________________
उद्देशक : १, मूलं-२५, [भा. २४५२]
घनं तु कांस्यतालादि, वंशादि शुषिरं मतम् ॥ नृत्तमपि चतुर्विधम्, तद्यथा-अञ्चितं रिभितम् आरभडं भसोलम्, एते चत्वारोऽपि भेदा नाट्यशास्त्रप्रसिद्धाः । नाटकम् - अभिनयविशेषः । अथवा
[ भा. २४५३]
नहं होइ अगीयं, गीयजुयं नाडयं तु नायव्वं । आभरणादी पुरिसोवभोग दव्वं तु सट्ठाणे ॥
वृ- इह 'अगीतं' गीतविरहितं नृत्तं भवति । यत् पुनर्गीतयुक्तं तद् नाटकं ज्ञातव्यम् । गीतं पुनश्चतुर्द्धा तीनसमं १ तालसमं २ ग्रहसमं ३ लयसमं ४ चेति । 'शयनं' पल्यङ्कादि । एतदाभरणादिकं यत् पुरुषोपभोगयोग्यं तत् स्वस्थाने 'द्रव्यं' द्रव्यसागारिकं साधारणत्वाद् द्रव्यसागारिकमेव, शेषाणि तु साधु-साध्वीनां स्वस्थानयोग्यानि द्रव्यसागारिकं परस्थानयोग्यानि तु भावसागारिकम् ।। एतेषु प्रायश्चित्तमाह
[ भा. २४५४ ] एक्विक्कम्मि य ठाणे, भोअणवजे य चउलहू हुंति । गुरु भो अम्मिं, तत्थ वि आणाइणो दोसा ।।
वृ- 'एकैकस्मिन्' रुपा SSभरणादौ 'स्थाने' द्रव्यसागारिके भोजनवर्जे तिष्ठतां चतुर्लघवः, भोजनसागारिके चतुर्गुरवः । केषाञ्चिन्मतेनाभरण-वस्त्रयोरपि चतुर्गुरवः । तत्राप्याज्ञादयो दोषाः, तन्निष्पन्नं पृथक् प्रायश्चित्तमिति भावः ॥ तथा
[ भा. २४५५ ] को जाणइ को किरिसो, कस्स व माहप्पया समत्थत्ते । धिइदुब्बला उ केई, डेविंति तओ अगारिजनं ।।
वृ- को जानाति नानादेशीयानां साधूनां मध्ये कः कीदृशः' की ध्क्परिणामः ?, कस्य वा कीशी 'महात्मता' महाप्रभावता 'समर्थत्वे' सामर्थ्ये लोभनिग्रहं ब्रह्मव्रतपरिपालनं वा प्रतीत्य विद्यते ? परचेतोवृत्तीनां निरतिशयैरनुपलक्ष्यत्वात् । ततो ये केचिद् धृतिदुर्बलास्ते तत्र रुपाऽऽभरणादिभिरक्षिप्तचित्ताः परित्यक्तसंयमधुरा अगारीजनं 'डेविंति ' गच्छन्ति, परिभुञ्जते इत्यर्थः ॥ तथा[भा. २४५६ ]
केइत्थ भुत्तभोगी, अभुत्तभोगी य केइ निक्खता ।
रमणिज लोइयं ति य, अम्हं पेतारिसा आसी ॥
८५
वृ- केचिद् 'अत्र' गच्छमध्ये भुक्तभोगिनो निष्क्रान्ताः केचित्त्वभुक्तभोगिनः, तेषां चोभयेषामप्येवं भाव समुत्पद्यते - रमणीयमिदं लौकिकं चरितं यत्रैवं वस्त्राऽऽभरणानि परिधीयन्ते, विविधखाद्यकादीनि यथेच्छं भुज्यन्ते, अस्माकमपि गृहाश्रमे स्थितानामेताद्दशा भोगा आसीरन् । इदभेव व्यनक्ति
[भा.२४५७] एरिसओ उवभोगो, अम्ह वि आसि ण्ह इण्हि उज्जला । दुक्कर करेमु भुत्ते, कोउगमियरस्स दुणं ।।
वृ- ईगेव गन्धमाल्य- ताम्बूलाद्युपभोगः पूर्वमस्माकमप्यासीत्, “ह” इति निपातः पादपूरणे, इदानीं तुवयं 'उज्जलाः' उत्-प्राबल्येन मलिनशरीरा अलब्धसुखास्वादाश्च 'दुष्करं' केशश्मश्रुल्लञ्चनभूमिशयनादि कुर्महे । इत्थं भुक्तभोगी चिन्तयति । इतरः- अभुक्तभोगी तस्य रुपा - Sऽभरणादिकं दृष्ट्वा कौतुकं भवेत् ॥ ततः को दोषः ? इत्यत आह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org