SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ उद्देश : १, मूलं- २५, [भा. २४७४ ] उद्धाताः, उत्कृष्टेऽसन्निहिते षण्मासा उद्धाताः, सन्निहिते षण्मासा अनुद्धाताः । एषोऽ सन्निहिते सन्निहिते च तिष्ठतः प्रायश्चित्तविधिरुक्तः । अथ प्राजापत्यादिविशेषत एनमेव विशेषयति[भा. २४७५ ] पढमिल्लगम्मि ठाणे, दोहि वि लहुगा तवेण कालेणं । बिइयम्मि अ कालगुरू, तवगुरुगा होंति तइयम्मि ॥ वृ- 'प्रथमे स्थाने' प्राजापत्यपरिगृहीते एतानि प्रायश्चित्तानि द्वाभ्यामपि लघुकानि, तद्यथातपसा कालेन च । 'द्वितीये' कौटुम्बिकपरिगृहीते तान्येव कालगुरुकाणि । 'तृतीये' दण्डिकपरिगृहीते एतान्येव तपोगुरुकाणि ।। स्थानप्रायश्चित्तमेव प्रकारान्तरेणाह [भा. २४७६] अहवा भिक्खुस्सेयं, जहन्नगाइम्मि ठाणपच्छित्तं । गणिणो उवरिं छेदो, मूलायरिए पदं हसति ॥ ८९ वृ- अथवा यदेतद् जघन्यादौ चतुर्लघुकादारभ्य षड्गुरुकावसानं स्थानप्रायश्चित्तमुक्तं तद् भिक्षोरेव द्रष्टव्यम्। गणी-उपाध्यायस्तस्य षड्गुरुकादुपरि च्छेदाख्यं प्रायश्चित्तपदं वर्द्धते, एक पदं चतुर्लघुकाख्यमधो हसति, चतुर्गुरुकादारभ्य च्छेदे तिष्ठतीत्यर्थः । आचार्यस्य षड्लघुकादारब्धं मूलं यावत् प्रायश्चित्तम्, अत्राप्येकं पदमुपरिवर्द्धते अधस्तादेकं पदं हसतीति ।। गतं स्थानप्रायश्चित्तम् । अथप्रतिसेवनाप्रायश्चित्तमाह [भा.२४७७] चत्तारि छच्च लहु गुरु, छम्मासितो छेदो लहुग गुरुगो य । मूलं जहन्नगम्मिं, सेवंति पसजणं मोत्तुं ॥ वृ- प्राजापत्यपरिगृहीते जघन्येऽसन्निहितेऽध्ष्टे प्रतिसेवमाने चत्वारो लघवः, ध्ष्टे चत्वारो गुरवः सन्निहितेऽध्ष्टे चतुर्गुरवः, दृष्टे षड्लघवः । कौटम्बिकपरिगृहीते जघन्येऽ सन्निहितेऽदृष्टे प्रतिसेविते षड्लघवः, दृष्टे षड्गुरवः, सन्निहितेऽदृष्टे षड्गुरवः, दृष्टे लघुषाण्मासिकच्छेदः । दण्डिकपरिगृहीतं जघन्यकमसन्निहितमध्ष्टंप्रतिसेवितं लघुषाण्मासिकच्छेदः, दृष्टे गुरुषाण्मासिकच्छेदः, सन्निहितेऽध्ष्टे गुरुषाण्णासिकछेदः, दृष्टे मूलम् । एतद् जघन्यं दिव्यप्रतिमारूषं सेवमानस्य प्रायश्चित्तं भणितम् । प्रसजना नाम-ध्ष्टे सति शङ्का-भोजिका-घाटिकादीनां ग्रहणा-ऽऽकर्षणप्रभृतीनां वा दोषाणां परम्परया प्रसङ्गः तां मुक्त्वा एतद् प्रायश्चित्तं द्रष्टव्यम्, तन्निप्पन्नं तु पृथगापद्यत इत्यर्थः ॥ अथ मध्यमे प्रायश्चित्तमाह [भा.२४७८]चउगुरुग छ च लहु गुरु, छम्मासिओ छेदो लहुओ गुरुगो य । मूलं अवटुप्पो, मज्झिमए पसज्जणं मोत्तुं ॥ वृ- मध्यमे प्राजापत्यपरिगृहीतेऽसन्निहितेऽध्ष्टे प्रतिसेविते चतुर्गुरवः, ६ष्टे षड्लघवः, सन्निहितेऽदृष्टे षड्लघवः, दृष्टे षड्गुरवः । कौटुम्बिकपरिगृहीतेऽसन्निहितेऽदृष्टे षड्गुरवः, दृष्टे लघुषाण्मासिकच्छेदः, सन्निहितेऽदृष्टे लघुषाण्मासिकच्छेदः, दृष्टे गुरुषाण्मासिकच्छेदः । दण्डिकपरिगृहीतेऽसन्निहितेऽदृष्टे गुरुषाण्मासिकच्छेदः, दृष्टे मूलम्, सन्निहितेऽदृष्टे मूलम्, दृष्टेऽनवस्थाप्यम् । एतद् मध्यमके प्रसजनां मुक्त्वा प्रायश्चित्तं द्रष्टव्यम् ।। उत्कृष्टविषयमाह[भा.२४७९] तव छेदो लहु गुरुगो, छम्मासितो मूल सेवमाणस्स । अवटुप्पो पारंचि, उक्कोसे पसजणं मोत्तुं ॥ वृ- उत्कृष्टे प्राकृतपरिगृहीतेऽ सन्निहितेऽध्ष्टे प्रतिसेविते लघुषाण्मासिकं तपः, दृष्टे गुरुषाण्मा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003323
Book TitleAgam Suttani Satikam Part 19 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages516
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy