________________
उद्देशक : १, मूलं-२५, [भा. २४६३]
८७
वचंति संरंता, भंतूण चरित्तपागारं ॥ कृतस्यांवसतौस्त्रीरूपादिसम्मेलनायादोषेण केचिद्मन्दभाग्याः उनिष्क्रान्ताः' उत्प्रव्रजिताः, ततश्चारित्रमेव प्राकारः-जीवनगररक्षाक्षमत्वाचारित्रप्राकारस्तं भक्त्वा तान्येवस्त्रीरूपादीनि संस्मरन्तः पुनरपि गृहवासं व्रजन्ति ॥ ततः किमभूत् ? इत्याह[भा.२४६४] एगम्मि दोसुतीसु व, ओहावितेसु तत्थ आयरिओ।
मूलं अणवठ्ठप्पो, पावइ पारंचियं ठाणं। वृ-यद्येकउन्निष्कामति ततो मूलम्, द्वयोरवधावतोरनवस्थाप्यम्, त्रिष्ववधावमानेषु तत्राचार्य पाराञ्चिकंस्थानं प्राप्नोति, यस्य वावशेन तत्र स्थितास्तस्येदंप्रायश्चित्तमिति॥गतंद्रव्यसागारिकम्। अथ भावसागारिकमाह[भा.२४६५] अट्ठारसविहऽबंभ, भावउ ओरालियंच दिव्वं च ।
मन-वयस-कायगच्छण, भावम्मि य रूव संजुत्तं॥ वृ-अष्टादशविधमब्रह्म भवति।तस्य चौदारिक-दिव्यलक्षणौ द्वौ मूलभेदौतत्रौदारिकंनवविधम्औदारिकान् कामभोगान् मनसा गच्छति मनसा गमयति गच्छन्तमन्यं मनसैवानुजानीते एवं वाचाऽपि त्रयो भेदाः प्राप्यन्ते, कयेनापि त्रयः, एतैस्त्रिभिस्त्रिकैर्नव भेदा भवन्ति । एवं दिव्येऽप्यब्रह्मणि नव भेदा लभ्यन्ते । एवमेदष्टादशविधमब्रह्म भावसागारिकं भवति । अथवा रूपं वा 'संयुक्तं वा' रूपसहगतं यदब्रह्मभावोत्पत्तिकारणं तदपि भावसागारिकम् ॥
एतदेव स्पष्टयति[भा.२४६६] अहव अबंभंजत्तो, भावो रूवाउ सहगयाओ वा ।
भूसण-जीवजुयं वा, सहगय तव्वज्जियं रूवं ।। वृ-अथवा यतो रूपाद्वा रूपसहगताद्वाअब्रह्मरूपो भाव उत्पद्यते तदपिकारणे कार्योपचाराद् भावसागारिकम्, यथा “नड्वलोदकंपादरोगः" इति।तत्र यत् स्त्रीशरीरंभूषणसंयुक्तमभूषितं वा यद् जीवयुक्तं तद् रूपसहगतं मन्तव्यम् । यत् पुनः स्त्रीशरीरमेव 'तद्वर्जितं' भूषणविरहितं जीववियुक्तं वा तद् रूपमुच्यते॥ : [भा.२४६७] तंपुन रूवं तिविहं, दिव्वं मानुस्सयं तिरिक्खं च ।
पायावच्च-कुडुंबिय-दंडियपारिग्गहं चेव ॥ वृ. 'तत् पुनः' अनन्तरोक्तं रूपं त्रिविधम्-दिव्यं मानुष्यं तैरश्चं च । पुनरेकैकं त्रिधाप्राजापत्यपरिगृहीतं कौटुम्बिकपरिगृहीतंदण्डिकपरिगृहीतंचेति।प्राजापत्याः प्राकृतलोका उच्यन्ते। एतत् त्रिविधमपि प्रत्येकंत्रिधा जघन्यमध्यमोत्कृष्टभेदात्॥ तत्र दिव्यस्य जघन्यादिभेदत्रयमाह[भा.२४६८] वाणंतरिय जहन्नं, भवणवई जोइसंच मज्झिमगं ।
वेमाणिय उक्कोसं, पगयं पुन तान पडिमासु।। . वृ- दिव्येषु यद् वानमन्तरिकं रूपं तद् जघन्यम्, भवनपित-ज्योतिष्कयोर्मध्यमम्, वैमानिकरूपमुत्कृष्टम् । अत्र च 'तेषां वानमन्तरादीनां याः प्रतिमास्ताभि 'प्रकृतम्' अधिकारः, सागारिकोपाश्रयस्य प्रस्तुतत्वात्, तत्र च प्रतिमानामेव सद्भावात् ।। । प्रकारान्तरेण दिव्यप्रतिमानां जघन्यादिभेदानाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org