________________
उद्देशक : १, मूलं-२५, [भा. २४९२] भावतस्तु ज्ञानादिजले जीवकुल्यायां वहानतृणादिकचवरस्थानीयया चित्तविप्लुत्या निरुद्ध सति चारत्रसस्यविनाशो जायते सा विश्रोतसिकेत्युच्यते । तया स्मृतिकरणं भुक्तभोगिनाम्, अभुक्तभोगिनां तु कौतुकमालिङ्गनादयश्च दोषा भवन्ति । एतेऽसन्निहिते प्रतिमारूपे तिष्ठतो दोषाः ।। अथ विकथापदमालिङ्गनादिपदं च विवृणोति[भा.२४९३]सुटु कया अह पडिमा, विनासिया न वि य जाणसि तुमंपि।
इय विकहा अहिगरणं, आलिंगणे भंगे भद्दितरा ॥ वृ-एकः साधु वीति-सुष्टु कृतेयं प्रतिमा, द्वितीयः प्राह-विनाशितेयं नापिच जानासि त्वमपि इत्येवं विकथा । ततश्चोत्तरप्रत्युत्तरिकां कुर्वतस्तयोरधिकरणं भवति । अथ कोऽप्युदीर्णमोहस्तां प्रतिमामालिङ्गेत् तत आलिङ्गने प्रतिमाया हस्त-पादादिभङ्गो भवेत् । सपरिग्रहायां च प्रतिमायां भद्रकेतरदोषाः-भद्रको हस्त-पादादिभङ्गे सञ्जाते सति पुनः संस्थापनं विदध्यात्, प्रान्तस्तुग्रहणाऽऽकर्षणादीनि कुर्यात् ।। एतेऽसन्निहिते दोषा उक्ताः । सन्निहितेऽपि त एव वक्तव्याः, एते चाभ्यधिकाः[भा.२४९४] वीमंसा पडिनीयट्ठया व भोगस्थिणी व सन्निहिया ।
काणच्छी उक्कंपण, आलाव निमंतण पलोभे ।। वृ-या तत्र सन्निहिता देवता सा त्रिभि कारणैः साधुं प्रलोभयेत्-विमर्शाद्वा प्रत्यनीकार्थतया वा भोगार्थितया वा । विमर्शो नाम-'किमेष साधुः शक्यः क्षोभयितुंन वा?' इति जिज्ञासा तया प्रतिमायामनुप्रविश्य काणाक्षिकं वा उत्कम्पनं वा स्तनादीनां विदधीत, आलापं वा कुर्यात्अमुकनामधेय! कुसलं तव? इत्यादि, निमन्त्रणंवा विदध्यात्-मया सह स्वामिन्! भोगानुपभुक्ष्व, प्रलोभनं वा कक्षान्तरोरुदर्शनेन कुर्वीत ॥ [भा.२४९५] काणच्छिमाइएहिं, खोभिय उद्धाइयस्स भद्दा उ ।
नासइ इयरो मोहं, सुवण्णकारेण दिटुंतो ।। कृयदा काणाक्षिप्रभृतिभिराकारैः क्षोभितस्तदा 'गृह्णाभ्येनाम् इत्यभिप्रायेणोद्धा-वितस्ततस्तस्य सा देवता यदि भद्रा ततो नश्यति । 'इतरः' साधुस्तस्यामदर्शनीभूतायां मोहं गच्छति, सम्मूढश्च तां द्रष्टुमिच्छति, 'हा कुत्र गताऽसि ? देहि सकृदात्मीयं दर्शनम्' इत्यादिप्रलापाँश्च करोत। अत्र च 'सुवर्णकारेण' चम्पानगरीवास्तव्येन अनङ्गसेनाख्येन दृष्टान्तः, स च आवश्य-कादिग्रन्थेषु सुप्रसिद्धः ।। अथ प्रत्यनीकार्थतयेति व्याचष्टे[भा.२४९६] वीमंसा पडिनीया, विद्दरिसण-ऽक्खित्तमादिणो दोसा ।
असंपत्ती संपत्ती, लग्गस्स य कड्डणादीणि ।। वृ-प्रत्यनीकाऽपि 'विमर्शात्' काणाक्षिप्रभृतिभिराकारैः क्षोभयित्वायदाऽसौ उद्घावितस्तदा "असंपत्ति"त्तियावदस हस्तादिना नैव गृह्णाति तावद् ‘विदर्शन' विकृतं रूपं दर्शयति, अथवा 'विदर्शनं नाम' अलग्नमेव लोको लग्नं पश्यति । यद्वा सा तस्य साधोः क्षिप्तचित्तादिदोषान् कुर्यात् । अथवा परिभोगसम्पत्तिं कृत्वा तत्रैव तस्य सागारिकंलापयेत् श्वानादिवत्। लग्नस्य च तस्य लेप्यकस्वामी अन्यो वा दृष्ट्वा ग्रहणा-ऽऽकर्षणादीनि कुर्यात् ।। एतदेव व्याचष्टे
[भा.२४९७] पंता उ असंपत्तीइ चेव मारिज खेत्तमादी वा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org