________________
उद्देश : १, मूलं - २३, [भा. २४४४ ]
निवगुत्ताणं वसही, दिजउ दोसा उभे उवरिं ॥
वृ-तत्र ग्रामादौ यो भोगिको महत्तरो वा आदिशब्दादन्यो वा प्रमाणभूतस्तम् अथवा ग्राममेकत्र सभादौ 'समागतं' मिलितं दृष्ट्वा साधवो भणन्ति-नृपः -राजा तेन गुप्ताः रक्षिताः सन्तो वयं स्वव्रताचारं परिपालयामः, अतो नृपगुप्तानामस्माकं वसतिर्दीयताम्, अन्यथा ये शून्ये प्रतिश्रये तिष्ठन्तीनां संयतीनां तरुण- स्तेनाद्युपद्रवदोषा भवेयुः ते सर्वेऽपि “भे” युष्माकमुपरि भविष्यन्ति । एवमुक्ते ते भोगिकादयः संयतीप्रायोग्यं परिगृहीतां वसतिं दापयन्ति स्वयं वा प्रयच्छन्ति । अथ ये वृषभा बहि प्रहरणादिव्यग्रहस्तास्तिष्ठन्ति ते ईशाः कर्त्तव्या इति दर्शयति
[भा. २४४५ ] कयकरणा थिरसत्ता, गीया संबंधिणो थिरसररा । जियनिद्दिदिय दक्खा, तब्भूमा परिनयवयाय ॥
वृकृतकरणाः' धनुर्वेदे कृताभ्यासाः, 'स्थिरसत्त्वाः' निश्चलमानसावष्टम्भाः, 'गीताः ' सूत्रार्थवेदिनः, 'सम्बन्धिनः' तासामेव संयतीनां नालबद्धा भ्रात्रादिसम्बन्धयुक्ता इत्यर्थः, 'स्थिरशरीराः' शारीरबलोपेताः, जिताः वशीकृता निद्रा इन्द्रियाणि च यैस्ते जितनिद्रेन्द्रियाः, 'दक्षाः' कुशलाः, 'तद्भौमाः' तस्याभेव भूमी भवास्तद्भूमिवास्तव्यलोकपरिचिता इत्यर्थः, 'परिणतवयसश्च' अतिक्रान्तयौवना मध्यमवयः प्राप्ताः, एवंविधा वृषभास्तत्र स्थापयितव्या ॥ मू. (२४) कप्पइ निग्गंधाणं सागरियनिस्साए वा अनिस्साए वा वत्थए । वृ-कल्पते निर्ग्रन्थानां सागारिकं निश्राय वा अनिश्राय वा वस्तुमिति । अत्र भाष्यम्[भा. २४४६] साहू निस्समनिस्सा, कारण निस्सा अकारणि अनिस्सा । निक्कारणम्मि लहुगा, कारणे गुरुगा अनिस्साए ।
वृ- साधवः सागारिकस्य निश्रया अनिश्रया वा वसंन्ति । तत्र कारणे निश्रया अकारणे त्वनिश्रया वस्तव्यम् । यदि निष्कारणे सागारिकनिश्रया वसन्ति ततश्चत्वारो लघुकाः । अथ कारणेऽनिश्रया वसन्ति ततश्चत्वारो गुरुकाः । अथ निष्कारणे सागारिकनिश्रया तिष्ठतां दोषानाहउट्ठेत निवेसिंते, भोजन- पेहासु सारि मोए अ । सुज्झाय बंभगुत्ती, असंगता तित्थऽवण्णो य ॥
[भा. २४४७]
८३
- कोऽपि साधुत्तिष्ठन् वा निविशमानो वा अपावृतीभवेत् तं दृष्ट्वा पुरुषाः स्त्रियो वा हंसन्ति उड्डुञ्चकान् वा कुर्वन्ति । भोजनं समुद्देशनं तत्र मण्डल्यां तुम्बकेषु वा समुद्दिशतो दृष्ट्वा ब्रवीन् - अहो ! अमी अशुचय इति । प्रेक्षा-प्रत्युपेक्षणा तस्यां विधीयमानायां "सारि" त्ति ते सागारिका उड्डञ्चकान् कुर्युः । “मोए" त्ति निशि मोकेनाचमने कायिकीव्युत्सर्जने वोड्डाहं कुर्युः । 'स्वाध्यायम्' अधीयमानं परावर्त्यमानं वा श्रुत्वा कर्णाहृतेनागमयन्ति । स्त्रीणां चाङ्गप्रत्यङ्गादी विलोक्यमाने ब्रह्मचर्यस्यागुप्ति । तथा लोकोऽपि ब्रूयात्- “असंगय” त्ति यैः किलासता प्रतिपन्ना तैः स्त्रीरहिते प्रतिश्रये स्थातव्यमित्येतदप्येते न जानन्ति । तीर्थस्य चावणों भवति, सर्वेऽप्येते ताशा इति । त एते दोषा अत उत्सर्गतः सागारिकस्यानिश्रया वस्तव्यम् । कारणे तु निश्रयाऽपि कल्पते वस्तुम् । तचेदम्
[ भा. २४४८] तेना सावय मसगा, कारण निक्कारणे य अहिगरणं । एएहिं कारणेहिं, वसंति नीसा अनीसा वा ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org