविष्यति' इति निर्देशमन्तरेण वस्त्रदि कृतं तत् कल्पते । “संछोभ तहेव होअनिद्दिट्ठि” त्ति अनिर्दिष्टेऽपि यद्यसौ दाता ब्रूयात्-यैर्वस्त्रर्ययं निमन्त्रिता यदि तानि नेच्छ्रथ तत इमानि मत्परिगृहीतानि गृह्णीत, यानि युष्माभि प्रतिषिद्धानि तानि मम भविष्यन्ति । एवमसौ “संछोभं प्रक्षेपकं कृत्वा यदि ददाति तर्हि सर्वाण्यपि कल्पन्ते । “इतरम्मि वि संछोभो” त्ति इतरद् नाम-निर्दिष्टं तत्रापि संछोभो यदि स्यात् ततः कल्पते । संछोभः पुनरयम् - यद्यसौ गृहस्थशैक्षः 'स्वयम्' अन्येनानुपदिष्ट आत्मनैवेत्थं भणति ॥ [भा. ४२०५ ] उक्कोसगा व दुक्खं, वुवज्जिया केसितोऽहं मि विधेव । इति संछोभं तहियं, वदंति निद्दिट्ठगेसुं पि ॥ वृ- यानि वस्त्राणि मया युष्मदर्थं कारितानि तानि 'उत्कृष्टानि ' बहुमूल्यानि ततः कथं परित्यज्यन्ते ? ; 'दुःखं वा' महता प्रयासेन वा (व्या) यितानि अतः 'क्लेशितः' क्लेशं प्रापितोऽहं वृथैवामीभिः, युष्माकमनुपकरणात्; अतो मदीयानि यूयं गृह्णीथ युष्मदीयानि च मम भवन्तु, 'इति' एवं तत्र 'निर्दिष्टेष्वपि ' संयतनिमित्तं निर्दिश्य कृतेष्वेपि संछोभं कल्पनीयताकारणं वदन्ति तीर्थकरादयः, संयतनिर्दिष्टान्यपि कल्पन्त इति भावः ॥ अत्र मतान्तरमुपन्यस्य दूषयन्नाह [भा. ४२०६] जह अत्तट्ठा कम्मं, परिभुत्तं कप्पते उ इतरेसिं । इय तेन परिग्गहियं, कप्पइ इयरं पि इयरेसिं ॥ 1929 ४४९ वृ-या अविशोधिकोटि 'संयतनिर्दिष्टा' साधून् निर्दिश्य कृता सा संछोभे कृतेऽपि न कल्पते; एवं केचिदाचार्या ब्रूवते तत् तु न युज्यते । यस्मात् 'शैक्षस्य' अनुपस्थापितस्य 'अविशुद्धम्' अनेषणीयं वस्त्र- पात्रादि दीयते इति अत्रैव चतुर्थोद्देशके वक्ष्यति । तत्र शैक्षयोग्यमविशुद्धं साधुभिः परिगृहीतं भवति, अतो ज्ञायते-अविशोधिकोटिदोषदुष्टमपि वस्त्रादिकं संछोभे कृते कल्पते ।। किञ्चान्यत्[भा. ४२०७] जय अत्तट्ठा कम्मं, परिभुत्तं कप्पते उ इतरेसिं । इय तेन परिग्गहियं, कप्पइ इयरं पि इयरेसिं ॥ Page #453 -------------------------------------------------------------------------- ________________ ४५० बृहत्कल्प-छेदसूत्रम् -२-३/९२ - यथा गृहस्थेनात्मनोऽर्थाय आधाकर्म कृतं तद् 'इतरेषां' सयंतानां परिभोक्तुं कल्पते, 'इति' अमुनैव ज्ञापकेन अस्माकमपि स शैक्षो गृहस्थ एवेति कृत्वा 'तेन परिगृहीतं' ममेदमिति बुद्धया स्वीकृतम् 'इतरदपि संयतनिर्दिष्टमपि कल्पते 'इतरेषां' साधूनाम् । ये पुनराचार्या अविशोधिकोटिनिर्दिष्टं संछोभेऽपि कृते नेच्छन्ति ते इदं कारणमुपवर्णयन्ति [भा. ४२०८] सहसानुवादिनातेन केइ निदिट्ठके न इच्छंति । अनिदिट्ठे पुन छोभं, वदंति परिफग्गुमेतं पि ॥ वृ- यथा सहस्रानुपाति विषं भक्ष्यमाणं सहस्रान्तरितमपि पुरुषं मारयति, एवमाधाकर्माSप्युपभुज्यमानं सहस्रन्तरितमपि साधुं संयमजीविताद् व्यपरोपयतीति सहस्रानुपातिविपज्ञातेन केचिदाचार्या साधुनिमित्तं निर्दिष्टे संछोमेऽपि कृते नेच्छन्ति, अनिर्दिष्टे पुनः छोभं कृत्वा ददानस्य कल्पनीयं वदन्ति एतदपि 'परिफल्गु' निस्सारं मन्तव्यम् ॥ कथम् ? इत्याहएवं पि सघरमीसेण सरिसगं तेन फग्गुमिच्छामो । दुविधं पिततो गहियं, कप्पति रतणुच्चओ नातं ।। [भा. ४२०९] वृ-यत् ते आचार्यदेशीया अनिर्दिष्टं संछोभे कृते कल्पनीयं ब्रुवते एतदपि स्वगृहयतिमिश्रेण सध्शम्, तेन कारणेन परिफल्गु वयमिच्छामः । त्वदीयाभिप्रायेण ह्येतदपि स्वगृहयतिमिश्रमिति कृत्वा अकल्पनीयं प्राप्नोति, तच्चनिष्टम्; ततः 'द्विविधमपि' निर्दिष्टा ऽनिर्दिष्टभेदाद् द्विप्रकारमपि तेन शैक्षेण संछोभकरणेन 'अवगृहीतम्' आत्मीकृतं सत् कल्पते । तथा चात्र 'रलोच्चयः' मेरुमहीधरः 'ज्ञातं' दृष्टान्तः । यथा हि तत्र प्रक्षिप्तं तृणादिकमपि सुवर्णीभवति, एवं शैक्षगृहस्थेन परिगृहीतं सर्वमपि कल्पनीयं भवति । अपि च [भा. ४२१०] जह उ कडं चरिमाणं, पडिसिद्धं तं हि मज्झिमोग्गहिपं । पडिवन्नपंचजामे, कप्पति तेसिं तहऽन्नेसिं ॥ वृ-यथा 'चरमाणां' वरमतीर्थकृर्तीर्थवर्तिनां पञ्चयामिकानां साधूनामर्घाय किमपि वस्त्रं वा पात्र वा कृतं तच्च तैः 'प्रतिषिद्धं न गृहीतम्, 'मध्यमैश्च' श्री पार्श्वनाथतीर्थवर्तिसाधुभिश्चतुर्यामिकैस्तत् प्रतिगृहीतम् । ते च चतुर्यामिकाः पञ्चयामधर्मं प्रतिपन्नाः ततस्तद्वस्त्रादिकं तेषामन्येषामपि पश्यामिकानां परिभोक्तुं यथा कल्पते, एवमत्रापि साधूनामर्थाय कृतं तैः प्रतिषिद्धं शैक्षगृहस्थेनात्मार्थीकृतं सद् दीयमानं कल्पते । अथ संयोगद्वारं व्याख्याति [भा. ४२११] उग्गम-विसोधिकोडी, दुगादिसंजोगओ बहू एत्थं । पत्तेग-मीसिगासु य, निद्दिष्ट्ठ तधा अनिद्दिट्ठा ।। वृ- इह उद्रमकोटिभेदाः- आधाकर्म- मिश्रजातादयस्तेषां 'द्विकादिसंयोगतः' द्विकत्रिकचतुष्कादिसंयोगनिष्पन्ना बहवोऽत्र भङ्गका भवन्ति, ते च सुगमतया स्वयमभ्युह्य मन्तव्याः; एवं विशोधिकोटिभेदानामपि क्रीतकृतादीनां द्विकादिसंयोगनिष्पन्नास्तथैव बहवो भङ्गकाः; एते च प्रत्येकभङ्गका उच्यन्ते । एतेषामेवोद्रमकोटिभेदानां विशोधिकोटिभेदानां च परस्परं द्विकादिसंयोगनिष्पन्ना एवमेव बहवो भङ्गका भवन्ति, तेच मिश्रभङ्गका भण्यन्ते । सर्वेऽप्येते द्विधा - निर्दिष्टा अनिर्दिष्टाश्च । एतासु प्रत्येक-मिश्रासु भङ्गपङिषु कल्प्या-ऽकल्प्यविभागः प्रागुक्तप्रकारेणावसातव्यः ॥ अथ वक्ष्यमाणार्थसम्बन्धनाय प्रस्तावनां करोति Page #454 -------------------------------------------------------------------------- ________________ ४५१ उद्देशकः ३, मूलं-९२, [भा. ४२१२] [भा.४२१२]वत्था वा पत्ता व घरे वि हुजा, दटुंपि कुजा निउणो सयं पि । निजुत्तभंडं व रयोहरादी, कोईक किणे कुत्तियआवणातो॥ . वृ-वस्त्राणिवापात्राणि वा प्रायो गृहेऽपि भवेयुः । यत्तु निर्युक्तभाण्डं' पात्रनिर्योगोपकरणं वाशब्दस्य व्यवहितसम्बन्धतया रजोहरणादिकं वायदन्यत्र दुर्लभमुपकरणंतत् कश्चिद् 'निपुणः' बुद्धिमान् साधूनां समीपे दृष्ट्वा तदनुसारेण स्वयमपि कुर्यात्, कश्चित् तु तदेव कुत्रिकापणात् क्रीणीयात् ।। अनेन सम्बन्धेन कुत्रिकापणवक्तव्यतामभिधित्सुराह[भा.४२१३] कुत्तीयपरूवणया, उक्कोस-जहन्न-मज्झिमट्ठाणा। कुत्तिय भंडक्किणणा, उक्कोसं हुंति सत्तेव ॥ वृ-प्रथमतः कुत्रिकापणस्य प्ररूपणा कर्तव्या । तत उत्कृष्ट-जघन्य-मध्यमानि मूल्यस्थानानि वक्तव्यानि । एतावता मूल्येन कुत्रिकापणे भाण्डस्य-उपकरणस्य क्रयणं भवतीति निरूपणीयम्। “उक्कोसं" ति उत्कर्षतः सकलस्यापि श्रमणसङ्घस्य योग्या वस्त्र-पात्रप्रत्यवतारा ग्रहीतव्याः । "होतिसत्तेव"त्तिसप्तनिर्योगास्तेन ग्रहीतव्या भवन्ति, जघन्यतइति वाक्यशेषः।एषचूण्यभिप्रायः। विशेषचूर्ण्यभिप्रायेण तु-जघन्यत एक आत्मनो योग्यो निर्योगो ग्रहीतव्यः । उत्कर्षतस्तु सप्त निर्योगाः, तेषां च त्रय आत्मनो योग्याः चत्वार आचार्यप्रभृतीनां पूजनीयानां पूजायोग्याः । एष द्वारगाथासमासार्थः ॥अथैनामेव विवृणोति[भा.४२१४] कुत्ति पुढवीय सन्ना, जं विज्ञति तत्थ चेदनमचेयं । गहणुवभोगे य खमं, न तं तहिं आवणे नत्थि ॥ वृ-'कुः' इति पृथिव्याः संज्ञा, तस्याः त्रिकं कुत्रिकं-स्वर्ग-मर्त्य-पाताललक्षणं तस्यापणः-हट्टः कुत्रिकापणः किमुक्तं भवति? इत्याह-'तत्र' पृथिवीत्रये यत् किमपि चेतनमचेतनं वा द्रव्यं सर्वस्यापि लोकस्य ग्रहणोपभोगक्षम विद्यते तत् 'तत्र' आपणे न नास्ति, "द्वौ नौ प्रकृत्यर्थं गमयतः" इति वचनाद् अस्त्येवेति भावः॥ अथोत्कृष्ट-मध्यम-जघन्यमूल्यस्थानानि प्रतिपादयति[भा.४२१५] पनतो पागतियाणं, साहस्सो होति इब्भमादीणं। उक्कोस सतसहस्सं, उत्तमपुरिसाण उवधी उ॥ वृ-प्राकृतपुरुषाणां प्रव्रजतमुपधि कुत्रिकापणसत्कः ‘पञ्चकः' पञ्चरूपकमूल्यो भवति । 'इभ्यादीनां' इभ्य-श्रेष्ठि-सार्थवाहादीनां मध्यमपुरुषाणां 'साहनः' सहसःमूल्य उपधिः । 'उत्तमपुरुषाणां' चक्रवर्ति-माण्डलिकप्रभृतीनामुपधि शतसहस्रमूल्यो भवति। एतच्च मूल्यमानं जघन्यतो मन्तव्यम्, उत्कर्षतः पुनस्रयाणामप्यनियतम् । अत्र चपञ्चकंजघन्यम्, सहस्रमध्यमम्, शतसहस्रमुत्कृष्टम् ॥ कथापुनरेकस्यापि रजोहरणादिवस्तुन इत्थं विचित्रं मूल्यं भवति? इत्युच्यते[भा.४२१६] विकिंतगंजघा पप्प होइ रयणस्स तविहं मुल्लं। कायगमासज्ज तहा, कुत्तियमुल्लस्स निकं ति॥ वृ-यथा 'रत्नस्य' मरकत-पद्मरागादेर्विक्रेतारं 'प्राप्य' प्रतीत्य त्विधं मूल्यं भवति, याशो मुग्धःप्रबुद्धोवा विक्रेता ताशमेवस्वल्पंबहुवामूल्यं भवतीति भावः; एवं क्रायकं ग्राहकमासाद्य Page #455 -------------------------------------------------------------------------- ________________ ४५२ बृहत्कल्प - छेदसूत्रम् - २-३/९२ कुत्रिकापणे भाण्डमूल्यस्य 'निष्कं' परिमाणं भवति, न प्रतिनियतं किमपीति भावः । इतिशब्दः स्वरूपोपदर्शने ॥ [भा. ४२१७] एवं ता तिविह जणे, मोल्लं इच्छाए दिज्ज बहुयं पि । सिद्धमिदं लोगम्मिवि, समणस्स वि पंचगं भंडं ॥ वृ- एवं तावत् 'त्रिविधे' प्राकृत-मध्यमोत्तमभेदभिन्ने जने 'मूल्यं' पञ्चकादिरूपकपरिमाणं जघन्यतो मन्तव्यम् । इच्छ्या तु 'बह्वपि' यथोक्तपरिमाणादधिकमपि प्राकृतादयो दद्युः, न कोऽप्यत्र प्रतिनियमः । न चैतदत्रैवोच्यते, किन्तु लोकेऽपि 'सिद्धं' प्रततमिदम्, यथा- श्रमणस्यापि 'पञ्चकं' पञ्चरूपकमूल्यं भाण्डं भवति । इह च रूपको यस्मिन् देशे यद् नाणकं व्यवह्रियते तेन प्रमाणेन प्रतिपत्तव्यः ॥ अथ कुत्रिकापणः कथमुत्पद्यते ? इत्याह [ भा. ४२१८ ] पुव्वभविगा उ देवा, मनुयाण करिंति पाडिहेराई । लोगच्छेरयबूया, जह चक्कीणं महानिहयो ॥ वृ- 'पूर्वभविकाः ' भवान्तरसङ्गतिका देवाः पुण्यवतां मनुजानां 'प्रातिहार्याणि' यथाभिलषितार्थोपढौकनलक्षणानि कुर्वन्ति । यथा लोकाश्चर्यभूताः 'महानिधयः' नैसर्पप्रभृतयः 'चक्रिणां' भरतादीनां प्रातिहार्याणि कुर्वन्ति । वर्तमाननिर्देशस्तत्कालमङ्गीकृत्याविरुद्धः । एवं कुत्रिकापणा उत्पद्यन्ते । ते चैतेषु स्थानेषु पुरा बभूवुः इति दर्शयति [भा. ४२१९] उज्जेनी रायगिहं, तोसलिनगरे इसी य इसिवालो । दिक्खा य सालिभद्दे, उवकरणं सयसहस्सेहिं । वृ- उज्जयिनी राजगृहं च नगरं कुत्रिकापणयुक्तमासीत् । तोसलिनगवास्तव्येन च वणिजा ऋषिपालो नाम वानमन्तर उज्जयिनीकुत्रिकापणात् क्रीत्वा स्वबुद्धिमाहात्म्येन सम्यगाराधितः, ततस्तेन ऋषितडागं नाम सरः कृतम् । तथा राजगृहे श्रेणिके राज्यमनुशासति शालिभद्रस्य सुप्रसिद्धचरितस्य दीक्षायां शतसहस्राभ्याम् 'उपकरणं' रजोहरण- प्रतिग्रहलक्षणमानीत्, अतो ज्ञायते यथा राजगृहे कुत्रिकापण आसीदिति पुरातनगाथासमासार्थः ॥ साम्प्रतमेनामेव विवृणोति - [भा. ४२२०] [भा. ४२२१] पज्जोए नरसीहे, नव उज्जेनीय कुत्तिया आसी । भरुयच्छवणियऽ सद्दह, भूयऽट्ठम सयसहस्सेणं ॥ कम्मम्मि अदिज्जंते, रुट्ठो मारेइ सो य तं घेत्तुं । 'भरुयच्छाऽऽगम, वावारदान खिप्पं च सो कुणति ॥ [ भा. ४२२२ ] भीएण खंभकरणं, एत्थुस्सर जा न देमि वावारं । निज्जित भूततलागं, आसेन न पेहसी जाव ॥ चू- चण्डप्रद्योतनाम्नि नरसिंहे अवन्तिजनपदाधिपत्यमनुभवति न कुत्रिकापणा उज्जयिन्या मासीरन् । तदा किल भरुयच्छाओ एगो वाणियओ असद्दहंतो उज्जेनीए आगंतून कुत्तियावणाओ भूयं मग्गइ । तेन कुत्तियावणवाणिएण चिंतियं - 'एस ताव मं पवंचेइ ता एयं मोल्लेण वारेमि' त्ति भणियं - जइ सयसहस्से देसि तो देमि भूयं । तेन तं पि पडिवन्नं ताहे तेन भन्नइ- पंचरत्तं उदिक्खाहि तओ दाहामि । तेन अट्ठमं काऊण देवो पुच्छिओ । सो भणइ देहि, इमं च भणिहिज्ज - जइ कम्मं न Page #456 -------------------------------------------------------------------------- ________________ उद्देश : ३, मूलं- ९२, [भा. ४२२२] ४५३ देसि तो भूओ तुमं उच्छाएहिइ । 'एवं भवउ' त्ति भणित्ता गहिओ तेन भूओ भणइ-कम्मं मे देहि । दिनं तं खिप्पमेव कयं । पुनो मग्गइ, अन्नं दिनं । एवं सव्वम्मि कम्मे निट्ठि पुनो भणइ - देहि कम्मं । तेन भन्नइ - एत्थं खंभे चडुत्तरं करेहि जाव अन्नं किंचि कम्मं न देमि । भूओ भणइ अलाहि, पराजितो मि, चिंधं ते करेमि - जाव नावलोएसि तत्थ तलागं भविस्सइ । तेन अस्से विलग्गिऊण बारस जोयणाई गंतूण पलोइयं जाव तक्खणमेव कयं तेन भरुयच्छस्स उत्तरे पासे भूयतलागं नाम तलागं ।। अमुमेवार्थमभिधित्सुराह "भरुयच्छ" इत्यादि । भरुकच्छवणिजा अश्रद्दधता 'भूतः ' पिशाचिवशेषः कुत्रिकापणे मार्गितः । ततोऽष्टमं कृत्वा शतसहस्रेण भूतः प्रदत्तः, इदं च भणितम्कर्मण्यदीयमाने अयं ‘रुष्टः ' कुपितो मारयतीति । स च भूतं गृहीत्वा भरुकच्छे आगमनं कृत्वा व्यापारदानं तस्य कृतवान् । स भूतस्तं व्यापारं क्षिप्रमेव करोति । ततः सर्वकर्मपरिसमाप्तौ वणिजा भीतेन भूतस्य पार्थ्यात् स्तम्भ एकः कारयाञ्चक्रे । ततस्तं भूतमभिहितवान्- यावद परं व्यापारं न ददामि तावद् ‘अत्र' स्तम्भे ‘उत्सर' आरोहा ऽवरोहक्रियां कुरु इति भावः । ततः सभूत उक्तवान्निर्जितोऽहं भवता, अत आत्मनः पराजयचिह्नं करोमि । अश्वेन गच्छन् यावद् 'न प्रेक्षसे' न पश्चादवलोकसे तत्र प्रदेशे तडागं करिष्यामि इति भणित्वा तथैव कृते भूततडागं कृतवान् ॥ एमेव तोसलीए, इसिवालो वाणमंतरो तत्थ । निजित इसीतलागे, रायगिहे सालिभद्दस्स ।। [भा. ४२२३] बु- 'एवमेव ' तोसलिनगरवास्तव्येन वणिजा उज्जयिनीमागम्य कुत्रिकापणाद् ऋषिपालो नाम वानमन्तरः क्रीतः । तेनापि तथैव निर्जितेन ऋषितडागं नाम सरश्चक्रे । तथा राजगृहे शालिभद्रस्य रजोहरणं प्रतिग्रहश्च कुत्रिकापणात् प्रत्येकं शतसहस्रेण क्रीतः ॥ अथ सप्त निर्योगान् व्याचष्टे[भा. ४२२४] तिन्निय अत्तद्वैती, चत्तारि य पूयणारिहे देति । दिंतस्स य घित्तव्वो, सेहस्स विविंचणं वा वि ॥ वृ- सप्त निर्योगान् गृहीत्वा प्रव्रजतोऽयं गुणः- तेषां सप्तानां निर्योगाणां मध्यात् त्रीन् स शैक्षः 'आत्मार्थयति' आत्मनोऽर्थाय गृह्णातीत्यर्थः; चतुरश्च निर्योगान् 'पूजनार्हाणाम्' आचार्योपाध्यायप्रवर्ति-सङ्घाटकसाधूनां प्रयच्छति । तस्य चैवं प्रयच्छतो यद्यसौ निर्योगः शुद्धः ततो ग्रहीतव्यः । अथाशुद्धस्ततः शैक्षस्य दातव्यः । शैक्षस्याभावे 'विवेचनं' परिष्ठापनं तस्य क्रियते ॥ एवं तस्य त्रीन् निर्योगान् गृहीत्वा प्रव्रजितस्य यद् भवति तद् दर्शयति[भा. ४२२५ ] सज्झाए पलिमंथो, पडिलेहणियाए सो हवइ सिग्गो । एगं च देति तहितं; दोन्निय से अप्पणी हुंति ॥ वृ-तस्य त्रीन् निर्योगान् उभयकालं प्रत्युपेक्षमाणस्य महान् स्वाध्यायविषयः परिमन्थो भवति । तया च महत्या प्रत्युपेक्षणया सः 'सिग्गः' परिश्रान्तो भवति । तत एवं निर्विन्नः सन् स एकं निर्योगं सूरीणां ददाति । प्रदत्ते च तस्मिन् तस्य द्वौ निर्योगावात्मनः सत्तायां भवतः ॥ एवमप्यसौ द्वाभ्यां निर्योगाभ्यां शेषसाधुभ्यो अन्याद्दश इव दृश्यते ततः [ भा. ४२२६ ] निग्गमने बहुभंडो, कत्तो कतरो व वाणिओ एइ । बितियं पि देति तहियं, मा भंते ! दुल्लहं होज्जा ॥ वृ- मासकल्पे पूर्णे ततः क्षेत्राद् निर्गच्छतां स एवैकः 'बहुभाण्डः' बहूपकरणो दृश्यते ततो Page #457 -------------------------------------------------------------------------- ________________ ४५४ बृहत्कल्प-छेदसूत्रम् -२-३/९: लोकस्तमुद्दिश्य ब्रवीति-अहो! कुतःकतरोवाअयंवाणिजएवमुपस्करसम्भारभारितः समुपैति? एवमुपहासमाकर्ण्य सद्वितीयमपि निर्योगं गुरूणां ददाति।तत्र च गुरुभिर्वक्तव्यम्-'हे भदन्त!' आर्य ! मा 'ते' तव भूयो दुर्लभमुपकरणं भवेद् अत आत्मपार्वे एव तावद्धारय ।। स प्राह[भा.४२२७] भारेण खंधं च कडी य बाहा, पीलिज्जए निस्ससए य उच्चं । तेना य उवधीणमभिद्दवेजा, न इत्तिया इंति ममोवभोगं॥ दृ-मम मार्गं गच्छतो द्वयोः प्रत्यवतारयोर्महान्भारोभवति, तेन स्कन्धःकटीबाहा च गाढतरं पीड्यते, ततश्च 'उच्चम्' ऊर्ध्वं निश्वसीम्यहम्, निश्वासेनाकुलो भवामीत्यर्थः । स्तेनाश्च मामुपकरणमालितं दृष्ट्वा उपिधकारणादभिद्रवेयुः । एतावन्ति च वस्त्र-पात्राणि ममोपभोगं नायान्ति॥यच्च भगवद्भिरुक्तम्-‘मा भूयो दुर्लभं भवेत् तत्रोच्यते[भा.४२२८] जंहोहिति बहुगाणं, इमम्मि धम्मचरणं पवन्नाणं । तं होहिति अम्हं पी, तुम्हेहि समं पवन्नाणं॥ वृ-यद् युष्माकं बहूनाम् ‘अस्मिन्' भागवते शासने धर्मचरणं प्रपन्नानामुपकरणं भविष्यति तदस्माकमपि युष्माभि समं हिण्डमानानां चारित्रं प्रपन्नानां भविष्यति ॥ एष तप्रथमतया प्रव्रजतो विधिरुक्तः । अथ पूर्वोपस्थितविषयं तमेवाह[भा.४२२९] सिद्धी वीरणसढए, अब्भुट्ठाणं पुनो अजाणते। कत कारितं च कीतं, जाणते अधापरिग्गहिते॥ वृ-यश्चारित्रं परित्यज्य गृहवासमुपगतस्तस्य कथं पुनरपिप्रव्रज्यायामभ्युत्थानसिद्धि साता? अत्र वीरणसढ़कष्टान्तो वक्तव्यः, एवंतस्यपुनरभ्युत्थानं भवति।सचद्विधा-जानानोअजानानश्च। यः कल्पा-ऽकल्पिवभागं जानाति स जानानः, तद्विपरीतो अजानानः, अगीतार्थः इत्यर्थः । अजानति भूयः प्रव्रज्यायामभ्युत्तिष्ठमाने कृतं वा कारितं वा क्रीतं वा दीयमानं पूर्वोक्तविधिना कल्पते। यस्तुजानानस्तस्य ‘यथापरिगृहीतानि' शुद्धान्येव ग्रहीतुंकल्पन्ते, न कृत-कारितादीनि।। अथ वीरणसढकष्टान्तमाह[भा.४२३०] जह सो वीरणसढओ, नइतीररुहो जलस्स वेगेणं । थोवं थोवं खणता, छूढो सोयं ततो बूढो॥ वृ-यथा 'सः' कश्चिद् विवक्षितः 'वीरणसढकः' वीरणानां-तृणविशेषाणां स्तम्बो नद्यास्तीरे रोहति स्म-जायते स्मेति नदीतीररुहः, नद्याः प्रत्यासन्नतया जलस्य वेगेन स्तोकस्तोकेन खनता भूमिकानिहितमूलजालोऽप्यचिरादेवस्रोतसि प्रक्षिप्तः । ततश्च स्रोतसा 'व्यूढः' वाहयित्वा समुद्रं प्रापित इति भावः । एष दृष्टान्तः । अयमर्थोपनयः[भा.४२३१] ठिय-गमिय-दिठ्ठ-ऽदिटेहि साधुहिं अहरिहं समणुसह्रो । उण्हेहुण्हतरेहि य, चालिज्जति बद्धमूलो वि॥ वृ- कश्चित् पश्चात्कृतः सिद्धपुत्रकादिविशेषेण, साधूनामागमनमार्गभूते क्वचिद् ग्रामे गृहवासमध्यास्य तिष्ठन् ये तत्र मासकल्पं वर्षाकल्पं वा स्थिताः साधवः, ये च “गमि"त्ति तत्र गच्छन्त आगच्छन्तो वा द्वित्राणि दिनानि तिष्ठन्ति, तैष्टैरष्टैश्च साधुभिः 'यथार्ह' यथायोग्यं 'समनुशिष्टः सन्' उष्णैरुष्णतरैश्चवचनैरुदकवेगस्थानीयैरनेकशःप्रेर्यमाणः कलत्रादिपरिग्रहप्रवि Page #458 -------------------------------------------------------------------------- ________________ उद्देशकः ३, मूलं-९२, [भा. ४२३१] ४५५ स्तारेण बद्धमूलोऽपि चाल्यते, गृहवासं त्याजयित्वा संयमरूपे स्रोतसि प्रक्षिप्य गच्छरत्नाकर प्राप्यत इति भावः ॥ अथ जानाना-ऽजानानविषयं विधिविभागमाह[भा.४२३२] कप्पा-ऽकप्पविसेसे, अणधीए जो उ संजमा चलिओ। पुव्वगमो तस्स भवे, जाणते जाइनं सुद्धाई। वृ- वस्त्र-पात्रादिविषये कल्पा-कल्पविशेषे अनधीते सति यः संयमात् चलितस्तस्य पूर्वप्राक्तनो गमः-प्रकारो भवति यथा शैक्षगृहस्थस्योक्तः । यस्तु कल्पा-ऽकल्पविधिं जानाति तस्य सर्वाणि शुद्धान्येव ग्रहीतुं कल्पन्ते, न क्रीतादिदोषदुष्टानि ॥ मू. (९३) निग्गंथीएणंतप्पढमयाए संपव्वयमाणीए कप्पइरयहरण-गोच्छ-पडिग्गहमायाए चउहिँ कसिणेहिं वत्थेहिं आयाए संपव्वइत्तए । सा य पुब्बोवट्ठिया सिया एवं से नो कप्पइ रयहरण-गोच्छ-पडिग्गहमायाए चउहिं कसिणेहिं वत्थेहिं आयाए संपव्वइत्तए । कप्पइ से अहापरिग्गहिएहिं वत्थेहिं आयाए संपव्वइत्तए। वृ-अस्य व्याख्या प्राग्वत् । नवरं निर्ग्रन्थ्याश्चतुर्भि प्रत्यवतारैः सहितायाः प्रव्रजितुं कल्पते इति विशेषः ।। अथ भाष्यम्[भा.४२३३] एसेव गमो नियमा, निगंथीणं पि होइ नायव्यो । जाणंतीणं कप्पति, घेत्तुंजे अधापरिग्गहिते॥ वृ-एष एव गमो निर्ग्रन्थीनामपि भवति ज्ञातव्यः । सा च पूर्वोपस्थिता स्यादिति अत्र सूत्रे तासां कल्पा-ऽकल्पविभागंजानतीनां यानि ‘यथापरिगृहीतानि' शुद्धानि तानि कल्पन्ते ग्रहीतुम्। "जे" इति वाक्यालङ्कारे ॥ [भा.४२३४] समणीणं नाणत्तं, निजोगा तासि अप्पणो चउरो। चउरो पंच व सेसा, आयरिगादीण अट्ठाए। वृ-निर्ग्रन्थेभ्यः सकाशात् श्रमणीनामिदं 'नानात्वं' विशेष उच्यते-'तासां प्रव्रजन्तीनामात्मनो योग्याश्चत्वारो निर्योगा भवन्ति, शेषास्तु आचार्यादीनामर्थाय चत्वारो वा पञ्च वा । तत्र यदा चत्वारस्तदा एकमाचार्यस्य द्वितीयं प्रवर्तिन्याः तृतीयं गणावच्छेदिन्याः चतुर्थं सङ्घाटकसाध्व्याः प्रयच्छति । यदा तु पञ्च तदा चत्वारस्तथैवाचार्यादीनां पञ्चमः पुनरुपाध्यायस्य योग्य इति चूर्ण्यभिप्रायः । बृहद्भाष्यकारः पुनराह चत्तारि अप्पणो से, चउरो पंचऽहव सेसगा हुँति। आयरिय उवज्झाए, पवत्तिनिऽभिसेय संघाडे ।। पंचेए निजोगा, अभिसेगा वञ्ज हुंति चत्तारि । ति॥ मू. (९४) नोकप्पइ निग्गंथाण वा निग्गंथीण वा पढमसमोसरणुद्देसपत्ताईचेलाइंपडिग्गहित्तए। कप्पइ निग्गंथाण वा निग्गंथीण वा दोच्चसमोसरणुद्देसपत्ताई चेलाइं पडिग्गहित्तए। वृ-अथास्य सूत्रस्य कः सम्बन्धः? इत्याह[भा.४२३५] दिळं वत्थग्गहणं, न पवुत्तो तस्स गहणकालो उ। ओसरणम्मि अगेझं, तेन समोसरणसुत्तं तु ।। वृ-पर्वसूत्रे वस्त्रग्रहणं दृष्टम्, न च तस्य' वस्त्रस्य ग्रहणकाल उक्तः,कदा कल्पते कदाच न? Page #459 -------------------------------------------------------------------------- ________________ ४५६ बृहत्कल्प-छेदसूत्रम् - २-३/९४ इति । अतो वर्षाकालाख्ये प्रथमे 'ओसरणे' समवसरणे अग्राह्यं तद् वस्त्रम्, द्वितीये तु ऋतबद्धाख्ये ग्राह्यमिति निरूपणाय इदं समवसरणसूत्रमारभ्यते ॥ [भा.४२३६ ] अहवा वि सउवधीओ, सेहो दव्वं तु एयमक्खायं । तं काले खित्तम्मिय, गज्झं कहियं अगज्झं वा ॥ वृ- अथवा पूर्वसूत्रे सोपधिकशैक्षलक्षणं द्रव्यमेतदाख्यातम् । 'तद्' द्रव्यं कुत्र काले क्षेत्रे वा ग्राह्यम् ? कुत्र वा अग्राह्यम ? इत्यधुना प्रतिपाद्यते ।। अनेन सम्बन्धेनायातस्यास्य व्याख्या- "नो कप्पइ "त्ति आर्षत्वादेकवचनम् । नो कल्पन्ते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा प्रथमसमवसरणेवर्षाकाले उद्देश : - क्षेत्र - कालविभागस्तं प्राप्तानि प्रथमसमवसरणोद्देशप्राप्तानि 'चेलानि' वस्त्राणि प्रतिग्रहीतुम् । किमुक्तं भवति ? - इह साधवो यत्र वर्षावासं चिकीर्षवस्तत् क्षेत्रं यावद् नाद्यापि प्राप्नुवन्ति प्राप्ता वा परं नाद्याप्याषाढपूर्णिमा लगति तावत् कल्पन्ते वस्त्राणि प्रतिग्रहीतुम् । अथ वर्षावासप्रायोग्यं क्षेत्रं प्राप्ताः आषाढपूर्णिमा च सञ्जाता तत इयन्तं क्षेत्र- कालिवभागं प्राप्तानि वस्त्राणि न कल्पन्ते । द्वितीयसमोसरणोद्देशप्राप्तानि तु कल्पन्ते । इति सूत्रसङ्क्षेपार्थः ॥ साम्प्रतं विस्तरार्थमभिधित्सुः प्रेर्यमुत्थापयन्नाह [भा. ४२३७] पढमम्मि समोसरणे, उद्देसकडं न कप्पती जस्स । तस्स उ किं कप्पंती, उग्गमदोसा उ अवसेसा ।। सूरिपरम्परायातमनन्तरोक्तमर्थमनवबुध्यमानः प्रेरयति-ननु च वृ- इह परः प्रस्तुतसूत्रस्य सूत्रे "उद्देसपत्ताइं" ति यत् पदं तस्यायमर्थ उद्देशनमुद्देशः - औद्देशिकाख्यो द्वितीय उद्गमदोषस्तं प्राप्तानि वस्त्राणि न कल्पन्ते, एतच्च न युज्यते, यतो यस्य साधोः प्रथमसमवसरणे उद्देशकृतं वस्त्रादि न कल्पते तस्य अवशेषाः आधाकर्मादयः पञ्चदशोद्गमदोषाः किं कल्पन्ते ? यदेवमुद्देशकृतमेव प्रतिषिध्यते ।। पर एव सूरीणामभिप्रायमाशङ्कय परिहरति [भा. ४२३८] उद्देसग्गहणेण व, उग्गमदोसा उ सव्वे जति गहिता । उप्पादनादि सेसा, तम्हा कप्पंति किं दोसा ।। वृ- अथ 'एकग्रहणे तज्जातीयग्रहणम्" इति न्यायाद् उद्देशग्रहणेन सर्वेऽप्युद्गमदोषा गृहीताः; एव तर्हि उत्पादनादयः शेषा दोषाः किं कल्पन्ते ? येनोद्गमदोषा एव गृह्यन्ते ॥ पर एवाचार्यस्याशयमाशङ्कमान इदमाह [भा. ४२३९] अहवा उद्दिस्स कता, एसणदोसा वि होंति गहिता तु । आदी अंतरगहणे, गहिया उप्पादना वि तहिं ॥ वृ- अथवा यस्मादेषणादोषा अपि साधून् 'उद्दिश्य' प्रणिधाय कृताः अत उद्देशग्रहणेन तेऽपि गृहीताः । एवं च आद्यस्य - उद्गमदोषकलापस्य अन्त्यस्य च एषणादोषजालस्य ग्रहणे उत्पादनादोषा अपि गृहीता अत्र मन्तव्याः, “आद्यन्तग्रहणे मध्यस्यपि ग्रहणम्" इति न्यायात् । अतो द्वाचत्वारिंशदपि दोषा न कल्पन्ते इति सिद्धम् । एवमाचार्यस्याकूतमाशङ्कय दूषणान्तरमाह[भा. ४२४० ] एए अ तस्स दोसा, उडुबद्धे जं च कप्पते घित्तुं । कोई भणिज दो वि, न कप्पति सुतं तु सूएति ।। वृ-यद्येवं सामथ्यार्कषप्ता द्वाचत्वारिंशदपि दोषाः प्रथमसमवसरणे प्रतिषिद्धास्तर्हि ऋतुबद्धाख्ये Page #460 -------------------------------------------------------------------------- ________________ उद्देशक ः ३, मूलं-९४, [भा. ४२४०] ४५७ द्वितीयसमवसरणे एते सर्वेऽपिदोषास्तस्य साधोः कल्पन्ते; यथा अत्रैवसूत्रेऽभिहितम्-“कल्पन्ते द्वितीयसमवसरणे उद्देशप्राप्तानि चेलानि प्रतिग्रहीतुम्" अतोऽपि ज्ञायते द्वितीयसमवसरणे द्वाचत्वारिंशद्दोषदुष्टमपि कल्पते । एवं कश्चित् परो भणेत् तत्र सूरिराह-द्वयोरपि समवसरणयोर्न कल्पन्ते । भूयोऽपि परः प्राह-यद् यूयं द्वितीयेऽपि समवसरणे प्रतिषेधयथ तन्न युज्यते, यतः 'श्रुतं' सूत्रमेव “कल्पते" इति ब्रुवाणमनुज्ञां सूचयति ॥अपि च[भा.४२४१] एवं सुत्तविरोधो, दोच्चम्मिं कप्पति त्ति जं भणितं । सुत्तनिवातो जम्मित, तं सुण वोच्छं समासेणं ।। वृ-एवं भवतां सूत्रेण समं विरोधः प्राप्नोति, यतः सूत्रे "द्वितीये समवसरणे कल्पते" इति भणितम् । अथ गुरुराह-सर्वमप्येतदाकाशरोमन्थनमिव लक्ष्यते, सूत्राभिप्रायमनवबुध्यैव यथातथाप्रलपनात् । कः पुनः सूत्राभिप्रायः ? इति चेद् अत आह-यस्मिन्नर्थे सूत्रस्य निपातःअवतारस्तं शृणु ‘समासेन' सङ्केपेण वक्ष्येऽहम् ॥ [भा.४२४२] समोसरणे उद्देसे, छव्विधे पत्ताण दोण्ह पडिसेधो। . अप्पत्ताण उ गहणं, उवधिस्सा सातिरेगस्स ॥ वृ-प्रथमसमवसरणं ज्येष्ठावग्रहो वर्षावास इति चैकार्थम् । द्वितीयसमवसरणम् ऋतुबद्ध इति चैकार्थम् । तत्र उद्देशस्तद्विषयः षड्विधो निक्षेपः कर्तव्यः । “पत्ताण दुण्ह पडिसेहो" त्ति आर्षत्वा विभक्तिव्यत्यये 'द्वाभ्यां' क्षेत्र-कालाभ्यां प्राप्तानां वस्त्रदिग्रहणेप्रतिषेधोभवति, अप्राप्तानां तुसातिरेकस्योपधेर्ग्रहणं भवति इति नियुक्तिगाथासमासार्थः ॥अथ विस्तरार्थ उच्यते-तत्रोद्देशः षोढा-नामोद्देशःस्थापनोद्देशः द्रव्योद्देशः क्षेत्रोद्देशः कालोद्देशो भावोद्देशश्चेति।नामोद्देशोयस्योद्देश इति नाम क्रियते । स्थापनोद्देश उद्देशवतः पुरुषादेःस्थापना । द्रव्योद्देशं ज्ञ-भव्यशरीरव्यतिरिक्तं स्वयमेव भाष्यकृदाह[मा.४२४३] दव्वेणं उद्देसो, उद्दिस्सति जो वजेन दव्वेणं। दव्वं वा उद्दिसते, दव्वभूओ तदट्ठी वा ॥ वृ- 'द्रव्येण' रजोहरणादिना यद् उद्देशः क्रियते स द्रव्योद्देशः । यो वा 'येन' सचित्तादिना द्रव्येणोद्दिश्यते, तत्र सचित्तेन यथा-गोभिर्गोमान्, तुरगैस्तुरगपति, गजैर्गजपतिरिति; अचित्तेन यथा-दण्डेन दण्डी, छत्रेण छत्री, कपालेन कपालीत्यादि; मिश्रेण यथा- शकटेन शाकटिकः, रथेन रथिक इत्यादि । द्रव्यंवा व्याधिप्रशमनं यदुद्दिशति, अमुकमौषधद्रव्यंभवता ग्रहीतव्यमिति। 'द्रव्यभूतोवा' ज्ञाता अनुपयुक्तो यद् अङ्ग-श्रुतस्कन्धादिकमुद्दिशति । 'द्रव्यार्थी वा' द्रव्यनिमित्तं धनुर्वेदादिकं यदुद्दिशति एष सर्वोऽपि द्रव्योद्देशः॥ [भा.४२४४] खित्तम्मि जम्मि खित्ते, उद्दिस्सति जो वजेन खेत्तेन । एमेव य कालस्स वि, भावो उ पसस्थमपसत्थो । वृ-क्षेत्रोद्देशे चिन्त्यमाने यस्मिन् क्षेत्रे अङ्ग-श्रुतस्कन्धादेरुद्देशः क्रियते व्यावण्यते वा; यो वा येन क्षेत्रेणोद्दिश्यते-अभिधीयते, यथा-भरते भवो भारतः, सुराष्ट्रायां भवः सौराष्ट्रः, मगधेषु भवो मागध इत्यादि । एवमेव च यस्मिन् काले अङ्गादिकमुद्दिश्यते, येन वा कालेनोद्दिश्यते, यथासुषमायां भवः सौषमः, शरदि जातः शारद इत्यादि; एष कालोद्देशः । भावोद्देशो द्विधा Page #461 -------------------------------------------------------------------------- ________________ ४५८ बृहत्कल्प-छेदसूत्रम् -२-३/९४ प्रशस्तोऽप्रशस्तश्च ।। उभयमपि दर्शयति[भा.४२४५] कोहाई अपसत्थो, नाणामादी य होइ उपसत्थो । उदओ वि खलु पसत्थो, तित्थकरा-ऽऽहारउदयादी॥ वृ-क्रोध-मानादिरौदयिको भावो अप्रशस्तो भावोद्देशः । ज्ञान-दर्शनादि क्षायोपशमिक औपशमिकः क्षायिको वा भावः प्रशस्तो भावोद्देशो भवति । 'उदयोऽपि' औदयिकभावोऽपि तीर्थकरा-ऽऽहारक-यशःकीत्यादिनामकर्मोदयरुपः प्रशस्तो भवति । आदिशब्दस्य गाथायां व्यत्ययेन निर्देशो बन्धानुलोभ्यात् । अत्र क्षेत्रोद्देशेन कालोद्देशेन चाधिकारः, शेषास्तु विनेयव्युत्पादनार्थमुच्चरितार्थसध्शाइतिकृत्वाप्ररुपिताः । तदत्रपरेण यद्उद्गमौद्देशिकंप्रतिपादितं तद् नाधिकृतमिति स्थितम् ॥अथ "प्राप्तानाम्" इति पदं व्याख्याति[भा.४२४६] खित्तेणय कालेण य, पत्ता-ऽपत्ताण होति चउभंगो। दोहि वि पत्तो ततिओ, पढमो बितिओ य एक्केणं॥ वृ-क्षेत्रेण कालेन च प्राप्ता-ऽप्राप्तानां चतुर्भङ्गी भवति-क्षेत्रेण प्राप्ता न कालेन १ काले प्राप्ता न क्षेत्रेण २ कालेन च प्राप्ताः ३ नापि क्षेत्रेण नापि कालेन ४। अत्र तृतीयो भङ्गो द्वाभ्यामपि क्षेत्रकालाभ्यां प्राप्तः, चतुर्थ पुनरुभाभ्यामप्यप्राप्तः । अथामूनेव भङ्गान् भावयति[भा.४२४७] वासाखित्त पुरोख, उडुबद्ध ठियाण खेत्तओ पत्तो। अद्धाणमादिएहिं, दुल्लभखित्ते व बीओ उ ।। वृ-वर्षाक्षेत्रे ‘पुरस्कृतं' प्रथमत ऋतुबद्धकाले स्थितानां क्षेत्रतः प्राप्ताः' इति प्रथमो भङ्गो भवति । इयमत्र भावना-ऋतुबद्धे चरमो मासकल्पो यत्र कृतः अन्यच्च वर्षावासप्रायोग्यं क्षेत्र नास्ति ततस्तत्रैव वर्षावासं कर्तृकामा आषाढपूर्णिमामद्याप्यप्राप्नुवन्तः क्षेत्रतः प्राप्ता न कालत इत्याद्यो भङ्गो भवति । अध्वप्रतिपन्नतादिभि कारणैर्दुर्लभे वा वर्षावासप्रायोग्ये क्षेत्रेऽपान्तराल एव आषाढपूर्णिमा साता एवं द्वितीयो भङ्गो भवति ॥ [भा.४२४८] आसाढपुनिमाए, ठिया उ दोहिं पिहोति पत्ता उ । तत्थेव य पडिसिज्झइ, गहणं न उ.सेसभंगेसु ॥ वृ- वर्षाक्षेत्रे आषाढपूर्णिमायां ये स्थितास्ते द्वाभ्यामपि क्षेत्र-कालाभ्यां प्राप्ता भवन्ति । आषाढपूर्णिमामप्राप्तानामन्तरा अध्वनिवर्तमानानांऋतुबद्धे मासकल्पेन वाअन्यत्र क्षेत्रे स्थितानां चतुर्थो भङ्गो भवति । अत्र च 'तत्रैव' तृतीयभङ्ग एव वस्त्रदीनां ग्रहणं प्रतिषिध्यते, न 'शेषेषु' प्रथम-द्वितीय-चतुर्थभङ्गेषु, एकतरेण द्वाभ्यां वा अप्राप्तत्वात् ।। एतेन “दोण्ह पडिसेहो' त्ति व्याख्यातम् । अथ “अप्पत्ताण तु गहणं, उवहिस्सा साइरेगस्स" त्ति पश्चा) व्याचिख्यासुराह[भा.४२४९] दुण्ह जओ एगस्सा, निष्फज्जति जं व होति वासासु। अग्गहणम्मि विलहुगा, तस्थ वि आणादिणो दोसा ॥ वृ-इह वर्षाकाले क्षेत्र-कालाभ्यामप्राप्तैरेव सातिरेक उपधिग्रहीतव्यः । कियप्रमाणः ? इति चेद्उच्यते-द्वयोर्जनयोः सम्बन्धिना यावतोपकरणेनैकस्यसाधोर्योग्यः परिपूर्णप्रत्यवतारोऽतिरिक्तो निष्पद्यते, यच्च वर्षासु वर्षाकल्पादिकमुपयुज्यते तदात्मनो योग्यं द्विगुणं भवति, इयप्रमाणं ग्रहीतव्यम् । इदमुक्तं भवति-एकैकः साधुरर्धतृतीयान् प्रत्यवतारान् गृह्णाति । किं कारणम् ? Page #462 -------------------------------------------------------------------------- ________________ ४५९ उद्देशक ः ३, मूलं-९४, [भा. ४२४९] कदाचिदध्वनिर्गताः साधवो विविक्ताआगच्छेयुः ततो द्वौ साधू एकस्य साधोः सम्पर्णप्रत्यवतारं प्रयच्छतः, तयोश्चात्मनः प्रत्येकं द्विगुणाः प्रत्यवतारास्तिष्ठन्ति । यद्येवं न गृह्णन्ति ततश्चतुर्लघुकाः, तत्राप्याज्ञादयो दोषा भवन्ति। वर्षास्वतिरिक्तोपकरणग्रहणे कारणमुपदर्शयितुं दृष्टान्तमाह[भा.४२५०] दव्वोवक्खर-णेहादियाण तह खार-कडुय-भंडाणं । वासरत्त कुडुंवी, अतिरेगं संचयं कुणइ ।। वृ-द्रव्यं-हिरण्यादि, उपस्करः-सूर्यादि, खेहः-घृतं तैलं वा, आदिशब्दादेरण्डादितैलपरिग्रहः, क्षारः-वस्तुलादिलवणं वा, कटुकं-शुण्ठीविप्पल्यादि, भाण्डानि-घट-पिठरादीनि, अथवा कटुभाण्डंवेसण-मरिच-हिडप्रभृतिद्रव्यजातम् । एतेषां द्रव्योपस्करादीनां कुटुम्ब्यपि वर्षारात्रेऽतिरिक्तं सञ्चयं करोति ॥ किं कारणम् ? इति चेद् उच्यते-- [भा.४२५१] वणिया न संचरंती, हट्टा न वहंति कम्मपरिहानी । गेलनाऽऽएसेसुव, किं काहिति अगहिते पुट्विं ।। वृ-वर्षाकाले वणिजो ग्रामेषु क्रयविक्रयार्थं न सञ्चरन्ति, पत्तनेष्वपि वर्ष-वर्दलवसेन हट्ट न वहन्ति, अपि च यदि कुटुम्बी द्रव्योपस्करादीनामतिरिक्त सञ्चयं न कुर्यात् तत उत्पन्ने प्रयोजने क़यविक्रयार्थतेनआपणवीथ्यांगन्तव्यम्, ततश्चहलकर्षणप्रभृतीनांकर्मसंयोगानांपरिहानिर्भवति, ग्लानत्वेवा सञ्चाते 'आदेशेषुवा' प्राघूर्णकेष्वागतेष्वतिरिक्तसञ्चये पूर्वमगृहीते किं पथ्यभोजनप्राघूर्णकभक्त्यादिकं करिष्यति? ॥ [भा.४२५२] तह अन्नतित्थगा वि य, जो जोरिसो तस्स संचयं कुणति । इह पुन छण्ह विराधन, पढमम्मि य जे भणिय दोसा॥ वृ-'तथा' इति दृष्टान्तान्तरोपन्यासे । 'अन्यतीर्थिका अपि' सरजस्कादयः 'यो यादृशः' यस्य येनोपकरणेन प्रयोजनमित्यर्थः स तस्यातिरिक्त सञ्चयं वर्षासु करोति, यथा-सरजस्का रक्षायाः, दकसौकरिका मृत्तिकायाः, बोटिकाश्छगण-लवणयोरित्यादि। ‘इह' इति अस्मिन् पुनर्जनशासने यद्यतिरिक्तमुपकरणं न गृह्णन्ति ततः षण्णां जीवनिकायानां विराधना भवति । अथातिरिक्तोपकरणाभावाद्वर्षासूपधिंगृह्णन्तिततोयेप्रथमे समवसरणेउपकरणं गृह्णतो दोषा भणितास्तान् प्राप्नुवन्ति ।। कथं पुनः षन्नां कायानां विराधना भवति? इति उच्यते[भा.४२५३] रयहरणेनोल्लेणं, पमजणे फरुससाल पुढवीए। गामंतरित गलने, पुढवी उदगं च दुविहं तु॥ वृ. “फरुससाल" त्ति कुम्भकारशाला तस्यां वर्षासु स्थितानां द्वितीयरजोहरणाभावे यद् वर्षेणार्टीभूतं रजोहरणं तेनैव प्रमार्जने पृथिवीकायस्य विराधना । ग्रामान्तरं वा भिक्षाचर्यादिकार्येण "इंत" ति गच्छत आगच्छतो वा अन्तरा गाढतरं वर्षितुमारब्धे मलिनरजोहरणे परिगलति पृथिवीं 'द्विविधं च' भीमा-ऽऽन्तरिक्षभेदाद् द्विप्रकारमुदकं विराधयति ॥ [भा.४२५४] अहवा अंवीभूए, उदगं पणओ य तावणे अगनी । उल्लंडगबंध तसा, ठाणाइसुकेण व मजे ॥ वृ-अथवा द्वितीयरजोहणाभावे यदाऽऽर्द्र रजोहरणं शोषयति ततोऽवग्रहात् स्फिटति । Page #463 -------------------------------------------------------------------------- ________________ ४६० बृहत्कल्प-छेदसूत्रम् -२-३/९४ अथ न शोष्यते ततोऽम्लीभवति । एवमम्लीभूते तस्मिन्नुदकं विराध्यते, पनकश्च सम्मूर्च्छति । अथैतद्दोषपरिहारार्थमग्नौ तापयति ततोऽग्निविराधना । अथाद्रेणप्रमार्जयतिततोदशिकान्तेषु उल्लण्डकाः-मृद्रोलकाः प्रतिबध्यन्ते । तेषु प्रतिबद्धेषु यदि प्रमार्जनं करोति ततस्त्रसविराधना, अथ न प्रमार्जयति ततः संयमविराधना । स्थान-निषदनादिषु वा केन प्रमार्जयतु?॥ [भा.४२५५] एमेव सेसगम्मि, संजमदोसा उ भिक्खणिज्जोए। चोल-निसिज्जा उल्ले, अजीर गेलन्नमायाए॥ वृ-एवमेववर्षाकल्पादावपिशेषोपकरणे भिक्षानिर्योगेच पटलक-पात्रबन्धरुपेद्विगुणेऽगृहीते 'संयमदोषाः' षट्कायविराधनालक्षणा रजोहरणवद् वक्तव्याः । चोलपट्टे रजोहरणनिषद्यायां च द्विगुणायामगृह्यमाणायां बहिर्गतानां वर्षेणार्दीभावे साते नित्यपरिभोगेन भक्तंन जीर्यते, अजीर्यमाणे च भक्ते ग्लानत्वं भवति, ततश्च 'आत्मविराधना' परिताप-महादुःखादिका ।। किञ्च[भा.४२५६] अद्धाणनिग्गतादि, परिता वा अहव नट्ठ गहणम्मि । जंच समोसरणम्मिं, अगेण्हणे जंच परिभोगो।। वृ-छिन्नादच्छिन्नाद्वा अध्वनो निर्गताः आदिशब्दादशिवादिकारणविनिर्गता वा ये परीत्ताः' परिमितोपकरणाःअथवा “नट्ठ"त्ति नष्टोपकरणाहारितोपद्यय इत्यर्थः “गहणम्मि"त्तिप्रत्यनीकेन वा उपधेर्ग्रहणे कृते विविक्ता आगच्छेयुः। एतेषामागतानामतिरिक्तोपकरणाभावाद्यधुपग्रहं न करोतितत उपधिनिष्पन्नप्रायश्चित्तम् । अथ तदर्थं नूतनमुपधिं गृह्णन्ति ततोऽप्युपधिनिष्पन्नम्, यच्च प्रथमे समवसरणे उपकरणग्रहणे दोपजालं तत् प्राप्नुवन्ति । अथ गृह्णन्ति तत उपकरणं विना यत् तृणादिपरिभोगे दूषणकदम्बकं तद् आसादयन्ति। अमुभेवार्थं व्याख्याग्रन्थेन स्पष्टयति[भा.४२५७] अद्धाणनिग्गयादीनमदेंते होति उवधिनिष्फन्न । जंते अनेसणऽग्गिं, सेवे देतऽप्पणा जंच ॥ वृ-अध्वनिर्गतादीनामतिरिक्ताभावे उपकरणं यदि न प्रयच्छन्ति तत उपधिनिष्पन्नं भवति, प्रायश्चित्तमिति शेषः। तच जघन्ये पञ्चकम्, मध्यमे मासलघुकम्, उत्कृष्ट चतुर्लघवः । ते च' अध्वादिनिर्गता अनेषणीयोपकरणमग्निं वा यद् आसेवन्ते तन्निष्पन्नमप्रयच्छतां प्रायश्चित्तम् । अथात्मीयमुपकरणं तेषां प्रयच्छन्ति तत आत्मनः परिहाणि, यच्चात्मना तृणादिसेवनं कुर्वन्ति तन्निष्पन्नम् ॥ के पुनः प्रथमसमवसरणे वस्त्रग्रहणे दोषाः ? इत्याह[भा.४२५८] अत्तट्ट परट्ठा वा, ओसरणे गेण्हमाणे पन्नरस । दाउ परिभोग छप्पति, डउरं उल्ले य गेलनं ।। वृ- अथात्मनो वा परेषां वा-अध्वनिर्गतादीनामर्थाय प्रथमसमवसरणे उपधिं गृह्णन्ति तत आघाकर्मादयः पञ्चदशोद्गमदोषा भवन्ति।आत्मोपधिमध्वनिर्गतादीनां दत्त्वा तमेवैकंप्रत्यवतारं नित्यं परिभुजानस्य षट्पदिकाः सम्मूर्च्छन्ति। तासुचान्न-पानमध्ये पतितासुभक्षितासुच "डउरं" तिजलोदरं भवति । एकप्रत्यवतारेण चाट्टैण रात्रौ प्रावृतेन सुप्तस्य भक्तं नजीर्यति, अजीर्यतिच Page #464 -------------------------------------------------------------------------- ________________ ४६१ उद्देशकः ३, मूलं-९४, [भा. ४२५८] ग्लानत्वमुपजायते॥ [भा.४२५९] तम्हा उ गेण्हियव्वं, बितियपदम्मिं जहा न गेण्हेज्जा । अद्धाणे गेलन्ने, अहवा वि भवेज असतीए॥ . वृ-यत एवं तस्मात् कारणादात्मनो द्विगुणप्रत्यवतारादतिरिक्तंग्रहीतव्यम् । द्वितीयपदे यथा न गृह्णीयुस्तथाऽभिधीयते-अध्वनि वहमानानां ग्लानत्वे वा द्विविधायामसत्तायां वा वर्तमानानामग्रहणं भवेत्। इदमेव व्याख्याति[भा.४२६०] कालेनेवदिएणं, पाविस्सामंतरेण वाघातो । गेलन्ने वाऽऽत-परे, दुविधा पुन होति असती उ ।। वृ-ग्रीष्मस्य चरमे मासि केचिदध्वानं प्रतिपन्नाश्चिन्तितवन्तश्च-यावदाषाढपूर्णिमा नोपैति तावदेतावता कालेन वर्षाक्षेत्रं प्राप्स्यामः,अन्तराच नद्यादिव्याघातो भवेद्अत आषाढपूर्णिमाकाले अतिक्रान्ते प्राप्ताः ततो द्विगुणोऽतिरिक्तो वा उपधिर्न गृहीतः । __ अथवा आत्मनो ग्लानत्वेन परस्य वा-ग्लानस्य व्यावृततया नातिरिक्तो गृहीतः । असत्ता पुनर्द्विविधा भवति-सदसत्ता असदसत्ताच ।सदसत्तायामनेषणीयं लभ्यते, अथवा बहवः साधवो वस्त्रग्रहणस्याकल्पिका एकः कल्पिकः अतः सर्वेषां योग्योऽतिरिक्तोपधिगृहीतेऽपि शुद्धः।। [भा.४२६१] गहिए व अगहिए वा, अप्पत्ताणंतु होति अतिगमनं । उवही-संथारग-पादपुंछणादीण गहणट्ठा ।। वृ-एवं गृहीतेऽगृहीतेवा वर्षावासप्रायोग्ये उपधौ कालतोऽप्राप्तोनामाषाढपूर्णिमायाअर्वाक् पञ्चभिर्दिवसैर्वपक्षेित्रे 'अतिगमनं' प्रवेशो भवति । किमर्थम् ? इत्याह-उपधिः-वर्षाकल्पादिकः संस्तारकः-काष्ठमयःकम्बिकामयोवा पादप्रोञ्छनं-रजोहरणम्आदिशब्दात्तृण-डगलादिपरिग्रहः, एतेषां ग्रहणार्थमप्राप्ते काले प्रवेष्टव्यम् ।। इदमेव व्यक्तिकरोति[भा.४२६२] कालेण अपत्ताणं, पत्ता-ऽपत्ताण खेत्तओ गहणं । वासाजोगोवधिणो, खेत्तम्मि तुडगलमादीनि ॥ वृ- कालतो नियमादप्राप्तानां क्षेत्रतः प्राप्तानामप्राप्तानां वा वर्षावासयोग्यपटलकपात्रबन्धादेरुपधेर्ग्रहणं भवति, एतेन प्रथम-चरमभङ्गौ सूचितौ । कालतः प्राप्तैरप्राप्तैर्वा क्षेत्रतो नियमात् प्राप्तैर्डगलादीनि ग्रहीतव्यानि, अनेन तु द्वितीय-तृतीयभङ्गौ गृहीताविति ॥ तान्येव डगलादीनि दर्शयति[भा.४२६३] डगल-ससरक्ख-कुडमुह-मत्तगतिग-लेव-पादलेहनिया । संथार-पीढ-फलगा, निज्जोगो चेव दुगुणो तु॥ . वृ- इष्टका-चीरादिमयानि डगलानि पुतप्रोञ्छनार्थं गृह्यन्ते । सरजस्कः-क्षारः, स संत्राखेलादिनिसर्जनार्थम् । कुटमुखं-घटकण्ठकः, तत्र ग्लानयोग्यमौषधंकायिकीमात्रकं वास्थाप्यते। मात्रकत्रिकं-खेलमात्रकं कायिकीमात्रकं संज्ञामात्रकं चेति । लेपः-प्रतीतः, स विनष्टभाजन• संस्थापनार्थम् । पादलेखनिका वर्षासु कर्दमानर्लेखनार्थम् । संस्तारकः परिशाटी अपरिशाटी Page #465 -------------------------------------------------------------------------- ________________ ४६२ बृहत्कल्प - छेदसूत्रम् -२-३/९४ चेति द्विविधः, उभयोऽपि शयनार्थं जीवादिरक्षणार्थं च गृह्यते। पीठं छगणादिमयम्, उपवेशनार्थम् । फलकः-चम्पकपट्टादिमयः, शयनोपयोगी । पात्रसत्कश्च 'निर्योगः ' प्रत्यवतारो द्विगुणः । एतानि सर्वाण्यपि तदानीं गृह्यन्ते । अथ शिष्यः प्रश्रनयति [भा. ४२६४ ] चत्तारि समोसरणे, मासा किं कप्पती न कप्पति वा । कारणिग पंच रत्ता, सव्वेसिं मल्लगादीणं ॥ वृ- आषाढपूर्णिमानन्तरं ये चत्वारः प्रथमसमवसरणे मासास्तेषु ग्रहीतुं कल्पते वा न वा ? । सूरिराह- उत्सर्गतो न कल्पते, द्वितीयपदे क्षेत्रस्याप्राप्तौ अध्वनिर्गता वा आषाढपूर्णिमायां प्राप्तास्ततः संस्ताराद्युपधिं डगलादीनी च पञ्च रात्रिन्दिवानि गृह्णन्ति, पर्युषणाकल्पं च रजन्यामाकर्षन्ति, ततः पञ्चम्यां पर्युषणं कुर्वन्ति । अथ पूर्वोक्तकारणात् पञ्चम्यामेव ते प्राप्ताः ततः पञ्चरात्रं तथैव संस्तारक- डगलादीनि गृह्णन्ति, दशम्यां पर्युषणयन्ति । विशेषचूर्णिकृत् पुनराह ते खेत्ताणं अलंभे आसाढपुन्निमाए चेव ठिया, तेहि य उवही न गहिओ संथारगाई ताहे जाव पंचरत्तं ताव गेण्हंति, पच्छा पंच दिवसे पज्जोसवणाकप्पं कहंति, दसमीए पज्जोसवेंति, एएण कारणेणं कप्पइ पंचरत्तं, अह पंचमीए पत्ता ताहे तहेव पंच रत्तगा वड्ढंति (जाव भद्दवयसुद्धपंचमी) त्ति । एवं सर्वेषां मल्लकादीनामुपकरणानामर्थाय कारणिकानि पञ्च रात्रिन्दिवानि प्रवर्धमानानि तावद् मन्तव्यानि यावद् भाद्रपद शुद्धपञ्चम्यां गृहीतेऽगृहीते वा डगल-मल्लकादौ नियमात् पर्युषणं विधेयम् ॥ [भा. ४२६५ ] तेसिं तत्थ ठिताणं, पडिलेहुच्छुद्ध चारणादिसु । वाईण अगहणो, लहुगा पुव्विं अमहिते वा ।। वृ- 'तेषां' साधूनां 'तत्र' वर्षाक्षेत्रे स्थितानामियं सामाचारी- सभाप्रपा - SS राम देवकुल- शून्यगृहादिषु यद् वस्त्रम् 'उत्सुद्धं' पधिकादिभिः परित्यक्तं तत् प्रत्युपेक्षन्ते, यदा किल कार्यमुत्पत्स्यते तदा ग्रहीष्यते । तदभावे चारणादिषु प्रत्युपेक्षन्ते । वर्षासु यदि लेपम् आदिशब्दात् पात्रं वा वस्त्र वा गृह्णन्ति ततश्चतुर्लघुकाः । पूर्व वा लेपादीनि यदि न गृहीतानि तदाऽपि चतुर्लघु ॥ इदमेव व्याख्याति [भा. ४२६६ ] वासाण एस कप्पो, ठायंता चेव जाव उ सकोसं । परिभुत्त विप्पन्नं, वाघातट्ठा निरिक्खति ॥ बृ- " वासाण'' त्तिविभक्तिव्यत्ययाद् वर्षासु तिष्ठतामेषः 'कल्पः' सामाचारी- सर्वतः सक्रोशं योजनं यावद् यत् कार्पटिकैः परिभुक्तं 'विप्रकीर्णं' पूर्वं परिभुज्य ततोऽ किञ्चित्करमिति मत्वा परिष्ठापितं तत् तिष्ठन्त एव व्याघातार्थं निरीक्षन्ते ॥ कः पुनर्व्याघाः ? इति चेद् उच्यते[भा.४२६७] अद्धाणनिग्गतादि, झामिय वूढे व सेह परिजुन्ने । आगंतु बाहि पुव्विं, दिट्ठ अस्सन्नि सन्नीसु वृ- अध्वनिर्गतादयः साधव आगच्छेयुः, यो वा उपधि 'ध्यामितः' दग्धो भवेत्, उदकेन वा व्यूढः, “शैक्षो वा” अवश्यप्रव्राजनीयः पुराणादिरुपस्थितः, परिजीर्णो वा उपधि, एतैः कारणै Page #466 -------------------------------------------------------------------------- ________________ उद्देशक : ३, मूलं - ९४ [भा. ४२६७ ] ४६३ रागन्तुकेषु तालाचरादिषु पूर्वं मार्गयन्ति । ततः क्षेत्रबहिरसंज्ञिषु पूर्वष्टम्, ततः संज्ञिषु पूर्वदृष्टं गृह्णन्ति ॥ अथेदमेव विभावयिषुरागन्तुकान् व्याख्याति[भा. ४२६८ ] तालायरे य धारे, वाणिय खंधार सेण संवट्टे । लाउलिग वइग- सेवग जामाउग-पंथिगादीसुं ॥ वृ- 'तालाचराः' नट-नर्त्तक- चट्टादयः, “धारे” त्ति देवच्छत्रधारकाः, 'वणिजः' वालिञ्जुकाः, राजबिम्बसहितं स्वचक्रं परचक्रं वा स्कन्धावार उच्यते, राजबिम्बविरहिता सेना, चौरधाटीभयेन बहवो ग्रामा नायकाधिष्ठिता एकत्र स्थिताः संवर्त्तः, लाकुटिकाः - डङ्गराः, व्रजिकाः- गोकुलिकाः, सेवकाः-चारभट्टकाः, जामातृकाः प्रसिद्धाः, पथिकाः- ये बहुवस्त्र देशं प्रति प्रस्थिताः । एवमादिषु पूर्वं मार्गयन्ति ॥ कथम् ? इत्याह[भा. ४२६९] आगंतुगेसु पुव्वं, गवेसती चारणादिसू बाहिं । पच्छा जे सग्गामं, तालायरमादिणो एंति ॥ वृ- ‘“बाहिं’” ति सक्रोशयोजनान्तर्वत्तिष्वन्तरपल्लिकासहितेषु बाह्यग्रामेषु ये 'आगन्तुकाः' चारणादयस्तेषु पूर्वं गवेषयन्ति । 'पश्चाद्' बाह्यग्रामेषु चारणादीनामभावे ये तालाचरादयःस्वग्राममायान्ति तेषु गवेषयितव्यम् ॥ कथमेतेषु वस्त्रसम्भवः ? इत्याह[भा. ४२७०] बद्धूण नवे इतरे, समणाणं देख सेव-जामादी । चारण-धार-वणीणं, पडंति इयरे उ सड्डितगा ।। वृ- सेवक - जामातृका नवानि वस्त्रणि लब्ध्वा 'इतराणि' पुराणानि श्रमणानां दद्युः । चारणानां “धार” त्ति देवच्छत्रधाराणां राजादयः प्रसादतो वस्त्रणि प्रयच्छन्ति तानि पुराणानि वा ते साधुनां दघु । "वणीणं" ति वालिञ्जुकवणिजां वलचे वस्त्रणि पतन्ति । 'इतरे तु' पथिकादयः 'श्राद्धाः ' श्रावका भवेयुः ॥ बहिर्ग्राम-स्वग्रामेषु चारणादीनामभावे विधिमाह[ भा. ४२७१] बहिं- अंत-सन्निसु, जं दिट्टं तेसु चैव जमदिट्ठे । केयि दुहओ वऽसन्निसु, गहिते सन्नीसु दिट्ठितरे ॥ वृ- "बहिः” त्ति क्षेत्राभ्यन्तरे प्रतिवृषभग्रामेषु येऽसंज्ञिनस्तेषु पूर्वदृष्टं वस्त्रं मार्गयन्ति, तदभावे बहिर्ग्रामेष्वेव संज्ञिषु पूर्वदृष्टम्, तदप्राप्तौ बाह्यग्रामेष्वेवासंज्ञिषु पूर्वदृष्टम्, तदसत्त्वे मूलग्राम एव संज्ञिषु पूर्वदृष्टम्; तदभावे अन्तः - मूलग्रामेऽसंज्ञिषु पूर्वष्टम्, तदसत्त्वे मूलग्राम एव संज्ञिषु पूर्वदृष्टम्, तदसम्भवे मूलग्राम एवासंज्ञिषु यत् पूर्वमध्ष्टम्, तदभावे मूलग्राम एव संज्ञिषु पूर्वमदृष्टं वस्त्रं मार्गयन्ति । केचिदाचार्या इत्थं ब्रुवते 'द्वयोरपि' बहिरन्तर्लक्षणयोः स्थानयोः प्रथमसंज्ञिषु गृहीते सि ततो बहिरन्तर्वर्त्तिष्वेव संज्ञिषु यथाक्रमं दृष्टम् इतरच्च - अध्ष्टं गृह्णन्तीति । किं पुनः कारणं पूर्वदृष्टं प्रथमं गृह्यते ? उच्यते-तत्र हि पूर्वप्रत्युपेक्षितत्वेनाधाकर्मादय उत्क्षेप-निक्षेपादयश्च दोषाः परिह्नता भवन्ति ॥ Page #467 -------------------------------------------------------------------------- ________________ ४६४ बृहत्कल्प-छेदसूत्रम् -२-३/९४ [भा.४२७२] कोई तत्थ भणेज्जा, बाहिं खेत्तस्स कप्पती गहणं । गंतुंता पडिसिद्धं, कारण गमने बहुगुणं तु॥ वृ-कश्चिद् नोदकः तत्र' इति अनन्तरोक्तव्याख्याने इदं भणेत्-यदि पूर्वं प्रतिवृषभग्रामेषु ग्रहीतव्यं ततो मूलग्रामे, एवं तर्हि दूरत्वात् क्षेत्राद् बहिर्ग्रहणं सुतरां कल्पते । गुरुराह- क्षेत्राद् बहिर्वर्षासु गन्तुमपि ताव् प्रतिषिद्धं किं पुनर्वस्त्रग्रहणम् ? । अथ कारणे वर्षासु क्षेत्रबहिर्गमनं करोति तत्रगतश्च वर्षाकल्पादिना निमन्त्रयते तदा संयमस्य बहुगुणमितिकृत्वा तदपि ग्रहीतव्यम्।। इदमेव व्याचिख्यासुः प्रथमतः परवचनं व्याख्याति[भा.४२७३] एवं नामं कप्पति, जं दूरे तेन बाहि गिण्हंतु। एवं भणंति गुरुगा, गमने गुरुगा व लहुगावा ॥ वृ-यद् ‘दूरे ग्रामाबहिर्वस्त्र तयदि प्रथमं कल्पते तत एवं नाम क्षेत्रा बहि सुतरांप्रथमतरं गृह्णन्तु। सूरिराह-एवं भणतो भवतश्चतुर्गुरुकाः। अथ क्षेत्रा बहिर्गच्छति ततो गुरुका वा लघुका वा प्रायश्चित्तम् । तत्र नवप्रावृषि चत्वारो गुरवः, शेषे वर्षाकाले चत्वारो लघवः ।। “कारण गमने बहुगुण"मिति पदं व्याचष्टे[भा.४२७४] संबद्ध-भाविएसू, कपतिजा पंच जोयणे कज्जे । जुने व वासकप्पं, गेण्हतिजं बहुगुणं चऽन्नं ।। वृ-यानि साधर्मिकसम्बन्धेन सम्बद्धानि परस्परं गमना-ऽऽगमनभावितानि च क्षेत्राणि तेषु वर्षासुकल्पते साधर्मिकाणामुदन्तवहनार्थं चत्वारि पञ्च योजनानि वा यावद् गन्तुंवस्तुंवा । एवं कार्ये गतस्य तस्यापान्तराले वर्षात्राणेन कश्चिद् निमन्त्रणां कुर्यात्, तस्य च प्राक्तनो वर्षाकल्पः परिजीर्ण, तच्च वर्षांत्राणंघन-मसृणमभिनवंच, ततो वर्षासुबहुगुणमिति कृत्वा गृह्णाति।कारणतः 'अन्यदपि' पटलकादिकंघन-मसृणादिगुणोपेतमाचार्यप्रायोग्यं वायद्वस्त्र लभ्यते तदपि भूयान् गुणोऽत्रगृहीतेभविष्यति' इति कृत्वा गृह्यते।एवं कारणेगमनंग्रहणंचोभयमपि दृष्टम्, कारणाभावे तुन कल्पते गन्तुंग्रहीतुंवा॥ अथ गृह्णाति ततोऽमून् षोडश दोषान् प्राप्नोति[भा.४२७५] आहाकम्मुद्देसिय, पूतीकम्मे य मीसजाए य। ठवणा पाहुडियाए, पादोकर कीत पामिच्चे ।। [भा.४२७६] परियट्टिए अभिहडे, उब्मिन्ने मालोहडे इय। अच्छिज्जे अणिसिढे, धोते रत्ते य घटे य॥ वृ-आधाकर्म १ औद्देशिकं २ पूतिकर्म ३मिश्रजातं ४स्थापना ५प्राभृतिका ६प्रादुष्करणं७ क्रीतं ८ प्रामित्यं ९ परिवर्तितम् १० अभ्याह्नतम् ११ उद्भिनं १२ मालापहृतम् १३आच्छेद्यम् १४ अनिसृष्टं चेति १५ पञ्चदश दोषाः । “धोए रत्ते य घटे य" त्ति साधूनामर्थाय मलिनवस्त्र 'धौतं चौखंकृतमित्यर्थः, एवं रक्तं प्रदत्तरागम्, 'घृष्टं मसृणपाषाणादिनोत्तेजितम्, एतेत्रयोऽप्येक एव दोष इति॥ [भा.४२७७] एते सव्वे दोसा, पढमोसरणे न वज्जिता होंति। जिनदिटेहि अगहिते, जो गेण्हति तेहि सो पुट्ठो । Page #468 -------------------------------------------------------------------------- ________________ उद्देशक : ३, मूलं-९४, [भा. ४२७७] वृ-एते सर्वेऽप्याधाकर्मादयो दोषाः प्रथमे समवसरणे वस्त्रादिकं गृह्णतान वर्जिता भवन्ति । अथ पूर्वं दर्पतो न ग्रहीतमुपकरणं ततः प्रथमे समवसरणे यो गृह्णाति सोऽपि जिनैः-तीर्थकरैर्ये दृष्टाः कर्मबन्धदोषास्तैः स्पृष्टो मन्तव्यः, भावतस्तेन दोषाणामङ्गीकृतत्वात् ।। [भा.४२७८] पढमम्मि समोसरणे, जावतियं पत्त-चीवरं गहियं । सव्वं वोसिरियव्वं, पायच्छित्तं च वोढव्वं ॥ वृ-प्रथमे समवसरणे दर्पतो यावत् पात्र-चीवरं गृहीतं तावत्सर्वमपि व्युस्रष्टव्यम्, प्रायश्चित्तं च गुरुप्रदत्तं यथोक्तं वोढव्यम् । अथवा कार्ये समुत्पन्ने यत् पात्रं वा चीवरंवा-चारणादिषु गृहीतं , तत्सर्वं कृते कार्येपरिष्ठापनीयम्, अपरिणामकप्रत्ययनिमित्तंचयथालघीयःप्रायश्चित्तंवोढव्यम्॥ [भा.४२७९] सज्झायट्ठा दप्पेण वा वि जाणंतए विपच्छित्तं । कारण गहियं तु विदू, धरेतऽगीएसु उज्झंति॥ वृ-स्वाध्यायार्थ दर्पण वा यदि "बहि-अंत-ऽसन्नि-सन्निसु, जं दिढं तेसु चेव जमदिटुं।" इत्यादिकं क्रममुलाय गृहीतं तत्र 'जानतोऽपि' गीतार्थस्यापि प्रायश्चित्तम् । यत्तु कारणे क्रमेण विधिना गृहीतं तद् यदि सर्वेऽपि 'विदः' गीतार्थास्तदा धारयन्ति । अथागीतार्थमिश्रास्ततोऽन्यस्मिन्नुपकरणे लब्धे तद् उज्झन्ति॥ अथ यस्मिन् काले वर्षावासे स्थातव्यं यावन्तं वा कालं येन वा विधिना तदेतदुपदर्शयति[भा.४२८०] · आसाढपुन्निमाए, वासावासासु होति अतिगमनं । मग्गसिरबहुलदसमी, उजाव एक्कम्मि खेत्तम्मि ॥ कृ-आषाढपूर्णिमायांवर्षावासप्रायोग्ये क्षेत्रे अतिगमनं प्रवेशःकर्तव्यो भवति।तत्रचापवादतो मार्गशीर्षबहुलदशमी यावदेकत्र क्षेत्रे वस्तव्यम् । एतच्च चिक्खल्ल-वर्षादिकं वक्ष्यमाणं कारणमङ्गीकृत्योक्तम् । उत्सर्गतस्तु कार्तिकपूर्णिमायां निर्गन्तव्यम् ॥ इदमेव भावयति[भा.४२८१] बाहि ठिया वसभेहिं, खेत्तं गाहेत्तु वासपाउगं। कपं कधेत्तु ठवणा, सावणबहुलस्स पंचाहे ॥ वृ-यत्राषाढमासकल्पः कृतस्तत्रअन्यत्र वाप्रत्यासनग्रामेस्थिता वर्षाक्षेत्रंवृषभैः साधुसामाचारी ग्राहयन्ति।तेच वृषभा वर्षाप्रायोग्यं संस्तारक-तृण-डगल-क्षार-मल्लकादिकमुपधिंगृह्णन्ति।तत आषाढपूर्णिमायां प्रविष्टाः प्रतिपद आरभ्य पञ्चभिरहोभि पर्युषणाकल्पं कथयित्वा श्रावण बहुलपञ्चम्यां वर्षाकालसामाचार्या स्थापनां कुर्वन्ति, पर्युषणयन्तीत्यर्थः॥ [भा.४२८२] एत्थ य अनभिग्गहियं, वीसतिरायं सवीसगं मासं । तेन परमभिग्गहियं, गिहिणायं कत्तिओ जाव ॥ वृ- 'अत्र' इति श्रावणबहुलपञ्चम्यादावात्मना पर्युषितेऽपि 'अनभिगृहीतम्' अन्वधारितं गृहस्थानांपुरतः कर्तव्यम् । किमुक्तं भवति? -यदि गृहस्थाः पृच्छेयुः-आरयाः! यूयमत्र स्थिता वा? नवा? इति; एवं पृष्टे सति स्थिता वयमत्र' इति सावधारणंन वक्तव्यम्, किन्तु साकारम्, यथा-नाद्यापिकोऽपि निश्चयःस्थिताअस्थिता वेति। इत्थमनभिगृहीतं कियन्तं कालं वक्तव्यम्? [19301 Page #469 -------------------------------------------------------------------------- ________________ ४६६ बृहत्कल्प-छेदसूत्रम् -२-३/९४ उच्यते यद्यभिवर्धितोऽसौ संवत्सरस्ततो विंशतिरात्रिन्दिवानि, अथ चान्द्रोऽसौततः सविंशतिरात्रं मासं यावदनभिगृहीतं कर्तव्यम्। ___ "तेनं"ति विभक्तिव्यत्ययात् 'ततः परं' विंशतिरात्रात् सविंशतिरात्रमासाच्च ऊर्ध्वम् 'अभिगृहीतं' निश्चितं कर्तव्यम् 'गृहिज्ञातंच' गृहस्थानां पृच्छतां ज्ञापना कर्तव्या, यता-वयमत्र वर्षाकालं स्थिताः । एतच्च गृहिज्ञातं कार्तिकमासं यावत् कर्तव्यम्।।। किं पुनः कारणम् इयति काले व्यतीत एव गृहिज्ञातं क्रियते ? नार्वाग्? इति अत्रोच्यते[भा.४२८३] असिवाइकारणेहिं, अहवण वासं न सुटु आरद्धं । अभिवडियम्मि वीसा, इयरेसु सवीसती मासे ॥ इ-काचित् तत्र क्षेत्रेऽशिवं भवेत्, आदिशब्दाद्राजद्विष्टादिकंवा भयमुपजायेत, एवमादिभिः कारणैः; अथवा तत्र क्षेत्रे ना सुष्ठुवर्ष वर्षितुमारब्धयेनधान्यनिष्पत्तिरुपजायते, ततश्चप्रथममेव 'स्थिता वयम्' इत्युक्ते पश्चादशिवादिकारणे समुपस्थते यदि गच्छन्ति ततो लोको ब्रूयात्-अहो! एते आत्मानं सर्वज्ञपुत्रतया ख्यापयन्ति परं न किमपिनते, मृषावादं वा भाषन्ते, 'स्थिताः स्मः' इति भणित्वा सम्प्रति गच्छन्ति इति कृत्वा । ___ अथाशिवादिकारणेषु सातेष्वपि तिष्ठन्ति तत आज्ञादयो दोषाः । अपि च 'स्थिताः स्मः' इत्युक्तेगृहस्थाश्चिन्तयेयुः-अवश्यंवर्षभविष्यति येनैते वर्षारात्रमत्र स्थिताः; ततोधान्यं विक्रीणीयुः गृहं वा छादयेयुः हलादीनि वा सस्थापयेयुः । यत एवमतोऽभिवर्धितवर्षे विंशतिरात्रे गते 'इतरेषु च' त्रिषु चन्द्रसंवत्सरेषु सविंशतिरात्रे मासे गते गृहिज्ञातं कुर्वन्ति ॥ [मा.४२८४] एत्थ उ पनगंपनगं, कारणिगंजा सवीसती मासो। . . सुद्धदसमीठियाण व, आसाढीपुनिमोसरणं । वृ-'अत्र' इति आषाढपूर्णिमायां स्थिताः पञ्चाहं यावद् दिवा संस्तारक-डगलादि गृह्णन्ति, रात्रौ च पर्युषणाकल्पं कथयन्ति, ततः श्रावणबहुलपञ्चम्यांपर्युषणं कुर्वन्ति ।अथाषाढपूर्णिमायां क्षेत्रं न प्राप्तास्तत एवमेव पञ्चरात्रं वर्षावासप्रायोग्यमुपधिं गृहीत्वा पर्युषणाकल्पं च कथयित्वा दशम्यां पर्युषणयन्ति। एवं कारणिकं रात्रिन्दिवानां पञ्चकं पञ्चकंच वर्षयता तावद् नेयं यावत् सविंशतिरात्रोमासः पूर्णः। __ अथवा ते आषाढशुद्धदशम्यामेव वर्षाक्षेत्रे स्थितास्ततस्तेषां पञ्चरात्रेण डगलादौ गृहीते पर्युषणाकल्पेच कथिते आषाढपूर्णिमायां समवसरणं पर्युषणं भवति, एष उत्सर्गः। शेषं कालं पर्युषणमनुतिष्ठतां सर्वोऽप्यपवादः । अपवादेऽपि सविंशतिरात्रा मासात् परतो नातिक्रमयितुं कल्पते । यद्येतावत्यपि गते वर्षाक्षेत्रं न लभ्यते ततो वृक्षमूलेऽपि पर्युषणयि-तव्यम् ॥ अथ पञ्चकपरिहणिमधिकृत्य ज्येष्ठकल्पावग्रहप्रमाणमाह[भा.४२८५] इय सत्तरी जहन्ना, असिती नउई दसुत्तर सयं च । जति वासति मग्गसिरे, दस राया तिन्नि उक्कोसा॥ वृ-'इति' उपप्रदर्शने।ये किल आषाढपूर्णिमायाः सविंशतिरात्रे मासे गतेपर्युषणयन्ति तेषां सप्ततिदिवसानिजघन्यो वर्षावासावग्रहो भवति भाद्रपदशुद्धपञ्चम्याअनन्तरंकार्तिकपूर्णिमायां Page #470 -------------------------------------------------------------------------- ________________ उद्देशक : ३, मूलं-९४, [भा. ४२८६] ४६७ सप्ततिदिनसद्भावात् । एवं ये भाद्रपदबहुलदशम्यां पर्युषणयन्ति तेषामशीतिर्दिवसा मध्यमो वर्षाकालावग्रहः, श्रावणपूर्णिमायां नवतिर्दिवसाः, श्रावणशुद्धपञ्चम्यां दिवसशतम्, श्रावणबहुलदशम्यां दशोत्तरं दिवसशतं मध्यम एववर्षाकालावग्रहो भवति । शेषान्तरेषु दिवसपरिमाणं गाथायामनुक्तमपि इत्थं वक्तव्यम्-भाद्रपदामावास्यां पर्युषणे क्रियमाणे पञ्चससप्ततिर्दिवसाः, भाद्रपदबहुलपञ्चम्यां पञ्चदशोत्तरं शतम्, आषाढपूर्णिमायां तु पर्युषिते विंशत्युत्तरं दिवसशतं भवति । एवमेतेषां प्रकाराणामन्यतरेण वर्षावासमेकक्षेत्रे स्थित्वा कार्तिकचातुर्मासिकप्रतिपदि निर्गन्तव्यम् । अथ मार्गशीर्षे गाढं वर्षं वर्षति कर्दमजलाकुलाश्च पन्थानः ततोऽपवादेनैकं दशरात्रमवतिष्ठन्ते, अथ तथापि वर्ष नोपरमतेततो द्वितीयं दशरात्रं तत्रासते, अथैवमपि वर्षन तिष्ठति ततस्तृतीयमपि दशरात्रमासते, एवं त्रीणि दशरात्राण्युत्कर्षतस्तत्र क्षेत्रे आसितव्यम्, मार्गशिरःपौर्णमासी यावदित्यर्थः । ततऊर्ध्वं यदयपि कर्दमाकुलाः पन्थानः, वर्षंचागाढमनुपरतं वर्षति, यद्यपिच पानीये प्लवमानस्तदानीं गम्यते तथाप्यवश्यं निर्गन्तव्यम् । एवं पाश्चमासिको ज्येष्ठकल्पावग्रहः सम्पन्नः ।। अथ तमेव पाण्मासिकमाह[भा.४२८६] काऊण मासकप्पं, तत्व ठिताणऽतीते मग्गसिरे । सालंबणाण छम्मासिओ उजेट्टोग्गहो होति ॥ वृ-यस्मिन् क्षेत्रे आषाढमासकल्पः कृतस्तद् वर्षावासयोग्यम् अन्यच्च तथाविधं क्षेत्रं नास्ति ततोमासकल्पं कृत्वा तत्रैव वर्षावासंस्थितानांततश्चतुर्मासानन्तरंकर्दम-वर्षादिभिःकारणैरतीते मार्गशीर्षमासे निर्गच्छतां 'सालम्बनानाम्' एवंविधालम्बनसहितानां पाण्मासिको ज्येष्ठावग्रहो भवति, एकक्षेत्रेऽवस्थानमित्यर्थः ॥ [भा.४२८७] अह अस्थि पदवियारो, चउपाडिवयम्मि होति निग्गमनं । अहवा वि अनिताणं, आरोवण पुबनिद्दिट्टा ॥ वृ-अथास्ति कर्दम-वर्षादिकारणाभावात् पदविचारः ततश्चतुर्णा मासानां पर्यन्ते या प्रतिपत् तस्यांनिर्गमनकर्तव्यम्। अथतेपदप्रचारमसम्मवेऽपिन निर्गच्छन्तिततोऽनिर्गच्छतां पूर्वनिर्दिष्टा' मासकल्पप्रकृते प्रागभिहिता चतुर्लघुकाख्या आरोपणा मन्तव्या॥ अथ निर्गतानां सामाचारीमुपदर्शयति[भा.४२८८] पुनम्मि निग्गयाणं, साहम्मियखेत्तवजिते गहणं । संविग्गाण सकोसं, इयरे गहियम्मि गेहंति ॥ -पूर्णे वर्षावासावग्रहे निर्गतानां यत्र साधर्मिकैवर्षावासः कृतस्तत् क्षेत्रं वर्जयित्वा अन्येषु ग्राम-नगरादिषूपकरणस्य ग्रहणं भवति । ये संविग्नाः साम्भोगिका असाम्भोगिका वा तेषां यद् वर्षाक्षेत्रं तत् सक्रोशयोजनं परिहत्य गृहन्ति । इतरे-पावस्थादयस्तेषां यद् वर्षावासक्षेत्रं तत्र तैर्गृहीते उपकरणे पश्चात् संविग्ना गृह्णन्ति, तेषां च क्षेत्रं मासद्वयं न परिहियते॥ कुतः ? इति चेद् उच्यते[भा.४२८९] वासासु विगिण्हंती, नेव य नियमेण इतरे विहरती । तहिइंसुद्धमसुद्धे, गहिए गिण्हंति जं सेसं ॥ Page #471 -------------------------------------------------------------------------- ________________ ४६८ बृहत्कल्प-छेदसूत्रम् -२-३/९४ वृ- 'इतरे' पार्श्वस्थादयो वर्षास्वपि वस्त्रणि गृह्णन्ति, न च नियमेनैव चतुर्मासानन्तरंते विहरन्ति, अतस्तैः शुद्धे अशुधे वा उपकरणे गृहीते यत् शेषं वस्त्रदिकं श्राद्धाः प्रयच्छन्ति तद् मासद्वयमध्येऽपि गृह्णन्ति ॥ [भा. ४२९०] सक्खेत्ते परखेत्ते वा, दो मासा परिहरेत्तु गेण्हंति । जं कारणं न निग्गय, तं पि बहिंझोसियं जाणे ॥ वृ- स्वक्षेत्रं यत्रात्मना वर्षाकल्पः कृतः परक्षेत्रं यत्रापरे संविग्ना वर्षाकल्पं स्थितास्तत्र स्वक्षेत्रे परक्षेत्रे वा द्वौ मासौ परिहृत्य तृतीयमासि गृह्णन्ति । अथ चतुर्मासानन्तरं कर्दमादिभि कारणैर्न निर्गतास्ततः 'यं' यावन्तं कालं कारणमपेक्ष्य न निर्गतास्तमपि कालं 'बहिर्जीषितं ' बहिक्षिप्तं 'जानीयाद्' गणयेत्, तावन्तमपि कालं बहिर्निर्गता इव मन्तव्या इति भावः ॥ -कैः पुनः कारणैर्न निर्गताः ? इत्याह [भा. ४२९१] चिक्खल्ल-वास - असिवादिएसु जहि कारणेसु उ न निंति । दिंते पडिसेधेत्ता, गेण्हंति उ दोसु पुन्नेषु ॥ वृ- चिक्खल्ल:- कर्दमस्तदाकुलाः पन्थानः, वर्षं वा नोपरमते, अशिव-दुर्भिक्षादीनि वा बहिरुपस्थितानि, एवमादिभि कारणैर्यत्र न निर्गच्छन्ति तत्र यदि केचिद् वस्त्रादिना निमन्त्रयन्ति तदा तान् ददतः प्रतिषिध्य द्वयोस्तु मासयोः पूर्णयोर्वस्त्रदिकं गृह्णन्ति ॥ कुतः ? इत्याह [भा. ४२९२] भावोउ निग्गतेहिं, वोच्छिज्जइ देंति ताई अन्नस्स । अत्तट्ठेति व ताई, एमेव य कारणमनिंते ॥ वृ- 'ये साधव इह क्षेत्रे वर्षावास स्थितास्तेषां वस्त्रणि दास्यामः' इत्येवं यः श्राद्धानां भावः स निर्गतेषु साधुषु व्यवच्छिद्यते, यानि वा वस्त्राणि दातुं सङ्कल्पितानि तानि 'अन्यस्य' पार्श्वस्थादेः प्रयच्छन्ति स्वयमेव वा 'आत्मार्थयन्ति' परिभुञ्जत इत्यर्थः । अथ चतुर्मासानन्तरं कारणमपेक्ष्य न निर्गच्छन्ति ततो मासद्वयमध्ये श्राद्धानामभ्यर्थनायामप्यगृह्णानेष्वेवमेव भावो व्यवच्छिद्यते, अतो मास परिहृत्य ग्रहीतव्यम् । कारणे तु मासद्वयमध्येऽपि गृह्णीयात् ॥ तदेव दर्शयति [भा. ४२९३] गच्छे सबाल - वुडे, असती परिहर दिवड्डमासं तु । पणतीसा पणुवीसा, पन्नरस दसेव एक्कं च ॥ वृ- सबाल-वृद्धे गच्छे वस्त्रभावे शीतं सोढुमसमर्थे सार्धं मासं 'परिहर' वर्जय, परिहृत्य च तत ऊर्ध्वं गृह्णीयात् । अथ सार्धमासमपि परिहर्तुं न शक्तस्ततः पञ्चत्रिंशतं दिनानि परिहर, अथैवमपि गच्छो न संस्तरति ततः पञ्चविंशतिदिनानि, तथाप्यसंस्तरणे पञ्चदश दिनानि, तथाप्यशक्तौ दश दिवसान्, तथाप्यसामर्थ्य एकमपि दिनं परिहरेदिति सङ्ग्रहगाथासमासार्थः ।। अथैनामेव विवृणोति [ भा. ४२९४] बाल- Sसहु-वुड्ड-अतरंत-खमग- सेहाउलम्मि गच्छम्मि । सीतं अविसहमाणे, गेहंति इमाए जयणाए । वृ- तथाविधवस्त्राभावाद् बालाऽसहिष्णु-वृद्ध-ग्लान-क्षपक- शैक्षाकुले गच्छे शीतम् Page #472 -------------------------------------------------------------------------- ________________ उद्देशक : : ३, मूलं - ९४, [भा. ४२९४] ४६९ 'अविषहमाणे' सोढुमशक्ते साधवोऽनया यतनया स्वक्षेत्रे परक्षेत्रे वा वस्त्राणि गृह्णन्ति ॥ पंचूने दो मासे, दसदिवसूने दिवड्डमासं वा । दस-पंचऽधियं मासं, पणुवीसदिने व वीसं वा ॥ [भा. ४२९५ ] [ भा. ४२९६ ] पत्ररस दस य पंच व दिनानि परिहरिय गेण्ह एगं वा । अहवा एक्केक्कदिणं, अउनट्ठिदिणाई आरम्भ ॥ वृ-आगाढे कारणे पञ्चभिर्दिवसैरूनौ द्वौ मासौ परिहृत्य वस्त्र ग्रहीतव्यम् । अथ तावन्तं कालं यावद् बाल-वृद्धादयः शीतेन परिताप्यमाना न संस्तरन्ति ततो दशदिवसोनौ द्वौ मासौ परिहृत्य वस्त्रं ग्राह्यम् । एवं सार्धमासं दशदिवसाधिकं वा पञ्चदिवसाधिकं वा अन्यूनाधिकं वा मासं पञ्चविंशतिदिनानि विंशतिदिनानि पञ्चदशदिनानि दशदिनानि पञ्च वा दिनानि यथाक्रमं परिहृत्य वस्त्र गृह्णीयात् । अथ पञ्च दिवसानपि वस्त्रभावे बाल-वृद्धादयो नात्मानं निर्वाहयितुमीशास्ततश्चत्वारि त्रीणि द्वे यावदेकमपि दिनं परिहृत्य ग्रहीतव्यम् । अथवा एकैकदिनहानिरत्र द्रष्टव्या, तद्यथा-यत्र वर्षावासं स्थितास्तत्र षष्टिदिनानि परिहृत्य उत्सर्गतो वस्त्रग्रहणं कर्त्तव्यम्, कारणे पुनरेकोनषष्टिदिनान्यारभ्यैकैकदिनं हापयता तावद् वक्तव्यं यावदेकमपि दिनं परिह्वत्य वस्त्रग्रहणं कार्यम् ॥ व्याख्यातं प्रथमसमवसरणसूत्रम्, सम्प्रति द्वितीयसमवसरणसूत्रं व्याख्याति[भा. ४२९७ ] बिइयम्मि समोसरणे, मासा उक्कोसगा दुवे होंति । ओमत्थगपरिहाणीय पंच पंचेव य जहने ॥ वृ- द्वितीयं समवसरणं नाम - ऋतुबद्धकालः, तत्र मासकल्पेन स्थिता वस्त्रादिकमुपकरणमुत्पादयन्ति, मासकल्पानन्तरं च तत्र द्वौ मासावुत्कर्षतः परिहर्त्तव्यौ भवतः । कारणे तु तथैवावाङ्मुखपरिहाण्या पञ्च पञ्च दिनानि हापयता तावद् नेयं यावद् जघन्यत एकंदिनं परिहर्त्त-व्यम् ।। अमुमेवार्थं स्फुटतरमाह[भा. ४२९८] अपरिहरंतस्सेते, दोसा ते च्चैव कारणे गहणं । बाल-वुड्डाउले गच्छे, असती दस पंच एक्को य ।। वृ- यत्र क्षेत्रे मासकल्पः कृतस्तत्र द्वौ मासावपरिहरतस्त एव दोषा मन्तव्या ये वर्षावासमासद्वयमपरिहरत उक्ताः । कारणे तु ग्रहणं कर्त्तव्यम्, कथम् ? इत्याह-बाल-वृद्धाकुले गच्छे वस्त्राभावे पञ्चकपरिहाण्या एकैकपरिहाण्या वा तावद् वक्तव्यं यावद् दश वा पञ्च वा एको वा दिवसः परिहर्त्तव्यः । यत्र संविग्नैर्मासकल्पो वर्षाकल्पो वा कृतस्तत्र मासद्वयादुपरि पञ्चसु दिवसेष्वपूर्णेष्वन्येषां न कल्पते किञ्चिदपि ग्रहीतुम् ।। यो गृह्णाति तस्य दोषानुपदर्शयति [भा. ४२९९ ] करणानुपालयाणं, भगवतो आणं पडिच्छमाणाणं । जो अंतरा उ ण्हति तट्ठाणारोवणमदत्तं ॥ वृ- करणस्य - पिण्डविशुध्यादेः अनु-पश्चात् पूर्वऋषिपरम्पराक्रमेण पालकाः करणानुपालकास्तेषाम्, करणस्य च चरणाविनाभावित्वात् चरणानुपालकानामित्यपि द्रष्टव्यम्, एतेन Page #473 -------------------------------------------------------------------------- ________________ ४७० बृहत्कल्प-छेदसूत्रम् -२-३/९४ शीतलविहारितादोषस्तेषां परितो भवति; 'भगवतः' वर्द्धमानस्वामिनो या आज्ञा तां तथेति प्रतिपत्त्या प्रतीच्छताम्, अनेन यथाच्छन्दतादोषस्तेषां नास्तीत्युक्तं भवति; एवंविधानांसाधनां क्षेत्र अन्तरा' तैरगृहीते उपकरणेयोवस्त्रदि गृह्णाति तस्य 'तत्स्थानारोपणा' स्वस्थानप्रायश्चित्तम्, तद्यथा-उत्कृष्ट चतुर्लघवः, मध्यमेमासिकम्, जघन्ये पञ्चकम्; सूत्रादेशेन वा साधर्मिकस्तैन्यमिति कृत्वाऽनवस्थाप्यम् । "अदत्तं"ति भगवता नानुज्ञातमिति कृत्वा तीर्थकरदत्तमपि भवति । [भा.