________________
-
बृहत्कल्प-छेदसूत्रम् -२-१/२४ वृ-स्तेनाः श्चापदा वा यत्रोपद्रवन्ति तत्र ये गृहस्थाः परित्राणं कुर्वते तत्र तन्निश्रया वस्तव्यम्। मशका वाऽन्यत्राभिद्रवन्ति ततो निश्रयाऽपि वस्तव्यम् । निष्कारणे तु निश्रया वसतामप्काययन्त्रवाहनादिकमधिकरणं भवेत् । एतैः कारणैर्निश्रया वा अनिश्रया वा यथायोगं वसन्तीति ।।
मू. (२५) नो कप्पइ निग्गंथाण वा निग्गंथीण वा सागारिए उवस्सए वत्थए। वृ-अस्य सम्बन्धमाह[भा.२४९] निस्स त्ति अइपसंगेण मा हु सागारियम्मि उ वसिज्जा ।
तेचेव निस्सदोसा, सागारिए निवसतो मा हु॥ वृ. 'निर्ग्रन्थीनां सागारिकनिक्श्रयैव निर्ग्रन्थानामपि कारणे निश्रया वस्तुं कल्पते' इत्युक्तेऽतिप्रसङ्गदोषेण मा सागारिकेऽपि प्रतिश्रये वसेयुः । कुतः? इत्याह-सागारिकोपाश्रये निवसतो मा 'तएव उत्थान-निवेशनादिविषया निश्रादोषा भवेयुः, अगःसागारिकसूत्रं प्रारभ्यत इति। अनेन सम्बन्धेनायातस्यास्य व्याख्या-नो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनांवा 'सागारिके' सागारिकं-द्रव्यतो भावतश्च वक्ष्यमाणलक्षणं तदत्रास्ति इति व्युत्पत्तेः अभ्रादित्वाद् अप्रत्यये सागारिक ईशे उपाश्रये वस्तुमिति सूत्रसङ्क्षपार्थः॥अथ नियुक्तिविस्तरः[भा.२४५०] सागारियनिक्खेवो, चउविहो होइआनुपुबीए। .
नामंठवणा दविए, भावे य चउव्विहो भेदो॥ . वृ-सागारिकपदस्य निक्षेपश्चतुर्विध आनुपूर्व्या भवति, तद्यथा-नाम्नि स्थापनायां द्रव्ये भावे चेति । एष चतुर्विधो भेदः ॥ तत्र नाम-स्थापने गतार्थे, द्रव्यता नोआगमतो ज्ञशरीरभव्यशरीरव्यतिरिक्तं द्रव्यसागारिकमाह[भा.२४५१] रुवं आभरणविही, वत्थालंकार भोयणे गंधे।
आउज्ज नट्ट नाडग, गीए सयणे यदव्वम्मि॥ वृ-रुपमाभरणविधिर्वस्त्रालङ्कारो भोजनं गन्धा आतोद्यं नृत्तं नाटकं गीतं शयनीयं च, एतद् द्रवयसागारिकम् ॥ तत्र रुपपदं व्याख्याति[भा.२४५२] जंकट्ठकम्ममाइसु, रुवंसट्ठाणेतं भवेदव्वं ।
जंवा जीवविमुक्कं, विसरिसरुवं तु भावम्मि॥ वृ-यत् ‘काष्ठकर्मादिषु काष्ठकर्मणिवा चित्रकर्मणिवालेप्यकर्मणिवालेप्यकर्मणिवापुरुषरुपं स्त्रीरुपं वा निर्मितं तत् स्वस्थाने द्रव्यसागारिकं भवेत् । स्वस्थानं नाम-निर्ग्रन्थानां पुरुषरुपं निर्ग्रन्थीनां तु स्त्रीपुरुष । यत्तु विसशरुपं तद् भावसागारिकम्, निर्ग्रन्थानां स्त्रीरुपं निर्ग्रन्थीनां तु पुरुषरुपं भावसागारिकमित्यर्थः । यद् वा जीवविप्रमुक्तं पुरुषशरीरं स्त्रीशरीरं वा तदपि स्वस्थाने द्रव्यसागारिकं परस्थाने तु भावसागारिकमिति ॥ अथ “आभरणविही" इत्यादि व्याख्यायते-आभरणं-कटकादितस्य विधि भेदाआभरणविधिः । वस्त्रभेवाकङ्कारोवस्त्रालङ्करः; यद्वा वस्त्राणि चीनाशुकादीनी, अलङ्कारो द्विधा केशालङ्कार-माल्यालङ्कारभेदात् । भोजनमशनपान-खाद्य-स्वाद्यभेदाच्चतुर्विधम् । गन्धः-कोष्ठपुटपाकादि । आतोद्यं चतुर्विधम्-ततं विततं घनं शुषिरं च । तत्र
ततं वीणाप्रभृतिकं, विततं मुरजादिकम् ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org