________________
९२
बृहत्कल्प-छेदसूत्रम् -२-१/२५
[भा. २४८९]
भत्तमदानमडते, आणट्ठवणंब छेत्तु वंसवती । गविसण पत्त दरिसए, पुरिसवइ सबालडहणं च ॥
वृ- पाडलिपुत्ते नयरे चंदगुत्तो राया । सो य मोरपोसगपुत्तो त्ति जे खत्तिया अभिजाणंति ते तस्स आणं परिभवंति । चाणक्कस्स चिंता जाया- आणाहीनो केरिसो राया ? तम्हा जहा एयस्स आणा तिक्खा भवइ तहा करेमि त्ति । तस्स य चाणक्कस्स कप्पडियत्ते बिक्खं अडंतस्स एगम्मि गामे भत्तं न लद्धं । तत्थ य गामे बहू अंबा वंसा य अत्थि । तओ तस्स गामस्स पडिनिविट्टेणं आणाठवणनिमित्तं इमेरिसो लेहो पेसिओ-आम्रान् छित्त्वा वंशानां वृति शीघ्रं कार्येति । तेहि अ गामे अगेहिं 'दुल्लिहियं' ति काउं वंसे छ्त्तुं अंबाण वई कया । गवेसावियं चाणक्केन किं कयं ति ? | तओ तत्थागंतूण उवालद्धा ते गामेयगा- एते वंसगा रोहगादिसु उवउज्जंति, कीस मे छिन्न ? त्ति । दंसियं लेहचीरियं- अनं संदिट्टं अन्नं चेव करेह त्ति । तओ पुरिसेहिं अधोसिरेहिं वई काउं सो गामो सव्वोदड्डो ॥
अथ गाथाक्षरगमनिका - चाणक्यस्य भिक्षामटतः क्वापि ग्रामे भक्तस्य 'अदानं' भिक्षा न लब्धेत्यर्थः। तत आज्ञास्थापनानिमित्तमयं लेखः प्रेषित:- "अंब छेत्तुं वंसवइ” त्ति आम्रान् छित्त्वा वंशानां वृति कर्त्तव्या । ततो गवेषणे कृते ग्रामेण च पत्रे दर्शिते 'अन्यदादिष्टं मया अन्यदेव च भवद्भि कृतम्' इत्युपालभ्य ते पुरुषैर्वृतिं कारयित्वा सबाल - वृद्धस्य ग्रामस्य दहनं कृतम् ॥ एष दृष्टान्तः । अर्थोपनयस्त्वेवम्
[भा. २४९० ] एगमरणं तु लोए, आणऽइआरुत्तरे अनंताई । अवराहरक्खणट्ठा, तेनाणा उत्तरे बलिया ॥
वृलोके आज्ञाया अतिचारे - अतिक्रमे एकमेव मरणमवाप्यते, लोकोत्तरे 'पुनराज्ञाया अतिचारेऽनन्तानि जन्म-मरणानि प्राप्यन्ते । तेन कारणेनापराधरक्षणार्थं लोकोत्तरे आज्ञा बलीयसी ॥ अथानवस्था- मिथ्यात्व-विराधनापदानि व्याचष्टे
[ भा. २४९१]
अणवत्थाए पसंगो, मिच्छत्ते संकमाइया दोसा । दुविहा विराधना पुन, तहियं पुन संजमे इणमो ॥
वृ- 'यद्येष बहुश्रुतोऽप्येवं सागारिके प्रतिश्रये स्थितस्ततः किमहमपि न तिष्ठामि ?' इत्येवमनवस्थायामन्यस्यापि प्रसङ्गो भवति । मिथ्यात्वे शङ्कादयो दोषाः, शङ्का नाम-किं मन्ये यथा वादिनस्तथा कारिणोऽमी न भवन्ति ?, आदिशब्दाद् विरत्यादिधर्मं प्रतिपद्यमानानां विपरिणाम इत्यादिदोषपरिग्रहः । विराधना पुनर्द्विविधा-संयमे आत्मनि च । तत्र संयमविषया तावदियम् ॥ [भा. २४९२] अनट्ठादंडो विकहा, वक्खेवो विसोत्तियाए सइकरणं । आलिंगनाइदोसा, असन्निहिए ठायमाणस्स ।।
वृ- अर्थ-प्रयोजनं तदभावोऽनर्थ तेन दण्डोऽनर्थदण्डः, स च द्रव्यतो यदकारणे राजकुले दण्डयते, भावतस्तु निष्कारणं ज्ञानादीनां हानि सागारिक प्रतिश्रये स्थितानां भवति । 'विकथा' वक्ष्यमाणरूपा । 'व्याक्षेपो नाम' तां प्रतिमां प्रेक्षमाणस्य द्वितीयसाधुना सहोल्लापं कुर्वतः सूत्रार्थपरिमन्थः । विश्रोतसिका द्रव्य भावभेदाद् द्विधा । द्रव्यतः सारणीपानीयं वहमानं तृणादिकचवरेण पुरः स्थितेन निरुद्धं यदन्यतः कुशारादिषु गच्छति ततश्च सस्यहानिरुपजायते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org