४३००] उवरिं पंचमपुन्ने, गहणमदत्तं गत तिगेण्हंति। अनपुच्छ दुपुच्छा वा, त पुग्ने गत त्ति गेहंति ॥ वृ-परक्षेत्रे द्वयोर्मासयोरुपरि पञ्चसु दिनेष्वपूर्णे, यदि ग्रहणं करोति तदा अदत्तादानदोषः प्रसज्यते । अथ जानन्ति गता अन्यदेशं क्षेत्रस्वामिनस्ततोऽपूर्णेष्वपि पञ्चरात्रिन्दिवेषु गृह्णन्ति । अथ शङ्कितं ततो न गृह्णन्ति । अथ ते परदेशं न गतास्ततो यद्यनापृच्छया दुःपृच्छया वा वस्त्रं गृह्णन्ति ततस्तथैवादत्तादानदोषं प्राप्नुवन्ति । यत एवमतः 'तद्' वस्त्रदिकमुपकरणं 'गता निशिकतमन्यदेशंक्षेत्रिकाः' इति विज्ञाय पूर्णेमासद्वयेगृह्णन्ति।अत्रानापृच्छा नाम-क्षेत्रिकैर्वस्त्रग्रहणं कृतं न वा' इति न पृच्छति, दुःपृच्छा पुनः-अविधिना प्रच्छनं॥ सा चेयम्[भा.४३०१] गोवाल-वच्छवाला-कासग-आदेस-बालव-वुड्डाई । अविधी विही उसावग-महतर-धुवकम्मि-लिंगत्था ।। वृ-ये गोपाल-वच्छपाल-कर्षकाः प्रभाते निर्गताः सन्तो भूयः प्रदोषे ग्रामं प्रविशन्ति, ये वा तत्रांदेशाः-प्राघूर्णका अन्यग्रामादायाताः, ये वा बाल-वृद्धायोऽत्यन्तमुग्धा विस्मरणशीलाश्च तान्पृच्छति-किं श्रमणैः कृतं वस्त्रग्रहणंनवा? इति; एषाअविधिपृच्छा । विधिपृच्छापुनरियम्श्रावका ग्राममहत्तरा वा प्रच्छनीया येषु साधूनां वस्त्रग्रहणसम्भवो भवति, ये वा ध्रुवकर्मिकाःलोहकार-रथकारादयः ये वा लिङ्गस्थाः-लिङ्गधारिमस्तान् पृच्छति 'वस्त्रादिग्रहणं साधुभिः कृतं न वा?' इति॥ परक्षेत्रे वस्त्रग्रहणविधिमभिधित्सुराह[भा.४३०२] गंतूण पुच्छिऊण य, तेसिं वयणे गवेसणा होति। तेसाऽऽगतेसु सुद्धेसु जत्तियं सेस अग्गहणं ।। वृ-क्षेत्रस्वामिनां समीपे गत्वा विधिवद् आपृच्छय तेषांसाधूनां वचने' अनुज्ञायां तदीये क्षेत्रे वस्त्रगवेषणा कर्तव्या भवति। अथ न ज्ञायन्ते ते कुत्रापि गताअमीभिश्च साधुभिस्तत्र वस्त्रग्रहणं कियदपि कृतं ते च क्षेत्रस्वामिन आगताः ततस्तेषु 'शुद्धेषु' विधिना आगतेषु यावद् वस्त्रादि गृहीतं तावत् तेषां प्रत्यर्पयितव्यम्, शेषस्य चोपकरणस्य ग्रहणं न कर्तव्यम् । इदमेव सविशेषमाह[भा.४३०३] उप्पन्न कारणाऽऽगंतु पुच्छिउं तेहि दिन्न गेण्हंति । तेसाऽऽगयेसु सुद्धेसु जत्तियं सेस अग्गहणं॥ वृ-बाल-वृद्ध-शैक्षादीनांशीतपरितापनालक्षणे वस्त्रग्रहणकारणे उत्पन्ने स्वक्षेत्रे वस्त्रदुर्लभतां Page #474 -------------------------------------------------------------------------- ________________ उद्देशक : ३, मूलं-९४, [भा. ४३०३] ४७१ सम्यग निश्चित्य परक्षेत्रे वस्त्रग्रहणं कर्तुकामाः क्षेत्रस्वामिनामन्तिके गत्वा पृष्टवा च तैः “दत्तम्' अभ्यनुज्ञातं यावत्प्रमाणं वस्त्रादि तावदेव गृह्णन्ति, नातिरिक्तम् । अथ न ज्ञायन्ते ते कुत्रापि गतास्ततो विधिपृच्छया उपकरणे गृहीतेयदि ते क्षेत्रिकाः शुद्धा आगच्छेयुः ततः शुद्धेषुतेष्वागतेषु ततो यावद् गृहीतं तावत् तेषां प्रत्यर्पयन्ति, शेषस्य चाग्रहणम् ।। कथं पुनस्ते क्षेत्रिका आगताः शद्धा अशुद्धा वा भवन्ति? इति उच्यते[भा.४३०४] पडिजग्गंति गिलाणं, ओसहहेऊहि अहव कजेहिं । एतेहि होति सुद्धा, अह संखडिमादि तह चेव ॥ वृ-क्षेत्रिका मासद्वये पूर्णेऽपिअमीभि कारणैर्नसमागन्तुं शक्नुयुः-ग्लानं प्रतिजाग्रतः स्थिताः, ग्लानस्य वा औषधम्-अगदंतन्मीलनहेतोः स्थिताः, कुल-गण-सङ्घकार्येषुवाव्यापृताः; एवमादिभिः कारणैरनागच्छन्तः शुद्धाः । अथ सङ्खडिनिमित्तं स्थिता व्रजिकादिषु वा प्रतिबध्यमाना आगताः ततः 'तथैव' मासद्वयं यावत् तदीयं क्षेत्रम्, उपरि तु पञ्चरात्रं न ते प्रभवः, ततो यत् तैस्तत्र क्षेत्रे गृहीतं तद् गृहीतमेव, न क्षेत्रिकाणां प्रयच्छन्ति॥ अमुनि तु विशुद्धकरणानि[भा.४३०५] तेनभय सावयभया, वासेण नदीय वा विनि]रुद्धाणं। दायव्वमदेताणं, चउगुरुतिविहं च नवमं वा।। वृ-स्तेनभयाद्वा श्वापदभयाद्वा वर्षेण वा नद्या वा निरुद्धानां चिरादागमनमभूत् ततो यद् गृहीतंतत् तेषामागतानां दातव्यम् । अथ न ददति ततश्चतुर्गुरुकम्, उपकरणनिप्पन्नवा (त्रिविधं] पञ्चक-मासिक-चतुर्लघुकलक्षणम्, 'नवमं वा' सूत्रादेशेनानवस्थाप्यम् ॥ [भा.४३०६] परदेसगते नाउं, सयं व सेज्जातरं व पुच्छित्ता । गेहंति असढभावा, पुनेसु तु दोषु मासेसु ॥ वृ-स्वयमपि क्षेत्रिकान् परदेशगतान् ज्ञात्वा शय्यातरं वा पृष्टवा परदेशगतान् निश्चित्य द्वयोर्मासयोः पूर्णयोः 'अशठभावाः' शुद्धपरिणामा गृह्णन्ति ।। [भा.४३०७] बिइयपदमणाभोगे, सुद्धा देंता अदेंते ते चेव । आउट्टिया गिलाणादि जत्तियं सेस अग्गहणं॥ वृ-द्वितीयपदमत्रोच्यते-'अनाभोगो नाम' 'किमत्र साधवो वर्षाकल्पं मासकल्पं वा कृतवन्तो नवा?' इति न सम्यक् परिज्ञातं ततः परक्षेत्रेऽपि गृह्णीयुः, पश्चाद् ज्ञाते क्षेत्रिकाणां प्रयच्छन्तः शुद्धाः, अप्रयच्छतां त एव दोषाः । अथ 'आकुट्टिकया' आभोगेन गृहीतं परं ग्लानादीनामर्थे ततो यावत् तेषामुपयुज्यते तावद् गृह्णन्ति, 'शेषम्' अतिरिक्तंन गह्णन्ति॥ मू. (९५) कप्पइ निग्गंथाण वा निग्गंधीण वा अहाराइणियाए चेलाइं पडिग्गाहिंत्तए। [भा.४३०८] दिटुं वत्थग्गहणं, तेसिं परिभायणे इमं सुतं । अविनय असंविभागा, अधिकरणादी य नेवं तु ॥ वृ-द्वितीयसमवसरणे दृष्टं तावद् वस्त्रग्रहणम् । सम्प्रति तेषां वस्त्रणां परिभाजने' विभज्य प्रदाने यो विधिस्तदभिधायकमिदं सूत्रमारभ्यते । इत्थं विभज्य प्रदाने किं प्रयोजनम् ? इति चेद् अत आह-‘एवं' यथारनाधिकं वस्त्राणां विभज्य दानेऽविनयोऽसंविभागोऽधिकरणादयश्च Page #475 -------------------------------------------------------------------------- ________________ ४७२ बृहत्कल्प-छेदसूत्रम् -२-३/९५ दोषा न भवन्तीति । अनेन सम्बन्धेनायातस्यास्य व्याख्या-कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा 'यथारालिकं' योयो रात्निकः- भावरलैरधिकस्तदनतिक्रमेणचेलानिप्रतिग्रहीतुमिति सूत्रार्थः।। अथ नियुक्तिविस्तरः[भा.४३०९] संघाऽएण एक्कतो, हिंडंती वंदएन जयणाए। साधारणऽनापुच्छा, उ अदत्तं एक्कओ भागा॥ वृ-सङ्घाटकेन ‘एकतः' एकस्यां दिशि साधवो वस्त्रग्रहणार्थं हिण्डन्ते । अथ सङ्घाटकेन न प्राप्यते ततो वृन्देनापि यतनया पर्यटन्ति । अथ ‘साधारणं' बहूनामाचार्याणां सामान्यं तत् क्षेत्रं ततो यदि तत्रापरेषामाचार्याणामनापृच्छया गृहन्ति तवा “अदत्तं" ति साधर्मिकस्तैन्यं भवति, अतस्तानापृच्छय ग्रहीतव्यानि, गृहीत्वा च तेषां वस्त्रणाम् ‘एकतः' एकसहशा भागाःकर्तव्यान विसहशा इति सङ्ग्रहगाथासमासार्थः॥ साम्प्रतमेनामेव विवृणोति[भा.४३१०] निस्साधारण खेत्ते, हिंडंतो चेव गीतसंघाडो। उप्पादयते वत्थे, असती तिगमादिवंदेनं ।। वृ-'निस्साधारणे एकाचार्यप्रतिबद्ध क्षेत्रे गीतार्थसङ्घाटको भिक्षां हिण्डमानएववसत्रण्युत्पादयति ।अथ सङ्घाटकेन हिण्डमानान प्राप्नुवन्ति ततः 'त्रिकादिवृन्देन' त्रिचतुःपञ्चादिसाधुसमूहेन पर्यटन्त उत्पादयन्ति ॥ साधारणक्षेत्रे पुनरयं विधिः[मा.४३११] दुगमादीसामन्ने, अणपुच्छा तिविह सोधि नवमं वा। संभोइयसामन्ने, तह चेव जहेक्कगच्छम्मि । कृ-द्विकादीनां-द्वित्रिप्रभृतीनामाचार्याणांसामान्य क्षेत्रेतेषामनापृच्छया गृह्णतस्त्रिविधा 'शोधिः' प्रायश्चित्तम्-जधन्ये पञ्चकम्, मध्यमे मासिकम्, उत्कृष्टेः; 'नवमंवा' सूत्रादेशेनानवस्थाप्यम् । ते चाचार्या परस्परं साम्भोगिका असाम्भोगिका वा । तत्र साम्भोगिकसामान्य क्षेत्रे वस्त्रग्रहणे तथैव विध्यवसातव्यो यथा एकस्मिन् गच्छे सङ्घाटकादिक्रमेण अनन्तरगाथायामुक्तः॥ असाम्भोगिकेषु विधिमाह[भा.४३१२] अमणुनकुलविरेगे, साही पडिवसभ-मूलगामे य। अहवा जो जं लाभी, ठायंतिजधासमाधीए॥ वृ-अमनोज्ञाः-असाम्भोगिकास्तैः सह यत् क्षेत्रं साधारणं तत्र कुलादीनां विरेकः- विभजनं कर्तव्यम्, यथा-एतेषु कुलेषुयुष्माभिर्वस्त्रणिग्रहीतव्यानि, एतेषुपुनरस्माभि, यद्वाऽस्यांसाहिकायांगृहपङ्क्तिरुपायां भवद्भिः, अस्यां पुनरस्माभि; अथवा प्रतिवृषभग्रामेषु यूयं ग्रहीष्यथ, वयं मूलग्रामे ग्रहीष्यामः; मूलग्रामेवा यूयं, वयंप्रतिवृषभग्रामेषु; अथवा यो यद्वस्त्र कुलादौ पर्यटन् "लाभी' लप्स्यते तेन तस्य ग्रहणं कर्तव्यम् । एतेषामन्यतमेन प्रकारेण व्यवस्था स्थापयित्वा यथासमाधिना तत्र तिष्ठन्ति ।। एवमसाधारणे वा क्षेत्रे वस्त्राणि गृहीत्वा किं कर्तव्यम् ? इत्याह - [भा.४३१३] वत्थेहि आनितोहिं, देति अहारातिणिं तहिं वसभा। Page #476 -------------------------------------------------------------------------- ________________ उद्देशकः३, मूलं-९५, [भा.४३१३] ४७३ अदाणे गुरुणो लहुगा, सेसे लहुओ इमे होति ॥ वृ-वस्त्रेषु समानीतेषु ये वृषभास्ते यथारत्नाधिकं तत्र वस्त्रणि प्रयच्छन्ति । यदि तत्र गुरुणां प्रथमतो वस्त्रदानं न कुर्वन्ति तदा चतुर्लघुकाः । शेषाणां यथारत्नाधिकं विभज्य न प्रयच्छन्ति लघुमासः । तेच रत्नाधिकाः 'इमे' वक्ष्यमाणा भवन्ति । तत्र गुरुणां याशानि वस्त्राणि दीयन्ते तदेतत् प्रतिपादयति[भा.४३१४] विदु क्खमा जे य मनानुकूला, जे योवजुजंति असंथरते। गुरुस्स सानुग्गहमप्पिणत्ता, भाएंत सेसाणि उ झंझहीणा ।। वृ-साधुभिर्यथाविधि गृहीत्वा भूयांसि वासांसि वृषभाणां समर्पितानि, ततो वृषभा "विदु" त्ति 'विदित्वा' सुन्दरा-ऽसुन्दरताविभागं विज्ञाय यानि 'क्षमाणि' हेढानि यानि च ‘मनोऽनुकूलानि' गुरुणां मनसोऽभिरुचितानियानि चाऽसंस्तरति गच्छेगुरुपरिभुक्तान्यपिशेषसाधूनामुपयुज्यन्ते तानि गुरोः 'सानुग्रह' सविशेषं यथा भवति एवमपयित्वा शेषाणि वस्त्राणि झञ्झा-कलहस्तेन हीनाः-विरहिताः सन्तो यथारत्नाधिकं परिभाजयन्ति । अथ तानेव रत्नाधिकानाह[भा.४३१५] उवसंपज्ज गिलाणे, परित्त सुत सोअव्वए य जातीय। तव भासा लद्धीए, ओमे दुविहस्स अरिहा उ॥ वृ. “उवसंपज्ज" ति यः तत्प्रथमतया उपसम्पदं प्रतिपद्यते । ‘ग्लानः' मन्दः, स च द्विधाआगाढोऽनागाढश्च । 'परीत्तः' परिमितोपधि । “सुत" त्ति बहुश्रुतः । “सोअव्वए" त्ति यो व्याख्यानमण्डल्या उत्थितानां सूत्रार्थे श्रोतव्ये ज्येष्ठतया व्यवह्रियते । “जाइ"त्तिजातिस्थविरः षष्टिवर्षपर्यायः । “तव" त्ति तपस्वी । “भास" त्ति यः अभाषिकः-तद्देशभाषायामनभिज्ञः । "लद्धीए" त्ति यस्य लब्ध्वा वस्त्राणि लभ्यन्ते। एतेषामुपसम्पद्यमानादीनां यथाक्रमंदत्वा ततो यो यः पर्यापरत्नाधिकः स सप्रथमं गृह्णाति, "ओमि" त्ति अवमरालिकः पश्चाद् गृह्णाति । एते यथाक्रमं 'द्विविधस्य' ओघोपधेरौपग्रहिकोपधेश्च ग्रहणे 'अर्हा' योग्या मन्तव्याः॥ [भा.४३१६] एएसि परुवणया, जा य विना तेहिं होति परिहानी । अहवा एक्केकस्स उ, अड्डोकंतीक्कमो होति ॥ वृ-एतेषाम्' उपसम्पद्यमानादीनां प्ररुपणा' व्याख्याकर्तव्या, सा चानन्तरमेव कृता । यद्येतेषां यथाक्रमं वृषभा न प्रयच्छन्ति ततो या तेषां 'तैः' वस्त्रैर्विना 'परिहानि' संयमविराधनादिका भवति तन्निष्पन्न प्रायश्चित्तम् । अथवा 'एकैकस्य' उपसम्पद्यमानादेः प्रत्येकं ग्लानादिविषयोऽयमर्धापक्रान्तिक्रमो भवति ॥ तद्यथा[भा.४३१७] उवसंपज्ज गिलाणो, अगिलाणो वा वि दोन्नि वि गिलाणा। तत्थ विय जो परित्तो, एस गमो सेसगेसुं पि । - उपसम्पद्यमानो द्विविधः-ग्लानोऽग्लानश्च । तत्र यो ग्लानस्तस्य दातव्यम् । अथ द्वावपि ग्लानावग्लानौ वा ततो यस्तत्र परीत्तोपधिस्तस्मै दातव्यम् । एवमेषः ‘गमः' प्रकारः 'शेषेष्वपि' बहुश्रुतादिपदेषु मन्तव्यः, तद्यथा-द्वावपि परीत्तोपधी अपरीत्तोपधी वा ततो यो बहुश्रुतस्तस्मै Page #477 -------------------------------------------------------------------------- ________________ ४७४ बृहत्कल्प-छेदसूत्रम् -२-३/९५ देयम् । अथ द्वावपि बहुश्रुतौ ततो यश्चिन्तनिकाकारकस्तस्य दातव्यम् । अथ द्वावपि चिन्तनिकाकारकौ ततो यस्तत्र जातिस्थविरस्तस्य दातव्यम् । अथ द्वावपि जातिस्थविरौ ततो यस्तपस्वी तस्य दातव्यम् । अथोभावपि तपस्विनौ ततो योऽभाषिकस्तस्मै दातव्यम् । अथ द्वावप्यभाषिको भाषिकौ वा ततो यो लब्धिमान् तस्मै प्रदातव्यम् । प्रकारान्तरेण यथारत्नाधिकपरिपाटीमाह[भा.४३१८] आयरिए य गिलाणे, परित्त पूया पवत्ति थेर गणी। सुत भासा लद्धीए, ओमे परियागरातिनिए । वृ-आचार्यस्य पूर्वं विशिष्टानि वस्त्राणि दत्वा ततो ग्लानस्य दातव्यानि । ततः परीत्तोपधेः, ततः “पूय"त्ति चूर्ण्यभिप्रायेण पूजनार्हस्य' उपाध्यायस्य बृहद्भाष्याभिप्रायेण तु पूजनार्हस्य' गुरुसम्बन्धिपितृ-पितृव्यादेः, ततः प्रवर्तिनः, तदनन्तरं स्थविरस्य, ततः “गणि" त्ति गणावच्छेदिकस्य, ततः श्रुतसम्पन्नस्य, ततोऽभाषिकस्य, ततो लब्धिमतोयथाक्रमंदातव्यम् । अर्धापक्रान्तिचारणिकाप्राग्वत् कर्तव्या । तदनन्तरं यो यः पर्यायरालिकस्तस्य तस्य प्रथमम्, अवमरालिकस्य तु पश्चाद् यथाक्रमं दातव्यम्॥ एवं तावत् सङ्घाटकेनानीतानां विधिरुक्तः । अथ वृन्देनानीतानां यो विधिस्तमभित्सुराह[भा.४३१९] नेगेहिं आनियाणं, परित्त परियाग खुभिय पिंडेत्ता। आवलिया मंडलिया, लुद्धस्स य सम्मता अक्खा ॥ वृ-अनेकैः साधुभिरानीतानांवस्त्राणांपरिभाजनेविधिरुच्यते-आचार्यादिक्रमेण परीत्तोपधीनां यावद् दत्त्वा ततोये पर्यायरालिकास्तेषामहिण्डमानानामपि प्रथमतो दातव्यम् ।तत्र च यैस्तानि वस्त्राणि समानीतानि ते 'पिण्डित्वा' सम्भूय 'क्षुभितं' क्षोभं कुर्वीरन्, कलहमिति यावत् । कश्चितु ब्रूयात्-आवलिकया मण्डलिकया वा विभजनं विधीयताम् । “लुद्धस्स य सम्मता अक्ख" त्ति कस्यापि पुनर्लुब्धस्याक्षान् पातयित्वा वस्त्रविभजनमभिमतम् । एष सङ्ग्रहगाथासङ्केपार्थः॥ साम्प्रतमेनामेव विवरीपुराह[भा.४३२०] गेण्हंतु पूया गुरवो जदिटुं, सच्चं भणामऽम्ह वि एयदिटुं। अणुण्हसंवट्टियऽकक्कसंगा, गिण्हंतिजं अनि न तं सहामो॥ वृ-अहिण्डमानानां वस्त्रषु दीयमानेषु ये वस्त्रणामानेतारस्ते ब्रवीरन्-यद् ‘इष्टं' मनोऽनुकूलं वस्त्र गुरवो गृह्णन्ति तत् ते सकलगच्छस्वामितया पूज्या इति कृत्वा गृह्णन्तु, यद् गुरुणामुत्कृष्टं वस्तु दीयते तत् 'सत्यम्' अवितथमिति वयमपि भणामः, न केवलं वचसैव भणामः किन्तु मनसाऽप्यस्माकमेतदिष्टमेव, परमनुष्णेन-भिक्षापरिभ्रमणाभावादुष्णलगनाभावेनसंवर्तितानिवर्तुलीभूतानि अतएवाकर्कशानिअङ्गानि-पाणि-पाद-पृष्ठोदरप्रभृतीनियेषां तेऽनुष्णसंवर्त्तिताककशाङ्गा एवंविधाः सन्तो यद् ‘अन्ये' अहिण्डमानाःप्रथमं गृह्णन्ति न तद् वयं सहामहे ।। [भा.४३२१] आगंतुगमादीनं, जइ दायव्वई तो किणा अम्हे । कम्मारभिक्खुयाणं, गाहिज्जामो गइमसग्धं । वृ-आगन्तुकाः-उपसम्पत्तारस्तेषाम् आदिशब्दाद् ग्लानादीनां च यदि दातव्यानि वस्त्राणि ततः “किण" त्ति केन कारणेन वयं कर्मकारभिक्षुकाणां' देवद्रोणीवाहकभिक्षुविशेषाणां गतिम् Page #478 -------------------------------------------------------------------------- ________________ ४७५ उद्देशकः ३, मूलं-९५, [भा. ४३२१] 'अश्लाध्यां' निन्दनीयां ग्रह्यामहे ? । किभुक्तं भवति ? -'यदि नामास्मदानीतानां वस्त्राणामेते आगन्तुकादयः स्वामिभावं भजन्ते ततः किमेवं वयं देवद्रोणीवाहकभिक्षुकवद् मुधैव वस्त्राद्यानयनकर्म कार्यामहे ?' इति वस्त्राण्यानेतारश्चिन्तयेषुः । [भा.४३२२] विरिचमाणे अहवा विरिक्के, खोभं विदित्ता बहुगाण तत्थ । ओमेण कारिति गुरु विरेगं, विमज्झिमो जोव तहिं पडू य॥ वृ-एवं विरिच्यमाने' विभज्यमानेऽथवा 'विरिक्ते विभक्ते उपकरणे बहूनामनन्तरोक्तं क्षोभं विदित्वा यस्तत्र 'अवमः' सर्वेषामपि पर्यायलघुः यो वा विमध्यमोऽपि तत्र वस्त्रविभजने 'पटुः' कुशलस्तेन गुरवो विभजनं कारयन्ति । अथ कोऽपि लुब्ध एवमप्यपरितुष्यन् ब्रूयात्-आवलिकया मण्डलिकया वा वस्त्राणि विभज्यन्ताम् ततः को विधिः? इत्याह[भा.४३२३] आवलियाए जतिटुं, तं दाऊणं गुरुण तो सेसं। गेण्हंति कमेणेव उ, उप्परिवाडी न पूयेति॥ वृ-आवलिका नाम-ऋज्वायतश्रण्या वस्त्राणां व्यवस्थापनम्, तथा समभागीकृत्य वस्त्रेषु स्थापितेषु यद् इष्टं वस्त्रं तद् गुरुणां दत्त्वा शेषाणि यथारत्नाधिकं गृह्णन्ति यावदावलिका निष्ठामुपगच्छति। उत्परिपाट्या तु ग्रहणं न पूजयन्ति' न प्रशंसन्ति, तीर्थकरादय इति गम्यते ॥ [भा.४३२४] मंडलियाए विसेसो, गुरुगहिते सेसगा जहावुटुं । भाए समे करेत्ता, गेहंति अनंतर उभओ॥ वृ-मण्डलिकायामप्येवमेव, नवरं तस्यां विशेषोऽयमुपदर्श्यते-पूर्वं गुरुभिर्गृहीते ततः शेषाः 'यथावृद्धं' योयः पर्यायवृद्धस्तदनतिक्रमेण समान् भागान् कृत्वा 'उभयोरपि' आद्यन्तलक्षणयोः पार्श्वयोः 'अनन्तरम्' अव्यवहितं वस्त्राणि गृह्णन्ति। इयमत्र भावना-मण्डलिकया वस्त्रेषु स्थापितेषु प्रथममाचार्येण गृहीते ततो यः शेषाणां मध्ये रत्नाधिकः स मण्डलिकयाधुरि स्थापितंवस्त्रंगृह्णाति, अवमरालिकस्तुपर्यन्तस्थापितं-सर्वान्तिकम्, ततोऽपियोऽवमपर्यायः स धुरि स्थापितादनन्तरंगृह्णाति, तदपेक्षया लघुतरः पर्यन्तपार्थादुपान्त्यं गृह्णाति; एवं तावद् गृह्णन्ति यावद् मण्डलिका निष्ठिता भवति ।। एवमपि विभज्यमाने कोऽपि लोभाभिभूतमानसो ब्रूयात्-अक्षान् पातयित्वा यद् यस्य भागे समायाति तत् तस्य दीयताम्; एवं ब्रुवाणोऽसौ प्रज्ञापयितव्यः। कथम् ? इति चेद् उच्यते[भा.४३२५] जइ ताव दलंतऽगालिणो, धम्मा-ऽधम्मविसेसबाहिला । बहुसंजयविंदमज्झके, उवकलणे सि किमेव मुछितो॥ वृ-यदि तावदगारिणोधर्मा-ऽधर्मविशेषबाह्या अपि मूर्छा परित्यज्य साधूनामित्थमात्मीयानि वस्त्राणि "दलंति" प्रयच्छन्ति, तंतः ‘बहुसंयतवृन्दमध्यके' प्रभूतसाधुजनमध्यभागे त्वमेवैक उपकरणे क्रिमेवं सम्यक्परिज्ञातजिनवचनोऽपि मूर्छितोऽसि? नैतद्भवतो युज्यत इति भावः।। एवमप्युक्तो यद्यसौ नोपशाम्यति ततो वक्तव्यम्[भा.४३२६] अजो! तुमं चेव करेहि भागे, ततो नुघेच्छामो जहक्कमेणं । Page #479 -------------------------------------------------------------------------- ________________ ४७६ बृहत्कल्प-छेदसूत्रम् -२-३/९५ गिण्हाहि वा जंतुह एत्थ इट्ट, विनासधम्मीसु हि किं ममत्तं ॥ वृ-आर्य ! त्वमेव समान भागान कुरु, ततो यथाक्रमेण वयं ग्रहीष्यामः । यद्वा गृहाण यत् तवामीषां वस्त्राणांमध्ये 'इष्टम्' अभिरुचितम्, विनाशधर्मीणि हि-विनश्चरस्वभावानिवस्त्रादीनि वस्तूनि, अतः किं नाम तेषु ममत्वं विधीयते? ॥ अवमप्युक्तो यदि नोपरमते ततः को विधिः? इत्याह[भा.४३२७] तह वि अठियस्स दाउं, विगिचणोवहिए खरंटणया। अक्खेसु होति गुरुगा, लहुगा सेसेसु ठाणेसु ॥ वृ-तथाप्यस्थितस्यतस्य तद्अभीष्टं वस्त्र दत्त्वा विवेचनं कर्त्तव्यम्, 'निर्गच्छ मदीयाद्गच्छात्' इति भणनीयमिति भावः । ततो यदिभूयोऽप्युपति-मिथ्यामे दुष्कृतम्, नपुनरेवंविधासयामीति; ततः 'खरण्ट ना' वक्ष्यमाणा कर्तव्या, प्रायश्चित्तं च दातव्यम् । किम् ? इत्याह-'अक्षेषु गुरुका भवन्ति' योब्रवीति अक्षान् पातयित्वा विभजत' तस्य चतुर्गुरुकम्। 'शेषेषुस्थानेषु क्षोत्रकरणाऽऽवलिका-मण्डलिकाविभाजनलक्षणेषु चतुर्लघुकम् ॥ अथ खरण्टनामुपदर्शयति[भा.४३२८] हिरन-दारं पसु-पेसवग्गं, जदा व उज्झित्तु दभे ठितो सि। किलेसलद्धेसु इमेसु गेही, जुत्ता न कत्तुं तव खिंसणेवं ।। वृ- हिरण्यं च-सुवर्णं दाराश्च-कलत्रं हिरण्य-दारम्, पशवश्च-गो-महिषीप्रभृतयः प्रेष्याश्चकर्मकरास्तेषां वर्ग-समूहः, तमेवमादिकं परिग्रहं 'उज्झित्वा' तृणवत् परित्यज्य यदा किल त्वमेवंविधे 'दमे' संयमे स्थितोऽसि तदा साम्प्रतमेषु वस्त्रषु ‘क्लेशलब्धेषु' प्रभूतगृहपरिभ्रमणादिप्रयासप्राप्तेषु तव गृद्धि कर्तुं न युक्ता । एवं खिंसना तस्य कर्तव्या॥ [भा.४३२९] सम्मं विदित्ता समुवट्ठियं तु, थेरा सि तं चेव कदाइ देज्जा । अनेसि गाहे बहुदोसले वा, छोटूण तत्थेव करिति भाए॥ वृ-'सम्यग्' अपुनः करणेन समुपस्थितं विदित्वा ‘स्थविराः' सूरयः कदाचित् तस्यैव तद्' वस्त्रं दधुः । अथान्येषामपि बहूनां तद्वस्त्रग्रहणे ‘ग्राहः' महान् निर्बन्धः, “बहुदोसले वा' प्रभूतदोषवानसौ संयतो बहुभिः सह द्वेषवान्-विरोधविधायी यः स बहुद्वेषवानिति वा, ततस्तस्य दीयमानेऽन्येषां महदप्रीतिकमुपजायते; एवंविधं कारणं विचिन्त्य 'तत्रैव' तेषु वस्त्रषु मध्ये प्रक्षिप्य एकसहशान् भागान् कुर्वन्ति, ततो यथारत्नाधिकं गृह्णन्ति ॥ ___ एवं तावदनेकैरानीतानां वस्त्राणां परिभाजने विधिरुक्तः, अथ क्षपकेणानीतानां तेषामेव विधिमभिधित्सुराह[भा.४३३०] खमए लभ्रूण अंबले, दाउ गुलूण य सो वलिट्ठए । बेइ गुलु एमेव सेसए, देह जईण गुलूहिं वुच्चई। [भा.४३३१] सयमेव य देहि अंबले, तवजे लोयइ इत्थ संजए। इइ छंदिय-पेसिओ तहिं, खमओ देइ लिसीण अंबले ॥ वृ.कोऽपि क्षपकः कुत्रापि भावितकुलादौ ‘अम्बराणि' वस्त्राणि लब्ध्वा यानि 'वरिष्ठानि' सर्वप्रधानानि वासांति तानि गुरुणां दत्त्वा ततो गुरुं ब्रवीति-एवमेव शेषाण्यपि मदानीतानि Page #480 -------------------------------------------------------------------------- ________________ उद्देशक : ३, मूलं- ९५, [भा. ४३३१] वस्त्राणि यतीनां प्रयच्छत । ततो गुरुभिरसावुच्यते स्वयमेव त्वमभूनि अम्बराणि देहि यस्तवात्र संयतः 'रोचते' वस्त्रदानयोग्यतया रुचिगोचरीभवति । 'इति' अमुना प्रकारेण 'छन्दित-प्रेषितः ' पूर्वं छन्दितः यस्य रोचते तस्मै दातव्यानीत्येवमनुज्ञातच्छन्दः ततः प्रेषितः मुत्कलितः सन् स क्षपकस्तत्रावसरे ऋषीणामम्बराणि प्रयच्छति । इह सर्वत्रापि रकारस्य लकारादेशः 'र-सोर्ल-शौ' इति मागधमाषालक्षणवशात् ॥ ततश्च [भा. ४३३२] खमएण आनियाणं, दिज्जंतेगस्स वारणावयणं । गहणं तुमं न याणसि, वंदिय पुच्छा तओ कहणं ॥ वृ-क्षपकेणानीतानां तेनैव दीयमानानां वस्त्राणम् 'एकस्य' कस्यचिद् लुब्धस्य वारणावचनम्, 'एवममीषां रत्नाधिकानां दीयमानानि मां यावद् न समागमिष्यन्ति' इति बुद्ध्या वस्त्रग्राहकसाधून् 'मा आर्याः ! गृह्णीध्वम्' इत्येवं कोऽपि निवारितवानिति भावः । ततः क्षपकः प्राह-किं मदीयानि वस्त्राणि न गृह्यन्ते ? इतरः प्राह-ग्रहणमेव तावत् त्वं न जानीषे । क्षपको ब्रवीत - जानामि । इतरो भणति यद्येवं ततः कीदृशम् ? । क्षपक आह-वन्दित्वा विनयेन पृच्छ येनाहं कथयामि । ततस्तेन क्षपको वन्दित्वा पृष्टः सन् कथयितुमारब्धवान् ।। [भा. ४३३३] तिविहं च होइ गहणं, सच्चित्ताऽचित्त मीसगं चेव । एएसिं नाणत्तं वोच्छामि अहानुपुब्बीए ॥ वृ-त्रिविधं च भवति ग्रहणम्, तद्यथा-सचित्तग्रहणमचित्तग्रहणं मिश्रग्रहणं चेति । एतेषां त्रयाणामपि नानात्वं यथाऽऽनुपूर्व्या वक्ष्यामि ॥ तत्र सच्चित्तग्रहणं तावदाह ४७७ [भा. ४३३४] सच्चित्तं पुन दुविहं, पुरिसाणं चेव तह य इत्थीणं । एक्केकं पि य इत्तो, पंचविहं होइ नायव्वं ॥ वृ- सचित्तग्रहणं पुनर्द्विविधम्, तद्यथा - 'पुरुषाणां च ' आचार्यादीनां 'स्त्रीणां च' प्रवर्त्तिनीप्रभृतीनाम् । एकैकमपि 'इतः' मूलभेदापेक्षया 'पञ्चविधं' वक्ष्यमाणनीत्या पञ्चप्रकारं भवति ज्ञातव्यम् ॥ कुतः पुनस्तेषां पुरुषाणां स्त्रीणां वा ग्रहणं क्रियते ? इत्याह [भा. ४३३५ ] उदगाऽगनि तेनोमे, अद्धाण गिलाण सावय पदुट्ठे । तित्थानुसज्जणाए, अइसेसिगमुद्धरे विहिणा ।। वृ- उदके वाहकेन आचार्यादयो नेतुमारब्धाः, “अगनि” त्ति महानगरप्रदीपनके वा दाहस्तैषां समुपस्थितः, “तेन” त्ति शरीरस्तेना आचार्यादीन् व्यपरोपयितुमिच्छन्ति, अवमं- दुर्भिक्षं तत्र भक्त-पानलाभाभावात् प्राणसंशयस्तेषामुपतस्थे, अध्वा नाम-छिन्नापातं महदरण्यं तं प्रपन्नानामपान्तराले बुभुक्षा-परिश्रमादिभिरग्रतो गन्तुमशक्नुवतां जीवितं संशयतुलामधिरुढम्, “गिलाण " त्तिशूल - विष - विशुचिकादिकमागाढग्लानत्वमुदपादि, श्चापदाः सिंहव्याघ्रादयस्तैरुपद्रोतुमारब्धोः, प्रद्विष्टः प्रद्वेषमापन्नो राजा साधूनां प्राणापहारं कर्तुमभिलषति। एतेष्वागाढकारणेषु 'तीर्थानुषजनायै' तीर्थस्याव्यवच्छेदेनानुवर्त्तनाय योऽतिशानी - विशिष्टपात्रभूतः प्रवचनाधारः पुरुषस्तं 'विधिना' वक्ष्यमाणनीत्या समुद्धरेत् ॥ Page #481 -------------------------------------------------------------------------- ________________ ४७८ बृहत्कल्प-छेदसूत्रम् -२-३/९५ अथ यदुक्तम्-‘एकैकं पञ्चविधं ग्रहणं भवति' तत्र पुरुषविषयं तावदाह[भा.४३३६] आयरिए अभिसेगे, भिक्खू खुढे तहेव थेरे य। गहणं तेसिं इणमो, संजोगगमंतु वोच्छामि ॥ वृ-'आचार्य' गच्छाधिपति अभिषेकः' सूत्रा-ऽर्थ-तदुभयोपेतआचार्यपदस्थापनाह 'भिक्षुः' प्रतीतः क्षुल्लकः' बालः 'स्थविरः' वृद्धः, एतेषांपञ्चानामपि ग्रहणम् इदम् अनन्तरमेव वक्ष्यमाणं 'संयोगगम' संयोगतो गमाः-प्रकारा यस्य तत् तथा वक्ष्यामि॥ प्रतिज्ञातमेव निर्वाहयति[भा.४३३७] सब्वे वितारणिज्जा, संदेहाओ परक्कमे संते। - एकेकं अवणिज्जा, जाव गुरू तत्थिमो भेदो॥ वृ- 'पराक्रमे' शक्ती सत्यां 'सर्वेऽपि' आचार्यादयः ताशात् ‘सन्देहाद्' नध्याधुदकनिमज्जनलक्षणा तत् तारणीयाः। अथ नास्ति ताशः पराक्रमस्ततः स्थविरवर्जाश्चत्वारस्तारणीयाः, तत्राप्यशक्ती क्षुल्लक-स्थविरवर्जास्त्रयः, तत्राप्यसामर्थ्य आचार्या-अभिषेकौ द्वौ, तत्राप्यशक्ती एक एव आचार्यस्तारयितव्यः। आह च-“एकेकं" इत्यादि, सर्वान् तारयितुमशक्तौ स्थविरादिक-मेकैकमपनयेद् यावद् 'गुरु' आचार्य । तत्र चायं वक्ष्यमाणो भेदो भवति॥ [भा.४३३८] तरुणे निष्पन्न परिवारे, सलद्धिए जे यहोति अब्मासे। . अमिसेगम्मिय चउरो, सेसाणं पंचचेव गमा॥ वृ-इह द्वावाचार्यो-एकस्तरुणोऽपरः स्थविरः । यद्यस्तिशक्तिस्ततो द्वावपि तारणीयौ । अथ नास्तिततस्तरुणो निस्तारणीयः । अथ द्वावपितरुणौततोयस्तयोः निष्पन्नः सम्यक्सूत्रार्थकुशलः स तारयितव्यः । अथ द्वावपि निष्पन्नावनिष्पन्नौ वा ततो यः सपरिवारः स तारणीयः । अथ द्वावपिसपरिवारावपरिवारौवा ततोयातत्र 'सलब्धिकः' लब्धिसम्पन्नस्तंतारयेत्। अथ द्वावपि सलब्धिकावलब्धिको वा ततो यः 'अभ्यासे' आसन्ने स्थितः स निस्तारणीयः । अत्रायं विशेषसम्प्रदायः-द्वयोरभ्यासस्थितयोर्यस्तरीतुमशक्तः स तारणीयः । एवमेते आचार्यस्य पञ्च गमा अभिहिताः । अभिषेकस्तु नियमाद् निष्पन्नो भवति, अन्यथा तत्त्वत आचार्यपदस्थापनायोग्यत्वानुपपत्तेः । ततस्तस्मिन्नभिषेके निष्पन्ना-ऽनिष्पन्नगमाभावात् शेषाश्चत्वारोगमाएवमेव वक्तव्याः। शेषाणां भिक्षु-क्षलक-स्थविराणां पञ्चापिगमा भवन्ति, ते चाचार्यवद वक्तव्याः। नवरं बालस्य निष्पन्नता श्री वज्रस्वामिन इव भावनीया, तरुणता तु प्रथमकुमारत्वे वर्तमानस्यावसातव्या । एवं स्थविरस्यापिजघन्यवृद्धत्वे वर्तमानस्यतरुणता, शेषस्यतुवृद्धतामन्तव्या। त्रयाणामपिच भिक्षुप्रभृतीनांपरिवारोगुरुप्रदत्तोमाता-पितृ-भातृ-भगिनीप्रभृतिप्रव्रजितस्वजनवर्गो वा द्रष्टव्यः॥ अथ स्त्रीविषयं पञ्चविधं ग्रहणमुपदर्शयति[भा.४३३९] पवत्तिनि अभिसेगपत्ता, थेरी तह भिक्खुणी यखुड्डीय। गहणंतासिं इणमो, संजोगक(क)मंतुवोच्छामि॥ वृ-'प्रवर्तिनी' सकलसाध्वीनां नायिका, ‘अभिषेकप्राप्ता' प्रवर्तिनीपदयोग्या, 'स्थविरा' Page #482 -------------------------------------------------------------------------- ________________ उद्देशक : ३, मूलं-९५, [भा. ४३३९] ४७९ वृद्धा, "भिक्षुणी' प्रतीता, 'क्षुल्लीका' बाला । एतासां पञ्चानामपि ग्रहणम् इदम्' अनन्तरमेव 'संयोगगमं' संयोगतोऽनेकप्रकारं वक्ष्यामि। यथाप्रतिज्ञातमेवाह[भा.४३४०] सव्वा वि तारणिज्जा, संदेहाओ परक्कमे संते। एक्केवं अवणिज्जा, जा गणिणी तत्थिमो भेदो। [भा.४३४१] तरु निष्फन परिवारा, सलद्धिया जा यहोइ अब्मासे । अभिसेगाए चउरो, सेसाणं पंच चेव गमा।। वृ-इदंगाथाद्वयं साधुगतगाथाद्वयमिव व्याख्येयम् ।। परःप्रेरयन्नाह[भा.४३४२] बाला य वुड्डा य अजंगमा य, लोगे वि एते अनुकंपणिज्जा । सव्वानुकंपाए समुज्जएहिं, विवजओऽयं कहमीहितो मे। कृ-बालाश्च वृद्धाश्चाजङ्गमाश्चेति लोकेऽपि तावदेतेऽनुकम्पनीया इष्यन्ते, अतः सर्वेषामपि निर्विशेषमनुकम्पायांसमुद्यतैः कथमयं “भे" भवद्भिः विपर्ययः' वैपरीत्यम् ईहितम्' अङ्गकृतम्? यदेवंबाल-स्थविरीपरित्यज्य आचार्यादयो निस्तार्यन्ते, वृद्धवाऽजकममाचार्यविमुच्य तरुणस्तायते ।। पर एव प्रत्युत्तरमाशय परिहरनाह[भा.४३४४] जइ बुद्धी चिरजीवी, तरुणो थेरो य अप्पसेसाऊ । सोवक्कमम्मि देहे, एवं पिन जुज्जए वोत्तं ॥ वृ-'यदि' इतिअथशब्दार्थे, अथैव भवतांबुद्धि स्यात्-'चिरजीवी' प्रभूतवर्षजीवितस्तरुणः, स्थविरः पुनः 'अल्पशेषायुः' स्तोकावशेषायुष्कः, अतः स्थविरं विमुच्य तरुणं तारयामः, एतदप्यसमीचीनम् । कुतः? इत्याह-'सोपक्रमे अध्यवसान-निमित्तादिभिरायुष्कोपक्रमकारणैः सप्रत्यपाये देहे सति “एतदपि' चिरजीवितादिकं वक्तुं न युज्यते॥ [भा.४३४] अवि यहुअसहू थेरो, पयरेजियरो कदाइ संदेहं । ओरालमिदं बलवं, जंघेपइ मुच्चई अबलो। वृ-'अपिच' इत्यभ्युच्चये, 'हुः' निश्चये।स्थविरोवृद्धत्वादेव 'असहिष्णुः' नतरीतुंशक्नोति, 'इतरस्तु' तरुणः समर्थतया कदाचित्स्यमेव 'सन्देहम्' उदकवाहकहरणरूपंप्राणसन्देहकारणं प्रतरेत्, अतः ‘उदारं परिस्थूरम् इदं' भवदीयंवचनम्-यद् बलवान्' तरुणो गृह्यते 'अबलस्तु' स्थविरो मुच्यते॥ इत्थं परेणोक्ते सूरिराह[भा.४३४५] आय-परे उवगिण्हइइ, तरुणो थेरो उ तत्थ भयणिजो। अनुवक्कमे वि थेवो, चिट्ठइ कालो उथेरस्स॥ - तरुण आचार्यादरपूर्वसूत्रा-ऽर्थग्रहण-तपःकर्मकरणादिना वस्त्र-पात्रादिसम्पादनसूत्रार्थप्रदानादिना वाऽऽत्मानं परांश्चोपगृह्णाति।स्थविरस्तुतत्राऽऽत्म-परोपग्रहकरणेभजनीयः, कदाचित्तंकर्तुसमर्थकदाचिच नेति भावः । तथा 'अनुपक्रमेऽपि' आयुष उपक्रममन्तरेणापि स्थविरस्य स्तोक एव कालोऽवशेषस्तिष्ठति, तरुणस्य तु सोपक्रमायुषोऽपि स्तोको वा भवेद् द्राधीयान् वा, ततः “सोवक्कमम्मि देहे" इत्यादि त्वदुक्तं यत्किञ्चि देतत्॥ Page #483 -------------------------------------------------------------------------- ________________ बृहत्कल्प-छेदसूत्रम् - २-३/९५ अथ यदुक्तम् 'बाल-वृद्धादयो लोकेऽप्यनुकम्पनीयाः' ति तत्परिहाराय लौकिकमेव दृष्टान्तमाह[ भा. ४३४६] दुग्धासे खीरवती, गावी पुस्सइ कुटुंबभरणट्ठा । मोतु फलदं च रुक्खं, को मंदफला - Sफले पोसे ॥ ४८० वृ-दुर्ग्रासं दुर्भिक्षं तत्र यथा 'क्षीरवती' भूग्नि मतुप्रत्ययविधानाद् बहुक्षीरा गौः कुटुम्बभरणार्थं 'पोष्यते' चारीप्रदानादिना पुष्टिं नीयते, एवमस्माकमपि य आचार्यादिस्तरुणादिगुणोपेततयाऽऽत्मनः परेषां चोपग्रहं कर्तुं समर्थ स निस्तार्यते । तन्निस्तारणे हि बहूनां बाल-वृद्धादीनामपि तदाश्रितानामनुकम्पा कृता भवति । अथ तं परित्यज्य क्षुल्लक- स्थविरादिस्तस्या आपदस्तार्यते ततो बहवो बालादयस्तदाश्रिताः परित्यक्ता भवन्ति । अपि च- 'फलदं' प्रभूतफलदायिनं वृक्षं मुक्त्वा को नाम मन्दफलान् अफलान् वा वृक्षान् 'पुष्णीयात् ' सारणीसलिलसेचनादिना पुष्टिं प्रापयेत् ? न कोऽपीत्यर्थः । उपनययोजना प्राग्वद् द्रष्टव्या ॥ उक्तं सचित्तग्रहणम् । अथ मिश्रग्रहणमाह [भा. ४३४७] एमेव मीसए वी, नेयव्वं होइ आनुपुव्वीए । वोच्चत्थे चउगुरुगा, तत्थ वि आणाइणो दोसा ।। वृ- एवमेव मिश्रविषयमपि ग्रहणम् ' आनुपूर्व्या' आचार्य - प्रवर्त्तिन्यादिपरिपाट्या ज्ञातव्यं भवति । अथ यथोक्तक्रममुल्लाय विपर्यासेन पुरुषाणां स्त्रीणां वा ग्रहणं करोति ततश्चतुर्गुरुकाः । तत्रापि चाज्ञादयो दोषा भवन्ति ॥ अथ मिश्रग्रहणं कीशं प्रतिपत्तव्यम् ? इति उच्यते [भा. ४३४८] मीसगगहणं तत्थ उ, विनिवाओ जो सभंड- मत्ताणं । अहवा विमीयं खलु, उभओक्खऽच्चओ घोरो ॥ वृ- इह यः 'सभाण्ड - मात्राणां' पात्र मात्रकाद्युपकरणसहितानां साधूनां साध्वीनां वा 'विनिपातः' उदकवाहके निमज्जनं ‘तत्र' तद्विषयं यद् ग्रहणं तद् मिश्रग्रहणमुच्यते । अथवा यद् उभयोरपिसाधु-साध्वीलक्षणयोः पक्षयोः 'घोरः' रौद्रो युगपदुदकवाहकेनापहरणलक्षणः 'अत्ययः’ प्रत्यपायस्ततो यद् ग्रहणं तद् मिश्रग्रहणमिति मन्तव्यम् ॥ अथामुमेव द्वितीयव्याख्यानपक्षमङ्गीकृत्य निस्तारणविधिमाह[भा. ४३४९ ] सव्वत्थ वि आयरिओ, आयरियाओ पवत्तिनी होइ । तो अभिसेगप्पत्तो, सेसेसु तु इत्थिया पढमं ॥ वृ- द्वयोरपि पक्षयोरुदकेन ह्रियमाणयोर्यद्यस्ति शक्तिस्ततो युगपद् निस्तारणं कार्यम् । अथ नास्ति युगपद् निस्तारणसामर्थ्य ततः सर्वत्रापि प्रथममाचार्यो निस्तारणीयः । आचार्यानन्तरं प्रवर्त्तिनी तारयितव्या भवति । 'ततः' प्रवर्त्तिन्या अनन्तरमभिषेकपदप्राप्तः । ततः 'शेषेषु तु' भिक्षुप्रभृतिषु पदेषु प्रथमं स्त्री निस्तारयितव्या, ततः पुरुषः । तथाहि भिक्षु भिक्षुण्योर्मध्ये प्रथमं भिक्षुणी ततो भिक्षुस्तारणीयः, क्षुल्लक - क्षुल्लिकयोर्मध्ये प्रथमं क्षुल्लिका ततः क्षुल्लकः, स्थविर - स्थविरयोः प्रथमं स्थविरा ततः स्थविर इति ॥ अथ किमर्थमेषु प्रथमं स्त्र निस्तार्यते ? इत्याह[ भा. ४३५० ] अन्नस्स वि संदेहं दद्धुं कंपंति जा लयाओ वा । 1 Page #484 -------------------------------------------------------------------------- ________________ ४८१ - उद्देशक : ३, मूलं-९५, [भा. ४३५०] अबलाओ पगइभयालुगाउ रक्खा अतो इत्थी। -'अन्यस्यापि' पुरुषादेः 'सन्देहम्' आपदं दृष्ट्वायाः स्त्रयः पवनसम्पर्कतोलताइव कम्पन्ते, याश्चाबलाः प्रकृत्या-स्वभावेनैवच "भयालुयाउ"त्तिभयबहुलाः,अतस्ताः स्त्रयः प्रथमंरक्षणीयाः॥ आह-साधु-साध्वीनां निस्तारणे किमेष एवाचार्य-प्रवर्त्तिन्यादिकःक्रमः? उतान्यथाऽप्यस्ति? उच्यते-अस्तीति ब्रूमः। तथा चाह[भा.४३५१] जं पुन संभावेमो, भाविणमहियममुकातो वत्यूओ। तत्थुक्कम पि कुणिमो, छेओदइए वणियभूया ॥ - 'यं पुनः' क्षुल्लकादिकमपि 'अमुकाद्' आचायदिर्वस्तुनः सकाशात् प्रवचनप्रभावनादिभिर्गुणैः ‘अधिकं' सातिशयं 'भाविनं' भविष्यन्तं सम्भावयामः तत्र वयम् ‘उक्रममपि' यथोक्तक्रमोल्लकनमपि कुर्मह, क्षुल्लकादिकमपि प्रथमं तारयाम इत्यर्थः । कथम्भूताः ? इत्याहछेदश्च-व्यय औदयिकश्च-लाभःछेदौदयिकंतत्र वणिग्भूताः सन्तः । किमुक्तंभवति?-यथावणिग् यदेव प्रभूतलाभमल्पव्ययं वस्तु तस्य ग्रहणं करोति, एवं वयमपि यत्र विशिष्टपात्रभूते वस्तुनि गृहीतेप्रवचनप्रभावना-तीर्थाव्यवच्छेदादिको भूयान्लाभः समुज्जम्भते स्वल्पश्चेतरपरित्यागलक्षणो व्ययः तं क्षुल्लकादिकमपि गृह्णीम इति ॥ एवं तातदुदकविषयं ग्रहणमभिहितम्, अथाग्नि-स्तेनादिविषयं तदेवातिदिशन्नाह- . [भा.४३५२] अगनी सरीरतेने, ओमऽद्धाणे गिलाणमसिवे य । .. सावयभय राभए, जहेव आउम्मि गहणं तु॥ वृ-अग्निसम्भ्रमे शरीरस्तेनभये अवमे अध्वनि ग्लानत्वे अशिवे श्वापदभये राजभये च यथैवाप्काये ग्रहणमभिहितं तथैवैतेष्वपि सचित्त-मिश्रभेदाद् द्विविधमपि वक्तव्यम् ।। अथाचित्तग्रहणमभिधित्सुराह[भा.४३५३] अचित्तस्स उ गहणं, अभिनवगहणंपुराणमहणंच। उवठावणाए गहणं, तह य उवठ्ठाविए गहणं ।। वृ-अचित्त-वस्त्र-पात्रादिकमुपकरणं तस्य ग्रहणं द्विधा-अभिनवग्रहणं पुराणग्रहणं च । तत्राभिनवं-प्रथममेव यद् वस्त्रादेग्रहणंतदभिनवग्रहणम्, पुराणस्य-प्राग्गृहीतस्य चोलपट्टकादेः कूपरादिना ग्रहणं पुराणग्रहणम् । तच्च द्विधा-उपस्थापनायां ग्रहणम् उपस्थापिते ग्रहणं च । तत्रोपस्थापनायां विधीयमानायां हस्तिदन्तोन्नवकारहस्तादिभिर्यद् रजोहरणादि गृह्यते तद् उपस्थापनाग्रहणम् । उपस्थापितस्य-छेदपस्थापनीयचारित्रं प्रापितस्य यद् उपधेर्धारणं परिभोगो वा तद् उफस्थापितग्रहणम्॥ एनामेव गाथां व्याख्यानयति[भा.४३५४] ओहे उवग्गहम्मिय, अभिनवगहणंतु होइ अच्चित्ते। _ इयरस्स वि होइ दुहा, गहणंतुपुराणउवहिस्स ।। दृ-अचित्तस्य वस्त्र-पात्रादेरभिनवग्रहणं द्विधा-ओघोपधिविषयम् औपग्रहिकोपधिविषयं च । 'इतरस्यापि' पुराणोपधेर्ग्रहणं द्विधा, उपस्थापनाग्रहणमुपस्थापितग्रहणं चेत्यर्थः ।। 1931 Page #485 -------------------------------------------------------------------------- ________________ ४८२ . बृहत्कल्प-छेदसूत्रम् -२-३/९५ अथवा अभिनवग्रहणमिदमनेकविधम्[भा.४३५५] जायण निमंतणुवस्सय, परियावन्नं परिढविय नटुं। पम्हट्ट पडिय गहियं, अभिनवगहणं अनेगविहं॥ वृ-याच्या-अवभाषणम्, निमन्त्रणा-गृहस्थानामभ्यर्थना, तत्पुरस्सरं यद् वस्त्रादेर्ग्रहणम्, यचोपाश्रये 'पर्यापन्नस्य' पथिकादिभिर्विस्मृत्यापरित्यक्तस्य वस्त्रादेग्रहणम्, यच्च परिष्ठापितस्य भूयः कारणे ग्रहणम्, एवं 'नष्टं' हारितं “पम्हुटुं" विस्मृतं 'पतितं' हस्तात् परिभ्रष्टं 'गृहीतं' प्रत्यनीकेन बलादाच्छिद्य स्वीकृतम्। एतेषांपुनर्लब्धानां यद् ग्रहणमेवमादिकमनेकविधमभिनवग्रहणं मन्तव्यम्॥ अथ याच्या-निमन्त्रणाग्रहणयोर्विधिमतिदिशन्नाह[भा.४३५६] जो चेव गमो हेट्ठा, उस्सग्गाई वनिओ गहणे। दुविहोवहिम्मि सो चिय, कास त्ति य किं ति कीस त्ति ॥ वृ-य एव ‘गमः' प्रकारः ‘अधस्तात्' पीठीकायाम् उत्सर्गादिको वस्त्रग्रहणविषयो वर्णितः स एवात्र द्विविधोपधेः' ओधिकौपग्रहिकलक्षणस्य ग्रहणे 'कस्य सत्कमेतद् वस्त्र-पात्रादिकं पूर्वमासीद् ? भविष्यति वा? कस्माद्वा प्रयच्छसि?' इति पृच्छात्रयपरिशुद्धोद्रष्टव्यः । उपाश्रयपर्यायपन्नवस्त्रादिग्रहणविषयस्तु विधिरिहैवोद्देशके पुरस्तादभिधास्यते । परिष्ठापितादेस्तु यथा कारणतो भूयोऽपि ग्रहणं क्रियते तथा व्यवहाराध्ययने मणिष्यते॥ गतमभिनवग्रहणम्।अथ पुराणग्रहणम्, तच्च द्विधा-उपस्थापनाग्रहणंउपस्थापितग्रहणंच। तत्राद्यं तावदाह[भा.४३५८] कोप्परपट्टगगहणं, वामकराणामियाए मुहपोत्ती। रयहरण हत्थिदंतुन्नएहि हत्थेहवुट्ठाणं॥ वृ-कूपराभ्यां चोलपट्टकस्य ग्रहणं कृत्वा वामकरसत्कयाऽनामिकया मुखपोतिकां गृहीत्वा रजोहरणं हस्तिदन्तोन्नताभ्यांहस्ताभ्यामादायोपस्थापनकर्तव्यम्, शैक्षस्यव्रतस्थापना विधेयेत्यर्थः॥ अथोपस्थापितग्रहणमाह[भा.४३५८] उवठावियस्स गहणं, अहभावे चेव तह य परिभोगे। एककं पायादी, नेयव्वं आनुपुवीए॥ ' -उपस्थापितस्य यद्उपकरणग्रहणंतद्विधा-यथाभावः परिभोगश्च। अनेन चद्विविधेनापि ग्रहणेनैकैकं पात्रादिकम् 'आनुपू' परिपाट्या नेत्वयं ग्रहीतव्य ॥ इदमेव भावयति[भा.४३५१] पडिसामियं तु अच्छइ, पायाईएस होतऽहाभावे। . सहव्व पाण भिक्खा निल्लेवण पाय परिभोगो॥ इयत् पात्रादिकं 'प्रतिस्वामित' विवक्षितसाधुलक्षणेन स्वामिना प्रतिगृहीतं सद् आस्ते न तदानीं परिभुज्यतेएषयथाभावो भवति, स्वपरिग्रहेधारणमित्यर्थः।परिभोगोनामयत् पात्रादि यस्यां वेलायां परिभुज्यते तत्र सत्-शोभनमाचार्यादिप्रायोग्यं यद् द्रव्यं यच्च पानकं मैक्षं चात्मनो योग्यंतत्पात्रेगृह्यतेनिर्लेपनंच-आचमनंच तेन विधीयतेएषपात्रस्यपरिभोगः ।इहचपात्रशब्देन Page #486 -------------------------------------------------------------------------- ________________ ४८३ उद्देशकः ३, मूलं-९५, [भा. ४३५९] प्रतिग्रहो मात्रकं वा गृहीतम् । तथा[भा.४३६०]पाणदय सीयमत्युय, पमज्ज चिलिमिलि निसिज कालगते। __. गेलन्न लज्ज असहू, छेअण सागारिए भोगो।। दृ-वर्षाकल्पादिकं 'प्राणिदयार्थम्' अकायादिजीवरक्षानिमित्तं परिभोक्तव्यम् । कल्पत्रयं शीतरक्षार्थम् । संस्तारकोत्तरपट्टको आस्तरणमास्तृतं तदर्थम् । रजोहरणंचप्रमार्जनार्थं गृह्यते। चिलिमिलिका ज्योतिशाला-दकतीरादावुपयुज्यते।रजोहरणस्यनिषद्याद्वयंनिषदनार्थमादीयते। "कालगए"त्ति कालगतस्याच्चादनार्थं नन्तकादिकं गृह्यते । ग्लानत्वं वा कस्यापि सजातं सः अप्रावृतः सुखेनास्तामिति कृत्वा तस्याग्रे चिलिमिलिका दीयते । “लज्ज"त्ति लज्जाव्यपगमार्थ चोलपट्टकः परिभुज्यते । “असहु"त्ति राजादिप्रव्रजिता असहिष्णवः ते कल्पादिकं प्रावृणीयुः। "छेदन"त्तिनखहरणिका-पिप्पलकादिनानखप्रलम्बादीनां छेदनं क्रियते। “सागारिए"त्ति शैक्षस्य त्ति नखहरणिका-पिप्पलकादिना नखप्रलम्बादीनां छेदनं क्रियते । “सागारिए"त्ति शैक्षस्य सज्ञातकानां सागारिकं ततः कल्पादिकं प्रावार्य प्रच्छन्ने स्थाप्यते । एवमादिकः सर्वोऽपि यथायोगमौधिकस्यौपग्रहिकस्य चोपधेः परिभोगो मन्तव्यः ।। उक्तं पुराणग्रहणम्।तदुक्तौ च समर्थितमचित्तग्रहणम् । एवं क्षपकेण त्रिविधे ग्रहणे प्ररूपिते सति इतरः प्राह[भा.४३६१] उवरिं कहेसि हिट्ठा, न याणसी वयणं न होइ एवं तु । चतुरो गुरुगा पुच्छा, नासेहिसितं जहा वेजो। वृ- यद् उपरि कथयितुं योग्यं तत् त्वम् ‘अधस्तात्' पूर्वं कथयसि । इयमत्र भावना-यद् भवता प्रथममेवाचार्यादिविषयं पुराणसचित्तग्रहणमभिहितं तदशैक्षलक्षणाभिनवसचित्तग्रहणप्ररूपणादूर्ध्व प्ररूपयितुं योग्यमासीत्, अभिनव-पुराणपर्याययोः पूर्व-पश्चात्कालभावित्वेन भावात; तस्य चाभिनवसचित्तगर्हणस्य भवताप्ररूपणैवनकृता, अत एवनजानासि ग्रहणस्वरूपम्। यथा च “वन्दित्वा विनयेन पृच्छ' इत्येवमहकारदूषितं वचनं त्वयोक्तम् एवमभिधियमानं न भवति, सतां पूजनीयमिति वाक्यशेषः। एवंचब्रुवाणस्य भवतश्चत्वारोगुरुकाः।क्षपकः पृच्छतिकिमत्र मम झूणमापतितं येनैवं प्रायश्चित्तं ? । इतरः प्राह-त्वं पल्लवग्राहितया सम्यक् सिद्धान्ताभिप्रायमविज्ञाय जल्पसि । एवं च प्रज्ञापयन् त्वमात्मना नष्टोऽन्यानपि नाशयिष्यसि, यथा स प्रथमोद्देशकमणितो वैद्यः पूर्वाह्ने वमनं दद्यादपराह्ने विरेचनम् । वातिकेष्वपि रोगेषु, पत्यमाहर्विशोषणम्॥ इति श्लोकमात्रं गृहीत्वा चिकित्सां कुर्वन् विनष्टः एवं भवानपीति चिरनतनगाथासमासार्थः । अथैनामेव किश्चिद् विवृणोति[भा.४३६२] वयणं न वि गव्वमालियं, एलिसयं कुलसेहि पूजियं। अहवा न वि एत्थ लूसिमो, पगई एस अजानुए जने ॥ वृ. इतरः क्षपकं ब्रूते-'ईशं' 'मां वन्दित्वा विनयेन पृच्छ' इत्येवंरूपं 'गर्वभारितम्' । अहङ्कारभारगुरुकं वचनं 'कुशलैः' विद्वद्भिः 'न पूजितं' नश्लाधितम्, अतो नैव भवतो वक्तुं युज्यते । अथवा नाप्यत्र वयं 'रुष्यामः' रोषं कर्तुमर्हामः । कुतः ? इत्याह-'अज्ञे' मूर्खे जने Page #487 -------------------------------------------------------------------------- ________________ ४८४ - - बृहत्कल्प-छेदसूत्रम् -२-३/९५ प्रकृतिरेषा यत् तथाविधज्ञानविकलोऽप्येष औद्धत्यमुद्वहति ।।क्षपकः प्राह[भा.४३६३] मूलेण विना हु केलिसे, तलु पवले य घने य सोभई। न य मुलविभिन्नए घडे, जलमादीणि धलेइ कुण्हुई। कृ-मूलेन विना 'तरु' वृक्षः चशब्दावपिशब्दार्थो, 'प्रवरोऽपि प्रधानोऽपिसहकारादिरपीत्यर्थः, 'घनोऽपि' पत्रबहलोऽपिकीशःशोभते? नकीद्दगपीतिभावः; एवं विनयमूलविकलोधर्मोऽपि न शोभां बिभर्ति । तथा 'न च' नैव मूले-बुध्ने विभिन्नो घटो जलादीनि वस्तनि क्वचिदपि धारयति, एवं धर्मघटोऽपि विनयमूले सातछिद्रो न किमपि ज्ञानादिजलं धारयितुमिष्टे । अतोऽहं विनयं कारयामीति प्रक्रमः॥ [भा.४३६४] किंवा मए न नायं, दुविहे गहणम्मिजं जहिं कमती। भन्नइ अभिनवगहणं, सच्चित्तं तेन न विन्नायं॥ वृ-सचित्ता-ऽचित्तभेदाद् द्विविधेऽपि ग्रहणे यद् यत्राभिनवंपुराणं वा क्रामति तत् तत्र मया किं वा न ज्ञातं येनैवं 'न जानासि ग्रहणस्वरूपम्' इत्याधभिधीयते? । इतरः प्रतिब्रूते-भण्यते अत्रोत्तरम्-अभिनवं सचित्तग्रहणं त्वया न विज्ञातम् ॥ तच्चेदम्- . [भा.४३६५] अट्ठारस पुरिसेसुं, वीसं इत्थीसु दस नपुंसेसु । पवावणाअनरिहा, अनला एएत्तिया वुत्ता ॥ [भा.४३६६] अडयालीसं एते, वज्जित्ता सेसगाण तिण्हं पि। अभिनवगहणं एयं, सच्चित्तं ते न विनायं ॥ वृ- 'पुरुषेषु' पुरुषविषयाः “बाले वुड्ढे नपुंसे य०" इत्यादिगाथाद्वयोक्ता अष्टादश भेदाः, स्त्रीषुत एव गुर्विणी-बालवत्सासहिताविंशतिर्भेदाः, नपुंसकेषुतु“पंडए वाइएकीवे." इत्यादयो दश भेदाः प्रव्राजनाया अनर्हा-अयोग्याः । अत एव “एएत्तिय"त्ति एते एतावन्तो भेदाअनला इति निशीथाध्ययने उक्ताः, “अली भूषण-पर्याप्ति-वारणेषु" इति धातुपाठाद् अपर्याप्ताः, प्रव्रज्यापरिपालनेऽसमर्था इत्यर्थः ॥ एतान् सर्वसङ्ख्यया अष्टाचत्वारिंशतं भेदान् वर्जयित्वा शेषाणां त्रयाणामपि' पुरुष-स्त्री-नपुंसकानांप्रव्राजनं कर्तुं कल्पते । एतदभिनवग्रहणं सचित्तं "ते" त्वया न विज्ञातम् । एवं तेनोक्ते सति क्षपकः ‘सती नोदना' इत्यभिधाय प्रवृत्तस्तथैव यथारत्नादिकं वस्त्रप्रदानं कर्तुमिति॥ मू. (९६) कप्पइ निग्गंथाणवा निग्गंधीणवाआहारायणियाए सेज्जासंथारएपडिग्गाहित्तए। वृ-अथास्य सूत्रस्य कः सम्बन्धः? इत्याह[भा.४३६७] घेत्तं जहक्कमेणं, उवही संथारएसु ठवयंति। तेसि पि जदा गहणं, तं पिहु एमेव संबंधो॥ वृ-यथारलाधिकक्रमेणोपधिं गृहीत्वा ततस्ते स्वस्वसंस्तारकभूमीषु स्थापयन्ति । तेषामपि च' संस्तारकाणां यदा ग्रहणं तदा तदपि ‘एवमेव' यथारत्नाधिकं कर्तव्यम् । एष पूर्वसूत्रेण सह सम्बन्धः॥ __अनेन सम्बन्धेनायातस्यास्य व्याख्या- कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा यथारलाधिकं शय्यासंस्तारकान् प्रतिग्रहीतुमिति सूत्रसङ्केपार्थः॥ Page #488 -------------------------------------------------------------------------- ________________ उद्देश : ३, मूलं- ९६, [भा. ४३६७ ] अथेदमेव सूत्रं विवरीषुराह[भा. ४३६८] सेज्जासंथारो या, सेज्जा वसही उ थाण संथारो । पुव्वहम्मि उ गहणं, अगेण्हणे लहुगो आणादी || वृ- शय्यासंस्तारो नाम शय्या - वसतिस्तस्यां यत् 'स्थानं' शयनयोग्यावकाशलक्षणं स शय्यासंस्तारक उच्यते । तस्य च शय्यासंस्तारकस्योपाश्रयं प्राप्तैः पूर्वाह्णवेलायामेव ग्रहणं कर्त्तव्यम् । अग्रहणे मासलघु प्रायश्चित्तम्, आज्ञादयश्च दोषाः ॥ [ भा. ४३६९] चोयगपूच्छा दोसा, मंडलिबंधम्मि होइ आगमनं । संजम - आयविराधन, वियालगहणे य जे दोसा ॥ वृ- अत्र नोदकः पृच्छां करोति-यदि पूर्वाह्न एव ग्रामं प्राप्तास्ततस्तदैव शय्यासंस्तारकमपि गृह्णन्तु, वयमप्येतत् प्रतिपद्यामहे; परं यदि भक्तवेलायां प्राप्तास्तदा प्रथमं भिक्षां पर्यटन्तु, ततो बहिरेव समुद्दिश्य चरमपौरुषीप्रत्युपेक्षणां कृत्वा स्वाध्यायं च विधाय विकालवेलायां ग्रामं प्रविशन्तु । सूरिराह - "दोस'' त्ति बहिर्भुञ्जनानां बहवो दोषाः । कथम ? इत्याह- 'मण्डलीबन्धे' चिलिमिलिकां दत्त्वा मण्डलीरचनया भोजने विधीयमाने कुतूहलेन सागारिकाणामागमनं भवति, तैः सहासङ्घडे क्रियमाणे संयमाSSत्मविराधना । विकाले च वसतेर्ग्रहणे ये दोषा भवन्ति तन्निष्पन्नं प्रायश्चित्तं भवतीति द्वारागाथासमासार्थः ॥ सम्प्रतमेनामेव विवरीषुराह [भा. ४३७०] ४८५ अइभारेण व इरियं, न सोहए कंटगाइ आयाए । • भत्तट्ठिय-वोसिरिया, अतिंतु एवं जढा दोसा ।। वृ-परः प्राह-भक्तवेलायां प्राप्तैस्तावत् प्रथमतो भक्तं ग्रहीतव्यम्, अन्यथा वेलातिक्रमे भक्तपानलाभो न भवेत् । ततो भक्त - पानं गृहीत्वा वसतिं गवेषयित्वा यदि तदानीमेव तत्र प्रवेशः क्रियते तदा भक्त-पानोपकरणसत्को यो अतिभारस्तेन वाशब्दस्यानुक्तसमुच्चयार्थतया बुभुक्षया तृष्परितापनया चोपयोगमप्रयच्छन्तः संयमे ईर्यां न शोधयेयु-, आत्मनि कण्टकादिकं न पश्येयुः, एवं च यथाक्रमं संयमा-ऽऽत्मनोर्विराधना । ततः 'भक्तार्थि-व्युत्सृष्टाः' पूर्वं भक्तार्थिताः - बहिरेव समुद्दिष्टास्ततो व्युत्सृष्टाः कृतपुरीष-प्रश्रवणोत्सर्गा सन्तो ग्रामम् 'अतियन्तु' प्रविशन्तु, एवं हि 'दोषाः ' संयमा - ऽऽत्मविराधनालक्षणाः परित्यक्ता भवन्ति ॥ अथाचार्य प्रत्युत्तरयति [भा. ४३७१] आयरियवयण दोसा, दुविहा नियमा उ संजमा - SSयाए । aas को वा सामी, असंकडं मंडलीए वा ।। वृ- आचार्यस्य वचनमिदम्-त्वदुक्तनीत्या बहिर्भुञ्जानानां नियमाद् 'द्विविधाः' संयमाssत्मविराधना (लक्षणाः) दोषा भवन्ति । तथाहि तैस्तत्र भक्त - पानमानीतं सागारिकाश्च कुतूहलवशात् तद्दर्शनार्थमागताः, ततो यदि तावन्तं कालं भक्त - पानं धारयन्तस्तिष्ठन्ति तदा भारेण महती परितापना भवेत् सूत्रार्थयोश्च परिहाणिरुपजायेत । अथ सागारिकान् ब्रुवते - 'व्रजतयूयम्' ततोऽधिकरणं भवति । अथवा ते सागारिका एवमुच्यमाना ब्रवीरन्-कोऽस्य वृक्षस्य देवकुलस्य वा स्वामी ये चास्माकं सम्मुखं 'व्रजत' इति भणत ? । एवमसङ्घडे तैः सह सञ्जाते Page #489 -------------------------------------------------------------------------- ________________ - ४८६ बृहत्कल्प-छेदसूत्रम् -२-३/९६ ततश्चभाजनभेदादयो दोषाः । अथ मण्डल्यांरचितायांसागारिकाः समागच्छन्तिततोमहान्तमुड्डाहं कुर्युः ।। अमुमेवार्थं सविशेषमाह[भा.४३७२] भत्तट्ठण सज्झाए, पडिलेहण रत्तिगेण्हणे जंच। पुव्वण्हम्मि उ गहणे, परिहरिया ते भवे दोसा॥ - "भक्तार्थन' मण्डल्या भोजनं स्वाध्यायं प्रत्युपेक्षणां वा क्रियमाणां विलोक्य ते उड्डाहं उड्डञ्चकान् वा कुर्वीरन्, तत्रापि तथैवासाडदोषः । अथ ते सागारिकाः प्रद्विष्टाः सन्तो वसतिं न प्रयच्छन्ति ततोऽपरं ग्रामं गच्छेयुः, तत्र च विकाले प्राप्ताः सन्तो रात्रौ वसतिग्रहणं कुर्वन्तो यद् दोषजालमापद्यन्ते तनिष्पत्रं प्रायश्चित्तम्, अतः पूर्वाह्न एव वसतेग्रहणं कर्तव्यम् । ततश्च 'ते' पूर्वोक्ता दोषाः परिहृता भवन्ति ॥ किञ्च[भा.४३७३] कोतूहल आगमनं, संखोहेणं अकंठगमणादी। ..तेचेवऽसंखडादी, वसहिं च न देतिं जंचऽन्नं ।। वृ-मण्डल्यांसागारिकाः कौतूहलेनागमनं कुर्युतत्र कस्यापि संयतस्य संक्षोभेण भक्त-पानस्य 'अकण्ठगमनादिकम्' अश्रोतोगमनप्रभृतिकं भवेत् । अथवा कोऽप्यसहिष्णुइँयात्-किमेवं प्रलोकयथ?; ततस्त एवासङ्खडादयो दोषाः ।अथ 'सागारिकम्' इति कृत्वाअभुक्ता एव भक्तपानव्यग्रहस्ता ग्रामं प्रविशन्ति तत्र च यैः सममसङ्खडं कृतं ते वसतिं न प्रयच्छेयुः, अन्यानपिच ददतोनिवारयेयुः। “जंचऽनं" तिवसतावप्राप्यमाणायांयदन्यदोषजातमापद्यन्ते तन्निष्पन्नम्।। अथ वसत्यभावदकृतभोजना एवान्यं ग्रामं गच्छेयुः तत इमे दोषाः[भा.४३७४] भारेण वेयणाए, न पेहई खाणुमाइए दोसे । इरियाइ संजमम्मी, परिगलमाणे य छक्काया ।। वृ-भक्त-पानस्योपकरणस्य च सम्बन्धिना भारेणवेदना या भवेत्तयाचस्थाणु-कण्टकादीन् दोषान् न प्रेक्षते, ततश्चात्मदिराधना । यत् पुनरीया अशोधनं सा संयमविराधना । परिगलति च भक्त-पाने षट्कायविराधना ॥ तत्रप्राप्तानां दोषानभिधित्सुराह[भा.४३७५] पविसण मग्गण ठाणे, वेसित्थि दुगंछिए य सुन्ने य । सज्झाए संथारे, उच्चारे चेव पासवणे ॥ वृ-अन्यस्मिन् ग्रामे विकालवेलायां प्रवेशे कृते वसतेर्गिणे परस्परस्फिटितानामाकारणेन महानधिकरणदोषो भवति । वेश्यास्त्रपाटके चर्मकरादिस्थाने वा जुगुप्सिते तिष्ठतां वक्ष्यमाणं दोषजातं 'शून्यगृहादौ च' अप्रत्युपेक्षितायां वसतौ स्वाध्यायं संस्तारकमुच्चारं प्रश्रवणं च कुर्वतामकुर्वतां च बहवो दोषा भवन्तीति द्वारगाथासमासार्थः॥ अथैनामेव विवृणोति[भा.४३७६] सावय तेना दुविहा, विराधना जा य उवहिणा उ विना । . गुम्मिय गहणा-ऽऽहणणा, गोणादी चमढणा रत्तिं॥ वृ-विकालेप्रविशतांश्वापदभयंभवति। 'स्तेना द्विविधाः' शरीरापहारिण उपकरणापहरिणश्च, ते तदानीमभिद्रवन्ति । उपघातपहृते या तेन विना तृणग्रहणा-ऽग्निसेवनादिका संयमविराधना Page #490 -------------------------------------------------------------------------- ________________ ४८७ उद्देशक : ३, मूलं-९६, [भा. ४३७६] तनिष्पन्नम्।अथवा सप्रत्यन्तप्रदेशवर्ती ग्रामः ततस्तत्रबद्धस्थानकाः 'गौल्मिकाः' आरक्षिकपुरुषाः स्तेनादीनभिलीयमानान् रक्षन्ति, ते विकालवेलायां प्राप्तानां 'स्तेना अमी' इति बुध्धा ग्रहणाऽऽहननादिकं कुर्युः। अथवा विकाले प्रविशन्तो गवादिभि पादप्रहारादिकां चमढनामासादयन्ति । एते रात्री प्राप्तानां दोषाः॥ किश्च[भा.४३७७] फिडियऽनोन्नाऽऽगारण, तेनय रत्तिं दिया व पंथम्मि। साणाइवेस कुच्छिय, तवोवनं मूसिगाजंच ।। वृ-विकाले वसतिगवेषणार्थं पृथक् पृथग् गताः, ततः 'स्फिटिताः' परस्परपरिभ्रष्टाः सन्तोऽन्योऽन्यम् आकारणं-व्याहारणं कुर्युः । स्तेनकास्तद्वचनं श्रुत्वा रात्रौ मुषितमभिलषेयुः, दिवावाद्वितीयेदिवसे पथि' मार्गे गच्छतस्तान्स्तेनका मुषेयुः । श्वानादयोवारात्री वसतिगवेषणार्थं पर्यटतस्तान् उपद्रवेयुः । “वेस कुच्छिय"त्ति रात्रौ च वसतमन्वेषयन्तो न जानन्ति किमेतद् गृहं वेश्यापाटकस्य प्रत्यासन्नम्? उतन? इति, यद्वाकिमेतत् चर्मकार-रजकादिजुगुप्सितकुलासन्नम्? आहोश्चिद् न ? इति । एवं चाजानानास्ते वेश्यापाटकासन्ने प्रतिश्रये वसेयुः ततो लोको ब्रूयात्अहो ! तपोवनमध्यासते जितेन्द्रिया अमी महर्षय इति । अथ जुगुप्सितस्थानासन्ने स्थितास्ततो लोको ब्रवीत-स्वस्थानं मूषिकाः समागताः, एतेऽप्येवंजातीया इति भावः । . ___ “जंच"त्ति यच्च रात्रावन्योऽन्यालपनेऽप्कायानयनादिकमधिकरणं तन्निष्पन्नं प्रायश्चित्तम्। तथा तत्रोपाश्रये रात्रौ प्राप्ताः सन्तः 'कालभूमी न प्रत्युपेक्षिता' इति कृत्वा यदि स्वाध्यायं न कुर्वन्ति ततः सूत्रा-ऽर्थनाशादयो दोषाः । अथ कुर्वन्ति ततः सामाचारीविराधना ॥ अथ संस्तारकद्वारं व्याख्याति[भा.४३७८] अप्पडिलेहिय कंटा, बिलं व संथारगम्मि आयाए। छक्कायाण विराधन, विलीण सेहऽनहाभावो । वृ-अप्रत्युपेक्षितायांवसतौ कण्टका भवेयुः, बिलं वासदिसम्बन्धि, ततः संस्तारकेप्रस्तीर्याणे आत्मनि विराधना भवेत् । पृथिव्यादयोवा षड्कायास्तत्रभवेयुः,तेषां संस्तारकेणाक्रम्यमाणानां विराधना भवति। विलीनंवा' जुगुप्सितं सज्ञा-कायिक्यादिकंतत्रभवेत्, ततःशैक्षस्य जुगुप्सया 'अन्यथाभावः' उन्निष्क्रमणाभिप्रायो भवेत्॥ अथोच्चार-प्रश्रवणद्वारद्वयं युगपदाह[भा.४३७९] खाणुग-कंटग-वाला बिलम्मि जइ वोसिरिज्ज आयाए। संजमओ छक्काया, गमने पत्ते अइंते य॥ वृ-अप्रत्युपेक्षिते प्रतिश्रये स्थाणु-कण्टक-व्याला भवेयुः, तदाकुले बिलसमाकुले वा प्रदेशे यदि व्युत्सृजति तत आत्मविराधना । अथ पृथिव्यादिषट्कायवति भूभागे व्युत्सृजति ततः संयमविराधना । एते द्वे अपि विराधने “गमने"त्तिसंज्ञा-कायिकीव्युत्सर्जनार्थं गच्छतः “पत्ते"ति संज्ञाभुवं कायिकीभुवं वा प्राप्तस्य “अइंते अत्ति संज्ञां कायिकी वा व्युत्सृज्य भूयोऽपि वसतिं प्रविशतो यथासम्भवं मन्तव्ये॥ ___अथ विराधनाभयाद् न व्युत्सृजति तत इमे दोषाः Page #491 -------------------------------------------------------------------------- ________________ ४८८ बृहत्कल्प-छेदसूत्रम् -२-३/९६ [भा.४३८०] मुत्तनिरोहे चक्खं, वञ्चनिरोहेम जीवियं चयइ उडनिरोहे कोडें, गेलन्नं वा भवे तिसुवि॥ वृ-मूत्रस्य निरोधे विधीयमाने चक्षुरुपहन्यते।वर्च-पुरीषतस्य निरोधेन जीवितं परित्यजति, अचिरादेव मरणं भवतीत्यर्थः । ऊर्ध्व-वमनं तस्यन निरोधे कुष्ठं भवति । 'ग्लान्यं वा' सामान्यतो मान्धं त्रिष्वपि' मूत्र-पुरीष-वमनेषु निरुध्यमानेषु भवेत्॥ यत एते दोषा अतः[मा.४३८१] पढम-बिइयाए तम्हा, गमनं पडिलेहणा पवेसो य । पुव्वठियाऽसइ गच्छं, ठवेत्तु बाहिं इमे तिन्नि । कृतस्मात्प्रथमायां द्वितीयस्यां वापौरुष्यां विवक्षितग्रामे गमनं कृत्वा ततो वसतेःप्रत्युपेक्षणा प्रवेशश्च तस्यां कर्तव्यः । कथम् ? इत्याह-यदि तत्र केऽपि साधवः पूर्वस्थिताः सन्ति तदा सर्वेऽपि प्रविशन्ति । अथ न सन्ति पूर्वस्थिताः ततो गच्छं कचिद् वृक्षादेरधो बहि स्थापयित्वा 'इमे' ईशास्त्रयः साधवो ग्रामं प्रविशन्ति॥ [भा.४३८२] परिणयवय गीयत्था, हयसंका पुंछ चिलिमिली दोरे । तिन्नि दुवे एक्को वा, वसहीपेहट्ठया पविसे ॥ -ये गीतार्था परिणतवयसोअतएव ‘हतशङ्काः' अशङ्खनीयाः तेगुरुमापृच्छय दण्डप्रोज्छनकं चिलिमिलींदवरकांश्च गृहीत्वा त्रयोजनास्तदभावे द्वौ जनौ तदप्राप्तावेको वा वसतिप्रत्युपेक्षणार्थं ग्रामं प्रविशन्ति । ततो वसतिं गृहीत्वा प्रमृज्य च चिलिमिलिकां च दत्त्वा सबालवृद्धमपि गच्छं तत्र प्रवेशयन्ति ॥ अथ 'विकालवेलायां न प्रवेष्टव्यम्' इति यदुक्तं तदपवदनाह[भा.४३८३] बिइयं ताहे पत्ता, पए व पत्ता उवस्सयं न लभे । सुन्नघर देउले वा, उज्जाने वा अपरिभोगे। वृ-द्वितीयपदमत्राभिधीयते-'तदानीं विकालवेलायामेव प्राप्ताः, यद्वा 'प्रगे' प्रभाते प्राप्ताः परमुपाश्रयं न लभन्ते ततो विकालेऽपि प्रविशेयुः । प्रभातप्राप्ताश्च दिवा शून्यगृहे देवकुले वा उद्याने वा 'अपरिभोग्ये' जनोपभोगरहिते तिष्ठन्ति, तत्रैव च समुद्देशनं कुर्वन्ति ॥ [भा.४३८४] आवाय चिलिमिणीए, रन्ने वा निभये समुद्दिसणं । सभए पच्छन्नाऽसइ, कमढग कुरुया य संतरिया। वृ-अथ शून्यगृहादौ सागारिकाणामापातो भवति ततश्चिलिमिलिकां दत्त्वा समुद्देष्टव्यम् । अरण्यं व यदि निर्भयं ततस्तत्र गत्वा समुद्दिशन्ति । अथारण्यं सभयं ततो वसिमसमीपे एव यः प्रच्छन्नः प्रदेशस्तत्रसमुद्देशनकर्त्तव्यम्। अथप्रच्छन्नस्थानं नास्ति ततस्तत्रैवशून्यगृहादौ 'कमठकेषु' शुक्ललेपेन सबाह्याभ्यन्तरंलिप्तेषु कांस्यकरोटकाकारेषुसमुद्दिशन्ति, कुरुकुचाच समुद्देशनानन्तरं पादप्रक्षालनादिका बहुना द्रवेण कर्तव्या, समुद्दिशन्तश्च “सान्तराः' सावकाशा बृहदन्तराला उपविशन्ति । एवं भुक्त्वा बहिरेवसंज्ञादि व्युत्सृज्य ततो ग्रामं प्रविशन्ति । प्रविष्टाश्च यापूर्वंभिक्षां हिण्डमानैर्वसति प्रत्युपेक्षिता तस्यां वसन्ति । कथम् ? इत्याह Page #492 -------------------------------------------------------------------------- ________________ उद्देशक : ३, मूलं - ९६, [ भा. ४३८५ ] [भा. ४३८५ ] कोट्ठग सभा व पुव्वं, काल-वियाराइभूमिपडिलेहा । पच्छा अतिंति रत्ति, अहवण पत्ता निसिं चेव ।। वृ- 'कोष्ठकः ' आवासविशेषः 'सभा' प्रतीता, एवमादिकं यत् 'पूर्वं' भिक्षां पर्यटभि प्रत्युपेक्षितं तत्र कालग्रहणयोग्यां भूमिं विचारस्य च संज्ञाया आदिशब्दात् कायिक्याश्च भूमिं सूर्ये ध्रियमाण एव प्रत्युपेक्षन्ते । ततः पश्चात् सर्वेऽपि वसतौ 'रात्री' प्रदोषसमये 'अतियन्ति' प्रविशन्ति । "अहवण"त्ति अथवा ते साधवस्तत्र निशायामेव प्राप्ता भवेयुः ॥ ततः को विधिः? इत्याह [भा. ४३८६] गोम्मिय भेसण समणा, निब्भय बहि ठाण वसहिपडिलेहा । सुन्नघर पुव्वभणिए, कंचग तह दारुदंडे य ॥ वृ-गुल्मेन-समुदायेन चरन्तीति 'गौल्मिकाः' स्थानरक्षपालाः ते यदि 'भेषणं' वित्रासनं कुर्वन्ति ततो वक्तव्यम् - श्रमणा वयं न स्तेनाः । यदि च स सन्निवेशो निर्भयो भवति तदा "बहि ठाण' ति बहिरेव गच्छस्तावदवस्थानं करोति, वृषभास्तु वसतिप्रत्युपेक्षणार्थं ग्रामं प्रविशन्ति । तत्र च शून्यगृहं पूर्वभणितेन विधिना प्रत्युपेक्ष्य सर्पादिपतनभयाद् गोपालकञ्चुकं परिधाय 'दारुदण्डेन' दण्डप्रोञ्छनकेन वसतिमुपरि प्रस्फोटयन्ति, ततो गच्छः प्रविशति ।। अथ संस्तारकग्रहणविधिमाह [भा. ४३८७ ] ४८९ संथारगभूमितिगं, आयरिए सेसगाण एक्केकं । रुंदाए पुप्फकिन्ना, मंडलिया आवली इतरे ॥ वृ- " आयरिए "त्ति षष्ठी - सप्तम्योरर्थं प्रत्यभेदादाचार्यस्य योग्य संस्तारकभूमित्रयं प्रथमतो निरूपणीयम् तत्रैका निवाता संस्तारकभूमि, अपरा प्रवाता, अन्या निवात- प्रवाता। शेषाणां साधूनां योग्यामेकैकां संस्तारभूमिमन्वेषयेत्। इह च वसतिस्त्रिधा विस्तीर्णा क्षुल्लिका प्रमाणयुक्ता च । तत्र रुन्दा नाम-विस्तीर्णा घङ्गशालादिरित्यर्थः तस्यां 'पुष्पावकीर्णा' पुष्पप्रकरवदवकीर्णाअनियतक्रमा अयथायथं स्वपन्ति येन सागारिकाणामवकाशो न भवति । अथ क्षुल्लिका ततो मध्ये पात्रकाणि कृत्वा मण्डलिकाकारेण पार्श्वतः शेरते । 'इतरा नाम' प्रमाणयुक्ता तस्याम् 'आवल्या' पङ्क्त्या स्वपन्ति ॥ अत्रैव विधिविपर्यासे प्रायश्चित्तमाह [भा. ४३८८ ] सीसं इतो य पादा, इहं च मे वेंटिया इहं मज्झं । जइ अगहियसंथारो, भणाइ लहुगोऽहिकरणादी || वृ- इतो मे शीर्षं भविष्यति, इह मे पादौ भविष्यतः, इह च मे वेण्टिका भाजनानि वा स्थास्यन्ति, एवं यद्यगृहीतसंस्तारको आत्मीयया इच्छया भणति विण्टिकादिकं च स्थापयति तदा लघुमासः प्रायश्चित्तम्; अधिकरणादयश्च दोषा भवन्ति । अधिकरणं नाम-द्वितीयोऽपि साधुरेवमेव ब्रूयात्ममाप्यत्रैव शीर्षादि भविष्यतीति; ततश्चास्थिभङ्गादयो दोषाः ॥ यत एवमतः[भा. ४३८९] संथारगहणीए वेंटियउक्खेवणं तु कायव्वं । संथारो घेत्तव्वो, माया-मयविप्यमुक्केणं ॥ Page #493 -------------------------------------------------------------------------- ________________ ४९० बृहत्कल्प-छेदसूत्रम् - २-३/९६ वृ- "संधारग्गहणीए "त्ति आर्षत्वात् स्त्रीत्वम्, संस्तारकग्रहणकाले वेण्टिकाया उत्क्षेपणं कर्त्तव्यं येन सुखेनैव दृष्टायां भुवि संस्तारका विभक्तुं शक्यन्ते । स च संस्तारको यो यस्मै साधवे दीयते स तेन माया - मदविप्रमुक्तेन ग्रहीतव्यः । माया नाम 'अहं वातार्थी, ममात्रावकाशं प्रयच्छत' इत्यादिका सुन्दरतरावकाशलो भेनासद्भूतकारणनिवेदनलक्षणा, मदः - अहङ्कारः 'अहो ! किमर्थं संस्तारकग्रहणकाले वेण्टिका उत्क्षिप्यन्ते ? उच्यते [भा. ४३९०] सम-विसमाई न पासइ, दुक्खं च ठियम्मि ठायई अन्नो । नेव य असंखडादी, विनयो अममिजया चेव || खू - विण्टिका यदि नोत्क्षिप्यन्ते तदा गणावच्छेदिकादिसंस्तारकान् विभजमानः सम-विषमाणि स्थानानि न पश्यति, अवकाशानित्यर्थः । तथा एकस्मिन् साधौ विण्टिकासहिते पूर्वस्थिते सति अन्यो न तिष्ठति, स्थातुं न शक्नोतीति भावः । अपि च वेण्टिकासूत्क्षिप्तासु असङ्खडादयो दोषा नैव भवन्ति । यथरत्नाधिकं च संस्तारकग्रहणे विनयः कृतो भवति । 'अममता च' ममत्वं संस्तारकभूमिविषयं परिहृतं भवति । अतः साधुभि स्वस्वोपकरणे प्रत्येक्षिते उपाश्रये च प्रमार्जिते सति सूरिभिर्वक्तव्यम् - आर्या ! उत्क्षिपत स्वा स्वा विण्टिकाः । एवमुक्ते यो नोत्क्षिपति तस्य मासलघु ॥ अथ वेण्टिकासूक्षिप्यमाणासु कश्चिदिमां मायां कुर्यात्[भा. ४३९१] संथारग्गहणीए, कंटग वीयार पासवण धम्मे । पणे मासो गुरुओ, सेसेसु वि मासियं लहुगं ।। वृ- संस्तारग्रहणकाले सम-सुन्दरभूमिलोभेन कण्टकोद्धरणमहं सम्प्रति करिष्यामि, 'विचारं वा' संज्ञां वा व्युष्टुं प्रश्रवणं वा कर्तुं बहिर्गमिष्यामि, धर्मं वा शय्यातरादेरग्रे कथयिष्यामि इत्यादि ब्रूयात्, प्रचलायनं वा तदानीं विदध्यात्, एवं मायायाः करणे आज्ञादयो दोषाः । अत्र च प्रचलायने मासगुरु । 'शेषेषु' कण्टकादिषु मायाभेदेषु मासलघुकम् ॥ अथ कण्टकादिपदानि विवृणोति [भा. ४३९२] दुक्खं ठिओ व निज्जइ, न यानुवाएण पेल्लिउं सक्का । जो वि य ने अवनेहिइ, तं पि य नाहामि इति मंता ।। [भा. ४३९३] संथारभूमिद्धो, भनाइ छंदेण भंते! गिण्हित्तो । संथारगभूमीओ, कंटगमहमुद्धरामेणं ॥ वृ- कोऽपि सम-सुन्दरे अवकाशे संस्तारकं कर्तुकामः, तत्र चापरः कोऽपि साधुः स्थित उपविष्टो वर्तते, सच ‘दुःखं’दुःखेन 'नीयते' अन्यत्र स्थाप्यते, न च 'अनुपायेन' कण्टकोद्धरणादि व्याजमन्तरेण प्रेरयितुं शक्यः, योऽपि च " णे” इति मदीयं कण्टकमपनेष्यति तमप्यहं ज्ञास्यामीति मत्वा संस्तारकभूमिलुब्धो भणति - भदन्त ! इतः संस्तारकभूमीत उत्थाय 'छन्देन' स्वाभिप्रायेण 'गृह्णीत' संस्तारकम्, अहं पुनरत्र कण्टकमेनमुद्धरामीति । एवं मायाकरणे मासलघु प्रायश्चित्तम्।। अथ सद्भावादेव कण्टको लग्नः ततः किम् ? इति अत आह [ भा. ४३९४] लग्गे व अनहियासम्मि कंटए उक्खिवावे अन्नेणं । Page #494 -------------------------------------------------------------------------- ________________ ४९१ उद्देशक : ३, मूलं-९६, [भा. ४३९४] मज्झच्चगमवणेत्ता, कमागयं गेण्हह ममं पि । वृ. 'वा' इत्यथवा सद्भावेनैव तस्य कण्टको लग्नः स च अनधिसह्यः-सोठुमशक्यः ततो वेण्टिकामन्येनोत्क्षेपयेत्। उत्क्षेप्य चब्रूयात्-मदीयंकण्टकमपनीय क्रमागतंममापि योग्यं संस्तारकं गृह्णीत; एष शुद्धः॥ अथ विचारादिद्वाराण्यतिदिशन्नाह[भा.४३९५] एमेव य वीयारे, उज्जु अनुज्जू तहेव पासवणे। धम्मकहालक्खेण व, आवजइ मासियं मादी ।। वृ- एवमेव विचारविषयेऽपि ऋजुरनृजुश्च वक्तव्यः, मायी अमायी चेत्यर्थः । तथैव प्रश्रवणद्वारेऽपिविभाषा कर्तव्या। धर्मकथायावालक्ष्येण-व्याजेन कश्चित्क्रमागतसंस्तारकव्यत्यासंकरोति सोऽपि ‘मायी' मायावानिति कृत्वा मासिकं लघुकमापद्यते । अथ सद्भावतो धर्मकथां करोति ततः शुद्ध एव ॥ अपि च-तदानीं सद्भावतो धर्मकथायां विधीयमानायाममी गुणाः[भा.४३९६] दुवियड्डबुद्धिमलणं, सड्डा सेज्जायरेयराणं च । तित्थविवड्डि पभावण, असारियं चेव कहयंते॥ वृ-श्रोतृणां या दुर्विदग्धा-विपरीतशास्त्रपल्लवग्राहिणी बुद्धिस्तस्या मलन-मर्दनं कृतं भवति । शय्यातरय॑इतरेषां च-श्राद्धानां श्रद्धा वर्धिता भवति। धर्मश्रवणानन्तरंच बहुषु भव्येषुप्रव्रज्यां प्रतिपद्यमानेषु तीर्थस्य विवृद्धि कृता भवति, प्रभावना च प्रवचनस्य जायते-अहो ! विजयते जैनेन्द्रशासनं यत्रेशाधर्मकथालब्धिसम्पन्नाइति।अपि च-सागारिका बहिधर्मश्रवणव्याक्षिप्ताः सन्तः प्रतिश्रयमध्ये न प्रविशेयुः, ततश्च साधूनामुपकरणं प्रत्युपेक्षमाणानामसागारिकं भवति । एवमेते गुणा धर्म कथयति भवन्ति॥ अथ प्रचलायनद्वारं भावयति[भा.४३९७] मा पयल गिण्ह संथारगं ति पयलाइ इय विजइ वुत्तो। को नाम न निग्गिण्हइ, खणमित्तं तेन गुरुओ से । वृ-गणावच्छेदिकाना कश्चित् प्रचलायमानो भणितः-मा प्रचलाय, गृहाण संस्तारकम् इति उक्तोऽपियद्यसौ प्रचलायते ततो ज्ञातव्यम्-शठ एषः। कुतः? इत्याह-'को नाम' महानिद्रालुरपि 'क्षणमात्रं' यावता संस्तारको गृह्यते तावन्मानं कालं निद्रां न निगृह्णाति? स तु तावन्तमपि कालं निद्रानिरोधमकुर्वाणः परिस्फुटं मायावानेव मन्तव्यः । अत एव "से" तस्य तीव्रतरमायाविनो मासगुरु प्रायश्चित्तम् ।। अथ संस्तारकग्रहणे विधिमाह[भा.४३९८] विच्छिन्न कोट्टिमतले, डहराए विसमए अघेपंति। होइ आहाराइणियं, राइणिया ते इमे होति॥ वृ-विस्तीर्णायां वा 'डहरायांवा' सङ्कीर्णायां वसतौ कुट्टिमतले वाविषमे वा भूभागेयथारत्नाधिकं संस्तारका गृह्यन्ते । ते च रत्नाधिका इमे भवन्ति ॥ [भा.