________________
९०
बृहत्कल्प-छेदसूत्रम् -२-१/२५ सिकं तपः, सन्निहितेऽदृष्टे गुरुषाण्मासिकं तपः, दृष्टे लघुषाण्मासिकच्छेदः । कौटुम्बिकपरिगृहीतेऽसन्निहितेऽष्टे लघुषाण्मासिकच्छेदः, दृष्टे गुरुषाण्मासिकच्छेदः, सन्निहितेऽष्टे गुरुषाण्मासिकच्छेदः, दृष्टे मूलम् । दण्डिकपरिगृहीतेऽसन्निहितेऽदृष्टे मूलम्, दृष्टेऽनवस्थाप्यम्, सन्निहितेऽष्टेऽनवस्थ्याप्यम्, दृष्टे पाराञ्चिकम् । एवमुत्कृष्टे दिव्यप्रतिमारूपे प्रसजनां मुक्त्वा प्रायश्चित्तमवसातव्यम्॥अथ यथा चारणिकाया अभिलापः कर्त्तव्यस्तथा भाष्यकृदुपदर्शयति[भा.२४८०] पायावच्चपरिग्गहे, जहन्न सन्निहियए असन्निहिए।
दिट्ठाऽदिढे सेवइ, एसाऽऽलावो उ सव्वत्थ ।। वृ-प्राजापत्यपरिगृहीते जघन्येऽसन्निहिते सन्निहितेऽष्टे दृष्टेच सेवते, गाथायामसन्निहिताऽदृष्टपदयोर्बन्धानुलोम्यात् पश्चानिर्देशः, “एषः' ईद्दशः 'आलापः' उच्चारणविधि 'सर्वत्र' कौटुम्बिकपरिगृहीतादौ मध्यमादौ च कर्तव्यः । अत्र नोदकः प्राह[भा.२४८१] जम्हा पढमे मूलं, बिइए अणवठ्ठो तइए पारंची।
तम्हा ठायंतस्सा, मूलं अणवट्ठ पारंची। वृ-यस्मात् 'प्रथमे' जघन्ये प्रतिसेवमानस्य चतुर्लघुकादारब्धं मूलं यावत् प्रायश्चित्तं भवति, 'द्वितीये' मध्यमे चतर्गुरुकमादौ कृत्वा अनवस्थाप्यम्, 'तृतीये उत्कृष्टेषड्लघुकादारब्धं पाराञ्चिकं यावद्भवति, तस्मातिष्ठतएव स्थाननिष्पन्नानिजघन्यमध्यमोत्कृष्टेषुयथाक्रममूला-ऽनवस्थाप्यपाराञ्चिकानि भवन्तु ॥ सूरिराह[भा.२४८२] पडिसेवणाए एवं, पसज्जणा तत्थ होइ एक्कक्के ।
चरिमपदे चरिमपदं, तं पिय आणाइनिप्फन । वृ-जघन्यादिप्रतिसेवनायाम् ‘एवं मूला-ऽनवस्थाप्य-पाराञ्चिकानिदीयन्ते।यदि पुनः स्थितः सन्नैव प्रतिसेवते ततः कथं तानि भवन्तु? अथ प्रसङ्गमिच्छति ततएकैकस्मिन्प्रायश्चित्तस्थाने 'तत्र' अनन्तरोक्ते प्रसजना भवति । तथाहि-तं साधुं तत्र स्थितं दृष्ट्वा कश्चिदविरतिकः शङ्कां कुर्यात्, नूनं प्रतिसेवनानिमित्तमत्रैष स्थित इति, ततो भोजिका-घाटिकादिदोषप्रसङ्ग इति।तथा चरमपदं नाम-अष्टपदाद्दष्टपदंतत्र 'चरमपदं पाराञ्चिकंयावद् भवति । यच्चाज्ञादिदोषनिष्पन्नं चतुर्गुरुकादि तदपि द्रष्टव्यमिति सङ्ग्रहगाथा समासार्थ ॥अथेनामेव विवरीषुराह[भा.२४८३] जइ पुन सववो वि ठितो, सेविजा होज्ज चरिमपच्छित्तं ।
तम्हा पसंगरहियं, जं सेवइ तं न सेसाई॥ वृ-पुनःशब्दो विशेषणे । किं विशिनष्टि ? यद्येष नियमो भवेद्यस्तिष्ठति स सर्वोऽपि स्थितः सन्प्रतिसेवते ततो नोदक! भवेत् तिष्ठत एव त्वदुक्तंचरमप्रायश्चित्तम्, तच नास्ति, सर्वस्यापि स्थितस्य प्रतिसेवत्वाभावात्। तस्मात्प्रसङ्गरहितंयत्स्थानं सेवते तनिष्पन्नमेवप्रायश्चित्तं भवति, न 'शेषाणि' मूलादीनि ॥अथ “चरमपदे चरमपद"मिति पं भावयति[भा.२४८४] अद्दिट्ठाओ दिटुं, चरिमं तहि संकमाइ जा चरिमं ।
अहवण चरिमाऽऽरोवण, ततो वि पुन पावए चरिमं ॥ कृ-अष्टपदाद्द्दष्टपदंचरमम्, तत्र चरमपदेशङ्का-भोजिका-घाटिकादिक्रमेणचरमपदंपाराञ्चिकं यावत्प्राप्नोति । आह यदि दृष्टं ततः कथं शङ्का भवति । अथवा या यत्र 'चरमाऽऽरोपणा' यथा For Private & Personal Use Only
www.jainelibrary.org
Jain Education International