________________
८६
बृहत्कल्प-छेदसूत्रम् -२-१/२५ [भा.२४५८] सति-कोउगेण दुन्नि वि, परिहिज्ज लइज्ज वा वि आभरणं ।
अन्नेसिं उवभोगं, करिज्ज वाएज वुड्डाहो ॥ वृ-स्मृतिश्च कौतुकंचेति द्वन्द्वैकवद्भावः, तेन स्मृति-कौतुकेन द्वावपि भुक्ता-ऽभुक्तभोगिनी वस्त्राणि वा परिदधीयाताम्, आभरणं वा स्वशरीरे लगयेताम्, 'अन्येषां वा गन्ध-शयनीयाऽऽसनादीनामुपभोगं कुर्याताम्, आतोधंवा वादयेताम्।असंयतो वा संयतमलङ्कृतविभूषितं दृष्टवा लोकमध्ये उड्डाहं कुर्यात् ॥ [भा.२५५९] तच्चित्ता तल्लेसा, भिक्खा-सज्झायमुक्कतत्तीया।
विकहा-विसुत्तियमणा, गमनुस्सुय उस्सुयब्भूया ॥ वृतदेव-स्त्रीरुपादिचिन्तनात्मकंचित्तंयेषांतेतच्चित्ताः । लेश्या नाम-तदङ्गपरिभोगाध्यवसाथः, सैव लेश्या येषां ते तल्लेश्याः । भिक्षाः-स्वाध्याययोर्मुक्ता तप्ति-व्यापारो यैस्ते भिक्षास्वाध्यायमुक्ततप्तिकाः । तथा संयमाराधनीया वाग्योगप्रवृत्ति सा कथा, तद्विपक्षभूता विकथा, विश्रोतसिका नाम-स्त्रीरूपादिस्मरणजनिता चित्तविप्लुति, तयोर्मनो येषां ते विकथाविश्रोतसिकामनसः । एवंविधास्ते केचिद्गमने-अवधावने उत्सुकीभवन्ति, केचिच्च ‘उत्सुकीभूताः' उप्रव्रजिता इत्यर्थः ॥ तत्र विकथा कथं भवति? इत्याह[भा.२४६०] सुटु कयं आभरणं, विनासियं न वि य जाणसि तुमंपि।
सुढुड्डाहो गंधे, विसुत्तिया गीयसद्देसु॥ वृ- एकः साधुब्रवीति- सुष्टु' शोभनं कृतमिदमाभरणम्; द्वितीयः प्राह-विनाशितमेतत्, त्वमप्यविशेषज्ञो न जानासि। एवमुत्तरप्रत्युत्तरिकां कुर्वतोस्तयोरसङ्घडमुपजायते, मूर्छा वा तत्र रूपादौ कोऽपिकुर्यात्, तया चासौ सपरिग्रहो भवति । “उड्डाहो गंधे"त्तिचन्दनादिना गन्धेनात्मानं यदि कोऽपि विलिम्पतिपटवासादिभिर्वा वासयतितत उड्डाहो भवति, नूनं कामिनोऽमीअन्यथा कथमित्थमात्मानं मण्डयन्ति? इति । आतोद्य-गीतशब्देषु च श्रूयमाणेषु विश्रोतसिका जायते । अनेन विश्रोतसिकापदमपि व्याख्यातम्॥अपि च[भा.२४६१] निच्चं पिदव्वकरणं, अवहियहिययस्स गीयसद्देहिं
पडिलेहण सज्झाए, आवासग भुंज वेरत्ती॥ वृ-नित्यमपि' सर्वकालंगीतादिशब्दैरपहृतहृदयस्य प्रत्युपेक्षणायांस्वाध्याये आवश्यके भोजने वैरात्रिके उपलक्षणत्वात् प्राभातिकादिकालेषु च द्रव्यकरणमेव भवति न भावकरणम्,
मनसहिएण उ कारण कुणइ वायाए भासई जं च ।
एअंतु भावकरणं, मणरहितं दव्वकरणंतु ।। इति वचनात् ॥ [भा.२४६२] ते सीदितुमारद्धा, संजमजोगेसु वसहिदोसेणं ।
___ गलइ जतुं तप्पंतं, एव चरित्तं मुनेयव्वं ।। वृ-'ते' साधव एवंविधेन वसतिदोषेण 'संयमयोगेषु आवश्यकव्यापारेषु सीदितुमारब्धाः। ततश्च ‘जतु'लाक्षा यथा तदग्निनातप्यमानंगलतिएवंरागाग्निनातप्यमानंचारित्रमपि परिगलतीति ज्ञातव्यम्॥ [भा.२४६३] उन्निस्खंता केई, पुनो वि सम्मेलणाए दोसेणं ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org