४३९९] उवसंपज्ज गिलाणे, परित्त खमए अवाउडिय थेरे। Page #495 -------------------------------------------------------------------------- ________________ ४९२ बृहत्कल्प - छेदसूत्रम् -२-३/९६ तेन परं विच्छिन्ने, परियाए मोत्तिमे तिन्नि ।। वृ- प्रथमतो गुरूणां संस्तारकत्रयं दत्त्वा ततो यो ज्ञानाद्यर्थमुपसम्पदं प्रतिपन्नस्तस्य संस्तारको दातव्यः । ततो ग्लानस्य, ततः परीत्तोपधेः, ततः क्षपकस्य, ततो 'अपावृतिकस्य' 'अपावृतेन मया सकलाऽपि रजनी गमनीया' इत्येवं प्रतिपन्नाभिग्रहस्य, तदनन्तरं 'स्थविरस्य' श्रुतेन वयसा वा वृद्धस्य, ततः परं विस्तीर्णे प्रतिश्रय पर्यायरत्नाधिकक्रमेण संस्तारका ग्रहीतव्याः, परं मुक्त्वा 'अमून् त्रीन् ' क्षुल्लक-शैक्ष- वैयावृत्यकरान् वक्ष्यमाणगाथायामभिधास्यमानान् ।। आह उपसम्पन्न-ग्लानादीनां क्रियतां प्रथमं संस्तारकप्रदानेनानुग्रहः, यस्तु तपस्वी विपुलां निर्जरामभिलषन् स्वयमेव 'अपावृतेन मया स्थातव्यम्' इत्येवमभिग्रहं गृह्णाति तस्य किमर्थं स्थविरादिभ्यः प्रथमं संस्तारको दीयते ? उच्यते [भा. ४४०० ] कामं सकामकियो, अभिग्गहो न उ बलाभिओगेणं । तनुसाहारणहेतुं, तह वि निवाएण्हि ठावेंति । वृ- 'कामम्' अनुमतमिदम्-स्वकामेन स्वकीययैव इच्छया कृत्यः- कर्तव्यो अभिग्रहो न तु बलाभियोगेन, परं तथापि ' तनुसाधारणहेतोः' शरीरस्य शीतोपद्रवसंरक्षणनिमित्तं निवाते प्रदेशे तं स्थापयन्ति ॥ कुतः ? इति चेद् इत्याह [भा.४४०१] अन्नोन्नकारेण विनिज्जरा जा, न सा भवे तस्स विवज्जयेणं । हा तवस्सी धुणते तवेणं, कम्मं तहा जाण तवोऽनुमंता ॥ वृ- अन्योन्यकारो नाम - परस्परं वैयावृत्यकरणं तेन या 'विनिर्जरा' विशिष्टकर्मक्षयरूपा सा 'तस्य' अन्योन्यकारस्य 'विपर्ययेण' व्यतिरेकेण न भवति । यथा किल तपस्वी तपसा 'कम ज्ञानावरणादि धुनोति तथा यस्तस्य साहाय्यकरणेन तदीयतपसो अनुमन्ता तमपि तथैव कर्मक्षयकारिणं जानीहि । अकतो युक्तमेवापावृताभिग्रहिकस्यानुग्रहविधानम् ॥ अथ यदुक्तम्- 'अमून् त्रीन् मुक्त्वा इति तस्य व्याख्यानार्थमाह[ भा. ४४०२ ] बीभेंत एव खुड्डे, वेयावच्चकरे सेहे जस्स पासम्मि । विसमऽप्पे तिन्नि गुरुणो, इतरे गहियम्मि गिण्हंति ॥ वृ- क्षुल्लकः स्वभावादेव बिभ्यन् भवति, ततो बहि स्थाप्यमानः कूजित - रुदितादि कुर्यात्, अतो यस्तं परिवर्तयति तस्य समीपे स्थाप्यते । 'वैयावृत्यकरः' ग्लानस्य प्रतिचरकः स ग्लानस्वैय पार्श्वे क्रियते । शैक्षो यस्य पार्श्वे शिक्षां गृह्णाति तस्यान्तिके स्थापनीयः । तथा विषमे वा 'अल्पे वा' सङ्कीर्णे प्रतिश्रये त्रीन् संस्तारकान् गुरूणां द्वा ततः 'इतरे' उपसम्पन्नादयो गुरुभिर्गृहीते सति संस्तारकत्रये यथोक्तक्रमेण गृह्णन्ति । एष सङ्ग्रहगाथासमासार्थः ।। अथास्या एव पूर्वार्धं बिभावयिषुराह [भा.४४०३ ] बीभेज बाहिं ठवितो उ खुड्डो, तेनाइगम्मो य अजग्गिरो य । सारेइ जो तं उभयं च नेई, तस्सेव पासम्मि करेंति तं तू ॥ वृक्षुल्लको बहि स्थापितः सन् बिभियात्, स्तेनादिगम्यो वा भवेत्, 'अजागरणशीलश्च' असौ बहि सुप्तः सरन् केनाप्यनुत्थापितः प्रतिक्रमणवेलायामपि नजागृयात्, ततो यः 'तं' क्षुल्लकं 'सारयति' Page #496 -------------------------------------------------------------------------- ________________ उद्देशक : ३, मूलं-९६, [भा. ४४०३] ४९३ शिक्षां ग्राहयति 'उभयंच' संज्ञा-कायिकीलक्षणं तदीयं यः ‘नयति' परिष्ठापयति तस्यैव पार्श्वेतं कुर्वन्ति॥ [भा.४४०४] संथारगंजो इतरं व मत्तं, उव्वत्तमादी व करेइ तस्स । गाहेइ सेहं खलु जो व मेरं, करेंति तस्सेव उ तं सगासे ।। वृ-ग्लानस्य संस्तारकं यः करोति, ‘इतरद्वा' संज्ञाद्युत्सर्जनां यो ग्लानं कारयति, मात्रकं वा परिष्ठापयति, उद्वर्तन-परावर्तनादीनि वा 'तस्य' ग्लानस्य यः करोति तं वैयावृत्यकरं तस्यैव पार्वे स्थापयन्ति । यो वा शैक्षं 'मेरां' सामाचारी ग्राहयति तं तस्यैव सकाशे कुर्वन्ति । एवं विस्तीर्णायां वसतौ तावद् विधिरुक्तः, अथ सङ्कीर्णायां विधिमभिधित्सुराह[भा.४४०५] सम-विसमा थेराणं, आवलिया तत्थ अप्पणो इच्छा। खेल पवाय निवाए, पाहुणए जं विहिग्गहणं॥ वृ-सङ्कीर्णायां वसतौ सर्वत्रापि संस्तारणीयम्, न पुनर्विषम इति कृत्वा कश्चिदप्यवकाशः शून्यो मोक्तव्यः । ततः 'आवलिकया' पङ्क्त्या यथारलाधिकं विभज्यमाना संस्तारकभूमि 'स्थविराणां' वृद्धानां समा वा समागच्छेद् विषमा वा । 'तत्र' विषमाया तेषामात्मीया इच्छा, कोऽर्थः ? यदि सहिष्णुतया विषमेऽपि संस्तारयितुं शक्नुवन्ति ततस्तत्रैव संस्तारयन्ति, अथासहिष्णवस्ततस्तरुणान् समां भूमिमनुज्ञापयन्ति । “खेल"ति यस्य केलः स्पन्दते तस्य मध्येऽवकाशः समायातः, ततस्तेन विविक्तेऽवकाशे यस्य संस्तारकः सोऽनुज्ञापनीयः । यः पित्तलः स प्रवाते स्थातुमभिलषति, यस्तु वातलः स निवाते, एतयोः परस्परं संस्तारकपरावर्तो भवति । 'प्राधुणकः' आचार्यादि समागतस्तस्यापि यद् विधिना वक्ष्यमाणेन संस्तारकग्रहणं तदनुज्ञातमिति पुरातनगाथासमासार्थः ।। अथैनामेव बिभावयिषुराह[भा.४४०६] विसमो मे संथारो, गाढं पासा मि एत्थ भजंति । को देज मज्झ ठाणं, समं ति तरुणा सयं बेति॥ वृ-संस्तारकभूमि स्थविराणां विषमा तरुणानां समा समायाता, ततो यः स्थविरोऽसहिष्णुः सब्रूयात्-विषमः 'मे' मदीयः संस्तारकः, पाश्र्वाणिच 'अत्र' विषमे शयानस्य गाढंमम भज्यन्ते, अतः को नाम मह्यं समं स्थानं दद्यात् ? इति । ततो ये तरुणास्ते स्वयमेव गुरुभिरनुक्ता ब्रुवतेअस्माकमवकाशे यूयं संस्तारयतेति॥ [मा.४०७] जइ पुन अस्थिज्जंता, न देति ठाणं बला न दावेति । देति तहि पुंछणादी, बहिभावाऽसंखडं मा वा॥ १- यदि पुनस्तरुणाः समं भूमागमर्थ्यमाना अपि न प्रयच्छन्ति ततो वृषभाः सूरयो वा न तैर्बलाद् दापयन्ति, मा बलाद् दाप्यमानास्ते बहिर्भावं गच्छेयुः असङ्खडं वा कुर्युः । स्थविराश्च 'तत्र' विषमेऽवकाशे पादप्रोञ्छनादिकं ददति येन सुखेनैव संस्तारयितुं शक्यते॥ . खेलद्वारमाह[भा.४४०८]मज्झम्मि ठाओ मम एस जातो, पासंदए निच्च ममं च खेलो। ___ठाओ सरावस्स य नत्थि एत्थं, सिंचिज खेलेण य मा हु सुत्ते॥ Page #497 -------------------------------------------------------------------------- ________________ ४९४ बृहत्कल्प-छेदसूत्रम् - २-३/९६ वृ- श्लेष्मलो ब्रूयात्-मम तावदेषः 'स्थायः' अवकाशो मध्ये सञ्जातः, मम च 'खेल' श्लेष्मा नित्यं प्रस्पन्दते, अत्र चोभयतोऽपि पार्श्ववर्त्तिसंस्तारकाकीर्णे 'शरावस्य' खेलमल्लकस्य न्त्यवकाशः, अत्र च संस्तारयन्नहं प्रत्यासन्नसुप्तान् शेषसाधूनपि मा श्लेष्मणा सिञ्चेयमिति । ततो तस्य विविक्ते प्रदेशे संस्तारकः स तस्यात्मीयमवकाशं प्रयच्छति ॥ प्रवातनिवातद्वारमाह [भा.४४०९] निद्दं न विंदामिह उव्वरेणं, को मे पवायम्मि दएज भूमिं । सीएण वाणय मज्झ बाहिं, न पच्चए अन्नमहऽन्न आह ।। वृ- पित्तलो ब्रूयात्- अहम् 'इह' निवाते संस्तारयन् 'उद्वरेण' धर्मोपतापेन निद्रां 'न विन्दामि' लभे, अतः को नाम मे प्रवाते भूमिकां दद्यात् ? ; 'अथ' अनन्तरम् 'अन्यः' वातलः सः 'आह' ब्रूयात् - शीतेन वातेन च पीड्यमानस्य मम बहि प्रसुप्तस्यान्नं 'न पच्यते' नी जीर्यते; तत एतौ परस्परं संस्तारकं परिवर्त्तयतः ।। इह सङ्गगाथायां खेल-प्रवात-निवातग्रहणमुपलक्षणं तेनदमभिधीयते [भा. ४४१०] जोइंति पक्कं न उ पक्कलेणं, ठावेंति तं सूरहगस्स पासे । एक्कम्मि खंभम्मि न मत्तहत्थी, बज्झंति वग्घा न य पंजरे दो ॥ वृ- यः 'पक्वः' असङ्घडिकः कलहनशील इत्यर्थः तं पक्केन सह न योजयन्ति, किन्तु यः 'शूरहकः' कलहादिकुर्वतां शिक्षां कर्त्तुं समर्थस्तस्य पार्श्वे तं स्थापयन्ति । यत एकस्मिन्नालान स्तम्भे द्वौ मत्तहस्तिनौ न बध्येते, परस्परं भण्डनसम्भवात्; एवमेकस्मन् पञ्चरे द्वौ व्याघ्रौ न प्रक्षिप्येते ॥ अथ 'पाहुणए जं विहिग्गहणं" ति पदं व्याख्यातुमाह [भा. ४४११] रायणिओ आयरिओ, आयरियस्सेव अक्कमइ ठागं । इतरो वसभट्ठाए, ठायइ जे ते व दो ठागा ॥ वृ- यदि प्राधूर्णक आचार्यै रत्नाधिकस्ततोऽसावाचार्यस्यैव 'स्थानम्' अवकाशमाक्रामति, वास्तव्याचार्यस्थाने संस्तारयतीत्यर्थः । 'इतरः' वास्तव्याचार्य 'वृषभस्य' उपाध्यायस्य 'स्थाने' अवकाशे 'तिष्ठति' संस्तारयति; अथवा यद् आचार्यसत्कं संस्तारकत्रयं तन्मध्यादेकस्मिन् प्राधुणकाचार्य प्रसुप्तः, “जे ते व दो ठग' त्ति ततो यौ तौ द्वावशिष्यमाण संस्तारकौ तयोरेकस्मिन् वास्तव्याचार्य संस्तारयति ॥ [ भा. ४४१२] ओमो पुन आयरिओ, वसभोगासे अनंतरे वसभो । संछोभपरंपरओ, चरिमं सेहं च मोत्तूणं ॥ वृ- अथासौ प्राघुणक आचार्य 'अवमः' पर्यायलघुस्ततोऽसौ वृषभस्यावकाशे संस्तारयति । वृषभस्तु तदनन्तरे - अवमरालिकस्थाने स्वपिति । एवं संस्तारकाणां 'संछोभपरम्परकः' परम्परया स्थानान्तरसङ्क्रमणरूपः तावद् मन्तव्यो यावद् द्विचरमः साधुः । यस्तु चरमः सर्वपाश्चात्यावकाशशायी तं शैक्षं च मुक्त्वा, तयोः संस्तारको नान्यत्र सङ्क्रामयितव्य इति भावः ॥ इदमेवव्याचष्टे [भा. ४४१३] चरिमो बहिं न कीरइ, सेहं न सहायगा विजुयलेति । Page #498 -------------------------------------------------------------------------- ________________ उद्देशकः३, मूलं-९६, [भा. ४४१३] ४९५ रंगिद्धिपुरिसनायं, सब्वे तत्थेव मावेति॥ वृ-'चरमः' पर्यन्तवर्ती बहिर्न क्रियते, शैक्षमपि सहायकात्' शिक्षाग्राहकान्न 'वियुगलयन्ति' युगलान स्फेटयन्ति, बहिर्निष्काश्यमानौहितौ बहिर्भावंगच्छेताम्, बहिर्भावगमनतःप्रतिगमनादीनि कुर्याताम्, अतः संस्तारकाः संक्षिप्य तथा प्रस्तरणीयाः यथा 'तयोरपि चरमशैक्षयोः संस्तारको प्रतिश्रयमध्य एव पूर्यते । तथा चात्र रङ्गे ये ऋद्धिमन्तः पुरुषास्तैातम्- दृष्टान्तः कर्तव्यः-यथा रङ्गभूमौ पूर्वप्राकृतजनैराकीर्णायामपिये राजा-ऽमात्य श्रेष्ठिप्रभृतयः प्रधानपुरुषाः पश्चादागच्छन्ति तेषामुपवेशनयोग्यान्अवकाशान्दत्त्वा संक्षिप्ततरावकाशस्थापनेनप्रागुपविष्टाअपितत्रैव माप्यन्ते; एवमस्माकमपि प्राघूर्णकाः प्रधानपुरुषकल्पाः, ततस्तेषां यथायोग्यमवकाशान् दत्त्वा वृषभाः संस्तारकभूमीः संक्षिप्य प्रयच्छन्तः सर्वानपि साधून् तत्रैव मापयन्ति ॥ . -- -- X - - - - -X - - -- मुनि दीपरत्नसागरेण संशोधिता सम्पादिता वृहत्कल्पसूत्रे तृतीयोग्रेशकस्य मूलं-९६ पर्यन्ता (भद्रबाहुस्वामिना स्वोपज्ञनियुक्ति युक्त) सत्यदासगणि विरचितं भाष्यं एवं मल्यगिरि-क्षेमकीर्ति आचार्याभ्यां विरचिता वृत्तिः समाप्त॥ | ३५/२ | द्वितीयं छेदसूत्रं-'बृहत्कल्प' अपूर्णः | Page #499 -------------------------------------------------------------------------- ________________ ४९६ बृहत्कल्प-छेदसूत्रम् -२-३/९६ भागः१८ पीठिका एवं मूलं-७- पर्यन्तः उद्देशक : १ भाग : १९ (२) उद्देशक : १ - मूलं- ८...५०, उद्देशक ः २, उद्देशक ः ३ मूल ९६ पर्यन्तः भागः२० उद्देशक : ३ - मूलं-९७.....उद्देशकः ६ सम्पूर्णः Page #500 -------------------------------------------------------------------------- ________________ [1] ભાવભરી વંદના જેમના દ્વારા સૂત્રમાં ગુંથાયેલ જિનવાણીનો ભવ્ય વારસો વર્તમાનકાલીન ‘‘આગમસાહિત્ય’'માં પ્રાપ્ત થયો એ સર્વે સૂરિવર આદિ આર્ષ પૂજ્યશ્રીઓને પંચમ ગણધર શ્રી સુધર્મા સ્વામી દશ પૂર્વધર શ્રી શય્યભવસૂરિ દેવવાચક ગણિ દેવર્દ્રિગણિ ક્ષમાશ્રમણ સંઘદાસણિ જિનદાસ ગણિ મહત્તર શીલાંકાચાર્ય મલયગિરિસૂરિ હરિભદ્રસૂરિ દ્રોણાચાર્ય વાદિવેતાલ શાંતિચંદ્ર સૂરિ શાંતિચંદ્ર ઉપાધ્યાય ગુણરત્નસૂરી આનંદ સાગરસૂરિજી જિન વિજયજી જંબુ વિજયજી લાભસાગરસુરિજી બાબુ ધનપતસિંહ ૫૦ ભગવાનદાસ ચૌદ પૂર્વધર શ્રી ભદ્બાહુ સ્વામી (અનામી) સર્વે શ્રુત સ્થવી મહર્ષિઓ શ્રી શ્યામાચાર્ય વીરભદ્ર ઋષિપાલ બ્રહ્મમુનિ તિલકસૂરિ - સૂત્ર-નિર્યુક્તિ – ભાષ્ય – ચૂર્ણિ – વૃત્તિ – આદિના રચયિતા અન્ય સર્વે પૂજ્યશ્રી વર્તમાન કાલિન આગમ સાહિત્ય વારસાને સંશોધન-સંપાદન-લેખન આદિ દ્વારા મુદ્રીત/અમુદ્રીત સ્વરૂપે રજૂ કર્તા સર્વે શ્રુતાનુરાગી પૂજ્યપુરુષોને ચંદ્રસાગર સૂરિજી જિનભદ્ર ગણિ ક્ષમાશ્રમણ સિદ્ધસેન ગણિ અગસ્ત્યસિંહ સૂરિ અભયદેવસૂરિ ક્ષેમકીર્તિસૂરિ પુન્યવિજયજી અમરમુનિજી આચાર્ય તુલસી સ્મરણાંજલિ આર્યરક્ષિત સૂરિ (?) ચંદ્ર સૂરિ મલ્લધારી હેમચંદ્રસૂરિ ધર્મસાગર ઉપાધ્યાય વિજય વિમલગણિ ૫૦ બેચરદાસ ૫૦ રૂપેન્દ્રકુમાર શ્વેત પ્રકાશક સર્વે સંસ્થાઓ મુનિ માણેક ચતુરવિજયજી કનૈયાલાલજી ચંપક સાગરજી ૫૦ જીવરાજભાઈ ૫૦ હીરાલાલ Page #501 -------------------------------------------------------------------------- ________________ ८०० [2] (૪૫ આગમ મૂળ તથા વિવરણનું શ્લોક પ્રમાણદર્શક કોષ્ટક) क्रम | आगमसूत्रनाम - वृत्ति-कर्ता श्लोक प्रमाण श्लोकप्रमाण आचार २५५४ शीलाङ्काचार्य १२००० २. सूत्रकृत २१०० शीलाङ्काचार्य १२८५० ३. स्थान ३७०० अभदेवसूरि १४२५० ४. | समवाय १६६७ | अभयदेवसूरि ३५७५ ५. भगवती १५७५१ | अभयदेवसूरि १८६१६ ६. ज्ञाताधर्मकथा | ५४५० | अभयदेवसूरि ३८०० ७. उपासकदशा ८१२ | अभयदेवसूरि ८. अन्तकृद्दशा ९०० अभयदेवसूरि ४०० । ९. अनुत्तरोपपातिकदशा | १९२ अभयदेवसूरि १०० १०. |प्रश्नव्याकरण | १३०० अभयदेवसरि ५६३० ११. विपाकश्रुत १२५० अभयदेवसूरि ९०० १२. औपपातिक ११६७ | अभयदेवसूरि ३१२५ १३. राजप्रश्निय २१२० | मलयगिरिसूरि ३७०० १४. जीवाजीवाभिगम ४७०० मलयगिरिसूरि १४००० १५. प्रज्ञापना ७७८७ मलयगिरिसूरि १६००० १६. सूर्यप्रज्ञप्ति २२९६ | मलयगिरिसूरि ९००० १७. चन्द्रप्रज्ञप्ति २३०० मलयगिरिसूरि ९१०० | १८. जम्बूद्वीपप्रज्ञप्ति ४४५४ शान्तिचन्द्रउपाध्याय १९थी निरयावलिका ११०० चन्द्रसूरि ६०० |२३. (पञ्च उपाङ्ग) | २४. चतुःशरण ८० | विजयविमलयगणि | (?) २०० आतुर प्रत्याख्यान १०० गुणरत्लसूरि (अवचूरि) 1(?) १५० २६. महाप्रत्याख्यान १७६ आनन्दसागरसूरि (संस्कृतछाया) १७६ | २७. भक्तपरिज्ञा २१५ आनन्दसागरसूरि (संस्कृतछाया) २८. तन्दुल वैचारिक |विजयविमलगणि (?) ५०० २९. संस्तारक १५५ गुणरल सूरि (अवचूरि) ११० |३०. गच्छाचार १७५ विजयविमलगणि १५६० |३१. गणिविद्या १०५ आनन्दसागरसूरि (संस्कृतछाया) । १०५ १८००० २५. २१५ ५०० Page #502 -------------------------------------------------------------------------- ________________ [3] • मूल • वृत्ति ३७५ क्रम आगमसूत्रनाम वृत्ति-कर्ता श्लोक प्रमाण श्लोकप्रमाण ३२. | देवेन्द्रस्तव ३७५ | आनन्दसागरसूरि (संस्कृत छाया) ३३. | मरणसमाधि में ८३७ आनन्दसागरसूरि (संस्कृत छाया) ८३७ ३४. निशीथ ८२१ जिनदासगणि (चूणि) २८००० | सङ्घदासगणि (भाष्य) ७५०० ३५. बृहत्कल्प ४७३ मलयगिरि+क्षेमकीर्ति ४२६०० सङ्घदासगणि (भाष्य) ૭૬૦૦ ३६. व्यवहार ३७३ / मलयगिरि |३४००० | सङ्घदासगणि (भाष्य) ६४०० |३७. दशाश्रुतस्कन्ध ८९६ - ? - (चूणि) २२२५ ३८. जीतकल्प * १३० सिद्धसेनगणि (चूणि) १००० | ३९. | महानिशीथ ४५४८ | |४०. आवश्यक १३० हरिभद्रसूरि २२००० ४१. ओघनियुक्ति नि.१३५५ द्रोणाचार्य (?)७५०० पिण्डनियुक्ति * नि. ८३५ मलयगिरिसूरि ७००० |४२. दशवैकालिक ८३५ हरिभद्रसूरि ४३. | उत्तराध्ययन २००० शांतिसूरि १६००० ४४. नन्दी ७०० मलयगिरिसूरि ७७३२ ४५. | अनुयोगद्वार २००० मलधारीहेमचन्द्रसूरि | ५९०० नोध:(१) 631 ४५ भागम सूत्रोमा वर्तमान राणे पडेल १ थी ११ अंगसूत्रो, १२ थी २३ उपांगसूत्रो, २४थी33 प्रकीर्णकसूत्रो ३४थी. 3८ छेदसूत्रो, ४० थी ४३ मूळसूत्रो, ४४-४५ चूलिकासूत्रोना नामे डा प्रसिद्ध छे. (૨) ઉક્ત શ્લોક સંખ્યા અમે ઉપલબ્ધ માહિતી અને પૃષ્ઠ સંખ્યા આધારે નોંધેલ છે. જો કે તે સંખ્યા માટે મતાંતર તો જોવા મળે જ છે. જેમકે આચાર સૂત્રમાં ૨૫૦૦, ૨૫૫૪, ૨પરપ એવા ત્રણ શ્લોક પ્રમાણ જાણવા મળેલ છે. આવો મત-ભેદ અન્ય સૂત્રોમાં પણ છે. (3) 6 वृत्ति-हिनोंछे ते म ३८ संपाहन पनीछ. ते सिवायनी 44 वृत्ति-चूर्णि माहिसाहित्य भुद्रित अमुद्रित अवस्थामा ५९ छे ४. (४) गच्छाचार भने मरणसमाधि नविse चंदावेज्झय भने वीरस्तव प्रकीर्णक भावे छ. म “आगमसुत्ताणि" मां भूण ३५ भने "भामहीप''भा क्षरश: ગુજરાતી અનુવાદ રૂપે આપેલ છે. તેમજ વીતત્ત્વ જેના વિકલ્પ રૂપે છે એ ७००० Page #503 -------------------------------------------------------------------------- ________________ [4] पंचकल्पनु भाष्य अभे “आगमसुत्ताणि"भा संपाहीत थुछ. (५) ओघ भने पिण्ड बने नियुक्ति विल्छ . यस. मूळसूत्र ३५ प्रसिध्ध छ.४ બંનેની વૃત્તિ અમે આપી છે. તેમજ તેમાં ભાષ્યની ગાથાઓ પણ સમાવિષ્ટ થઈ છે. (5) र प्रकीर्णक सूत्रो भने महानिशीथ मे पाय मागमनी 5 वृत्ति मा ५८०५ यवानो लेप भगतो नथी. प्रकीर्णक नी संस्कृत छाया 6५८०५ छ तेथी भूपीछे. निशीथ-दशा-जितकल्प मेगनी चूर्णि मापीछे. म दशा अने जीतकल्प भे બંને ઉપરવૃત્તિ મળતી હોવાનો ઉલ્લેખ છે, પણ અમે તે મેળવી શક્યા નથી. જ્યારે निशीथ 6५२ तो मात्र वीसभा उद्देशकःनी ४ वृत्ति नो ८ भणे छ. वर्तमान आणे ४५॥राममा ५६५ नियुक्तिः । ४५० क्रम | नियुक्ति श्लोकप्रमाण | क्रम नियुक्ति श्लोकप्रमाण| १. आचार-नियुक्ति । ६. आवश्यक-नियुक्ति २५०० सूत्रकृत-नियुक्ति २६५ ७. ओघनियुक्ति १३५५ बृहत्कल्प-नियुक्ति * ८. पिण्डनियुक्ति ८३५ व्यवहार-नियुक्ति * ९.| दशवैकालिक-नियुक्ति ५. दशाश्रुत०-नियुक्ति | १८० १०. | उत्तराध्ययन-नियुक्ति. ५०० ७०० नोंध:(१) मा मापेर श्लोक प्रमाण मे या संध्या नथी. “3२ १२नो मे als" से प्रभारी नोधायेद श्लोक प्रमाण छ. (२) ★ बृहत्कल्प भने व्यवहार में बने सूत्रोनी नियुक्ति र भाष्य मा मणी छे. नो यथासंभव ८५ वृत्तिकार महर्षि भे भाष्य ७५२नी वृत्तिमा यो होय तेवू જોવા મળેલ છે. (3) ओघ भने पिण्ड नियुक्ति स्वतंत्र मूलआगम स्व३५ स्थान पामेल छ तेथी तेनु स्वतंत्र संपादन आगम-४१ ३५ थर छे. (तम४ ॥ संपानमा ५९छे.) (४) डीन नियुक्तिमाथी दशाश्रुतस्कन्ध नियुक्ति 6५२ चूर्णि भने अन्य पांय नियुक्ति ५२नी वृत्ति अभे सभासंपानमा शीत छ. या माछ नियुक्ति स्पष्ट समय . (५) नियुक्तिस्ता तरी भद्रबाहुस्वामी नो ८५.४ वा भणे छे. Page #504 -------------------------------------------------------------------------- ________________ क्रम 9. २. ३. ४. ५. [5] વર્તમાન કાળે ૪૫ આગમમાં ઉપલબ્ધ માથું भाष्य निशीषभाष्य बृहत्कल्पभाष्य व्यवहारभाष्य पञ्चकल्पभाष्य जीतकल्पभाष्य श्लोकप्रमाण क्रम ७५०० ६. ७६०० ७. ६४०० ८. ३१८५ ९. ३१२५ १०. भाष्य आवश्यकभाष्य ★ ओघनियुक्तिभाष्य ★ पिण्डनियुक्ति भाष्य - दशवैकालिकभाष्य ★ उत्तराध्ययनभाष्य (?) नोंध : (१) निशीष, बृहत्कल्प जने व्यवहारभाष्य ना र्ता सङ्घदासगणि होवानुं भगाय छे. अभारा संपादृनभां निशीष भाष्य तेनी चूर्णि साधे जने बृहत्कल्प तथा व्यवहार भाष्य तेनी-तेनी वृत्ति साथै समाविष्ट धयुं छे. (२) पञ्चकल्पभाष्य भभारा आगमसुत्ताणि भाग-३८ मां प्राशीत थयुं. (3) आवश्यकभाष्य भां गाथा प्रभाषा ४८३ सख्युं मां १८३ गाथा मूळभाष्य ३ये छे अने 300 गाथा अन्य भेड भाष्यनी छे. भेनो समावेश आवश्यक सूत्र-सटीकं भां अर्यो छे. [भे } विशेषावश्यक भाष्य भूषण प्रसिध्ध थयुं छे भागते समय आवश्यक सूत्र- ५२नुं भाष्य नथी भने अध्ययनो अनुसारनी अलग अलग वृत्ति આદિ પેટા વિવરણો તો આવશ્ય અને નીતત્ત્વ એ બંને ઉપર મળે છે. જેનો અત્રે ઉલ્લેખ અમે કરેલ નથી.] गाथाप्रमाण ४८३ ३२२ (४) ओघनिर्युक्ति, पिण्डनिर्युक्ति, दशवैकालिकभाष्य नो सभावेश तेनी तेनी वृत्ति भां थयो ४ छे. पाए। तेनो छर्ता विशेनो उल्लेख अमोने भजेल नथी. [ ओघनियुक्ति ઉપર ૩૦૦૦ શ્લોક પ્રમાણ ભાષ્યનો ઉલ્લેખ પણ જોવા મળેલ છે.] (५) उत्तराध्ययनभाष्यनी गाथा निर्युक्तिभां लगी गयानुं संभजाय छे (?) (5) खारीते अंग - उपांग - प्रकीर्णक चूलिका भे ३५ आगम सूत्रो (५२नो डोई માણનો ઉલ્લેખ અમારી જાણમાં આવેલ નથી. કોઈક સ્થાને સાક્ષી પાઠ-આદિ स्व३ये भाष्यगाथा भेवा भणे छे. (७) भाष्यकर्ता तरी मुख्य नाभ सङ्घदासगणि भेवा भणेस छे. तेभ४ जिनभद्रगणिक्षमाश्रमण ने सिद्धसेन गणि नोपा उल्लेख भणे छे. डेटलांड भाष्यना डर्ता અજ્ઞાત જ છે. ४६ ६३ Page #505 -------------------------------------------------------------------------- ________________ [6] वर्तमान अणे ४५ जागभभां उपलब्ध चूर्णिः श्लोकप्रमाण क्रम ८३०० ९. ९९०० क्रम चूर्णि १. आचार- चूर्णि २. सूत्रकृत-चूर्णि ३. भगवती - चूर्णि ४. जीवाभिगम-चूर्णि ५. जंबूद्वीपप्रज्ञप्ति - चूर्णि ६. निशीथचूर्णि ७. वृहत्कल्पचूर्णि ८. व्यवहारचूर्णि चूर्णि शचूर्ण १०. पञ्चकल्पचूर्णि ११. जीतकल्पचूर्णि १२. | आवश्यकचूर्णि १३. दशवैकालिकचूर्णि १४. उत्तराध्ययनचूर्णि ३११४ १५०० १८७९ २८००० १६००० १५. नन्दीचूर्णि १२०० १६. अनुयोगदारचूर्णि नोंध : (१) (31 १८ चूर्णिमांथी निशीथ, दशाश्रुतस्कन्ध, जीतकल्प से भरा चूर्णि अभारा भा સંપાદનમાં સમાવાઈ ગયેલ છે. श्लोकप्रमाण २२२५ ३२७५ 9000 १८५०० ७००० ५८५० १५०० २२६५ (२) आचार, सूत्रकृत, आवश्यक, दशवैकालिक, उत्तराध्ययन, नन्दी, अनुयोगद्वार એ સાત વૃત્તિ પૂજ્યપાદ આગમોદ્ધારક શ્રી એ પ્રકાશીત કરાવી છે. (3) दशवैकालिकनी जी से चूर्णि ४ अगत्स्यसिंहसूरिकृत छे तेनुं प्रकाशन पूभ्य श्री પુન્યવિજયજીએ કરાવેલ છે. (४) जंबूद्वीपप्रज्ञप्तिचूर्णि विशे हीरासास आयडीया अश्रार्थयित उत्सुं कुरे छे.. भगवती चूर्णि तो भजे छे, पास एक प्राशीत थर्म नथी. तेभ४ वृहत्कल्प, व्यवहार, પદ્મવત્ત્વ એ ત્રણ હસ્તપ્રતો અમે જોઈ છે પણ પ્રકાશીત થયાનું જાણમાં નથી. (५) चूर्णिकार तरी} जिनदासगणिमहत्तरन्तुं नाभ मुख्यत्वे संभणाय छे. डेटलाइना भते અમુક પૂર્ણિના કર્તાનો સ્પષ્ટોલ્લેખ મળતો નથી. "भागम-पंथांगी" खेड यिन्त्य जाजत " ૧ વર્તમાન કાળે પ્રાપ્ત આગમ સાહિત્યની વિચારણા પછી ખરેખર આગમના પાંચ અંગોમાં કેટલું અને શું ઉપલબ્ધ છે તે જાણ્યા પછી એક પ્રશ્ન થાય કે આગમ પંચાંગી नी वातो डेटसी विन्त्य छे. अंग- उपांग- प्रकीर्णक-चूलिका ये उप भागभो (पर માષ્ય નથી. એટલે ૩૫ આગમનું એક અંગ તો અપ્રાપ્ય જ બન્યું. સૂત્ર પરત્વે ઉપલબ્ધ નિર્યુક્તિ ફક્ત છ છે. એટલે ૩૯ આગમોનું એક અંગ અપ્રાપ્ય જ બન્યું. खारीते ज्यांड भाष्य, ड्यांड नियुक्ति भने ड्यांड चूर्णिन । खभावे वर्तमान अणे सुव्यवस्थित पंचांगी भेड भात्र आवश्यक सूत्र नी गाशाय . २ नंदीसूत्र भां पंचांगीने पहले संग्रहणी, प्रतिपत्ति खो वगेरेना पशु उल्लेख छे. Page #506 -------------------------------------------------------------------------- ________________ 10 ... ( ૪૫ આગમ અંતર્ગત વર્તમાન કાળે ઉપલબ્ધ વિભાગો ) સૂિચના - અમે સંપાદિત કરેલ કુત્તા-દીવ માં બેકી નંબરના પૃષ્ઠો ઉપર જમણી બાજુ કામસૂત્ર ના નામ પછી અંકો આપેલ છે. જેમકે ૧/૩/૬/૨/૧૪ વગેરે. આ અંકો તે તે આગમના વિભાગીકરણને જણાવે છે. જેમકે સવારમાં પ્રથમ અંક કૃતજ઼શ્વનો છે તેના વિભાગ રૂપે બીજો અંક જૂની છે તેના પેટા વિભાગ રૂપે ત્રીજો અંક અધ્યયનનો છે. તેના પેટા વિભાગ રૂપે ચોથો અંક ઉદ્દેશ નો છે. તેના પેટા વિભાગ રૂપે છેલ્લો અંક મૂનો છે. આ મૂન ગદ્ય કે પદ્ય હોઈ શકે. જો ગદ્ય હોય તો ત્યાં પેરેગ્રાફ સ્ટાઈલથી કે છૂટુ લખાણ છે અને માથા/પદ્ય ને પદ્યની સ્ટાઈલથી II - || ગોઠવેલ છે. પ્રત્યેક આગમ માટે આ રીતે જ ઓબ્લિકમાં (1) પછી ના વિભાગને તેના-તેના પેટા-પેટા વિભાગ સમજવા. જ્યાં જે-તે પેટા વિભાગ ન હોય ત્યાં (/-) ઓબ્લિક પછી ડેસ મુકીને તે વિભાગ ત્યાં નથી તેમ સુચવેલું છે.] (9) નાવાર - શ્રુતસ્ક્રન્થ:/વૃત્તા/અધ્યય/ઉદ્દેશ:/મૂક્ત પૂરા નામક પેટા વિભાગ બીજા શ્રુતસ્કન્દમાં જ છે. (२) सूत्रकृत - श्रुतस्कन्धः/अध्ययनं/उद्देशकः/मूलं (३) स्थान - स्थान/अध्ययन/मूलं (૪) નવેય - સમવાય:/મૂને (૬) ભાવતી - શત/વ:-મંતરશત/ઉદેશ6:/મૂર્ત અહીં શતક્રના પેટા વિભાગમાં બે નામો છે. (૧) ૪. (૨) સંતશતવ કેમકે શત ૨૧, ૨૨, ૨૩ માં શત ના પેટા વિભાગનું નામ : જણાવેલ છે. શતક - રૂ૩,૩૪,૩૧,૩૬,૪૦ ના પેટા વિભાગને અંતરશત અથવા શતશત નામથી ઓળખાવાય છે. ज्ञाताधर्मकथा- श्रुतस्कन्धः/वर्ग:/अध्ययन/मूलं પહેલા શ્રુતજ્યમાં અધ્યયન જ છે. બીજા ભૃતબ્ધ નો પેટાવિભાગ નામે છે અને તે ય ના પેટા વિભાગમાં વધ્યા છે. उपासकदशा- अध्ययनं/मूलं अन्तकृद्दशा- वर्गः/अध्ययन/मूलं अनुत्तरोपपातिकदशा- वर्गः/अध्ययन/मूलं प्रश्नव्याकरण- द्वारं/अध्ययन/मूलं કાકા અને સંવર એવા સ્પષ્ટ બે ભેદ છે જેને આશ્રવદાર અને સંવાદ કહ્યા છે. (કોઈક ને બદલે શ્રુત શબ્દ પ્રયોગ પણ કરે છે) (9) विपाकश्रुत- श्रुतस्कन्धः/अध्ययन/मूलं (१२) औपपातिक- मूलं (૧૩) ગીર- મૂi Page #507 -------------------------------------------------------------------------- ________________ [8] (१४) जीवाजीवाभिगम- *प्रतिपत्तिः/* उद्देशकः/मूलं આ આગમમાં ઉક્ત ત્રણ વિભાગો કર્યા છે તો પણ સમજણ માટે પ્રતિત્તિઃ પછી એક પેટાવિભાગ नोधनीय छे. 