________________
१३०
बृहत्कल्प-छेदसूत्रम् -२-१/३४ दाचार्योपाध्यायावपिगृह्येते, अधिक्रियते-नरकगतिगमनयोग्यताप्राप्यतेआत्माअनेनेत्यधिकरणं कलहः प्राभृतमित्येकोऽर्थः, तत् ‘कृत्वा' तथाविधद्रव्य-क्षेत्रादिसाचिव्योपबृंहितात्कषायमोहनीयोदयाद्वितीयसाधुना सह विधायततः स्वयमन्योपदेशेन वा परिभाव्य तस्यैहिकामुष्मिकापायबहुलतांतद्अधिकरणं विविधम्-अनेकैः प्रकारैः स्वापराधप्रतिपत्तिपुरःसरं मिथ्यादुष्कृतप्रदानेन 'अवशमय्य' उपशमं नीत्वा ततो विशेषेणावसायितम्-अवसानं नीतं प्राभृतं-कलहो येन स व्यवसायितप्राभृतः-व्युत्सृष्टकलहो भवेत् । किमुक्तं भवति ?-गुरुसकाशे स्वदुश्चरितमालोच्य तत्प्रदत्तप्रायश्चित्तंच यथावत्प्रतिपद्य भूयस्दकरणायाभ्युत्तिष्ठेत् ।आह येनसह तदधिकरणमुत्पन्नं सयधुपशम्यमानोऽपिनोपशाम्यति ततःको विधिः? इत्याह-“इच्छाए परोआढाएज्जा" इत्यादि सूत्रम् । ‘इच्छया' यथास्वरुच्या परः' अन्यो द्वितीयः साधुराद्रियेत् इच्छयापरोनाद्रियेत,प्रागिव सम्भाषणादिभिरादरं कुर्याद्वा न वेति भावः । एवमिच्छया परस्तमभ्युत्तिष्ठेत्, इच्छया परो नाऽभ्युत्तिष्ठेत् । इच्छया परस्तं साधुंवन्देत, इच्छया परो न वन्देत । इच्छया परस्तेन साधुना सह 'सम्भुञ्जीत' एकमण्डल्यांभोजनंदानग्रहणसम्भोगंवा कुर्यात्, इच्छया परोन सम्भुञ्जीत । इच्छया परस्तेन साधुना सह 'संवसेत् सम्-एकीभूयैकत्रोपाश्रये वसेत्, इच्छया परोन संवसेत् । इच्छया पर उपशाम्येत, इच्छया परो नोपशाम्येत । परं यः 'उपशाम्यति' कषायतापापगमेन निवृतो भवति तस्यास्ति सम्यग्दर्शनादीनामाराधना, यस्तु नोपशाम्यति तस्य नास्ति तेषामाराधना । 'तस्मात्' एवं विचिन्त्य आत्मनैव 'उपशान्तव्यम्' उपशमः कर्तव्यः । शिष्यः प्राह-“से किमाहु भंते !" अथ किमत्र कारणमहुः ‘भदन्त!' परमकल्याणयोगिन् ! तीर्थकरादयः ? । सूरिराहउपशमसारंश्रामण्यम्, तद्विहीनस्यतस्यनिष्फलतयाऽभिधानात्। उक्तञ्चदशवैकालिकनियुक्तौ
सामन्नमनुचरंतस्स कसाया जस्स उक्कडा होति।
मन्नामि उच्छुपुष्फं, व निष्फलं तस्स सामन्नं ॥ - इति सूत्रार्थः । अथ विषमपदानि भाष्यकृद् विवृणोति[भा.२६७७] घेप्पंति चसद्देणं, गणि आयरिया य भिक्खुणीओय।
अहवा भिक्खुग्गहणा, गहणं खलु होइ सव्वेसिं । वृ-इह सूत्रे भिक्षुच्चेति यश्चशब्दस्तेन 'गणी' उपाध्यायस्तथा आचार्यों भिक्षुण्यश्च गृह्यन्ते । अथवा 'भिक्षुग्रहणात्' भिक्षुपदोपादानात् सर्वेषामप्याचार्यादीनां ग्रहणं द्रष्टव्यम्, “एकग्रहणे तज्जातीयानां सर्वेषां ग्रहणम्" इति वचनात्॥ [भा.२६७८] खामिय वितोसिय विनासियंच झवियं च होंति एगट्ठा।
पाहुड पहेण पणयण, एगट्ठा ते उ निरयस्स ।। वृक्षामितंव्यवशमितं विनाशितं क्षपितमितिचैकार्थानिपदानि भवन्ति।तथा प्राभृतंप्रहेणकं प्रणयनमिति वा त्रीण्यप्येकार्थानि । तानि तु प्राभृतादीनि 'निरयस्य' नरकस्य मन्तव्यानि, यत एतदधिकरणं नरकस्य-सीमन्तकादेः प्रामृतमिव प्राभृतमुच्यते, एवं प्रहेणक-प्रणयनपदे अपि भावनीये॥ [भा.२६७९] इच्छा न जिनादेसो, आढा उन आदरो जहा पुट्वि ।
भुंजण वास मणुत्रे, सेस मणुने वइतरे वा ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org