________________
बृहत्कल्प-छेदसूत्रम् -२-१/२५ संपत्तीइ वि लाएतु कड्डणादीणि कारेज्जा । वृ-प्रान्तापुनः ‘असम्पत्त्यामेव' यावद्याप्यसौ हस्तादिनान गृह्णातितावन्मारयेत् 'वा' अथवा क्षिप्तचित्तम् आदिशब्दाद् यक्षाविष्टं वा कुर्यात् । सम्पत्त्यामपि सागारिकं लापयित्वा ग्रहणाऽऽकर्षणादीनि कारयेत् ।। अथ भोगार्थिनीपदं विवृणोति[भा.२४९८] भोगत्थी विगए कोउगम्मि खित्ताइ दित्तचित्तं वा।
दखूण व सेवंतं, देउलसामी करेज्ज इमं॥ वृ-भोगार्थिनी देवता काणाक्षिकादिभिराकरैरुपप्रलोभ्य क्षुभितेन सहभोगान् भुक्त्वा विगते भोगविषये कौतुके ‘मा अपरया सह भोगान् भुङ्क्ताम्' इति कृत्वा तं क्षिप्तचित्तं वा' यक्षाविष्टं वा दप्तचित्तं वा कुर्यात् । अथवा तां देवतां सेवमानं तं साधुं दृष्ट्वा देवकुलस्वामी यथाभावेनेदं
कुर्यात् ।।
[भा.२४९९] तंचेव निट्ठवेई, बंधन निच्छुभण कडगमद्दे अ ।
आयरिए गच्छम्मि य, कुल गण संधे य पत्थारो॥ वृ-तमेव साधु क्रुद्धः सन् देवकुलस्वामी 'निष्ठापयति' मारयतीत्यर्थः । यदि वा प्रभुरसौ ततः स्वयमेवतंसाधु बध्नीयात्, अप्रभुरपि प्रभुणा बन्धापयेत् । अथवा वसतेामाद् नगराद् देशाद् राज्याद्वा निष्काशयेत्। कटकं-स्कन्धावारःसयथा परविषयमवतीर्णकस्याप्येकस्य राज्ञः प्रद्वेषण निरपराधान्यपि ग्राम-नगरादीनि सर्वाणि मृद्गाति, एवमेकेन साधुनाऽकार्यं कृतं दृष्ट्वा यो यत्र दृश्यते स तत्र बाल-वृद्धादिरपि सर्वो मार्यते एवंविधं कटकमदं कुर्यात् । यद्वा यस्तस्याचार्यो गच्छः कुलं गणः सङ्घो वा तस्य 'प्रस्तारः' विनाशः क्रियेत । तथा[भा.२५००] गिण्हणे गुरुगा छम्मास कड्डणे छेदो होइ ववहारे।
पच्छाकडम्मि मूलं, उड्डहण-विरुंगणे नवमं ।। [भा.२५०१] उद्दावण निव्विसए, एगमणेगेपदोस पारंची।
अणवठ्ठप्पो दोसु उ, दोसु उ पारंचिओ होइ ।। वृ-स साधुः प्रतिसेवमानो यदि देवकुलस्वामिना गृहीतः ततो ग्रहणे चत्वारो गुरुकाः । अथ हस्ते वा वस्त्रे वा गृहीत्वा राजकुलाभिमुखमाकृष्टस्तत आकर्षणे षड्लघवः । तेन साधुना स प्रत्याकर्षितस्ततः षण्मासा गुरवः । व्यवहारेप्रारब्धे च्छेदः । पश्चात्कृते' पराजितेमूलम् । ‘उड्डहने' रासभारोपणादिके 'विरूपणे वा' नासिकादिकर्तनेन विरूपणाकरणे 'नवमम्' अनवस्थाप्यम् । एकस्मिन्ननेकेषु वा साधुषु प्रदूषतोऽपद्रातणे कृते निर्विषये वाऽऽज्ञप्ते प्रतिसेवक आचार्यो वा पाराञ्चिकः । एवंच द्वयोः उड्डहन-विरूपणयोरनवस्थाप्यः, 'द्वयोस्तु अपद्रावणनिर्विषयाज्ञपनयोः पाराञ्चिको भवतीति ।।अथवा प्रद्विष्टः सन्निदं कुर्यात्[भा.२५०२] एयस्स नत्थि दोसो, अपरिक्खियदिक्खगस्स अह दोसो।
इति पंतो निव्दिसए, उद्दवण विरुचणं व करे। वृ- ‘एतस्य' प्रतिसेवकसाधोस्ति दोषः किन्त्वेनमपरीक्षितं यो दीक्षितवान् तस्यैवापरीक्षितदीक्षकस्याचार्यस्य अथ' अयं दोष इति विचिन्त्यप्रान्त आचार्य निर्विषयं कुर्यात् अपद्रावयेद्वा, कर्ण-नासा-नयनाद्युत्पाटेन विरुम्पनं वा कुर्यात् ।। अथासन्निहिते एते दोषाःJain Education International
For Private & Personal Use Only
www.jainelibrary.org