343 प्रतिपत्ति -३-मां नेरइय, तिरिक्खजोणिय, मनुष्य, देव मेवा ॥२ पेटविला ५४ छ. तथा तिपत्ति/(नेरइयआदि)/उद्देशकः/मूलं मेरीत स्पष्ट पाछे, मे०४ श भी प्रतिपत्ति ना उद्देशकः नवनयी ५ ते पेटविभाग प्रतिपत्तिः ना ४ छे. (१५) प्रज्ञापना- पदं/उद्देशकः/द्वारं/मूलं पदना पेट qिuunwi suis उद्देशकः छ, siis द्वार छ ५९ ५८-२८न विनाम उद्देशकः અને તેના પેટા વિભાગમાં જે પણ છે. (१६) सूर्यप्रज्ञप्ति- प्राभृतं/प्राभृतप्राभृतं/मूलं (१७) चन्द्रप्रज्ञप्ति- प्राभृतं/प्राभृतप्राभृतं/मूलं माराम १६-१७मा प्राभृतप्राभृत न। ५९ प्रतिपत्तिः नाम पेटविल छ. ५९५ उद्देशकः ॥ મુજબ તેનો વિશેષ વિસ્તાર થાયેલ નથી. (१८) जम्बूदीपप्रज्ञप्ति- वक्षस्कारः/मूलं (१९) निरयावलिका - अध्ययनं/मूलं (२०) कल्पवतंसिका - अध्ययन/मूलं (२१) पुष्पिता - अध्ययन/मूलं (२२) पुष्पचूलिका - अध्ययन/मूलं (२३) वण्हिदशा - अध्ययन/मूलं माराम १८ थी २३ निरयावलिकादि नामथी साथे सेवाभणे 3 तेने 64in1 पाय l तरी सूत्र भोगावे . भial-1, निरयावलिका, 4-२ कल्पवतंसिका... १२३ ४४१ (२४ थी ३३) चतुःशरण (आदि दशेपयन्ना) मूलं (३४) निशीय - उद्देशकः/मूलं (३५) बृहत्कल्प - उद्देशकः/मूलं (३६) व्यवहार - उद्देशकः/मूलं (३७) दशाश्रुतस्कन्ध - दशा/मूलं (३८) जीतकल्प - मूलं (३९) महानिशीथ - अध्ययनं/उद्देशकः/मूलं (४०) आवश्यक - अध्ययनं/मूलं (४१) ओघ/पिण्डनियुक्ति - मूलं (४२) दशवैकालिक - अध्ययनं/उद्देशकः/मूलं । (४३) उत्तराध्ययन - अध्ययनं//मूलं (४४- ४५) नन्दी-अनुयोगद्वार - मूलं Page #508 -------------------------------------------------------------------------- ________________ [9] ४.. ७३ १२ ८२ १०. ४७ અમારા સંપાદીત ૪૫ આગમોમાં આવતા મૂલ નો અંક તથા તેમાં સમાવિષ્ટ ગાથા क्रम | आगमसूत्र । मूलं | गाथा | क्रम | आगमसूत्र | मूलं | गाथा आचार । ५५२ १४७ | २४. | चतुःशरण ६३ । ६३ सूत्रकृत ८०६ ७२३ २५. आतुरप्रत्याख्यान ७१ । ७० स्थान १०१० १६९ २६. महाप्रत्याख्यानं १४२ १४२ समवाय | ३८३ । ९३ / २७. | भक्तपरिज्ञा । १७२ | १७२ भगवती १०८७ ११४ । २ तंदुलवैचारिक १६१ १३९ ज्ञाताधर्मकथा २४१ ५७ । २९. | संस्तारक १३३ १३३ उपासक दशा १३ । | ३०. गच्छाचार १३७ | १३७ ८. | अन्तकृद्दशा ६२ | ३१. गणिविद्या ८२ अनुत्तरोपपातिक देवेन्द्रस्तव ३०७ | ३०७ प्रश्नव्याकरण १४ | ३३. मरणसमाधि ६६४ ६६४ ११./ विपाकश्रुत ४७ ३ | ३४. । निशीष १४२० १२. औपपातिक । ७७ । ३० | ३५. | बृहत्कल्प '२१५ १३. राजप्रश्निय | ३६. व्यवहार २८५ १४. जीवाभिगम ३९८ | ९३ | ३७. दशाश्रुतस्कन्ध । ११४ १५. प्रज्ञापना ६२२ २३१ । ३८. जीतकल्प १०३ | १०३ १६. सूर्यप्रज्ञप्ति २१४ १०३ | ३९. महानिशीथ १५२८ १७. चन्द्रप्रज्ञप्ति २१८ १०७ । ४०. | आवश्यक ९२ । २१ १८.| जम्बूदीपप्रज्ञप्ति | ३६५ | १३१ | ४१. | ओघनियुक्ति । ११६५ ११६५ १९.| निरयावलिका २१ ४१. पिण्डनियुक्ति ७१२ ७१२ २०. कल्पवतंसिका १ | ४२. दशवैकालिक ५४० ५१५ २१. पुष्पिता २ । ४३. उत्तराध्ययन १७३१ १६४० २२. पुष्पचूलिका नन्दी १६८ ९३ ५ । १/४५. | अनुयोगद्वार ३५० १४१ २३. वण्हिदशा नों५ :- 651 गाथा संज्यानो समावेश मूलं भां 45 °४ ०१५. ते मूल सिवायनी असा गाथा समावी नहीं. मूल शब्द मे अभी सूत्र भने गाथा जने भाटेनो सापेलो. संयुक्त भनुम छ. गाथा Mix संपानीमा सामान्य घरावती होवाथी तेनी मला આપેલ છે. પણ સૂત્રના વિભાગ દરેક સંપાદકે ભિન્નભિન્ન રીતે કર્યા હોવાથી અમે સૂત્રાંક જુદો પાડતા નથી. Page #509 -------------------------------------------------------------------------- ________________ [૧૦] [૧૧] [૧૨] [૧૩] [૧૪] [૧૫] [૧૬] [૧૭] [10]. – અમારા પ્રકાશનો – अभिनव हेम लघुप्रक्रिया - १ - सप्ताङ्ग विवरणम् अभिनव हेम लघुप्रक्रिया - २ - सप्ताङ्ग विवरणम् अभिनव हेम लघुप्रक्रिया - ३ - सप्ताङ्ग विवरणम् अभिनव हेम लघुप्रक्रिया - ४ - सप्ताङ्ग विवरणम् कृदन्तमाला चैत्यवन्दन पर्वमाला चैत्यवन्दन सङ्ग्रह - तीर्थजिनविशेष चैत्यवन्दन चोविशी शत्रुञ्जय भक्ति [आवृत्ति-दो] अभिनव जैन पञ्चाङ्ग - २०४६ અભિનવ ઉપદેશ પ્રાસાદ - ૧- શ્રાવક કર્તવ્ય - ૧ થી ૧૧ અભિનવ ઉપદેશ પ્રાસાદ - ૨- શ્રાવક કર્તવ્ય - ૧૨ થી ૧૫ અભિનવ ઉપદેશ પ્રાસાદ – ૩- શ્રાવક કર્તવ્ય - ૧૬ થી ૩૬ નવપદ - શ્રીપાલ (શાશ્વતી ઓળીના વ્યાખ્યાન રૂપે) સમાધિમરણ [વિધિ - સૂત્ર-પદ્ય- આરાધના-મરણભેદ-સંગ્રહ) ચૈત્યવંદન માળા [૭૭૯ ચૈત્યવનંદનોનો સંગ્રહ] તત્વાર્થ સૂત્ર પ્રબોધટીકા [અધ્યાય-૧) તત્વાર્થ સૂત્રના આગમ આધાર સ્થાનો સિદ્ધાચલનો સાથી [આવૃત્તિ – બે ચૈત્ય પરિપાટી અમદાવાદ જિનમંદિર ઉપાશ્રય આદિ ડિરેક્ટરી શત્રુંજય ભક્તિ [આવૃત્તિ - બે]. શ્રી નવકારમંત્ર નવલાખ જાપ નોંધપોથી શ્રી ચારિત્ર પદ એક કરોડ જાપ નોંધપોથી શ્રી બારવ્રત પુસ્તિકા તથા અન્ય નિયમો - [આવૃત્તિ - ચાર]. અભિનવ જૈન પંચાંગ - ૨૦૪૨ સિર્વપ્રથમ ૧૩ વિભાગોમાં શ્રી જ્ઞાનપદ પૂજા અંતિમ આરાધના તથા સાધુ સાધ્વી કાળધર્મ વિધિ શ્રાવક અંતિમ આરાધના (આવૃત્તિ ત્રણ વીતરાગ સ્તુતિ સંચય [૧૧૫૧ ભાવવાહી સ્તુતિઓ] (પૂજ્ય આગમોદ્ધારક શ્રી ના સમુદાયના) કાયમી સંપર્ક સ્થળો તત્વાધિગમ સૂત્ર અભિનવ ટીકા - અધ્યાય-૧ તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા - અધ્યાયતત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા - અધ્યાય-૩ તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા- અધ્યાય-૪ [૧૮] [૧૯]. [૨૦] [૨૧] [૨] [૩] [૨૪] [૫] [૨] [૨૭]. [૨૮] [૨૯] [30] [૩૧] [૩૨] [૩૩] [૩૪] [૩૫] Page #510 -------------------------------------------------------------------------- ________________ [11] [38] તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા - અધ્યાય-૫ [३७] तत्वाघिगम सूत्र मभिनव -अध्याय-5 [३८] તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા - અધ્યાય-૭ [૩૯] તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા - અધ્યાય-૮ [४०] तत्वापिगम सूत्र अभिनव 21st - Hध्याय-९ ૪૧] તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા- અધ્યાય-૧૦ પ્રકાશન ૧ થી ૪૧ અભિનવશ્રત પ્રકાશને પ્રગટ કરેલ છે. [४२] आयारो [आगमसुत्ताणि-१] पढमं अंगसुत्तं [४३] सूयगडो [आगमसुत्ताणि-२] बीअं अंगसुत्तं [४४] ठाणं [आगमसुत्ताणि-३] तइयं अंगसुत्तं [४५] समवाओ [आगमसुत्ताणि-४] चउत्यं अंगसुत्तं [४६] विवाहपन्नति [आगमसुत्ताणि-५] पंचमं अंगसुत्तं [४७] नायाधम्मकहाओ [आगमसुत्ताणि-६] छठे अंगसुत्तं [४८] उवासगदसाओ [आगमसुत्ताणि-७] सत्तमं अंगसुत्तं [४९] अंतगडदसाओ [आगमसुत्ताणि-८] अट्ठमं अंगसुत्तं [५०] अनुत्तोववाइयदसाओ [आगमसुत्ताणि-९] नवमं अंगसुत्तं [५१] पण्हावागरणं [आगमसुत्ताणि-१०] दसमं अंगसुत्तं [५२] विवागसूयं [आगमसुत्ताणि-११] एक्कारसमं अंगसुत्तं [५३] उववाइयं [आगमसुत्ताणि-१२ ] पढम उवंगसुत्तं [५४] रायप्पसेणियं [आगमसुत्ताणि-१३ ] बीअं उवंगसुत्तं [५५] जीवाजीवाभिगमं [आगमसुत्ताणि-१४ ] तइयं उवंगसुत्तं [५६] पनवणासुत्तं [आगमसुत्ताणि-१५] चउत्यं उवंगसुत्तं [५७] सूरपन्नतिः [आगमसुत्ताणि-१६] पंचमं उवंगसुत्तं [५८] चंदपन्नत्तिः [आगमसुत्ताणि-१७ ] छठं उवंगसुत्तं [५९] जंबूद्दीवपन्नति [आगमसुत्ताणि-१८] सत्तमं उवंगसुत्तं [६०] निरयावलियाणं [आगमसुत्ताणि-१९] अट्ठमं उवंगसुत्तं [६१] कप्पवडिंसियाणं [आगमसुत्ताणि-२०] नवमं उवंगसुत्तं [६२] पुफियाणं [आगमसुत्ताणि-२१] दसम उवंगसुत्तं [६३] पुष्फचूलियाणं [आगमसुत्ताणि-२२ ] एक्सरसमं उवंगसुत्तं [६४] वण्हिदसाणं [आगमसुत्ताणि-२३] बारसमं उवंगसुत्तं [६५] चउसरणं [आगमसुत्ताणि-२४] पढमं पईण्णगं [६६] आउरपञ्चक्खाणं [आगमसुत्ताणि-२५] बीअं पईण्णगं [६७] महापच्चक्खाणं [आगमसुत्ताणि-२६] तीइयं पईण्णगं [६८] भत्तपरिण्णा [आगमसुत्ताणि-२७ ] चउत्यं पईण्णगं Page #511 -------------------------------------------------------------------------- ________________ [12] [६९] तंदुलवेयालियं [आगमसुत्ताणि-२८] पंचमं पईण्णगं [७०] संथारगं [आगमसुत्ताणि-२९] छठु पईण्णगं [७१] गच्छायार [आगमसुत्ताणि-३०/१] सत्तमं पईण्णगं-१ [७२] चंदावेज्झयं [आगमसुत्ताणि-३०/२ ] सत्तमं पईण्णगं-२ [७३] गणिविजा [आगमसुत्ताणि-३१] अठ्ठमं पईण्णगं [७४] देविंदत्थओ [आगमसुत्ताणि-३२] नवमं पईण्णगं [७५] मरणसमाहि [आगमसुत्ताणि-३३/१] दसमं पईण्णगं-१ [७६] वीरत्थव [आगमसुत्ताणि-३३/२ ] दसमं पईण्णग-२ [७७] निसीह [आगमसुत्ताणि-३४] पढमं छेयसुत्तं [७८] बुहत्कप्पो [आगमसुत्ताणि-३५] बीअं छेयसुत्तं [७९] ववहार [आगमसुत्ताणि-३६] तइयं छेयसुत्तं [८०] दसासुयक्खधं [आगमसुत्ताणि-३७] चउत्थं छेयसुत्तं [८१] जीयकप्पो [आगमत्ताणि-३८/१] पंचमं छेयसुत्तं-१ [८२] पंचकप्पभास [आगमसुत्ताणि-३८/२ ] पंचमं छेयसुत्तं-२ [८३] महानिसीहं [आगमसुत्ताणि-३९] छठं छेयसुत्तं [८४] आवसस्सयं [आगमसुत्ताणि-४०] पढमं मूलसुतं [८५] ओहनिज्जुत्ति [आगमसुत्ताणि-४१/१] बीअं मूलसुत्तं-१ [८६] पिंडनिनुत्ति [आगमसुत्ताणि-४१/२ ] बीअं मूलसुत्तं-२ [८७] दसवेयालियं [आगमसुत्ताणि-४२] तइयं मुलसुत्तं [८८] उतरल्झयणं [आगमसुत्ताणि-४३] चउत्थं मूलसुत्तं . [८९] नंदीसूर्य [आगमसुत्ताणि-४४] पढमा चूलिया [९०] अनुओगदारं [आगमसुत्ताणि-४५] बितिया चूलिया પ્રકાશન ૪૨ થી ૯૦ આગમશ્રત પ્રકાશને પ્રગટ કરેલ છે. [१] मायार - ગુજરાતી અનુવાદ [આગમદીપ-૧] પહેલું અંગસૂત્ર [२] सूयगड ગુજરાતી અનુવાદ [આગમદીપ-૧] બીજું અંગસૂત્ર [८] - ગુજરાતી અનુવાદ [આગમદીપ-૧] ત્રીજું અંગસૂત્ર [४] समवाय ગુજરાતી અનુવાદ [આગમદીપ-૧] ચોથું અંગસૂત્ર [૫] વિવાહપન્નત્તિ - ગુજરાતી અનુવાદ (આગમદીપ-૨) પાંચમું અંગસૂત્ર [es] नयाधम्मा- ગુજરાતી અનુવાદ [આગમદીપ-૩] છછું અંગસૂત્ર ઉવા સગદસા - ગુજરાતી અનુવાદ [આગમદીપ-૩] સાતમું અંગસૂત્ર [c८] मंतरासा- ગુજરાતી અનુવાદ (આગમદીપ-૩] આઠમું અંગસૂત્ર [૯] અનુત્તરોપપાતિકદસા- ગુજરાતી અનુવાદ (આગમદીપ-૩] નવમું અંગસૂત્ર [१00] वा२९- ગુજરાતી અનુવાદ [આગમદીપ-૩] દશમું અંગસૂત્ર Page #512 -------------------------------------------------------------------------- ________________ [13]. [૧૦૧] વિવાગસૂય - [૧૨] ઉવવાઈય [૧૩] રાયપ્રસેણિય - [૧૦] જીવાજીવાભિગમ - [૧૫] પન્નવણાસુર [૧૦] સૂરપત્તિ - [૧૦] ચંદપન્નતિ - [૧૦૮] જંબુદ્િવપન્નતિ - [૧૯] નિરયાવલિયા - [૧૧૭] કપૂવડિસિયા - [૧૧૧] પુષ્ક્રિયા - [૧૧૨] પુચૂલિયા - [૧૧૩] વણિહદસા - [૧૪] ચઉસરણ - [૧૧૫ આઉરપ્પચ્ચખાણ - [૧૧] મહાપચ્ચક્માણ - [૧૧૭] ભત્તપરિષ્ણા - [૧૧૮] તંદુવેયાલિય - [૧૧] સંથારગ - [૧૨] ગચ્છાયાર - [૧૨૧] ચંદાબેલ્જય[૧૨૨ ગણિવિજ્જા - [૧૩] દેવિંદત્યઓ - [૧૨] વીરત્યવ - [૧રપ નિસીહ[૧૨] બુહતકપ્ય[૧૭] વવહાર - . [૧૨૮] દસાસુયફખંધ - [૧૨] જીયકષ્પો – [૧૩મહાનિસીહ[૧૩૧] આવસ્મય - [૧૩૨] ઓનિષુત્તિ[૧૩૩] પિંડનિસ્તુત્તિ - [૧૩૪] દસયાલિય - ગુજરાતી અનુવાદ (આગમદીપ-૩] અગિયારમું અંગસૂત્ર ગુજરાતી અનુવાદ (આગમદીપ-૪] પહેલું ઉપાંગસૂત્ર ગુજરાતી અનુવાદ (આગમદીપ-૪] બીજું ઉપાંગસૂત્ર ગુજરાતી અનુવાદ આગમદીપ-૪] ત્રીજું ઉપાંગસૂત્ર ગુજરાતી અનુવાદ [આગમદીપ-૪] ચોથું ઉપાંગસૂત્ર ગુજરાતી અનુવાદ (આગમદીપ-૫] પાચમું ઉપાંગસૂત્ર ગુજરાતી અનુવાદ [આગમદીપ-૫] છઠ્ઠ ઉપાંગસૂત્ર ગુજરાતી અનુવાદ [આગમદીપ-૫] સાતમું ઉપાંગસૂત્ર ગુજરાતી અનુવાદ (આગમદીપ-૫] આઠમું ઉપાંગસૂત્ર ગુજરાતી અનુવાદ [આગમદીપ-૫] નવમું ઉપાંગસૂત્ર ગુજરાતી અનુવાદ (આગમદીપ-૫] દશમું ઉપાંગસૂત્ર ગુજરાતી અનુવાદ [આગમદીપ-૫] અગિયારમું ઉપાંગસૂત્ર ગુજરાતી અનુવાદ [આગમદીપ-૫] બારમું ઉપાંગસૂત્ર ગુજરાતી અનુવાદ (આગમદીપ-૬] પહેલો પત્રો ગુજરાતી અનુવાદ [આગમદીપ-] બીજો પડ્યો ગુજરાતી અનુવાદ (આગમદીપ-૪] ત્રીજો પયગ્નો ગુજરાતી અનુવાદ [આગમદીપ-૬] ચોથો પડ્યો ગુજરાતી અનુવાદ [આગમદીપ-૬] પાંચમો પડ્યો ગુજરાતી અનુવાદ [આગમદીપ-૬] છઠ્ઠો પડ્યો ગુજરાતી અનુવાદ [આગમદીપ-૬] સાતમો પયગ્નો-૧ ગુજરાતી અનુવાદ [આગમદીપ-૬] સાતમો પયગ્નો-૨ ગુજરાતી અનુવાદ [આગમદીપ-] આઠમો પયજ્ઞો ગુજરાતી અનુવાદ (આગમદીપ-૬] નવમો પડ્યો ગુજરાતી અનુવાદ (આગમદીપ-] દશમો પડ્યો ગુજરાતી અનુવાદ [આગમદીપ-૬] પહેલું છેદસૂત્ર ગુજરાતી અનુવાદ [આગમદીપ-] બીજું છેદસૂત્ર ગુજરાતી અનુવાદ (આગમદીપ-] ત્રીજું છેદસૂત્ર ગુજરાતી અનુવાદ [આગમદીપ-૬] ચોથું છેદસૂત્ર ગુજરાતી અનુવાદ [આગમદીપ-૬] પાંચમું છેદસૂત્ર ગુજરાતી અનુવાદ [આગમદીપ-૬] છઠ્ઠ છેદસૂત્ર ગુજરાતી અનુવાદ (આગમદીપ-૭] પહેલું મૂલસુત્ર ગુજરાતી અનુવાદ [આગમદીપ-૭] બીજું મૂલસુત્ર-૧ ગુજરાતી અનુવાદ [આગમદીપ-૭] બીજું મૂલસુત્ર-૨ ગુજરાતી અનુવાદ [આગમદીપ-૭ત્રીજું મુલસૂત્ર Page #513 -------------------------------------------------------------------------- ________________ [14] [१3५] उत्त२४जय- ગુજરાતી અનુવાદ [આગમદીપ-૭] ચોથું મૂલસુત્ર [૧૩] નંદીસુત્ત - ગુજરાતી અનુવાદ [આગમદીપ-૭] પહેલી ચૂલિકા [१७] अनुयोगद्वार- ગુજરાતી અનુવાદ (આગમદીપ-૭] બીજી ચૂલિકા પ્રકાશન ૯૧ થી ૧૩૭ આગમદીપ પ્રકાશને પ્રગટ કરેલ છે. [૧૩૮] દીક્ષા યોગાદિ વિધિ [૧૩] ૪૫ આગમ મહાપૂજન વિધિ [१४०] आचाराङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-१ [१४१] सूत्रकृताङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-२ [१४२] स्थानाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-३ [१४३] समवायाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-४ [१४४] भगवतीअङ्गसूत्रं सटीक आगमसुत्ताणि सटीक-५/६ [१४५] ज्ञाताधर्मकथाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-७ [१४६] उपासकदशाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-७ [१४७] अन्तकृद्दशाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-७ [१४८] अनुत्तरोपपातिकदशाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-७ [१४९] प्रश्नव्याकरणाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-७ [१५०] विपाकश्रुताङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-८ [१५१] औपपातिकउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-८ [१५२] राजप्रश्नियउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-८ [१५३] जीवाजीवाभिगमउपाङ्गसूत्रं 'सटीकं आगमसुत्ताणि सटीकं-९ [१५४] प्रज्ञापनाउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-१०/११ [१५५] सूर्यप्रज्ञप्तिउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-१२ [१५६] चन्द्रप्रज्ञप्तिउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-१२ [१५७] जम्बूद्वीवप्रज्ञप्तिउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-१३ [१५८] निरयावलिकाउपाङ्गसूत्रं सटीक आगमसुत्ताणि सटीकं-१४ [१५९] कल्पवतंसिकाउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-१४ [१६०] पुष्पिताउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-१४ [१६१] पुष्पचूलिकाउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-१४ [१६२] वण्हिदसाउपाङ्गसूत्रं सटीक आगमसुत्ताणि सटीकं-१४ [१६३] चतुःशरणप्रकीर्णकसूत्र सटीकं आगमसुत्ताणि सटीकं-१४ [१६४] आतुरप्रत्याव्यानप्रकीर्णकसूत्रं सटीकं आगमसुत्ताणि सटीकं-१४ [१६५] महाप्रत्याख्यानप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं-१४ [१६६] भक्तपरिज्ञाप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं-१४ Page #514 -------------------------------------------------------------------------- ________________ [15] [१६७ ] तंदुलवैचारिक प्रकीर्णकसूत्रं सटीकं [१६८ ] संस्तारकप्रकीर्णकसूत्रं सच्छायं [१६९ ] गच्छाचारप्रकीर्णकसूत्रं सटीकं [ १७० ] गणिविद्याप्रकीर्णकसूत्रं सच्छायं [१७१] देवेन्द्रस्तवप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं - १४ आगमसुत्ताणि सटीकं - १४ आगमसुत्ताणि सटीकं - १४ आगमसुत्ताणि सटीकं - १४ आगमसुत्ताणि सटीकं - १५-१६-१७ आगमसुत्ताणि सटीकं - १८-१९-२० आगगम सुत्ताणि सटीकं - २१-२२ आगमसुत्ताणि सटीकं - २३ आगमसुत्ताणि सटीकं - २३ आगमसुत्ताणि सटीक - २३ आगमसुत्ताणि सटीकं - २४-२५ आगम सुत्तामि सटीकं - २६ आगमसुत्ताणि सटीकं - २६ आगमसुत्ताणि सटीकं - २७ आगमसुत्ताणि सटीकं - २८-२९ आगमसुत्ताणि सटीकं - ३० आगमसुत्ताणि सटीकं - ३० પ્રકાશન ૧૩૯ થી ૧૮૫ આગમશ્રુત પ્રકાશને પ્રગટ કરેલ છે. [ १७२ ] मरणसमाधिप्रकीर्णकसूत्रं सच्छायं [१७३ ] निशीथछेदसूत्रं सटीकं [१७४ ] बृहत्कल्पछेदसूत्रं सटीकं [१७५] व्यवहारछेदसूत्रं सटीकं [१७६ ] दशाश्रुतस्कन्धछेदसूत्रं सटीकं [१७७] जीतकल्पछेदसूत्रं सटीकं [१७८ ] महानिशीथसूत्रं (मूलं ) [१७९ ] आवश्यकमूलसूत्रं सटीकं [१८० ] ओघनियुक्तिमूलसूत्रं सटीकं [१८१] पिण्डनिर्युक्तिमूलसूत्रं सटीकं [१८२] दशवैकालिकमूलसूत्रं सटीकं [१८३] उत्तराध्ययनमूलसूत्रं सटीकं [१८४ ] नन्दी - चूलिकासूत्रं सटीकं [१८५] अनुयोगद्वारचूलिकासूत्रं सटीकं आगमसुत्ताणि सटीकं - १४ आगमसुत्ताणि सटीक - १४ -: संपर्ड स्थण :'आागभ आराधना डेन्द्र’ शीतसनाथ सोसायटी-विभाग-१, इसे नं -१३, ४थे भाजे શ્રી નમિનાથ જૈન દેરાસરજી પાછળ, ન્હાઈ સેન્ટર, ખાનપુર અમદાવાદ-૧ Page #515 -------------------------------------------------------------------------- ________________ आगमसुत्ताणि भाग-१ भाग-२ भाग-३ भाग-४ भाग-५-६ भाग-७ [16] “आगमसुत्ताणि-सटीकं” भाग १ थी ३० नुं विवरा समाविष्टा आगमाः भाग-८ भाग-९ भाग-१०-११ भाग- १२ भाग - १३ भाग-१४ आयार सूत्रकृत स्थान समवाय भगवती ( अपरनाम व्याख्याप्रज्ञप्ति) ज्ञाताधर्मकथा, उपासकदशा, अन्तकृद्दशा, अनुत्तरोपपातिकदशा, प्रश्नव्याकरण विपाकश्रुत, औपपातिक, राजप्रश्निय जीवाजीवाभिगम प्रज्ञापना सूर्यप्रज्ञप्ति, चन्द्रप्रज्ञप्ति जम्बूद्वीपप्रज्ञप्ति निरवायलिका, कल्पवतंसिका, पुष्पिका, पुष्पचूलिका वहिदशा, चतुःशरण, आतुरप्रत्याख्यान, महाप्रत्याख्यान, भक्तपरिज्ञा, तन्दुलवैचारिक, संस्तारक, गच्छाचार, गणिविद्या, देवेन्द्रस्तव, मरणसमाधि भाग- १५-१६-१७ नीशीथ भाग - १८-१९-२० बृहत्कल्प भाग - २१-२२ व्यवहार भाग - २३ भाग - २४-२५ भाग - २६ भाग-२७ भाग - २८-२९ भाग - ३० | दशाश्रुतस्कन्ध, जीतकल्प, महनिशीथ आवश्यक ओघनिर्युक्ति, पिण्डनिर्युक्ति दशवैकालिक उत्तराध्ययन नन्दी, अनुयोगद्वार Page #516 -------------------------------------------------------------------------- ________________ rivale & Personal Use Only