SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ उद्देश : १, मूलं - २५, [भा. २४८४] जघन्ये चरमंमूलं मध्यमे चरममनवस्थाप्यं उत्कृष्टे चरमं पाराचिकं तत् तत्र चरमपदम् । 'ततोऽपि ' चरमपदात् शङ्कादिभिः पदैः 'चरमं' पाराश्चिकं पुनः प्राप्नोति ।। [ भा. २४८५ ] अहवा आणाइविराधनाउ एक्विक्कियाउ चरिमपदं । पावइ तेन उ नियमो, पच्छित्तिहरा अइपसंगो ।। वृ- अथवा आज्ञा - ऽनवस्था - मिथ्यात्व - विराधनापदानां मध्ये यद् विराधनापदं तच्चरमम् । सा च विराधना द्विधा - आत्मनि संयमे च । तस्या एकैकस्याः सकाशात् 'चरमपदं' पाराञ्चिकं प्राप्नोति । तत्र प्रतिमाया यः स्वामी तेन दृष्ट्वा प्रतापितस्यात्मविराधनायां परितापनादिक्रमेण पाराञ्चिकम् । संयमविराधनायां तु तस्याः प्रतिमाया हस्ताद्यवयवे भग्ने भूयः संस्थाप्यमाने सति “छक्काय चउसु लहुगा” इत्यादिक्रमेण पाराञ्चिकम् । यत एवं प्रसङ्गतो बहुविधं प्रायश्चित्तं तेनायं नियमः- तिष्ठतः स्थानप्रायश्चित्तमेव न प्रतिसेवनाप्रायश्चित्तम्, इतरथा अतिप्रसङ्गो भवति ॥ कथम्? इति चेद् उच्यते [ भा. २४८६ ] नत्थि खलु अपच्छित्ती, एवं न य दाणि कोइ मुच्चिज्जा । कारि - अकारीसमया, एवं सइ राग-दोसा य ॥ वृ- यद्यप्रतिसेवमानस्यापि मूलादीनि भवन्ति तत एवं नास्ति कोऽप्यप्रायश्चित्ती, न चेदानीं कश्चित् कर्मबन्धान्मुच्येत, यः प्रतिसेवते तस्य कारिणोऽकारिणश्च समता भवति, एवं च प्रायश्चित्तदाने सति राग-द्वेषौ प्राप्नुत इति । तदपि चाज्ञादिनिष्पन्नमिति । [भा. २४८७ ] मुरियादी आणाए, अणवत्थ परंपराए थिरिकरणं । मिच्छत्ते संकांदी, पसजणा जाव चरिमपदं ॥ वृ- अपराधपदे वर्त्तमानस्तीर्थकृतामाज्ञाभङ्गं करोति तत्र चतुर्गुरु । अत्र च मौर्यैमयूरपोषकवंशोद्भवैः आदिशब्दादपरैश्चाज्ञासारै राजभिर्द्दष्टान्तः । तस्मिश्च कालेऽसावनवस्थायां वर्त्तते तत्र चतुर्लघु । अनवस्थातश्च परम्परया 'स्थिरीकरणं' तदेवापराधपदमन्योऽपि करोतीत्यर्थः, तदा चासौ देशतो मिथ्यात्वमासेवते तत्र चतुर्लघु । अपराधपदे वर्त्तमानो विराधनायां साक्षादेव वर्त्तते, परस्य च शङ्कादिकं जनयति-यथैतद् मृषा तथाऽन्यदपि सर्वममीषां मृषैव । प्रसजना चात्र भोजिका - घाटिकादिरूपा । तत्र चरमं पाराञ्चिकं यावत् प्रायश्चित्तं भवति ॥ अथ नोदकः प्राह ९१ [भा. २४८८] अवराहे लहुगयरो, किं नु हु आणाए गुरुतरो दंडो । आणाए चिय चरणं, तब्भंगे किं न भग्गं तु ॥ वृ- परः प्राह - जघन्यके ऽपरिगृहीते परिगृहीते वा तिष्ठति प्राजापत्यपरिगृहीतं वा जघन्यमसन्निहितमध्ष्टं प्रतिसेवते उभयत्रापि चतुर्लघु, एवं स्थानतः प्रतिसेवनतश्चापराधे लघुतरोदण्ड उक्तः, आज्ञाभङ्गे चतुर्गुरुकमिति, अतः 'किम्' इति परिप्रश्ने, 'नुः' इति वितर्के, 'हु:' इति गुर्वामन्त्रणे, किमेवं भगवन् ! आज्ञायां भग्नायां गुरुतरो दण्डो दीयत ? । सूरिराहआज्ञयैव चरणं व्यवस्थितम्, तस्या भङ्गे कृते सति किं न भग्नं चरणस्य ? सर्वमपि भग्नमेवेति भावः, अपि च लौकिका अप्याज्ञाया भङ्गे गुरुतरं दण्डं प्रवर्त्तयन्ति ॥ तथा चात्र पूर्वोद्दिष्टं मौर्यध्टान्तमाह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003323
Book TitleAgam Suttani Satikam Part 19 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages516
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy