________________
८८
बृहत्कल्प-छेदसूत्रम् -२-१/२५
[भा.२४६९] कढे पुत्थे चित्ते, जहन्नयं मज्झिमंच दंतम्मि।
सेलम्मिय उक्कोसं, जंवा रूवाउ निष्फन्नं ।। दृयादिव्यप्रतिमाकाष्ठकर्मणि वापुस्तकर्मणिवाचित्रकर्मणिवा क्रियतेतद्जघन्यंदिव्यरूपम्। या तु हस्तिदन्ते क्रियते तमध्यमम् ।या पुनः शैले चशब्दाद् मणिप्रभृतिषु च क्रियते तदुत्कृष्टम्। यद्वा रूपाद् निष्पन्नं जघन्यादिकं द्रष्टव्यम्-या दिव्यप्रतिमा विरूपा तद् जघन्यं दिव्यरूपम्, या तु मध्यमरूपातन्मध्यमम्, यापुनः सुरूपा तदुत्कृष्टम्।अत्रचौघतःप्रतिमायुतेउपाश्रयेतिष्ठतश्चत्वारो लघुकाः प्रायश्चित्तम् । अथौघविभागतः प्रायश्चित्तमाह[भा.२४७०] ठाण-पडिसेवणाए, तिविहे वी दुविहमेव पच्छित्तं ।
लहुगा तिनि विसिट्ठा, अपरिगहे ठायमाणस्स ॥ वृ-'त्रिविधेऽपि' जघन्यमध्यमोत्कृष्टभेदभिन्ने दिव्ये प्रतिमायुते तिष्ठतो द्विविधं प्रायश्चित्तम्स्थाननिष्पन्न प्रतिसेवनानिष्पन्नं च । तत्र स्थाननिष्पन्नमिदम्-दिव्ये प्रतिमायुतेऽपरिगृहीते तिष्ठतस्त्रयश्चतुर्लघुकास्तपः-कालविशिष्टाः, तद्यथा-जघन्येचत्वारोलघुकास्तपसाकालेनचलघुकाः, मध्यमे त एव कालगुरुकाः, उत्कृष्ट त एव तपोगुरुकाः॥अथ परिगृहीते प्रायश्चित्तमाह[भा.२४७१] चत्तारिय उग्घाया, पढमे बिइयम्मिते अनुग्घाया।
. छम्मासा उग्घाया, उक्कोसे ठायमाणस्स। वृ-प्रथम-जघन्यं तत्र तिष्ठतश्चत्वारः 'उद्धातिमाः' लघवो मासाः । द्वितीयं-मध्यमं तत्र 'त एव' चत्वारोमासाः ‘अनुद्धाताः' गुरुका इत्यर्थः । उत्कृष्टेतुतिष्ठतः षण्मासा उद्धाताः, षड्लघव इत्यर्थः॥ [भा.२४७२] पायावच्चपरिग्गहे, दोहि वि लह होति एते पच्छित्ता ।
कालगुरू कोडुंबे, दंडियपारिग्गहे तवसा॥ वृ-एतानिचप्रायश्चित्तानि प्राजापत्यपरिगृहीते 'द्वाभ्यामपि तपः-कालाभ्यां लघुकानि द्रष्टव्यानि । कौटुम्बिकपरिगृहीते एतान्येव कालगुरुकाणि। दण्डिकपरिगृहीते एतान्येव तपसा गुरुकाणि ।। इदं च यस्माजघन्यादिविभागेन निर्दिष्टं सन्निहिता-ऽसन्निहितभेदेन न विशेषितं तस्मादेतदोघविभागप्रायश्चित्तमभिधीयते।अथ विभागप्रायश्चित्तं निरूपयितव्यम्, तत्र चैतान्येव जघन्यमध्यमोत्कृष्टानि सन्निहिता-सन्निहितभेदाभ्यां विशेष्यमाणानिषट्स्थानानि भवन्ति, एतेषु प्रायश्चित्तमाह[भा.२४७३] चत्तारि य उग्घाता, पढमे बिइयम्मि ते अनुग्घाया।
तइयम्मि अनुग्घाया, चउत्थ छम्मास उग्घाता॥ [भा.२४७४] पंचमगम्मि वि एवं, छटे छम्मास होतऽनुग्घाया।
असन्निहिए सन्निहिए, एस विही ठायमाणस्स ।। वृ-प्रथमं नाम-जघन्यमसन्निहितं द्वितीयं-जघन्यं सन्निहितं तृतीयं-मध्यममसन्निहितं चतुर्थमध्यमं सन्निहितं पञ्चमम्-उत्कृष्टमसन्निहितं षष्ठम्-उत्कृष्टं सन्निहितम् । अत्रायमुच्चारणविधिजघन्यकेऽसन्निहिते प्राजापत्यपरिगृहीते तिष्ठति चत्वार उद्धाता मासाः, सन्निहिते तिष्ठति 'त एव' चत्वारोमासाअनुद्धाताः, मध्यमकेऽसन्निहिते चत्वारोमासाअनुद्धाताः, सन्निहितेषण्मासा
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only