________________
बृहत्कल्प-छेदसूत्रम् -२-१/२३
वृ- प्रार्थयन्नप्यार्यां समर्थसागारिकनिश्रितां तरुणादिजनः 'शङ्कते' बिभेतीत्यर्थः । तथा प्रार्थ्यमानोऽपि संयतीजनः 'बलिनः' समर्थस्य शय्यातरस्य शङ्कते । अपि च यथा सेना बलपतिनासेनानायकेन यथा वा वधूर्बलवता श्वशुरपक्षेण पितृपक्षेण च गुप्ता रक्षिता शोभते तथा आर्याऽपि बलवता शय्यातरेण परिगृहीता सती विराजते ।। अमुमेवार्थं व्यतिरेकभङ्गया दृष्टान्तेन द्रढयति
८२
[भा. २४४०] सुना पसुसंधाया, दुब्बलगोवा य कस्स न वितक्का। इय दुब्बलनिस्साऽ निस्सिया व अज्जा वितक्काओ ।।
वृ- ‘शून्याः’ रक्षापालविरहिताः 'दुर्बलगोपा वा' असमर्थरक्षपालपरिगृहीताः 'पशुसङ्गाताः' गवादिपशुवर्गा कस्य न 'वितक्या ' अभिलषणीया भवन्ति ? | 'इति' अमुना प्रकारेण दुर्बलशय्यातरनिश्रिताः सर्वथैवानिश्रिता वा आर्या सर्वस्यापि 'वितक्या' प्रार्थनीया भवन्ति । अत्रैवार्थे दृष्टान्तान्तराणि दर्शयति
[भा. २४४१]
अइया कुलपत्तगभोइया उ पक्कन्नमेव सुन्नम्मि । इच्छमनिच्छे तरुणा, तेणा उवहिं व ताओ वा ।।
वृ- 'अजिका' छगलिका, कुलपुत्रकाणां च भोजिका महिला, 'पक्वात्र' मोदका - ऽशोकवत्यार्दि, यथैतानि शून्ये वर्त्तमानानि सर्वस्यापि स्पृहणीयानि भवन्ति एवं श्रमण्योऽपपि । तथा “इच्छमनिच्छे तरुण” त्ति तरुणान् प्रार्थयमानान् यदि ता इच्छन्ति ततो ब्रह्मव्रतभङ्गः, अथ नेच्छन्ति ततस्ते बलादपि तासां ग्रहणं कुर्यु । स्तेना उपधिं वा 'ता वा' संयतीरपहरेयुः ॥
[भा. २४४२ ] उच्छुय- घय-गुल- गोरस- एलाकुग- माउलिंगफलमादी । पुप्फविही गंधविही, आभरणविहीं य वत्थविही ।।
वृ- इक्षु-घृत - गुड-गोरसाः प्रतीताः, 'एलालुकानि' चिर्मटानि, 'मातुलिङ्गफलानि' बीजपूराणि, आदिशब्दादाप्रादिपरिग्रहः, तथा 'पुष्पविधिः ' चम्पकादिका पुष्पजाति, गन्धाः - कोष्ठपुटपाकादयस्तेषां विधि- प्रकारो गन्धविधि, एवमाभरणविधिर्वस्त्रविधिश्च । एते इक्षुप्रभृतयः शून्या दुर्बलपरिगृहीता वा यथा सर्वस्यापि स्पृहणीयास्तथा संयत्योऽप्यनिश्रिता दुर्बलसागारिकनिश्रिता वा तरुणादीनां स्पृहणीयाः । अतोऽनिश्रया दुर्बलनिश्रया वा न स्थातव्यम् । भवेत् कारणं येनानिश्रयाऽपि तिष्ठेयुः । कथम् ? इति चेद् उच्चते
[भा. २४४३ ] अद्धाणनिग्गयादी, तिक्खुत्तो मग्गिऊण असईए । संवरणं वसभा वा, ताओ व अपच्छिमा पिंडी ||
वृ- अध्वनो निर्गता आदिशब्दादध्वनि वहमनका अध्वशीषे प्राप्ता वा त्रिकृत्वः परिगृहीतां वसतिं मार्गयित्वा यदि न प्राप्यते ततः सागारिकस्यानिश्रयाऽपि तिष्ठेयुः । तत्र च 'संवरणं' कपाटं तदन्यतोSपि मार्गयित्वा दातव्यम् । अथ कपाटं न प्राप्यते ततो वृषभा गृहीभूय यः कश्चित् तरुणादि संयतीरुपद्रवति तं प्रहरणादिभिर्निवारयन्ति । अथ वृषभा न सन्ति ततस्ता एव संयत्यो दण्डकव्यग्रहस्ताः पिण्डीभूय तिष्ठन्ति, यस्तत्रोपद्रवं चिकिर्षति तं दण्डकमुद्यम्य निवारयन्ति, बोलं च महता शब्देन कुर्वन्ति । एषा अपश्चिमा यतनेति अथवाभोइय- महतरगाई, समागयं वा भणंति गामं तु ।
[भा. २४४४]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org